← तृतीयः सर्गः शिशुपालवधम्
चतुर्थः सर्गः
माघः
पञ्चमः सर्गः →

निःश्वासधूमं सह रत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणाम् ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥४.१॥

गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥४.२॥

क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम्।
श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥४.३॥

सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानं ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४.४॥

क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणि बिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिं ॥४.५॥

छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानां ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः ॥४.६॥

स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तं ॥४.७॥

विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानं ॥४.८॥

राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणां ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तं ॥४.९॥

मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥४.१०॥

यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।
आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥४.११॥

अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥४.१२॥

यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥४.१३॥

विभिन्नवर्णागरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥४.१४ ॥

यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानां ॥४.१५॥

फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥४.१६॥

दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥४.१७॥

उच्चारणज्ञेऽथ गिरा दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥४.१८॥

आच्छादितायतददिगम्बरमुच्चकैर्गा-
माक्रम्य संस्थितमुदग्रविशालशृङ्गम् ।
मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेन-
मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥४.१९॥

उदयतिविततरःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥४.२०॥

वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचल एष भवानिव राजते स हरितालसमाननवांशुकः ॥४.२१॥

पाश्चात्यभागमिह सानुषु सन्निषण्णाः
पश्यन्ति शान्तमलसान्द्रतरांशुजालं ।
संपूर्णलब्धललनालापनोपमान-
मुत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥४.२२॥

कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥४.२३॥

स्थगयन्त्यमूः शामितचातकार्तस्वरा
जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिहस्फुरितचारुचामीकराः
सवितुः कचित्कपिशयन्ति चामी कराः ॥४.२४॥

उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै-
रुत्तम्भितोडुभिरतिवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य
विष्वक्तटेषु पतति स्फुटमन्तरीक्षं ॥४.२५॥

एकत्र स्फटिकतटांशुभिन्ननीरा
नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः ॥४.२६॥

इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।
स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥४.२७॥

उच्चैमहारजतराजिविराजितासौ
दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारे-
रुद्वह्निलोचनललामललाटलीलां ॥४.२८॥

अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥४.२९॥

धूमाकारं दधति पुरः सौवर्णे
वर्णेनाग्नेः सदृशि तटे पश्यामी ।
श्यामीभूताः कुसुमसमूहोऽलीनां
लीनामालीमिह तरवो बिभ्राणाः ॥४.३०॥

व्योमस्पृशः प्रथयता कलधौतभित्ती-
रुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभा-
मेतेन भारतमिलावृतवद्विभाति ॥४.३१॥

रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥४.३२॥

कुशशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥४.३३॥

आसादितस्य तमसा नियतेर्नियोगा-
दाकाङ्क्षतःपुनरपक्रमणेन कालम् ।
पत्युस्त्वषामिह महौषधयः कलत्र
स्थानं परैननभिभूतममूर्वहन्ति ॥४.३४॥

वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥४.३५॥

विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयं ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥४.३६॥

विद्वद्भिरागमपरैर्विवृतं कथञ्चि-
च्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं
गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥४.३७॥

बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्र-
श्चुम्बन्तं मुखमिह किंनरं प्रियायाः ।
श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्री-
मुत्तुङ्गस्तनभरभङ्गभीरुमध्यां ॥४.३८॥

यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालं ।
न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालं ॥४.३९॥

दन्तोज्ज्वलासु विमलोपलमेखलान्ताः
सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन्भजन्ति घनक्ॐअलगण्डशैला
नार्योऽनुरूपमधिवासमधित्यकासु ॥४.४०॥

अनतिचिरोज्झितस्य जलदेन चिर-
स्थितबुद्ध्युदयस्य पयसोऽनुकृतिं ।
विरलविकीर्णवज्रशकला सकला
मिह विदधाति धौतकलधौतमही ॥४.४१॥

वर्जयन्त्या जनैः संगमेकान्तत-
स्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
योषयैष स्मरासन्नतापाङ्गया
सेव्यतेऽनेकया संन्नतापङ्गया ॥४.४२॥

संकीर्णकीचकवनस्खलितैकवाल-
विच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्र-
र्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥४.४३॥

मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रै-
र्वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ-
श्छायामच्छामृच्छति नीलीसलिलस्य ॥४.४४॥

या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानं ।
तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानां ॥४.४५॥

भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दो-
रुच्चावचैरुपगतेषु सहस्रसंख्यां ।
दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ॥४.४६॥

अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।
अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥४.४७॥

मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४.४८॥

प्राग्भागतः पतदिहेदमुपत्यकासु
शृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यतेविविधरत्नकरानुविद्ध-
मूर्ध्वप्रसारितसुराधिपचापचारु ॥४.४९॥

दधाति च विकसद्विचित्रकल्प-
द्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः
शिखरशिखाः शिखिशेखरानमुष्य ॥४.५०॥

सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः ।
नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥४.५१॥

आच्छाद्य पुष्पपटमेव महान्तमन्त-
रावर्तिभिर्गृहकपोतशिरोधराभैः ।
शस्वङ्गानि धूमरुचिमागुरवीं दधानै-
र्धूपायतीव पटलैर्नीरदानां ॥४.५२॥

अन्योन्यव्यतिकरचारुभिर्विचित्रै-
रत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।
विस्मेरान्गगनसदः करोत्यमुष्मि-
न्नाकाशेरचितमभित्ति चित्रकर्म ॥४.५३॥

समीरशिशिरः शिरःसुवसता
सता जवनिका निकानसुखिनां ।
बिभर्तिजनयन्नयं मुदमपा
मपायधवला वलाहकततीः ॥४.५४॥

मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य
वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥४.५५॥

मरकतमयमेदिनीषु भानो-
स्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मी-
मिह दधति श्फुरिताणुरेणुजालाः ॥४.५६॥

या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥४.५७॥

सायं शशाङ्गकिरणाहतचन्द्रकान्त-
निस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्ता-
स्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥४.५८॥

एतस्मिन्नधिकपयःश्रियं वहन्त्यः
संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां
साधर्म्यं दधति गिरां महासरस्यः ॥४.५९॥

इह मुहुर्मुदितैः कलभै रवः
प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः
कनकरत्नभुवां च मरीचयः ॥४.६०॥

त्वक्साररन्ध्रपरिपूरणलब्धगीति-
रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति
रागीव सक्तिमधिकां विषयेषु वायुः ॥४.६१॥

प्रीत्यै यूनां व्यवहिततपनाः
प्रौढद्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधाति सुरत-
क्रीडायासश्रमपटवः ॥४.६२॥

भग्ने निवासोऽयमिहास्य पुष्पैः
सदानतः येन विषाणि नागः ।
तीव्राणि तेनोज्झति कोपितोऽसौ
ससानतोयेन विषाणि नागः ॥४.६३॥

प्रालेयशीतलमचलेश्वरमीश्वरोऽपि
सान्द्रभचर्मवसनावरणाधिशेते ।
सर्वर्तुनिवृत्तिकरे निवसन्नुपैति
न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥४.६४॥

नवनगवनलेखाश्यामध्याभिराभिः
स्फटिककटकभूमिनाटयत्येष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागै-
रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥४.६५॥

दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-
र्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं
हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥४.६६॥

दर्पणनिर्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसंमुखोऽपि रमणैरपहृतवसनाः
खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥४.६७॥

अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ
त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं
हलधरपरिधानश्यामलैरम्बुवाहैः ॥४.६८॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के रैवतक-
वर्णनं नाम चतुर्थः सर्गः ।