← अध्यायः ०२ शुक्लयजुर्वेदः
अध्यायः ०३
[[लेखकः :|]]
अध्यायः ०४ →

अध्यायः ३
अग्न्याधानम्, अग्निहोत्रम्, अग्न्युपस्थानम्. चातुर्मास्यः

3.1
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥

3.2
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
अग्नये जातवेदसे ॥

3.3
तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि ।
बृहच्छोचा यविष्ठ्य ॥

3.4
उप त्वाग्ने हविष्मतीर् घृताचीर् यन्तु हर्यत ।
जुषस्व समिधो मम ॥

3.5
भूर् भुवः स्वः ।
द्यौर् इव भूम्ना पृथिवीव वरिम्णा ।
तस्यास् ते पृथिवि देवयजनि पृष्ठेऽ ग्निम् अन्नादम् अन्नाद्याया दधे ॥

3.6
आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥

3.7
अन्तश् चरति रोचनास्य प्राणाद् अपानती ।
व्यख्यन् महिषो दिवम् ॥

3.8
त्रिꣳशद् धाम वि राजति वाक् पतङ्गाय धीयते ।
प्रति वस्तोर् अह द्युभिः ॥

3.9
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ।
सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ।
अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा ।
सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा ।
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥

3.10
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या ।
जुषाणो ऽअग्निर् वेतु स्वाहा ।
सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या ।
जुषाणः सूर्यो वेतु स्वाहा ॥

3.11
उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये ।
आरे ऽ अस्मे च शृण्वते ॥

3.12
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपा रेतासि जिन्वति ॥

3.13
उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै ।
उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥

3.14
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥

3.15
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥

3.16
अस्य प्रत्नाम् अनु द्युतꣳ शुक्रं दुदुह्रे ऽ अह्रयः ।
पयः सहस्रसाम् ऋषिम् ॥

3.17
तनूपा ऽ अग्ने ऽसि तन्वं मे पाहि ।
आयुर्दा ऽ अग्नेऽ स्य् आयुर् मे देहि ।
वर्चोदा ऽ अग्ने ऽसि वर्चो मे देहि ।
अग्ने यन् मे तन्वा ऽ ऊनं तन् मऽ आ पृण ॥

3.18
इन्धानास् त्वा शतꣳ हिमा द्युमन्तꣳ सम् इधीमहि ।
वयस्वन्तो वयस्कृतꣳ सहस्वन्तः सहस्कृतम् ।
अग्ने सपत्नदम्भनम् अदब्धासो ऽ अदाभ्यम् ।
चित्रावसो स्वस्ति ते पारम् अशीय ॥

3.19
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणा स्तुतेन ।
सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सꣳ रायस् पोषेण ग्मिषीय ॥

3.20
अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस् पोष स्थ रायस् पोषं वो भक्षीय ॥

3.21
रेवती रमध्वम् अस्मिन् योनाव् अस्मिन् गोष्ठे ऽस्मिंल् लोके स्मिन् क्षये ।
इहैव स्त मापगात ॥

3.22
सꣳहितासि विश्वरूप्य् ऊर्जा माविश गौपत्येन ।
उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् ।
नमो भरन्त ऽéमसि ॥

3.23
राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।
वर्धमाणꣳ स्वे दमे ॥

3.24
स नः पितेव सूनवे ऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥

3.25
अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः ।
वसुर् अग्निर् वसुश्रवाऽ अच्छानक्षि द्युमत्तमꣳ रयिं दाः ॥

3.26
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ।
स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात् ॥

3.27
इडऽ एह्य् अदित ऽ एहि ।
काम्या ऽ एत ।
मयि वः कामधरणं भूयात् ॥

3.28
सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य ऽ औशिजः ॥

3.29
यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः ।
स नः सिषक्तु यस् तुरः ॥

3.30
मा नः शꣳसोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य ।
रक्षा णो ब्रह्मणस्पते ॥

3.31
महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥

3.32
नहि तेषाम् अमा चन नाध्वसु वारणेषु ।
ईशे रिपुर् अघशꣳसः ॥

3.33
ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय ।
ज्योतिर् यच्छन्त्य् अजस्रम् ॥

3.34
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ॥

3.35
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयत् ॥

3.36
परि ते दूडभो रथोऽस्माꣳ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥

3.37
भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याꣳ सुवीरो वीरैः सुपोषः पोषैः ।
नर्य प्रजां मे पाहि ।
शꣳस्य पशून् मे पाहि ।
अथर्य पितुं मे पाहि ॥

3.38
आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् ।
अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥

3.39
अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः ।
अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥

3.40
अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः ।
अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥

3.41
गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि ।
ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः ॥

3.42
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे ते नो जानन्तु जानतः ॥

3.43
उपहूताऽ इह गावऽ उपहूताऽ अजावयः ।
अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः ।
क्षेमाय वः शान्त्यै प्र पद्ये शिवꣳ शग्मꣳ शंयोः शंयोः ॥

चातुर्मास्ययागः

3.44 (वरुणप्रघासः ४४-४८)
प्रघासिनो हवामहे मरुतश् च रिशादसः ।
करम्भेण सजोषसः ॥

3.45
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
यद् एनश् चकृमा वयम् इदं तद् अव यजामहे स्वाहा ॥

3.46
मो षू ण ऽ इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः ।
महश् चिद् यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥

3.47
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा ।
देवेभ्यः कर्म कृत्वास्तं प्रेत सचाभुवः ॥

3.48
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो यासिषम् अव मर्त्यैर् मर्त्यकृतम् ।
पुरुराव्णो देव रिषस् पाहि ॥

3.49 (साकमेधः ४९-६१)
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत ।
वस्नेव वि क्रीणावहाऽ इषमूर्जꣳ शतक्रतो ॥

3.50
देहि मे ददामि ते नि मे धेहि नि ते दधे ।
निहारं च हरासि मे निहारं निहराणि ते स्वाहा ॥

3.51
अक्षन्न् अमीमदन्त ह्य् अव प्रियाऽ अधूषत ।
अस्तोषत स्वभानवो विप्रा निविष्ठया मती योजा न्विन्द्र ते हरी ॥

3.52
सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि ।
प्र नूनं पूर्णबन्धुर स्तुतो यासि वशाꣳ2ऽ अनु योजा न्विन्द्र ते हरी ॥

3.53
मनो न्व् आह्वामहे नाराशꣳसेन स्तोमेन ।
पितॄणां च मन्मभिः ॥

3.54
आ न ऽएतु मनः पुनः क्रत्वे दक्षाय हविषे ।
ज्योक् च सूर्यं दृशे ॥

3.55
पुनर् नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातꣳ सचेमहि ॥

3.56
वयꣳ सोम व्रते तव मनस् तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥

3.57
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा ।
एष ते रुद्र भागऽ आखुस् ते पशुः ॥

3.58
अव रुद्रमद् ईमह्य् अव देवं त्र्यम्बकम् ।
यथा नो वस्यसस् करद् यद् यथा नः श्रेयसस् करद् यद् यथा नो व्यवसाययात् ॥

3.59
भेषजम् असि भेषजं गवेऽश्वाय पुरुषाय भेषजम् ।
सुखं मेषाय मेष्यै ॥

3.60
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय माऽमृतात् ।
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
उर्वारुकम् इव बन्धनाद् इतो मुक्षीय मामुतः ॥

3.61
एतत् ते रुद्रावसं तेन परो मूजवतोऽ तीहि ।
अवततधन्वा पिनाकावसः कृत्तिवासाऽ अहिꣳसन् नः शिवोऽतीहि ॥

3.62 (वैश्वदेवपर्व ६२-६३)
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
यद् देवेषु त्र्यायुषं तन् नो ऽअस्तु त्र्यायुषम् ॥

3.63
शिवो नामासि स्वधितिस् ते पिता नमस् ते ऽअस्तु मा मा हिꣳसीः ।
नि वर्तयाम्य् उषेऽन्नाद्याय प्रजननाय रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय ॥

भाष्यम्(उवट-महीधर)

तृतीयोऽध्यायः।
तत्र प्रथमा।
स॒मिधा॒ऽग्निं दु॑वस्यत घृतैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन ।। १ ।।
उ०.समिधाग्निम् ।आधानमन्त्राः प्रागग्निर्ज्योतिरित्येतेभ्यः। देवानामार्षं प्रजापतेर्वाग्नेर्वा । आग्नेय्यश्चतस्रो गायत्र्यः । आश्वत्थीस्तिस्रः समिधो घृताक्ता आदधाति । समिधाग्निं दुवस्यत समिधाश्वत्थसमिधा अग्निं दुवस्यत । दुवस्यतिः परिचरणार्थः । परिचरत । ततो जातं सन्तं पूर्णाहुतिसंबधिभिर्घृतैः बोधयत अवगतार्थं कुरुत । अतिथिम् अतिथिधर्माणम् । ततोऽनन्तरं हविःसंबन्धिनि आस्मिन्हव्या जुहोतन । आजुहोत अस्मिन्नग्नौ हव्या हवींषि ॥ १॥
म० अध्यायद्वयेन दर्शपौर्णमासेष्टिविषया मन्त्रा उक्ताः । अथाधानमन्त्रा उच्यन्ते प्रागग्निर्ज्योतिरित्यन्तेभ्यः ( ख०६)। | देवानां प्रजापतेरग्नेर्गन्धर्वाणां वार्षम् । आग्नेय्यश्चतस्रो गायत्र्यः। तत्र कात्यायनः 'अमावास्यायामग्न्याधेयम्' (४ । ७।१) | इत्यादिना कालविशेषादीनि ब्रह्मौदनपाकपर्यन्तानि कार्याण्युक्त्वा पश्चादिदमाह । 'तं चातुष्प्राश्यं पचत्युद्वास्यासेचनं मध्ये कृत्वा सर्पिरसिच्याश्वत्थीस्तिस्रः समिधो घृताक्ता आदधाति समिधाग्निमिति प्रत्यृचम्' (४ । ८ । ४ । ५) इति । अस्यार्थः । | चतुर्भिर्ऋत्विग्भिः प्राशितुं योग्यमोदनं पक्त्वा बहिरुद्वास्य तस्योदनस्य मध्ये घृतसेचनाय निम्नं स्थानं कृत्वा तत्सर्पिषापूर्य तिस्रः समिधस्तस्मिन्सर्पिष्यभ्यज्य तिसृभिर्ऋग्भिरग्नावभ्यादधातीति । समिधाग्निम् । हे ऋविजः, यूयं समिधा कृत्वा अग्निं दुवस्यत परिचरत । दुवस्यतिः परिचरणार्थः । सम्यगिध्यते दीप्यते वह्निर्यया काष्ठरूपया सा समित्तया । घृतैः होष्यमाणैः पूर्णाहुतिसंबन्धिभिरतिथिमातिथ्यकर्मणा पूजनीयमग्निं बोधयत प्रज्वालयत । अस्मिन् प्रज्वलितेऽग्नौ हव्या नानाविधानि हवींषि आ जुहोतन सर्वतो जुहुत । 'तप्तनप्तनथनाच' (पा० ७ । १ । ४५) इति तनबादेशः ॥ १॥

द्वितीया।
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ।। २ ।।
उ० जपति । सुसमिद्धाय साधु समिद्धाय । शोचिषे शोचिष्मते दीप्तिमते ज्वलिताय । घृतं तीव्रं पटुतरं गव्यं ग्रहणोद्वासनाधिश्रयणावेक्षणादिभिः संस्कारैः संस्कृतमित्यर्थः। जुहोतन जुहुत । तेत्त्यर्थका उपजना भवन्ति कर्तन हन्तन यातनेति । अग्नये जातवेदसे जातप्रज्ञानाय ॥२॥
म० हे ऋत्विजः, अग्नये यूयं घृतेन जुहोतन जुहुत । जुहोतेः परस्य लोट्मध्यमबहुवचनस्य तस्य 'तप्तनप्तनथनाश्च' (पा. ७।१।४५) इति तनबादेशे गुणे जुहोतनेति रूपम् । किंभूतायाग्नये । सुसमिद्धाय शोभनतया सम्यग्दीप्ताय । अतएव शोचिषे शोचिष्मते दीप्तिमते ज्वलिताय । जातवेदसे जातं वेत्ति वेदयति वा जातवेदास्तस्मै । जातप्रज्ञानाय वा । किंभूतं घृतम् । तीव्रं स्वादुतमं समग्रं वा पटुतरं वा । ग्रहणोद्वासनाधिश्रयणावेक्षणादिभिः संस्कृतमित्यर्थः ॥ २॥

तृतीया ।
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य।। ३ ।।
उ० तं त्वा समिद्भिः यस्त्वमुक्तगुणस्तं त्वां समिद्भिः । हे अङ्गिरः । अङ्गतिर्गत्यर्थः । रो मत्वर्थीयः। गमनवन् । 'अङ्गिरा उ ह्यग्निः' इति श्रुतिः । घृतेन वर्धयामसि वर्धयामः । 'इदन्तो मसि' इति सिकारश्छान्दसः । बृहत् महत् शोच दीप्यस्व । यविष्ठ्य युक्तम । इष्टनि परभूते टेः 'स्थूलदूरयुव-' इत्यादिना यविष्ठ्य इति सिद्धम् । स्वार्थिको यकारस्तद्धितः ॥३॥
म० हे अङ्गिरः, अङ्गतिर्गत्यर्थः । अङ्गिर्गतिरस्यास्तीति अङ्गिराः । रस्प्रत्ययो मत्वर्थीयः । तत्तद्यागेषु गमनवन्नग्ने । 'अङ्गिरा उ ह्यग्निः' (१।४।१।२५).ति श्रुतेः तं य उक्तगुणस्तथाविधं त्वा त्वां समिद्भिर्यज्ञसंबन्धिकाष्ठैर्घृतेन संस्कृताज्येन च वर्धयामसि वर्धयामः प्रवृद्धं कुर्मः । 'इदन्तो मसि' (पा० ७।१।४६ ) इति सिकारश्छान्दसः । हे यविष्ठ्य युवतम, कदाचिदपि स्थविरत्वरहितेत्यर्थः । तथाविधाग्ने, बृहत् महत् प्रवृद्धं यथा तथा शोच दीप्यस्व । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । अतिशयेन युवा यविष्ठः । इष्ठनि परे 'स्थूलदूरयुव-' (पा० ६ । ४ । १५६) इत्यादिना वा टिलोपे गुणे च रूपम् । यविष्ठ एव यविष्ठ्यः । स्वार्थे तद्धितयकारः ॥ ३ ॥

चतुर्थी।
उप॑ त्वाऽग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ ।। ४ ।।
उ० उप त्वा उप यन्तु त्वां हे अग्ने, हविष्मतीः हविषा संयुक्ताः । घृताचीः घृताञ्चनाः समिधः । हर्यत । 'हर्य कान्तौ' । हर्यतिः प्रेप्साकर्मा । प्रेप्सावन् , ताश्च त्वां प्रत्युपगच्छन्तीः जुषस्व आसेवस्व समिधः मम संबन्धिनीः ॥ ४॥
म०. 'उप त्वेति जपतीति' (का० ४ । ८ । ६) हे अग्ने, हविष्मतीर्हविष्मत्यः हविर्युक्ताः घृताचीः घृताच्यो घृताक्ता एताः समिधस्त्वामुपयन्तु प्रत्युपगच्छन्तु । हे हर्यत प्रेप्सावन्, 'हर्यतः । आचके' ( निघ० २ । ६ । १०) इति | कान्तिकर्मसु पठितत्वात् । तथाविध हे अग्ने, मम मदीयाः समिधः त्वं जुषस्व सेवस्व । त्वामुपयतीरङ्गीकुर्वित्यर्थः । 'छन्दसि परेऽपि' 'व्यवहिताश्च' (पा० १।४ । ८१-८२) इति । उपयन्तु इत्युपसर्गक्रियापदयोर्व्यवहितत्वम् । हविष्मतीरित्यादौ 'वा छन्दसि' (पा० ६ । १ । १०६ ) इति पूर्वसवर्णदीर्घत्वम् ॥ ४ ॥

पञ्चमी।
भूर्भुव॒: स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा । तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ।। ५ ।।
उ० भूर्भुवःस्वः । महाव्याहृतयः । प्रजापतेरार्षम् । गार्हपत्याहवनीययोराधानमन्त्राः । पृथिव्यन्तरिक्षद्युलोका अभिधेयाः, ब्रह्मक्षत्रविशो वा वर्णाः, अन्नप्रजापशवो वा। श्रुतितो व्याख्यातमेतत् । इध्मपूर्वार्धं गृहीत्वा यजमानो जपति । द्यौरिव भूम्ना । उपरिष्टादारभ्यैतद्यजुर्व्याख्येयं तथाहि सुबोधं भवति । तस्याः ते तव हे पृथिवि देवयजनि देवा यस्यामिज्यन्ते इति देवयजनी तस्याः संबोधनं क्रियते । हे देवयजनि, ते पृष्ठे उपरि । अग्निमन्नादम् अन्नस्यात्तारम् । अन्नाद्याय अन्नादनाय अन्नभक्षणाय । आदधे स्थापयामि । तस्याः पृथिव्याः पृष्ठेऽग्निमाधाय । द्यौरिव भूम्ना । यथा द्यौर्भूम्ना नक्षत्रबहुत्वेन बह्वी एवं पुत्रादिभिर्बहुभिर्भूयासम् । पृथिवीव वरिम्णा । यथा पृथिवी वरिम्णा उरुत्वेन सता सर्वप्राणिनामाश्रयभूता एवमहं महत्त्वेन सता. सर्वप्राणिनामाश्रयभूतो भूयासम् । अथवा यथाक्रममेव व्याख्यायते । द्यौरिव भूम्ना भूयासम् पृथिवीव वरिम्णा भूयासम् । हे अग्ने, त्वत्प्रसादात् । पृथिव्युच्यते । तस्याः ते तव पृथिवि देवयजनि, पृष्ठे उपरि अग्निमन्नादमन्नभक्षणाय आदधे । यस्यास्तव मन्वादयोऽपि अन्नाद्याय संवृताः संजाताः।।५।।
म० 'दारुभिर्ज्वलन्तमादधाति भूर्भुव इति संभारेषु' (का० ४।९।१) इति । भूर्भुवःस्वरिति पूर्ववदिति च' (४।९।१६) अस्यार्थः । आपो हिरण्यमूषाखूत्करः शर्करेति पञ्च संभारान्संपाद्य स्फ्येनोल्लिखितायां शुद्धायां भूमौ तान्संभारानवस्थाप्य तेषु शुष्ककाष्ठैर्ज्वलन्तमग्निं भूर्भुवःस्वरिति पञ्चाक्षराण्युच्चारयन्नादध्यात् । इदमाहवनीयाधानम् । एवमष्टाक्षरत्वादग्नेर्गायत्रत्वं श्रुत्योक्तम् । गायत्रीसहितस्याग्नेः प्रजापतिमुखादुत्पन्नत्वात् । अथ मन्त्रार्थः । एतेष्वाधानमन्त्रेषु भूरिति प्रथमा व्याहृतिः । भुव इति द्वितीया । स्वः इति तृतीया । एतास्तिस्रो व्याहृतयः पृथिव्यादिलोकत्रयनामानि । एतदुच्चारणपूर्वकं प्रजापतिना लोकत्रयस्य सृष्टत्वात् । अत एवाभिः स्थापयन् लोकत्रयमनेन स्मरेत् । एतासां व्याहृतीनां महिमा भूयादिति । भूर्भुवःस्वःशब्देन ब्रह्मक्षत्रविशो वा आत्मप्रजापशवो वा । सर्वे मद्वशगा भूयासुरिति प्रार्थयन्नग्नीनादध्यादित्यर्थः । 'इध्मपूर्वार्धं गृहीत्वा द्यौरिव भूम्नेत्याहेति' (का० ४ । ९ । १७)। देवा इज्यन्ते यस्यां पृथिव्यां सा देवयजनी तथाविधे हे पृथिवि, तस्यास्ते तव पृष्ठे देवयजनयोग्यायास्तवोपरि । अन्नादमन्नस्य हुतस्यात्तारमग्निं गार्हपत्यादिरूपमादधे स्थापयामि । किमर्थम् । अन्नाद्याय । अन्नं च तदाद्यं च तस्मै आद्यस्यान्नस्यात्तुं योग्यस्यान्नस्य सिद्ध्यर्थम् । आहिताग्न्यादित्वात्परनिपातः (पा० २ । २ । ३७) । यद्वान्नस्याद्याय भक्षणाय । यस्याः पृष्ठेऽग्निमाधाय भूम्ना द्यौरिव भूयासमिति शेषः । बहोर्भावो भूमा तेन । यथा द्यौनक्षत्रबहुत्वेन वह्वी एवं पुत्रपश्वादिभिर्बहुभूयासम् । वरिम्णा पृथिवीव भूयासम् । उरोर्भावो वरिमा तेन । यथा पृथिवी उरुत्वेन सर्वप्राणिनामाश्रयभूता एवमहं महत्त्वेन सर्वप्राणिनामाश्रयभूतो भूयासम् । यद्वा पूर्वार्धस्यायमर्थः । किंभूतमग्निम् । भूम्ना द्यौरिव वर्तमानम्। यथा द्यौर्नक्षत्रादिबहुत्वेन युक्ता तथा ज्वालाबहुत्वेन युक्तम् । किंच वरिम्णा पृथिवीव स्थितम् । यथा पृथिवी सर्वप्राण्याश्रयत्वरूपेण श्रेष्ठत्वेनोपेता तथा सर्ववस्तुशोधकत्वरूपेण श्रेष्ठत्वेनोपेतम् । अतएव क्वचिद्विधिवाक्ये अग्नये पावकायेत्याम्नातम् ॥ ५॥

षष्ठी।
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑: ।। ६ ।।
उ० आयं गौः पृश्निः । सार्पराज्ञ्य आर्षम् । गायत्रस्तृचः आहवनीयाग्न्युपस्थाने विनियुक्तः। अग्निः परापररूपेण स्तूयते। आयं गौः पृश्निरक्रमीत् । आक्रमीत् आक्रमते ऐश्वर्यरूपेणायमग्निः गौः गन्ता। सर्वासु तासु तासु क्रियासु पृश्निर्नानारूपः असदन्मातरं पुरः इमं लोकमग्निरूपेणानुगृह्य ततः प्रातरादित्यात्मना सीदति मातरं पृथिवीं पुरः पुरस्तात्प्राच्यां दिशि । किंच पितरं च प्रयन्त्स्वः पितरं द्युलोकं च प्रयन् गच्छन् सीदतीत्यनुवर्तते । स्वः स्वर्गे आदित्यः ॥ ६ ॥
म० 'आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिर्दक्षिणाग्निमादधातीति' (का० ४ । ९ । १८-१९) । आयं गौरित्यादीनां तिसृणामृचां सार्पराज्ञीति नामधेयम् । सर्पराज्ञी कद्रूः पृथिव्यभिमानिनी । तया दृष्टत्वात् ताभिर्ऋग्भिराहवनीयमुपतिष्ठते । ततो दक्षिणाग्निमादध्यादिति सूत्रार्थः । गायत्रस्तृचः । अग्निः परावररूपेण स्तूयते । अयं दृश्यमानोऽग्निः आ अक्रमीत् सर्वत आहवनीयगार्हपत्यदक्षिणाग्निस्थानेषु सर्वतः क्रमणं पादविक्षेपं कृतवान् । किंभूतोऽग्निः । गच्छतीति गौः यज्ञनिष्पत्तये तत्तद्यजमानगृहेषु गन्ता । 'गमेर्डोप्रत्ययः' (उ० २ । ६६)। तथा पृश्निः चित्रवर्णः । लोहितशुक्लादिबहुविधज्वालोपेतः । आक्रमणमेवाह । पुरः प्राच्यां दिशि मातरं पृथिवीमसदत् आसीदत् आहवनीयरूपेण प्राप्तवान् । तथा स्वः प्रयन् आदित्यरूपेण स्वर्गे संचरन् पितरं च द्युलोकमपि असदत्प्राप्तवान् । स्वःशब्देन सूर्यः ( निघ० १ । ४ । १)। द्युलोकभूलोकयोर्मातापितृत्वमन्यत्रापि श्रूयते । 'द्यौः पिता पृथिवी माता' इति ॥ ६ ॥

सप्तमी।
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णादपा॑न॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ।। ७ ।।
उ० एवमादित्यरूपेणाग्निं स्तुत्वा अथेदानीं वायुरूपेण स्तौति । अन्तश्चरति रोचनास्य । द्यावापृथिव्योरन्तरं चरति अग्नेर्वाय्वाख्या शक्तिः। 'अन्तरिक्षेऽयं तिर्यङ् वायुः पवते' इति श्रुतेः । रोचना । 'रुच दीप्तौ' । दीपना अस्य अग्नेः । किं कुर्वाणा चरति । प्राणादपानती । 'अन प्राणने' । सर्वप्राणिषु प्राणादनन्तरम् अपानती चरति अपानादनन्तरं प्राणती चरतीति सामर्थ्यादयमर्थो लभ्यते । एवं वाय्वादित्याभ्यां स्वशक्तिभ्यामिदं जगदनुगृह्याथ य एनामेवमुपतिष्ठति तस्य किं करोतीत्याह । व्यख्यन्महिषो दिवम् । विविधं तस्य पुरुषस्योपभोगार्थमवलोकयति पश्यति भोग्यत्वेन दिवं द्युलोकम् । महिषः । 'अग्निर्वै महिषः स हीदं जातो महान्' इति श्रुतिः ॥७॥
म० एवमादित्यरूपेणाग्निं स्तुत्वा वायुरूपेण स्तौति । अस्याग्ने रोचना । 'रुच दीप्तौ' दीप्तिः काचिच्छक्तिः वाय्वाख्या। अन्तश्चरति द्यावापृथिव्योर्मध्ये शरीरमध्ये चरति । 'अन्तरिक्षेऽयं तिर्यङ्वायुः पवते' इति श्रुतिः । किं कुर्वती । प्राणादपानती सर्वशरीरेषु प्राणव्यापारादनन्तरमपानव्यापारं कुर्वती। अपानादनन्तरं प्राणतीत्यप्यर्थो लभ्यते सामर्थ्यात् प्राणापानयोर्वायुविशेषयोः प्रेरिकेत्यर्थः । सति हि जठराग्नौ जीवनहेतोरौष्ण्यस्य शरीरे सद्भावात्प्राणापानौ प्रवर्तते । तस्मादग्निः प्राणापानरूप इत्यर्थः । एवं वाय्वादित्याभ्यां स्वशक्तिभूताभ्यामिदं जगदनुगृह्य य एनमुपतिष्ठते तस्य किं करोतीत्याह । व्यख्यदिति । महिषोऽग्निः दिवं व्यख्यत् । द्युलोकं भोगस्थानमनुष्ठातृभ्यो विशेषेण प्रकाशितवान् प्रकाशयति च । महि माहात्म्यं यागकर्तृस्वरूपं सनोति ददाति स महिषः । 'अग्निर्वै महिषः स इदं जातो महान्' इति श्रुतेः । व्यख्यत् विपूर्वस्य ख्या प्रकथन इत्यस्य 'अस्यतिवक्तिख्यातिभ्योऽङ् (पा० ३ । १ । ५२ ) इति च्लेरङ् । आलोपः । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति सर्वकालेषु लङ् । अपान इवाचरतीत्यपानती । क्विबन्तादपानशब्दाच्छतृप्रत्ययः । 'उगितश्च' (पा० ४ । १ । ६) इति ङीप् ॥ ७ ॥
 
अष्टमी।
त्रि॒ᳪं᳭शद्धाम॒ वि रा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभि॑: ।। ८ ।।
उ० त्रिᳪं᳭शद्धाम । त्रिंशत्सु धामस्विति विभक्तिव्यत्ययः। 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानि' इति स्थानान्यत्राभिप्रेतानि । त्रिंशच्चाहोरात्रे मुहूर्तास्त इह गृह्यन्ते । त्रिंशत्सु स्थानेषु मुहूर्ताख्येषु स्तुतिभिरग्निरयं स्तूयते । यज्ञे या वाग्विराजति शोभते स्तूयमाना सा वाक् । पतङ्गाय पतन्गच्छतीति पतङ्गोऽग्निः स ह्यरण्याः पतन् गार्हपत्यभावं गच्छति गार्हपत्यादाहवनीयमित्यादिना तादर्थ्ये चतुर्थी । पतङ्गार्थं धीयते अग्न्यर्थमुच्चार्यत इत्यर्थः । एतदुक्तं भवति । सर्वदेवतासंबन्धिनीभिः स्तुतिभिरग्निरेव स्तूयते। स हि सर्वात्मा।प्रतिवस्तोरह द्युभिः। वस्तोः द्युःभानुः इत्यहर्नामसु पठितम् । अह इति निपातो विनिग्रहार्थीयः । न केवलं या त्रिᳪं᳭शत्सु धामसु वाग्विराजति सा पतङ्गाय धीयते किं तर्हि प्रतिवस्तोः प्रत्यहं च या स्तुतिलक्षणा वाक् सा च द्युभिः अहोभिरुत्सवभूतैः । उत्सवाः यागपारायणादयः । स्तुतिलक्षणा वाक् सा च पतङ्गाय धीयते नान्यस्यै देवतायै ८
म० 'सुपां सुलुक्' (पा० ७ । १ । ३२ ) इत्यादिना त्रिंशच्छब्दाद्धामशब्दाच्च सुपो लुक् । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' (निरु० ९ । २८ । २९ )। अत्र धामशब्देन स्थानमुच्यते । अहोरात्रस्य त्रिंशन्मुहूर्ता धामशब्देनाभिप्रेताः । त्रिंशत्सु धामसु मुहूर्ताख्येषु स्थानेषु या वाक् विराजति शोभते स्तूयमाना सा वाक् पतङ्गाय धीयते अग्न्यर्थमुच्चार्यते । पतन् गच्छतीति पतङ्गः अग्निः । स ह्यरण्योः पतन् गार्हपत्यभावं गच्छति गार्हपत्यात्पतन्नाहवनीयतामित्यादि । सर्वदेवसंबन्धिनीमिः स्तुतिभिरग्निरेव सर्वात्मत्वात्स्तूयत इत्यर्थः । न केवलं त्रिंशत्सु धामसु या वाग्विराजति सैव पतङ्गाय धीयते । किं तर्हि प्रतिवस्तोः प्रत्यहं या स्तुतिलक्षणा वाक् या च द्युभिः अहोभिः यागपारायणाद्युत्सवभूतैः स्तुतिलक्षणा वाग्विराजति सा पतङ्गायैव धीयते नान्यस्यै देवतायै । 'वस्तोः द्युः भानुः' (निघ० १।९।१) - इत्यहर्नामसु पठितम् । अहेति निपातो विनिग्रहे । सर्वकालं सर्वा स्तुतिवागग्न्यर्थेवेत्यर्थः । यद्वास्या ऋचोऽयमर्थः । धाम स्थानं तच्च त्रिंशत् त्रिंशत्संख्याकं मासगतदिनभेदेन । तद्विराजति विशेषेण दीप्यते । आलस्यरहितानां यजमानानामनुष्ठानेनाहवनीयाद्यग्नीनां स्थानं मासगतेषु त्रिंशत्संख्याकेषु दिनेषु विशेषेण शोभत इत्यर्थः । वाक् स्तुतिरूपा पतङ्गायाग्नये धीयते उच्चार्यते । पतङ्गः पक्षी । तत्सदृशत्वादग्निः पतङ्गः। यथा कश्चित्पक्षी एकस्मात्स्थानात्स्थानान्तरं गच्छति तद्वदग्निरपि गार्हपत्यस्थानादाहवनीयस्थानं गच्छतीत्यग्नेः पक्षिसादृश्यम् । | अहेति निपातः पूर्वोक्तनिषेधार्थः । अस्या ऋचः पूर्वार्धेऽग्निमाहात्म्यज्ञापकं वाक्यद्वयेनार्थद्वयं यदुक्तं तावदेव न भवति | किंत्वन्यदप्युच्यत इत्यर्थः । वस्तोरित्यहर्नामसु पठितम् । प्रतिवस्तोः प्रत्यहं द्युभिः द्योतनैरयमग्निः स्तूयत इत्यध्याहारः । | द्युर्द्योतनं दीप्यतेः प्रयोगः ॥ ८ ॥
इत्यग्न्याधेयमन्त्राः ॥

नवमी।
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ । सूर्यो॒ ज्योति॒र्ज्योति॒: सूर्य॒: स्वाहा॑ । अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । ज्योति॒: सूर्य॒: सूर्यो॒ ज्योति॒: स्वाहा॑ ।। ९ ।।
उ० अग्निर्ज्योतिः । अग्निहोत्रमन्त्राः प्रागुपप्रयन्त इत्येतस्मात् । प्रजापतेरार्षम् । अग्निर्वर्च इति द्वे तक्षापश्यत्परांजीवलश्चैलकिः । सप्त लिङ्गोक्तदेवता गायत्र्यः । पूर्वाः पञ्चैकपदाः । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । 'नमःस्वस्तिस्वाहा-' इत्यादिना सूत्रेण प्रथमायाः स्थाने चतुर्थी । अग्निर्ज्योतिर्ज्योतिरग्निरिति मन्त्राभ्यासः । अभ्यासे भूयांसमर्थं मन्यन्ते | इत्यभिप्रायः । अथ कोर्थः । अग्नये ज्योतिषे स्वाहा सुहुतमस्तु । अथवा स्वस्याहानमस्तु । हानं हाः नहाः स्वस्य अहा अपरित्यागः । आत्मनो द्रव्यस्य वेति । अथवा योऽग्निर्ज्योतिर्ज्योतिश्चाग्निस्तस्मै स्वाहा । सूर्यो ज्योतिरित्यप्यनेनैव व्याख्यातम् । अथ ब्रह्मवर्चसकामस्य । अग्निर्वर्चः योऽग्निर्वर्चसा अनन्यभूतः यस्य च ज्योतिर्वर्चसा अनन्यभूतम् तद्रूपं तस्मै हुतमस्तु । अनेनैव सूर्यो वर्च इत्याख्यातः प्रातर्होममन्त्रः । ज्योतिः सूर्य इति व्याख्यातः सूर्यो ज्योतिरित्यनेनैव ॥ ९॥
म० अथाग्निहोत्रहोममन्त्राः अग्निर्ज्योतिरित्यारभ्य उपप्रयन्त ( ख० ११ ) इत्यतः प्राक् । तन्मन्त्राणां प्रजापतिर्ऋषिः सामान्यतः । यत्र ऋषिविशेषोऽभिधीयतेऽनुक्रमणीकारैस्तत्र द्वावप्यृषी । 'यथाग्निर्वर्चो द्वे तक्षापश्यत्परां जीवलश्चैलकिरिति' ( अनु० १ । ११) सप्त लिङ्गोक्तदेवता गायत्र्यः । आद्याः पञ्चैकपदाः । अग्निर्ज्योतिः सूर्यो ज्योतिः एते द्वे एकपदे गायत्र्यौ तक्षा मुनिरपश्यत् । परां ज्योतिः सूर्यः इतीमां चेलकस्य पुत्रो जीवल ऋषिरपश्यदित्यर्थः । अथ 'प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरितीति' ( का० ४ । १४ । १४ ) या समित् प्रदीप्ता तामभिलक्ष्य जुहुयात् । अग्निर्ज्योतिषमिति काण्वशाखोक्तमन्त्रेण ( अध्या० ३ । २।१) समित्प्रक्षेपः । मन्त्रार्थस्तु । योऽयमग्निर्देवः स एव ज्योतिर्दृश्यमानज्योतिःस्वरूपम् । यच्चेदं दृश्यमानं ज्योतिः तदेवाग्निर्देवः । देवस्य ज्योतिषश्च कदाचिदप्यवियोगादेकत्वेन प्रतिपादनम् । स्वाहा ज्योतीरूपायाग्नये हविः प्रदत्तम् । अयं सायंकालीनोऽग्निहोत्रहोममन्त्रः । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्होममन्त्रः सायंहोममन्त्रवद्व्याख्येयः । सूर्यसंबन्धि तेजो रात्रावग्निं प्रविशतीति सायमग्निर्ज्योतिरिति मन्त्रो युक्तः । उदयकालेष्वग्निसंबन्धि ज्योतिः सूर्यं प्रविशति । तस्मात्प्रातः सूर्यो ज्योतिरिति मन्त्रः । 'अग्निमादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी संपद्येते उद्यन्तं वादित्यमग्निरनु समारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृशे' इति तित्तिरिश्रुतेः । 'अग्निर्वर्च इति ब्रह्मवर्चसकामस्येति' ( का० ४ । १४ । १५) ब्रह्मवर्चसकामस्तु अग्निर्वर्चः सूर्यो वर्च इति सायं प्रातश्च जुहुयात् । योऽग्निर्वर्चोनन्यभूतः यस्य तज्ज्योतिर्वर्चोनन्यभूतम् तस्मै सुहुतमस्तु । एवं 'सूर्यो वर्च इति ज्योतिः सूर्य इति वा प्रातरिति' (का० ४ । १५ । ११) प्रातर्होममन्त्रः ज्योतिः सूर्य इति । यत् ज्योतिः स सूर्य एव । यः सूर्यः स ज्योतिरेव । तस्मै स्वाहा ॥ ९ ॥

दशमी।
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जु॑षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ ।
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या ।जु॑षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑ ।। १० ।।
उ० अन्यो होममन्त्रे विकल्पः । सजूर्देवेन।अग्निरुच्यते । सजूर्देवेन सवित्रा । 'जुषी प्रीतिसेवनयोः' । योऽग्निः समानप्रीतिः देवेन सवित्रा समानप्रीतिश्च । रात्र्या इन्द्रवत्या इन्द्रसंयुक्तया स जुषाणः सेवमानः आस्वादयन् आहुतिं वेतु । वेतिरिह पानार्थः स्वादनार्थों वा । स्वाहा सुहुतं हविरेव भवतु । अथ प्रातः सूर्य उच्यते । सजूर्देवेन सवित्रा समानप्रीतिर्देवेन सवित्रा भूत्वा समानप्रीतिश्च उषसा । उषसाशब्देन सूर्यप्रभोच्यते इन्द्रसंयुक्तया भूत्वा जुषाणः सेवमानः स्वादयन् सूर्यः वेतु पिबतु । स्वाहेति व्याख्यातम् ॥ १० ॥
म० 'सजूरिति वेति' ( का० ४ । १४ । ९) जुहोतीत्यनुवर्तते । पूर्वोक्तमन्त्रैः सह सजूरित्यादिमन्त्रद्वयं विकल्पितम्। सजूर्देवेन । अग्निर्वेतु अस्मदीयं कर्म प्राप्नोतु । यद्वा वेतु आहुतिं भक्षयतु । 'वी प्रजननकान्त्यसनखादनेषु' इति धातोः प्रयोगः । किंभूतोऽग्निः । सवित्रा देवेन प्रेरकेण परमेश्वरेण सह सजूः । 'जुषी प्रीतिसेवनयोः' जोषणं जूः समाना जूः प्रीतिर्यस्यासौ सजूः । तथा इन्द्रवत्या रात्र्या इन्द्रेण देवेनोपेतया रात्रिदेवतया सजूः समानप्रीतिः । तथा जुषाणोऽस्मासु प्रीतियुक्तः । य उक्तगुणवानग्निर्दवस्तस्मै खाहा हूयमानमिदं द्रव्यं दत्तम् । प्रातःसूर्य उच्यते । अग्निमन्त्रवदयं सूर्यमन्त्रो व्याख्येयः । पूर्वार्धे रात्रिदेवतायाः स्थाने उषोदेवता योजनीया।१०।।

एकादशी।
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ।। ११ ।।
उ० अथ यजमानाग्न्युपस्थानम् । उपप्रयन्तो अध्वरं सुपोषः पोषैरित्यन्तं देवानामार्षम् । आये द्वे आग्नेय्यौ गायत्र्यौ । उपप्रयन्तः उपगच्छन्तः अध्वरं यज्ञम् । मन्त्रम् | आर्षम् । वोचेम ब्रूयाम । अग्नये आरे दूरेऽपि स्थिताय अस्मे च शृण्वते अस्माकं च मनं शृण्वते अस्मन्मत्रश्रवणादभिमुखायेत्यर्थः ॥ ११॥
म० 'सायमाहुत्या हुतायां यजमानोऽग्नी उपतिष्ठते | वात्सप्रेण न वा तिस्रस्त्रिरुपप्रयन्तो ११ अस्य प्रत्नां १६ परि ते ३६ चित्रावसविति १८ चेति' ( का० ४ । १२ । १-३) आहवनीयगार्हपत्यावग्नी उपप्रयन्तो अध्वरमित्यारभ्य सुपोषः पोषैरित्यन्तं ३७ बृहदुपस्थानं देवदृष्टम् । तत्राद्ये द्वे आग्नेय्यौ गायत्र्यौ क्रमेण गोतमविरूपाभ्यामपि दृष्टे । आहवनीयोपस्थानमन्त्रा आदौ । वयमनुष्ठातारोऽग्नयेग्न्यर्थं मन्त्रं मननेन त्राणकरं शब्दसमूहं वोचेम उच्याम । किंभूता वयम् । अध्वरं यज्ञमुपप्रयन्त उपगच्छन्तः । किंभूतायाग्नये । आरे दूरे अस्मे अस्माकं समीपे इति शेषः । शृण्वते दूरे समीपे चास्मदीयं वाक्यं श्रोतुमुद्युक्ताय । वोचेमेति वक्तेराशीर्लिङि परस्मैपदोत्तमबहुवचने परे ‘लिङ्ग्याशिष्यङ्' (पा० ३ । १ । ८६) इत्यङ् । यासुट् 'अतो येयः' (पा० ७ । २ । ८०) 'वच उम्' (पा० ७ । ४ । २०) 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इति सार्वधातुकत्वात् 'लिङः सलोपोऽनन्त्यस्य' (पा० ७ । २ । ७९ ) इति सलोपः यलोपः । वोचेम अस्मे 'सुपां सुलुग्' (पा० ७ । १ । ३९) इति शेआदेश आप्तः ॥११॥

द्वादशी।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪं᳭रेता॑ᳪं᳭सि जिन्वति ।। १२ ।।
उ० अग्निर्मूर्धा । परापररूपेण व्यवस्थितोऽस्यामृच्यग्निः स्तूयते । अभिनयेन दर्शयति । योयं 'अग्निर्मूर्धा दिवः' अहनि आदित्यात्मा द्युलोकस्य मूर्धा भवति । अयमेव ककुत् । : ककुदिति महन्नामसु पठ्यते । तस्य कृतान्तलोपस्यैतद्रूपम् । अयमेव महानात्मा जगतः कारणमित्यर्थः । अयमेव पृथिव्याः पतिः । तापपाकप्रकाशादिभिरयमग्निः सर्वाः प्रजा अनुगृह्णातीत्ययमभिप्रायः । किंच अयमेव अपां रेतांसि जिन्वति। या एता द्युलोकात्पतन्ति तासामपां रेतांसि । रेतः कारणमुच्यते । तानि कारणानि जिन्वति । जिन्वतिः प्रीतिकर्मा । तर्पयति परिपुष्यतीति यावत् । आहुतिः परिणममाना वृष्टिं जनयतीत्येतद्दर्शयति । तथाच श्रुतिरग्निहोत्रं प्रकृत्य भवति 'ते वा एते आहुती हुते उत्क्रामतः' इत्यारभ्य 'यस्ततः पुत्रो जायते स लोकः' इत्येवमन्ता आहुतिपरिणामवादिनी ॥ १२॥
म० अयमग्निः अपां रेतांसि जिन्वति द्युलोकाद्वृष्टिरूपेण पतन्तीनामपां रेतांसि साराणि व्रीहियवादिरूपेण परिणतानि जिन्वति । जिन्वतिः प्रीतिकर्मा । प्रीणयति । वर्धयतीत्यर्थः । यद्वा अपां रेतांसि कारणानि जिन्वति पुष्णाति । आहुतिपरिणामेन वृष्टिं जनयतीत्यर्थः । ते वा एते आहुती उत्क्रामतः' इत्यादिश्रुतेः । किंभूतोऽग्निः । दिवो मूर्धा द्युलोकस्य शिरःसमानः । यथा शिरः शरीरस्योपरि वर्तते तथायमग्निरहनि स्वतेजसा आदित्ये प्रविष्टत्वादादित्यरूपेण द्युलोकस्योपरि वर्तते । तथा ककुत् । ककुच्छब्दो गोपृष्टोन्नतावयववाची तद्वदादित्यरूपेण सर्वोपरिस्थत्वात्ककुत्सदृशः । यद्वा ककुदमिति महन्नाम ( निघ० ३ । ३ । १९) तस्यान्तलोप आर्षः । महत् जगत्कारणमित्यर्थः । तथा पृथिव्याः पतिः पालकः। दाहपाकप्रकाशैर्भूलोकस्थानामुपकारकत्वात् ॥ १२ ॥

त्रयोदशी।
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
उ॒भा दा॒तारा॑वि॒षाᳪं᳭र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ।। १३ ।।
उ० उभा वामिन्द्राग्नीति । ऐन्द्री त्रिष्टुप् । हे इन्द्राग्नी उभा उभौ वां युवाम् आहुवध्यै । कध्यैप्रत्ययः आख्यातोत्तमपुरुषस्यैकवचनस्थाने । आह्वयामि । किमर्थमुभावाहयामि । राधसः सहमादयध्यै राधसो धनस्य हविर्लक्षणस्य । सह एकस्मिन्नेव प्रदाने । मादयध्यै । माद्यतिर्भोजनार्थः । सह भोजनाय । किमर्थं पुनरुभावाह्वयामि सहभोजनायेत्यत आह । उभा दाताराविषां रयीणाम् । उभावाहुतभुक्तौ सन्तौ दातारौ दानशीलौ इषामन्नानां रयीणां धनानां च भवथो युवाम् । उभावाजस्य सातये हुवे वाम् । यतश्चैवं युवां विशिष्टान्नधनदातारौ अतो भूयो भूय उभावपि वाजस्यान्नस्य सातये लब्धये हुवे आह्वयामि वां युवाम् ॥ १३ ॥
म० भरद्वाजदृष्टा ऐन्द्राग्नी त्रिष्टुप् द्व्यूना ॥ इन्द्रशब्देनात्राहवनीयः । तस्य यज्ञसाधकत्वरूपैश्वर्ययुक्तत्वात् । अग्निशब्देन गार्हपत्यः । अग्रे नीयत इत्यग्निरिति यास्कव्युत्पत्तेः । स हि प्रथममाधीयते । हे इन्द्राग्नी, वां युवामुभौ आहुवध्यै आह्वातुमिच्छामीति शेषः । ह्वयतेस्तुमर्थे कध्यैप्रत्ययः । किंच राधसः धनाद्धविर्लक्षणात् सह मादयध्यै युगपदेककर्मणि उभौ युवां मादयितुं हर्षयितुं वा इच्छामीति शेषः । 'मदी हर्षे' इति, ‘मद तृप्तौ' इति धातोर्वा णिजन्तात्तुमर्थे शध्यैप्रत्ययः। गुणः । यत उभौ युवामिषामन्नानां रयीणां धनानां दातारौ । अत उभौ वां युवां वाजस्यान्नस्य सातये दानाय हुवे आह्वयामि । उभा । उभशब्दस्य विभक्तेराकारः । सातये 'षणु दाने' अस्य धातोः 'ऊतियूति-' (पा० ३ । ३ । ९७ ) इति क्तिन्नन्तो निपातः । हुवे 'बहुलं छन्दसि' (पा० ६।१।३४) इति ह्वयतेः शपि संप्रसारणे उवङ् ॥ १३ ॥
 
चतुर्दशी।
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ।। १४ ।।
उ० अयं ते योनिः । आग्नेय्यस्तिस्रोऽनुष्टुब्जगतीगायत्र्यः । आहवनीयोऽग्निरुच्यते । हे अग्ने आहवनीय, अयं गार्हपत्योऽग्निः ते तव योनिः उत्पत्तिस्थानम् । कथंभूतो योनिः । ऋत्वियः ऋतावृतौ प्राप्तः काले काले भवति । यतो जातो अरोचथाः । 'रुच दीप्तौ' । यस्मात्त्वं जातः सन् पूर्वमस्याधानेष्टिपशुचातुर्मास्यसोमेष्वङ्गभावमुपगतः सन् दीप्तवानसि तं जानन्नग्ने आरोह । तं तथाभूतं योनिं गार्हपत्याख्यं विद्वानारोह पुनरुद्धरणाय । अथानन्तरमेव नः अस्माकं वर्धय स्फीतं कुरु । रयिं धनम् । येन पुनरपि त्वां यक्ष्याम इत्यभिप्रायः ॥ १५॥
म० तिस्र आग्नेय्यः । आद्यानुष्टुप् देवश्रवोदेववातदृष्टा । हे अग्ने आहवनीय, ते तवायं गार्हपत्यो योनिः उत्पत्तिस्थानम् । किंभूतः । ऋत्वियः उत्पादनयोग्यः कालः ऋतुरुच्यते । ऋतुः प्राप्तोऽस्येति ऋत्वियः । 'छन्दसि घस्' (पा० ५। १ । १०६) इति ऋतुशब्दात्तस्य प्राप्तमित्यर्थे घस् । तस्य इयादेशः । सायंप्रातःकाले उत्पादनयोग्यो योनिः । यतो यस्मादृतुकालोपेताद्गार्हपत्याज्जात उत्पन्नस्त्वमरोचथाः कर्मकाले दीप्तोऽभूः । हे अग्ने, तं गार्हपत्यं जानन् स्वजनकमवगच्छन् आरोह पुनरुद्धरणाय कर्मान्ते प्रविश । अथानन्तरं नोऽस्मदर्थं रयिं धनं वर्धय पुनर्यागाय समृद्धं कुरु । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां वर्धयेति दीर्घः ॥ १४ ॥

पञ्चदशी।
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे ।। १५ ।।
उ० अयमिह । अयमाहवनीयोग्निः इह खरस्थाने प्रथमः मुख्यः। दक्षिणाग्न्यभिप्रायं च प्राथम्यम्। धायि । 'डुधाञ् धारणपोषणयोः' । निहितः धातृभिः अग्निधातृभिरध्वर्युभिः । होता आह्वाता देवानाम् । यजिष्ठः यष्टृतमः मानुषाद्धोतुः । अध्वरेषु यज्ञेषु । ईड्यः स्तुत्यः । यमप्नवानः यमग्निमाधाय पूर्वेपि ऋषयः अप्नवानप्रभृतयः । भृगवः भृगवश्च भृगोरपत्यानि । विरुरुचुः । 'रुच दीप्तौ' । विविधां दीप्तिं प्राप्तवन्त इत्यर्थः । क्वावस्थितं सन्तमाधाय विरुरुचुः । वनेषु अरण्योराधानाभिप्रायम् । चित्रं चयनीयम् । विभ्वं विशेविशे । यं च इदानीमपि आदधाति विभूतिशक्तियुक्तं विशे मनुष्याय । विश इति मनुष्यनाम ॥ १५ ॥
म० जगती वामदेवदृष्टा । द्वादशाक्षराश्चत्वारः पादा जगत्याः । द्वितीयोऽत्र व्यूहेनैकादशः चतुर्थो व्यूहेन द्वादशस्तेनैकोना जगती । अयमाहवनीय इह कर्मानुष्ठानस्थाने प्रथमो मुख्यः सन्धातृभिर्धायि अधायि आधानकर्तृभिराहितोऽभूत् । 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । दक्षिणाग्न्यपेक्षं प्राथम्यम् । किंभूतः । होता देवानामाह्वाता । यजिष्ठः अतिशयेन यष्टा । 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठनि परे 'तुरिष्टेमेयःसु' (पा० ६ । ४ । १५४) इति तृचो लोपः। तथा अध्वरेषु सोमयागादिषु ईड्यः ऋत्विग्भिः स्तुत्यः । अप्नवानो भृगवो विशेविशेयमाहवनीयं वनेषु विरुरुचुः । अन्तर्भूतो णिच् । रोचयामासुः दीपितवन्तः । अप्नशब्दोऽपत्यनामसु पठितः ( निघ० २ । २।७) अप्नवानः पुत्रवन्तो भृगुवंशोत्पन्ना मुनयः । यद्वा अप्नवानृषिः अप्नवानस्तत्प्रभृतयो भृगवश्च मुनयः । विशेविशे विडिति मनुष्यनाम ( निघ० २ । ३ । ५)। यजमानरूपाय तस्मै तस्मै मनुष्याय तदुपकाराय । वनेषु ग्रामाद्बहिर्यजनाख्येष्वरण्यप्रदेशेषु यमग्निं विरुरुचुः दीपयन्ति स्म । किंभूतं यम्। चित्रं विविधकर्मोपयोगित्वेन आश्चर्यकारिणम् । अतएव विभ्वं विभुं विभुत्वशक्तियुतं यणादेशः ॥ १५ ॥

षोडशी।
अ॒स्य प्र॒त्नामनु॒ द्युत॑ᳪं᳭शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पय॑: सहस्र॒सामृषि॑म् ।। १६ ।।
उ० अस्य प्रत्नां गां प्रकृत्याग्निहोत्रब्राह्मणे श्रूयते । 'तामुहाग्निरभिदध्यौ मिथुन्येन यास्यामीति तां संबभूव तस्यां रेतः प्रासिञ्चत्' इत्यादि तदर्थाभिवादिन्येषा ऋग्भवति । अस्यै वाग्नेः प्रत्नां चिरन्तनीं द्युतं दीप्तिं गवि अनुषक्तां शुक्ररूपापन्नां गाम् । दुदुह्रे दुदुहिरे दुग्धं रक्षन्ति दुहन्ति । का दुहन्ति रक्षन्ति काः । अह्रयः गावः। 'ह्री लज्जायाम्' अविद्यमानह्रियः अलज्जिता उज्वलाः प्रशस्या इत्यर्थः । किं तच्छुक्रं या एता गावः रक्षन्ति पयः दुग्धम् । सहस्रसां सहस्रसंख्यानां चातुर्मास्यपशुसोमानां सनितारं संभक्तारम् । ऋषिद्रष्टृ । द्रष्टृत्वं च गवि सत् पयस्युपचर्यते । 'साहैनानुदीक्ष्य हिंचकार' इत्युपक्रम्य 'ते देवा विदांचक्रुरेष साम्नो हिंकारः' इत्येवमादिना ग्रन्थेन गोभिर्हिंकारो दृष्ट इत्येतत्प्रतिपादितम् । स एष मन्त्रो गां वाग्निं वा पयो वा स्तौति ॥ १६ ॥
म०. गायत्र्यवत्सारदृष्टा गोऽग्निपयोदेवत्या । अस्याग्नेः प्रत्नां चिरन्तनकालभवां द्युतमनु दीप्तिमनुसृत्य अह्रयः नास्ति ह्रीर्येषामीदृशा लज्जारहिता दोग्धारः ऋषिं गां शुक्रं शुद्धं पयो दुदुह्रे दुदुहिरे । दुहेर्लिटि 'इरयो रे' (पा० ६ । ४ । ७६ ) इति रेआदेशे रूपम् । 'ऋष गतौ' । अर्षति दोहनस्थाने गच्छतीति ऋषिर्गौः । तां होमार्थ दुग्धवन्तः । सायंदोहनकालेऽग्निप्रकाशाभावे दुह्यमानं पयो भूमौ पतिष्यतीति शङ्कया दोग्धॄणां लज्जा भवति । सत्यामग्निदीप्तौ स्कन्नशङ्कानुदयाल्लज्जाभावादह्रयो दोग्धारः । किंभूतामृषिम् । सहस्रसाम् । 'षोऽन्तकर्मणि' । सहस्रसंख्याकानि कर्माणि स्यति समापयति क्षीरदध्याज्यहविःप्रदानेनेति सहस्रसा ताम् । स्यतेः क्विप् । यद्वास्या ऋचोऽर्थान्तरं गांप्रकृत्याग्निहोत्रब्राह्मणे श्रूयते 'तासु हाग्निरभिदध्यौ मिथुन्येन यास्यामीति ताᳪं᳭ संबभूव तस्याᳪं᳭ रेतः प्रासिञ्चत्तत्पयोऽभवत्' (२।२। ४ । १५) इत्यादि । तदभिप्रायमेषा ऋग्वदति । अह्रयः गावः नास्ति ह्रीर्लज्जा यासां ता अह्रयः अलज्जाः उज्ज्वलाः प्रशस्या इत्यर्थः । मलिनो हि लज्जते । अह्रयो गावोऽस्याग्नेः प्रत्नां चिरन्तनीमात्मानुषक्तां द्युतं दीप्तिं शुक्रं शुक्ररूपापन्नां द्युतमेव पयो दुग्धं दुदुह्रे | दुहन्ति क्षरन्ति । अग्निना शुक्ररूपेण सिक्तां स्वकान्तिमेव गावो दुग्धरूपेण क्षरन्तीत्यर्थः । सहस्रसामृषिमिति विशेषणद्वयं पयसः । सहस्रं सनोति सहस्रसास्तम् । चातुर्मास्यपशुसोमानां संभक्तारम् । पुंस्त्वमार्षम् । 'जनसनखनक्रमगमो विट्' (पा० ३ । २ । ६७ ) इति विट्प्रत्यये 'विड्वनोरनुनासिकस्यात्' ( पा० ६ । ४ । ४१ ) इत्याकारे वेर्लोपे सहस्रसा इति रूपम् । तथा ऋषिं द्रष्टारम् । गवि वर्तमानं द्रष्टृत्वं पयस्युपचर्यते। | ‘सा हैनानुदीक्ष्य हिंचकार' इत्युपक्रम्य 'ते देवा विदाञ्चक्रुरेष साम्नो हिङ्कारः' इत्यादिना ग्रन्थेन गोभिर्हिङ्कारो दृष्ट इति प्रत्यपादि । यद्वा सहस्रसामृषिमिति विभक्तिलिङ्गवचनव्यत्ययेन अह्रय इत्यस्य विशेषणद्वयम् । किंभूता अह्रयः । सहस्रसाः ऋषयः । पूर्ववदर्थो वा ॥ १६ ॥

सप्तदशी।
त॑नू॒पा अ॑ग्नेऽसि त॒न्वं॒ मे पाह्यायु॒र्दा अ॑ग्ने॒ स्यायु॑र्मे देहि व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि ।
अग्ने॒ यन्मे॑ त॒न्वा॒ ऊ॒नं तन्म॒ आपृ॑ण ।। १७ ।।
उ० अथ यजूंषि। तनूपा अग्ने। हे भगवन्नग्ने, यस्त्वं स्वभावत एव अग्निहोत्रिणां तनूपा असि तनूः शरीरं तस्य गोपायिता भवसि स त्वं मे मम तन्वं पाहि गोपाय । आयुर्दा अग्नेऽसि यस्त्वमायुषो दातासि हे अग्ने, स आयुर्मे मम देहि । वर्चोदा अग्नेऽसि वर्चो मे देहि । यस्त्वमग्ने वर्चीदा असि स वर्चो में देहि । यतो दर्शनादेव महानयं ब्राह्मणो विद्वान् तपसाग्निरिव ज्वलतीति प्रतिपत्तिस्तद्वर्च इत्युच्यते । हे अग्ने, यत् मे मम तन्वाः शरीरस्य ऊनं न्यूनम् अवखण्डितं तत् मे मम आपृण आपूरय ॥ १७ ॥
म० अथ यजूंषि चत्वार्यग्निदेवत्यानि । हे अग्ने, त्वं स्वभावत एव तनूपा असि अग्निहोत्रिशरीराणां पालकोऽसि । तनूं पाति पालयतीति तनूपाः । उदराग्नौ सत्यन्ने जीर्णे शरीरपालनमतो हे अग्ने, मे मम तन्वं शरीरं पाहि पालय । तन्वम् 'वा छन्दसि' (पा० ६ । १ । १०) इत्यमि पूर्वरूपाभावे यणादेश इत्युक्तम् । हे अग्ने, त्वमायुर्दा असि आयुषो दाता भवसि । अतो मे ममायुर्देहि अपमृत्युपरिहारेण । यावत्कालं वपुष्युदराग्नेरौष्ण्यमुपलभ्यते तावन्न म्रियत इति प्रसिद्धम् । हे अग्ने, त्वं वर्चोदा असि वर्चसो दातासि । अतो मे वर्चो देहि । वैदिकानुष्ठानप्रयुक्तं तेजो वर्चः । यद्दर्शनादेव महानयं ब्राह्मणो विद्वांस्तपसाग्निरिव ज्वलतीति बुद्धिर्नृणां भवति । किंच हे अग्ने, मे मम तन्वाः मदीयशरीरस्य यदङ्गं चक्षुरादिरूपमूनं दृष्टिपाटवादिरहितं तदङ्गं मे आपृण सर्वतः पूरय ॥ १७ ॥

अष्टादशी।
इन्धा॑नास्त्वा श॒तᳪं᳭ हिमा॑ द्यु॒मन्त॒ᳪं᳭ समि॑धीमहि । वय॑स्वन्तो वय॒स्कृत॒ᳪं᳭ सह॑स्वन्तः सह॒स्कृत॑म् ।
अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् । चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय ।। १८ ।।
उ० इन्धानास्त्वा महापङ्क्तिस्त्र्यवसाना आग्नेयी। हे अग्ने, इन्धानाः । 'इन्धी दीप्तौ' । आदीपयन्तः प्रकाशयन्तस्त्वाम् । शतᳪं᳭ हिमाः शतं वर्षाणि द्युमन्तᳪं᳭, समिधीमहि दीप्तिमन्तं त्वां समिधीमहि संदीपयाम इत्यर्थः । वयस्वन्तो वयस्कृतम् । कथंभूतं त्वां कथंभूताश्च सन्तो वयं समिधीमहि । वयस्वन्तः । वय इत्यन्ननाम । अन्नवन्तः । वयस्कृतम् अन्नस्य कर्तारम् । सहस्वन्तः। सह इति बलनाम । बलवन्तः। सहस्कृतम् बलस्य कर्तारम् । 'अग्ने सपत्नदम्भनम्' हे भगवन्नग्ने, सपत्नदम्भनम् । सपत्नाः शत्रवः । दभ्नोतिर्हिँसार्थः। सपत्नानां हिंसितारम् । अदब्धासः अदब्धा एव अदब्धासः । 'आजसेरसुक्' । अनुपहिंसिताः सन्तः । अदाभ्यम् अनुपहिंस्यम् । समिधीमहीत्यनुवर्तते। चित्रावसो रात्रिरुच्यते 'रात्रिर्वै चित्रावसुः सा हीयᳪं᳭ संगृह्येव चित्राणि वसति' इति श्रुतिः।हे चित्रावसो, स्वस्ति । स्वस्तीत्यविनाशिनाम । अस्तिरभिपूजितः सु अस्तीति स्वस्त्या । ते तव पारम् अन्तम् । अशीय अश्नुयां व्याप्नुयाम् ॥ १८ ॥
म० अग्निदेवत्या महापङ्क्तिः । यस्याः षट् पादा अष्टाक्षराः सा महापङ्क्तिः । अत्र षष्ठः सप्ताक्षरः । हे अग्ने, शतं हिमाः शतं वर्षाणि अस्मदायुषि वर्तमानान् शतं संवत्सरान् त्वां समिधीमहि नैरन्तर्येण वयं दीपयामः । किंभूता वयम् । इन्धानाः त्वदनुग्रहेण दीप्यमानाः । तथा वयस्वन्तः । वय इति अन्ननाम ( निघ० २ । ७।७) अन्नवन्तः । सहस्वन्तः बलवन्तः । सह इति बलनाम (निघ० २ । ९ । १७) । अदब्धासः अदब्धाः अनुपहिंसिताः केनापि । दभ्नोतिर्हिंसाकर्मा । 'आज्जसेरसुक्' (पा. ७।१।५० ) इति असुक् । किंभूतं त्वाम् । द्युमन्तं दीप्तिमन्तम् । वयस्कृतं वयोऽन्नं करोतीति वयस्कृत् तम् । सहस्कृतं सहो बलं करोतीति सहस्कृत् तम् । सपत्नदम्भनं सपत्नानां शत्रूणां हिंसितारम् । अदाभ्यम् केनापि हिंसितुमयोग्यम् । चित्रावसो, रात्रिदेवत्यं यजुर्ऋषिदृष्टम् । रात्रिर्वै चित्रावसुः सा हीयᳪं᳭ संगृह्येव चित्राणि वसति' (२ । ३ । ४ । २२) इति श्रुतेश्चित्रावसुशब्देन रात्रिः । चित्राणि विविधानि चन्द्रनक्षत्रान्धकाररूपाणि वसन्ति यस्यां रात्रौ सा चित्रावसुः । हे चित्रावसो रात्रे, स्वस्ति क्षेमं यथा तथा ते तव पारं समाप्तिमशीय व्याप्नवानि । अश्नोतेः 'बहुलं छन्दसि' । (पा० २।४ । ७३ ) इति शपो लुकि लिङ्युत्तमैकवचने रूपम् । यथा लोके मनुष्येषु सुप्तेषु चौरा गृहे प्रविशन्ति तद्वदत्र देवयजने रक्षांसि प्रविशन्तीति शङ्कया तन्निवारणाय रात्रिप्रार्थनम् ॥ १८॥

एकोनविंशी ।
सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒: समृषी॑णाᳪं᳭ स्तु॒तेन॑ ।
सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ सᳪं᳭ रा॒यस्पोषे॑ण ग्मिषीय ।। १९ ।।
उ० सं त्वमग्ने । अथोपविश्य जपति।आहवनीय उच्यते। समित्ययमुपसर्गः अगथा इत्यनेनाख्यातेन संबध्यते । समगथाः संगतस्त्वम् अग्ने, सूर्यस्य संबन्धिना वर्चसा तेजसा । श्रुतिमन्त्रं विवृणोति तद्यदस्तं यत्रादित्य आहवनीयं प्रविशति तेनैतदाह' इति । समृषीणां स्तुतेन संगतस्त्वमग्ने, ऋषीणां संबन्धिभिर्मन्त्रैः। तद्यदुपतिष्ठते तेनैतदाह' । संप्रियेण धाम्ना संगतस्त्वं प्रियेण धाम्ना प्रियाभिराहुतिभिः । 'धामानि
त्रीणि भवन्ति स्थानानि नामानि जन्मानि' इति श्रुतिः । 'आहुतयो वा अस्य प्रियं धाम' इति । यथा त्वमग्ने, एतैस्त्रिभिः संगतः एवं त्वत्प्रसादादहमपि आयुषा वर्चसा तेजसा अन्नेन वा प्रजया पुत्रादिकया रायस्पोषेण । राय इति धननाम । धनस्य पोषेण पुष्ट्या ग्मिषीय । गमेरेतद्रूपम् । संगच्छेयम् । आयुःप्रभृतीनि मम सन्त्वित्यर्थः ॥ १९ ॥
म० 'सं त्वमित्युपविश्येति' (का० ४ । १२ । ४)। उपप्रयन्त इत्यादिभिश्चित्रावसो इत्यन्तैर्मन्त्रैरुत्थानमत्र उपविश्येति विशेषः । हे अग्ने, त्वं सूर्यस्य वर्चसा तेजसा समगथाः रात्रौ सङ्गतोऽसि । 'तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति तेनैतदाह' (२।३ । ४ । २४ ) इति श्रुतेः। ऋषीणां मन्त्राणां स्तुतेन स्तोत्रेण समगथाः । बहवो मन्त्रा अग्निं स्तुवन्ति । 'तद्यदुपतिष्ठते तेनैतदाह' (२ । ३ । ४ । २४) इति श्रुतेः । प्रियेण धाम्ना प्रियाभिराहुतिभिः समगथाः । 'आहुतयो वा अस्य प्रियं धाम' (२।३ । ४ । २४) इति श्रुतेः । यथा त्वमेतैस्त्रिभिः सङ्गतः एवमहमपि त्वत्प्रसादादायुषा अपमृत्युदोषरहितेन संग्मिषीय सङ्गतो भूयासम् । तथा वर्चसा विद्यैश्वर्यादिप्रयुक्ततेजसा संग्मिषीय । यथा प्रजया पुत्रादिकया संग्मिषीय, तथा रायस्पोषेण धनस्य पुष्ट्या संग्मिषीय । आयुरादीनि मम सन्त्वित्यर्थः । समगथाः गमेः 'समो गम्यृच्छ' (पा० १।३ । २९) इत्यादिना तङ्मध्यमैकवचने लुङि सिचि 'गमश्च' (पा० १।२ । १३ ) इंति सिचः कित्त्वे 'अनुदात्तोपदेश-' (पा० ६ । ४ । ३७) इत्यादिना मलोपे 'ह्रस्वादङ्गात्' (पा० ८ । २ । २७ ) इति सिचो लोपे रूपम् । ग्मिषीय । गमेराशीर्लिङि उत्तमैकवचने 'इटोऽत्' (पा० ३। ४ । १०६) इत्यकारे परे सीयुटि कृते छान्दसे इडागमे 'गमहन-' (पा० ६ । ४ । ९८ ) इत्युपधालोपे रूपम् ॥ १९॥

विंशी।
अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय ।। २० ।।
उ० अथ गामभ्येति । अन्धस्थ अन्ध इत्यन्ननाम । श्रुत्या तु लक्षणया वीर्यमित्युक्तम् । यानि वो वीर्याणि यानि वो महांसीति यतो यूयं वीर्यहेतुभूतमन्धः स्थ भवथ अतोऽन्धः वः युष्मत्संबन्धि भक्षीय । भजतेरेतद्रूपं न भक्षयतेः । भजेयम् । महस्थ । महश्शब्देन तस्मै श्रृतं तस्यै शिर इत्यादीनि दश वीर्याणि उच्यन्ते । यतो महस्थ अतो महो वीर्यं वो भक्षीय । ऊर्जस्थ ऊर्जशब्दो रसवचनः । यतो यूयमूर्जस्थ अत ऊर्जं वो भक्षीय । रायस्पोषस्थ । यतो यूयं धनपुष्टिकराः स्थ अतो धनपोषं ऊर्जं वो भक्षीय । रायस्योषस्थ । यतो यूयं धनपुष्टिकराः स्थ अतो धनपोषं वो भक्षीय ॥२०॥
म०. 'गां गच्छत्यन्धस्थेति' । (का० ४ । १२ । ५) अन्धस्थ रेवती रमध्वमिति यजुर्द्वयेन गां गच्छति । गौर्दैवता । हे गावः, यूयमन्धस्थ अन्नरूपाः स्थ । क्षीराज्यादिरूपस्यान्नस्य जनकत्वादन्नत्वोपचारः । अतो भवत्प्रसादाद्वो युष्मत्संबन्धि अन्धः क्षीराज्यादिरूपमन्नमहं भक्षीय सेवेय । 'भज सेवायाम्' - इत्यस्याशीर्लिङयुत्तमैकवचने रूपम् । तथा यूयं महस्थ पूज्यरूपाः स्थ । 'मह पूजायाम्' । अतो वो युष्माकं पूज्यानां प्रसादादहमपि महो भक्षीय पूज्यत्वं सेवेय । गौर्न पदा स्प्रष्टव्येत्यादिस्मृतेर्गवां पूज्यत्वप्रसिद्धिः । यद्वा महःशब्देन दश वीर्याण्युच्यन्ते । तानि यथा 'गौर्वै प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम्' इति श्रुत्युक्तानि । प्रतिधुक् तत्कालदुग्धम् । शृतमुष्णं तत् । शरो दुग्धमण्डः । मस्तु दधिरसः । आतञ्चनं दधिपिण्डः । आमिक्षा स्फुटितं दुग्धम् । वाजिनमामिक्षाजलमिति श्रुत्यर्थः । एतद्दशवीर्यरूपा यूयं स्थ । अतो वो महो वीर्यमहं सेवेयेत्यर्थः । तथा यूयमूर्जस्थ बलरूपाः स्थ । गोक्षीरादेर्बलहेतुत्वात् बलरूपत्वोपचारः । 'ऊर्ज बलप्राणनयोः' । वो युष्माकं प्रसादादूर्जं भक्षीय बलं सेवेय । तथा रायस्पोषस्थ धनपुष्टिरूपाः स्थ । वैश्या हि क्षीराज्यादिक्रयेण धनं पुष्णन्ति अतो धनपुष्टित्वोपचारः । वो युष्माकं प्रसादाद्रायस्पोषं धनपुष्टिं भक्षीय सेवेय । अन्ध स्थेत्यादौ 'खर्परे शरि' (पा० ८।३ । ३६ । वा १ ) विसर्गलोपः ॥ २० ॥

एकविंशी।
रेव॑ती॒ रम॑ध्वम॒स्मिन्योना॑व॒स्मिन् गो॒ष्ठेऽस्मिंल्लो॒के॒ऽस्मिन्क्षये॑ । इहै॒व स्त॒ माप॑गात ।। २१ ।।
उ० रेवती रमध्वम् । हे रेवत्यो धनवत्यः गावः, रमध्वं रतिं कुरुत । अस्मिन् योनौ । अस्यां गोयूथसंबन्धिन्यां प्रजनन्यां रमध्वामित्यनुवर्तते । अस्मिन् गोष्ठे अस्मिन् गोवाटे रमध्वम् । अस्मिँल्लोके । 'लोक दर्शने' । मदीये अस्मिन्नवलोकने रमध्वम् । अस्मिन् क्षये गृहे रमध्वम् । 'क्षयो निवासे' इत्याद्युदात्तः क्षयशब्दः । किंच 'इहैव स्त मापगात । इहैव यजमानगृहे स्त भवत । माऽपगात मा अप गच्छत यजमानं परित्यज्य ॥ २१ ॥
म० हे रेवतीः रेवत्यः धनवत्यो गावः, धनहेतुत्वेन धनवत्त्वं गवाम् । रयिर्विद्यते यासां ता रेवत्यः । रयिशब्दात् मतुप् । 'रयेर्मतो बहुलम्' (पा० ६ । १ । ३७ वा० ४) इति रयेर्मतौ परे संप्रसारणम् । 'संप्रसारणाच्च' (पा० ६। १।१०८ ) इति पररूपम् । 'आद्गुणः' (पा० ६ । १ । ८७)। ‘पशवो वै रेवन्तः' (२ । ३ । ४ । २६) इति श्रुतेः । हे रेवत्यः, अस्मिन्योनौ दृश्यमानेऽग्निहोत्रहविर्दोहनस्थाने यूयं रमध्वं क्रीडत दोहनादूर्ध्वमस्मिन् गोष्ठे यजमानसंबन्धिगोवाटे रमध्वम् । गोष्ठशब्देन गृहाद्बहिर्विश्रम्भेण संचारप्रदेशः । सर्वदास्मिन् लोके 'लोकृ दर्शने' यजमानदृष्टिविषये रमध्वम् । रात्रौ अस्मिन् क्षये यजमानगृहे रमध्वम् । 'क्षयो निवासे' (पा. ६ । १ । २०१) इत्याद्युदात्तः । क्षयशब्दो निवासवाची । किंच । इहैव स्त यजमानगृहे एव भवत । मा अपगात अन्यत्र मा गच्छत । 'इणो गा लुङि' (पा० २ । ४ । ४५) इति एतेर्लुङि गादेशे रूपम् ॥ २१ ॥

द्वाविंशी।
स॒ᳪं᳭हि॒तासि॑ विश्वरू॒प्यू॒र्जामावि॑श गौप॒त्येन॑ । उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्द्धि॒या व॒यम् ।
नमो॒ भर॑न्त॒ एम॑सि ।। २२ ।।
उ० गामभिमृशति । संहितासि संलग्नासि यज्ञहोमसंबन्धेन । अथवा संदधाति क्षीणान् प्राणिनः स्वपयोभिरिति संहिता । विश्वरूपी । शुक्लकृष्णादिभेदैः पशूनां वैश्वरूप्यम् । या त्वं संहितासि विश्वरूपी च सा ऊर्जा अन्नेन माम् आविश । गौपत्येन च । गवां पतित्वं गौपत्यम् । गार्हपत्यमुपतिष्ठते तिसृभिर्गायत्रीभिः । उप त्वाग्ने । उपेत्ययमुपसर्ग एमसीत्यनेनाख्यातपदेन सह संबध्यते । इमसीति सिद्धे छन्दसि वर्तमानार्थे मस् । लिटि 'इदन्तो मसि' इति रूपम् । उपेम उपेयाम उपगच्छामः त्वाम् । हे अग्ने, दिवेदिवे अहन्यहनि । हे दोषावस्तः । दोषेति रात्रिनाम । 'वस निवासे' रात्र्यां वसनशीलो दोषावस्ता तस्य संबोधनं हे दोषावस्तः । 'अग्नौ ह वै देवा' इत्युपक्रम्य 'तौ संगृह्य रात्रिं प्रविवेश' इति यदनेनेतिहासेनोच्यते तदयं मन्त्रो दृष्ट्वाह दोषावस्तरिति । धिया बुद्ध्या प्रोक्तं । यतमनस्काः श्रद्दधानाः वयं नमोभरन्तः । नम इत्यन्ननाम । अन्नं बिभ्रतः उप आ इमसीत्याख्यातपदं व्याख्यातमेव ॥ २२॥
म० सᳪं᳭हितेत्यालभते' ( का० ४ । १२ । ६ ) इति । गामित्यनुवर्तते । हे गौः, त्वं संहितासि क्षीराज्यरूपहविर्दानाय यज्ञकर्मभिः संयुक्तासि । किंभूता । विश्वरूपी विश्वं रूपं यस्याः सा । शुक्लकृष्णादिबहुरूपैर्युक्ता । सा त्वमूर्जा क्षीरादिरसेन गौपत्येन गोस्वामित्वेन मामाविश सर्वतः प्रविश । त्वत्प्रसादान्मम बहुविधो रसो बहुविधं गोस्वामित्वं च संपद्यतामित्यर्थः । 'गार्हपत्यं गत्वोपतिष्ठत उप त्वेतीति' (का० ४ । १२ । ७)। उप त्वा । तिस्रो गायत्र्य आग्नेय्यो मधुच्छन्दोदृष्टाः । हे दोषावस्तः हे अग्ने, दोषा रात्रिस्तस्यामपि वसति अजस्रं धार्यमाणत्वान्नोपशाम्यतीति दोषावस्ता । यद्वा अग्नौ हे देवाः, इत्युपक्रम्य तैः संगृह्य रात्रिं प्रविवेशेतीतिहासेन अग्ने रात्रौ प्रवेश उक्तस्तमयं मन्त्र आह । हे दोषावस्तः रात्रौ वसनशील गार्हपत्य, दिवेदिवे प्रतिदिनं वयं यजमानाः त्वा त्वामुप एमसि त्वां प्रत्यागच्छामः । 'इदन्तो मसि' । किंभूता वयम् । धिया श्रद्धायुक्तया वुद्ध्या नमोभरन्तः नमस्कारं संपादयन्तः । यद्वा नम इत्यन्ननाम ( निघ० २। ७ । २१)। अन्नं हविर्बिभ्रतः ॥ २२ ॥

त्रयोविंशी।
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ᳪं᳭ स्वे दमे॑ ।। २३ ।।
उ० राजन्तमध्वराणाम् । अस्मिन्मन्त्रे आख्यातं नाम्नातमतोऽधस्तनमन्त्रे यदाख्यातं तदनुवर्तते । राजन्तं दीप्यमानम् । अध्वराणां गोपां यज्ञानां गोप्तारम् । ऋतस्य दीदिविम् सत्यस्य दीपयितारम् । अग्निसमीपे व्रतं गृहीत्वा सत्यं वदति तदभिप्रायमेतत् । वर्धमानम् चातुर्मास्यपशुसोमैः । स्वेदमे स्वकीये यज्ञगृहे । दम इति गृहनाम । । दास्यन्ति हि गृहस्थाः । उप आ इमसीत्यनुवर्तते ॥ २३ ॥ ।
म० क्रियापदमनुवर्तते । वयमीदृशमग्निमुपैमः । कीदृशम् । | राजन्तं दीप्यमानमध्वराणां गोपां गोपायतीति गोपास्तं यज्ञानां गोप्तारम् । ऋतस्य सत्यवचनलक्षणस्य व्रतस्य दीदिविं दीपयितारम् । अग्निसमीपे व्रतं गृहीत्वा सत्यं वदतीत्याशयः । स्वे दमे अस्मदीये गृहे वर्धमानं चातुर्मास्यसोमपश्वादिभिरभिवृद्धिं गच्छन्तम् । दाम्यन्ति गृहस्था यत्रेति दमो गृहम् । : दिवेः किप्रत्ययो बाहुलकात् । लिड्वद्भावात् द्वित्वम् । 'तुजादीनां दीर्घोऽभ्यासस्य' (पा०६।१।७) इत्यभ्यासदीर्घः । देवयतीति दीदिविः ॥ २३ ॥

चतुर्विंशी।
स न॑: पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ।। २४ ।।
उ० स नः पितेव । यस्त्वमुक्तगुणः सोऽस्माकं पिता इव सूनवे पुत्राय हे भगवन्नग्ने, सूपायनः सुखोपगमनो भव । किंच सचस्वा नः स्वस्तये । सचस्व सेवस्व नः अस्मान् | स्वस्तये अविनाशाय ॥ २४ ॥
म० हे अग्ने गार्हपत्य, स पूर्वोक्तगुणयुक्तस्त्वं नोऽस्माकं | सूपायनो भव । सुखेनोपैतुं शक्यः सूपायनः । सुष्ठूपप्राप्तुं | शक्यो भव । तत्र दृष्टान्तः । सूनवे पितेव यथा पुत्राय पिता भयं विना सुखेन प्राप्तुं शक्यः । किंच नोऽस्माकं स्वस्तये क्षेमाय सचस्व अनेन कर्मणा समवेतो भव । 'षच समवाये' इति धातुः । यद्वा सचस्व सेवस्व । 'षच सेवने' ॥ २४ ॥

पञ्चविंशी।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसुश्र॑वा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪं᳭ र॒यिं दा॑:।। २५ ।।
उ० अग्ने, त्वं नः । चतस्रो द्विपदा विराज आग्नेय्यः । हे भगवन्नग्ने, त्वं नो अन्तमः त्वमस्माकं निकटतमः । अन्तिकशब्दस्य तमप्येतद्रूपम् । ब्रह्मचर्यप्रभृति अग्निमुपासते तदभिप्रायमेतत् । देशविवक्षया वा । संनिकृष्टो ह्यग्निर्विप्रकृष्टा ह्यन्या देवताः । उत त्राता । अपिच स्वभावत एव सर्वप्राणिनां पालयितासि । यत एवम् अतो ब्रूमः । शिवो भवा वरूथ्यः। शिवः शान्तो भव । वरूथमिति गृहनाम । वरूथाय हितो वरूथ्यः । वसुरग्निः । अग्निशब्द आमन्त्रितविभक्त्या विपरिणम्यते वाक्यसंबन्धात् । हे अग्ने, यस्त्वं वसुः वासयिता जनानाम् । यद्वा वसु धनम् । तापपाकप्रकाशैरुपकुर्वन्नुपस्कर इव भवसि । वसुश्रवा वसुश्रवाश्च वसुना धनदानेन यः श्रूयते स वसुश्रवाः । धनदानैरित्यर्थः । सः अच्छानक्षि । 'अच्छाभेराप्तुमिति शाकपूणिः' । नशतिराप्नोतिकर्मा । अभिव्याप्नुहि अस्मान् । किंच द्युमन्तं दीप्तिमन्तम् । रयिं धनम् । दाः देहि ॥२५॥
म० चतस्रो द्विपदा विराज आग्नेय्यः । दशार्णपादा विराट् बन्ध्वादिदृष्टाः । हे अग्ने गार्हपत्य, त्वं नोऽस्माकमन्तमः अन्तिकतमः सर्वदा समीपवर्ती भव । 'अम् गतौ' भजने शब्दे अमति समीपं प्राप्नोतीत्यम् क्विप् अतिशयितोऽम् अन्तमः अम्शब्दात्तमप् । यद्वान्तिकशब्दात्तमपि पृषोदरादित्वेन साधुः । उतापि च त्राता पालयिता । शिवः शान्तः । वरूथ्य वरूथाय हितो वरूथ्य तादृशश्च भव । पुत्रादिसमूहो वरूथ । यद्वा वरूथं गृहम् । तस्मै हितो भव । किभूत लम् । वसु वासयतीति वसुः । जनानां वासयिता । तथा अग्नि । अङ्गतीत्यग्नि । 'अगि गतौ' । आहवनीयादिरूपेण गमनशील । तथा वसुश्रवा वसुना धनेन श्रव कीर्तिर्यस्यासौ वसुश्रवा । धनप्रदोऽयमिति यस्य कीर्तिरित्यर्थः । किच हे अग्ने, त्वमच्छा नक्षि अभिव्याप्नुहि अस्मान् । 'अच्छाभेराप्तुमिति शाकपूणि' ( निरु० ५। २८ ) । नशिराप्नोतिकर्मा । यद्वा हे अच्छ निर्मलभाव अग्ने, नक्षि अस्मद्धोमस्थानं गच्छ । 'नक्ष गतौ' । यदा यदा वयं जुहुयामस्तदा समागच्छेत्यर्थ । किंच द्युमत्तमं रयि दा अतिदीप्तियुक्तं रयिं धनं देहि । ददातेर्लुडि रूपम् । 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः ॥ २५ ॥

षड्विंशी।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।
स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात् ।। २६ ।।
उ० तं त्वा शोचिष्ठ । यस्त्वमुक्तगुणस्तं त्वां ब्रवीमि | हे अग्ने, शोचिष्ठ शोचिष्मत्तमः शोचिरिति ज्वालानामसु पठितम् । छान्दसो मतुव्लोपः । दीदिवः संदीप्यस्य । दिवेर्ज्वलनार्थस्य लिटि क्वस्वन्तस्य रूपम् । सुम्नाय । द्वितीयार्थे चतुर्थी । सुम्नम् । नूनं निश्चयेन । ईमहे याचामहे । त्वत्तोsवश्यं सुखं भवतीत्यभिप्रायः । सखिभ्यः सखिभ्योऽर्थाय । सुम्नं नूनमीमह इत्यनुषङ्गः । स नो बोधि । यस्त्वमुक्तगुणः सोऽस्माकं बुध्यस्वाभिप्रायम् । बुध्वा च श्रुधीहवम् शृणु अस्मदीयमाह्वानम् । श्रुत्वा चाह्वानम् उरुष्याणः उरुष्यती रक्षतिकर्मा । रक्ष अस्मान् । कुतो रक्ष । अघायतः अघं पापं य इच्छति स अघायत् तस्मादघायतः शत्रोः । समस्मात् सर्वस्मात् ॥ २६ ॥
म० हे शोचिष्ठ दीप्तिमत्तम, हे दीदिव सर्वस्य दीपयितः , तं पूर्वोक्तगुणयुक्तं त्वा त्वां सखिभ्योऽर्थाय सुम्नाय । द्वितीयार्थे चतुर्थी । सुम्नं सुखं नूनं निश्चयेन ईमहे याचामहे । यद्वा सुम्नाय सुखार्थं सखिभ्योऽस्मत्सखीनामुपकाराय च त्वामीमहे । स त्वं नोऽस्मान् भवत्सेवकान् बोधि बुध्यस्व । हवमस्मदीयमाह्वानं श्रुधी शृणु । समस्मात्सर्वस्मात् अघायत शत्रोर्नोऽस्मानुरुष्य रक्ष । समशब्दः सर्वपर्यायः । शोचिरिति ज्वालानाम । शोचिरस्यास्तीति शोचिष्मान् मतुप् । अतिशयेन शोचिष्मान् शोचिष्ठ । 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५ ) 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इतीष्ठनि मतुपो लुक् । दीदिव दिवेर्ज्वलनार्थस्य लिडादेशक्वसन्तस्य रूपम् । 'मतुवसो रु सबुद्धौ छन्दसि' (पा० ८ । ३ । १) इति रुत्वम् । बोधि । 'बुध ज्ञाने' लोण्मध्यमैकवचने 'सेर्ह्यपिच्च' ( पा० ३ । ४ । ८ ) इति हि । 'बहुलं छन्दसि' (पा० | २ । ४ । ७३ ) इति शपो लुक् ‘हुझल्भ्यो हेर्धि ' ( पा० ६ । ४ । १०१)। छन्दसि गुणे घलोपौ । श्रुधी । 'श्रुपृकृवृभ्यश्छन्दसि' इति हेर्धि । संहितायाम् 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७ ) इति दीर्घः । उरुष्य उरुष्यती रक्षणकर्मा । | 'ऋचि तुनुघ-' (पा० ६ । ३ । १३३) इत्यादिना दीर्घ । । 'नश्च धातुस्थोरुषुभ्य' (पा० ८ । ४ । २७) इति न इत्यस्य णत्वम् । अघायत । अघं परस्यति अघायति । 'सुप आत्मन क्यच् (पा० ३ । १ । ८) इत्यत्र 'छन्दसि परेच्छायामपि वक्तव्यम्' इति क्यच् 'अश्वाघस्यात्' (पा. ७ । ४ । ३७) इत्याकारः । अघायतीति अघायन् तस्मात् अघायतः शतृप्रत्यये रूपम् ॥ २६ ॥

सप्तविंशी।
इड॒ एह्यदि॑त॒ एहि॑ काम्या॒ एत॑ । मयि॑ वः काम॒धर॑णं भूयात् ।। २७ ।।
उ० गां गच्छति । इड एहि इडा मनोर्दुहिता अदितिर्देवमाता। इडेव मनोरस्मान्प्रत्येहि । अदितिरिवादित्यानामस्मान् प्रत्येहि अनिजायामनिदितौ च इडा । अदितिशब्दप्रयोग उपमार्थः । अतस्मिंस्तच्छब्दस्तद्वदतिदेशार्थः । गामभिमृशति । काम्या एत । 'मनुष्याणां ह्येतासु कामाः प्रविष्टाः' इति श्रुतिः । हे काम्याः, आ इत एत आगच्छत । मयि वः युष्माकम् । कामधरणम् कामा यस्मिन् ध्रियन्ते तत्कामधरणम् श्रुतिर्व्याचष्टे अहं वः प्रियो भूयासमिति ॥ २७ ॥
म० 'गा गच्छतीड एहीति' (का० ४ । १२ । ८)। द्वे यजुषी गव्ये । हे इडे, एहि । हे अदिते, एहि आगच्छ होमस्थानम् । इडा मनोर्दुहिता । अदितिर्देवमाता । इडा मनुमिवास्मानेहि । अदितिरादित्यानिवास्मानेहि । अतस्मिस्तच्छब्दस्तद्वदतिदेशार्थ । 'काम्या एतेत्यालभते' (का० ४ । १२ । ९) इति गामालभते । मनुष्याणां ह्येतासु कामाः प्रविष्टा इति काम्याः । हे काम्याः सर्वैः कामयितव्याः , यूयमेत आ इति आगच्छत । वो युप्माकं कामधरणम् कामानां धरणमपेक्षितफलधारकत्वं यदस्ति तत् मयि अनुष्ठातरि भूयात् । युष्मत्प्रसादादहमभीष्टफलस्य धारयिता भूयासमित्यर्थः । अहं वः प्रियो भूयासमिति श्रुतिर्व्याचष्टे ॥ २७ ॥

अष्टाविंशी।
सो॒मान॒ᳪं᳭ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ।। २८ ।।
उ० अग्निमीक्षमाणो जपति । सोमानं स्वरणम् । ब्रह्मणस्पत्यो गायत्रस्तृचः । बृहस्पतिरेव ब्रह्मणस्पतिः । हे ब्रह्मणस्पते, सोमानम् । 'षूङ् अभिषवे' 'आतो मनिन्क्वनिव्वनिपः' । 'अन्येभ्योपि दृश्यन्ते' इति मनिन् । सोमानं सोतारं पातारमिति पर्यायाः । केषां सोतारम् । सामर्थ्यात् सोमानाम् । स्वरणम् । 'स्वृ शब्दोपतापयोः । शब्दयितारं सोतारं च सोमानां स्तोतारं च देवानाम् । कृणुहि कुरु धनप्रदानैः । ब्रह्मणस्पते । कमिव । कक्षीवन्तम् लुप्तोपममेतत् । कक्षीवन्तमिव ऋषिं दीर्घतमसः पुत्रम् । यः औशिजः । उशिजः पुत्रः उशिक् माता अस्यासीत् ॥ २८ ॥
म० 'सोमानमित्यनुदकं व्रतोपायनवत्' (का० ४ । १२ । १०)। व्रतेत्यपरेणाहवनीयं प्रातिष्ठन्नवर्चं जपतीति सूत्रार्थः । सोमानं स्वरणं तृचो गायत्रो ब्रह्मणस्पतिदेवत्यस्तेनैव दृष्टः । अग्निमीक्षमाणस्य यजमानस्य जपे विनियुक्तः । हे ब्रह्मणस्पते वेदस्य पालक, सोमानं सोमानामभिषोतारम् । स्वरणं 'स्वृ शब्दोपतापयो' शब्दयितारम् । कृणुहि कुरु । मामिति शेषः । सुनोतीति सोमा तम् । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २। ७५) इति मनिन् । स्वरतीति स्वरणः । नन्द्यादित्वात् ल्युः । सोमयागकर्तारं स्तुतिरूपशब्दयुक्तं च धनप्रदानैर्मां कुर्वित्यर्थः ।' तत्रोपमानमुच्यते । कक्षीवन्तं कक्षीवन्नामकमृषिं दीर्घतमः - पुत्रं यथा सोमयागयुक्तं स्तुतियुक्तं च कृतवानसि तथा मां कुरु । उपमानद्योतक इवशब्दोऽत्र लुप्तो द्रष्टव्यः । कोऽसौ कक्षीवान् । य औशिजः उशिजः पुत्रः । उशिक् कक्षीवतो माता ॥ २८ ॥

एकोनत्रिंशी।
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्द्ध॑नः । स न॑: सिषक्तु॒ यस्तु॒रः ।। २९ ।।
उ० यो रेवान् । रै इति धननाम । यो ब्रह्मणस्पतिर्धनवान् । यश्च अमीवहा । अमीवा व्याधिः । व्याधेर्हन्ता । वसुवित् । वसुनो धनस्य सारासारतां वेत्ति विदित्वा च यथायोग्यं स्तोतृभ्यो ददाति । पुष्टिवर्धनः । 'पुष पुष्टौ' पुष्टेः पोषस्य वर्धयिता । स. नः सिषक्तु 'सिषक्ति सचते' इति सेवमानस्य । सोऽस्मान् सेवताम् । यस्तुरः यस्त्वरणः अविलम्बकारी । यद्वा पुत्रः प्रार्थ्यते । हे ब्रह्मणस्पते, यः पुत्रः धनवान् यश्च व्याधेर्हन्ता । ज्योतिःशास्त्राभिप्रायमेतत् । धनस्य च लब्धा पुष्टेश्च वर्धयिता सोऽस्मान् पुत्रः सेवताम् । यस्तुरः शीघ्रकारी । कालातिक्रमो हि प्रत्यग्रं कार्यरसं पिबतीत्याहुः ॥ २९॥
म० यो ब्रह्मणस्पतिः रेवान् धनवान् । यश्चामीवहा अमीवस्य रोगस्य हन्ता । 'अम रोगे' । 'अमेरीवः' । वसुवित् वसु धनं वेत्तीति । यश्च पुष्टिवर्धन पोषणस्य वर्धयिता। यश्च तुर 'तुर वेगे' 'इगुपध-' (पा० ३ । १।१३५) इति कः। वेगवान् अविलम्बितकारी । स ब्रह्मणस्पतिर्नोऽस्मान् सिषक्तु सेवताम् । 'सिषक्ति सचते इति सेवमानस्य' (निरु० ३ । २१) यद्वा अनयर्चा पुत्रः प्रार्थ्यते । यः पुत्रो रेवान्धनवान् यश्च व्याधेर्हन्ता जपादिना यो धनस्य लब्धा पुष्टेश्च वर्धयिता यः तुरः शीघ्रकारी तादृशः पुत्रोऽग्नेः प्रसादान्नोऽस्मान् सिषक्तु । सेवताम् ॥ २९ ॥

त्रिंशी ।
मा न॒: शᳪं᳭सो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ।। ३० ।।
उ० मा नः शᳪं᳭सः । मा इत्यव्ययं प्रणगित्याख्यातेन संबध्यते । प्रपूर्वस्य नशेर्व्याप्त्यर्थस्यैतद्रूपम् । मा व्याप्नोतु नः अस्मान् शᳪं᳭सः । शंसनं शंसः अनिष्टचिन्तनम् । कस्य संबन्धि, अररुषः । 'रा दाने' । अस्य क्वसौ षष्ठ्यां ररुष इति भवति, तन्नञा प्रतिषिध्यते । अररुषः अदातुः । अनुपभोग्यस्य शत्रोरित्यर्थः । धूर्तिः हिंसा । ध्वरति धूर्वति इति वधकर्मसु पठितम् । मर्त्यस्य मरणधर्मिणो मनुष्यस्य । मास्मान् व्याप्नोतु अररुषो मर्त्यस्य संबन्धि शंसनं धूर्तिश्चेति वाक्यार्थः । किंच रक्षाणः । रक्ष नः गोपायास्मान् हे ब्रह्मणस्पते ॥३०॥
म० रा दाने' इति धातोः क्वसुन्नन्तस्य षष्ठ्येकवचने ररुष इति रूपम् । ररौ इति ररिवांस्तस्य ररुषः । दानं कृतवत इत्यर्थः । तस्य निषेधादररुष इति । कदाचिदपि हविर्दानमकृतवत इत्यर्थः । तादृशस्य मर्त्यस्य मनुष्यस्य शंसो धूर्तिश्च नोऽस्मान् मा प्रणक् प्रकर्षेण व्याप्नोतु । नशिर्व्याप्त्यर्थः । यद्वा 'नश अदर्शने' । मा प्रणक् प्रकर्षेण मा नाशयतु । शंसनं शंसोऽनिष्टचिन्तनम् । धूर्तिर्हिंसा । 'ध्वरति धूर्वति' ( निघ० २।१९) इति वधकर्मसु पठितत्वात् शत्रुकृतमनिष्टचिन्तनं शत्रुकृता हिंसा चास्मान् मा व्याप्नोत्वित्यर्थः । किंच हे ब्रह्मणस्पते वेदस्य पालकाग्ने, नोऽस्मान् रक्ष । 'द्व्यचोऽतस्तिङः' (पा० ६।३।१३५) इति संहितायां दीर्घः । णत्वं पूर्ववत् ॥३०॥

एकत्रिंशी।
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॑रा॒धर्षं॒ वरु॑णस्य ।। ३१ ।।
उ० महित्रीणाम् । आदित्यदेवत्यस्तृचो गायत्रः । पथि स्वस्त्ययनम् । महि महत् त्रीणां त्रयाणामादित्यानाम् अवोस्तु अवनमवः पालनं भवतु । कथंभूतं पालनम् । द्युक्षम् द्युतिमन्ति द्रव्याणि यस्मिन्पालने क्षियन्ति निवसन्ति तत् द्युक्षम् । किंनाम्नामादित्यानाम् । मित्रस्य अर्यम्णः वरुणस्य च । दुराधर्षमित्यवनविशेषणम् । दुराधर्षम् । नञोर्थे दुरुपसर्गः । अनाधर्षम् अशक्यमाधर्षयितुमन्यैः ॥ ३१ ॥
म०. सत्यधृतिदृष्ट आदित्यदेवत्यस्तृचो गायत्रीजपे विनियुक्तः पथि जप्त उपद्रवनाशकश्च । मित्रस्यार्यम्णो वरुणस्येति त्रीणां त्रयाणां देवानां संबन्धि अवः पालनमस्तु । किंभूतमवः । महि महत् तथा द्युक्षं द्युमन्ति सुवर्णादिद्रव्याणि क्षियन्ति निवसन्ति यस्मिन् पालने तथाविधम् । दुराधर्षं तिरस्कर्तुमशक्यम् । त्रीणां त्रिशब्दस्यामि छन्दसि त्रयादेशो वेति वाच्यम् (पा० ७ । १ । ५३)॥३१॥

द्वात्रिंशी।
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घश॑ᳪं᳭सः ।। ३२ ।।
उ० नहि तेषाम् । नहि कदाचित्तेषामादित्यपालितानां यजमानानाम् अमाचन । अमाशब्दो गृहवचनः । चनशब्दोऽप्यर्थे । गृहेऽपि सताम् । नाध्वसु वारणेषु । नच मार्गेषु सता मम । कथंभूतेषु वारणेषु । यत्रावस्थिताश्चौराः पथिकान्वारयन्ति ते वारणाः पन्थानः । एतदुक्तं भवति । न गृहस्थितानां नापि गृहाद्बहिः । ईशे रिपुरघशᳪं᳭सः । । 'ईश ऐश्वर्ये' । 'लोपस्त आत्मनेपदेषु' इति तकारलोपः । न ईष्टे । रिपुः अघं पापं यः शंसति चौरादिः सोऽघशंसः ॥ ३२॥ .
म० अमाशब्दो गृहनामसु पठितः (निघ० ३।४ ।११)। चनशब्दोऽप्यर्थे । अमा चन गृहेऽपि वर्तमानानां । तेषां तथा वारणेषु चोरव्याघ्रादयो यत्र स्थिता निवारयन्ति पथिकान् ते वारणास्तेषु चोरव्याघ्रभयाढ्येषु अध्वसु मार्गेषु वा वर्तमानानां तेषां मित्रार्यमवरुणैस्त्रिभिर्देवैः पालितानां यजमानानामुपद्रवायेति शेषः । अघशंसः सर्वदा पापस्य प्रशंसको रिपुः शत्रुः नहि ईशे समर्थो न भवति । 'लोपस्त आत्मनेपदेषु' (पा. ७।१।४१) इति तलोपः । 'अधीगत्यर्थदयेशां कर्मणि' ( पा० २।३। ५२ ) इति तेषामिति षष्ठी। मित्रादिभिः पालितानामस्माकं गृहेऽरण्ये वा नास्ति शत्रुबाध इत्यर्थः ॥ ३२॥

त्रयस्त्रिंशी।
ते हि पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ।। ३३ ।।
उ० ते हि पुत्रासः । कस्मात् पुनरादित्यगुप्तानां गृहे बहिश्च शत्रुर्नेष्टे, यतस्ते पुत्रा अदितेः । एवं तावदेकम् । इदमपरम् । प्रजीवसे मर्त्याय ज्योतिर्यच्छन्ति । प्रयच्छन्ति ददति । कस्मै । मर्त्याय मनुष्याय । किं प्रयच्छन्ति ज्योतिः । | अजस्रम् अनुपक्षीणम् । किमर्थं ज्योतिः प्रयच्छन्ति । | जीवसे चिरंजीवनाय ॥ ३३ ॥ ।
म० कथं तद्रक्षितानां शत्रुभयाभावस्तदाह । हि यतस्ते । अदितेः अखण्डितशक्तेर्देवमातुः पुत्रासः पुत्राः पूर्वोक्ता मित्रार्यमवरुणाः मर्त्याय मनुष्याय यजमानायाजस्रं निरन्तरमनुपक्षीणं ज्योतिः तेजः प्रयच्छन्ति । किमर्थं जीवसे जीवितुम् । यथा चिरं जीवनं भवति तथा तदुपायज्ञानं प्रयच्छन्तीत्यर्थः ॥ ३३ ॥

चतुस्त्रिंशी।
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उ॒पोपेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।। ३४ ।।
उ० कदाचन । ऐन्द्री बृहती । नकारो भिन्नक्रम आदौ वर्तते । हे इन्द्र, भूयोभूयो याच्यमानस्त्वं न कदाचिदपि स्तरीरसि । स्तृणातेर्हिँसार्थस्यैतद्रूपम् । न स्तृणासि न क्रुध्यसि । किंपुनः करोषि । सश्चसि दाशुषे । दाशुष इति द्वितीयार्थे चतुर्थी । सश्चतिः सेवनकर्मा । सेवसे । दाशुषे दाश्वांसम् हवींषि दत्तवन्तं यजमानम् । किंच उप पृच्यते एव क्षिप्रम् । 'पृची संपर्के' संपृच्यते हि दाश्वांसंप्रति । 'प्रसमुपोदः पादपूरणे' इत्युपशब्दः पादपूरणे । इच्छब्द एवार्थे । नुशब्दः क्षिप्रवचनः । हे मघवन् । कथंभूतमुपपृच्यते । भूयो बहुतरमेव क्षिप्रम् । इत् नू उक्तार्थौ । ' ते तव स्वभूतं दानम् देवस्य दातुः । एतदुक्तं भवति - न कदाचित्त्वं यजमानं प्रति क्रुध्यसि । सेवसे च दाश्वांसम् । उपपृच्यते वा त्वदीयं दानं भूयो भूयो दाश्वांसं प्रति ॥ ३४ ॥
म० ऐन्द्री पथ्या बृहती मधुच्छन्दोदृष्टा जपे विनियुक्ता । यस्यास्तृतीयः पादो द्वादशार्णोऽन्ये त्रयोऽष्टाक्षराः सा पथ्या बृहती । हे इन्द्र परमैश्वर्ययुक्त, कदाचन कदापि त्वं स्तरीर्नासि । 'स्तृञ् हिंसायाम्' स्तृणातीति स्तरीः हिंसको नासि । किं तर्हि दाशुषे सश्चसि । द्वितीयार्थे चतुर्थी । दाश्वांसं हविर्दत्तवन्तं यजमानं सेवसे । सश्चतिः सेवनकर्मा । किंच । हे मघवन् धनवन् , देवस्य प्रकाशमानस्य ते तव भूय इत् बहुतरमेव दानं नु इत् क्षिप्रमेव दाश्वांसमुपपृच्यते । 'पृची संपर्के' यजमानेन सह संपर्कं प्राप्नोति । 'प्रसमुपोदः पादपूरणे' (पा. ८।१।६) इत्येक उपशब्दः पादपूरणे । इच्छब्दावेवार्थे । नु क्षिप्रार्थः । न कदाचिद्यजमानं प्रति क्रुध्यसि सेवसे च। तं त्वदीयं भूयो धनं दाश्वांसमुपपृच्यत इति भावः ॥ ३४ ॥

पञ्चत्रिंशी।
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ।। ३५ ।।
उ० तत्सवितुः सावित्री गायत्री । तदिति षष्ठ्या विपरिणम्यते । तस्य सवितुः सर्वस्य प्रसवदातुः । आदित्यान्तरपुरुषस्य देवस्य हिरण्यगर्भोपाध्यवच्छिन्नस्य वा विज्ञानानन्दस्वभावस्य वा ब्रह्मणः । वरेण्यं वरणीयम् । भर्गः । भर्गशब्दो वीर्यवचनः । 'वरुणाद्धवा अभिषिषिचानाद्भर्गोऽपचक्राम वीर्यं वै भर्गः' इति श्रुतिः । तेन हि पापं भृज्जति दहति । 'भृजी भर्जने' । अथवा भर्गस्तेजोवचनः । यद्वा मण्डलं पुरुषो रश्मय इत्येतत्त्रितयमभिप्रेयते । देवस्य दानादिगुणयुक्तस्य । धीमहि । 'ध्यै चिन्तायाम्' । अस्य छान्दसं संप्रसारणम् । ध्यायामः चिन्तयामः । निदिध्यासं तद्विषयं कुर्म इति यावत् । धियो यो नः । धीशब्दो बुद्धिवचनः कर्मवचनो वा वाग्वचनश्च । बुद्धीः कर्माणि वा वाचो वा । यः सविता नोऽस्माकम् । प्रचोदयात् । 'चुद संचोदने' । प्रकर्षेण चोदयति प्रेरयति तस्य सवितुः संबन्धि वीर्यं तेजो वा ध्यायाम इति संबन्धः । वाक्यभेदेन वा योजना । तत्सवितुर्वरणीयं वीर्यं तेजो वा देवस्य ध्यायामः । यश्च बुद्धीः प्रचोदयात् प्रेरयत्यस्माकं तं च ध्यायामः । स च सवितैव भवति । लिङ्गव्यत्ययेन वा योजना । तत्सवितुर्वरणीयं भर्गो देवस्य ध्यायामः थियो यद्भर्गः अस्माकं प्रेरयति ॥ ३५ ॥
म०. विश्वामित्रदृष्टा सावित्री गायत्रीजपे विनियुक्ता । तदिति षष्ठ्यर्थे । तस्य देवस्य द्योतनात्मकस्य सवितुः प्रेरकस्यान्तर्यामिणो विज्ञानानन्दस्वभावस्य हिरण्यगर्भोपाध्यवच्छिन्नस्य वा आदित्यान्तरपुरुषस्य वा ब्रह्मणो वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः सर्वपापानां सर्वसंसारस्य च भर्जनसमर्थं तेजः सत्यज्ञानानन्दादिवेदान्तप्रतिपाद्यं वयं धीमहि ध्यायामः । छान्दसं संप्रसारणम् । यद्वा मण्डलं पुरुषो रश्मय इति त्रयं भर्गःशब्दवाच्यम् । भर्गो वीर्यं वा । 'वरुणाद्ध वा अभिषिषिचानाद्भर्गोऽपचक्राम वीर्यं वै भर्गः' (५। ४।५।१) इति श्रुतेः । तस्य कस्य । यः सविता नोऽस्माकं धियः बुद्धीः कर्माणि वा प्रचोदयात्प्रकर्षेण चोदयति प्रेरयति सत्कर्मानुष्ठानाय । यद्वा वाक्यभेदेन योजना । सवितुर्देवस्य तत् वरेण्यं भर्गो ध्यायामः । यश्च नो बुद्धीः प्रेरयति तं च ध्यायामः । स च सवितैव । लिङ्गव्यत्ययेन योजना । सवितुर्दैवस्य तत् भर्गो धीमहि । यो यत् भर्गो नो बुद्धीः प्रेरयति ॥ ३५ ॥

षट्त्रिंशी।
परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ अ॑श्नोतु वि॒श्वत॑: । येन॒ रक्ष॑सि दा॒शुष॑:।। ३६ ।।
उ० परि ते । आग्नेयी गायत्री । हे अग्ने, पर्यश्नोतु परिव्याप्नोतु । ते तव स्वभूतो रथः । अस्मान् विश्वतः सर्वतः । कथंभूतो रथः । दूडभः दुर्दभः । दुरुपसर्गः प्रतिषेधार्थीयः । दभ्नोतिर्वधकर्मा । अवध्यः । येन रथेन रक्षसि दाशुषः यजमानानाम् । 'यजमाना वै दाश्वांसः' इति श्रुतिः । स रथोऽस्मान् पर्यश्नोतु इति संबन्धः ॥ ३६॥
बृहदुपस्थानं समाप्तम् ।
म०. आग्नेयी गायत्री वामदेवदृष्टा जपे विनियुक्ता। हे अग्ने, ते तव रथोऽस्मान् यजमानान् विश्वतः सर्वासु दिक्षु पर्यश्नोतु परितो व्याप्नोतु अस्मद्रक्षणाय सर्वतस्तिष्ठतु । किंभूतो रथः । दूडभः । दभ्नोतिर्वधकर्मा । दुःखेन दभ्यते दुर्दभः । केनापि सहसा हिंसितुमशक्यः । 'उकारं दुर्दे० ' (प्रा० का० ३।३। ४) इति प्रातिशाख्यसूत्रेण दुरो रेफस्य उकारः अग्निपदस्य डः । येन रथेन त्वं दाशुषो यजमानान् रक्षसि पालयसि । 'यजमाना वै दाश्वांसः' ( २ । ३ । ४ । ३८ ) इति श्रुतेः ॥३६॥
बृहदुपस्थानं समाप्तम् ।

सप्तत्रिंशी।
भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याᳪं᳭ सु॒वीरो॑ वी॒रैः सु॒पोष॒: पोषै॑: ।
नर्य॑ प्र॒जां मे॑ पाहि शᳪं᳭स्य॑ प॒शून्मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि ।। ३७ ।।
उ० क्षुल्लकोपस्थानमुच्यते । आसुरेरार्षम् । यजूंषि ।। भूर्भुवःस्वः । हे भगवन्नग्ने, यस्त्वं महाव्याहृत्यात्मकस्तं त्वां याचे । शोभनप्रजाः प्रजाभिः स्यां भवेयम् । शोभनवीरश्च वीरैः शोभनपोषश्च पोषैः । पोषो भूगोहिरण्यधान्यादिभिः । प्रवसन् यजमानः गार्हपत्यमुपतिष्ठते । नर्य प्रजां मे पाहि । नरेभ्यो हितो नर्यः । हे नर्य, प्रजां मे पाहि गोपाय । आहवनीयमुपतिष्ठते । शंस्य 'शंसु स्तुतौ' । हे स्तुत्य, पशून्मे पाहि गोपाय । दक्षिणाग्निमुपतिष्ठते । अथर्य । अतनवान् अथर्यः । 'अत सातत्यगमने' । सततं हि दक्षिणाग्निर्गार्हपत्यस्य स्थानं गच्छति । हे अतनवन् , अन्नं मे गोपाय ॥ ३७॥
म० अथ क्षुल्लकोपस्थानमासुरिदृष्टम् । 'भूर्भुवःस्वरिति वोभौ' (का० ४ । १२ । १२) इति । वाशब्दो विकल्पार्थः । पूर्वोक्तेनोपप्रयन्त इत्यादिना वक्ष्यमाणेन भूर्भुवःस्वरित्यादिना वोभावग्नी उपतिष्ठेत । उभयोपस्थानं कुर्यादिति सूत्रार्थः। हे अग्ने, भूर्भुवःस्वः त्वं व्याहृत्यादित्रयात्मकः तदर्थभूतलोकत्रयात्मको वा । अतस्त्वत्प्रसादादहं प्रजाभिः बन्धुभृत्यादिरूपाभिः कृत्वा सुप्रजाः स्यामनुकूलत्वेन शोभनाः प्रजा यस्य तादृशो भवेयम् । तथा वीरैः पुत्रैः सुवीरः स्यां शास्त्रीयमार्गवर्तिशोभनपुत्रयुक्तो भवेयम् । तथा पोषैः हिरण्यादिपोषणैः सुपोषः स्यां बहुमूल्यार्हहिरण्यादियुक्तो भवेयम् ॥
प्रवत्स्यदुपस्थानमागतोपस्थानं चादित्यदृष्टम् ॥
'प्रवत्स्यन् सर्वान्नर्येषि प्रतिमन्त्रम्' (का० ४ । ११ । १३) इति । यद्वा यजमानो ग्रामान्तरं गन्तुमिच्छति तदानीं सर्वानग्नीन्नर्येत्यादिमन्त्रैरुपतिष्ठेत । अथ मन्त्रार्थः । नर्य नरेभ्यो हित गार्हपत्य, मे प्रजां पाहि । आहवनीयमुपतिष्ठते । हे शंस्य अनुष्ठातृभिः शंसितुं योग्याहवनीय, मे मम प्रजां पाहि रक्ष । दक्षिणाग्निमुपतिष्ठते । हे अथर्य दक्षिणाग्ने, मे पितुमन्नं पाहि । अतनवानथर्यः । 'अत सातत्यगमने' । सततं गार्हपत्यात्स्वस्थानं दक्षिणाग्निर्गच्छति तेनाथर्यः । निपातोऽयम् ॥ ३७॥

अष्टत्रिंशी।
आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् । अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ।। ३८ ।।
उ० प्रत्यागत आहवनीयमुपतिष्ठते । आगन्म । अनुष्टुप् । हे आहवनीय, यं त्वामागता वयम् । 'विश्ववेदसं सर्वतो धनम् । अस्मभ्यम् । षष्ठ्यर्थे चतुर्थी । अस्माकम् । | वसुवित्तमम् । अतिशयेन धनस्य वेदितारम् । सः त्वं हे भगवन् अग्ने, सम्राट् । 'राजृ दीप्तौ' सम्यग्दीप्तिमत् । अभिद्युम्नम् । द्युम्नं द्योततेर्यशो वा अन्नं वा । अभिसहः । सह इति बलनाम । आयच्छस्व । यमेरेतद्रूपम् । एतदुक्तं भवति । अस्मानभि अन्नं यशो वा बलं वा गृह्णीष्व । अगमयेत्यर्थः । यद्वा अस्मान् द्युम्नमभि बलं वाभियच्छस्व स्थापयस्व समर्पय । आयच्छतिः स्थापनार्थः ॥ ३८॥
म० 'समित्पाणिरुपेत्य कंचिदुपतिष्ठत आहवनीयगार्हपत्यदक्षिणाग्नीनागन्मेति प्रतिमन्त्रम्' (का० ४ । १२ । १८) | इति । समिधं हस्ते आदाय कंचिदपि जनमगत्वेव प्रथममेवाग्न्यगारं प्राप्यागन्मेत्यादिमन्त्रत्रयेणाहवनीयादीनुपतिष्ठत इति सूत्रार्थः । अनुष्टुबाहवनीयदेवत्या । हे अग्ने, सम्राट् सम्यक् राजते दीप्यते सम्राट् तथाविधाग्ने आहवनीय, वयं त्वामागन्म त्वामुद्दिश्य ग्रामान्तरात्प्रत्यागताः । किंभूतं त्वाम् । विश्ववेदसं विश्वं वेत्ति वेदयतीति वा विश्ववेदास्तम् । विश्वं वेदो धनं यस्येति वा । सर्वज्ञं सर्वधनं वा । पुनः किंभूतम् । अस्मभ्यं वसुवित्तममस्मदर्थमतिशयेन वसुनो धनस्य वेदितारं लव्धारम् । किंच । हे अग्ने, द्युम्नं सहश्च अस्मभ्यमभि आयच्छस्व । 'दाण् दाने' । 'पाघ्रा-' (पा० ७ । ३ । १८) इत्यादिना यच्छादेशः । यशो बलं चास्मभ्यं देहि । 'द्युम्नं द्योततेर्यशो वान्नं वा' (निरु० ५। ५)। सह इति बलनाम (निघं० २।९) यच्छस्वेति यमे रूपं वा । आयच्छस्व आगमय । यच्छतिः स्थापनार्थो वा । अस्मासु यशो बलं च स्थापय ॥३८॥

एकोनचत्वारिंशी।
अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गाहप॑त्यः प्र॒जाया॑ वसु॒वित्त॑मः ।
अग्ने॑ गृहपते॒ऽभि द्युम्नम॒भि सह॒ आ य॑च्छस्व ॥ ३९ ॥

उ० गार्हपत्यमुपतिष्ठते । अयमग्निः न्यङ्कुसारिणी बृहती । योऽयमग्निर्गृहपतिर्गार्हपत्याख्यः प्रजायाश्च अतिशयेन धनस्य वेदिता तमेतं याचे हे अग्ने, गृहपतिः अभिद्युम्नेति व्याख्यातम् ॥ ३९ ॥

म० गार्हपत्यमुपतिष्ठते । न्यङ्कुसारिणी बृहती । यस्या द्वितीयः पादो द्वादशाक्षरोऽन्ये त्रयोऽष्टाक्षराः सा न्यङ्कुसारिणी । अत्र तृतीयो नवार्णस्तेनैकाधिका । अयं पुरोऽवस्थितो गार्हपत्य एतन्नामकोऽग्निर्गृहस्य पतिः पालकः । प्रजायाः पुत्रपौत्रादिकायाः अनुग्रहार्थं वसुवित्तमः अतिशयेन धनस्य लब्धा । हे अग्ने, स त्वं द्युम्नं सहश्चाभ्यायच्छस्व देहि ॥ ३९ ॥

चत्वारिंशी। ।
अ॒यम॒ग्निः पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒वर्ध॑नः । अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ।। ४० ।।
उ० दक्षिणाग्न्युपस्थानम् । अयमग्निः । अनुष्टुप् । योयमग्निः । पुरीष्यः पशव्यः । 'पशवो वै पुरीषम्' इति श्रुतिः। रयिमान्धनवान् पुष्टेर्वर्धयिता । तमेतं प्रत्यक्षीकृत्य याचे । हे अग्ने पुरीष्य, द्युम्नं बलं च प्रत्यस्मान्निधेहि ॥४०॥
म० दक्षिणाग्निमुपतिष्ठते । अनुष्टुप् । योऽयमग्निः पुरीष्यः पशव्यः । 'पशवो वै पुरीषं' इति श्रुतेः । रयिमान्धनवान् पुष्टिवर्धनः पोषस्य वर्धयिता । तं याचे । हे अग्ने, पुरीष्य पशुहित, द्युम्नं सहस्वाभ्यायच्छस्व देहि ॥ ४० ॥

एकचत्वारिंशी।
गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॑ बिभ्रत॒ एम॑सि । ऊर्जं॒ बिभ्र॑द्वः सु॒मना॑: सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः ।। ४१ ।।
उ० गृहानुपैति । गृहा मा बिभीत । त्रिष्टुब्बिराड्रूपा । हे गृहाः, माबिभीत भयं मुञ्चत मा वेपध्वम् । 'टुवेपृ कम्पने' । वेपतिः कम्पनार्थः । कम्पनं मुञ्चत । यतो वयम् युष्मान् ऊर्जं अन्नं बिभ्रतः धारयमाणान् अनुपक्षीणान् अन्नेनैव आइमसि आगताः स्मः। किंच अहमपि ऊर्जं अन्नं बिभ्रन् धारयन् वः युष्मान् प्रति सुमनाः शोभनमनाः सुमेधाः शोभनप्रज्ञः सन् गृहानैमि गृहान्प्रत्यागच्छामि । मनसा मोदमानः हृष्यन् । आ इमः बहुवचनम् । एमि एकवचनम् । आत्मनि विकल्पेन बहुवचनं स्मर्यत इत्यदोषः ॥ ४१ ॥
म० 'गृहा मा बिभीतेति गृहानुपैति' ( का० ४ । १२ । २२) इति । ग्रामान्तरादागतो गृहा मेत्यादिमन्त्रत्रयेण गृहं प्राप्नुयात् । तिस्रोऽपि वास्तुदेवत्याः शंयुदृष्टाः । त्रिष्टुब्विराड्रूपा । यस्या एकादशार्णास्त्रयः पादा एकोऽष्टार्णः सा विराड्रूपा । अत्र प्रथमो दशार्णस्तेनैकोना । हे गृहाः, यूयं मा बिभीत । पालको यजमानो गत इति भयं मा कुरुत । मा च वेपध्वम् । कोऽपि शत्रुरागत्य विनाशयिष्यतीति बुद्ध्या कम्पं मा कार्ष्ट । यतो वयमूर्जं बिभ्रतो धारयमाणानक्षीणान्नानेव युष्मान् एमसि । आ इमः आगताः स्मः । यथा यूयमूर्जं बिभ्रतः तथाहमपि ऊर्जं बिभ्रत् धारयन् सुमनाः शोभनमनस्कः सुमेधाः शोभनधारणप्रज्ञोपेतः । मनसा दुःखरहितेन मोदमानः हृष्यन् वो युष्मान् गृहानैमि आगच्छामि । एमः ऐमीत्यात्मनि विकल्पेन बहुवचनम् 'अस्मदो द्वयोश्च' (पा. १।२। ५९) इत्युक्तेः ॥ ४१ ॥

द्विचत्वारिंशी।
येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः । गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः ।। ४२ ।।
उ० येषामध्येतीति । अनुष्टुप् । येषां गृहाणामध्येति । 'इक् स्मरणे' इत्येतस्यैतद्रूपं नतु 'इङ अध्ययने' इत्येतस्य । 'येषां गृहाणां स्मरति प्रवसन् गृहपतिः । येषु च सौमनसो बहुः । येषु गृहेषु बहुप्रकारं सौमनस्यं विद्यते तान् गृहानुपह्वयामहे आह्वयामः । ते चाहूताः सन्तो नो जानन्तु । अस्मद्विषयां प्रत्यभिज्ञां कुर्वन्तु । जानतोऽस्मान् प्रत्यभिज्ञावतोऽस्मान् ॥ ४२ ॥
म० अनुष्टुप् । प्रवसन् देशान्तरं गच्छन् यजमानो येषामध्येति । 'इक् स्मरणे' । यान् गृहान् स्मरति । 'अधीगर्थदयेशां कर्मणि' (पा. २ । ३ । ५२ ) इति षष्ठी । गृहविषयं क्षेमं सदा चिन्तयतीत्यर्थः । तथा येषु गृहेषु यजमानस्य बहुः सौमनसो सुमनसो भावः प्रीत्यतिशयः । वयं तान् गृहानुपह्वयामहे आह्वयामः । गृहाभिमानी देवोऽस्मत्समीपमागच्छत्वित्यर्थः । ते गृहदेवा आहूताः सन्तः जानतः उपकाराभिज्ञान् नोऽस्मान् जानन्तु । एते कृतघ्ना न भवन्तीत्यवगच्छन्तु ॥ ४२ ॥

त्रिचत्वारिंशी।
उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वय॑: । अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः । क्षेमा॑य व॒: शान्त्यै॒ प्रप॑द्ये शि॒वᳪं᳭ श॒ग्मᳪं᳭ शं॒यो: शं॒यो:।। ४३ ।।
उ० उपहूता इह । त्र्यवसाना महापङ्क्तिः । अभ्यनुज्ञाता इह । गृहेषु न इत्येतत्पदद्वयं विप्रकृष्टमिह संबध्यते । इहास्माकं गृहेषु गावः अजा अवयः उपहूताः । अथो अपिच अन्नस्य कीलालः । कीलालशब्दो रसवचनः । पटुरसमिदमन्नमभ्यनुज्ञायते । क्षेमाय वः इति प्रविशति । गृहाः उच्यन्ते । क्षेमाय अविनाशाय वः युष्मान् शान्त्यै च प्रपद्ये | प्रविशामि । शिवं शग्मं द्वे अप्येते सुखस्य नाम्नी । अनेकप्रकारं सुखं भवत्विति शेषः । कस्य शंयोः । शमिति सुखनाम । 'इदंयुरिदंकामयमानः' । सुखकामस्य । नर्य प्रजामित्यादि आदित्यार्षम् ॥ ४३ ॥
म. त्र्यवसाना महापङ्क्तिः । यस्या अष्टार्णाः षट् पादाः सा महापङ्क्तिः । पञ्चमो नवमार्णस्तेनैकाधिका । इह गृहेषु गाव उपहूताः धेनवो बलीवर्दाश्च सुखेन तिष्ठन्त्वित्येवमनुज्ञाताः । यथा इह गृहेषु अजावयः उपहूताः अजात्वावित्वजातिद्वययुक्ताः पशव उपहूताः सुखेन वर्तन्तामित्यस्माभिरनुज्ञाताः। | अथो अपिच अन्नस्य कीलालः अन्नसंबन्धी रसविशेषो नोऽस्मदीयेषु गृहेषु उपहूतः समृद्धो भवत्वित्येवमस्माभिरनुज्ञातः ।
'क्षेमाय व इति प्रविशति' ( का० ४ । १२ । २३ ) इति । हे गृहाः, वो युष्मान् प्रपद्ये प्राप्नोमि । किमर्थम् । क्षेमाय विद्यमानस्य वसुनो रक्षणं क्षेमस्तदर्थम् । शान्त्यै मम सर्वानिष्टशमनाय । शंयोः शमिति सुखनाम ( निघं० ३ । ६ । १९) तत्कामयते इति शंयुः । 'इदंयुरिदंकामयमानः' (निरु० ६ ।३१) इति यास्कोक्तत्वात्तादृशस्य मम । शिवं शग्ममिति द्वे सुखनामनी (निघं० ३ । ६ । १८-२२) तत्राद्यमैहिकं द्वितीयमामुष्मिकम् । उभयविधं सुखं भूतादिति शेषः । शंयोरित्यभ्यासोऽत्यादरार्थः ॥ ४३ ॥
इत्युपस्थानमन्त्राः समाप्ताः ॥

चतुश्चत्वारिंशी।
प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः ।। ४४ ।।
उ० प्रघासिनो हवामहे । चातुर्मास्यमन्त्राः । प्रजापतेरार्षम् । गायत्रीमारुती । शुक्रज्योतिश्चेति सप्त सप्त मारुता गणाः । तत्र स्वतवांश्च प्रघासी चेति पठ्यते । तदेतदुच्यते । प्रघास्युपलक्षिता मरुतः प्रघासिनः हवामहे आह्वयामः । ये च शुक्रज्योतिःप्रभृतयो मरुतस्तांश्च हवामहे । रिशादसः । रिशतिर्हिंसार्थः । 'दसु उपक्षये'। ब्राह्मणान् रेशयन्त उपक्षयन्तीति रिशद्दासिनः सन्तो रिशादस इत्युच्यन्ते । कथंभूतान्हवामहे । करंभेण सजोषसः करम्भपात्रैः समानप्रीतयः ॥ ४४ ॥
म० अथ चातुर्मास्यमन्त्राः प्रजापतिदृष्टाः । चातुर्मास्याख्यो यागः । स पर्वचतुष्टयात्मकः । वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाख्यानि चत्वारि पर्वाणि । तत्र वरुणप्रघासाख्ये द्वितीये पर्वणि दक्षिणोत्तरयोर्द्वयोर्वेद्योर्हविःष्वासादितेषु प्रतिप्रस्थाता पत्नीमुदानयंस्तदीयं जारं पृच्छेत् केन चरसीति । सापि तं ब्रूयात् । 'आख्याते प्रघासिन इत्येनां वाचयति नयन्' ( का० ५। ५। १०) इति । पत्न्या जारे कथिते सति एनां पत्नीं नयन् प्रतिप्रस्थाता प्रघासिन इति मन्त्रं वाचयति । मारुती गायत्री । वयं मरुतो हवामहे । चकारेण तदीयपरिचारकाः समुच्चीयन्ते । किंभूतान्मरुतः । प्रघासिनः 'घस्लृ अदने' प्रकर्षेण घस्यते भक्ष्यते इति प्रघासो हविर्विशेषः । स एषामस्तीति तान् प्रघासिनः एतन्नामकान् । शुक्रज्योतिरित्यादयः सप्तसप्तका मारुता गणाः । तत्र स्वतवांश्च प्रघासी चेति पठ्यते ( अध्या० १७ । ८५)। प्रघास्युपलक्षितान् मरुतः आह्वयामः । पुनः किंभूतान् । रिशादसः रिशतिर्हिंसार्थः । रिशां वैरिकृतां हिंसां दस्यन्ति उपक्षयन्तीति रिशादसः । 'दसु उपक्षये' क्विप् । यद्वा रिशन्ति हिंसन्तीति रिशाः । 'इगुपध-' (पा० ३ । १ । १३५) इति कः । रिशान् हिंसकान् दस्यन्तीति रिशादसः । यद्रा रिशन्तीति रिशन्तः । शतरि दीर्घश्छान्दसः । रिशतोऽऽस्यन्ति क्षिपन्ति ते रिशादसः । अस्यतेर्विच् । तथा करम्भेण सजोषसः यवमयो हविर्विशेषः करम्भः तेन सजोषसः समानप्रीतयस्तान् तथाविधान्मरुतो हवामहे ॥ ४४ ॥

पञ्चचत्वारिंशी।
यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॑ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ।। ४५ ।।
उ० पत्नीवाचनो मन्त्रः । पत्नी दक्षिणाग्नौ करंभपात्राणि जुहोति । अनुष्टुभा मारुत्या । यच्च ग्रामे वसन्तो यच्चारण्ये यच्च सभायामवस्थिताः यच्च इन्द्रिये प्रजननेनावस्थिताः सन्तो यदेनश्चकृमा वयम् । एनःशब्दः पापवचनः। यच्छब्दश्चाधस्तनैः चतुर्भिर्यच्छब्दैरेकीभूय वीप्सार्थो भवति। अथ कोऽर्थः । यत्र यत्र ग्रामादिष्ववस्थिताः सन्तः पापं चकृम कृतवन्तो वयम् । इदं तदवयजामहे । अवपूर्वो यजिर्नाशने वर्तते । एतत्पापं नाशयामः । स्वाहा सुहुतं चैतत् हविर्भवतु ॥ ४५ ॥
म० मारुत्यनुष्टुप् । 'करम्भपात्राणि जुहोति शूर्पेण मूर्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखौ जायापती वा दक्षिणेनाहृत्य तीर्थेन पूर्वेण वेदिमपरेण वा यद्ग्राम इति' ( का० ५। ५।११ ) इति । यवपिष्टेन निर्मितानि सन्तानपरिमितान्येकाधिकानि वर्तुलादिरूपाणि करम्भपात्राणि । तानि शूर्पेण पत्नी दक्षिणाग्नौ जुहुयादित्येकः पक्षः । दम्पती द्वौ वा जुहुयातामित्यपरः पक्षः । तौ च दक्षिणेन मार्गेण तानि पात्राण्याहृत्य वेदेः पूर्वदिशि पश्चिमदिशि वा स्थित्वा जुहुयाताम् । अथ मन्त्रार्थः । ग्रामे वसन्तो वयं यदेनः पापं ग्रामोपद्रवरूपं चकृम कृतवन्तः । तथारण्ये वसन्तो यदेनो मृगोपद्रवरूपं चकृम । तथा सभायां स्थिता यदेनो महाजनतिरस्कारादिकं चकृम । तथेन्द्रिये जिह्वोपस्थरूपे प्रीतिमन्तो वयं यदेनः कलञ्जभक्षणपरस्त्रीगमनादिकं चकृम । तथान्यत्रापि भृत्यस्वाम्यादौ यदेनः ताडनावज्ञादिकं चकृम तदिदं सर्वं पापमवयजामहे विनाशयामः । अवपूर्वो यजिर्नाशनार्थः । स्वाहा एतद्धविर्देवतायै पापविनाशिन्यै दत्तम् ॥ ४५ ॥

षट्चत्वारिंशी।
मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ।। ४६ ।।
उ० मो षू णः ऐन्द्रीमारुती विराजं यजमानो जपति । 'यत्र वै प्रजापतिः प्रजानां मरुतः पाप्मानं विमेथिरे' इत्यादिना इतिहासेन निदानवचनं श्रुतिः करोति ।मो षूणः । मो इत्ययं निपातः प्रतिषेधार्थीयः पुरस्तादाख्यातस्य भवति । यस्यार्थं प्रतिषेधयति । नचाख्यातं विद्यते । अतः श्रुत्युक्तमध्याह्रियते । हे इन्द्र, मा विमन्थीः माहिᳪं᳭सीः । सू इत्यनर्थकः । नोऽस्माकं प्रजाः । अत्र पृत्सु एषु संग्रामेषु वर्तमानः । देवैः मरुद्भिः सहितः । क उपकार इति चेत् , उपकृत्य हि प्रत्युपकारः प्रार्थ्यते । अस्ति हि यस्मादस्ति । स्म इत्यनर्थकः । ते तव विषये शुष्मिन् । शुष्म इति बलनाम । हे बलवन् , अवयाः । अवपूर्वस्य यजतेरेतद्रूपम् । अवयुतो यागः पृथग्भागः तद्योगी । किंच महश्चिद्यस्य । महतः चित् यस्य तव मीढुषः । 'मिह सेचने' । सेक्तुः वरुणस्य वर्षयितुर्वा । यव्या हविष्मतो मरुतः । यवमयैः करम्भपात्रैः हविष्मतो मरुतः तव स्वभूताः संजाताः त्वदनुग्रहात् । महतो यस्य मीढुषः । वदन्ते गीः । 'वदि अभिवादनस्तुत्योः' । स्तौति गीः वाक् स्तोतॄणाम् ॥ ४६ ॥
म० एन्द्रमरुद्देवत्या विराट् । यस्या दशाक्षराश्चत्वारः पादाः सा विराट् । चतुर्थ एकाधिकोऽत्र । 'मो षू ण इति यजमानो जपति' (का० ५।५।१२) इति । पृत्स्विति संग्रामनाम ( निघं० २।११।२१) हे इन्द्र, अत्र पृत्सु एषु संग्रामेषु वर्तमानः देवैस्त्वया सह सख्यं प्राप्तैर्मरुन्नामकैर्देवैः सहितस्त्वं नोऽस्मान्मे विनाशयेति शेषः । मोशब्दो निषेधार्थः । सुशब्दो विनाशभावस्य सौष्ठवं ब्रूते । तथा सति विनाशलेशो मा भूदित्यर्थः संपद्यते । क उपकार इति चेत् । शुष्मेति बलनाम ( निघ० २।९।११)। हे शुष्मिन् बलवन्निन्द्र, ते तव अवयाः अवयुतो यागः पृथग्भागोऽस्ति हि स्म विद्यत एव खलु । अवपूर्वस्य यजतेरेतद्रूपम् । 'मिह सेचने' धातुः । मीढुषो वृष्टिप्रदत्वेन सेक्तुः । हविष्मतो हविर्योग्यस्य तव यव्या यवमयैः करम्भपात्रनिष्पन्ना होमक्रिया महश्चित् पूजा खलु । तस्य यथोक्तपूजोपेतस्य तवास्मासु कृपालुत्वं युक्तमिति भावः । किंच गीरस्मदीया स्तुतिरूपा वाक् मरुतो भवतः सखीन् वन्दते नमस्करोति । नमो मरुद्भ्य इत्येवमाकारायाः स्तुतेर्नमस्काररूपत्वात् । मरुद्विषयनमस्कारेणापि तुष्टस्य तव कृपैव युक्तेत्यर्थः । मो सु नः अत्र 'सुञः' (पा० ८।३ । १०७) इति षत्वम् । 'अन्येषामपि दृश्यन्ते' (पा० ६ । ३ । १३७) इति दीर्घः । 'नश्च धातुस्थोरुषुभ्यः (पा० ८।४ । २७) इति न इत्यस्य णः । स्म इत्यस्यापि 'पूर्वपदात्' (पा० ८। ३ । १०६) इति षत्वम् । 'अवयाः श्वेतवाः पुरोडाश्च' (पा० ८।२।६७) इति विजन्तो निपातः । मीढुषः । 'दाश्वान्साह्वामीढ्वांश्च' (पा०६।१ । १२) इति क्वसन्तो निपातः ॥४६॥

सप्तचत्वारिंशी।
अक्र॒न् कर्म॑ कर्म॒कृत॑: स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभ्य॒: कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ।। ४७ ।।
उ० पत्नीं वाचयति । अक्रन्कर्म । अनुष्टुप् । पत्नी ऋत्विजो ब्रवीति । य एते अक्रन् अकार्षुः कृतवन्तः कर्म वरुणप्रघासम् कर्मकृतः ऋत्विजः । सह वाचा मन्त्रेण । मयोभुवा । वाग्विशेषणमेतत् । मय इति सुखनाम । सुखेन या भावयति वाक् तामहं ब्रवीमि । देवेभ्योर्थाय कर्म कृत्वा अस्तं गृहान् प्रेत गच्छत मया सहिताः । हे सचाभुवः। सचा सहेत्यर्थः । सहभवनशीला ऋत्विजः ॥ ४७ ॥
म०. आग्नेय्यनुष्टुप् । 'अक्रन्कर्मेत्येनां वाचयति' (का० ५। ५। १३) इति । कर्मकृतः वरुणप्रघासाख्यकर्मकारिण ऋत्विजः वाचा स्तुतिरूपया सह कर्म वरुणप्रघासानुष्ठानरूपमक्रन् कृतवन्तः । कथंभूतया वाचा । मयोभुवा । मय इति सुखनाम ( निघ० ३।६।७) मयो भवति यया सा मयोभूः तया मन्त्ररूपस्तुत्येत्यर्थः । हे सचाभुवः, सचेति सहार्थेऽव्ययम् । सहभवनशीलाः परस्परं यजमानेन पत्न्या वास्मिन्कर्मणि सहावस्थिता हे ऋत्विजः, देवेभ्यो देवार्थं कर्म कृता वरुणप्रघासनामकं कर्मानुष्ठानायास्तं प्रेत गृहान् गच्छत । अस्तमिति गृहनाम (निघ० ३ । ४ । ५) ॥ ४७ ॥

अष्टचत्वारिंशी ।
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ।। ४८ ।।
उ० अवभृथ निचुम्पुणः । अवभृयो यज्ञः हे अवभृथ यज्ञ, अवाचीनं पात्राण्यस्मिन् भ्रियन्त इत्यवभृथः। निचुम्पुण नीचैः क्वणन । 'उपांश्ववभृतेष्ट्या चरन्ति' इति श्रुतिः। यस्त्वं नीचैश्चरणोसि नीचैः क्वणनः तं त्वां प्राप्यैव अव देवैर्देवकृतमेनो यासिषम् । अवनीतवानहम् । किमवनीतवान् । एनः पापम् । कैः, सखिभूतैर्देवैः । किंविषयम्, देवकृतम्। देवविषये यत्कृतम् । अवमर्त्यैर्मर्त्यकृतम् । अवनीतवांश्च मर्त्यैर्मनुष्यैः ऋत्विग्भिः सखिभूतैः । मर्त्यकृतम् मनुष्यविषये यत्कृतं पापम् । अतस्त्वं हे अवभृथ हे देव, रिषः पाहि । रिषतिर्हिंसार्थः क्विबन्तः । तस्य पञ्चमी । रिषः बन्धनात्पाहि गोपाय । कथंभूताद्बन्धनात् । पुरुराव्णः । 'रा दाने' । बहुकर्मोपभोगसन्तापान्दातुः संसारलक्षणाद्बन्धात् । : यद्वा 'रु शब्दे' । रुवन्ति शब्दं कुर्वन्ति प्राणिनोऽस्मिन् - संसार्यमाणाः स पुरुरावास्तस्मात्पुरुराव्णः ॥ ४८॥
म० यज्ञदैवतं यजुः । 'मज्जयत्यवभृथेति' (का० ५। । ५। ३०) अत्र विनियोगश्चिन्त्य इति । वरुणप्रघासस्य कर्मणोऽन्ते तदङ्गभूतं यदवभृथाख्यं कर्म जलसमीपे क्रियतेऽत्रानेन मन्त्रेण दम्पतीभ्यां जले स्नानं कर्तव्यम् । हे अवभृथ, अवाचीनानि पात्राणि जलमध्ये भ्रियन्ते यस्मिन्यज्ञविशेषे सोऽयमवभृथः । तत्संबोधनं हे अवभृथ यज्ञ, हे निचुम्पुण, 'चुप मन्दायां गतौ' । नितरां चोपति मन्दं गच्छति निचुम्पुणः । उण्र् त्ययो मुमागमश्च । यद्वा नीचैरस्मिन्क्वणन्ति नीचशब्देन । कर्म कुर्वन्त्यवभृथो निचुम्पुणः । 'वीणस्थूणव्रणभ्रूण' इत्यादिना नीचैःशब्दोपपदात्क्वणतेः णक्प्रत्ययान्तो निपातः धातोः पुंभाव उपपदस्य निचुम्भावश्च निपातितः । तथाविधावभृथ, यद्यपि त्वं निचेरुरसि नितरां चरतीति निचेरुः नितरां गमनशीलोऽसि तथाप्यत्र निचुम्पुणो भव मन्दगमनो भव । किं प्रयोजनमिति चेत् उच्यते । देवैर्द्योतनात्मकैरस्मदीयैरिन्द्रियैर्देवकृतं हविःस्वामिषु देवेषु कृतमेनः पापं यदस्ति तदावयासिषमस्मिन् जलेऽहमवनीतवानस्मि । तथा मर्त्यैः मनुष्यैरस्मत्सहायभूतैर्ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञारूपं यदेनोऽस्ति तदप्यहमवायासिषमित्यनुवर्तते । इदमस्मत्त्यक्तं पापं यथा त्वां न व्याप्नोति तथा मन्दं गच्छेति भावः । किंच हे देवावभृथाख्य यज्ञ, रिषो वधात् पाहि पालय । रिषतेर्हिंसार्थस्य क्विबन्तस्य पञ्चम्यां रूपम् । किंभूताद्रिषः । पुरुराण्वः । 'रा दाने'। पुरु बहु विरुद्धं फलं ददातीति पुरुरावा तस्मात् । 'आतो मनिन्-' (पा. ३।२ । ७४) इत्यादिना वनिप् । विरुद्धफलदायी वधस्त्वत्प्रसादादस्माकं मा भूदित्यर्थः ॥ ४८ ॥

एकोनपञ्चाशी।
पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्ज॑ᳪं᳭ शतक्रतो ।। ४९ ।।
उ० दर्व्योपहन्ति । पूर्णादर्वि । द्वे ऐन्द्र्यावनुष्टुभौ । हे दर्वि, अस्याः स्थालीतोऽन्नं गृहीत्वा पूर्णा सती परा इन्द्रं प्रति पत गच्छ । ततः कर्मफलेन शोभने पूर्णा पुनरापत पुनरागच्छ । एवं दर्वीमुक्त्वा इन्द्रमाह । वस्नेव विक्रीणावहै । वस्नशब्देन मूल्यमुच्यते । वस्नाइव मूल्येनेव आवामध्वर्युयजमानौ विक्रीणावहै । किं तद्विक्रेयं द्रव्यमित्यत आह । इषमन्नम् । ऊर्जमुपसेचनम् । हे शतक्रतो बहुकर्मन् ॥ ४९॥
म० द्वे ऐन्द्र्यावनुष्टुभौ । साकमेधगतं कर्म किंचिदुच्यते ।। 'स्थाल्याः दर्व्यादत्ते पूर्णा दर्वीति' (का० ५। ६ । ३४)। दर्व्या स्थालीत ओदनग्रहणं करोति प्रथमया । द्वितीयया तं जुहोति । हे दर्वि, अन्नप्रदानसाधनभूते काष्ठादिनिर्मिते, त्वं पूर्णा स्थाल्याः सकाशादन्नं गृहीत्वा पूर्णा भूत्वा परा पूर्णत्वादेवोत्कृष्टा सती पत इन्द्रं प्रति गच्छ । सुपूर्णा कर्मफलेन सुष्ठु पूर्णा सती पुनरापत भूयोऽस्मान्प्रत्यागच्छ । एवं दर्वीमुक्त्वा इन्द्रमाह । हे शतक्रतो बहुकर्मन् इन्द्र, त्वं चाहं चोभौ वस्नेव 'वस्नशब्देन मूल्यं तृतीयायाः पूर्वसवर्णः' । मूल्येनेव । इषमभीष्टं हविःस्वरूपमन्नमूर्जं हविर्दानफलरूपं रसविशेषं च विक्रीणावहै परस्परं द्रव्यविनिमयरूपं विक्रयं करवावहै । अहं तुभ्यं हविर्ददामि त्वं मह्यं फलं देहीत्यर्थः ॥ ४९ ॥

पञ्चाशी।
दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते दधे । नि॒हारं॑ च॒ हरा॑सि मे नि॒हारं॒ नि ह॑राणि ते॒ स्वाहा॑ ।। ५० ।।
उ० इन्द्र उच्यते । देहि मे मह्यं प्रथमं तावत् ततो ददामि ते तुभ्यं पश्चात् । नि मे धेहि निधेहि मे मम प्रथमम्। पश्चान्निते दधे निदधे ते तव । निहारं च हरासि मे। नितरां हरणं निहारः । अवश्यकर्तव्यमुच्यते । मूल्यमिति पर्यायः । स हरसि मे मम । अहमपि निहारं निहराणि ते तव । प्रत्यग्रफलतां मन्त्रदृगाशास्ते ॥ ५० ॥
म० देहि म इति जुहोतीति' ( का० ५। ६ । ३८)। इन्द्रो वदति । हे यजमान, त्वं मे मह्यमिन्द्राय देहि हविः प्रथमं प्रयच्छ । ते तुभ्यं यजमानाय ददामि । अपेक्षितं पश्चात्प्रयच्छामि । एवं प्रथमपादोक्त एवार्थो द्वितीयपादेनादरार्थं पुनरुच्यते । मे मह्यमिन्द्राय निधेहि प्रथमं त्वं हविर्नितरां संपादय । ते तुभ्यं यजमानाय निदधे अपेक्षितं फलं नितरां संपादयामि । एवमिन्द्रवाक्यं श्रुत्वोत्तरार्धेन यजमान आह । नितरां ह्रियत इति निहारो मूल्येन क्रेतव्यं पदार्थं ब्रूते । निहारं मूल्येन क्रेतव्यवस्तुरूपं फलं मे मह्यं यजमानाय हरासि प्रयच्छ । 'लेटोऽडाटौ' (पा० ३।४ । ९४) इत्याडागमः । उत्तरो निहारो मूल्यवाची । निहारं मूल्यभूतं हविः ते तुभ्यमिन्द्राय निहराणि नितरां समर्पयामि । स्वाहाशब्दो हविर्दानार्थः । पूर्वार्धे पादद्वयेनादरेणेन्द्रेण द्विवारं प्रोक्तमर्थमुत्तरार्धेन यजमानः सम्यगङ्गीकरोतीत्यर्थः ॥ ५० ॥

एकपञ्चाशी।
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॒न्द्र ते॒ हरी॑ ।। ५१ ।।
उ० आहवनीयमुपतिष्ठते । अक्षन्नमीमदन्तेति । द्वाभ्यामैन्द्रीभ्यां पङ्क्तिभ्यां पितृयज्ञे पितर उच्यन्ते । अक्षन् अदेर्लुङि घस्लादेशः । अदितवन्तः भुक्तवन्तः पितरः । कथं ज्ञायत इति चेत् । अमीमदन्त हि 'मद तृप्तौ' हिशब्दो यस्मादर्थे । यस्मात्तृप्तास्तस्माद्भुक्तवन्त इत्यनुमानम् । तृप्तिविशेषणान्युत्तराणि । अवप्रियाः अधूषत । अवाचीनमन्नविक्षिप्रियाः (?) अन्नभक्तीरुपस्मृत्य अधूषत । 'धूञ् कम्पने' । धुनन्ति गात्राणि । किंच अस्तोषत स्वभानवः । प्रिया अन्नभक्तीरुपस्मृत्य दातॄन् स्तुवन्ति । अहोदत्तमहोदत्तं स्वाद्वन्नं बहु इति । स्वभानवः स्वयं दीप्ताः अन्नविस्मयात् । विप्राः प्राप्तप्रज्ञाः मेधाविनः । नविष्ठया मती नवतमया अपूर्वया मत्या स्तुवन्तीत्यनुवर्तते । एवं पितॄनुपलभ्याथेन्द्रमाह । योजा । नु क्षिप्रनाम । योजयामि क्षिप्रम् । हे इन्द्र, ते तव हरी हरितवर्णावश्वौ स्वभूतौ । तवापि गमनकालः प्राप्तः ॥५१॥
म० ऐन्द्रीभ्यां पङ्क्तिभ्यां साकमेधगतपितृयज्ञाख्यकर्मणि आहवनीयोपस्थानम् । यस्या अष्टाक्षराः पञ्च पादाः सा पङ्क्तिः । 'यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठन्ते द्वाभ्यामिति' (का० ५।९।२१)। पितृयज्ञाख्ये कर्मणि ये पितरः सन्ति तेऽस्माभिर्दत्तं हविःस्वरूपमन्नमक्षन् भक्षितवन्तः । कथमेतदवगम्यते । हि यस्मात् । अमीमदन्त हर्षं प्राप्ताः । अस्मदीयां भक्तिमवगम्य प्रियाः प्रीतियुक्ताः सन्तः अधूषत स्वकीयं शिरः कम्पितवन्तः । यद्वा प्रियास्तनूरवाधूषत । किंच स्वभानवः स्वयं दीप्तियुक्ताः विप्राः मेधाविनः सन्तः नविष्ठया नवतमया मती मत्या बुद्ध्या युक्ताः अस्तोषत स्तुतिं कृतवन्तः । अहो स्वाद्वन्नं बहु दत्तमहो भक्तिरित्याद्यभिधानं स्तुतिः । अतो हे इन्द्र, नु क्षिप्रं ते तव हरी एतन्नामकौ हरितवर्णावश्वौ योज गमनाय रथे योजय । तवाभीष्टायाः पितृतृप्तेः संपन्नत्वात्तैः पितृभिः सह त्वया आगन्तव्यमित्यर्थः । अक्षन् । अदेर्लुङि 'लुड्सनोर्घस्लृ' (पा० २ । ४ । ३७) इति घस्लादेशः । 'मन्त्रे घस-' (पा० २।४ । ८०) इत्यादिना च्लेर्लुक् । 'गमहन-' (पा० ६।९। ६८) इत्युपधालोपः । 'खरि च' (पा० ८।४ । ५५) इति चर्त्वम् । 'शासिवसि-' (पा० ८।३।६०) इति षत्वम् । अडागमः । अमीमदन्त 'मद तृप्तियोगे' चुरादिरात्मनेपदी लुङि णिलोपादौ रूपम् । अधूषत 'धूञ् कम्पने' लुङि सिचि व्यत्ययेन गुणाभावः । मती 'सुपां सुलुक्' (पा. ७।१।३९) इति तृतीयायाः पूर्वसवर्णदीर्घः । योज 'युजिर् योगे' ण्यन्ताल्लोटि 'छन्दस्युभयथा' (पा० ३।४ । ११७) इति शप आर्धधातुकत्वात् 'णेरनिटि' (पा० ६ । ४ । ५१) इति णिलोपः । 'द्व्यचोऽतस्तिङः' (पा० ६।३ । १३५) इति संहितायां दीर्घः ॥ ५१ ॥

द्विपञ्चाशी।
सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।
प्र नू॒नं पू॒र्णब॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒२ अनु॒ योजा॒ न्वि॒न्द्र ते॒ हरी॑ ।। ५२ ।।
उ० सुसंदृशं शोभनदर्शनम् । त्वा त्वम् वयम् हे मघवन् धनवन् , वन्दिषीमहि । 'वदि अभिवादनस्तुत्योः' । अभिवादयामः । अभिवादनमाह । प्र नूनं पूर्णबन्धुरस्तुतो यासि । प्रयासि नूनं निश्चयेन । पूर्णरथनीडः सन् । बन्धुरशब्दो रथनीडवचनः । स्तुतश्च स्तोतृभिः । वशान् अनु । 'वश कान्तौ' । कामाननुप्रयासि । यत एवमतो योजयामि क्षिप्रम् । इन्द्र ते हरी ॥ ५२ ॥
म० हे मघवन् , वयं त्वा त्वां वन्दिषीमहि स्तुतिकर्तारो भूयास्मेत्याशास्यते । किंभूतं त्वाम् । सुसंदृशं सुष्ठु सम्यक् पश्यति सुसंदृक् तं शोभनदर्शनम् । अनुग्रहदृष्ट्या सर्वस्य द्रष्टारम् । इत्थमस्माभिः स्तुतः त्वं वशान् कामयमानान् यजमानाननुलक्षीकृत्य नूनं प्रयासि अवश्यं गच्छसि । किंभूतः । पूर्णबन्धुरः । बन्धुरशब्दो रथनीडवाची । स्तोतृभ्यो देयैर्धनैः संपूर्णरथनीडोपेतो भूला गच्छसि । हे इन्द्र, स त्वं ते हरी योजेति पूर्ववत् ॥५२॥

त्रिपञ्चाशी।
मनो॒ न्वाह्वा॑महे नाराश॒ᳪं᳭सेन॒ स्तोमे॑न । पि॑तॄ॒णां च॒ मन्म॑भिः ।। ५३ ।।
उ० गार्हपत्यमुपतिष्ठते । मनोन्वाह्वामहे इति तिसृभिर्गायत्रीभिर्मनोदेवत्याभिः । मनः नु क्षिप्रम् आह्वामहे आह्वयामः । पितृयज्ञचरणेन पितृलोकमिव मनोगतमासीदत आहूयते । केनाह्वयामः । नाराशᳪं᳭सेन स्तोमेन येन नराः प्रशस्यन्ते दीर्घायुषः पुत्रवन्तो धनवन्तो भूयासुरित्यादिभिर्गुणैः स नाराशᳪं᳭सः स्तोमः स्तुतिः। पितॄणां च मन्मभिः मननीयैः स्तोमैर्मन आह्वयाम इत्यर्थः ॥ ५३ ॥
म० तिस्र ऋचो मनोदेवत्या गायत्र्यो बन्धुदृष्टाः । 'मनो न्वाह्वामह इति गार्हपत्यं तिसृभिरिति' (का० ५। ९ । २२)। उपतिष्ठन्त इत्यनुवर्तते । नु क्षिप्रं मन आह्वामहे पितृयज्ञानुष्ठानेन चित्तं पितृलोकं गतमिवासीत् अत आहूयते । यद्वा मनः मनोऽभिमानि दैवतमाह्वामहे आह्वयामः । केन साधनेन । स्तोमेन स्तोत्रेण । कथंभूतेन । नाराशंसेन । शंसः प्रशंसनं नराणां मनुष्याणां योग्यः शंसो नराशंसः तत्संबन्धी नाराशंसस्तेन । स्तोत्रं द्विविधं दैवं मानुषं च । यत्र देवाः स्तूयन्ते तद्दैवम् । यत्र च मनुष्याः प्रशस्यन्ते तन्मानुषम् । तथाविधेन स्तोत्रेणेत्युक्तं भवति । किंच पितॄणां च मन्मभिः पितरो यैः स्तोत्रैर्मन्यन्ते ते मन्मानस्तैः तादृशैः स्तोत्रैराह्वयामः ॥ ५३ ॥

चतुःपञ्चाशी।
आ न॑ एतु॒ मन॒: पुन॒: क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे ।। ५४ ।।
उ० आ न एतु । आगच्छतु नोऽस्माकं मनः पुनः । किमर्थम् । क्रत्वे क्रतवे । क्रतुः संकल्पः यज्ञो वा । दक्षाय । दक्षः संकल्पसमृद्धिः उत्साहो वा । स यदेव मनसा कामयते इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदास्मै तत्समृद्ध्यते स दक्षः' इति श्रुतिः । जीवसे जीवनाय । ज्योक् च सूर्यं दृशे । ज्योक् निपातश्चिरवचनः । चिरं सूर्यं दृशे द्रष्टुम् ॥५४॥
म० नोऽस्माकं मनः पूर्वोक्तं चित्तं पुनर्भूयः आ एतु आगच्छतु । किमर्थम् । क्रत्वे क्रतवे सङ्कल्पाय यज्ञं सङ्कल्पयितुं दक्षाय कर्मण्युत्साहाय । तथाच श्रुतिः 'तदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव ऋतुरथ यदस्मै तत्समृध्यते स दक्षः' इति । ज्योगिति निपातश्चिरवचनः । ज्योग्जीवसे चिरं जीवितुम् । सूर्य दृशे च चिरकालं सूर्यमवलोकयितुं च । एतेषां सङ्कल्पादीनां सिद्धये मनः पुनरागच्छतु । क्रत्वे । गुणाभावाद्यणादेशः । जीवसे तुमर्थे असेप्रत्ययः । दृशे । 'दृशे विख्ये च' (पा० ३ । ४ । ११) इति साधुः ॥ ५४ ॥

पञ्चपञ्चाशी।
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जन॑: । जी॒वं व्रात॑ᳪं᳭ सचेमहि ।। ५५ ।।
उ० पुनर्नः पितरः । हे पितरः, पुनरस्माकं मनः ददातु दैव्यो जनः देवसंबन्धी जनः । ततस्तेन देवजनदत्तेन मनसा जीवं जीवनवन्तम् । वातं गणम् पुत्रपश्वादिकम् । सचेमहि । 'ष्वञ्ज परिष्वङ्गे' परिष्वजेमहि ॥ ५५ ॥
म० हे पितरः, भवदनुज्ञया दैव्यो जनो देवसंबन्धी पुरुषः नोऽस्मभ्यं मनः पूर्वोक्तं चित्तं पुनर्भूयो ददातु प्रयच्छतु । प्रेरयत्वित्यर्थः । तथा सत्यनुष्ठानं कृत्वा भवत्प्रसादाज्जीवं जीवनवन्तं व्रातं पुत्रपश्वादिकं गणं वयं सचेमहि सेवेमहि । सचतिः सेवनार्थः ॥ ५५ ॥

षट्पञ्चाशी।
व॒यᳪं᳭ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ।। ५६ ।।
उ० वयᳪं᳭ सोम । सौमीगायत्री जपे विनियुक्ता । हे सोम, वयं व्रते तव । व्रतमिति कर्मनाम । तव कर्मणि वर्तमानाः मनस्तनूषु शरीरेषु जाग्रत्स्वप्नसुषुप्त्यादिकेषु । बिभ्रतः धारयन्तः प्रजावन्तश्च सचेमहि सेवितव्यानि वस्तूनि ॥ ५६ ॥
म० सोमदेवत्या गायत्री जपे विनियुक्ता । अत्र पितृयज्ञे सोमनामको देवोऽस्ति । सोमाय पितृमते इत्येवं हविषो विहितत्वात् । हे सोम, वयं यजमानाः तव व्रते कर्मणि वर्तमानाः तनूषु भवच्छरीरेषु मनो बिभ्रतः अस्मदीयं चित्तं धारयन्तः त्वत्कारुण्यात् प्रजावन्तः पुत्रपौत्रादिसंपन्नाः सन्तः सचेमहि सेवेमहि सेवितव्यानि वस्तूनीति शेषः । यद्वा 'षच संबन्धे' सर्वदा त्वत्संबद्धा भवेम ॥ ५६ ॥

सप्तपञ्चाशी।
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ।। ५७ ।।
उ० एष ते । रौद्रोयमनुवाकः त्रैयम्बकाः पुरोडाशास्तत्र विनियुक्तः अवदानहोमे । एष ते तव हे रुद्र, भागः । सह स्वस्रा । स्वस्रेति भगिन्युच्यते । सह भगिन्या अम्बिकया तं भागं जुषस्व । स्वाहा सुहुतमस्तु । अतिरिक्तमाखूत्कर उपकिरति । एष ते तव रुद्र भागः । आखुर्मूषिका ते तव पशुः ॥ ५७ ॥
म० द्वे रौद्रे यजुषी विंशत्यक्षरद्वादशाक्षरे । साकमेधगतत्र्यम्बकहविर्विषया मन्त्रा उच्यन्ते । प्रथमस्य यजुषोऽवदानहोमे विनियोगः । तथाच 'एष त इति जुहोतीति' ( का० .. ५। १० । १२)। रोदयति विरोधिनां शतमिति रुद्रः । हे । रुद्र, ते तव स्वस्रा भगिन्या अम्बिकया अम्बिकानाम्न्या 'सह एषोऽस्माभिर्दीयमानः पुरोडाशः भागः भजनीयः स्वीकर्तुं योग्यः । तं तथाविधं पुरोडाशं त्वं जुषस्व सेवस्व । । स्वाहा इदं हविर्दत्तं सुहुतमस्तु । अम्बिकाया रुद्रभगिनीत्वं श्रुत्योक्तम् । 'अम्बिका ह वै नामास्य स्वसा तयास्यैष सह भागः' (२। ६ । २।९) इति । योऽयं रुद्राख्यः क्रूरो देवस्तस्य विरोधिनं हन्तुमिच्छा भवति तदानया भगिन्या क्रूरदेवतया साधनभूतया तं हिनस्ति । सा चाम्बिका शरद्रूपं प्राप्य जरादिकमुत्पाद्य तं विरोधिनं हन्ति । रुद्राम्बिकयोरुग्रत्वमनेन हविषा शान्तं भवति । तथाच तित्तिरिः । 'एष ते रुद्र भागः सह स्वस्राम्बिकयेत्याह शरद्वा अस्याम्बिका सा भिया एषा हिनस्ति यᳪं᳭ हिनस्ति तयैवैनᳪं᳭ सह शमयति' । ‘अतिरिक्तमाखूत्कर उपकिरत्येष त इतीति' (का० ५। १० । १३ ) इति । यजमानस्य यावन्तः पुत्रभृत्यादयः पुरुषाः सन्ति तान् गणयित्वा प्रतिपुरुषमेकैकः पुरोडाश इत्येतावतः पुरोडाशान्निरूप्य ततोऽप्यधिकमेकं पुरोडाशं निर्वपेत् सोऽयमतिरिक्त उच्यते । 'त्रैयम्बकान्निर्वपति रौद्रानेककपालान्यावन्तो यजमानगृह्या एकाधिकान्' (५।१०।१।२) इति कात्यायनोक्तेः । तत्र योऽयमतिरिक्तस्तं न जुहुयात् किंतु मूषकोत्खाते एष त इति मन्त्रेणोपकिरेत् । अथ मन्त्रार्थः । हे रुद्र, एषोऽस्माभिरुपकीर्यमाणोऽतिरिक्तः पुरोडाशः ते भागः त्वया भजनीयः । तथा ते तवाखुः पशुः मूषकः पशुत्वेन समर्पितः । आखुदानेन तुष्टो रुद्रस्तयाम्बिकया यजमानपशून्न मारयतीत्यर्थः ॥ ५७ ॥

अष्टपञ्चाशी।
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ न॒: श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त् ।। ५८ ।।
उ० आगत्य जपति । अवरुद्रम् । द्वे पङ्क्तिककुभौ । अवयुत्य पृथक् कृत्वान्याभ्यो देवताभ्यो रुद्रम् अदीमहि । अद भक्षणे' छान्दसो णिचो लोपः । रुद्रमादयामः भोजयामः । अवगम्य च तं ज्ञात्वा देवं त्र्यम्बकम् । तथाच भोजयामः । यथा नो वस्यसस्करत् येन प्रकारेणास्मान्वसीयसः कुर्यात् । 'वस निवासे' इत्यस्य तृजन्तस्य वस्तेति भवति। ततः 'तुश्छन्दसि' इति ईयसुनि कृते वसीयस इति भवति । तत इकारलोपे वस्यस इति भवति । वस्तृतरानिति पर्यायः । वसनशीलानित्यर्थः । तथाचास्मान् श्रेयसः प्रशस्यतरान् कुर्यात् । यथा चास्मान् व्यवसाययात् । विपूर्वस्यावपूर्वस्य च 'षोन्तकर्मणि' इत्यस्य ण्यन्तस्य आशिषि लुङि सार्वधातुके यासुटि व्यवसाययादित्येतद्रूपं भवति । यथा चास्मान् सर्वकर्मणामन्तं प्रापयेदित्यर्थः ॥ ५८ ॥
म०. द्वे रौद्र्यौ पङ्क्तिककुभौ । यस्या द्वितीयः पादः द्वादशाक्षरः प्रथमतृतीयावष्टाक्षरौ सा ककुप् । द्वयोर्जपे विनियोगः । तथा 'आगम्याव रुद्रमदीमहीति जपतीति' (का० ५।१०।१४)। रुद्रमव । असौ रुद्र इति मनसा तमवगत्यादीमहि त्वदनुग्रहादन्नं भक्षयेम । तथा त्र्यम्बकं त्रीण्यम्बकानि नेत्राणि यस्य तादृशं देवमव त्रिनेत्रोयं देव इति मनसावगत्यादीमहीत्यनुवर्तते । यद्वा अदीमहीत्यत्र णिचो लोपश्छान्दसः । अवयुत्यान्यदेवताभ्यः पृथक्कृत्य रुद्रमदीमहि आदयामो भोजयामः । अवगम्य ज्ञात्वा त्र्यम्बकमादयाम इति । यथा येन प्रकारेण नोऽस्मान्वस्यसः करत् वस्तृतरान् वसनशीलानसौ कुर्यात् । यथाच नोऽस्मान् श्रेयसः करत् ज्ञातिषु प्रशस्यतरान् कुर्यात् । यथा चास्मान् व्यवसाययात् सर्वेषु कार्येषु निश्चययुक्तान् कुर्यात्तथैनं जपाम इत्यर्थः । आशीरियम् । अदीमहि 'छन्दस्युभयथा' इत्यार्धधातुकत्वाल्लिङि णिचो लोपः (पा० ३ । ४ । ११७) । वस्यसः वसतीति वस्ता तृन् अतिशयेन वस्ता वसीयान् । 'तुश्छन्दसि' (पा० ५।३। ५९) इति ईयसुनि कृते 'तुरिष्ठेमेयःसु' (पा० ६।४ । १५४) इति तृनो लोपः । वसीयस इति प्राप्ते ईलोपश्छान्दसः ॥ करत् 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लङ् । विकरणव्यत्ययेन शपि गुणः । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । व्यवसाययात् लेटि आडागमे 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४। ९७) इति इलोपे रूपं विपूर्वस्य ण्यन्तस्य स्यतेः ॥ ५८ ॥

एकोनषष्टी।
भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒खं मे॒षाय॑ मेष्यै ।। ५९ ।।
उ० भेषजमसि । हे रुद्र, यस्त्वं स्वभावत एव भेषजमौषधं भवसि सर्वप्राणिनाम् । अतः प्रार्थ्यते देहि भेष
जम् । गवे अश्वाय पुरुषाय भेषजं देहि । सुखं देहि । सुहितं स्वेभ्यः प्राणेभ्यः इति सुखम् । मेषाय मेष्यै च ॥५९॥
म० हे रुद्र, त्वं भेषजमसि औषधवत्सर्वोपद्रवनिवारकोऽसि । अतोऽस्मदीयेभ्यो गवे अश्वाय पुरुषाय च भैषज्यं सर्वव्याधिनिवारकमौषधं देहि । मेषाय मेष्यै च सुखं देहि । सु हितं स्वेभ्यः प्राणेभ्य इति सुखम् । अनेन मन्त्रेण गृहपशूनां क्षेमप्राप्तिर्भवति ॥ ५९॥

षष्टी।
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ।
त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुत॑: ।। ६० ।।
उ०. त्र्यम्बकम् । द्वावनुष्टुभौ । यं वयं त्र्यम्बकं यजामहे पूजयामः । सुगन्धिम् । 'गन्धस्येदुत्पूति-' इत्यादिना समासान्तः । पुष्टिवर्धनम् पोषस्य वर्धयितारम् । योऽस्मान् उर्वारुकमिव बन्धनात् । उर्वारुकः फलविशेषः स यथा पक्कः स्वबन्धनाद्वियुज्यते एवं मृत्योर्मुक्षीय मोचय मोचयतु । पुरुषव्यत्ययश्छान्दसः। माऽमृतात् । मा कदाचित अमृतात् मोचयतु । अग्निं त्रिः परियन्त्यनेन मन्त्रेण । कुमार्यश्चोत्तरेण परियन्ति । यं त्र्यम्बकं यजामहे शोभन: गन्धम् । पतिवेदनम् भर्तृलम्भयितारम् । उर्वारुकमिव बन्धनात् । इतो मुक्षीय ज्ञातिवर्गान्मोचयतु । मामुतः पतिवर्गान्मोचयतु । ‘सा यदि त इत्याह ज्ञातिभ्यस्तदाह मामुत इति पतिभ्यस्तदाह' इति श्रुतिः ॥ ६ ॥
म०. द्वे अनुष्टुभौ ‘अग्निं त्रिः परियन्ति पितृवत्सव्योरूनाघ्नानास्त्र्यम्बकमिति देववच्चैतेनैव दक्षिणानाघ्नानाः' (का. ५।१०।१५। १६) इति । यथा पितृमेधे पुत्रादयः पुरुषाः स्वकीयान् वामोरूंस्ताडयन्तस्त्रिवारमप्रदक्षिणं परियन्ति । यथा च देवतासेवायां दक्षिणोरूंस्ताडयन्तस्त्रिः प्रदक्षिणं परियन्ति । एवमत्र पुरुषाः प्रथमेनैव त्र्यम्बकमन्त्रेणाग्निमप्रदक्षिणत्रयेण प्रदक्षिणत्रयेण च परियन्तीति सूत्रार्थः ॥ मन्त्रार्थस्तु । सुगन्धिं दिव्यगन्धोपेतं मर्त्यधर्महीनं पुष्टिवर्धनं धनधान्यादिपुष्टेर्वर्धयितारं त्र्यम्बकं नेत्रत्रयोपेतं रुद्रं यजामहे पूजयामः । ततो रुद्रप्रसादान्मृत्योर्मुक्षीय अपमृत्योः संसारमृत्योश्च मुक्तो भूयासम् । अमृतान्मा मुक्षीय खर्गरूपान्मुक्तिरूपाच्चामृतान्मा मुक्षीय मुक्तो मा भूयासम् । एकवचनं बह्वर्थे । मुक्ता मा भूयास्मेत्यर्थः । अभ्युदयनिःश्रेयसरूपात्फलद्वयान्मम भ्रंशो मा भूदित्यर्थः । मृत्योर्मोचने दृष्टान्तः-उर्वारुकमिव बन्धनादिति । यथोर्वारुकं कर्कन्ध्वादेः फलमत्यन्तपक्कं सत् बन्धनात् स्वस्य वृन्तात् प्रमुच्यते तद्वत् ॥ 'कुमार्यश्चोत्तरेणेति' (का० ५। १० । १७) । यजमानसंबन्धिन्यः कुमार्योऽपि पूर्वोक्तपुरुषवदुत्तरेण त्र्यम्बकमन्त्रेणाग्निं त्रिः परियन्ति । त्र्यम्बकं यजामहे । कीदृशम् । पतिवेदनं पतिं वेदयतीति तं भर्तुर्लम्भयितारं 'विद्लृ लाभे । अन्यत्पूर्ववत् । इतो मुक्षीय इतो मातृपितृभ्रातृवर्गान्मुक्षीय मुक्ता भूयासममुतो मा मुक्षीय विवाहादूर्ध्वं भविष्यतः पत्युर्मुक्ता मा भूयासम् । जनकस्य गोत्रं गृहं च परित्यज्य पत्युर्गोत्रे गृहे च सर्वदा त्र्यम्बकप्रसादाद्वसामीत्यर्थः । ‘सा यदि त इत्याह ज्ञातिभ्यस्तदाह मामुत इति पतिभ्यस्तदाहेति' (२ । ६ । २ । १४) इति श्रुतेरितोऽमुतःशब्दाभ्यां पितृपतिवर्गौं ग्राह्यौ ॥ ६० ॥

एकषष्टी।
ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि ।
अव॑ततधन्वा॒ पिना॑कावस॒: कृत्ति॑वासा॒ अहि॑ᳪं᳭सन्नः शि॒वोऽती॑हि ।। ६१ ।।
उ० त्र्यम्बकानासजति । एतत्ते रुद्र । एतत् ते तव हे रुद्र, अवसं पथ्यदानं शंबलम् । तेन पथ्यदानेन परः परस्तात् । मूजवान्नामपर्वतः भगवतो रुद्रस्य वसतिः ताम् । अतीहि गच्छ । कथंभूतो गच्छ । अवततधन्वा अवतारितधनुः । पिनाकावसः पिनाको रुद्राङ्कुशः रुद्राङ्कुशकृतकुशलः । कृत्तिवासाः चर्मवसनः । अहिंसन्नः अविनाशयन्नः अस्मान् शिवः शान्तो भूत्वा अतीहि पूजितं गच्छ ॥ ६१ ॥
म० रौद्र्यास्तारपङ्क्तिः । यस्या अन्त्यौ द्वादशाक्षरावाद्यावष्टाक्षरौ पादौ सास्तारपङ्क्तिः । 'मूतयोः कृत्वा वेणुयष्ट्यां वा कूपे वासज्योभयतः स्थाणुवृक्षवᳪं᳭शवल्मीकानामन्यतमस्मिन्नुत्क्षेपणवदासजत्येतत्त इतीति' (का० ५। १० । २१)। व्रीहियवादीन् बद्ध्वा वहनार्थं तृणवंशादिनिर्मितः पात्रविशेषो मूतमित्युच्यते । तयोरुभयोर्मूतयोस्त्र्यम्बकान् हविःशेषान् प्रक्षिप्य स्वकीयेनांसेन वोढुं शक्यायां वंशयष्ट्यामग्रद्वये तन्मूतद्वयमवासज्योन्नते स्थाणौ वृक्षे वंशे वल्मीके वा मूतद्वययुतां वंशयष्टिं संसृजति । ततो गोभिराघ्रातुमशक्यत्वाद्गावो रोगं न प्राप्नुवन्तीत्यर्थः ॥ अथ मन्त्रार्थः । मूजवान्नाम कश्चित्पर्वतो रुद्रस्य वासस्थानम् । अवसशब्देन देशान्तरं गच्छतो मार्गमध्ये तटाकादिसमीपे भोक्तव्य ओदनविशेष उच्यते । हे रुद्र, एतत्ते तव अवसं हविःशेषाख्यं भोज्यं तेन सहितस्त्वं मूजवतः पर्वतात्परः परभागवतीं सन्नतीहि अतिक्रम्य गच्छ । कीदृशस्त्वम् । अवततधन्वा अवरोपितधनुष्कः । अस्मद्विरोधिनां त्वया निवारितत्वादित ऊर्ध्वं धनुषि ज्यासमारोपणस्य प्रयोजनाभावादवरोपणमेवेदानीं युक्तम् । तथा पिनाकावसः पिनाकाख्यं त्वदीयं धनुरावस्ते सर्वत आच्छादयतीति पिनाकावसः । यथा धनुर्दृष्ट्वा प्राणिनो न बिभ्यति तथा त्वदीयं धनुर्वस्त्रादिना प्रच्छाद्य गच्छेत्यर्थः । 'कृत्तिवासा इत्यनवेक्षमेत्योपस्पृशन्त्यपः' (का० ५। १० । २२-२३)। ति । उन्नते वृक्षादौ मूतद्वयेऽवसज्य प्रत्यावर्तमाना मूतद्वयस्यावेक्षणमकृत्वा वेदिसमीपे समागत्योदकं स्पृशेयुरिति सूत्रार्थः । मन्त्रार्थस्तु हे रुद्र, त्वं कृत्तिवासाः चर्माम्बरो नोऽस्मानहिंसन् हिंसामकुर्वन् शिवोऽस्मदीयपूजया संतुष्टः कोपरहितो भूत्वा अतीहि पर्वतमतिक्रम्य गच्छ ॥ ६१ ॥

द्विषष्टी।
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम् ।। ६२ ।।
उ० यजमानो मुण्ड्यमानो जपति । त्र्यायुषम् । उष्णिक् । लिङ्गोक्ता देवता । त्रीण्यायूंषि समाहृतानि बाल्ययौवनस्थविराणि त्र्यायुषम् । यज्जमदग्नेः त्र्यायुषम् यच्च कश्यपस्य यच्च देवेषु तन्नो अस्तु तदस्माकमस्तु भवतु । त्र्यायुषमित्याशीः ॥ ६२ ॥
म० आशीर्देवतोष्णिक् । यस्याश्चत्वारः पादाः सप्ताक्षराः सोष्णिक् । 'त्र्यायुषमिति यजमानो जपतीति' (का० ५। २ । १६) । सोऽयं जपो वपनकालीनः । जमदग्नेः मुनेर्यत्त्र्यायुषं त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारस्त्र्यायुषं तथा कश्यपस्यैतन्नामकस्य प्रजापतेः संबन्धि यत्त्र्यायुषं तथा देवेषु इन्द्रादिषु यत्त्र्यायुषमस्ति तत्सर्वं त्र्यायुषं नोऽस्माकं यजमानानामस्तु । जमदग्न्यादीनां बाल्यादिषु यादृशं चरितं तादृशं नो भूयादित्यर्थः ॥ ६२ ॥

त्रिषष्टी।
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिᳪं᳭सीः ।
नि व॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।। ६३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां तृतीयोऽध्यायः ॥ ३ ॥
उ० लोहक्षुरमादत्ते । शिवो नामासि । हे क्षुर, यतः त्वं शान्तनामासि । यस्य च तव स्वधितिः पिता । स्वधितिः वज्रः । तस्मै नमः ते तुभ्यं भवतु । मा मां मा हिᳪं᳭सीः मा विनाशय । वपति । निवर्तयामि । निपूर्वो वपतिरिह मुण्डनार्थः । मुण्डयामि त्वाम् । आयुरर्थम् अन्नाद्यर्थम् धनस्य पोषार्थम् शोभनापत्यतायै शोभनवीर्याय च ॥६३॥ इति उवटकृतौ मन्त्रभाष्ये तृतीयोऽध्यायः ॥ ३॥
म० क्षुरदैवतं यजुः ‘शिवो नामेति लोहक्षुरमादायेति' (का० ५।२ । १७) । हे क्षुर, त्वं नाम नाम्ना शिवः शान्तोऽसि । स्वधितिः वज्रं ते तव पिता । ते तुभ्यं नमोऽस्तु। मां मा हिंसीः । 'निवर्तयामीति वपतीति' (का० ५।२। १७)। यजमानदैवतं यजुः । निपूर्वो वृतिर्मुण्डनार्थः । हे यजमान, त्वां निवर्तयामि मुण्डयामि । किमर्थम् । आयुषे जीवनाय अन्नाद्यायान्नभक्षणाय प्रजननाय सन्तानाय रायो धनस्य पोषाय पुष्ट्यै सुप्रजास्त्वाय शोभनापत्यतायै सुवीर्याय शोभनसामर्थ्याय ॥ ६३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। अग्न्याधानादिपित्र्यान्तस्तृतीयोऽध्याय ईरियः ॥ ३ ॥




सम्पाद्यताम्