शिवस्तुतिः (रावणविरचिता)

शिवस्तुतिः
रावणः
१९५३

॥ शिवस्तुतिः॥


   गले कलितकालिमः प्रकटितेन्दु फालस्थले विना-
टितजटोत्करं रुचिरपाणिपाथोरुहे, उदञ्चितकपा-
लजं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि
धाम वन्दामहे ॥ १
   वृषोपरि परिस्फुरद्धवळदाम धामश्रिया कुबेरगिरि
गौरिमप्रभवगर्वनिर्वासि तत् । क्वचित्पुनरुमाकुचो-
पचितकुङ्कुमैरञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं
भजे ॥ २
   उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकर-
कलाकरव्यतिकरेण चाहर्निशम् । विकासितजटाट-
वीविहरणोत्प्तवप्रोल्लसत्तरामरतरङ्गिणीतरळचूडमीडे -
मृडम् ॥ ३
   विहाय कमलालयाविलसितानि विद्युन्नटी
विडम्बनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि

शिवस्तुति ४१३


कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटि-
चर्मणि ब्रह्मणि ॥ ४
   भवद्भवनदेहलीविकटतुण्डदण्डाहतित्रुटन्मुकुटको-
टिभिर्मघवदादिभिर्भूयते । व्रजेम भवदन्तिकं प्रकृति-
मेत्य पैशाचकीं किमित्यमरसम्पदः प्रमथनाथ नाथा-
महे ।। ५
  त्वदर्चनपरायणप्रमथकन्यकालुण्ठितप्रसून सफल-
द्रुमं कमपि शैलमाशास्महे । अलं तटवितर्दिंकाश-
यितसिद्धसीमन्तिनीप्रकीर्णसुमनोमनोरमणमेरुणामे-
रुणा ॥ ६
  न जातु हर यातु मे विषयदुर्विलासं मनो मनो-
भवकथास्तु मे न च मनोरथातिथ्यभूः । स्फुरत्सुरत-
रङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव
भवानि पूजापरः ॥ ७
   विभूषणसुरापगाशुचितरालवालावळीवलद्वहल-
सीकरप्रकरसेकसंवर्धिता । महेश्वरसुरदुमस्फुरित -

४१४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


सज्जटामञ्जरीनमज्जनफलप्रदा मम नु हन्त भूयादियम्॥ ८
   बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेस्समाधि-
कलितात्मनः पशुपतेरशेषात्मनः । शिरस्सुरसरित्तटी
कुटिलकल्पकल्पद्रुमं निशाकरकळामहं वटुविमृष्य-
माणां भजे ॥ ९
त्वदीयसुरवाहिनीविमलवारिधारावलज्जटा -
गहनगाहिनी मतिरियं मम क्रामतु । सुरोत्तमसरि-
त्तटीविटपिपताटवीप्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लि
काभ प्रभो ॥ १०

॥ इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः ॥