शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/अष्टादशः सर्गः(सङ्कुलयुद्धवर्णनम्)

← सप्तदशः सर्गः(यदुवंशक्षोभणम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
अष्टादशः सर्गः(सङ्कुलयुद्धवर्णनम्)
माघः
एकोनविंशः सर्गः(युद्धवर्णनम्) →


अष्टादशः सर्गः।

 अथाग्रिमसगै तुमुलयुद्धवर्णनाय सेनयोर्मेलनं तावदाह-

 संजग्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।
 पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥१॥

 संजग्माते इति ॥ अपायोऽपगमो युद्धादपसरणं तस्यानपेक्षौ तमनिच्छन्तौ । युद्धादनिवर्तिनावित्यर्थः । ईक्षतेः पचाद्यचि नन्समासः । धीरनादौ गम्भीरघोषौ तौ सेनाम्भोधी सेनासागरौ । पक्षच्छेदात्पूर्वं पश्चादसंभवादिति भावः । एकत्र देशे एकस्थाने निलेतुं वस्तुम् । 'लीङ् गतौ' इति धातोस्तुमुन्प्रत्यये गुणः । वान्छन्ता- विच्छन्तौ सह्यविन्ध्यौ वा सह्यविन्ध्याख्यौ पर्वताविव । 'वास्याद्विकल्पोपमयोः' इति विश्वः । संजग्माते मिलितवन्तौ । संपूर्वाद्गच्छतेरकर्मकाल्लिटि ‘समो गम्यृच्छि-' (१॥३।२९) इत्यादिना आत्मनेपदम् । अत्र सह्यविन्ध्ययोः सपक्ष- योरप्येकत्र मिलनस्याप्रसिद्धस्य संभावनामात्रेणोक्तत्वादुपमानाप्रसिद्धेनॊपमा किंतू- प्रेक्षेति संक्षेपः । अस्मिन्सर्गे शालिनी वृत्तम् । 'शालिन्युक्ता म्तौ तगौ गोऽब्धि- लोकैः' इति लक्षणात् ॥१॥  'सेनाम्भोधी संजग्माते' (१८।१) इत्युक्तं तत्संगतिप्रकारं तावद्वर्णयति-

 पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।
 इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गंप्रत्यनीकस्य भेजे ॥ २॥

 पत्तिरिति ॥ पत्तिः पदातिः पत्तिं पदातिम् । ‘पदातिपत्तिपतगपादातिकपदा- तयः' इत्यमरः । एयाय प्राप। आङ्पूर्वादिणो लिट् । वाज्यश्वो वाहमश्वमेयाय । 'वाजिवाहार्वगन्धर्व-' इत्यमरः । नागो गजो नागमेयाय । स्यन्दनस्थो रथस्थमे- याय, न तु व्युत्क्रमेण, धर्मयुद्धत्वादिति भावः । इतीत्थमुक्तरीत्या सेना रागाद्र- णरागात्, रतिरागाच्च । अङ्गेन स्वाङ्गेन पत्त्यादिना, करचरणादिना च वल्लभस्य प्रियतमस्येव प्रत्यनीकस्य प्रतिबलस्य । 'वरूथिनी बलं सैन्यं चक्रं चानीकम- स्त्रियाम्' इत्यमरः । अङ्गं पत्त्यादिकं, करचरणादिकं च भेजे । यथा कान्ता कान्तस्योरुमूरुणा करं करेण मुखं मुखेन भजति तथा सेना प्रतिसैन्यस्य पत्तिं पत्तिना अश्वमश्वेनेत्यादिक्रमेण भेजे न तु व्युत्क्रमेणेत्यर्थः । वल्लभस्येवेत्युपमया समरसुरतयोः समरसत्वं व्यज्यते ॥ २ ॥

 रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां हेषया च ।
 व्योमव्यापी संततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः ॥३॥

 रथ्येति ॥ संततं व्योमव्यापी गगनस्पृक्, अन्यत्र सर्वगत इत्यर्थः । दुन्दु- भीनां रणभेरीणां प्रणादो महाघोषः । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८।४॥ १४) इति णत्वम् । रथानां समूहो रथ्या । 'त्रिषु द्वैपादयो रथ्या रथकट्या रथ- व्रजे' इत्यमरः । 'खलगोरथात्' (४।२।५०) इति यत्प्रत्ययः समूहार्थे । तासां घोषैः वारणानां बृंहणैः कण्ठघोषैः । 'बृहणं गजगर्जितम्' इति वैजयन्ती । वाजि- नामश्वानां हेषया हेषणेन च । 'हेषा हेषा च निस्वनः' इत्यमरः । 'गुरोश्च हलः' (३।३।१०३) इत्यप्रत्यये टाप् । ऐक्यं मेलनं गच्छन् । अन्यत्र तत्त्वंपदार्थशोध- नादद्वितीयतां गच्छन् । ईशिता ईशयिता ईश्वरत्वोपाधिमान्परमात्मेव । ईशे- स्तृच् । अव्यक्तोऽभूत् अयं दुन्दुभिघोष इति दुर्भेदो बभूव । अन्यत्र जीवेश्वरोपा- धिविलयात् 'अयमीश्वरः, अयं जीव' इति भेदरहितोऽभूदित्यर्थः । अत्रैक्यगमनस्य विशेषणगत्या अव्यक्तहेतुत्वात्काव्यलिङ्गमुपमाङ्गमिति संकरः ॥ ३॥

 रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलवाहुध्वजानाम् ।
 दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां श्रेजिरे खड्गलेखाः॥४॥

 रोषावेशादिति ॥ रोषावेशात्प्रत्यमित्रमभिशत्रुम् । आभिमुख्येऽव्ययी- भावः । गच्छतां धावतां द्रवतां दूरादुत्क्षिप्ता उद्यताः स्थूलाः पीवराः बाहुध्वजाः ध्वजस्तम्भा इव बाहवो येषां तेषां पादातानां पदातिसमूहानाम् । 'पादातं पत्तिसंहतिः' इत्यमरः । “षिद्भिदादिभ्योऽङ्' (३।३।१०४)। तिर्य- ग्दीर्घाः । तिर्यगायता इत्यर्थः । लेखा इव खगाः खङ्गलेखाः वैजयन्तीसदृश्यः । पताकासदृश्यः सत्य इत्यर्थः । 'वैजयन्ती पताका स्यात्' इत्यमरः । 'दृशेः समा- नान्ययोश्च' (वा०) इति 'कञ् च वक्तव्यः' इति समानशब्दोपपदादृशेः कन्प्रत्ययः । दृक्षे चेति वक्तव्यम्' (वा०) इति समानस्य सभावः । भ्रेजिरे रेजिरे। 'भ्राजृ दीप्तौ' इति धातोः कर्तरि लिट् । 'फणां च सप्तानाम्' (६।४।१२५) इति विकल्पादेत्वाभ्यासलोपौ । आर्थीयमुपमा ॥ ४ ॥

[* अत्र दृक्षशब्दपरत्वाभावेनास्य वार्तिकस्योपन्यासो भ्रममूलकः । तस्मात् 'दृग्दृश्व- तुषु' (६।३।८९) इति सूत्रेण सभावो बोध्यः ।]

 वर्धाबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुचलन्तः ।
 रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥५॥

 वर्धेति ॥ धौरितेन धौरिताख्येन गतिविशेषेण प्रयातां धावताम् । यातेर्लट: शत्रादेशः । अश्वीयानामश्वसमूहानाम् । 'केशाश्वाभ्यां यच्छावन्यतरस्याम्' (४।२।४८) इति छप्रत्ययः । उच्चकैरुच्चलन्तो गतिवशादूर्ध्वमुत्पतन्तः वर्धन्ते इति वर्ध्राणि पर्याणबन्धनवरत्राः । 'वर्ध्रं त्रपुवरत्रयोः' इति विश्वः । 'वृधुवधिवपिभ्यो रन्' इति रन्प्रत्ययः । लघूपधगुणो रपरः । तेष्वाबद्धाः स्थापिता रौक्माः सौवर्णाः स्थासकाः बुहृदाकारमण्डलानि व्याप्तदेहस्य सर्वाङ्गीणस्य मूर्तिभाजो मूर्तिभृतः दर्प- स्यान्तरस्य तेजसः शेषाः अन्तरमानाद्वहिर्निर्गता अतिरेका इव रेजुरित्युत्प्रेक्षा ॥५॥

 सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।
 कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः॥६॥

 सान्द्रेति ॥ सान्द्रत्वकाः सान्द्रवर्माणः । शैषिकः कप्प्रत्ययः । तल्पलाः पृष्ठवंशास्तेषु श्लिष्टाः कक्षाः मध्यबद्धवरत्रा येषां ते । 'दूष्या कक्षा वरत्रा स्यात्' इत्यमरः । गजानां विंशत्युत्तरशतायुषां द्वादश दशा भवन्ति तत्र चतुर्दशारू. ढाप्रौढशोभा । तदेवाह -अथ चतुर्थीमाङ्गीं शारीरीं शोभामाप्नुवन्तः । चत्वारिंश- द्वर्षदेश्या इत्यर्थः । इभा गजाः कल्पस्यान्ते मारुतेनोपजुन्नाः प्रलयमारुतप्रेरिताः गण्डशैलाः स्थूलोपला इव चण्डं तीव्रं चेलुः प्रतस्थिर इत्युपमा ॥ ६ ॥

 संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।
 रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥७॥

 संक्रीडन्तीति ॥ संक्रीडन्ती संघर्षात्कूजन्ती। 'समोऽकूजने च वक्तव्यम्' (वा०) इति वचनात्कूजने 'क्रीडोऽनुसंपरिभ्यश्च' (१॥३।२१) इति नात्मनेपदम् । रंहो- भाजां वेगभाजां स्यन्दनानां रथानामक्षस्य चकाधारकाष्टस्य धूरग्रमक्षधूः । 'अक्षं रथाङ्ग आधारे' इति वैजयन्ती । 'अनक्षे' इति निषेधात् 'ऋक्पू:-' (५।४।७४) इत्यादिना न समासान्तः । रागात् आरां प्रतोदमुद्यम्य तेजिता उत्साहिता अश्वा येन तस्य अग्रं चासौ कायश्च स उत्थितो यस्य तस्य । उत्थितपूर्वकायस्येत्यर्थः । आहितान्यादित्वात्साधुः । प्राजितुः सारथेः । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः । हाहाकारसुत्साहवर्धनार्थं हाहाशब्दम् । एवकार इत्यत्रैव- ग्रहणस्योपलक्षणत्वादन्यत्रापि यथादर्शनं शब्दनिर्देशात्कारप्रत्ययः । अथवा हाहा- कारं हाहाकरणम् । भावे घञ् प्रत्ययः । प्रत्यनन्दत् साधु साध्वित्यन्वमोदत । किमित्युत्प्रेक्षा ॥ ७ ॥

 कुर्वाणानां सांपरायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।
 संमार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चौः केतनानां पताकाः ॥८॥

 कुर्वाणानामिति ॥ उच्चैरुन्नताः केतनानां ध्वजस्तम्भानां पताका वैजयन्त्यः सांपरायान्तरायं युद्धविघ्नं कुर्वाणानाम् । 'अनीकं सांपरायिकम्' इत्यमरः । भूरेणूनां मार्जनाय प्रमार्जनार्थं मृत्युनान्तकेनोद्धूयमानाः प्रकम्प्यमानाः संमार्जन्यः शोधन्य इव भान्ति स्म । 'संमार्जनी शोधनी स्यात्' इत्यमरः । नूनमित्युत्प्रेक्षा ॥ ८॥

 उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
 आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ९

 उद्यन्नादमिति ॥ धन्विभिर्धनुष्मद्भिः । व्रीह्यादित्वादिनिः प्रत्ययः । निष्ठु- राणि कर्कशानि स्थूलानि पीवराण्युच्चैरुन्नतानि मण्डलत्वं दधन्ति वर्तुलत्वं दधा- नानि । एकत्राकर्षणादन्यत्र स्वभावाच्चेति भावः । कर्मणि प्रभवन्तीति 'कर्मण उकञ्' (५।१।१०३) कार्मुकाणि धनूंषि । उद्यन्नादमुज्जृम्भमाणघोषं यथा तथा काममास्फाल्यन्ते स्म पाटवपरीक्षार्थं पाणिभिरास्फालितानि । हस्तिनं रोहन्तीति हस्त्यारोहैर्निषादिभिः । कर्मण्यण् । कुञ्जराणां शिरांसि आस्फाल्यन्ते स्म । उत्सा- हार्थमिति भावः । अत्र कार्मुकाणां कुञ्जरशिरसां च प्रकृतानामेव निष्ठुरत्वादि- विशेषणसाम्येनौपम्यावगमात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ९ ॥

 घण्टानादो निखनो डिण्डिमानां ग्रैवेयाणामारवो वृंहितानि ।
 आमेतीव प्रत्यवोचत् गजानामुत्साहार्थं वाचमाधोरणस्य ॥१०॥

 घण्टानाद इति ॥ घण्टानादः किङ्किण्यादिघोषः डिण्डिमानां वाद्यविशेषाणां निस्वनः । ग्रीवासु भवानां अवेयाणां कण्ठशृङ्खलानां ग्रीवाभ्य एवेति ढक् प्रत्ययः । आरवः बृंहितानि बृंहणानि गजानां उत्साहार्थमाधोरणस्य हस्तिपकस्य । 'आधो- रणा हस्तिपकाः' इत्यमरः । 'वाचं बृंहणादिशब्दं आमेति प्रत्यवोचन्निवैवमेवेत्यनु. कूलमूचिर इवेत्युत्प्रेक्षा । 'आमानुगुण्ये सरणे' इत्यमरः ॥ १० ॥

 यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।
 शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥ ११ ॥

 यातैरिति ॥ आयुधेन जीवन्तीत्यायुधीया आयुधजीविनः । 'शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः' इत्यमरः । 'आयुधाच्छ च' (४।४।१४) इति छप्रत्ययः । शिक्षाशक्तिमभ्यासपाटवं दर्शयन्तः अस्त्रादिभेदादस्त्रमहास्त्रादिकभेदाच्चा- तुर्विध्यं यातैः प्राप्तैः । सुष्टुभावः सौष्ठवं नैशित्यादिगुणवत्त्वं तस्मात् । उद्गात्रादि- स्वादप्रत्ययः । लाघवाद्वेगवत्त्वाच्च । 'इगन्ताच्च लघुपूर्वात्' (५।१।१३१) इत्यण्प्रत्ययः । अव्यासङ्गैरप्रतिषिद्धैः मुच्यन्त इति मुक्तानि शरादीनि न मुच्यन्त इत्यमुक्तानि खङ्गादीनि च तैस्तैर्मुक्तामुक्तैरिति द्वन्द्वः । आयुधैः प्राहरन् । स्वभा. वानुप्रासयोः संसृष्टिः ॥ ११ ॥

 रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रहसैवोपयातौ ।
 हित्वा हेतीमल्लवन्मुष्टिघातं घ्नन्तौ बाहूवाहवि व्यासृजेताम् ॥१२॥

 रोषावेशादिति ॥ कौचिद्योधौ रोषावेशाद्रोषपारवश्यादाभिमुख्येन रंहसा वेगेनेवोपयातौ मिथः प्रत्यासन्नौ अत एव पाणिग्राहमन्योन्यं पाणिं गृहीत्वा । 'द्वितीयायां च' (३।४।५३) इति णमुल्प्रत्ययः । हेतीः शस्त्राणि हित्वा त्यक्त्वा । वैकल्यादिति भावः । 'हेतिस्तु शस्त्रे द्वयोः' इति केशवः । मल्लवन्मल्लाभ्यां तुल्यम् । तेन तुल्यम्-' (५।१।११५) इति वतिप्रत्ययः । मुष्टिघातं मुष्टिभि- हत्वा । 'करणे हनः' (३॥४॥३७) इति णमुल्प्रत्ययः । घ्नन्तौ प्रहरन्तौ । हन्तेर्लटः शत्रादेशः । कषादित्वादनुप्रयोगः । मुष्टिभिघ्नन्तावित्यर्थः । बाहुभ्यां बाहुभ्यां प्रहृत्य प्रवृत्तमिदं युद्धं बाहूबाहवि बाहुयुद्धम् । 'तत्र तेनेदमिति सरूपे' (२।२।२७) इति बहुव्रीहौ 'इच्कर्मव्यतिहारे' (५।४।१२७) इतीच्प्रत्ययः समासान्तः । 'अन्येषामपि दृश्यते' (६।३।१३७) इति दीर्घः । तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावत्वादव्ययत्वम् । तत्र व्यासृजेतां व्यासक्तवन्तौ । 'कर्तरि कर्मव्य- तिहारे' (१॥३।१४) इत्यात्मनेपदम् । मल्लवदिति तद्धितगा श्रौती पूर्णोपमा १२

 शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः ।
 अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः १३

 शुद्धा इति ॥ शुद्धा निर्विषाः । 'न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः' (मनु० ७।९०) इति निषेधादिति भावः । अन्यत्र जात्येत्यर्थः । क्वचित्कुत्रापि सङ्गं प्रतिबन्धं न प्राप्तवन्तः न प्राप्ताः । दुर्वारा इत्यर्थः । दूरान्मुक्ता दूरत एव विसृष्टाः । 'स्त्रोकान्तिकदूरार्थकृच्छ्राणि क्तेनन' (२।१।३९) इति समासः । 'पञ्चम्याः स्तोकादिभ्यः' (६।३।२) इत्यलुक् । शीघ्रतां जवनत्वं दर्शयन्तः । विद्विषां सेनास्वन्तः अन्तःसेनम् । विभक्त्यर्थेऽव्ययीभावः । आविशन्तः । सेना- मध्यं प्रविशन्त इत्यर्थः । सायका बाणाः वाजितायाः पक्षवत्तायाः, अश्वत्थस्य च । 'वाजो निःस्वनपक्षयोः' इति विश्वः । युक्तमनुरूपं कर्म चक्रुः । एवंविधसेनाप्रवे- शस्य वाजिनामेव संभवादिति भावः । अत्राभिधायाः प्रकृतपक्षतामात्रोपक्षीणत्वा- द्वाजिताशब्देन प्रकृतस्यैव प्रतीतेः ध्वनिरेवेति न श्लेषावकाशः । किंतु शुद्धादिपदा- र्थपुञ्जविशेषणगत्या सायकानां युक्तकारिताहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥१३॥

 आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।
 हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥१४॥

 आक्रम्येति ॥ मानभाजोऽभिमानवन्तः । उच्चैरुन्नतं आजेर्युद्धस्याग्रिमस्क- न्धमग्रभागमंसप्रदेशं चाक्रम्यारुह्य वीतशकं शिरःसंमुखमुत्तमकायं चास्थायारुह्य हेलासु युद्धक्रीडासु, लीलासु च लोला उत्सुकाः सन्तः अतिमर्त्यं वर्म गत्वा । अमानुषं युद्धं कृत्वेत्यर्थः । अन्यत्रामानुषगम्यमारोहणमार्गं गत्वा सुखेनाना- यासेन द्यां स्वर्गमभ्रंकषं गिरिशिखरादिक्रीडास्थानम् । 'द्यौः स्वर्गसुखवर्त्मनोः' इति विश्वः । आरोहन्नारूढाः 'युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः' (मनु० ७।८९) इति मनुस्मरणादिति भावः । यथा कथंचित्कश्चित्स्कन्धमूर्धा- रोहणक्रमेण किंचिदुरारोहमद्रितटादिकमारोहति तद्वदिति प्रतीतेर्विशेषणमहिम्ना- गता समासोक्तिः ॥१४॥

 रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तापितैः स्थावराणि ।
 केचिद्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥१५॥

पाठा०-१ 'प्राप्नुवन्तः'.  रोदोरन्ध्रमिति ॥ केचिद्वीराः गुवीं महतीं संयतो युध एव निषीदन्त्यस्या- मिति निषद्यामापणम् । 'आपणस्तु निषद्यायाम्' इत्यमरः । 'संज्ञायां समजनि- पद-' (३।३।९९) इत्यादिना क्यप् । एत्य प्राप्य । आङ्पूर्वादिणः क्त्वो ल्यप् । देहस्यान्तरभ्यन्तरे मापितैः परिच्छिन्नैः । मातेर्माङो वा ण्यन्तात्कर्मणि क्तः । 'अर्तिर्ह्रा--' (७।३।३६) इत्यादिना पुगागमः । लोलैरस्थिरैः प्राणैरेव मूल्यैः प्राणमूल्यै रोदसोर्द्यावापृथिव्यो रन्ध्रमन्तरालं व्यश्नुवानानि व्याप्नुवन्ति । अश्नोते- लटः शानजादेशः । स्थावराणि स्थिराणि । यशांसि क्रीणन्ति स्म । स्वीचक्रुरि- त्यर्थः । अत्र न्यूनैः प्राणैस्ततोऽधिकयशःपरिवर्तनान्यूनपरिवृत्तिरलंकारः । 'सम- न्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥ १५॥

 वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।
 अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः॥१६॥

वीर्योत्साहेति ॥ सङ्ग्रामाग्रे रणाग्रे वीर्योत्साहाभ्यां श्लाघ्यते इति श्लाघि विक्रमाहंकारशोभि अवदानं महत्कर्म कृत्वा । 'अवदानं कर्म वृत्तम्' इत्यमरः । लज्जितानाम् । मानित्वात्स्वनामाख्याने संकोचवतामित्यर्थः । शत्रुभिरज्ञातानाम- ज्ञातनामकानां मानिनां मानशालिनां शूराणां संबन्धि श्रीमत् शौर्यश्रीयुक्तं नाम नग्नाः बन्दिनः । 'बन्दिनि क्षपणे नग्नः' इति विश्वः । उच्चैः श्रावयन्ति स्म । अयमसाविति कथयामासुरित्यर्थः । युक्तम् । सर्वमेतदुचितमित्यर्थः । अत्र लज्जामानाज्ञातयोर्विशेषणगत्या बन्दिश्रवणहेतुत्वात्काव्यलिङ्गभेदः ॥ १६ ॥

 आधावन्तः संमुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।
 वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्राविशन्पुष्कराणि ॥१७॥

 आधावन्त इति ॥ क्रोधेनान्धा अपश्यन्तोऽन्ये भटाः आधावन्तोऽभिमु- खमापतन्तः सन्तः अन्यैः सैन्यैः प्रतिद्वन्द्वाभिसंमुखं धारितानां धृतानां तीक्ष्ण- कौक्षेयकाणां निशितासीनाम् । 'कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' (४।२।९६) इति ढकञ्प्रत्ययः । पुष्कराणि फलानि । खड्गमुखानीत्यर्थः । 'पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च' इति विश्वः । वक्षांसि पीठानीव वक्षःपीठैर्वक्षस्थलैः आत्स- रोरामुष्टेः । 'त्सरुः खनादिमुष्टौ स्यात्' इत्यमरः । 'आङ् मर्यादाभिविध्योः' (२॥१॥ १३) इति विकल्पादसमासः । आत्मना स्वयमेव । परप्रयत्नं विनेत्यर्थः । प्राविशन् प्रविष्टाः । अत्र क्रोधान्धविशेषणगत्या पुष्करप्रवेशहेतुत्वात्काव्यलिङ्गभेदः ॥ १७ ॥

 मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः ।
 आत्मीयास्ते ये पराञ्चः पुरस्तादम्यावर्ती संमुखो यः परोऽसौ १८

 मिश्रीभूत इति ॥ तत्र युद्धे सैन्यद्वयेऽपि मिश्रीभूते मिलिते सति प्रायेणायं विशेषोऽसाधारणधर्मो व्यक्तमासीत् । क इत्याह-पुरस्तादग्रे ये पराञ्चः परामुखाः । परेऽपीति भावः । ते आत्मीयाः । अवध्या इत्यर्थः । 'न भीतं न परा वृत्तम्' इति वधनिषेधश्रवणात् । यः पुरस्तादभ्यावर्ती परावर्ती संसुखोऽभि- मुखः । स्वकीयोऽपीति भावः । असौ परः शत्रुर्वध्य इत्यर्थः । प्राणलुब्धस्य स्वामिद्रोहित्वादित्यर्थः ॥ १८॥

 सद्वंशवादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा ।
 नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी १९

 सदिति ॥ सद्वंशत्वाच्छुद्धाकरत्वात्कुलीनत्वाच्चाङ्गसंसङ्गिनीत्वमङ्गसंबन्धित्वं नीत्वा । अगुणत्वविवक्षायां 'स्वतलोर्गुणवचनस्य' ( वा) इति न पुंवद्भावः । कामं गौरवेणादरेणावबद्धा संयता च कस्यचित्स्वा स्वकीया कृपाणी असिलता। परेणान्येन वञ्चयित्वा प्रतार्य हस्तं नीता स्वायत्तीकृता सती द्रोहं हिंसां व्यभि- चारं च चक्रे कृतवती । अत्र प्रकृतकृपाणीविशेषणसाम्यादप्रकृतस्वैरिणीप्रतीतेः समासोक्तिः ॥ १९॥

 नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।
 सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥२०॥

 नीत इति ॥ शात्रवेण शत्रुणा । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । धौताया उत्तेजिताया धारायाः खङ्गधाराया अभिघाताद्भेदं नीते विदारितेऽम्भोदाभे मेघश्यामे अपरस्य भटस्य कङ्कटे कवचे। 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रि- याम्' इत्यमरः । सहासृग्राज्या सासृग्राजिः सरक्तरेखः तीक्ष्णमार्गस्य खङ्गस्य मार्गः प्रहारो विद्युद्दीप्तस्तडिदुज्वलो लक्ष्यते स्म । उपमालंकारः ॥ २० ॥

 आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
 प्राप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥२१॥

 आमूलान्तादिति ॥ अन्यस्य भटस्य बाहौ आयतेन दीर्घेण सायकेन आमू- लान्तान्मूलप्रदेशपर्यन्तम् । आकक्षमित्यर्थः । विकल्पादसमासः । स्यूते प्रोते सति असह्यां वेदनां व्यथां प्राप्य अत एवास्तधैर्यात्त्यक्तधैर्यादपि धारयितुमक्षमादपि मण्डुके संग्राहे श्लिष्टा संदष्टा मुष्टियस्य तस्मात्पाणेश्चर्म फलकम् । 'फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः' इत्यमरः । नाभ्रश्यन्नापतत् । अत्र सायकप्रोत- मुष्टिश्लेषयोर्विशेषणगत्या धैर्यत्यागचर्मभ्रंशौ प्रति हेतुत्वात्काव्यलिङ्गभेदः ॥ २१ ॥

 भित्त्वा घोणामायसेनाधिवक्षः स्थरीपृष्ठो गार्धपक्षेण विद्धः ।
 शिक्षाहेतोर्गाढरज्जवेव बद्धो हर्तुं वक्त्रं नाशकदुर्मुखोऽपि ॥ २२ ॥

 भित्त्वेति ॥ आयसेन अयोमयेन गाों गृध्रसंबन्धी पक्षः पत्रं यस्य तेन गार्धपक्षेण बाणविशेषेण घोणां नासां भित्त्वा । 'घोणा नासा च नासिका' इत्यमरः । अधिवक्षो वक्षसि । विभक्त्यर्थेऽव्ययीभावः । विद्धः प्रहतः । व्यधेः कर्मणि क्तः 'अहिज्या-' (६।१।१६) इत्यादिना संप्रसारणम् । स्थूरीपृष्ठो नवारूढोऽश्वः शिक्षैव हेतुः तस्य शिक्षाहेतोः शिक्षया निमित्तेन । शिक्षार्थमिति यावत् । 'षष्टी हेतुप्रयोगे' (२।३।२६) इति षष्ठी ।गाढरज्जवा गाढपाशेन बद्ध इवेत्युत्प्रेक्षा । दुर्मुखोऽप्यशिक्षितमुखोऽपि वक्रं हर्तुमपाक्रष्टुं नाशकन्न शक्तः । शकेर्लुङि 'पुषादि- (३।१।५५) इति च्लेरङादेशः । शिक्षितो हि शिक्षावशादबद्धोऽपि बद्धवदास्ते, अशिक्षितस्तु निबद्धोऽपि झटिति मुखमपहरतीति भावः । अपिर्विरोधे । अत एव विरोधाभासोऽलंकारः ॥ २२ ॥

 कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म ।
 कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनो ह्रेपयन्ति २३

 कुन्तेनेति ॥ आजानेयः कुलीनाश्वः । 'आजानेयाः कुलीनाः स्युः' इत्यमरः । 'शुभ्रादिभ्यश्च' (४।१।१२३) इति ढक् प्रत्ययः । सादिना अश्वारोहेण कर्त्रा । उच्चैरुन्नतेन कुन्तेन प्रासेन करणेन हन्तुं प्रहर्तुमिष्टादभिप्रेताद्दन्तिनो न त्रस्यति स्म न त्रस्तः । 'वा भ्राश-' (३।१।७०) इत्यादिना श्यन्प्रत्ययः । तथा हि-जात्याः कुलीनाः । भवार्थे यत्प्रत्ययः । कीर्तये उदारं कर्म महापौरुषं कर्तुं कामो येषां तान्कर्तुकामान् । 'तुं काममनसोरपि' इति मकारलोपः । स्वमेषामस्तीति स्वामिनो भर्तृन् । 'स्वामिनैश्वर्ये' (५।२।१२६) इति निपातः । ह्रेपयन्ति लजयन्ति किम् । न ह्रेपयन्तीत्यर्थः । 'अर्तिह्री-' (७।३।३६) इत्यादिना पुगागमः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ २३ ॥

 जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः ।
 नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि॥२४॥

 जेतुमिति ॥ जेतार एव जैत्रा जयशीलाः । जेतृप्रकृतेः प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः । लोकं जनमधः पश्यन्तः स्वयमुपर्यवस्थानाल्लोकमधोदेशे पश्यन्तः, अधःकृतं मन्यमानाश्च । अस्तेषुजालाः क्षिप्तशरनिकराः त्रासहीना दुर्गस्थत्वान्नि- र्भीका नागारूढा गजारोहास्त्रस्यन्ति गच्छन्तीति त्रसानि जङ्गमानि । 'चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्' इत्यमरः । पार्वतानि पर्वतसंबन्धीनि दुर्गाणि । गिरिदुर्गाणीत्यर्थः । श्रयन्तोऽधितिष्ठन्त इत्युत्प्रेक्षा। तेष्वेवंभूता एवेति भावः । अरिसैन्यैः कर्तृभिः जेतुं न शेकिरे । अशक्ता बभूवुरित्यर्थः । शकेः कर्मणि लिट् । अत्र मनुः–'धनुर्दुर्ग महीदुर्गमब्दुगं वनमेव च । नृदुर्ग गिरिदुर्ग च समाश्रित्य वसेन्नृपः ॥ सर्वेणैव प्रकारेण गिरिदुर्ग समाश्रयेत् । तेषां हि बहुगुण्येन गिरिदुर्ग विशिष्यते ॥' (मनु० ७।७०,७१) इति ॥ २४ ॥

 विष्वद्रीचीविक्षिपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।
 बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥२५॥

 विष्वगिति ॥ एकः कोऽपि वीरः । विष्वगञ्चतीति विष्वद्रीचीः सर्वव्यापिनीः । विष्वग्देवयोश्च टेरद्चञ्चतावप्रत्यये' (६।३।९२) इति टेरद्चादेशः धातोरप्यञ्चतेरुपसंख्यानात् 'उगितश्च' (४।१।६) इति ङीप् ‘अचः' (६।४।१३८)इत्यकारलोपे 'चौ' (६।३।१३८) इति दीर्घः । सैन्यानि वीचिरिव सैन्यवीचीरित्युपमितसमासः । सिन्धौ वेति लिङ्गाद्विक्षिपन्नपाकुर्वन् अन्तराजिमध्ये क्वापि दूरं प्रयातमिष्टं बन्धुं दिदृक्षुर्द्रष्टुमिच्छुः सन् । दृशेः सन्नन्तादुप्रत्ययः । क्वापि प्रयातं मग्नं गोभूमेर्मण्डलं भूगोलं दिदृक्षुराद्यो वराहः सिन्धौ वा समुद्रे इव । 'उपमायां विकल्पे वा' इत्यमरः । आजौ बभ्राम । एकवीरस्य कुतो भय- मित्यर्थः ॥ २५॥

 यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य ।
 सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥२६॥

 यावदिति ॥ व्युत्थानं गजोत्थापनं जानातीति व्युत्थानज्ञः हस्तिना चरतीति हस्तिचारी यन्ता । मदस्य बोधनायोत्थापनायाञ्जनमुद्दीपनं कर्म यावन्न चक्रे तावत्प्रागेव । असमाप्ते विधावित्यर्थः । सेनास्वानात् । सेनाकलकलश्रवणादि- त्यर्थः । दन्तिनामात्मना स्वयमेव स्थूला महत्यो दानकुल्या मदसरितः प्रावहन्निति दन्तिनामुत्साहातिरेकोक्तिः । अञ्जनात्प्राग्दानसंबन्धोक्तेरतिशयोक्तिः ॥ २६ ॥

 कुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।
 घोरारावध्वानिताशेषदिक्के विष्के नागः पर्यणंसीत्स्व एव ॥२७॥

 क्रुध्यन्निति ॥ दूराद्दूरत एव गन्धान्मदगन्धाघ्राणात् अन्यनागाय प्रतिग- जाय क्रुध्यन् । तं जिघांसुरित्यर्थः । 'क्रुधद्रुह-' (१।४।३८) इत्यादिना संप्रदा- नत्वम् । नागो धूतमूर्धा विधूतमस्तकः सन् । आरोढारं यन्तारमवमत्यावधूय घोरारावैः दारुणक्रन्दनैः ध्वानिता अशेषदिशो येन तस्मिंस्तथा उच्चैराक्रोशतीत्यर्थः । शैषिकः कप्प्रत्ययः । स्वे स्वकीय एव । स्वपुत्र एवेत्यर्थः । 'पूर्वादिभ्यो नवभ्यो वा' (७।१।१६) इति विकल्पान्न स्मिन्नादेशः । अत एव स्वे स्वपुत्रे विष्क इति श्लिष्टगत्या व्याख्याय पुत्रस्यापि ज्ञातित्वान्न सर्वनामसंज्ञेति वल्लभोक्तिः प्रामादिकी। विष्के विंशतिवर्षके डिम्भे । 'विष्को विंशतिवर्षकः' इति वैजयन्ती । पर्यणं- सीत् । तिर्यक्प्रजहारेत्यर्थः । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हला- युधः । 'यमरमनमातां सक्च' (७।२।७३) इति नमेलुङि सगिडागमौ 'नेटि' (७।२।४) इति वृद्धिप्रतिषेधः ॥ २७ ॥

 प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि ।
 क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किंचिन्मदान्धः २८

 प्रत्यासन्ने इति ॥ प्रातिपक्षे प्रतिपक्षसंबन्धिनि । 'तस्येदम्' (४।३।१२०) इत्यण् । दन्तिनि गजे प्रत्यासन्ने सति यन्त्रा सादिना प्रास्तवक्त्रच्छदोऽपि निरस्तमु- खपटोऽपि क्रोधाक्रान्तः अत एव क्रूरं घोरं निर्दारिताक्षः तथापि मदान्धो नागो गजो न किंचिदेव प्रेक्षांचके । किमपि पुरोगतं प्रातिपक्षमन्यद्वा न ददर्शेत्यर्थः । आवरणान्तराभावेऽपि मदावरणस्यानपायादिति भावः । 'इजादेश्च गुरुमतो- ऽनृच्छः' (३॥१॥३६) इत्याम्प्रत्ययः । अत्रानावृतोन्मीलिताक्षस्याप्यदर्शनविरो- धस्य मदान्धेनाविरोधाद्विरोधाभासोऽलंकारः ॥ २८ ॥

 तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।
 तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ।। २९ ॥

 तूर्णमिति ॥ निषादी यन्ता वारणस्य गजस्य चक्षुर्वारणं नेत्रावरणं वासो । मुखपटं यावत्तूणं नापनिन्ये नापचकार तावदन्यनागाधिरूढः प्रतिगजाधिरोहः एक एककालीनः पातो येषां तैरेकपातैर्युगपत्पातिभिरिति शीघ्रतोक्तिः । काद- म्बानां शराणाम् । 'कदम्बमार्गणशराः' इत्यमरः । पूगैार्व्रातैरसीव्यत् । चक्षुषा सह तद्वासः स्यूतवानित्यर्थः । सीव्यतेर्लङ् । अत्र चक्षुषः सीवनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ २९ ॥

 आस्थदृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।
 मनस्योचैर्बर्हभारेण शङ्कोरावव्राते वीक्षणे च क्षणेन ॥ ३० ॥

 आस्थदिति ॥ यन्ता प्रमत्तः सन् प्रत्यरीभमरिगजं प्रति । आभिमुख्येऽव्य- यीभावः । यातुर्गन्तुः । यातेस्तृच् । द्विपस्य दृष्टेराच्छदमावरणम् । पुंसि संज्ञायां घः । आस्थन्निरस्तवान् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३।१।५२) इति च्लेरङा- देशः 'अस्यतेस्थुक्' (७।४।१७) इति थुगागमः । मग्नस्य मुखनिमग्नस्य शङ्कोः शल्यायुधस्य । 'वा पुंसि शल्यं शङ्कर्ना इत्यमरः । उच्चैर्बर्हभारेण पिच्छपटलेन वीक्षणे चक्षुषी क्षणेनावव्राते आवृते । वृणोतेः कर्मणि लिट् । अन्योन्यसमुच्चय- चकाराभ्यामावरणनिरासे पुनरावरणयोरेककाले संबन्धोक्तेरतिशयोक्तिः ॥ ३० ॥

 यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चित्यान्यश्चेतसा भावितेन ।
 अन्त्यावस्थाकालयोग्योपयोगं दध्रेऽभीष्टं नागमापद्धनं वा ॥३१॥

 यत्नादिति ॥ अन्यः गजारोहः भावितेनालोचितेन चेतसा सुस्थितत्वाद- नपायिदेशत्वादनाशमनपायं निश्चित्य यत्नाद्रक्षन् वञ्चकेभ्यस्त्राय(माणः)न् सन् । अन्त्यावस्थाकाले साधनान्तरकाले नाशकाले योग्योपयोगं अत एवा- भीष्टं नागं गजमापद्धनं वापद्धनमिव दध्रे अन्यतोऽपसार्य धारयामास । धरते: स्वरितेत्त्वात्कर्तरि लिट् तङ् ॥ ३१ ॥

 अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः ।
 उन्मूर्धानः संनिपत्यापरान्तै: प्रायुध्यन्त स्पष्टदन्तध्वनीभाः॥३२॥

 अन्योन्येषामिति ॥ इभा गजाः अन्योन्येषां परस्परेषाम् । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्याद्वित्वम् । 'समासवच्च बहुलम्' इति विकल्पादसमासत्वपक्षे पूर्वपदस्य प्रथमैकवचनं वक्तव्यम् । उद्भिद्यन्ते एष्विति उद्भेदाः । 'अकर्तरि च कारके संज्ञायाम्' (३।३।१९) इत्यधिकरणार्थे घञ् प्रत्ययः । दानोद्भेदान्कटादिमदस्थानानि पुष्करैर्हस्ताग्रै:] । 'पुष्करं करिहस्ताग्रे' इत्यमरः । आमृशन्तो जिघ्रन्त उच्चकैरुन्नता भुग्नवालाः प्रह्वीकृतपुच्छाः । 'बाल: केशे शिशौ मूर्खे वालो वाजीभपुच्छयोः' इति विश्वः । उन्मूर्धान उन्नतमस्तकाः सन्तः स्पष्ठदन्तध्वनि यथा तथा संनिपत्यापरान्तैः सह प्रायुध्यन्त । दिवादिकस्य युध्यतेः कर्तरि लङ् । स्वभावोक्तिः ॥ ३२॥

 द्राधीयांसः संहताः स्थेमभाजश्वारूदग्रास्तीक्ष्णतामत्यजन्तः ।
 दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः॥३३॥

 द्राधीयांस इति ॥ दाधीयांसो दीर्घतराः । प्रियस्थिर- (६।४।१५७)

इत्यादिना दीर्घस्य ईयसुनि द्राघादेशः । संहताः सुघटिताः अत एव स्थेमभाजः स्थैर्यभाजः । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना स्थिरशब्दस्येमनिचि स्थादेशः । चारवो रम्या उदग्रा उन्नताश्च ते चारूदग्राः । विशेषणसमासः । तीक्ष्णतां नैशित्यं अत्यजन्तः सामजानां गजानां दन्ता दन्तैः प्रतिगजविषाणैराहताः सन्तो भङ्गं भेदं जग्मुः बभञ्जु: । सामजाता दन्तिनस्तु स्वयं भङ्गं पराजयं न जग्मुः। दन्तभङ्गेऽपि स्वयं न परावर्तन्त इत्यर्थः । अत्रापरावर्तित्वेन वर्ण्यतया प्रकृतत्वादुपमेयानां दन्तिनामुपमानदन्तापेक्षया अभग्नत्वेनाधिक्योक्तेर्व्यतिरेकस्तु- ल्ययोगिताया बाधक इति गमयितव्यम् ॥ ३३ ॥

 मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः ।
 लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥३४॥

 मातङ्गानामिति ॥ मातङ्गानां दन्तिनां दन्तसंघट्टजन्मा दन्तसंघर्षोत्थः हेमच्छेदच्छायानि कनकपरागवर्णानि चञ्चन्ति चलन्ति च शिखाग्राणि ज्वाला- ग्राणि यस्य सोऽग्निः मञ्जिष्ठया ओषधिविशेषेण रक्तेषु माञ्जिष्ठेषु । 'तेन रक्तं रागात्' (४।२।१) इत्यण्प्रत्ययः । 'मञ्जिष्ठा विकसा जिङ्गी' इत्यमरः । चामरेषु लग्नोऽपि सैन्यैः प्रकामं न व्यज्यते न विविच्यते स्म । सावर्ण्यादिति भावः । अतः सामान्यालंकारः। 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । स च विशेषणोत्थकाव्यलिङ्गसंकीर्णः ॥ ३४ ॥

 ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
 यौगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ३५ ॥

 ओषामासे इति ॥ मत्सरो वैरमेवोत्पातवात आकस्मिकवायुस्तेनाश्लि- ष्यतां संयुज्यमानानां दन्तानामेव क्ष्मारुहां वृक्षाणां घर्षणेनोत्था जन्म येषां तैर्वह्निभिर्योगान्तैर्वा युगान्तभवैर्वह्निभिरिव वारणानामुच्चैरुन्नतैः मूर्धा व्योमेव तस्मिन्मूर्धव्योग्नि नक्षत्रमाला हारविशेषः । सैव नक्षत्रमाला स्यात्सप्तविंशति- मौक्तिकैः' इत्यमरः । ज्योतिर्मण्डलं च ओषामासे । दग्धेत्यर्थः । 'उष दाहे' इति धातोः कर्मणि लिट् । 'उपविदजागृभ्योऽन्यतरस्याम्' (३।१।३८) इत्या- म्प्रत्ययः । लघूपधगुणः 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेश्वानुप्रयोगः । अत्र नक्षत्रमालयोरभेदाध्यवसायेन निर्देशाद्रूपकश्लेषसंकीर्णेयमुपमा ॥ ३५ ॥

 सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।
 दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ३६

 सान्द्राम्भोदेति ॥ सान्द्रं च तदम्भोदश्यामलं च तस्मिन् सामजानां गजानां वृन्दे शोणितैः शोणिमानमारुण्यं नीता दन्ताः अम्भोनिधीनां वारिनिधीनां वारिणीव विद्रुमाणां प्रवालानामिमे वैद्रुमाः । 'विद्रुमः पुंसि प्रवालं पुनपुंसकम्' इत्यमरः । कन्दो मृलमिण्डः तस्योझेदाः प्ररोहा इव शोभामापुरित्युपमा ॥ ३६ ॥

 आकम्प्राग्रै: केतुभिः संनिपातं तारोदीर्णग्रैवनादं व्रजन्तः ।
 मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्खनन्ति स्म नागाः॥३७

 आकम्प्रागैरिति ॥ आकम्प्राणि दन्तोत्खननसंक्षोभाद्भृशं कम्प्राण्यग्राणि येषां तैः केतुभिर्ध्वजैः संनिपातं संघर्षं व्रजन्त इति दुःखहेतूक्तिः । नागा गजा- स्तारमुच्चैरुदीर्ण उत्पन्नः ग्रैवाणां ग्रीवासूत्पन्नानां शृङ्खलभूषणादीनां नादो यस्मि- कर्मणि तत्तथा अन्यद्विपानां प्रतिगजानाम् अङ्गे गाढं मग्नानन्तःप्रविष्टान्दन्तान् दुःखादुत्खनन्ति स्म । तेषां गाढमग्नत्वात्स्वयं केतुभाराक्रान्त्वाच्च कृच्छादुज्ज- ह्रुरित्यर्थः । अत्रोक्तभारमज्जनयोर्विशेषणगत्या दुःखोत्खननहेतुत्वात्काव्यलिङ्गम् ३७

 उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।
 शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ ३८ ॥

 उत्क्षिप्येति ॥ ईषे लाङ्गलदण्डाविव दन्तौ यस्य स ईषादन्तो महादन्तो दन्ती । 'ईपा लाङ्गलदण्डः स्यात्' इत्यमरः । प्रस्फुरन्तं प्राणोत्क्रमणदुःखादु- ल्लसन्तं शात्रवस्येदं शात्रवीयं कुञ्जरं रदाभ्यां दन्ताभ्यां उच्चैरुत्क्षिप्योर्ध्वमुद्यम्य श्र्ङ्गे शिखरे प्रोतः स्यूतः प्रावृषेण्यः प्रावृषि भवोऽम्बुदो यस्य तस्य । 'प्रावृष एण्यः' (४।३।१७) इत्येण्यप्रत्ययः । उर्वीधरस्य गिरेः साम्यं सादृश्यं स्पष्टं प्रापत् । आप्नोतेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः ॥ ३८ ॥

 भन्नेऽपीभे स्वे परावर्त्य देहं योद्धा सार्धं व्रीडया मुञ्चतेषून् ।
 साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ॥३९॥

 भन्नेऽपीति ॥ स्वे स्वकीये इभे गजे भग्नेऽपि देहं स्वाङ्गं परावर्त्य प्रतिप- क्षाभिमुखमावर्त्य । वृतेण्य॑न्ताल्लयप् । अण्यन्तस्त्वपपाठः । अकर्मकस्य कर्मानन्व- यात् । व्रीडया सामिषून्मुञ्चता। इषुमोक्षणेन स्वगजभङ्गव्रीडां निरस्यतेत्यर्थः । योद्धा भग्नेभस्थेन भटेन कर्त्रा अभीक्ष्णं दून इषुभिस्तप्तः । 'ल्वादिभ्यः' (८।२। ४४) इति निष्ठानत्वम् । अनुबध्नातीत्यनुबन्धी वारणो यन्तुः प्रतिगजारोहस्य संमदेन साकं स्वेभजयजन्येन हर्षेण सह । 'प्रमदसंमदौ हर्षे' (३।३।६८) इति निपातः । प्रत्यरोधि प्रतिरुद्धः । तत्प्रतिरोधेन तत्संमदस्यापि प्रतिरोधव्याप्तेरिति भावः । 'साकं साधं समं सह' इत्यमरः । अत्र व्रीडितेषुमोक्षयोः संमदयन्तृ- प्रतिरोधयोश्च कार्यकारणयोस्तत्पौर्वापर्यविपर्ययरूपातिशयोक्त्या सहभावोक्तेः सहोक्तिः संकीर्यते ॥ ३९ ॥

 व्याप्तं लोकैर्दुःखलभ्यापसारं संरम्भित्वादेत्य धीरो महीयः ।
 सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः॥४०॥

 व्याप्तमिति ॥ वारणः कश्चिद्दन्ती संरम्भित्वात्क्रोधित्वात् । 'संरम्भः संभ्रमे कोपे' इति विश्वः । धीरो निर्भीकः सन् एत्यागत्य महीयो विपुलं लोकैर्जनैः, अन्यत्र भुवनैश्च व्याप्तम् । 'लोकस्तु भुवने जने' इत्यमरः । अतो दुःखलभ्योऽप सारोऽपसरणं यत्र तत्सेनामध्यं प्राक् पुरा आदिदेवस्य विष्णोः उदरान्तरुदराभ्यन्तरं ब्रह्मा स्रष्टेव गाहते म प्रविवेश । पुरा किल बाह्यं सिसृक्षुर्ब्रह्मा पूर्वसृष्टिदिदृक्षया विष्णोः कुक्षि प्राविशदिति पौराणिकी कथा । केचिद्ब्रह्मा ब्राह्मणो मार्कण्डेय इति व्याचक्षते, सोऽपि भगवन्महिमावलोकनकौतुकात्तदनुज्ञया महाप्रलये तदुदरं प्रविश्य बभ्रामेत्यागमः । 'ब्रह्मा विप्रः प्रजापतिः' इत्यमरः। उपमालंकारः॥

 भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।
 निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥४१॥

 भृङ्गेति ॥ भृङ्गश्रेणीव श्यामभासां कृष्णवर्णानां नाराचानामयोमयेषुविशे- षाणां समूहैः विद्धो नीरन्ध्रो निर्विवरो देहो यस्य सः । तथापि निर्भीकत्वादाहवेनाहतेच्छः अव्याहतोत्साहः अत एव हृष्यन्मोदमानो हस्ती हृष्टरोमेव हर्षात्पुलकित इवेत्युत्प्रेक्षा । 'हृषेर्लोमसु' (७।२।२९) इति विकल्पादिडभावः । रेजे शुशुभे । 'फणां च सप्तानाम्' (६।४।१२५) इति विकल्पादेत्वाभ्यासलोपौ ॥४१॥

 आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।
 निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा॥४२॥

 आताम्रेति ॥ रोषभाजः क्रुद्धस्य नागराजस्य महेभस्य कटान्ताद्गण्डस्थला- निश्च्योतन्ती प्रागेव स्रवन्ती दानस्य मदस्य धारा आताम्राभा क्रोधादरुणवर्णा जज्ञे जाता । आहो धूर्गतेन पुरोगतेन यन्त्रा मार्गणे शरे आशूत्खाते लोहितस्य क्षतजस्येव धारा जज्ञे । जनेः कर्तरि लिट् । किमियं क्रोधारुणा मदधारा शरो- द्धरणजन्या रक्तधारा वेत्युभयकारणसंभवात्सादृश्याच्च संशयः, स च विकल्पित- सादृश्यमूल इत्यलंकारः ॥ ४२ ॥

 क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।
 सैन्यैरन्यस्तत्क्षणादाशशङ्के खर्गस्योच्चैरर्धमार्गाधिरूढः ॥ ४३ ॥

 क्रामन्निति ॥ मृत्युशय्यातलस्यान्तकपर्यङ्करूपस्य । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । ईषादण्डौ दारुविशेषौ तत्सदृशौ । आयतावित्यर्थः । दन्तिनो दन्तौ । सहसा वर्तत इति साहसिकः । 'ओजःसहोम्भसा वर्तते' (१।४।२७) इति ठक् प्रत्ययः । तस्य भावात्साहसिक्यात्क्रामन् । साहसवानित्यर्थः । अन्यस्तत्क्षणा- दुच्चैरूर्ध्वस्य स्वर्गस्य अर्धश्चासौ मार्गश्चेति तदर्धमार्गाधिरूढ इति सैन्यैराशशङ्के उत्प्रेक्षित इत्युत्प्रेक्षा ॥ ४३ ॥

 कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।
 खड्गाघातैर्दारितादृन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ४४

 कुर्वन्निति ॥ ज्योत्स्नाविप्रुषां तुल्यरूपः चन्द्रिकाबिन्दुस्वरूपः तारः शुद्धः । 'तारो मुक्तादिसंशुद्धौ' इति विश्वः । खड्गाघातैर्दारितादृन्तिकुम्भात्प्रोच्छलन्नुत्पतन् मौक्तिकौघो मुक्तापुञ्जो द्यामाकाशं ताराजालसारां नक्षत्रशबलितां तारकितां कुर्वन्नित्युत्प्रेक्षा । 'सारः शबलपीतयोः' इति विश्वः । आभाति स्म बभौ ॥ ४४ ॥

 दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव ।
 भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ ४५ ॥

 दूरोत्क्षिप्तेति ॥ मत्तो हस्तिराजः करीन्द्रः दूरादुत्क्षिप्तेन प्रास्तेन अत एव क्षिप्रेण सत्वरेण चक्रेण कृत्तं अत एव भूमौ लोलमानं लुठमानम् । लोलतेरनात्म- नेपदित्वात् 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३।२।१२९) इति ताच्छील्ये चानश् प्रत्ययः । अत एव 'लोलमानादयश्चानशी'ति वामनः । भीमं भयंकर स्वं स्वकीयमेव हस्तं सरोषः सन् पादेनाङ्गिणा असृक्पङ्केन पकीभूतेनासृजा पिनष्टीत्यसृक्पङ्कपेषम् । 'स्नेहने पिषः' (३।४।३८) इति णमुल् । पिपेष । कषादित्वादनुप्रयोगः । रक्तपङ्केन स्नेहद्रव्येण ममर्देत्यर्थः । क्रुद्धमत्तयोः कुतो विवेक इति भावः । अत्र पेषणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥४५॥

 आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य ।
 लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥४६॥

 आपस्कारादिति ॥ गात्रमूलमापस्कारं आपस्कारादामूलात् । आङो विक- ल्पादसमासः । लूनगात्रस्य छिन्नजङ्घस्य । 'द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्राऽवरे क्रमात्' इत्यमरः । अत एवावाङ्मुखस्य सतः साधारं सावलम्बनं न भवतीति निःसाधारं यथा तथा भूमिं गच्छतः । पतत इत्यर्थः । नागस्य लब्धायामं प्राप्तदैर्घ्यम् । आयतमित्यर्थः । स्वं स्वकीयं दन्तयोर्युग्ममेवोत्तम्भनत्वमवलम्ब- नत्वं प्रापत् । जङ्घाच्छेदेऽपि दन्तावष्टम्भादपतित इत्यर्थः । अत्र स्वभावातिश- योक्त्तयोः संसृष्टिः ॥ ४६॥

 लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले ।
 ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥४७॥

 लब्धस्पर्शमिति ॥ भूव्यधात् । दन्ताभ्यां भुवो विद्धत्वादित्यर्थः । 'व्यध- ज़पोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । अव्यथेन स्वयमविद्धत्वादव्यथेन सताs- न्येन केनचिद्भटेन दन्तयोरन्तराले किंचिल्लब्धः स्पर्शो यस्मिन्कर्मणि तद्दन्ताभ्यां भटस्पर्श यथा तथा स्थित्वा ऊर्ध्वं प्रसारितेनार्धासिना खड्गैकदेशेन छिन्नश्चूर्णितो दन्तप्रवेष्टो दन्तवेष्टनं यस्य तं नागं जित्वा सद्य एव उत्तस्थे उत्थितम् । भावे लिट् । अत्रापि तथोत्थानाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ४७ ॥

 हस्तेनाग्रे वीतभीतिं गृहीत्वा कंचिव्द्यालः क्षिप्तवानूर्ध्वमुच्चैः ।
 आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥४८॥

 हस्तेनेति ॥ व्यालो दुष्टदन्ती । 'व्यालो दुष्टगजे सर्पे' इति विश्वः । अग्रे बीतभीतिं निर्भीकम् । भीरोः स्वर्गाभावादिति भावः । कंचिद्वीरं हस्तेन गृहीत्वा ऊर्ध्वमुपर्युच्चैः क्षिप्तवान् । उत्प्रेक्ष्यते-तस्यैव हेतोस्तेनैव हेतुना । तद्धरणार्थमेवे

पाठा०-१ 'क्रुद्धोर्ध्वासिक्षुण्णदन्तप्रवेष्टं'. २ 'क्रुद्धेनोर्ध्वप्रसारितेनासिना खड्गैक- देशेन क्षुण्णं चूर्णितो'. ३ 'दिव्यस्त्रीणां'. त्यर्थः । 'सर्वनाम्नस्तृतीया च' (२।३।२७) इति चकारात्षष्ठीं। व्योम्नि आसी- नानामवस्थितानाम् । 'ईदासः' (७।२।८३) इति शानच ईकारः । स्वर्गस्त्री. णाममरनारीणामर्पयामास नूनम् ॥ ४८॥

 कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन ।
 हस्ताग्रेण प्राप्तमप्यग्रतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ ४९ ॥

 कंचिदिति ॥ दूरादायतेनान्तःक्षतेन विक्षतेन अत एव द्रढीयसा प्रासेन प्रोतं स्रोतो यत्र तेन हस्ताग्रेण करणेन अग्रतः प्राप्तमपि कंचिद्भटं ग्रहीतुमादातुं वारणस्थानीश्वरस्य भाव आनैश्वर्यमसामर्थ्यमभूत् । 'नजः शुचीश्वर-' (७।३।३०) इत्यादिना नञ्पूर्वपदोभयपदवृद्धिः। अत्रापि आनैश्वर्यसंबन्धोक्तेरतिशयोक्तिः॥४९॥

 तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटिताया गजेन ।
 दिव्या मूर्तिव्योमगैरुत्पतन्ती वीक्षामासे विसितैश्चण्डिकेव ॥५०॥

 तन्वा इति ॥ गजेन स्फोटिताया विदारितायाः पुंसः कस्यचिद्वीरस्य तन्वाः शरीरात्कंसेन स्फोटिताया: नन्दगोपात्मजाया नन्दकन्याया इवोत्पतन्ती दिव्या मूर्तिः चण्डिकेव नन्दकन्याशरीरादाविर्भवन्ती कालिकेव विस्मितैर्व्योमगैः खेच- रैर्वीक्षामासे वीक्षिता । ईक्षतेः कर्मणि लिट् । 'इजादेश्च गुरुमतोऽनृच्छः' (३।१।३६) इत्याम्प्रत्ययः । मनुष्यभावमुत्सृज्य देवभावं गतेत्यर्थः । उपमा व्यक्ता । पुरा किल दुरात्मनः कंसस्य प्रतारणाय भगवदाज्ञया तन्मायाशक्तिर्नन्द- गोपाज्जाता कंसेन हिंसितेति पौराणिकाः ॥ ५० ॥

 आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।
 सास्थिस्वानं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ५१

 आक्रम्येति ॥ दारुणात्मा क्रुद्धचित्तो दन्ती एकां जङ्घामग्रपादेनाक्रम्य अन्यां जङ्घामुच्चैरुन्नतेन करेणाददान आकर्षयन् । सास्थिस्वानं भज्यमानास्थिचटच- टाशब्दयुक्तं यथा तथा कंचिद्वीरं दारुवत्काष्ठवन्मध्यात्पाटयामास । मध्यं विभज्य पाटयामासेत्यर्थः । ल्यब्लोपे पञ्चमी । उपमा ॥ ५१ ॥

 शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।
 पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥५२॥

 शोचित्वेति ॥ ऋच्छतीत्यर्यः । 'अर्यः स्वामिवैश्ययोः (३।१।१०३) इति यत्प्रत्ययान्तो निपातः । अग्रे समक्षमेव मृत्युभाजोर्मरणं गतयोर्भृत्ययोः शोचित्वा वल्लभस्यैतयोर्मध्ये प्रियभृत्यस्य संबन्धिना प्रेम्णा । तद्गतप्रेम्णेत्यर्थः । तथा तेन प्रकारेणान्तर्दाहं संतापं नो आप । यथा येन प्रकारेणेतरस्याऽवल्लभस्य पूर्वं जीवनकाले प्रसादं प्रीतिदानाद्यनुग्रहं न कृत्वा पश्चात्तापाद्धतोऽयमस्माभिरप्रीणित एव प्राणान्प्रादादित्यनुशयाद्दाहमाप। प्रियभृत्यमरणादप्यसंमानितमरणमेव स्वामिनो दुःसहं दुःखहेतुरासीदित्यर्थः । स्वभावोक्तिः ॥ ५२ ॥

पाठा०-१ 'एवाग्रतो'.

 उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
 सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो विम्ये वल्गतः सासिपाणेः ५३

 उत्प्लुत्येति ॥ अर्धचन्द्रेण बाणेन लूने छिन्ने तथापि क्रोधेन दष्टौ ओष्ठौ यैस्तथाभूता दन्ता यस्य तस्मिन् अन्यस्य योधस्य वक्त्रे आरादनतिदूरमुप्लुत्य । 'आराद्दूरसमीपयोः' इत्यमरः । भूयः पुनरपि कण्ठस्य छेदः छिन्नदेशः तत्र लीने स्थिते सति वल्गतो नृत्यतः सासिः पाणिर्यस्य तस्मात्कबन्धादपमूर्धकलेवरात् । भीत्रार्थानां भयहेतुः (१।४।२५) इति पञ्चमी । सैन्यैर्बिभ्ये भीतम् । भावे लिट् । लुनस्यापि वक्त्रस्य पुनः स्वस्थानपातित्वाद्वल्गनासिधारणाभ्यां कबन्धादप्य- कबन्धभ्रान्त्या सर्वे बिभ्युरित्यर्थः । अत एव भ्रान्तिमदलंकारः ॥ ५३ ॥

 तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।
 नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुचैहास ॥ ५४ ॥

 तूर्यारावैरिति ॥ आहिताः संपादिता उत्तालाः प्रस्फुटास्तालाः करपुटादि- क्रियामानानि येषु तैः । 'तालःकालक्रियामानम्' इत्यमरः । तूर्यारावैर्मृदङ्गादिवा- द्यघोषैस्तथा काहलं भृशं गायन्तीभिः ध्वनन्तीभिः काहलाभिः शुष्कैर्वाद्यविशेषैश्च करणैः । 'काहलं भृशशुष्कयोः । वाद्यभाण्डविशेषे तु काहलः काहलाः खले' इति विश्वः । काये अपमूर्ध्नि कलेवरे । अत एव चक्षुःशून्यो दृष्टिरहितो हस्तप्रयोगो यसिन्कर्मणि तत्तथा नृत्ते नृत्यति सति । कर्तरि क्तः । कूजन्ध्वनन् कम्बुः शङ्खः । तटस्थ इवेत्यर्थः । उच्चैस्तरां जहास । दृष्टिशून्याभिनयस्य नाट्यशास्त्रविरोधादट्टहा- समकरोदित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । 'अङ्गैरालापयेद्गीतं हस्तेनार्थं प्रद- र्शयेत् । दृष्टिभ्यां भावयेद्भावं पादाभ्यां तालनिर्णयः ॥' इति नाट्यविदः ॥ ५४॥

 प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कंचित् ।
 एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा माल्यैः साधुवादैर्द्वयेऽपि ॥५५॥

 प्रत्यावृत्तमिति ॥ स्वसैन्ये भङ्गभाजि सति प्रत्यावृत्तमभ्यमित्रं कंचिद्वीर तुल्यमेककालं मुक्तैः स्वर्णपुङ्खै: शरविशेषैः एकौघेन एकप्रहारेण द्विषन्तः आकिरन्ति स्म । सिद्धाः खेचराः माल्यैर्दिव्यमालाभिः । चातुर्वर्ण्यादित्वात्व्यञ्प्रत्ययः । आकिरन्ति स्म । द्वयेऽपि द्विषन्तः सिद्धाश्च साधुवादैः साधु साध्विति वाक्यैराकिरन्ति स्म । एतत्रितयमपि युगपत्प्रवृत्तमित्यर्थः । अत्र स्वर्णपुङ्खसुरमाल्यसाधुवादानां प्रकृतानामेव तुल्यकालैकौघप्रवृत्तिसाम्यादौपम्यावगमात्के- वलप्रकृतास्पदा तुल्ययोगिता ॥ ५५ ॥

 बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् ।
 संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः समरे वारणानाम् ५६

 बाणेति ॥ बाणैराक्षिप्ताः पातिताश्वारोहाः सादिनो येभ्यस्तानि अत एव शून्यानि रिक्तान्यासनानि आस्तरणानि येषाम् । अत एवान्यैः सैन्यैः परसैनिकै र्ग्रहीतुं प्रक्रान्तानामारब्धानाम् । समन्तादवरुध्यमानानामित्यर्थः । अत एव संर- ब्धानां क्षुभितानां अत एव आजिभूमौ भ्राम्यतामनवतिष्ठमानानां वारणानां वारै- र्वृन्दैः वारी बन्धनस्थानम् । 'वारः सूर्यादिदिवसे वारों वरणवृन्दयोः । वारी कटीभबन्धन्योः' इति विश्वः । सस्मरे स्मृता । तद्धर्मयोगादिति भावः । कर्मणि लिट् । अत्र शून्यासनत्वादीनां विशेषणगत्या वारीस्मरणहेतुत्वात्काव्यलिङ्गम् ॥५६॥

 पौनःपुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्याम् ।
 पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥५७॥

 पौनःपुन्यादिति ॥ अत्र आयोधनोार्व्यां युद्धभूमौ पौनःपुन्यात् । पुनःपुनरा- वृत्तेरित्यर्थः । ब्राह्मणादित्वात्व्यञ्प्रत्ययः । अव्ययानां भमात्रे टिलोपस्य सायंप्रा- तिकाद्यर्थमुपसंख्यानमिति टिलोपः । अस्रगन्धेन । रक्तगन्धाघ्राणादित्यर्थः । मत्त इभेन्द्रो महागजः कोपाल्लोकं जनं मृद्गन्क्षुन्दन् पादे लग्नामीषदसमाप्तां पाशी- कल्पां पाशबन्धनसदृशीम् । 'पाशस्त्वश्वादिबन्धनम्' इति विश्वः । 'बह्वादि- भ्यश्च' (४।१।४५) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप-' (६।३।४३) इत्यादिना ह्रस्वो न भवति । आयतां दीर्घां मालामाचकर्ष पाशीकल्पेत्यत्र तद्धितगता पूर्णापमा ॥ ५७ ॥

 कश्चिन्मूर्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
 उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥५८॥

 कश्चिदिति ॥ गाढः प्रहारो यस्य सः कश्चिद्वीरो मूर्च्छामेत्य वारणस्य शीतैः शीकरैः पुष्करतुषारैः सिक्तः सन् उच्छश्वास उज्जीवति स्म, किंतु तं मूर्च्छामागतं जिघृक्षुर्ग्रहीतुमिच्छुः । ग्रहेः सन्नन्तादुप्रत्ययः । प्रस्थिता । तं वरीतुमागतेत्यर्थः । नाकनारी व्यर्थाकूता तदुज्जीवनाद्विफलमनोरथा सती मुमूर्च्छ । अत्राकूतवै- यर्थ्यस्य विशेषणगत्या नाकनारीमूर्छाहेतुत्वात्काव्यलिङ्गं मूर्च्चासंबन्धातिश- योक्त्या संकीर्यते ॥ ५८॥

 लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।
 त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ ५९॥

 लूनग्रीवादिति ॥ अपरस्य सायकेन लूनग्रीवाच्छिन्नकण्ठात् अत एव द्यामाकाशं प्रति आशु उच्चैरुत्पतिष्णोरुत्पतनशीलात् । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच्प्रत्ययः । अत एव सिंहिकाया अपत्यं पुमान् सैंहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः' इत्यमरः । 'स्त्रीभ्यो ढक्' (४।१।१२०)। तमनुकरोतीति तदनुकारात् । तत्सदृशादित्यर्थः । कर्मण्यण्प्रत्ययः । रौद्राकाराद्भीषणाकृतेरस्य वीरस्य आननान्मुग्धैः सुन्दरैरप्सरसां वक्रैरेव चन्द्रैस्त्रेसे त्रस्तम् । भावे लिट् । अत्र राहुहेतुकत्रासस्य चन्द्र एव संभवाद्वक्त्रचन्द्रैरिति रूपकं सिद्धम् । तस्य सैहिकेयानुकारादिति स्पष्टोपमापेक्षत्वात्संकरः ॥ ५९ ॥

 वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम ।
 त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था॥६०॥

 वृत्तमिति ॥ काचिदमरनारी युद्धे वृत्तं मृतम् । 'वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते' इति विश्वः । शूरमाश्लिष्य रन्तुं तूर्णं मेरोः कुञ्जं गह्वरं जगाम । यावत्तद्वियोगासमर्था तद्विरहासहा पत्नी सद्योऽग्नौ देहं त्यक्त्वा नैति स्म नाजगाम । अत्र मेरुकुञ्जासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ६० ॥

 त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः ।
 प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वेव कंचित्पुरंध्री ॥६१॥

 त्यक्तेति ॥ संयुगे युद्धे त्यक्तप्राणं कंचिद्वीरं हस्तिन्यां तिष्ठतीति हस्तिनीस्था करिणीमारूढा सती वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुर्गतप्राणा स्वैव पुरंध्री स्वभा- यैव सतीत्वात्पतिव्रतात्वादखण्डमक्षयं देवभूयं देवत्वम् । 'भुवो भावे' (३।१। १०७) इति क्यप् । प्राप्याशिश्लेष । स्त्रीणां पातिव्रत्यमेव पतिसालोक्यनिदानं नाग्निप्रवेशादिकमिति भावः । अत्र सतीत्वस्य विशेषणगत्या देवभूयहेतुत्वानुक्तेर्न काव्यलिङ्गम् । अतिशयोक्त्यादिकं तु यथासंभवमूह्यम् ॥ ६१ ॥

 खर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।
 कश्चिद्भेजे दिव्यनार्या परसिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥६२॥

 स्वर्गवासमिति ॥ कश्चिद्वीरश्चिराय चिरकालं स्वर्गेवासम् । 'शयवासवासि- ष्वकालात्' (६।३।१८) इति विकल्पादलुक् । कारयन्त्या अनुभावयन्त्या अहन्यहनि प्रत्यहम् । 'नपुंसकादन्यतरस्याम्' (५।४।१०९) इत्यव्ययीभावे समासान्तष्टच्प्रत्ययः । 'अव्ययानां भमात्रे टिलोपः' (वा०) इत्युक्तम् । प्रत्यग्रत्वं नूतनत्वं धारयन्त्या । परप्रेमास्पदत्वादिति भावः । लोकं प्रीणयन्त्या अद्भुतत्वं प्रापयन्त्या । प्रीञो ण्यन्ताल्लटः शतरि ङीप् 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा०) इति नुगागमः । दिव्यनार्या, परस्मिंल्लोके इह लोके कीर्त्या च भेजे प्राप्तः । भजेः कर्मणि लिट् । रणमरणाल्लोकद्वयमपि जिगायेत्यर्थः । अत्र दिव्याङ्गनाकीर्त्योः प्रकृतयोरेव तुल्यधमसंबन्धात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ६२ ॥

 गत्वा नूनं वैबुधं सद्म रम्यं मूर्छाभाजामाजगामान्तरात्मा ।
 भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥६३॥

 गत्वेति ॥ मूर्छाभाजामन्तरात्मा जीवः रम्यं वैबुधं सद्म दिव्यभवनं गत्वा आजगाम मूर्छासमये सुरलोकरामणीयकं दृष्ट्वा आजगाम । नूनमुत्प्रेक्षायाम् । कुतः ।यद्यस्मात्प्राप्तसंज्ञा लब्धबोधाः सन्तः दृष्टप्रत्ययाः दृढविश्वासाः भूयः पुनरपि साधीयो गा(बा)ढतरम् । गा(बा) ढादीयसुनि 'अन्तिकबाढयोर्नेदसाधौ' (५।३।६३) इति साधादेशः । रणाय रणं कर्तुमाद्रियन्ते । उत्सेहिर इत्यर्थः । कर्तरि लट् श्यन्प्रत्ययः । कथंचिदुज्जीवितानां पुनर्मृत्युप्राप्तिः श्रेयोदर्शनहेतुकेति भावः ॥६३॥

 कश्चिच्छस्त्रापातमूढोSपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।
 व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ६४

 कश्चिदिति ॥ शस्त्रापातमूढः प्रहारमूर्छितः कश्चिद्वीरश्चेतनां संज्ञां लब्ध्वा अपवोढुर्मूर्छासमये युद्धभूमेरपनेतुः सख्युमित्रस्योच्चैः क्रोशतः आगच्छागच्छे- त्याक्रोशति सति । 'षष्ठी चानादरे' (२।३।३८) इति षष्ठी । क्रोशन्तमनादृत्ये- त्यर्थः । भूयः पुनरपि आहवाय रणाय व्यावर्तिष्ट, आत्मा देहस्त्यक्तश्च । तथा हि-लोकानुवृत्तिश्च का । नैवेत्यर्थः । सुहृजनानुरोधस्तु हितानर्थिनः परिच्छेत्तुं वृथेत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६४ ॥

 भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव ।
 अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वावेव स्वर्गतावप्यभूताम् ॥६५॥

 भिन्नोरस्काविति ॥ शत्रुणा दूरादाकृष्य आसन्नत्वात्तयोरित्यर्थः । संनिकृष्ट- त्वादेकेषुणैव भिन्नोरस्कौ विदारितवक्षसौ कौचिद्वीरावन्योन्यावष्टम्भ एव सामर्थ्यं तस्य योगात्स्वभावादूर्ध्वावेव ऊर्ध्वं तिष्ठन्तावेव स्वर्गतावपि मृतावभूताम् । अपिश्चार्थः । तत्र मृतयोरूर्ध्वावस्थानासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥६५॥

 भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः खवर्गम् ।
 जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थः कस्य न स्याज्जनेन ॥६६॥

 भिन्नानिति ॥ अन्ये वीरा अर्भिन्नान्विदारितान् अत एव मोहभाजो मूर्छाभाजो मूर्छागतानभिजातान्कुलीनान् । 'अभिजातः स्थितौ न्याये कुलीन- प्राप्तयोरपि' इति विश्वः । हन्तुं लोलमुत्सुकं स्ववर्ग वारयन्तः जीवं गृहीत्वा जीवग्राहं ग्राहयामासुः। जीवमेव ग्राहयामासुरित्यर्थः । 'समूलाकृतजीवेषु हन्कृ- अग्रहः' (३।४।३६) इति णमुल्प्रत्ययः । कषादित्वादनुप्रयोगः । जीवग्रहणप्र- योजनमर्थान्तरन्यासेनाह-तथा हि,-योग्येन जनेन हेतुना कस्य पुंसोऽर्थः कीर्त्यादिप्रयोजनं न स्यात् । स्यादेव सर्वस्यापीत्यर्थः । अतो वीराणां रणेष्वप्य- तिपरिक्षतरक्षणमेव श्रेयः । 'नार्तं नातिपरिक्षतम्' (मनु० ७।९३) इति हनन- निषेधादिति भावः ॥ ६६ ॥

 भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।
 आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ६७

 भग्नैरिति ॥ भग्नैर्दण्डैहेतुना । भग्नदण्डत्वादिति भावः । भूमौ पर्यस्तान्यु- त्तानपतितानि । प्रौढचन्द्रद्युतीनि पूर्णेन्दुप्रभाण्यातपत्राणि । श्वेतच्छत्राणी- त्यर्थः । प्रेतराजस्यान्तकस्याहाराय भोजनाय स्थापितानि विहितानि रौप्यस्था- लानि राजतभाजनानीव भान्ति स्मेत्युत्प्रेक्षा ॥ ६७ ॥

 रेजुर्भ्र्ष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् ।
 हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥६८॥

 रैजुरिति ॥ व्यसूनां मृतानां पार्थिवानां वक्षसो भ्रष्टाः पतिताः कुङ्कुमाङ्काः ।

कुङ्कुमारुणिता इत्यर्थः । मुक्ताहाराः पूर्णकामस्य सकलराजकसंहारासफलमनो- स्थस्य अत एव पीतं रक्तमेवासवं येन तस्य मृत्योः हासादट्टहासाल्लक्ष्या दृश्या दन्ता रेजुरिति मन्ये इत्युत्प्रेक्षा ॥ ६८॥

 निम्नेष्वोघीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासांचकार ।
 रागार्थ तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ६९

 निम्नेष्विति ॥ भूमौ निम्नेषु निम्नस्थलेष्वोघीभूतं राशीभूतमस्त्रक्षतानां संबन्धि यदस्रं रक्तं चकासांचकार दिदीये । 'चकासृ दीप्तौ' इति धातोर्लिट् । 'कास्यनेकाच आम्वक्तव्यः' इत्याम्प्रत्यये कृञोSनुप्रयोगः। तदस्रमन्तकान्तःपुरस्य कृतान्तावरोधस्य संव्यानानामुत्तरीयाणां रागार्थं रञ्जनार्थं कुसुम्भस्येदं कौसुम्भं अम्भः किं नु कुसुम्भद्रवो नु वेत्युत्प्रेक्षा ॥ ६९ ।।

 रामेण त्रिःसप्तकृत्वो हृदानां चित्रं चक्रे पञ्चकं क्षत्रियास्रैः ।
 रक्ताम्भोभिस्तत्क्षणादेव तस्सिन्संख्येऽसंख्याः प्रावहन्द्वीपवत्यः७०

 रामेणेति ॥ रामेण भार्गवेण सामर्थ्यात्रीन्वारान् त्रिः । ' द्वित्रिचतुर्भ्यः सुच्' (५।४।१८) इति सुच्प्रत्ययः । त्रिरावृत्ताः सप्त त्रिःसप्तकृत्वः। एकविंश- तिवारानित्यर्थः । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' (५।४।१७) इति कृत्वसुच् प्रत्ययः । क्षत्रियास्त्रै राजन्यरक्तैः चित्रमद्भुतं हृदानां पञ्चपरिमाणमस्य पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (५।१।५८) इति सङ्घार्थे कन्प्र- त्ययः । चक्रे कृतम् । तस्मिन्संख्ये युद्धे । 'मृधमास्कन्दनं संख्यम्' इत्यमरः । क्षणादेव रक्तरेवाम्भोभिः असंख्या द्वीपवत्यो नद्यः प्रावहन्प्रासरन् । रामेण बहुकालेन च स्यमन्तपञ्चकाख्यं हृदपञ्चकमेव कथंचित्कृतम् । अत्र तु क्षणमात्रेणा- संख्या नद्यः प्रवृत्ता इत्युपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालंकारः ॥ ७० ॥

 संदानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः ।
 कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ॥७१॥

 संदानान्तादिति ॥ शिक्षितास्त्रैरभ्यस्तास्त्रविद्यैरस्त्रिभिरायुधीयैः अधः रथाना- मधस्तादाविश्य प्रविश्य संदानान्ताद्वन्धनप्रदेशात् । गुल्फप्रदेशमधिकृत्येत्यर्थः । 'संदानं पशूनां पादबन्धनम्' इति विश्वः । शातं शितम् । 'शाच्छोरन्यतरस्याम्' (७।४।४१) इति विकल्पादीत्वाभावः । तेन शस्त्रेणावलूनाश्छिन्नाः । इभाना- मिमे ऐभाः अङ्घ्रयश्चरणाः असृङ्मयीनां रक्तविकाराणां नदीनामन्तरभ्यन्तरे व्यक्तं कूर्मौपम्यं कमठोपमाम् । स्वार्थे ष्यञ्प्रत्ययः । अत एवौपम्यादयः चातुर्वर्ण्यव- दिति वामनः । प्रापन् प्राप्ताः । आपो लुङि 'पुषादि-' (३।११।५५) इति च्लेरङादेशः । उपमा ॥७१॥

 पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।
 सोपस्काराःप्रावहन्नस्रतोयाः स्रोतखिन्यो वीचिषूच्चैस्तरद्भिः॥७२।।

 पद्माकारैरिति ॥ उच्चैर्वाचिषु तरद्भिः प्लवमानैः पद्माकारैः कमलकल्पैर्योध-

वक्त्रैर्भटमुखैरिभानां कर्णेभ्यो भ्रष्टैश्चामरैर्हंसैः सोपस्काराः सपरिकराः। 'संपर्यु- पेभ्यः करोतौ भूषणे' इति सुडागमः । अस्रतोया रक्तजलाः स्रोतस्विन्यो नद्यः प्रावहन् । अत्र रूपकोपमयोः संकरः सुगमः ॥ ७२ ॥

 उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं वभ्रमुः पत्रवाहाः।
 मूर्ताः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः ७३

 उत्क्रान्तानामिति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणः । आमिषाय आमिषमत्तुम् । ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (२।३।१४) इति चतुर्थी । उत्क्रान्तानां मृतानामुपरिष्टादध्याकाशमाकाशे । विभक्त्यर्थेऽव्ययीभावः । बभ्रमुः भ्रेमुः । 'वा जॄभ्रमुत्रसाम्' (६।४।१२४) इति विकल्पादेत्वाभ्यासलोपा- भावः । अत्रोत्प्रेक्ष्यते-दारुणास्त्रैर्घोरास्त्रैः कायं त्याजिता विसर्जिताः । त्यजेण्र्यन्ता- द्विकर्मकात्कर्मणि क्तः । ‘ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । मूर्ता मूर्तिमन्तः प्राणा अद्येदानीमपि कायमवेक्षामासुः पूर्वाभिमानात्पुनः कायप्रवेशापेक्षिणो मूर्ताः प्राणा एव नूनमाराभ्द्रमन्तीत्युत्प्रेक्षार्थः । 'इजादेश्च गुरुमतोऽनृच्छः' (३।१।३६) इत्याम्प्रत्ययः 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेरनुप्रयोगः 'आम्प्रत्य- यवत्-' (१।३।६३) इत्यत्र कृञ एवेति नियमादस्तेर्नात्मनेपदम् ॥ ७३ ॥

 आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः ।
 आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥७४ ॥

 आतन्वद्भिरिति ॥ दिक्षु पत्राग्रनादं पक्षान्तघोषं आतन्वद्भिर्विस्तृणद्भिः दूरादाशु प्राप्तैरागतैः अजीवैरचेतनैः । पचाद्यजन्तेन नञ्समासः । पत्रिपूगैः । बाणव्रातैरित्यर्थः । तीक्ष्णैर्मुखाग्रैः करणैः सैनिकानां रक्तमपायि पीतम् । पिबतेः कर्मणि लुङ् । 'आतो युक्क्रिण्कृतोः' (७।३।३३) इति युगागमः । पश्चाजीवैश्चेतनैः पत्रिपूगैः पक्षिसङ्घैः कर्तृभिस्तीक्ष्णैः मुखाग्रैश्चपुटैः करणैरपायि । अत्रोभयेषां पत्रिणां प्रकृतत्वात्केवलप्रकृतविषयः श्लेषः ॥ ७४ ॥

 ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।
 ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥७५॥

 ओजोभाजामिति ॥ दीप्ता ज्वलन्ती जिह्वा यस्याः सा दीप्तजिह्वा शिवा । रणे संस्थितानां मृतानां ओजोभाजामोजस्विनां अङ्गेन गात्रेण साधं यत्तीव्रं तिग्मं तेज आददभक्षयत् । अदेर्लङ् 'अदः सर्वेषाम्' (७।३।१००) इत्यडागमेऽपृक्तस्य 'आडजादीनाम्' (६।१।७२) इत्यांडागमोऽङ्गस्य 'आटश्च' (६।१।९०) इति वृद्धिः । तदन्तरन्तरेऽन्तरितं तेजो ज्वालाव्याजान्मुखोल्काच्छलादुद्वमन्ती तारमुचैर्ववाशे रौति स्म । 'तिरश्चां वाशितं रुतम्' इत्यमरः । नूनमित्युस्प्रेक्षायाम् । अत्र व्याजशब्देन ज्वालास्वापहृवेन तेजस्त्वोत्प्रेक्षणे सापहवोत्प्रेक्षेति सर्वस्वकारः ॥ ७५॥

 नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।
 योद्धर्बाणप्रीतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥७६॥

 नैरन्तर्येति ॥ नैरन्तर्येणाविच्छेदेन छिन्नं देहस्यान्तरालं यस्मिन्कर्मणि तद्यथा तथा बाणैः प्रोतं स्यूतम् अत एव दुर्भक्षस्य भक्षितुमशक्यस्य । कृच्छ्रार्थे खल्प्रत्ययः । योद्धुर्योधस्य संबन्धि मांसं ज्वालिना ज्वालावता वाशितेन रुतेन । शिवानां वाशने जिह्वा ज्वलतीति प्रसिद्धिः । आदीप्य प्रज्वाल्य । बाणदाहाय मांसपाकाय चेति भावः । अत एव पाकेनापूर्वोऽभिनवः स्वादो रुचिर्यस्य तत्तथा शिवाभिर्गोमायुभिः । 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । आदे जघसे । भक्षितमित्यर्थः । 'लिट्यन्यतरस्याम्' (२।४।४०) इति विकल्पा- ददेर्न घस्लादेशः । वाशितोत्थया जिह्वाज्वालया दग्धेषुप्रतिबन्धेन पाकरुचिरं जघस इत्यर्थः । अत्र पाकापूर्वास्वादाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥७६॥

 ग्लानिच्छेदी क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।
 स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणव्द्यस्वनच्च ॥७७॥

 ग्लानीति ॥ क्रोष्टा जम्बुकः क्षुत्प्रबोधाय ग्लानिच्छेदी खेदहारी शोषितो जारितः अजीर्णशेषो येन तद्रक्तमेवारिष्टं पानविशेष इति रूपकम् । तत्पीत्वा स्वादुंकारं स्वादूकृत्य । 'स्वादुमि-' (३।४।२६) इति णमुल् । कालखण्डेन यकृता उपदंशं कालखण्डं उपदंशं कृत्वेत्यर्थः । 'कालखण्डयकृती तु समे' इत्य- मरः । 'उपदंशस्तृतीयायाम्' (३।४।४७) इति णमुल् । कालखण्डस्य दशन- क्रियाकर्मत्वेऽपि भुजिक्रियाकरणत्वात्तृतीयोपपदतया 'तृतीयाप्रभृतीन्यन्यतरस्याम्' (२।२।२१) इति विकल्पेनोपपदसमासः । डिम्बं कलेवरं व्यष्वणत् । भुक्तवा- नित्यर्थः । 'वेश्च स्वनो भोजने' (८।३।६९) इति षत्वम् । व्यस्वनदवादयच्चेति समुच्चयः । अभोजनार्थत्वात्षत्वं न ॥ ७७ ॥

 क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि ।
 आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्याददावाननानि ॥७८॥

 क्रव्यादिति ॥ क्रव्यमदन्तीति क्रव्यादो मांसभक्षकाः कङ्कगृध्रादयः । 'क्रव्ये च' (३।२।६९) इति विट् प्रत्ययः । तेषां पूगैः कर्तृभिः मेदसो वसायाः। 'मेदस्तु वपा वसा' इत्यमरः । प्रत्याशाभिस्तृष्णाभिर्दारितानि मेदस्वित्वभ्रान्त्या पाटितान्यानकानां तूर्याणां पुष्कराणि मुखानि । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेजले' इत्यमरः । प्राणिनः करितुरगादीन् प्रत्यवस्यन्नभ्यवहरन् । 'अभ्यवहारः प्रत्यवसनं भोजनं जग्धिः' इति हलायुधः । कालोऽन्तकः आभीलानि भयंकराणि । 'आभीलं भीमकृच्छ्रयोः' इति विश्वः । आननानि व्याददौ विददार । 'आङो दोऽनास्यविहरणे' (१।३।२०) इत्यस्य प्रत्युदाहरणमेतत् । यानि विदारितानि पुष्कराणि तान्येवाननानि । नूनमित्युत्प्रेक्षायाम् ॥ ७८ ॥

 कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।
 बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ ७९ ॥

 कीर्णेति ॥ अप्राणद्भिरजीवद्भिः । भिन्नत्वान्निष्प्राणैरित्यर्थः । 'अन प्राणने' इति धातोर्लटः शत्रादेशः । प्राणभाजां प्राणिनां प्रतीकैरवयवैः । 'अङ्ग प्रती- कोऽवयवः' इत्यमरः । समन्तात्कीर्णा सा आजिभूमिः ईषदसमाप्तारम्भैरिति बह्वारम्भैः। किंचिदूनसृष्टैरित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु' (५।३।६८) इति बहुप्रत्ययः । तथार्धसंयोजितैरर्धसृष्टैश्च रूपैराकारैः । 'रूपं स्वरूपे सौन्दर्य आकारश्लेषयोरपि' इति विश्वः । कीर्णा स्रष्टुः धातुः सृष्टिकर्मान्तशाला वा । सृष्टि- कर्मणो नियतागारमिव रेज इत्युत्प्रेक्षा ॥ ७९ ॥

 आयन्तीनामविरतरयं राजकानीकिनीना-
  मित्थं सैन्यैः सममलघुभिः श्रीपतेरूर्मिमद्भिः।
 आसीदोघैर्मुहुरिव महद्वारिधेरापगानां
  दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ ८० ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के संकुलयुद्ध-
वर्णनो नामाष्टादशः सर्गः ॥ १८ ॥

 आयन्तीनामिति ॥ इत्थमुक्तरीत्या अविरतरयमविच्छिन्नवेगं यथा तथा आयन्तीनामभिधावन्तीनां औद्धत्यभाजां प्रागल्भ्यभाजां राज्ञां समूहा राज- कानि । 'गोत्रोक्ष-' (४।१।३९) इत्यादिना वुञ् प्रत्ययः । तेषामनीकिन्यः सेनास्तासां राजकानीकिनीनां अलघुभिर्महद्भिः ऊर्मिमद्भिस्तरङ्गवद्भिः श्रीपतेः कृष्णस्य सैन्यैः समं सेनाभिः सह अपां समूह आपम् । 'भिक्षादिभ्योऽण्' (४।२।३८)। आपेन गच्छन्तीति आपगानामुक्तविशेषणविशिष्टानां वारिधेरोधैः प्रवाहैरिव कृतो गुरुतरध्वनिमहाध्वनिः यस्मिंस्तन्महद्दोलायुद्धं अनियतजयपराजय- युद्धं मुहुरासीत् । उपमा । मन्दाक्रान्ता वृत्तमेतत् ॥ ८० ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध-
काव्यव्याख्यायां सर्वंकषाख्यायामष्टादशः सर्गः ॥ १८ ॥