शिवानन्दलहरी
शङ्कराचार्यः
१९१०

॥ श्रीः ।।

॥ शिवानन्दलहरी ॥



कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः-
 फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
 र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥

गलन्ती शंभो त्वच्चरितसरित: किल्बिषरजो
 दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।
दिशन्ती संसारभ्रमणपरितापोपशमनं
 वसन्ती मञ्चेतोह्रदभुवि शिवानन्दलहरी ॥ २ ॥

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
 जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपतिं
 चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
 न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरिब्रह्मादीनामपि निकटभाजामसुलभं
 चिरं याचे शंभो शिव तव पदाम्भोजभजनम् ॥ ४ ॥

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
 पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
 पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५ ॥

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचल:
 पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
 पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥

मनस्ते पादाब्जे निवसतु वच: स्तोत्रफणितौ
 करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
 परग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ ७ ॥



यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-
 र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
 महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥

गभीरे कासारे विशति विजने घोरविपिने
 विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतःसरसिजमुमानाथ भवते
 सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९ ॥

नरत्वं देवत्वं नगवनमृगत्वं मशकता
 पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-
 विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
 नरो वा य: कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हॄत्पद्मं यदि भवदधीनं पशुपते
 तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११ ॥


गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे
 जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
 स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२ ॥

असारे संसारे निजभजनदूरे जडधिया
 भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-
 स्त्वदन्यः को वा मे त्रिजगति शरण्य: पशुपते ॥ १३ ॥

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
 प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकला:
 प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥

उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां
 दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
 कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥


विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-
 श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद कृपया पाति शिव ते
 कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
 प्रसन्नेऽपि स्वामिन भवदमलपादाब्जयुगलम् ।
कथं पश्येयं मां स्थगयति नमःसंभ्रमजुषां
 निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं
 वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
 कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८ ॥

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
 दुरन्ते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
 वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९ ॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
 नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
 दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २० ॥

धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां
 विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
 जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ २१ ॥

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
 प्रवेशोद्युक्त: सन्भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शंकर विभो
 तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
 विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता-
 मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३ ॥


कदा वा कैलासे कनकमणिसौधे सह गणै-
 र्वसञ्शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामिन्परमशिव पाहीति निगद-
 न्विधातॄणां कल्पान्क्षणमिव विनेष्यामि सुखतः ॥ २४ ॥

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
 गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
 कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
 गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला-
 नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६ ॥

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
 गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे ।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
 कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ २७ ॥


सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
 सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे ।
सालोक्यं च चराचरात्मकंतनुध्याने भवानीपते
 सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम् ॥ २८ ॥

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
 त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
 शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥

वस्त्रोद्भूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
 गन्धे गन्धवहात्मतान्नपचने वर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद्वालेन्दुचूडामणे
 शुश्रूषां करवाणि ते पशुपते स्वामिन्स्त्रिलोकीगुरो ॥ ३० ॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
 पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
 निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१ ॥


ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
 दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धधुटिका वा कण्ठदेशे भृतः
 किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥ ३२ ॥

नालं वा सकृदेव देव भवत: सेवा नतिर्वा नुति:
 पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
 का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ ३३ ॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
 द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
 पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ ३४ ॥

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
 दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवत: किं वेदितव्यं मया
 शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ ३५ ॥


भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मन:-
 कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
 न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ ३६ ॥

आम्नयाम्बुधिमादरेण सुमन:संधा: समुद्यन्मनो
 मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरूं सुपर्वसुरभिं चिन्तामणिं धीमतां
 नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७ ॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
 सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतःपुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
 प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८ ॥

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
 कामक्रोधमदादयो विगलिताः काला: सुखाविष्कृतः ।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
 मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥


धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-
 रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमा: साफल्यमातन्वते
 दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ ४० ॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
 स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनॢश्रोत्रैरहं प्रार्थितो
 मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवच: ॥ ४१ ॥

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-
 स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
 दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
 स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-
 स्तान्हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि ॥ ४३ ॥


करलग्नमृगः करीन्द्रभङ्गो
 घनशार्दूलविखण्डनोऽस्तजन्तुः ।
गिरिशो विशदाकृतिश्च चेत:-
 कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ ४४ ॥

छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
 सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतःपक्षिशिखामणे त्यज वृथासंचारमन्यैरलं
 नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-
 राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
 स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६ ॥

शुंभुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः
 स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना
 ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
 स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।
शुंभुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं
 किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८ ।।

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
 स्थैयौपघ्ननमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।
 उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
 नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ।।

संध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं
 सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
 सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥

भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-
 ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
 राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥५१॥

कारुण्यामृतवर्षिणं धनविपद्ग्रीष्मच्छिदाकर्मठं
 विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् ।
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
 शंभो वाञ्छति नीलकंधर सदा त्वां मे मनश्चातकः ॥ ५२ ॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
 नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
 वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥

संध्या धर्मदिनात्ययो हरिकराघातप्रभूतानक-
 ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला।
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
 यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥५४॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
 विद्यानन्दमयात्मने त्रिजगत: संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
 सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५५ ॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
 सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये ।
मायासृष्टजगत्रयाय सकलाम्नायान्तसंचारिणे
 सायंताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६ ।।

नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया
 व्यर्थ पर्यटनं करोमि भवत: सेवां न जाने विभो ।
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-
 स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ।। ५७ ॥

एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं
 भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।
वेद्यः किं न भवस्यहो धनतरं कीदृग्भवेन्मत्तम-
 स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ।। ५८ ॥

इंस: पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
 कोक: कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
 गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ।। ५९ ॥

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
 भीतः स्वस्थगृहं गृहस्थमतिथिर्दीन: प्रभुं धार्मिकम् ।
दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
 चेत: सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम् ॥ ६० ॥

अङ्कोलं निजबीजसंततिरयस्कान्तोपलं सूचिका
 साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
 चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥६१॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
 वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रश्नां भवद्भावना-
 पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ।। ६२ ।।

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
 गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
 भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥६३ ।।

वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं
 भूभृत्पर्यटनं नमत्सुरशिर:कोटीरसंघर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
 मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ।। ६४ ॥

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
 कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
 यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५ ।।

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना
 यत्कर्माचरितं मया च भवत: प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
 तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया || ६६ ॥

बहुविधपरितोषबाष्पपूर-
 स्फुटपुलकाङ्कितचारुभोगभूमिम् ।
चिरपदफलकाङ्क्षिसेव्यमानां
 परमसदाशिवभावनां प्रपद्ये ॥ ६७ ।।

अमितमुदमृतं मुहुर्दुहन्तीं
 विमलभवत्पदगोष्ठमावसन्तीम् ।
सदय पशुपते सुपुण्यपाकां
 मम परिपालय भक्तिधेनुमेकाम् ।। ६८ ॥

जडता पशुता कलङ्किता
 कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
 भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ।।

अरहसि रहसि स्वतन्त्रबुद्ध्या
 वरिवसितुं सुलभ: प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
 जगदधिको हृदि राजशेखरोऽस्ति ।। ७० ।।

आरूढभक्तिगुणकुञ्चितभावचाप-
 युक्तैः शिवस्मरणबाणगणैरमोधैः ।
निर्जित्य किल्बिषपरिपून्विजयी सुधीन्द्रः
 सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
 भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
 ये पादपद्ममिह ते शिव ते कृतार्थाः ।। ७२ ॥

भूदारतामुदवहद्यदपेक्षया श्री-
 भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
 पादारविन्दभजनं परमेश्वरस्य ॥ ७३ ॥

आशापाशक्लेशदुर्वासनादि-
 भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।
आशाशाटीकस्य पादारविन्दं
 चेत:पेटीं वासितां मे तनोतु ॥ ७४ ।।

कल्याणिनं सरसचित्रगतिं सवेगं
 सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् |
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
 नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५ ॥

भक्तिर्महेशपदपुष्करमावसन्ती
 कादम्बिनीव कुरुते परितोषवर्षम् ।
संपूरितो भवति यस्य मनस्तटाक-
 स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ।। ७६ ।।

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
 सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शनकीर्तनादि
 संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७ ॥

सदुपचारविधिष्वनुबोधितां
 सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
 वरगुणेन नवोढवधूमिव ।। ७८ ॥

नित्यं योगिमन:सरोजदलसंचारक्षमस्त्वत्क्रमः
 शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
 त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ।। ७९ ॥

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
 द्रक्षायै गिरिसीम्नि कोमलपदन्यास: पुराभ्यासितः ।
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
 प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥ ८० ॥

कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः
 कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः ।
कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
 यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥ ८१ ॥

वाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
 घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतावांस्त्वद्देहभागो हरिः
 पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ ८२ ॥

जननमृतियुतानां सेवया देवतानां
 न भवति सुखलेश: संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
 य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ।।


 शिव तव परिचर्यासंनिधानाय गौर्या
  भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
 सकलभुवनबन्धो सच्चिदानन्दसिन्धो
  सदय हृदयगेहे सर्वदा संवस त्वम् ।। ८४ ॥


 जलधिमथनदक्षो नैव पातालभेदी
  न च वनमृगयायां नैव लुब्धः प्रवीणः ।
 अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
  कथय कथमहं ते कल्पयानीन्दुमौले ।। ८५ ।।


 पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
  पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
 जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
  न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६।।


 अशनं गरलं फणी कलापो
  वसनं चर्म च वाहनं महोक्षः ।
 मम दास्यसि किं किमस्ति शंभो
  तव पादाम्बुजभक्तिमेव देहि ।। ८७ ।।


 यदा कृताम्भोनिधिसेतुबन्धनः
  करस्थलाधःकृतपर्वताधिपः ।
 भवानि ते लङ्घितपद्मसंभव-
  स्तदा शिवार्चास्तवभावनक्षमः ॥ ८८ ॥


 नतिभिर्नुतिभिस्त्वमीश पूजा-
  विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
 धनुषा मुसलेन चाश्मभिर्वा
  वद ते प्रीतिकरं तथा करोमि ।। ८९ ।।


 वचसा चरितं वदामि शंभो-
  रहमुद्योगविधासु तेऽप्रसक्तः ।
 मनसाकृतिमीश्वरस्य सेवे
  शिरसा चैव सदाशिवंनमामि ॥ ९०॥


 आद्याविद्या हृद्गता निर्गतासी-
  द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
 सेवे नित्यं श्रीकरं त्वत्पदाब्जं
  भावे मुक्तेर्भाजनं राजमौले ।। ९१ ॥


 दूरीकृतानि दुरितानि दुरक्षराणि
  दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि ।
 सारं त्वदीयचरितं नितरां पिबन्तं
  गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२ ॥


 सोमकलाधरमौलौ
  कोमलघनकंधरे महामहसि ।
 स्वामिनि गिरिजानाथे
  मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥

 


 सा रसना ते नयने
  तावेव करौ स एव कृतकृत्यः ।
 या ये यौ यो भर्गं
 वदतीक्षेते सदार्चतः स्मरति ॥ ९४ ॥


 अतिमृदुलो मम चरणा-
  वतिकठिनं ते मनो भवानीश ।
 इति विचिकित्सां संत्यज
 शिव कथमासीद्गिरौ तथा वेशः ।। ९५ ॥


S.S. 4


 धैर्याङ्कुशेन निभृतं
  रभसादाकृष्य भक्तिशृङ्खलया ।
 पुरहर चरणालाने
  हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥


 प्रचरत्यभितः प्रगल्भवृत्त्या
  मदवानेष मन:करी गरीयान् ।
 परिगृह्य नयेन भक्तिरज्ज्वा
  परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥


 सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
  सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
 उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
  कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण


 इदं ते युक्तं वा परमशिव कारुण्यजलधे
  गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
 हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
  कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९॥


 स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
  स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।
 माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
  द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥



इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवानन्दलहरी संपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=शिवानन्दलहरी&oldid=289311" इत्यस्माद् प्रतिप्राप्तम्