← अध्यायः १२ शुक्लयजुर्वेदः
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →


अध्याय 13
अग्निचयने चिति पुष्करपर्णादि उपधान मन्त्राः

13.1
मयि गृह्णाम्य् अग्रे ऽ अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।
माम् उ देवताः सचन्ताम् ॥

13.2
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाँ२ ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥

13.3
ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन ऽ आवः ।
स बुध्न्या ऽ उपमा ऽ अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥

13.4
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

13.5
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।
समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥

13.6
नमोऽस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
ये ऽ अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥

13.7
या ऽ इषवो यातुधानानां ये वा वनस्पतीꣳ१ ऽरनु ।
ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

13.8
ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः ॥

13.9
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ२ ऽ इभेन ।
तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥

13.10
तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः ।
तपूꣳष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥

13.11
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः ।
यो नो दूरे ऽ अघशꣳसो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥

13.12
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते ।
यो नो ऽ अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥

13.13
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्र मृणीहि शत्रून् ।
अग्नेष् ट्वा तेजसा सादयामि ॥

13.14
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाꣳ रेताꣳसि जिन्वति ।
इन्द्रस्य त्वौजसा सादयामि ॥

13.15
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चक्रिषे हव्यवाहम् ॥

13.16
ध्रुवासि धरुणास्तृता विश्वकर्मणा ।
मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृꣳह ॥

13.17
प्रजापतिष् ट्वा सादयत्व् अपा पृष्ठे समुद्रस्येमन् ।
व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यसि ॥

13.18
भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीं मा हिꣳसीः ॥

13.19
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
अग्निष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

13.20
काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि ।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥

13.21
या शतेन प्रतनोषि सहस्रेण विरोहसि ।
तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥

13.22
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥

13.23
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥

13.24
विराड् ज्योतिर् अधारयत् ।
स्वराड् ज्योतिर् अधारयत् ।
प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
अग्निष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

13.25
मधुश् च माधवश् च वासन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे वासन्तिकाव् ऋतू ऽअभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

13.26
अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः ।
सहस्रवीर्यासि सा मा जिन्व ॥

27
मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्व् ओषधीः ॥

13.28
मधु नक्तम् उतोषसो मधुमत् पार्थिवꣳ रजः ।
मधु द्यौर् अस्तु नः पिता ॥

13.29
मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः ।
माध्वीर् गावो भवन्तु नः ॥

13.30
अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः ।
अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् ॥

13.31
त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् ।
पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥

13.32
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥

13.33
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥

13.34
ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः ।
स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन् ॥

13.35
इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय ।
सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् ॥

13.36
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्ति मन्यवे ॥

13.37
युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥

13.38
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।
घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः ॥

13.39
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा ।
अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च ॥

13.40
अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ।
सहस्रदा ऽ असि सहस्राय त्वा ॥

13.41
आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् ।
परि वृङ्धि हरसा माभि मꣳस्थाः शतायुषं कृणुहि चीयमानः ॥

13.42
वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये ।
शिशुं नदीनाꣳ हरिम् अद्रिबुध्नम् अग्ने मा हिꣳसीः परमे व्योमन् ॥

13.43
अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।
स पर्वभिर् ऋतुशः कल्पमानो गां मा हिꣳसीर् अदितिं विराजम् ॥

13.44
वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् ।
महीꣳ साहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन् ॥

13.45
यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि ।
येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥

13.46
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च ॥

13.47
इमं मा हिꣳसीर् द्विपादं पशुꣳ सहस्राक्षो मेधाय चीयमानः ।
मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद ।
मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.48
इमं मा हिꣳसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।
गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.49
इमꣳ साहस्रꣳ शतधारम् उत्सं व्यच्यमानꣳ सरिरस्य मध्ये ।
घृतं दुहानाम् अदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन् ।
गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.50
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।
त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् ।
उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.51
अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे ।
तेन देवा देवताम् अग्रम् आयꣳस् तेन रोहम् आयन्न् उप मेध्यासः ।
शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.52
त्वं यविष्ठ दाशुषो नॄꣳः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥

13.53
अपां त्वेमन्त् सादयामि ।
अपां त्वोद्मन्त् सादयामि ।
अपां त्वा भस्मन्त् सादयामि ।
अपां त्वा ज्योतिषि सादयामि ।
अपां त्वायने सादयामि ।
अर्णवे त्वा सदने सादयामि ।
समुद्रे त्वा सदने सादयामि ।
सरिरे त्वा सदने सादयामि ।
अपां त्वा क्षये सादयामि ।
अपां त्वा सधिषि सादयामि ।
अपां त्वा सदने सादयामि ।
अपां त्वा सधस्थे सादयामि ।
अपां त्वा योनौ सादयामि ।
अपां त्वा पुरीषे सादयामि ।
अपां त्वा पाथसि सादयामि ।
गायत्रेण त्वा छन्दसा सादयामि ।
त्रैष्टुभेन त्वा छन्दसा सादयामि ।
जागतेन त्वा छन्दसा सादयामि ।
आनुष्टुभेन त्वा छन्दसा सादयामि ।
पाश्रून त्वा छन्दसा सादयामि ॥

13.54
अयं पुरो भुवः ।
तस्य प्राणो भौवनायः ।
वसन्तः प्राणायनः ।
गायत्री वासन्ती ।
गायत्र्यै गायत्रम् ।
गायत्राद् उपाꣳशुः ।
उपाꣳशोस् त्रिवृत् ।
त्रिवृतो रथन्तरम् ।
वसिष्ठ ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ॥

13.55
अयं दक्षिणा विश्वकर्मा ।
तस्य मनो वैश्वकर्मणम् ।
ग्रीष्मो मानसः ।
त्रिष्टुब् ग्रैष्मी ।
त्रिष्टुभः स्वारम् ।
स्वाराद् अन्तर्यामः ।
ऽअन्तर्यामात् पञ्चदशः ।
पञ्चदशाद् बृहत् ।
भरद्वाज ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः ॥

13.56
अयं पश्चाद् विश्वव्यचाः ।
तस्य चक्षुर् वैश्वव्यचसम् ।
वर्षाश् चाक्षुष्यः ।
जगती वार्षी ।
जगत्या ऽ ऋक्समम् ।
ऋक्समाच् छुक्रः ।
शुक्रात् सप्तदशः ।
सप्तदशाद् वैरूपम् ।
जमदग्निर् ऋषिः ।
प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्यः ॥

13.57
इदं उत्तरात् स्वः ।
तस्य श्रोत्रꣳ सौवम् ।
शरच् छ्रौत्री ।
अनुष्टुप् शारदी ।
अनुष्टुभ ऽ ऐडम् ।
ऐडान् मन्थी ।
मन्थिन ऽ एकविꣳशः ऽ ।
एकविꣳशाद् वैराजम् ।
विश्वामित्र ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ॥

13.58
इयं उपरि मतिः ।
तस्यै वाङ् मात्या ।
हेमन्तो वाच्यः ।
पङ्क्तिर् हैमन्ती ।
पङ्क्त्यै निधनवत् ।
निधनवत ऽ आग्रयणः ।
आग्रयणात् त्रिणवत्रयस्त्रिꣳशौ ।
त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते ।
विश्वकर्म ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ।
[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ ]???

भाष्यम्(उवट-महीधर)

त्रयोदशोऽध्यायः।

तत्र प्रथमा
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निᳪं᳭ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मामु॑ दे॒वता॑: सचन्ताम् ।। १ ।।
उ० मयि गृह्णामीति यजमानो जपति । मयि गृह्णामि आग्नेयी ककुप् । मयि आत्मनि गृह्णामि अग्रे प्रथमम् । | अग्निं दर्शनेन । ततोऽग्निं चिनोमीति शेषः । किमर्थम् । रायस्पोषाय धनपोषाय । सुप्रजास्त्वाय सुवीर्याय । वीर्यं शक्तिः । किंच मामु देवताः सचन्ताम् । मामेव देवताः सेवन्ताम् अग्निमिव ॥ १॥
म०. द्वादशेऽध्याये उखाधारणगार्हपत्यचयनक्षेत्रकर्षणौषधवपनादिमन्त्रा उक्ताः । त्रयोदशे पुष्करपर्णाद्युपधानमन्त्रा उच्यन्ते । 'उत्तरवेदिमपरेण तिष्ठन्यजमानो मयि गृह्णामीति जपति' ( का० १७ । ३ । २७) उत्तरवेदेः पश्चात्तिष्ठन्यजमानो जुहोति । अग्निदेवत्या ककुप् । यस्या मध्यपादो द्वादशक आद्यतृतीयावष्टकौ सा ककुप् । अत्र मध्यश्चतुर्दशकस्तेन द्व्यधिका। अहं यजमानोऽग्रे प्रथमं मयि आत्मनि अग्निं गृह्णामि धारयामि ततोऽग्निं चिनोमीति शेषः । किमर्थम् । रायो धनस्य पोषाय पुष्ट्यर्थम् । सुप्रजास्त्वाय शोभना प्रजा यस्य स सुप्रजाः सुप्रजसो भावः सुप्रजस्त्वं तस्मै । दीर्घश्छान्दसः । शोभनपुत्रादिनिष्पत्त्यै । सुवीर्याय शोभनसामर्थ्याय वीर्यं शक्तिः । किंच उकारोऽप्यर्थे । देवता अपि मां सचन्तां सेवन्तां सङ्गच्छन्ताम् ।। उ एवार्थे वा । देवता मामेव सचन्ताम् ॥ १॥

द्वितीया।
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भित॒: पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ२ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ।। २ ।।
उ० पुष्करपर्णमुपदधाति । अपां पृष्ठमसि । व्याख्यातम् ॥ २॥
म० 'पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत्' (का० १७ । ४।१)। ततोऽध्वर्युः कुशस्तम्बोपरि कमलिनीपत्रमुपदधाति पूर्ववदित्युखासंभरणवत् तेनापां पृष्ठमिति मन्त्रेण पुष्कर इत्यन्तेनोपधानं दिवो मात्रयेति तस्य मार्जनमिति सूत्रार्थः व्याख्यातः (११ । २९) ॥२॥

तृतीया।
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्न्या॒ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑: ।। ३ ।।
उ० रुक्ममुपदधाति । ब्रह्मजज्ञानम् त्रिष्टुप् आदित्यदेवत्या । ब्रह्मलक्षण आदित्यः जज्ञानं यजमानः प्रथमं पुरस्तात् प्राच्यां दिशि जायते । ततोऽनन्तरं वि सीमतः सुरुचो वेन आवः व्यावः व्यावृणोत् विवृतानकरोत् स्वप्रकाशेन । सीमतः मध्यतो मर्यादातः । सुरुचः सुरोचनानिमान् लोकान् । वेनः कान्तो मेधावी वा आदित्यः ।। सएव च । बुध्न्याः बुध्नमन्तरिक्षं तत्र भवा दिशो बुध्न्याः। उपमाः उपमीयन्ते आसु स्थितानि भूतानीत्युपमा दिशः। अस्य विष्ठाः । अस्य जगतः विविधं स्थानमिति विष्ठा दिशः । सतश्च योनिः विद्यमानस्य च मूर्तस्य स्थानम् असतश्च अमूर्तस्य वाय्वादेः योनिम् । विवः विवृणोति । आदित्य एव लोकान्दिशो भूतानि चाभिव्यनक्ति नान्य इति स्तूयते स्वकीयेन कर्मणा ॥३॥
म० तस्मिन्रुक्ममधःपिण्डं ब्रह्म जज्ञानमिति' (का. १७ । ३ । २९)। तस्मिन्पुष्करपर्णे पूर्वं कण्ठधृतं रुक्ममधःपिण्डमुपदधाति । आदित्यदेवत्या त्रिष्टुप् । वीत्युपसर्ग आव इति क्रियापदेन संबध्यते 'व्यवहिताश्च' (पा० १।४। ८२) इति पाणिनिस्मरणात् । ब्रह्म बृहत् रुक्मरूपोऽयमादित्यः सीमतः सीमानं मर्यादां भूगोलमध्यभागमारभ्य सुरुचः सुष्ठु रोचन्ते शोभन्ते तान् सुरोचनानिमान् लोकान् वि आवः विवृतानकरोत्स्वप्रकाशेन । कीदृशं ब्रह्म । प्रथममादौ पुरस्तात्पूर्वस्यां दिशि जज्ञानं जायमानं दृश्यमानम् । जनेः शानचि शपः श्लौ सति जज्ञानमिति रूपम् । किंच वेनः कामनीयो मेधावी वा स आदित्यः बुध्न्या बुध्नमन्तरिक्षं तत्र भवा बुध्न्या दिशः विवः विवृणोति । सतो विद्यमानस्य मूर्तस्य घटपटादेर्योनिं स्थानमसतोऽमूर्तस्य वाय्वादेश्च योनिं प्रभवं विवः । प्रकाशयति । वृणोतेः शपि लुप्ते लङि गुणे च व इति रूपम् । अडभाव आर्षः । 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इति वचनात् । कीदृशीर्बुध्न्याः । उपमाः उप समीपे मान्ति भूतानि यासु ता उपमाः । सावकाशा इत्यर्थः । अत एवास्य जगतो विष्ठाः विविधस्थानभूताः विविधं तिष्ठन्ति यासु ताः । 'अम्बाम्बगोभूमि-' (पा० ८।३ । ९७) इत्यादिना षत्वम् । आदित्य एव लोकान् दिशो भूतानि चाभिव्यनक्तीत्यर्थः ॥३॥

चतुर्थी।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। ४ ।।
उ० पुरुषमुपदधाति द्वाभ्यां त्रिष्टुब्भ्याम् । स प्रजापतिः सः अग्निः अधियज्ञं स यजमानः। हिरण्यगर्भः यो हिरण्यगर्भाख्यः पुरुषः । समवर्तताग्रे समभवदग्रे प्रथमम् शरीरी यश्च भूतस्योत्पन्नस्य प्राणिजातस्य जातः जातमात्रः सन् पतिरीश्वर एक एवासीत् अभूत् । स दाधार । तदः स्थाने यदो वृत्तिरर्थसंभवात् । यश्च दाधार धारयति ।
पृथिवीमन्तरिक्षमप्युच्यते । पृथिवी भूः येयं भूरित्यादेरन्तरिक्षनामसु पठितत्वात् । द्यां द्युलोकं च । उत अपि इमां पृथिवीम् । तस्मै कस्मै । काय इति प्राप्ते स्मैआदेशश्छान्दसः । प्रजापतये देवाय । हविषा विधेम हविर्दद्म इति विभक्तिव्यत्ययः ॥ ४॥
म० 'उत्तानं प्राञ्चᳪं᳭ हिरण्यपुरुषं तस्मिन् हिरण्यगर्भ' इति (का० १७ । ४ । ३) । तस्मिन्रुक्मे प्राञ्चमुत्तानं हिरण्यं पुरुषाकारमृग्द्वयेनोपदधाति । हिरण्यगर्भदृष्टा प्रजापतिदेवत्या त्रिष्टुप् । हिरण्ये हिरण्यपुरुषरूपे ब्रह्माण्डे गर्भरूपेणावस्थितः प्रजापतिर्हिरण्यगर्भः भूतस्य प्राणिजातस्याग्रे समवर्तत प्राणिजातोत्पत्तेः पुरा स्वयं शरीरधारी बभूव । स च जातः उत्पनमात्र एक एवोत्पत्स्यमानस्य सर्वस्य जगतः पतिरीश्वर आसीत् । स एव पृथिवीमन्तरिक्षं द्यां द्युलोकमुतापि चेमां भूमिं लोकत्रयं दाधार धारयति । 'तुजादीनां दीर्घोऽभ्यासस्य' ( पा० ६ । १३ । ७) इत्यभ्यासदीर्घः । पृथिवी भूः स्वयंभूरित्यन्तरिक्षनामसु पठितत्वात्पृथिवीशब्देनान्तरिक्षलोकोऽत्रोच्यते । कस्मै काय प्रजापतये देवाय वयं हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः॥४॥

पञ्चमी ।
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑: ।
स॒मा॒नं योनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑: ।। ५ ।।
उ० द्रप्सश्चस्कन्द । अस्यामृच्यादित्यो यथा सर्वं बिभर्ति पालयति च स तथोच्यते । य आहुतिपरिणामरसनिधानभूतो द्रप्स आदित्यः चस्कन्द पृथिवीम् उदकरूपेण पृथिवीं स्कन्दति मनुष्यादिधारणाय । यश्च द्युलोकमनुस्कन्दति आहुतिपरिणामभूतेन रसेन दिवादिधारणाय । इमं च योनिमनु यश्च पूर्वः यश्च इमं लोकं स्कन्दति आहुतिग्रहणाय । यश्च अनुस्कन्दति पूर्वयोनिममुं लोकं सुकृतिनां तर्पणाय । तमेवं समानं योनिं स्थानम् अनुसंचरन्तं द्रप्समादित्यं जुहोमि स्थापयामि । अनु सप्तहोत्राः सप्तस्वपि दिक्षु । 'असौ वा आदित्यो द्रप्सो दिशः सप्तहोत्रा अमुमादित्यं दिक्षु प्रतिष्ठापयन्ति' इति श्रुतिः। तिर्यक् चतस्रो दिशः अध एका उपर्येका मध्य एका एताः सप्तदिशः ॥५॥
म० देवश्रवोदृष्टादित्यदेवत्या त्रिष्टुप् । यः पूर्वः प्रथमो मुख्यो द्रप्स आदित्यः पृथिवीमन्तरिक्षमनुचस्कन्द अनुस्कन्दति गच्छति सिञ्चतीत्यर्थः । मनुष्यादिधारणाय । द्यां द्युलोकं चानुसिञ्चति आहुतिपरिणामभूतेन रसेन देवादिधारणाय । य इमं योनिं स्थानं भूलोकमनुस्कन्दति आगच्छति आहुतिग्रहणाय । एवं समानं योनिं सर्वेषां तुल्यं स्थानं लोकत्रयमनु संचरन्तं द्रप्समादित्यं सप्त होत्रा अनु जुहोमि । विभक्तिव्यत्ययः । सप्तसु होत्रामु दिक्षु स्थापयामि हिरण्यपुरुषरूपेण सर्वदिक्षु सूर्यमेव स्थापयामीत्यर्थः । 'असौ वा आदित्यो द्रप्सो दिशः सप्तहोत्रा अमुमादित्यं दिक्षु प्रतिष्ठापयति' (७ । ४ । १।२०) इति श्रुतेः । पूर्वादिचतस्रो दिशः अध एका उपर्येका मध्ये चैकेति सप्त दिशो ज्ञेयाः ॥ ५ ॥

षष्ठी।
नमो॑ऽस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।। ६ ।।
उ० सान् नामभिरुपतिष्ठते । नमोस्तु । तिस्रोऽनुष्टुभः सर्पदेवत्याः । लोका वा सर्पाः । नमस्कारोस्तु सर्पेभ्यः ये के च पृथिवीमनु व्यवस्थिताः ये चान्तरिक्षे ये च दिवि व्यवस्थिताः तेभ्यः सर्पेभ्यो नमस्कारोस्तु ॥ ६॥
म० 'उपतिष्ठते यजमानो नमोऽस्त्विति' ( का० १७ । ४।६।) यजमानो हिरण्यपुरुषं पश्यन्नृक्त्रयं पठेत् । सर्पदेवत्यास्तिस्रोऽनुष्टुभः । ये के च ये केचित् सर्पन्ति सर्पा लोकाः पृथिवीमनुगताः तेभ्यः सर्पेभ्यो नमोऽस्तु नमस्कारो भवतु । अन्तरिक्षे लोके ये वर्तमानाः सर्पाः ये च दिवि द्युलोके ये वर्तमानाः सर्पास्तेभ्यः सर्पेभ्यो नमोऽस्तु । 'इमे वे लोकाः सर्पाः' (७ । ४ । १ । २५) इति श्रुतेः सर्पशब्देन लोका उच्यन्ते ॥ ६ ॥

सप्तमी।
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ᳪं᳭रनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।। ७ ।।
उ० या इषवः यानि काण्डानि। यातुधानानां यातनां दुःखं ये दधति ते यातुधाना रक्षःप्रभृतयः ये च वनस्पतीन् अनु व्यवस्थिताः ये च अवटेषु बिलेषु शेरते आसते तेभ्यः सर्पेभ्यो नमः ॥ ७ ॥
म० यातुं यातनां दुःखं दधति ते यातुधाना रक्षःप्रभृतयस्तेषां याः सर्पजातय इषवो बाणरूपेण वर्तन्ते ये वान्ये वनस्पतीन् चन्दनादिवृक्षाननुवेष्ट्य स्थिताः ये वा ये चान्ये अवटेषु बिलेषु शेरते स्वपन्ति तेभ्यः सर्पेभ्यो नमोऽस्तु ॥ ७ ॥

अष्टमी।
ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।। ८ ।।
उ० ये वा ये च अमी । प्रत्यक्षान्दूरतो निर्दिशति सर्पान् । रोचने दिवः । 'रोचनो ह नामैष लोको यत्रैष एतत्तपति' इति श्रुतिः । ये च सूर्यस्य रश्मिषु स्थिताः । येषां च अप्सु सदः कृतं उदके स्थानं कृतम् तेभ्यः सर्पेभ्यः नमः ॥ ८॥
म० दिवो द्युलोकस्य रोचने दीप्तस्थाने ये वामी सर्पा अस्माभिरदृश्यमानाः सन्ति ‘रोचनो ह नामैष लोको यत्रैष एतत्तपति' इति श्रुतिः । तथा सूर्यस्य रश्मिषु किरणेषु ये च सर्पा वसन्ति येषां सर्पाणामप्सु जलेषु सदः स्थानं कृतं तेभ्यः सर्पेभ्यो नमोऽस्तु ॥ ८॥

नवमी।
कृ॒णु॒ष्व पाज॒: प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒२ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ।। ९ ।।
उ० जुहोति । कृणुष्व पाजः । पञ्च त्रिष्टुभ आग्नेय्यो रक्षोघ्न्यः । हे अग्ने, कृणुष्व पाजः । पाज इति बलनामसु पठितम् । कुरुष्व बलम् प्रसितिं न पृथ्वीम् 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' । नकार उपमार्थीयः । उपरिष्टादुपचारः । अथ कोर्थः । कुरुष्व बलं वागुरामिव पृथिवीं। यद्वा जलमिव पृथु । ततो याहि राजेव । अमवान् अमात्यवान्भूत्वा अभ्यवनवान् वा । अभ्यमनं शत्रूणां भयादप्रतिपक्षकरणम् । गृहवान्वा भूत्वा । शत्रून्प्रति याहि । इभेन इभभवेन बलेन । यद्वा । इभेन हस्तिना । गत्वा च । तृष्वीमनु प्रसितिं द्रूणानः । तृष्व्या प्रसित्येति विभक्तिव्यत्ययः । द्रूणान इति हिंसाकर्मा । यतश्च त्वं तृष्व्या क्षिप्रया प्रसित्या तन्तुना जालेन वा द्रूणानो हिंसन् अस्ता असि क्षेप्ता असि विकटः कृतास्त्रोसि अतो ब्रवीमि । विध्य ताडय । हिंद्धि रक्षसः । तपिष्ठैः तप्ततमैः प्रहारैः । यद्वा । अतीव तप्ततमैः अतिशयेन क्लेशकरैः ॥ ९॥
म०. उपविश्य पञ्चगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् ( का० १७ । ४ । ७ ) । आज्यं संस्कृत्य पञ्चगृहीतमादायात्मानमारुह्य पुरुषान्तिके उपविश्य प्रतिदिशं परिसृप्य परिसृप्य पुरुषोपरि पञ्चर्ग्भिर्जुहोतीति सूत्रार्थः । वामदेवदृष्टा राक्षोघ्नाः प्रतिसराः अग्निदेवत्याः पञ्च त्रिष्टुभः । हे अग्ने, पाजः बलं कृणुष्व कुरुष्व । पाज इति बलनामसु पठितम् । तत्र दृष्टान्तः । पृथ्वीं विशालां प्रसितिं न प्रसितिमिव । प्रसितिर्जालम् 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' (निरु० ६ । १२ ) इति यास्कोक्तेः । 'षिञ् बन्धने' प्रकर्षेण सीयन्ते बध्यन्ते पक्षिणो यया सा प्रसितिः ताम् । नकार इवार्थः । पक्षिग्रहणाय प्रसारितं जालमिव शत्रुग्रहणाय बलं प्रसारयेत्यर्थः । ततो राजेव नृप इवामवान् सहायवानिभेन गजेन याहि शत्रून्प्रति गच्छ । 'अम् गतौ भजने शब्दे' अमन्ति भजन्ति स्वामिन इत्यमाः सेवकास्तेऽस्य सन्तीत्यमवान् । पचाद्यजन्तादमशब्दान्मतुप्प्रत्ययः । हे अग्ने, अस्ता शत्रूणां क्षेप्तासि अतो रक्षसः राक्षसान् विध्य ताडय । 'व्यध ताडने' दिवादित्वाच्छ्यन् गहादित्वात्संप्रसारणम् । कैः । तपिष्ठैः तापकतमैरायुधैः । तपन्ति संतापयन्तीति तप्तॄणि अतितप्तॄणि तपिष्टानि तैः । 'तुरिष्ठेमेयःसु' (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः। कीदृशस्त्वम् । तृष्वीं प्रसितिम् । विभक्तिव्यत्ययः । तृष्व्या क्षिप्रया प्रसित्या जालेन अनु द्रूणानः शत्रून्मारयन् 'दु हिंसायां' क्र्यादिः शानच् प्रत्ययः । द्रूणीतेऽसौ द्रूणानः ॥९॥

दशमी।
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑स्पृश धृष॒ता शोशु॑चानः ।
तपू॑ᳪं᳭ष्यग्ने जु॒ह्वा॒ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ।। १० ।।
उ० तव भ्रमासः । हे अग्ने, य एते तव भ्रमासः भ्रमणा वातोद्धूता ज्वालासमूहाः आशुयाः आशवः स्थाने याः पतन्ति इतश्चेतश्च गच्छन्ति । तैः अनुस्पृश अभिमृश । धृषता धृष्टेन ज्वालासमूहेन शोशुचानः देदीप्यमानः । कान्य नुस्पृशेदित्यत आह । तपूंषि तापयितॄणि रक्षांसि । जुह्वा स्रुचा हूयमान इति शेषः । पतङ्गान्पतन् गच्छन्तीति रक्षांसि । किंच असंदितः 'दो अवखण्डने' अनवखण्डितश्च सन् विसृज विक्षिप विष्वक् विषु नाना वचनः । अञ्चतिर्गत्यर्थः । नानागमनाः तिर्यगूर्ध्वमधश्चेत्यर्थः । उल्काः रक्षोविघाताय ॥ १० ॥
म० हे अग्ने, तव ये भ्रमासः भ्रमा वातोद्धूता ज्वालासमूहाः पतन्ति इतस्ततो गच्छन्ति । कीदृशा भ्रमासः । आशुया आशवः शीघ्रगमनाः । आशुशब्दात्परस्य जसः 'सुपां सुलुग्-' इत्यादिना यादेशः । तैर्भ्रमैः तपूंषि तपन्ति संतापयन्ति तानि तपूंषि तापयितॄणि रक्षांसि पतङ्गान् पतन्तः सन्तो गच्छन्तीति पतङ्गाः पिशाचास्तांश्चानुस्पृश । ज्वालाभिस्तान्दहेत्यर्थः। कीदृशस्त्वम् । धृषता धृष्णोतीति धृषन् तेन धृषता प्रगल्भेन धृष्टेन ज्वालौघेन शोशुचानः देदीप्यमानः अत्यन्तं शोचते शोशुच्यत इति शोशुचानः 'शुच दीप्तौ' इत्यस्माद्यङन्ताच्छानच्प्रत्ययः । तथा जुह्वा स्रुचा हूयमान इति शेषः । असन्दितः अखण्डितः । ईदृशः सन् विष्वक् सर्वत्र तिर्यगूर्ध्वमधश्च उल्काः ज्वाला विसृज रक्षोघाताय मुञ्चेत्यर्थः ॥ १० ॥

एकादशी।
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घश॑ᳪं᳭सो॒ यो अन्त्यग्ने॒ मा कि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ।। ११ ।।
उ० प्रतिस्पशः । अत्र तृतीयः पादः प्रथमं व्याख्यायते । यच्छब्दयोगात् । यो नो दूरे अघशंसः योऽस्माकं दूरे वसति अघशंसः पापस्योत्कीर्तको दुर्जनः । यो अन्तिके यश्च अन्तिके वसत्यघशंसः तंप्रति स्पशः विसृज । 'स्पश बन्धने' स्पाशयतीति स्पशः प्रणिधीन् अध्यक्षान् विसृज प्रेरय । तूर्णितमः अतिशयेन त्वरन् । किंच भवा पायुः पालयिता । | विशः जनपदजातेः। अस्या मदीयाया अदब्धः अनुपहिंस्यः। एवंच तवास्मदनुग्रहप्रवृत्तस्य सतः हे अग्ने, माकिः मा कश्चित् ते तव व्यथिः व्यथयिता शत्रुः आदधर्षीत् प्रत्यनीकोऽभूत् ११
म०. नोऽस्माकं दूरे योऽघशंसः अघं पापं शंसतीच्छतीति अघशंसः अस्मद्द्रोही यो दूरे वसति यश्चान्ति समीपे अघशंसः हे अग्ने, तं प्रति स्पशः 'स्पश बन्धने' स्पशयन्ति बध्नन्तीति स्पशो बन्धनकृतः प्रणिधीन्विसृज प्रेरय । अस्या अस्मदीयायाः विशः प्रजायाः पायुः पातीति पायुः पालको भव । कीदृशस्त्वम्। तूर्णितमः तूर्णं वेगोऽस्यास्तीति तूर्णी अत्यन्तं तूर्णी तूर्णितमः | वेगवत्तरः । अदब्धः अनुपहिंसितः । हे अग्ने, एवमनुग्रहं 'प्रवृत्तस्य ते तव मा किः मा कश्चित् व्यथिः व्यथयतीति व्यथिः व्यथकः शत्रुरादधर्षीत् धार्ष्ट्यं मा करोतु । दूरसमीपस्थानस्थ शत्रून्प्रति त्वरतो बन्धकान्प्रेरय केनाप्यहिंसितोऽस्मत्प्रजापालको भव । राक्षसाश्च त्वां प्रति धृष्टा मा सन्त्वित्यर्थः । धृष धातोर्लुङि द्वित्वमडभावश्च मायोगात् ॥ ११ ॥

द्वादशी।
उद॑ग्ने तिष्ठ॒ प्रत्यात॑नुष्व॒ न्यमित्राँ॑२ ओषतात्तिग्महेते ।
यो नो॒ अरा॑तिᳪं᳭ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ।। १२ ।।
उ० उदग्ने उत्तिष्ठ हे अग्ने, किंच प्रत्यातनुष्व प्रत्यातनुहि विस्तारय ज्वालाप्राग्भारान् । किंच न्यमित्रान् ओषतात् न्योषतात् निर्दह अमित्रान् शत्रून् हे तिग्महेते । हेतिरायुधम् तिग्म तेजतेरुत्साहकर्मणः । उत्साहवदायुधं यस्य स तथोक्तः । किंच । यश्च नः अस्मभ्यम् अरातिमदानं चक्रे न ददाति अश्रद्धालुः । हे समिधान नीचा नीचैःकृत्व तं धक्षि दह । अतसं न । अतसो वृक्षः । नकार उपमार्थीयः । वृक्षमिव शुष्कम् ॥ १२ ॥
म० हे अग्ने, त्वमुत्तिष्ठ ततः प्रत्यातनुष्व ज्वाला विस्तारय । तिग्मा हेतयो यस्य स तिग्महेतिः । तिग्मं तेजतेरुत्साहकर्मणः । तत्संबोधनं हे तिग्महेते उत्साहवदायुध, अमित्राञ्छत्रून् त्वं न्योषतान्नितरां दह । 'उष दाहे' 'तुह्योस्तातङ्-' (पा० ७।१। ३५ ) इति तातङादेशः । हे समिधान, समिन्द्धे दीप्यतेऽसौ समिधानः तत्संबुद्धौ हे समिधान दीप्यमान, नोऽस्माकं योऽरातिं चक्रे करोति दानं प्रतिषेधति तं नीचा नीचैः कृत्वा धक्षि दह । 'दह भस्मीकरणे' 'बहुलं छन्दसि' (पा० २। ४ । ७३ ) इति शपि लुप्ते लटि मध्यमैकवचने धक्षीति रूपम् । तत्र दृष्टान्तः । शुष्कमतसं न । न इवार्थः । अतसो वृक्षः शुष्कं वृक्षमिवादातारं निर्दहेत्यर्थः ॥ १२ ॥

त्रयोदशी।
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ।
अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि ।। १३ ।।
उ० ऊर्ध्वो भव ऊर्ध्वस्तिष्ठ । स्थित्वा च प्रतिविध्य प्रतिताडय । अध्यस्मत् अस्मत्त उपरि व्यवस्थितान् । किंच आविष्कृणुष्व प्रकाशीकुरुष्व दैव्यानि कर्माणि हे अग्ने । किंच अवस्थिरा तनुहि अवतनुहि अवतारय स्थिराणि धनूंषि । यातुजूनां यातुधानानां जवनप्रधानानाम् । किंच यज्ञस्य जामिमजामिम् । जामिशब्दः पुनरुक्तवचनः । पुनरुक्तमपुनरुक्तं कृत्वा प्रमृणीहि । मृणतिर्मरणार्थः । प्रमारय शत्रून् । प्रथमां स्रुचमुपदधाति । आग्नेयेन यजुषा ऋचा वा अग्नेष्ट्वा । अग्नेः संबन्धिना तेजसा त्वां सादयामि हे स्रुक् ॥ १३ ॥
म० हे अग्ने, ऊर्ध्वो भव उद्युक्तो भव । अस्मदधि अस्माकमुपरि वर्तमानाञ्शत्रून्प्रतिविध्य प्रतिताडय । दैव्यानि देवसंबन्धीनि कर्माणि आविष्कृणुष्व प्रकटय । किंच यातुजूनां यातुधानानां स्थिरा स्थिराणि धनूंषि अवतनुहि अवतारय । किंच जाम्यजामिशब्दौ पुनरुक्तापुनरुक्तवचनौ । जामिमजामि पुनरुक्तमपुनरुक्तं कृत्वा पुनःपुनस्ताडितमताडितं
वा शत्रून् प्रमृणीहि । मृणातिर्मारणार्थः । रिपून् मारय । । 'घृतपूर्णामग्नेष्ट्वेति' ( का० १७ । ४ । १२)। कार्ष्मर्यमयीं(?) पादमात्रदीर्घां षडङ्गुलविपुलां घृतपूर्णां प्रागग्रां स्रुचमग्नेष्ट्वेति ' यजुषाग्निर्मूर्धेति ऋचा चोपदधाति । आग्नेयं यजुः । हे स्रुक्, अग्नेः संबन्धिना तेजसा त्वा त्वां सादयामि ॥ १३ ॥

चतुर्दशी।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪं᳭ रेता॑ᳪं᳭सि जिन्वति ।
इन्द्र॑स्य॒ त्वौज॑सा सादयामि ।। १४ ।।
उ० अग्निर्मूर्धा व्याख्यातम् । द्वितीयामुपदधाति ऐन्द्रेण यजुषा । आग्नेय्या च त्रिष्टुभा । इन्द्रस्य त्वाम् ओजसा | बलेन सादयामि ॥ १४ ॥
म० अग्निर्मूर्धेति व्याख्याता ( ३ । १२)। ( का० १७ । ४ । १३ ) एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्रस्य त्वेति । एवंविधमेवोदुम्बरीं दधिपूर्णां स्रुचमुत्तरे उपदधाति । इन्द्रस्य त्वेति यजुषा भुव इति ऋचा च । इन्द्रदेवत्यं यजुः । हे स्रुक्, इन्द्रस्यौजसा तेजसा त्वां सादयामि स्थापयामि ॥ १४ ॥

पञ्चदशी।
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: ।
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।। १५ ।।
उ० भुवो यज्ञस्य । चतुर्थः पादः प्रथमं व्याख्यायते । अर्थसंबन्धात् । यदा जिह्वां ज्वालालक्षणां हे अग्ने, चकृषे करोषि । हव्यवाहं हविषो वोढ्रीम् अथानन्तरमेव भुवः भवसि । यज्ञस्य द्रव्यदेवतात्यागात्मनो नेता देवयानपितृयाणमार्गानुसारिणः । रजसश्चोदकस्य च यज्ञपरिणामभूतस्य नेता भवति जगदुत्पत्त्यर्थम् । कुत्र नेता भवसीत्यत आह । यत्र यस्मिन् स्थाने नियुद्भिः नियुद्गुणविशिष्टाभिरश्वाभिः शिवाभिः सहितं वायुं सचसे सेवसे । नियुतो वायोरित्यादिष्टोपयोजनानीति नियुद्भिर्वायुर्लक्ष्यते वायुनान्तरिक्षम् । यत्रच दिवि द्युलोके मूर्धानमादित्यं दधिषे धारयसि । स्वर्षां स्वः द्युलोकं सनोतीति स्वर्षा तां स्वर्षाम् तत्र भवसि । यज्ञस्य रजसश्च नेतेति । यस्य तवैतत्कर्म तं त्वां सादयाम इति शेषः ॥ १५॥
म० त्रिशिरोदृष्टाग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं यदा हव्यवाहं हव्यं वहतीति हव्यवाट् तां हविषो वोढ्रीं जिह्वां — ज्वालां चकृषे करोषि । लडर्थे लिट् । तदा यज्ञस्य द्रव्यदेवतात्यागात्मनो नेता भुवः भवसि । रजसः यज्ञपरिणामरूपोदकस्य ' च नेता भवसि जगद्रक्षार्थम् । भवतेर्लेटि मध्यमैकवचने सिपि इति इकारलोपे 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे 'अचि श्नुधातु-' (पा० ६ । ४ । ७७ ) इत्युवङादेशे च कृते भुव इति रूपम् । कुत्र नेता भवसीत्यत आह । यत्र यस्मिन्स्थाने शिवाभिर्मङ्गलरूपाभिर्नियुद्भिरश्वाभिः त्वं सचसे संबन्धं प्राप्नोषि । नियुतो वायोरित्युक्तेर्नियुतो नाम वायोरश्वाः ताभिर्वायुर्लक्ष्यते वायुना चान्तरिक्षं लक्ष्यते । यत्र च दिवि मूर्धानमादित्यं दधिषे धारयसि । लिङ् लडर्थे । किंभूतं मूर्धानम् । स्वर्षां स्वः स्वर्गं सनोति ददातीति स्वर्षाः । 'षणु दाने' विट्प्रत्ययः । 'विड्वनोरनुनासिकस्यात्' (पा० ६।४ । ४१) इति नकारस्याकारः । यद्वा स्वः स्वर्गे स्यति तिष्ठतीति स्वर्षाः तम् षोऽन्तकर्मणि क्विप् । अन्तरिक्षे द्युलोके च यज्ञस्य रजसश्च नेता भवसीत्यर्थः । यत्रेत्यस्य संहितायां 'निपातस्य च' (पा० ६।३ । १३६ ) इति दीर्घः । यस्य तवैतत्कर्म तं त्वां स्रुग्रूपेण सादयामीति शेषः ॥ १५ ॥

षोडशी
ध्रु॒वाऽसि॑ ध॒रुणाऽऽस्तृ॑ता वि॒श्वक॑र्मणा ।
मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृ॑ᳪं᳭ह ।। १६ ।।
उ० स्वयमातृण्णां पृथिवीसंस्तुतामिष्टकामुपदधाति । ध्रुवासीति तिसृभिर्ऋग्भिरूर्ध्वं बृहत्यनुष्टुप्प्रस्तारपङ्क्तिभिः विश्वस्मै प्राणायेत्यादिना यजुषा च । ध्रुवासि स्थिरासि । स्वतएव धरुणा च अन्येषां च धारयित्री । आस्तृता विश्वकर्मणा उपहिता चासि विश्वकर्मणा प्रजापतिना सर्वस्य कर्त्रा । एवंचेदतो ब्रवीमि । मा त्वा समुद्र उद्वधीत् उद्वध्यात् । 'रुक्मो वै समुद्रः पुरुः सुपर्णः' इति श्रुतिः । त्वंच अव्यथमाना अचलन्तीं पृथिवीं दृंह दृढीकुरु । आत्मसात्कुर्वित्यभिप्रायः ॥ १६ ॥
म० 'स्वयमातृण्णां पुरुषे शर्करां छिद्रां ध्रुवासीति' (का० १७ । ४ । १५) । पुरुषोपरि ध्रुवेत्यादिकण्डिकाचतुष्टयेन स्वयमातृण्णामुपदधाति । कीदृशीम् । शर्करां पाषाणमयीं छिद्रां स्वाभाविकच्छिद्रयुताम् । सच्छिद्राश्ममयीष्टकैव स्वयमातृण्णोच्यत इति सूत्रार्थः । ऊर्ध्वबृहती । द्वादशाक्षरत्रिपादोर्ध्वबृहती । अत्र प्रथमत्रयोदशार्णस्तृतीयो दशार्णः । हे स्वयमातृण्णे, त्वं ध्रुवा स्थिरासि । कीदृशी त्वम् । धरुणा भूमिरूपेण विश्वस्य धारयित्री । विश्वं करोतीति विश्वकर्मा । तेन सर्वस्य कर्त्रा प्रजापतिना आस्तृता उपहिता । समुद्रो रुक्मः त्वा त्वां मा उद्वधीत् मा हन्तु । सुपर्णः पुरुषश्च त्वां मोद्वधीत् । 'रुक्मो वै समुद्रः पुरुषः सुपर्णः' (७ । ४ । २।५) इति श्रुतेः। समुद्रसुपर्णशब्दाभ्यां रुक्मपुरुषावुच्येते । त्वं चाव्यथमाना अचलन्ती सती पृथिवीं दृंह भूमिं दृढीकुरु ॥ १६ ॥

सप्तदशी।
प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे स॑मु॒द्रस्येम॑न् । व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य॒सि ।। १७ ।।
उ० प्रजापतिष्ट्वा प्रजापतिः त्वां सादयतु । स हि त्वामासादयितुं समर्थः । अपां पृष्ठे अपामुपरि । समुद्रस्य समुन्दनस्य उदकसंघातस्य एमन् एमनि । इणः मनिन् सप्तम्येकवचनम् अवस्थाने । कथंभूतामासादयतु । व्यचस्वतीं व्यञ्चनवतीम् प्रथस्वतीं पृथुत्वयुक्ताम् । त्वं चासादिता प्रजापतिना । प्रथस्व पृथ्वीभव । यतश्च पृथिव्यसि अतो ब्रवीमि ॥ १७॥
म० अनुष्टुप् । हे स्वयमातृण्णे, प्रजापतिः त्वा त्वां सादयतु स्थापयतु । क्व । अपां जलानां पृष्ठे उपरि । समुद्रस्य जलसङ्घातस्य एमन् एमनि अवस्थाने सादयतु । इणो धातोर्मनिन्प्रत्यये एमन्निति रूपम् 'सुपां सुलुक्' (पा. ७ । १ । ३९) इति सप्तम्या लुक् । किंभूतां त्वाम् । व्यचस्वतीं व्यचनं व्यचस्तदस्या अस्तीति व्यचस्वती तामभिव्यक्तियुताम् । प्रथस्वतीं प्रथनं प्रथः पृथुत्वं तदस्या अस्तीति प्रथस्वती तां विस्तारयुक्ताम् । त्वमपि प्रजापतिसादिता सती प्रथस्व अस्याश्चितेः प्रथनं कुरु । यतस्त्वं पृथिव्यसि पृथिव्युत्पन्नत्वात् ॥ १७ ॥

अष्टादशी।
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री ।
पृ॒थि॒वीं य॑च्छ पृथि॒वीं दृ॑ᳪं᳭ह पृथि॒वीं मा हि॑ᳪं᳭सीः ।। १८ ।।
उ० भूरसि भूमिरसि । अदितिरसि विश्वधायाः विश्वस्यां निहितमिति विश्वधायाः । विश्वस्य च भुवनस्य भूतग्रामस्य च धर्त्री धारयित्री । यतश्च त्वमियमेव अत इदमुक्तं भवति । पृथिवीं यच्छ आत्मानं निगृह्णीष्व । पृथिवीं दृंह आत्मानं दृढीकुरु । पृथिवीं माहिंसीः आत्मानं माहिंसीः ॥ १८॥
म० प्रस्तारपङ्क्तिः आद्यौ चेत्प्रस्तारपङ्क्तिरित्युक्तेर्यत्राद्यौ द्वादशकावन्त्यावष्टकौ सा प्रस्तारपङ्क्तिः । अत्र त्वाद्य एकादशको द्वितीयस्त्रयोदशकस्तृतीयतुर्यौ पञ्चकौ पञ्चमः षडक्षरः एवं पञ्च पादाः । हे स्वयमातृण्णे, त्वं भूः सुखानां भावयित्र्यसि । भूमिः पृथिव्यसि । भूम्यभिमानिनी देवतासीत्यर्थः । अदितिर्देवमातासि । विश्वधायाः विश्वं दधाति पुष्णातीति विश्वधायाः विश्वं निहितमस्यामिति वा । विश्वस्य भुवनस्य सर्वस्य भूतग्रामस्य धर्त्री धारयित्री तादृशी त्वं पृथिवीं यच्छ नियतां कुरु । पृथिवीं दृंह दृढीकुरु । पृथिवीं मा हिंसीः पृथिव्या हिंसां मा कुरु ॥ १८॥

एकोनविंशी।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
अ॒ग्निष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।।१९ ।।
उ० विश्वस्मै प्राणाय सर्वस्मै प्राणार्थं । अपानाय व्यानाय उदानाय प्रतिष्ठायै चरित्राय चरणाय त्वां सादयामीति शेषः । अग्निः त्वाम् अभिपातु पालयतु । मह्या महत्या स्वस्त्या अविनाशेन । छर्दिषा शन्तमेन । गृहेण सुखतमेन हेतुभूतेन सादयति । तया देवतया । व्याख्यातम् ॥ १९॥
म० यजुः एकाधिकार्ष्यनुष्टुप् । हे स्वयमातृण्णे, विश्वस्मै सर्वस्मै प्राणायापानाय व्यानायोदानाय प्राणापानव्यानोदानाख्यवायुवृत्तिलाभाय प्रतिष्ठायै कीर्त्यै चरित्राय शास्त्रीयाचरणाय च । प्राणिनामेतत्सर्वसिद्ध्यर्थं त्वां सादयामीति शेषः । किंच मह्या महत्या स्वस्त्या योगक्षेमसंपत्त्या शन्तमेनात्यन्तं सुखकारिणा छर्दिषा गृहेण चाग्निस्त्वा त्वामभिपातु सर्वतो रक्षतु । तया देवतयानुगृहीता त्वं ध्रुवा स्थिरा सती सीदोपविश । अङ्गिरस्वदङ्गिरसां चयनानुष्ठाने यथा त्वं स्थिरस्थिता तद्वदिहोपविश ॥ १९॥

विंशी।
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ।। २० ।।
उ० अग्निना दृष्टां दूर्वेष्टकामुपदधाति द्वाभ्यामनुष्टुब्भ्याम् । काण्डात्काण्डात् । भूमौ संबद्धं जटाभिः पर्व काण्डमित्युच्यते । असंबद्धं परुः। काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । पर्वणः पर्वणश्च परि प्ररोहन्ती यथा शताङ्कुरांल्लभसि एवं नः अस्मान् हे दूर्वे, प्रतनु विस्तारय । पुत्रपौत्रनप्तृभिः शतसहस्रसंख्यैः ॥ २० ॥
म० 'मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद्भूमिप्राप्तां काण्डात्काण्डादिति'(का. १७। ४ । १८) तस्यां स्वयमातृण्णायां काण्डादिति ऋग्द्वयेन पुरस्ताद्भूमिगताग्रं मूलाग्रयुतां दूर्वामुपदधाति । अग्निदृष्टे दूर्वष्टकादेवत्ये द्वे अनुष्टुभौ । मूलैर्भूसंबद्धं पर्व काण्डं भूम्यसंबद्धं परुः । हे दूर्व दूर्वेष्टके, काण्डात्काण्डात्प्रतिकाण्डं परुषः परुषः प्रतिपरुः भूमिसंबद्धासंबद्धेभ्यः सर्वपर्वभ्यः सकाशाद्यथा त्वं परि समन्तात्प्ररोहन्ती अङ्कुरवती वर्तसे । 'नित्यवीप्सयोः' (पा० ८ । १ । ४) इति वीप्सार्थे काण्डपरुषोर्द्वित्वम् । एवेत्यव्ययमेवमित्यर्थे 'निपातस्य च' (पा० ६ । ३ । १३६) इति संहितायां दीर्घः । हे दूर्वे, एवं स्वाङ्कुरविस्तारवत्सहस्रेण शतेन च । सहस्रशतशब्दावसंख्यार्थौ । असंख्यैः पुत्रपौत्रनप्त्रादिभिर्नोऽस्मान् प्रतनु विस्तारय ॥ २० ॥

एकविंशी।
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ।। २१।।
उ० या शतेन । या त्वं शतेन काण्डानां प्रतनोषि पृथिवीं सहस्रेण चाङ्कुराणां विरोहसि । तस्यास्तव हे इष्टके, विधेम स्थानं हविषा सह वयम् ॥ २१॥
म० हे देवि दीप्यमाने हे इष्टके, या त्वं शतेन काण्डानां प्रतनोषि विस्तारयसि, सहस्रेण चाङ्कुराणां विरोहसि विविधं प्ररूढा भवसि । वयं हविषा सह ते स्थानं विधेम परिचरेम ॥ २१॥

द्वाविंशी।
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: । ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ।। २२ ।।
उ० द्वियजुषमुपदधाति इन्द्राग्निभ्यां दृष्टाभ्यां द्वाभ्यामनुष्टुब्भ्यामग्निलिङ्गोक्तदेवताभ्याम् । यास्ते अग्ने । हे अग्ने, यास्ते तव सूर्येऽवस्थिता रुचो दीप्तयः दिवं द्युलोकम् | आतन्वन्ति प्रकाशयन्ति रश्मिभिः । ताभी रुग्भिः सर्वाभिः नोऽस्मान् अस्मिन्द्यवि रुचे रोचनाय कृधि कुरु । जनाय नस्कृधि । जनानां च भोक्तॄन् अस्मान् कृधि ॥ २२ ॥
म० ‘यास्त इति द्वियजुषं द्वितीये' (का० १७ । ४ । २०)। दूर्वष्टकापुरस्ताद्द्वितीये पद्यालोके यास्त इति ऋग्द्वयेन द्वियजुःसंज्ञां पद्येष्टकामुपदधाति इति सूत्रार्थः । इन्द्राग्निदृष्टे अग्निदेवत्ये द्वे अनुष्टुभौ । हे अग्ने, याः ते तव रुचः दीप्तयः सूर्ये सूर्यमण्डले वर्तमानाः सत्यः दिवं द्युलोकमातन्वन्ति प्रकाशयन्ति रश्मिभिः सरूपभूतैः किरणैः ताभिः सर्वाभिः रुग्भिः नोऽस्मान रुचे रोचनाय शोभायै अद्यास्मिन्द्यवि कृधि कुरु । जनाय पुत्रपौत्रादिकाय च कुरु । द्युलोकप्रकाशिकाः सर्वाः कान्तीः पुत्रांश्चास्मभ्यं देहीत्यर्थः । यद्वा विभक्तिव्यत्ययः । नोऽस्माकं जनाय जनं पुत्रादिकं ताभिः रुग्भिः रुचे शोभायै कुरु । जगत्प्रसिद्धं पुत्रादिकं देहीत्यर्थः ॥ २२ ॥

त्रयोविंशी।
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: । इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ।। २३ ।।
उ० या वो देवाः या वः युष्माकं हे देवाः, सूर्ये रुचः दीप्तयः गोषु अश्वेषु या रुचः । हे इन्द्राग्नी, हे बृहस्पते, ताभिः सर्वाभिः रुग्भिः रुचम् नः अस्मभ्यं धत्त ॥ २३ ॥
म० हे देवाः, हे इन्द्राग्नी, हे बृहस्पते, वो युष्माकं संबन्धिन्यो या रुचः दीप्तयः सूर्ये सूर्यमण्डले सन्ति गोषु धेनुषु अश्वेषु तुरगेषु च या युष्माकं रुचः सन्ति ताभिः सर्वाभिः रुग्भिः कृत्वा नोऽस्मभ्यं रुचं धत्त दत्त । तत्समप्रभानस्मान्कुरुतेत्यर्थः ॥ २३ ॥

चतुर्विंशी।
वि॒राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् । प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। २४ ।।
उ० रेतःसिचावुपदधाति । विराट् ज्योतिरधारयत् । विराडयं लोकः स इममग्निं ज्योतिर्धारयति । द्वितीयामुपदधाति । स्वराट् ज्योतिः अधारयत् । असौ वै लोकः स्वराट् सोऽमुमादित्यं ज्योतिर्धारयति । विश्वज्योतिषमुपदधाति । प्रजापतिः त्वां सादयतु । पृष्ठे पृथिव्याः उपरि पृथिव्याः । ज्योतिष्मतीं ज्योतिषा संयुक्ताम् । किमर्थम् । विश्वस्मै सर्वस्मै प्राणाय अपानाय व्यानाय । किंच । विश्वं ज्योतिर्यच्छ निगृह्णीष्व । अग्निश्च तवाधिपतिः । सादयति । तया देवतयाङ्गिरस्वद्ध्रुवासीद । व्याख्यातम् ॥ २४॥
म० 'विराट् स्वराडिति रेतःसिचौ प्रतिमन्त्रम्' (का. १७ । ४ । २२)। द्वियजुषः पूर्वे अव्यवहिते रेतःसिचौ द्वे पद्येष्टके प्राग्लक्षणे अनूकमभितो विराट् स्वराडिति प्रतिमन्त्रमुपदधाति विराडित्युत्तरां स्वराडिति दक्षिणामिति सूत्रार्थः । द्वे यजुषी इदंलोकादोलोकदेवत्ये क्रमाद्यजुरनुष्टुभौ । विशेषेण राजत इति विराट् अयं लोको ज्योतिरग्निलक्षणमधारयत् धारयति । स्वेनैव राजत इति स्वराट् असौ लोको ज्योतिरादित्यलक्षणमधारयद्धारयति । 'विराडयं लोकः स इममग्निं ज्योतिर्धारयत्यसौ वै लोकः स्वराट् सोऽमुमादित्यं ज्योतिर्धारयति' (७ । ४ । २ । २३) इति श्रुतेः । (का. १७ । ४ । २३ ) इति प्रजापतिरिति विश्वज्योतिषम् । रेतःसिग्भ्यां पुरो यजमानकृतां प्रथमां विश्वज्योतिःसंज्ञामिष्टकां पद्यां प्राग्लक्षणामुदङ्मुखोऽनूके उपदधाति । विश्वज्योतिर्देवतं यजु:शक्करीच्छन्दस्कम् । पृथिव्याः पृष्ठे उपरि ज्योतिष्मतीं ज्योतिषोपेतां त्वा त्वामिष्टकां प्रजापतिः सादयतु स्थापयतु । किमर्थं । विश्वस्मै सर्वस्मै प्राणायापानाय व्यानाय प्राणादिसंपत्त्यर्थम् । किंच हे इष्टके, त्वं विश्वं सर्वं ज्योतिर्यच्छ निगृह्णीष्व देहि वा। अग्निश्च ते तवाधिपतिः स्वामी तया देवतयाग्निलक्षणया ध्रुवा स्थिरा सती सीद उपविश । अङ्गिरस्वदङ्गिरसां चयने यथा स्थिरा सीदः तद्वदत्रापीत्यर्थः ॥ २४ ॥

पञ्चविंशी।
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । वास॑न्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। २५ ।।
उ० ऋतव्ये उपदधाति मधुश्च । वसन्तऋतुरुच्यते । यस्त्वं मधुश्च माधवश्व चैत्रश्च वैशाखश्च वसन्तऋतुः । स्वार्थे तद्धितः । ऋतू इति द्विवचनमेकवचनस्य स्थाने अर्थसंबन्धात् । यस्त्वामग्नेः संवत्सराख्यस्य अन्तःश्लेषोऽसि अन्तर्मध्ये व्यवस्थितः श्लेषकोऽसि तस्य । तव कल्पेतां द्यावापृथिव्यौ । ज्यैष्ठयाय ज्येष्ठभावायेत्यनुषङ्गः । कल्पन्तां च आपः ओषधयः ज्यैष्ठ्याय । कल्पन्तां च अग्नयः पृथङ् मम ज्यैष्ठ्याय । 'अग्नयो हैते पृथग्ये देवता इष्टकाः' इति श्रुतिः । मम तवेति प्राप्ते ममेति व्यत्ययश्छान्दसः । अथ कोऽर्थः । कल्पन्ताम् इष्टका याः स्वयमातृण्णादयः नानाभूतास्तव ज्यैष्ठ्याय सव्रताः समानकर्माणः । समानं हि कर्म इष्टकानामग्निचयनं नाम । किंच । ये अग्नयः अन्यैरपि चिताः समनसः समानमनस्काः । अन्तरा मध्ये द्यावापृथिव्यौ इमे वर्तन्ते तेपि वसन्तमृतुमभिकल्पमानाः । वासन्तिकाविति स्वार्थे तद्धितः । ऋतू इति द्विवचनमेकवचनस्यार्थे । अभिकल्पमानाः संविशन्त्विति संबन्धः । कथमिव । इन्द्रमिव देवाः । यथा इन्द्रं देवानां राजानं परिचरणाय देवा अभिविशन्ति एवं वसन्तमृतुमन्या इष्टकाः परिचरणायाभिविशन्तु । सादयति । तया देवतयेति व्याख्यातम् ॥ २५ ॥
म० 'ऋतव्ये मधुश्च माधवश्चेति' ( का० १७ । ४ । २४) विश्वज्योतिषः पुरो द्वे पद्ये प्राग्लक्षणे ऋतव्येष्टके अनूकमभित उदङ्मुख उपदधाति । ऋतुदेवतं यजुः अष्टोत्तरशताक्षरत्वाच्छन्दो नास्ति । मधुश्चैत्रो मासः माधवो वैशाखः तावुभौ वासन्तिकौ वसन्तसंबन्धिनौ ऋतू अवयवौ । यद्वा मधुमाधवौ वसन्त एव वासन्तिक ऋतुः । द्विवचनमेकवचनार्थम् । हे तादृश वसन्ताख्य ऋतो, त्वं चीयमानस्याग्नेरन्तःश्लेषोऽसि अन्तर्मध्ये व्यवस्थितः सन् श्लेषकोऽसि । यथा कुड्यस्यान्तर्दार्ढ्याय काष्ठपाषाणादयः श्लिष्यन्ते तद्वत् । ममाग्निं चिन्वतो यजमानस्य ज्यैष्ठ्याय ज्येष्ठवायोत्कर्षाय इमे द्यावापृथिवी द्यावापृथिव्यौ कल्पन्तां स्वोचितमुपकारं संपादयताम् । यद्वा ममेति तवस्थाने व्यत्ययः । द्यावाभूमी तवोत्कर्षाय कल्पन्ताम् । आपश्चौषधयश्च तव ज्येष्ठत्वाय कल्पन्ताम् । समानं व्रतं कर्म येषां ते सव्रताः एकस्मिन् चयनाख्यकर्मण्यवस्थिताः पृथक् नानाभूताः अग्नयः स्वयमातृण्णाद्या इष्टकाः तव ज्यैष्ठ्याय कल्पन्ताम् । 'अग्नयो हैते पृथग्यदेता इष्टकाः' इति श्रुतेरग्निशब्देनेष्टका उच्यन्ते । किंच इमे द्यावापृथिवी अन्तरा अनयोर्द्यावापृथिव्योर्मध्ये वर्तमानाः समनसः एकमनस्का ये अग्नयः अन्यैरपि चिताः तेऽपि वासन्तिकावृतू वसन्तमृतुमभिकल्पमानाः संपादयन्तः सन्तः अभिसंविशन्तु एतत्कर्माश्रयन्तु । तत्र दृष्टान्तः। इन्द्रमिव देवाः यथा देवा इन्द्रं परिचरणायाभिसंविशन्ति एवमन्येष्टका वसन्तं परिचरणायाभिसंविशन्तु । सादयति तया देवतया सादिते हे ऋतव्येष्टके, युवामङ्गिरसां कर्मणीव ध्रुवे स्थिरे सत्यौ सीदतमुपविशतम् ॥ २५ ॥

षड्विंशी।
अषा॑ढाऽसि॒ सह॑माना॒ सह॒स्वारा॑ती॒: सह॑स्व पृतनाय॒तः ।
स॒हस्र॑वीर्याऽसि॒ सा मा॑ जिन्व ।। २६ ।।
उ० अषाढामुपदधाति । अषाढासि । सविता अपश्यद्देवा वा अपश्यन् अनुष्टुप् । अषाढासि नाम्ना । यदसहन्त तस्मादषाढेत्येतच्छ्रुत्यभिप्रायं नामकथनम् । सहमाना च अभिभवनशीलासि च स्वभावतो यतः अतस्त्वां ब्रवीमि । सहस्वारातीः अभिभव अदानशीलान् । अभिभव च नः पृतनायतः पृतानां संग्राममिच्छतः । किंच । या च त्वं सहस्रवीर्यासि सा मा जिन्व । जिन्वतिः प्रीतिकर्मा । प्रीणीहि ॥ २६ ॥
म० 'अषाढासीत्यषाढाम्' (का० १७ । ४ । २५) अषाढासंज्ञकामिष्टकां पत्नीकृतां पद्यां प्राग्लक्षणामृतव्याभ्यां पूर्वांसंलग्नामनूके उपदधाति । सवितृदृष्टेष्टकादेवत्या विराडनुष्टुप् । हे इष्टके, त्वमषाढासि । शत्रून्न सहते इत्यषाढा । तथाच श्रुतिः 'ते देवा एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत तामुपधायासुरान्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त तस्मादषाढेति' (७ । ४ । २ । ३३)। कीदृशी त्वम् । सहमाना सहत इति सहमाना अभिभवनशीला स्वभावतः । अतोऽरातीः अदानशीलाः प्रजाः सहस्वाभिभव । पृतनां संग्राममिच्छन्ति ते पृतनायन्ति पृतनायन्तीति पृतनायन्तः क्यजन्ताश्छतृप्रत्ययः । तान्पृतनायतः संग्रामेच्छून् शत्रून्सहस्व । किंच त्वं सहस्रवीर्या बहुसामर्थ्या यासि सा मा मां जिन्व प्रीणीहि ॥ २६ ॥

सप्तविंशी
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ।। २७ ।।
उ०. कूर्मं दधिमधुघृतैरभ्यनक्ति । मधुवाताः । गायत्रस्त्रिचो वैश्वदेव्यः । मधुमन्तो वा रसवन्तो वाता वान्त्विति शेषः । कस्मै । ऋतायते यज्ञमिच्छते । मधु क्षरन्ति सिन्धवः मधु उदकं क्षरन्तु सिन्धवः स्यन्दमाना नद्यः । माध्वीर्नः । मधुमत्योऽस्माकं सन्तु भवन्तु ओषधयः ॥ २७ ॥

म० 'कूर्मं दधिमधुघृतैरनक्ति मधु वाता इति' (का. १७ । ४ । २७)। मिश्रितैर्दधिमधुघृतैर्ऋक्त्रयेण कच्छपमनक्ति गोतमदृष्टा विश्वदेवदेवत्यास्तिस्रो गायत्र्य ऋतं यज्ञमिच्छतीति ऋतयन् तस्मै ऋतयते यजमानाय वाता वायवो मधु मधुमन्तो रसवन्तो वान्त्विति शेषः । ऋतयतीत्यत्र 'क्यचि च' (पा० ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा० ७ । ४ । ३५) इत्यभावः । 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्यश्वाघयोरेव क्यच्यात्वविधानात् 'अकृत्सार्वधातुकयोः' (पा० ७। ४ । २५) इत्यात्वमपि न । संहितायां तु छान्दसो दीर्घः । मधु मधुमानित्यग्रे [२८] मतुप्प्रत्ययदर्शनात्सर्वत्र मधुशब्दाग्रे मतुब्ज्ञेयः । सिन्धवः स्यन्दमाना नद्यः समुद्रा वा मधु मधुमत् रसवत् उदकं क्षरन्ति स्रवन्त्वित्यर्थः । 'तिङां तिङः' (पा० ७ । १ । ३९ ) इति लोटो लडादेशः । ओषधीः ओषधयः नोऽस्माकं माध्वीः मधुररसोपेताः सन्तु ॥ २७ ॥

अष्टाविंशी।
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑व॒ᳪं᳭ रज॑: । मधु॒ द्यौर॑स्तु नः पि॒ता ।। २८ ।।
उ० मधु नक्तम् । मधुमत् नक्तं रात्रिरस्तु । उत अपि च उषसः मधुमत्यः सन्तु । मधुमद्रसवत्पार्थिवं रजो लोकः अस्तु मातृभूतः । मधुमदित्ययं मतुप् सर्वेषां मधुशब्दानामनुषङ्गो द्रष्टव्यः साकाङ्क्षत्वात् । मधुद्यौरस्तु नः पिता । मधुमती द्यौरस्तु अस्माकं पितृभूता ॥ २८ ॥
म० नक्तं रात्रिर्नोऽस्माकं मधु मधुमत् मधुररसोपेतमानन्दकरमस्तु । उतापि च उषसो दिवसा अपि मधुमन्तः सन्तु । पार्थिवं रजः पृथिवीलोको मातृभूतो मधुमन्मधुररसोपेतमस्तु । पिता पितृभूतो द्यौः द्युलोको मधु मधुमान्मधुररसोपेतोऽस्तु ॥ २८॥

एकोनत्रिंशी।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ अस्तु॒ सूर्य॑: । माध्वी॒र्गावो॑ भवन्तु नः ।। २९ ।।
उ० मधुमान् रसवान् नः अस्माकं वनस्पतिर्यज्ञस्य साधनभूतोऽस्तु । सोमो वा वनस्पतिः । मधुमान् अस्तु सूर्यः यज्ञसाधनभूतः । माध्वीः मधुमत्यो रसवत्यः गावः यज्ञसाधनभूताः पशवो रश्मयो वा भवन्तु नोऽस्माकम् । | 'रसो वै मधु' इति श्रुतिः । वाय्वादीनि रसवन्त्यस्माकं भोग्यानि सन्त्विति समस्तार्थः ॥ २९ ॥
म०. वनस्पतिरश्वत्थादिर्नोऽस्माकं मधुमान्रसवान्यज्ञसाधनभूतोऽस्तु । सूर्यो मधुमान् संतापराहित्यलक्षणमाधुर्यरसोपेतोऽस्तु । गावः यज्ञसाधनभूता रश्मयः नोऽस्माकं माध्वीः मधुमत्यो रसवत्यो भवन्तु । 'रसो वै मधु' (७ । ५। १ । ४) इति श्रुतेः । वातादीनि रसवन्त्यस्माकं भोग्यानि भवन्तीति सर्वोऽर्थः ॥ २९॥

त्रिंशी।
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ऽभि ता॑प्सी॒न्माऽग्निर्वै॑श्वान॒रः ।
अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टि॑: सचताम् ।। ३० ।।
उ० उपदधाति । अपां गम्भन् । त्रिभिः पङ्क्तित्रिष्टुब्गायत्रीभिः । द्वे कूर्मदेवत्ये । कूर्मश्च प्रजापतिरादित्यो वा । उत्तरा द्यावापृथिवीया । अपां गम्भन् अपां गम्भीरे प्रदेश सीद उपविश । 'एष वा अपांगम्भन यत्रैष एतत्तपति' इति श्रुतिः । तत्र चोपतिष्ठन्तं सन्तं मा त्वां सूर्यः अभिताप्सीत् अभितापयेत् । मा च अग्निर्वैश्वानरः । त्वं च अच्छिन्नपत्राः प्रजाः अनुवीक्षस्व । प्रजा इष्टका उच्यन्ते । अच्छिन्नपत्रा इति व्याख्यातं श्रुत्या । अरिष्टा अनार्ता अस्माकमिति । अनवखण्डिता योगक्षेमा इष्टका दर्शनेन कुर्वित्यर्थः । अनु त्वा दिव्या वृष्टिः सचताम् । अनुसेवतां त्वां दिव्या दिविभवा वृष्टिः । दिव्या वृष्टिरिति प्रियवचनम् ॥३०॥
म० 'अरत्निमात्रेऽषाढां दक्षिणेगायकासूपरिष्टाच्च पुरुषमभिमुखमपां गम्भन्निति तिसृभिः' । (का० १७ । ४ । २८ । ५) अषाढादक्षिणदेशे हस्तमात्रे पद्यालोकद्वयमन्तराले मुक्त्वा तृतीये पद्यालोके पूर्वमेव स्थापितास्ववकासु शेवालेषु पुरुषसंमुखऋक्त्रयेण कूर्ममुपदधातीति सूत्रार्थः । स्वराट्पङ्क्तिः दशाक्षरचतुष्पादा कूर्मदेवत्या तृतीयो द्वादशाक्षरः । कूर्मः प्रजापतिरादित्यो वा । तृतीया द्यावापृथ्वीया । हे कूर्म, अपां जलानां गम्भन् गम्भनि गम्भीरे स्थाने रविमण्डले त्वं सीद उपविश । 'एतद्धापां गम्भिष्ठं यत्रैष एतत्तपति' (७ । ५। १।८) इति श्रुतेः । तत्रोपविष्टं त्वा त्वां सूर्यो माभिताप्सीत् अभितो मा संतापयतु । वैश्वानरः सर्वत्रहितोऽग्निश्च मा संतापयतु । त्वं चात्र स्थितः सन् प्रजा इष्टकारूपा अनुवीक्षस्व निरन्तरं पश्य । कीदृशीः प्रजाः । अच्छिन्नपत्राः अच्छिन्नान्यनवखण्डितानि पत्राणि अवयवा यासां ताः । अखण्डिता इष्टकाः कुर्वित्यर्थः । 'इमा वै सर्वाः प्रजा या इमा इष्टकास्था अरिष्टा अनार्ता अनुवीक्षस्व' (७।५।१।८) इति श्रुतेः । किंच दिव्या दिवि भवा वृष्टिः त्वा त्वामनु सचतां सेवतामुदकेन नित्यं सिक्तो भवेत्यर्थः ॥ ३० ॥

एकत्रिंशी।
त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भ इष्ट॑कानाम् ।
पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ।। ३१ ।।
उ० एजयति । त्रीन्समुद्रान् । यस्त्रीन्समुद्रान् लोकान् समसृपत् । समसृप इति पुरुषव्यत्ययः । संसृप्तोसि । स्वर्गान् स्वर्गहेतून् । यश्च त्वम् अपांपतिः वृषभश्च वर्षिता भर्ता इष्टकानां तं त्वां ब्रवीमि । पुरीषं वसानः पशूनाच्छादयन् । सुकृतस्य शोभनकृतस्याग्नेर्लोके स्थाने स्थित्वा तत्र गच्छ यत्र पूर्वे कूर्मा अन्येष्वग्निषूपहिताः सन्तः परेताः परागताः ॥ ३१ ॥
म० 'घट्टयति मध्यमयेति' (का० १७ । ५। २) तिसृणां मध्यमया त्रीन् समुद्रानिति ऋचा हस्तस्थमेव कूर्मं कम्पयतीति सूत्रार्थः । कूर्मदेवत्या त्रिष्टुप् । हे कूर्म, यो भवान् त्रीन्समुद्रान् लोकान्समसृपत्सम्यक्प्राप्तो भवति । 'सृप्लृ गतौ' 'पुषादि-' (पा० ३ । १ । ५९) इत्यादिना च्लेरङ् । समुद्द्रवन्ति स्वकारणात्समुद्भवन्तीति समुद्रा लोकास्तान् । कीदृशान् । स्वर्गान् भोगसाधनभूतान् । कीदृशो भवान् । अपां पतिः जलेशः इष्टकानां वृषभः वर्षिता । किंच यत्र यस्मिन्स्थाने पूर्वे पुरातनाः कूर्माः अन्येष्वग्निषूपहिताः परेताः परागताः सुकृतस्य शोभनकृतस्याग्नेस्तत्र तस्मिन् लोके स्थाने त्वं गच्छ । किं कुर्वन् । पुरीषं हुतान्पशून् वसानः आच्छादयन् ॥ ३१ ॥

द्वात्रिंशी।
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ।। ३२ ।।
उ० मही द्यौरिति व्याख्यातम् ॥ ३२ ॥
म० महीति व्याख्याता ( ८ । ३२) ॥ ३२ ॥

त्रयस्त्रिंशी।
विष्णो॒: कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ३३ ।।
उ० उलूखलमुसले उपदधाति । विष्णोः कर्माणि । व्याख्यातम् ॥ ३३ ॥
म० 'उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे औदुम्बरं प्रादेशमात्रे चतुरस्रमुलूखलं मध्यसंगृहीतमूर्ध्वं वृत्तं दक्षिणमुलूखलाद्विष्णोः कर्माणीति' (का. १७ । ५।३) चतुष्कोणं संकुचितं खातहीनमुदुम्बरतरुजमूर्ध्वमुलूखलम् वृत्तं मुसलम् ते उभे स्वयमातृण्णोत्तरे देशे तन्मध्याद्धस्तमात्रे तृतीये लोके विष्णोरिति मन्त्रेण सहैवोपदधातीति सूत्रार्थः । व्याख्याता (६।४) ॥ ३३ ॥

चतुस्त्रिंशी।
ध्रु॒वाऽसि॑ ध॒रुणे॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ अधि॑ जा॒तवे॑दा: ।
स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ।। ३४ ।।
उ० उखामुपदधाति । ध्रुवासीति द्वाभ्याम् त्रिष्टुब्बृ. हतीभ्याम् । ध्रुवासि स्थिरासि धरुणा धारिणी च । इदानीमग्न्यपत्यद्वारेण उखा स्तूयते । य इत उखातो जज्ञे जातः प्रथमं ततोऽनन्तरम् एभ्यो लोकेभ्यो अधि एभ्यो लोकेभ्यः सकाशात् । जातवेदाः जातप्रज्ञानः । स इदानीं गायत्र्या त्रिष्टुभानुष्टुभा च सहितः देवेभ्योऽर्थाय हव्यं हविः वहतु प्रापयतु । प्रजानन्स्वमधिकारं जानानः ॥३४॥
म० 'उलूखल उखां कृत्वोपशयां पिष्ट्वा न्युप्य पुरस्ताद् धुवासीत्युखाम्' (का० १७ । ५ । ४)। पूर्वमुलूखलोपर्युखां तूष्णीं कृत्वा तत उपशयां मृदं पिष्ट्वोखापुरस्ताद्भूमौ प्रक्षिप्य तत्रोखां मन्त्रद्वयेनोपदध्यादिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । हे उखे, धरुणा जगतो धारयित्री त्वं ध्रुवा स्थिरासि । अथाग्निजनकत्वेनोखा स्तूयते । योऽग्निरितोऽस्या उखायाः सकाशात् प्रथममादौ जातवेदाः जातप्रज्ञानोऽग्निरधिजज्ञे तत एभ्यो योनिभ्यः स्वकारणेभ्योऽरण्यादिभ्योऽधिजज्ञे जायते । सोऽग्निः प्रजानन् स्वाधिकारं प्रकर्षेण जानानः सन् गायत्र्या त्रिष्टुभानुष्टुभेति छन्दत्रयेण देवेभ्यो देवार्थं हव्यमस्मद्धविर्वहतु ॥ ३४ ॥

पञ्चत्रिंशी।
इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्न ऊ॒र्जे अप॑त्याय । स॒म्राड॑सि स्व॒राड॑सि सारस्व॒तौ त्वोत्सौ॒ प्राव॑ताम् ।। ३५ ।।
उ० इषे राये । उखोच्यते । इषे अन्नाय राये धनाय रमस्व रतिं बध्नीहि । सहसे बलाय । द्युम्ने 'द्युम्नं द्योततेर्यशो वा अन्नं वा' । ऊर्जे उपसेचनाय पयोदधिघृतादये । अपत्याय पुत्रपौत्रादये । रमस्वेति सर्वत्र संबध्यते । किंच सम्राडसि संगतराज्यभावासि । स्वराडसि स्वराज्ययुक्तासि । सारस्वतौ च सरस्वतीसंबन्धिनौ च त्वामुत्सौ उत्स्यन्दनौ कूपौ । मनश्च वाक् च । मनस्तावत् सर्वशास्त्रपरिज्ञानं कूप इवोत्स्यन्दति । वागपि तत्प्रतिपादनं कुर्वती । 'मनो वै सरस्वान्वाक्सरस्वत्येतौ सारस्वतावुत्सो' इति श्रुतिः । प्रावताम् । अवतिः पालनार्थः ॥ ३५ ॥
म० उखादेवत्या बृहती । हे उखे, त्वं रमस्व अत्र क्रीडां कुरु । किमर्थम् । इषे अन्नार्थं राये धनार्थं सहसे बलाय द्युम्ने द्युम्नाय यशोऽर्थम् । 'द्युम्नं द्योततेर्यशो वान्नं वा' (निरु० ५। ५) इति यास्कः । ऊर्जे उपसेचनाय पयोदधिघृतादिकाय अपत्याय पुत्रपौत्रादिकाय । रमस्वेति सर्वत्र संबन्धः । किंच सम्यग्राजत इति सम्राडसि । स्वेनैव राजत इति स्वराडसि । एवंभूतां सारस्वतौ सरस्वतीसंबन्धिनौ उत्सौ उत्स्यन्दनौ कूपौ प्रवाहौ वा त्वा त्वां प्रावतां प्रकर्षेण पालयताम् । तौ चौत्सौ मनोवाचौ । सामज्ञानाय कूप इवोत्स्यन्दतीति मनः कूपः तत्प्रतिपादनं कुर्वन्ती वागपि कूपः । 'मनो वै सरस्वान्वाक् सरस्वत्येतौ सारस्वतावुत्सौ' (७ । ५। १ । ३१) इति श्रुतेः । यद्वा सारस्वतौ उत्सौ ऋग्वेदसामवेदौ त्वां रक्षताम् । तथाच तित्तिरिश्रुतिः 'ऋक्साम वै सारस्वतावुत्सौ' इति ॥३५॥

षट्त्रिंशी।
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धव॑: । अरं॒ वह॑न्ति म॒न्यवे॑ ।। ३६ ।।
उ० द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्यां जुहोति । अग्ने 'युक्ष्व । हिशब्दः पादपूरणः । ये तव स्वभूताः अश्वासः अश्वा एव अश्वासः आज्जसेरसुक् । हे देव दानादिगुणयुक्त, साधवः जातिगुणसमन्विताः प्रशस्ताः । अलं पर्याप्तं वहन्ति । मन्यवे दीप्तये क्रोधाय वा ॥ ३६॥
म० 'अग्ने युक्ष्वा हीति प्रत्यृचᳪं᳭ स्रुवाहुती जुहोत्युखायाम्' (का० १४ । ५। ५) ऋग्द्वयेनोखामध्ये द्वे आहुती जुहोति । अग्निदेवत्ये द्वे गायत्र्यौ आद्या भरद्वाजदृष्टा द्वितीया विरूपदृष्टा । हे देव दीप्यमान, हे अग्ने, ये साधवः दान्तास्ते तवाश्वासः हया अरमलमत्यर्थं मन्यवे यज्ञाय वहन्ति प्रापयन्ति देवानिति शेषः । तानश्वान् युक्ष्व हि योजय । हि पादपूरणः ॥ ३६॥

सप्तत्रिंशी।
यु॒क्ष्वा हि दे॑व॒हूत॑माँ २।। ऽअश्वाँ॑२ ऽअग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ।। ३७ ।।
उ० युवा हि देवहूतमान् अतिशयेन देवानाह्वयन्ति तान् युक्ष्व अश्वान् हे अग्ने, रथीः इव । इवकारो मत्वर्थीयः । कस्मात्पुनस्त्वमेवमुच्यसे । यतः । निहोता पूर्व्यः सदः । निषदः निपीदसि होतृषदने होता सन् पूर्व्यः मानुषाद्धोतुः प्रथमः अग्र्यः । तदुक्तम् । अव्याद्यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्येति ॥ ३७ ॥ ।
म० अग्ने, त्वमश्वान्युक्ष्व योजय । हिशब्दः प्रसिद्धौ । । कीदृशान् । देवहूतमान् देवानाह्वयन्तीति देवहुवः अतिशयेन देवहुवो देवहूतमाः तान् देवानामतिशयेनाह्वातॄन् । 'द्व्यचोऽतस्तिङः (पा० ६ । ३ । १३५) इति संहितायां युक्ष्वेत्यस्य . दीर्घः । दृष्टान्तमाह। रथीरिव रथीः रथस्वामी यथाश्वान्योजयति | तद्वत् । रथोऽस्यास्तीति रथी: ईर् मत्वर्थे । किंच त्वं पूर्व्यः पूर्वंभवः पुरातनो होता मानुषाद्धोतुः प्रथमोऽग्र्यो भूत्वा निसदः अस्मिन् यागे होतृषदने निषीद । 'छन्दसि' (पा० ३ । ४ । ६) इति लोडर्थे लुङ् । देवहूतमानश्वानित्यत्र 'आतोऽटि नित्यम्' (पा० ८ । ३ । ३) इत्याकारस्यानुनासिकत्वम् .. 'दीर्घादटि' (पा० ८ । ३ । १) इति नस्य रुः ॥ ३७॥

अष्टत्रिंशी
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ अ॒ग्नेः ।। ३८ ।।
उ० मुखप्रभृति सप्तसु प्राणायतनेषु सप्त हिरण्यशलाकान्प्रत्यस्यति । सम्यक् स्रवन्ति । त्रिष्टुप् । हिरण्मयपुरुषाध्यासेनायं मन्त्रो व्याख्यायते । सम्यक्संगताः स्रवन्ति क्षरन्ति । कथमिव । सरितो न यथा सरितो नद्यः समुद्रमभिस्रवन्ति । काः स्रवन्ति । धेना अन्नानि । 'अन्नं वै धेना' इति श्रुतेः । अन्तर्हृदा मनसा पूयमानाः यजमानसंबन्धिना अन्तर्व्यवस्थितेन हृदा मनसा हृदयप्रतिष्ठितेन मनसा पूयमानाः पवित्रीक्रियमाणाः । अन्तर्वै हृदयेन मनसा सतान्नं पूतं यद्यजुः । यजमानो मनोवाक्कायकर्मभिरेकवृत्तिः । न केवलं धेनाः स्रवन्ति । किंतर्हि । घृतस्य धाराः स्रवत्यः अहम् अभिचाकशीमि पश्यामि । योयं हिरण्मयः वेतसः पुरुषः मध्ये अग्नेः निहितः । तत्र स्रवत्यो घृतधाराः । अभिचाकशीमीति संबन्धः ॥३८॥
म० 'मुखे करोति सम्यक्स्रवन्तीति' ( का० १७ । ५ । ७)। सम्यगिति मन्त्रेण पञ्चपशूनां मुखे एकैकं हिरण्यशकलं क्षिपतीति सूत्रार्थः । लिङ्गोक्तदेवता त्रिष्टुप् । हिरण्मयपुरुषोद्देशेनायं मन्त्रः । अग्नेर्मध्ये चितिमध्ये हिरण्मयो वेतसः पुरुषो यो निहितोस्ति तं प्रति धेना अन्नानि सम्यक् स्रवन्ति क्षरन्ति । हूयमानानि हवींषि तं प्रति गच्छन्तीत्यर्थः । 'अन्नं वै धेना' (७।५।२।११) इति श्रुतेः। कीदृश्यो धेनाः। मनसा पूयमानाः पवित्रीक्रियमाणाः । कीदृशेन मनसा । अन्तर्हृदा हृदयान्तर्वर्तमानेन हृत्प्रतिष्ठितेन विषयव्यावृत्तेन अव्याकुलेनेत्यर्थः । श्रद्धायुक्तेन मनसा दत्ता इत्यर्थः । 'अन्तर्वै हृदयेन मनसा सतान्नं पूतं य ऋजुः' (७।५।२।११) इति श्रुतेः । तत्र दृष्टान्तः । सरितो न । नकार इवार्थः । सरित इव यथा नद्यः समुद्रं प्रति स्रवन्ति गच्छन्ति तद्वत् । न केवलं धेनाः स्रवन्ति घृतस्य धारा अपि स्रवन्ति । ताश्च धेना घृतधाराश्च हिरण्मयं पुरुषं प्रति स्रवन्तीरहमभिचाकशीमि पश्यामि । चाकशीतिः पश्यतिकर्मा यङ्लुगन्तः ॥ ३८ ॥

एकोनचत्वारिंशी।
ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा ।
अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च ।। ३९ ।।
उ० ऋचे त्वा बृहती । नासिकयोः प्रास्यति । ऋचे ऋग्वेदाय त्वां प्रास्यामीति शेषः । रुचे दीप्त्यै त्वां प्रास्यामीति शेषः । चक्षुषोः भासे त्वा ज्योतिषे त्वाम् । तुल्यः शेषः । श्रोत्रयोः अभूत् । इदं श्रोत्रं विश्वस्य भुवनस्य भूतजातस्य वाजिनम् वाग्ज्ञं वाचोज्ञातारम् । श्रोत्रेण हि शब्दा ज्ञायन्ते । अग्नेर्वैश्वानरस्य च । चशब्दात् वाजिनं वाग्ज्ञमभूत् । अयमग्निर्वैश्वानर इत्युपक्रम्य 'तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति' इत्येतदभिप्रायम् ॥ ३९ ॥ ।
म० हिरण्यशकलदेवत्यार्षी बृहती पादार्णनियमाभावात् । 'नासिकयोर्ऋचे त्वेति' ( का० १७ । ५। ९) मन्त्राभ्यां पशूनां नसोः शकलप्रासनमित्यर्थः । हे हिरण्यशकल, ऋचे ऋग्वेदाय तदुक्तहौत्रादिसिद्धये त्वा त्वां वा मनसि प्रास्यामि । | रुचे दीप्तये शोभाप्राप्त्यै त्वां दक्षिणनसि प्रास्यामि । 'शिराᳪं᳭सि प्रत्यञ्चीति' ( का० १७ । ५। १३ ) आदौ वामनसि ततो दक्षिणे । 'अक्ष्योर्भासे त्वेति' (का० १७ । ५। १०) भासे त्वेति मन्त्राभ्यां नेत्रयोस्तद्वद्धिरण्यशकलप्रासनम् । भासे . कान्त्यै त्वां वामनेत्रे प्रास्यामि । ज्योतिषे तेजसे तत्प्राप्त्यै त्वां दक्षनेत्रे प्रास्यामि । 'श्रोत्रयोरभूदिदमिति' ( का० १७ । ५। ११) कर्णयोः प्रास्यति अभूदिदमग्निर्ज्योतिषेति मन्त्राभ्याम् । इदं श्रोत्रं विश्वस्य सर्वस्य भुवनस्य भूतजातस्य वैश्वानरस्य विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितस्याग्नेश्च वाजिनं वाचो ज्ञातृ अभूत् सर्वप्राशब्दा वह्नेश्च शब्दोऽपि श्रोत्रेणैव ज्ञायतेऽतः श्रोत्रे हिरण्यं प्रास्यामीति शेषः । वाचमेति जानाति वाजिनम् । वाचपूर्वादेतेरौणादिको नक्प्रत्ययः । छान्दसः कुत्वाभावः । 'झलां जशोऽन्ते' (पा० ८ । २ । ३९ ) इति जश्त्वम् । अयमग्निर्वैश्वानर इत्युपक्रम्य 'तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति' इति श्रुत्यनुवादकोऽयं मन्त्रः । यद्वायमर्थः । इदं श्रोत्रेऽस्यमानं हिरण्यं विश्वस्य भुवनस्य वैश्वानरस्याग्नेश्च वाजिनं वीर्यं तेजोजनकमभूत् भवति अतोऽस्यामीति ॥ ३९ ॥

चत्वारिंशी।
अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् । स॒ह॒स्र॒दा अ॑सि स॒हस्रा॑य त्वा ।। ४० ।।
उ० अग्निर्ज्योतिषा उष्णिक् । द्वितीयश्रोत्रप्रासनमन्त्रः । अग्निरिव ज्योतिषा ज्योतिष्मान् अस्तु । रुक्मइव वर्चसा वर्चस्वानस्तु । श्रोत्रं पुरुषशिर उद्गृह्णाति । सहस्रदा असि बहूनां दातासि । एवंचेत् अतः सहस्राय त्वामुद्गृह्णामि ॥ ४०॥
म०. हिरण्यशकलदेवत्योष्णिक् । द्वौ पादावष्टार्णौ तृतीयो द्वादशको व्यूहेन । दक्षिणश्रोत्रे शकलं प्रास्यति । अयमग्निः ज्योतिषा पशुश्रोत्रस्थितहिरण्यतेजसा ज्योतिष्मान् तेजस्वी अस्तु । रुक्मो रोचमानोऽग्निर्वर्चसा हिरण्यकान्त्या वर्चस्वान् | कान्तिमानस्तु । बाह्यप्रभा ज्योतिः शरीरगतकान्तिर्वर्च इति ज्योतिर्वर्चसोर्भेदः । यद्वा श्रोत्रमेव हिरण्यज्योतिषाग्निरिव ज्योतिष्मदस्तु हिरण्यवर्चसा च वर्चस्वदस्तु । रुक्म इव सुवर्णपुरुष इव । उभयत्रेवाध्याहारेण लिङ्गव्यत्ययेन च योजनेत्यर्थः । 'सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये' (का० १७।१५।१४) पुरुषशिर आदायोखामध्ये वक्ष्यमाणमन्त्रेणोपदधातीति सूत्रार्थः । हे पुरुष, त्वं सहस्रदाः सहस्रसंख्यस्य दातासि अतः सहस्राय सहस्रधनलाभाय त्वा त्वामुद्गृह्णामीति शेषः । आदौ पुरुषशिरसि शकलप्रासनं ततोऽश्वगोऽव्यजानां क्रमेण । एकपशुपक्षे मुखादिषु प्रत्येकं सप्त-सप्त पञ्चकृत एकैकमित्यन्ये ( का० १७।५।११)॥ ४० ॥

एकचत्वारिंशी।
आ॒दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् ।
परि॑वृङ्धि॒ हर॑सा॒ माऽभिम॑ᳪं᳭स्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ।। ४१ ।।
उ० पुरुषशिर उपदधाति । आदित्यं गर्भम् इतउत्तरं षाट्त्रिष्टुभः । आदत्ते पशूनिति आदित्यः । आदित्यइव वा ईष्टे स सर्वेषां पशूनामिति आदित्यः । गृह्णाति पशूनिति गर्भः चित्योऽग्निरुच्यते । आदित्यं गर्भं पयसा दुग्धेन समङ्ग्धि समञ्जयसि । पुरुषमपि दधातीत्येतदभिप्रायम् । सहस्रस्य प्रतिमाम् बहुनः प्रतिमाभूतं विश्वरूपं सर्वरूपम् । सर्वाणि हि रूपाण्यादित्यस्य आदित्यवञ्चायं स्तूयते । परिवृङ्ग्धि हरसा परित्यज एनं हरसा । वीर्यापहारकं ज्योतिरग्ने हर इत्युच्यते । माभिमंस्थाः अभिपूर्वो मनिर्हिंसार्थः माहिंसीः । सर्वथा शतायुषं कृणुहि चीयमानः ॥ ४१ ॥
म० 'आदित्यं गर्भमिति प्रतिमन्त्रं क्रमेण' ( का० १७ । ५।१७) । पुरुषादीनां शिरसि पञ्चमन्त्रक्रमेणैकैकमुपदधातीत्यर्थः । पञ्च ऋचोऽग्निदेवत्यास्त्रिष्टुभः आदौ पुरुषशिर उपदधाति मध्ये । हे पुरुषशिरः, त्वमादित्यं चित्याग्निं पयसा समङ्ग्धि संरचय । अञ्जेर्लोटि मध्यमैकवचने रूपम् । पयसि स्थाप्य इत्येवमुच्यते । आदत्ते पशूनादित्यवदीष्टे वा सर्वपशूनामित्यादित्यश्चित्योऽग्निः। कीदृशमादित्यं । गर्भं गृह्णाति पशूनिति गर्भः पचाद्यच् 'हृग्रहोर्भश्छन्दसि' तम् । सहस्रस्य प्रतिमां बहुधनस्य प्रतिमाभूतं । बहुधनप्रदमित्यर्थः । विश्वरूपं सर्वरूपमादित्यत्वात् सर्वरूपप्रकाशकमित्यर्थः । सर्वाणि रूपाणि यस्मात् । किंच हरसा सर्ववीर्यापहारकमग्नेर्ज्योतिर्हरस्तेनाग्मितेजसा यजमानं परिवृङ्ग्धि परिवर्जय । 'वृजी वर्जने' रुधादिः लोट् । मा अभिमंस्थाः यजमानं मा हिंसीः । मन्यतेर्लुङ् अभिपूर्वो मन्यतिर्हिँसार्थः । किंच चीयमानः उपधीयमानः सन्यजमानं शतायुषं शताब्दजीविनं कृणुहि कुरु ॥४१॥

द्विचत्वारिंशी।
वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नᳪं᳭ स॑रि॒रस्य॒ मध्ये॑ ।
शिशुं॑ न॒दीना॒ᳪं᳭ ह॒रि॒मद्रि॑बुध्न॒मग्ने॒ मा हि॑ᳪं᳭सीः पर॒मे व्यो॑मन् ।। ४२ ।।
उ० अश्वमुपदधाति । वातस्य जूतिम् । जूतिर्गतिः प्रीतिर्वा । वातस्य गतिभूतं प्रीतिजनकं वा । वरुणस्य नाभिम् वरुणस्य नाभिमिवान्तरम् । अश्वं जज्ञानं सरिरस्य मध्ये । अश्वं जज्ञानं यजमानं सरिरस्योदकस्य मध्ये । शिशुं पुत्रम् नदीनां हरितवर्णम् । अद्रिबुध्नम् अद्रिः पर्वतः तस्य बुध्नमादिः तत्र भवा आपः अद्रिबुध्नाः । इह तु अद्भ्यो जातोऽश्वोऽपत्यप्रत्ययलोपाइद्रिबुध्नशब्देनोच्यते । प्रकरणात् हे अग्ने चित्य, मा हिंसीः मावधीः । परमेव्योमन् निषीदन्तम् । इमे वै लोकाः परमं व्योमेत्यधिलोकं व्याख्यातम् ॥ ४२ ॥
म० अश्वशिर ईशाने उपदधाति । हे अग्ने चित्याग्ने, त्वमश्वमिमं मा हिंसीः ज्वालया मा दह । कीदृशम् । वातस्य जूतिं जूतिर्गतिः प्रीतिर्वा । वायोर्गतिस्वरूपं वायुवच्छीघ्रगतिमित्यर्थः । वायोः प्रीतिं प्रेमपात्रं वरुणस्य नाभिं जलेशस्य नाभिमिव नाभिः अन्तरं यथा नरेण स्वनाभिर्वस्त्रावरणादिना पाल्यते मध्ये समुद्रे जज्ञानं जायमानम् । 'जन् जनने' ह्वादिः शानच् 'गमहन-'(पा० ६ । ४ । ९८ ) इत्युपधालोपः । अप्सुयोनिर्वा अश्वः' इति श्रुत्यन्तरात् । अतएव नदीनां शिशुं बालं नदीपतिः समुद्रः पिता अतएव नदीनां मातृत्वात्तच्छिशुम् । हरिं हरितवर्णं यद्वारूढं नरं हरतीति हरिस्तम् । अद्रिबुध्नमद्रिर्गिरिः बुघ्नं मूलं कारणं यासां ता अद्रिबुध्ना आपस्तज्जातमद्रिबुध्नम् अपत्य प्रत्ययलोपः । यद्वा बुध्नपदे नकार उपजनश्छान्दसः । अद्रिबुध्नमद्रिभिर्बुद्धं ज्ञातम् पथि तत्खुरैः क्षुण्णानद्रीन्पाषाणान्दृष्ट्वा नरैर्ज्ञातं यदत्राश्वो गत इति उत्कृष्टमित्यर्थः । परमे व्योमन् एषु लोकेषु निषीदन्तमिति शेषः । 'इमे वै लोकाः परमं व्योम' ( ७ । ५।२।१८) इति श्रुतेः । यद्वा विविधमोम अवनं रक्षणं परममुत्कृष्टं यद्व्योम नानोपद्रवेभ्यः पालनं तत्र स्थापितमिति शेषः ॥ ४२ ॥

त्रिचत्वारिंशी।
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः ।
स पर्व॑भिर्ऋतु॒शः कल्प॑मानो॒ गां मा हि॑ᳪं᳭सी॒रदि॑तिं वि॒राज॑म् ।। ४३ ।।
उ०. गामुपदधाति । अजस्रम् । यस्य तव संस्कारार्थम् अजस्रमनुपक्षीणम् इन्दुं सोमं चन्द्रमसम् अरुषम् अरोचनम् भुरण्युम् भेत्तारं वाहदोहादिभिः अग्निम् आग्नेयम् । तद्धितलोपः । ईडे याचामि उपधानाय । पूर्वचितिं प्राक्चयनम् । प्राञ्चं ह्यग्निमुद्धरन्तीति अग्न्यध्यासेन गोस्तुतिः। नमोभिरन्नैरभ्युद्यतैः स त्वमेताभिः पर्वेष्टकाभिः पर्वभिः पश्वष्टकाभिः ऋतावृतौ कल्पमानः गां माहिंसीः । अदितिमदीनां विराजम् 'तस्यै शृतं तस्यै सर' इत्यादि दशवीर्याभिप्रायम् ॥ ४३ ॥
म० गोशिर आग्नेय्यामुपदधाति । अहमग्निमीडे स्तौमि 'ईड स्तुतौ' । कीदृशम्। अजस्रमनुपक्षीणम्। इन्दुं 'इदि परमैश्वर्ये' इन्दतीतीन्दुः ऐश्वर्योपेतम् । यद्वा 'उन्दी क्लेदे' उनत्ति क्लेदयति जनमनांसीतीन्दुः 'उन्देरिच्चादेः' ( उण. १।१२) इति कुप्रत्ययादीकारौ । अरुषं रोषरहितम् । यद्वा अरुर्मर्म मर्मस्थानीयं रहस्यम्। आराध्यमित्यर्थः । पूर्वचित्तिं पूर्वैर्महर्षिभिः चित्तिं चेतव्यम् । नमोभिरन्नैर्भरण्युं भर्तारं सर्वेषां पोष्टारम् । हे अग्ने, एवं स्तूयमानः स त्वं गामुपधीयमानां मा हिंसीः मा जहि । कीदृशीमदितिम् । अखण्डितामदीनां वा विराजं निविदं राजमानाम् दुग्धदानाद् गौर्विराट् 'तस्यै शृतं तस्यै शरः' (३ । ३ । ३ । २) इति दशवीर्याभिप्रायं विराट्त्वम् । कीदृशः त्वम् । पर्वभिः पश्विष्टकाभिरमावास्यादिपर्वभिर्वा ऋतुशः ऋतौ ऋतौ कल्पमानः कर्माणि संपादयन् ॥ ४३ ॥

चतुश्चत्वारिंशी।
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाᳪं᳭ रज॑स॒: पर॑स्मात् ।
म॒हीᳪं᳭ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑ᳪं᳭सीः पर॒मे व्यो॑मन् ।। ४४ ।।
उ०. अविमुपदधाति । वरूत्रीम् । वरान्वृणोतीति वा कम्बलादिना आच्छादयति । त्वष्टुः वरुणस्य च नाभिं नहनम् । 'वारुणी च हि त्वाष्ट्री चाविः' इति श्रुतिः । अविं जज्ञानां यजमानानां रजसः परस्मात् । 'श्रोत्रं वै परं रजो दिशो वै श्रोत्रं दिशः परं रजः' इति श्रुतिः । महीं महतीम् साहस्रीं सहस्रोपकारक्षमाम् । असुरस्य असुवतः प्राणवतः प्रज्ञानवतो वा वरुणस्य मायां प्रज्ञाम् हे अग्ने, मा हिंसीः । परमे व्योमन्निति व्याख्यातम् ॥ ४४ ॥
म० वायव्येऽविशिर उपदधाति । हे अग्ने, परमे व्योमन् उत्कृष्ट रक्षणस्थाने स्थापितामविं मा हिंसीः । कीदृशीम् । त्वष्टुः रूपाणां निर्मातुर्देवस्यानुग्रहाद्वरूत्रीं वृणोति कम्बलादिना छादयति लोकानिति वरूत्री ताम् । वरुणस्य नाभिं नाभिस्थानीयां नाभिवद्रक्षणीयाम् वारुणी त्वाष्ट्री चाविः । परस्माद्रजसः दिग्रूपाल्लोकाज्जज्ञानं जायमानम् । 'श्रोत्रं वै परमᳪं᳭रजो दिशो वै श्रोत्रं दिशः परमᳪं᳭रजः ' (७।५।२।२०) इति श्रुतेः । यद्वा परस्माद्रजसः प्रजापते रजोगुणाज्जायमानाम् । महीं महतीम् । साहस्रीं सहस्रमूल्यार्हाँ सहस्रोपकारक्षमां वा। असुरस्य मायामसवः प्राणा विद्यन्ते यस्य सोऽसुरः मत्वर्थे रः। प्राणवतो मायां प्रज्ञां मीयते ज्ञायतेऽनया माया प्रज्ञा प्राणिनां प्रज्ञाप्रदामित्यर्थः ।४४॥

पञ्चचत्वारिंशी।
यो अ॒ग्निर॒ग्नेरध्यजा॑यत॒ शोका॑त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ ।
येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेड॒: परि॑ ते वृणक्तु ।। ४५ ।।

उ० अजमुपदधाति । यो अग्निः । यः अजः अग्निः अग्नेः अधि सकाशात् अजायत उत्पन्नः । शोकात्पृथिव्या | अधि अजायत । उतवा दिवस्परि अपिच दिवोधि अजायत । "यद्वै प्रजापतिः शोकादजायत तद्वै दिवश्च पृथिव्यै च शोकादजायत' इति श्रुतिः । येनाजेन प्रजाः विकर्मा प्रजापतिः जजान जनितवान् 'वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजान' इति श्रुतिः। तमजं हे अग्ने, हेडः क्रोधः परिवृणक्तु परिवर्जयतु ते तव संबन्धी ॥ ४५ ॥ |
म० नैर्ऋत्येऽजमुपदधाति । योऽग्निरग्निरूपोऽजोऽग्नेः प्रजापतेः शोकादध्यजायत अग्निसंतापादुत्पन्नः । अत्राग्निः प्रजापतिः । उत वा अपिच दिवः शोकात् पृथिव्याश्च शोकाद्योऽजः पर्यजायत उत्पन्नः । अग्निपृथिवीदिवां शोकादजोत्पत्तिः | श्रुत्योक्ता । 'यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै च शोकादजायत' (७।५।२ । २१) इति । विश्वकर्मा स एव प्रजापतिः येनाजेन वाग्रूपेण प्रजा जजान उत्पादितवान् । अजस्य वाग्रूपत्वं ततः प्रजोत्पत्तिः श्रुत्युक्ता । 'वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजानेति' (७ । ५। २ । २१)। हे अग्ने चित्य, ते तव हेडः क्रोधः तमजः परिवृणक्तु परित्यजतु । त्वयाजे कोपो न कार्य इत्यर्थः । माधवस्तु पृथिव्या उपरि स्थितादुत वा यद्वा दिवः परि द्युलोकोपरि स्थितात् शोकात् 'शुच दीप्तौ' घञन्तः । दीप्तियुक्तादग्नेः प्रजापतेः सकाशाद्योऽग्निरूपोऽजोऽध्यजायत विश्वकर्मा येनाजेन प्रजाः पशून् जजान । अजस्य पशुसाधनत्वं तैत्तिरीयश्रुत्योक्तम् । 'ततोऽजस्तूपरः समभवत्तᳪं᳭ स्वायै देवताया आलभत ततो वै प्रजाः पशूनसृजतेति' । शेषं पूर्ववत् ॥ ४५ ॥


षट्चत्वारिंशी । ।
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ᳪं᳭ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।। ४६ ।।
उ० चित्रं देवानाम् । होमे व्याख्यातम् ॥ ४६ ॥
म०. 'चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे' (का. | १७ । ५ । १८)। अर्धर्चद्वयेन पुरुषशिरस्याहुतिद्वयं जुहोतीत्यर्थः । व्याख्याता (अ० ७ क० ४२)॥ ४६॥

सप्तचत्वारिंशी।
इ॒मं मा हि॑ᳪं᳭सीर्द्वि॒पादं॑ प॒शुᳪं᳭ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः ।
म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द ।
म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ४७ ।।
उ० अथ पञ्चपशूनां शुचोत्सर्गः । इमं मा हिंसीः । पञ्च त्रिष्टुमो द्वयवसाना उत्तराणि यजूंषि । पुरुषस्योत्सृजति । इमं पुरुषं माहिंसीः शुचा । द्विपादं पशुम् । 'द्विपाद्वा एष पशुर्यत्पुरुषः' । सहस्राक्षः सन् हिरण्यशकलैर्वा एष सहस्राक्षः मेधाय यज्ञाय अन्नाय या चीयमानः चयनेन संस्क्रियमाणः । मयुं पशुं मेधम् हे अग्ने, जुषस्व । किंपुरुषो वै मयुः । तेन किंपुरुषेण चिन्वानः । तन्वो निषीद आत्मानं संस्कुरुष्व । इत उत्तरं यजुः । मयु ते तव शुक् सन्तापः ऋच्छतु । किंच । यं पुरुषं वयं द्विष्मः तं च तव शुक् ऋच्छतु हिनस्तु ॥ ४७ ॥
म० 'बहिर्वेद्युदङ्तिष्ठन्नुपतिष्ठत उत्सर्गैरिमं मा हिᳪं᳭सीरिति प्रतिमन्त्रम्' (का० १७ । ५ । १९) । अग्नेरुत्तीर्य वेदेर्बहिर्दक्षिणे उदङ्मुखस्तिष्ठन्निमं मेत्युत्सर्गसंज्ञैः पञ्चमन्त्रैः पुरुषादिशिरांस्युपतिष्ठतेऽध्वर्युः एकपशुपक्षे तमेव पञ्चभिरित्यर्थः । अग्निदेवत्याः पञ्च त्रिष्टुभः आद्ययोरन्ते द्वे यजुषी तिसृणामन्ते त्रीणित्रीणि यजूंषि । हे अग्ने, सहस्राक्षः सहस्रमक्षीणि यस्य सः हिरण्यशकलरूपसहस्रनेत्रो मेधाय यज्ञाय चीयमानः चयनेन संस्क्रियमाणः सन् त्वमिमं द्विपादं पशुं पुरुषरूपं मा हिंसीः मा दह । 'हिरण्यशकलैर्वा एष सहस्राक्षः द्विपाद्वा एष पशुर्यत्पुरुषः' (७ । ५। २ । ३२) इति च श्रुतेः । यदि वादनेच्छा तर्हि मेधं शुद्धं मयुं पशुं तुरङ्गवदनं किंपुरुषं पशुं जुषस्व सेवस्व भक्षयेत्यर्थः । 'किंपुरुषो वै मयुः' (७ । ५ । २ । ३२) इति श्रुतेः । मयुं कृष्णमृगं वा जुषस्व 'मयुर्मृगेऽश्ववदने' इति कोशोक्तेः । तेन मयुभक्षणेन तन्वः ज्वालारूपास्तनूः चिन्वानः पोषयन्निह निषीद । द्वितीयार्थे तन्व इति प्रथमा । इतो यजुः ते तव शुक् शोकः संतापो मयुं किन्नरं मृगं वा ऋच्छतु प्राप्नोतु । किंच यं पुरुषं प्रति वयं द्विष्मः द्वेषं कुर्मः ते तव शुक् तमृच्छतु ॥ ४७ ॥

अष्टाचत्वारिंशी।
इ॒मं मा हि॑ᳪं᳭सी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु ।
गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द ।
गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ४८ ।।
उ० अथाश्वस्य । इमं मा हिंसीः एकशफं पशुम् 'एकशफो वा एष पशुर्यदश्वः' । कनिक्रदम् अत्यर्थं क्रन्दितारम् वाजिनं वेगवन्तम् वेगवत्सु मध्ये व्यवस्थितम् । गौरं गौरमृगम् अनुदिशामि ते तव । तेन चिन्वान इति व्याख्यातम् ॥ ४८॥ म० अथाश्वस्य । हे अग्ने, इममेकशफमेकखुरं पशुमश्वं | मा हिंसीः । “एकशफो वा एष पशुर्यदश्वः' (७।५।२। ३३) इति श्रुतेः । कीदृशम् । कनिक्रदमत्यन्तं क्रन्दितारं हेषमाणम् । क्रन्देः 'दाधर्ति' (पा०. ७ । ४ । ६५) इत्यादिना यङ्लुकि निपातः । वाजो वेगो विद्यते येषां ते वाजिनो वेगवन्तः मत्वर्थे इन्प्रत्ययः । तेषु मध्ये वाजिनं वेगवन्तम् । ते तुभ्यमारण्यं वनस्थं गौरवर्ण मृगं दिशामि ददामि । तेन तन्वः चिन्वानो निविदेति पूर्ववत् । ते तव शुग्गौरं गच्छतु ॥ ४८ ॥

एकोनपञ्चाशी।
इ॒मᳪं᳭ सा॑ह॒स्रᳪं᳭ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नᳪं᳭ सरि॒रस्य॒ मध्ये॑ ।
घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हि॑ᳪं᳭सीः पर॒मे व्यो॑मन् ।
ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द ।
ग॒व॒यं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ४९ ।।
उ० अथ गोः । इमं साहस्रम् । इमं गां साहस्रम् सहस्राहम् शतधारमुत्सम् । उत्सः कूपः । बहुस्रोतसमिव कूपम् उपकारकम् वाहदोहादिभिः व्यच्यमानं सरिरस्य मध्ये विविधमच्यमानमुपजीव्यमानम् सरिरस्य मध्ये । 'इमे वै लोकाः सरिरम्' इत्यादिश्रुतिः । घृतं दुहानाम् अदितिमदीनाम् जनाय मनुष्येभ्योऽर्थाय । पुंलिङ्गस्त्रीलिङ्गाभ्यां मन्त्रे गौः स्तूयते । अग्ने माहिंसीरित्यादि व्याख्यातम् ॥४९॥
म० अथ गोः । अत्र विशेषणद्वयं स्त्रीलिङ्गं शेषाणि पुंलिङ्गानि व्यत्ययेन उभाभ्यां गौरेव स्तूयते । हे अग्ने, परमे व्योमन् उत्कृष्टे स्थाने स्थितमिमं गोरूपं पशुं त्वं मा हिंसीः । कीदृशम् । साहस्रं सहस्रमूल्यार्हं सहस्रोपकारक्षमं वा। शतधारं शतसंख्याकक्षीरधारायुतमत एवोत्सम् उत्सः कूपः तत्सदृशम् उत्स इवोत्सस्तं । बहुस्रोतसमित्यर्थः । सरिरस्य मध्ये एषु लोकेष्वन्तः व्यच्यमानं जनैर्विविधमच्यमानमुपजीव्यमानम् । 'इमे वे लोकाः सरिरम्' (७।५।२ । ३४ ) इति श्रुतेः । जनाय सर्वलोकाय घृतं दुहानां घृतकारणं क्षीरं क्षरन्तीम् । अदितिमखण्डिताम् । ते तवारण्यं गवयं गोसदृशं पशुविशेषमनुदिशामि । शिष्टमुक्तम् ॥ ४९॥

पञ्चाशी।
इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् ।
त्वष्टु॑: प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हि॑ᳪं᳭सीः पर॒मे व्यो॑मन् ।
उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒वो नि षी॑द ।
उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ५० ।।
उ० अथावेः । इममूर्णायुम् । इमम् ऊर्णायुं ऊर्णावन्तम् । वरुणस्य नाभिं वरुणस्य नहनम् अपत्यम् त्वचं पशूनां द्विपदां चतुष्पदां च । उभयरूपाणां पशूनां त्वग्रक्षणं करोति कम्बलादिनेत्याशयः । किंच । त्वष्टुः प्रजानां प्रथमं जनित्रम् । एतच्च त्वष्टा प्रथमं रूपं चकार' इति श्रुतिः । जनित्रं जननम् । व्याख्यातमन्यत् ॥ ५० ॥
म० अथावेः । हे अग्ने, परमे व्योमन् स्थाने स्थितमिममविं मा हिंसीः । कीदृशमुर्णायुम् । ऊर्णावन्तं । ऊर्णाया युस् । वरुणस्य नाभिं नाभिस्थानीयं प्रियमपत्यमित्यर्थः । द्विपदां नराणां चतुष्पदां गवादीनामुभयरूपाणां पशूनां त्वचम् त्वचमिव त्वचम् त्वग्रक्षकं कम्बलैः छादकत्वात् । मनुष्याः शीतनिवृत्त्यै कम्बलं दधते । अश्वगोखराद्या अपि मार्दवाय पृष्ठे कम्बलैराच्छाद्यन्ते । तथा त्वष्टुः प्रजापतेः प्रजानां मध्ये प्रथमं जनित्रं प्रथमोत्पन्नम् । 'एतद्ध त्वष्टा प्रथमᳪं᳭ रूपं विचकार' (७।५।२ । ३५) इति श्रुतेः। उष्ट्रं प्रसिद्धं ते ददामि । स्पष्टमन्यत् ॥ ५० ॥

एकपञ्चाशी।
अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑ ।
तेन॑ दे॒वा दे॒वता॒मग्र॑मायँ॒स्तेन॒ रोह॑माय॒न्नुप॒ मेध्या॑सः ।
श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द ।
श॒र॒भं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ५१ ।।
उ० अथाजस्य । अजो हि । यः अजः अग्नेः अजनिष्ट जातः । शोकात्संतापात् । 'यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत' इति श्रुतिः । हिशब्दः पादपूरणः । सः अपश्यत् जनितारं जनयितारं प्रजापतिम् । अग्रे प्रथमम् । यथासौ द्रष्टव्यः । तेन च देवा इन्द्रादयः । देवतामग्रमायन् । नायं 'देवात्तल्' इतिस्वार्थिकः किंतर्हि तस्य भावस्त्वतलौ' इति भावप्रत्ययः । षष्ठ्यर्थे चेयं द्वितीया । देवत्वस्याग्रमायन्नितिशब्दप्रकरणात् । तेनैवाजेन रोहं स्वर्गम् आयन् उपागच्छन्तु । मेध्यासः यज्ञे ये देवाः । लोकप्रसिद्धाः शरभादयो व्याख्येयाः ॥ ५१ ॥
म० अथाजस्य । हि पादपूरणः । योऽजोऽग्नेः प्रजापतेः शोकात्संतापादजनिष्ट उत्पन्नः, शोकाद्दीप्यमानादग्नेः प्रजापतेरजनिष्टेति वा । 'यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत' ( ७ । ५। २ । ३६) इति श्रुतेः । 'आत्मनो वपामुदखिदत्तामग्नौ प्रगृह्णात्ततोऽजस्तूपरः समभवत्' इति तैत्तिरीयेऽपि । स उत्पन्नोऽजोऽग्रे प्रथममुत्पन्नं नरमेव जनितारं स्वोत्पादकं प्रजापतिमपश्यद्दृष्टवान् । किंच एवं प्रशस्तोऽजस्ततो देवा इदानींतना अग्रं पूर्वजन्मनि तेनाजेन कर्म कृत्वेति शेषः । देवतां देवभावमायन् प्राप्ताः । 'तस्य भावस्वतलौ' । किंच मेध्यासः मेध्या यज्ञयोग्या यजमाना रोहं रोहणीयं स्वर्गं तेनाजेनोपायन्नुपगच्छन्ति । 'छन्दसि परेऽपि' (पा० |१।४। ८१ ) इति । शरभोऽष्टापदो मृगविशेषः सिंहघाती । । शेषमुक्तम् ॥ ५१ ॥

द्विपञ्चाशी।
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ: पा॑हि शृणु॒धी गिर॑: । रक्षा॑ तो॒कमु॒त त्मना॑ ।। ५२ ।।
उ० चित्योपस्थानम् । त्वं यविष्ठ । गायत्र्याग्नेयनिरुक्ता । त्वं हे यविष्ठ युवतम । यद्वा 'यु मिश्रणे' । अतिशयेन मिश्रयितृतम । दाशुषः दत्तवतो हवींषि यजमानस्य नॄन्मनुष्यान् पाहि पालय । शृणुधि च गिरः स्तुतिलक्षणा वाचः । किंच रक्षा रक्ष तोकं अपत्यम् । उत त्मना । अपिच आत्मानं रक्षेति । श्रुत्युक्तो व्यत्ययः ॥ ५२ ॥
म० 'एत्य च त्वं यविष्ठेति चित्योपस्थानम्' ( का० १७। ६।१) बहिर्वेदेरागत्याग्निसमीपेऽर्धचित्यमुपतिष्ठते । उशनोदृष्टा, निरुक्ताग्नेयी गायत्री । हे यविष्ठ युवतम, यद्वा मिश्रयितृतम, गिरोऽस्मदीयाः स्तुतिवाचः शृणुधि शृणु 'श्रुशृणु-' (पा. ६। ४ । १०२) इत्यादिना हेर्धिः 'अन्येषामपि दृश्यते' (पा० ६।३ । १३७ ) इति संहितायां दीर्घः । गिरः श्रुत्वा दाशुषो हविर्दत्तवतो यजमानान् नॄन्मनुष्यान् पाहि रक्ष । दाशुष इति षष्ठी वा । यजमानस्य नॄन् पाहीति । 'दाश्वान्साह्वान्मीढ्वांश्च' (पा० ६ । १ । १२) इति निपातः । किंच उतापि च त्मना आत्मना लोकं यजमानापत्यं रक्ष ‘द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । 'मन्त्रेष्वाङ्यादेरात्मानः' (पा० ६ । ४ । १४१) इति आकारलोपः । लोकमपत्यमुतात्मानं च रक्षेति विभक्तिव्यत्ययो वा ॥ ५२ ॥

त्रिपञ्चाशी।।
अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्त्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाऽय॑ने सादयाम्यर्ण॒वे त्वा॒ सद॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि सरि॒रे त्वा॒ सद॑ने सादयाम्य॒पां त्वा॒ क्षये॑ सादयाम्य॒पां त्वा॒ सधि॑षि सादयाम्य॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्रेण॑ त्वा॒ छन्द॑सा सादयामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ जाग॑तेन त्वा॒ छन्द॑सा सादया॒म्यानु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ।। ५३ ।।
उ० पञ्चदशच्छन्दस्याः पञ्चदशभिर्यजुर्भिरुपदधाति । अपां त्वेमन्सादयामि । श्रुत्युक्तान्यभिधेयानि । अपां त्वा एमन् । सप्तम्या लुक् । एमनि । 'इण् गतौ' । अस्य मनिन्प्रत्ययान्तस्यैतद्रूपम् । वायुर्वा अपामेमन् । वायौ तां सादयति । अपां त्वा ओद्मन् । 'उन्दी क्लेदने' । ओषधयो वा अपामोद्म । तुल्यव्याख्यानमन्यत् । भस्मन् । 'भष भर्त्सनदीप्त्योः' । अभ्रं वा अपां भस्मन् । ज्योतिषि । विद्युद्वा अपां ज्योतिः । अयने । इयं पृथिवी अपामयनम् । अर्णवे । प्राणो वा अपामर्णवः । समुद्रे । मनो वै समुद्रः । सरिरे । वाग्वै सरिरम् । क्षये । चक्षुर्वा अपां क्षयो निवासः । सधिषि । श्रोत्रं वा अपां सधिः । सदने द्यौर्वा अपां सदनम् । सधस्थे । अन्तरिक्षं वा अपांसधस्थम् । योनौ । समुद्रो वा अपां योनिः । पुरीषे । सिकता वा अपां पुरीषम् । पाथसि । अन्नं वा अपां पाथः । अन्ने त्वां सादयति । पञ्चच्छन्दस्याः पञ्चभिर्यजुर्भिरुपदधाति गायत्रेण त्वा च्छन्दसा सादयामीत्यादि ॥ ५३ ॥
म० 'अपरेण स्वयमातृण्णामेत्यापस्याः पञ्चपञ्चानूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रम्' ( १७ । ६ । २) तीर्थेनाग्निमारुह्य स्वयमातृण्णामपरेण पूर्वानूकान्तमेत्य चतुर्ष्वप्यनूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रं पञ्चपञ्चापस्यासंज्ञा इष्टका उपदधातीति सूत्रार्थः । विंशतिरिष्टकादेवत्यानि यजूंषि पञ्चदशापस्यादेवत्यानि पञ्च छन्दस्यादेवत्यानि । हे इष्टके अपस्ये, अपामेमन् एमनि वायौ त्वा त्वां सादयामि स्थापयामि । 'इण् गतौ' मनिन्प्रत्ययः सप्तम्या लुक् त्वा इत्यस्य पररूपम् । अत्रापामेमन्नित्यादीनां श्रुत्योक्तोऽर्थो ग्राह्यः । 'वायुर्वा अपामेम वायौ त्वाᳪं᳭सादयामि' ( ७ । ५। २ । ४६) इति श्रुतेः । अपामोद्मन् ओद्मनि ओषधिषु त्वां सादयामि । 'उन्दी क्लेदे' मन्नलोपश्च गुणः सप्तम्या लुक् । 'ओषधयो वा अपामोद्म' [७ । ५। २ । ४७-६० ] एवमग्रेऽपि तुल्यम् । भस्मन् भस्मनि । 'भस भर्त्सनदीप्त्योः' मन् । अभ्रे 'अभ्रं वा अपां भस्म' अपां ज्योतिषि विद्युति । 'विद्युद्वा अपां ज्योतिः'। अपामयने भूमौ । 'इयं पृथिव्यपामयनम् । अर्णवे सदने स्थाने प्राणरूपे सा० । 'प्राणो वा अर्णवः' । समुद्रे सदने सा० । 'मनो वे समुद्रः' । सरिरे सदने वाचि सा० । 'वाग्वै सरिरम्'। अपां क्षये चक्षुषि त्वां सा० । 'चक्षुर्वा अपां क्षयः' । क्षयो निवासः । अपां सधिषि श्रोत्रे त्वां सा० । 'श्रोत्रं वा अपाᳪं᳭ सधिः' । अपां सदने दिवि त्वां सा० । द्यौर्वा अपाᳪं᳭ सदनम् अपां सधस्थे अन्तरिक्षे त्वां सा० । 'अन्तरिक्षं वा अपाᳪं᳭सधस्थम्' । अपां योनौ समुद्रे त्वां सा० । 'समुद्रो वा अपां योनिः' । अपां पुरीषे सिकतासु त्वां सा० । 'सिकता वा अपां पुरीषम्' अपां पाथसि अन्ने त्वां सा० । 'अन्नं वा अपां पाथः' । पञ्च छन्दस्या उपदधाति पञ्च यजुर्भिः । गायत्रेण गायत्र्येव गायत्रं तेन छन्दसा त्वामुपदधामि । त्रैष्टुभेन छन्दसा त्वां सा० । जागतेन छन्दसा त्वां सा० । आनुष्टुभेन छन्दसा त्वां सा० । पाङ्क्तेन छन्दसा त्वां सा० ॥ ५३ ॥

चतुःपञ्चाशी
अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती
गा॑य॒त्र्यै गा॑य॒त्रं गा॑य॒त्रादु॑पा॒ᳪं᳭शुरु॑पा॒ᳪं᳭शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ ऋषि॑:
प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्य॑: ।। ५४ ।।
उ० प्राणभूताः पञ्चाशदिष्टका उपदधाति । पञ्चाशद्भिर्यजुभिः । अयं पुरो भुवः । अग्निर्वै पुरः तद्यत्तदाह पुर इत्यादिनिर्वचनम् । तस्य प्राणः अपत्यम् भौवायनः वसन्त ऋतुः। प्राणायनः प्राणस्यापत्यम् । नडादित्वात्फक् । गायत्री वासन्ती गायत्री च वसन्तस्यापत्यम् । गायत्री गायत्रम् । गायत्र्याः सकाशाद्गायत्रम् साम निरमिमीत । गायत्रादुपांशुः । गायत्रात्साम्न उपांशुं ग्रहं निरमिमीत । उपांशोः त्रिवृत् । उपांशोर्ग्रहात्त्रिवृत्स्तोमं निरमिमीत । त्रिवृतो रथन्तरम् । त्रिवृत्स्तोमाद्रथन्तरं पृष्ठं निरमिमीत । वसिष्ठ ऋषिः । प्राणो वै वसिष्ठऋषिः । प्रजापतिगृहीतया त्वया । गृह्णातिः सृजतिवचनः । प्रजापतिसृष्टया त्वया । प्राणं गृह्णामि प्रजाभ्यः । अयं पुरोभुव इत्यादिभिर्दशभिर्भेदैः प्राणमेवैकमविशेषेण गृह्णामि । प्रजाभ्यो विशेषेणावस्थितम् ॥ ५४ ॥
म० 'व्याघारणवत्प्राणभृतः कर्णसहिता दशदशायं पुर इति प्रतिमन्त्रम्' ( का० १७ । ६ । ३) । प्राणभृत्संज्ञका इष्टका व्याघारणवद्दक्षिणे अंसे उत्तरश्रोण्यां दक्षिणश्रोण्यामुत्तरे अंसे कर्णसहिता अक्ष्णया संलग्नाः स्वयमातृण्णापर्यन्तं दश दशोपदधातीति सूत्रार्थः । पञ्चाशद्यजूंषि प्राणभृदिष्टकादेवत्यानि प्रतिकण्डिकं दश-दश । प्रथमं दशकं दक्षिणे अंसे । कदाचिद्व्यग्रात्प्रजापतेः प्राणा देवा भूत्वोत्क्रान्ताः तदा तान्प्रजापतिरूचे किमित्युत्क्रम्यते मामुपगच्छतेति । ततः प्राणास्तमूचुर्वयमन्नं विना स्थातुं न शक्नुमस्तदन्नं त्वया सृज्यते चेत्तिठामः । ततः प्रजापतिनोक्तं वयमुभयेऽन्नं सृजामेति तथेत्युक्त्वा प्राणाः प्रजापतिश्चैतदन्नमसृजंस्तेन प्राणान्पुष्णन्तीति इष्टकानां प्राणभृत्संज्ञेत्युक्तं श्रुत्या 'प्रजापतेर्विस्रस्तात् प्राणा उदक्रामन्' (८ । १ । १।३) इत्यादिकया । अथ मन्त्रव्याख्या । योऽयं पुरो भुवश्चाग्निर्वर्तते हे इष्टके, त्वं तद्रूपासि । प्राण एवाग्निर्भूत्वा पुरस्तिष्ठति अतोऽग्निरूपां त्वामुपदधामीति शेषः । एवमग्रेऽपि । पुरस्तादुपधीयते प्रागुद्ध्रियते प्राङुपचर्यत इति पुरोऽग्निः । भवति सर्वरूपेणेति भवत्यस्मात्सर्वमिति वा भुवोऽग्निः तद्रूपेष्टका ध्येयेति भावः । तदुक्तं श्रुत्या 'अयं पुरो भुव इत्यग्निर्वै पुरस्ताद्यत्तमाह पुर इति प्राञ्चᳪं᳭ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्भुव इत्याहाग्निर्वै भुवोऽग्नेर्हीदᳪं᳭ सर्वं भवति प्राणो हाग्निर्भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । १।१।४)। प्राणस्तस्याग्नेरपत्यमिति शेषः । अतएव भौवायनः भुवस्याग्नेरपत्यं भौवायनः । नडादित्वात्फक् । इष्टके, प्राणरूपां त्वां सा० । 'प्राणं तस्माद्रूपादग्नेर्निरमिमीत' (८ । १।१ । ५) इति श्रुतेः । प्राणस्यापत्यं प्राणायनः फक् । यो वसन्त ऋतुस्तद्रूपां सा० । 'वसन्तमृतुं प्राणान्निरमिमीत' (८। १।१।५) इति श्रुतेः । वसन्तस्यापत्यं वासन्ती 'तस्यापत्यम्' (पा० ४ । १ । ९२ ) इत्यण् ‘टिड्ढाणञ्' (पा० ४ । १।१५) इत्यादिना डीप् । या गायत्री छन्दस्तद्रूपां सा० । 'गायत्रीं छन्दो वसन्तादृतोर्निरमिमीत' ( ८ । १।१।५) इति श्रुतेः । गायत्र्यैव गायत्रं चतुर्थी पञ्चम्यर्थे । गायत्र्याः सकाशाद्गायत्रं सामोत्पन्नं तद्रूपां सा० । 'गायत्र्यै छन्दसो गायत्रᳪं᳭साम निरमिमीत' ( ८।३।१।५) इति श्रुतेः । गायत्रात्साम्नो य उपांशुग्रहो निर्मितस्तद्रूपां सा० । 'गायत्रात्साम्न उपाᳪं᳭शुं ग्रहं निरमिमीत' (८।१।१।५) इति श्रुतेः। उपांशुग्रहान्निर्मितो यस्त्रिवृत्स्तोमस्तद्रूपां सा० । 'उपाᳪं᳭शोर्ग्रहात्त्रिवृतᳪं᳭ स्तोमं निरमिमीत' (८।१।१।५) इति श्रुतेः । त्रिवृतः स्तोमान्निर्मितं यद्रथन्तरं पृष्ठं तद्रूपां सा० । 'त्रिवृतः स्तोमाद्रथन्तरं पृष्ठं निरमिमीत' ( ८ । १।१।५) इति श्रुतेः । वसत्यधितिष्ठति सर्वजन्तूनिति वस्ता अतिशयेन वस्ता वसिष्ठः 'तुरिष्ठेमेयस्सु' (६।४। १५४ ) इतीष्ठनि तृचो लोपः । सर्वाधार ऋषिः ज्ञाता प्राणस्तद्रूपां सा० । 'प्राणो वै वसिष्ठ ऋषिर्यद्वैनु श्रेष्ठस्तेन वसिष्टोऽथो यद्वस्तृतमो वसति तेनो एव वसिष्ठः' (८। १।१।६) इति श्रुतेः । प्रजापतिगृहीतया । गृह्णातिः सृष्ट्यर्थः। प्रजापतिना सृष्टया त्वयेष्टकया स्थापितया प्रजाभ्यः सर्वप्रजार्थं प्राणं गृह्णामि । प्रजानां प्राणसिद्धये त्वामुपदधामीत्यर्थः । अयं पुर इत्यादिदशमन्त्रैः प्राणमेवैकं प्रजाभ्यः गृह्णामि । 'ये नानाकामाः प्राणे तांस्तद्दधाति सकृत्सादयत्येकं तत्प्राणं करोति' (८।१।१।६) इति श्रुतेः ॥ ५४ ॥

पञ्चपञ्चाशी।
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रिष्टुब्ग्रै॒ष्मौ॑ त्रि॒ष्टुभ॑: स्वा॒रᳪं᳭
स्वा॒राद॑न्तर्या॒मो॒ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्वा॑ज॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्य॑: ।। ५५ ।।
उ. अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मा । अयं वै वायुर्विश्वकर्मा योयं पवते । एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वात्यार्यावर्तात् । तस्य मनो वैश्वकर्मण इत्यादि तुल्यव्याख्यानं चतसृष्वपि कण्डिकासु ॥ ५५ ॥
म० एभिर्मन्त्रैस्तृतीयं दशकं दक्षिणश्रोणेरारभ्योपधेयम् । विश्वं करोति सर्वं सृजतीति विश्वकर्मा वायुरयं दक्षिणा दक्षिणस्यां दिशि आर्यावर्ताद्भूयो वाति तद्रूपां त्वां सा० । 'अयं वै वायुर्विश्वकर्मा योऽयं पवते एष हीदᳪं᳭ सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति तद्रूपमुपदधाति' । (८।१।१।७) इति श्रुतेः । तस्य विश्वकर्मणो ऽपत्यं मनोऽत एवं वैश्वकर्मणं विश्वकर्मण इदम् । 'तस्येदम्' (पा० ४ । ३ । १२०) इत्यण् ‘इनण्यनपत्ये' (पा. ६ । ४ । १६४) इति प्रकृत्या । मनोरूपां सा० । 'मनस्तस्माद्रूपाद्वायोर्निरमिमीत' (८।१।१।८) इति श्रुतेः । मनसोऽपत्यं ग्रीष्म ऋतुस्तद्रूपां सा० । 'ग्रीष्ममृतुं मनसो निरमिमीत' इति श्रुतेः । ग्रीष्मस्येयं ग्रैष्मी ग्रीष्मोत्पन्ना त्रिष्टुप् छन्दस्तद्रूपां सा० । 'त्रिष्टुभं छन्दो ग्रीष्मादृतोर्निरमिमीत' इति श्रुतेः। त्रिष्टुभ उत्पन्नं यत्स्वारं साम तद्रूपां सा० । 'त्रिष्टुभश्छन्दसः स्वारᳪं᳭साम निरमिमीत' इति श्रुतेः । स्वारात्साम्न उत्पन्नो योऽन्तर्यामो ग्रहस्तद्रूपां सा० । 'स्वारात्साम्नोऽन्तर्यामं ग्रहं निरमिमीत' इति श्रुतेः । अन्तर्यामादुत्पन्नो यः पञ्चदशस्तोमस्तद्रूपां सा० । 'अन्तर्यामाद्र्०हात्पञ्चदशᳪं᳭स्तोमं निरमिमीत' इति श्रुतेः। पञ्चदशात्स्तोमादुत्पन्नं यद्बृहत्पृष्ठं तद्रूपां सा० । 'पञ्चदशात्स्तोमाद्बृहत्पृष्ठं निर०' । भरद्वाज ऋषिः बिभर्तीति भरन् वाजमन्नं यः स भरद्वाजोऽन्नधर्ता मनः मनसि स्वस्थे अन्नादनेच्छोत्पत्तेः ऋषिः सचेतनो मनोरूपस्तद्रूपां सा० । 'मनो वै भरद्वाज ऋषिः अन्नं वाजो यो वै मनो बिभर्ति सोऽन्नं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः' (८ । १।१ । ९) इति श्रुतेः । प्रजापतिगृहीतया धातृसृष्ट्या त्वयेष्टकया कृत्वा प्रजाभ्यो मनो गृह्णामि एभिर्दशमन्त्रैर्मन एव गृह्णामीत्यर्थः ॥ ५५ ॥

षट्पञ्चाशी।
अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं व॒र्षाश्चाक्षु॑ष्यो जग॑ती वा॒र्षी जग॑त्या॒ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं ज॒मद॑ग्नि॒र्ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑: ॥ ५६ ॥
उ० अयं पश्चात् । अयं पश्चाद्विश्वव्यचा । 'असौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेति अथेदं सर्वं व्यचा । भवति तद्यत्तमाह' । पश्चादिति क्रियानिर्देशः ॥ ५६ ॥.
म० अयं पश्चादित्यादिमन्त्रैर्द्वितीयं दशकमुत्तरश्रोणेरारभ्योपदधाति । पश्चात्प्रतीचीं दिशमञ्चति गच्छतीति पश्चात् प्रतीचीगमनशीलो विश्वं विचति उदितः सन्प्रकाशयतीति विश्वव्यचा आदित्योऽयं प्रसिद्धस्तद्रूपां सा० । 'असौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदᳪं᳭ सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति' ( ८।१।२।१) इति श्रुतेः । तस्यादित्यस्य संबन्धि चक्षुरतएव वैश्वव्यचसं विश्वव्यचसो रवेरुत्पन्नं तद्रूपां सा० । 'चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत' (८।१ । २ । २) इति श्रुतेः । चाक्षुष्यः चक्षुष उत्पन्ना वर्षा ऋतुस्तद्रूपां सा० । गर्गादित्वाद्यञ् 'वर्षा ऋतुं चक्षुषो निरमिमीत' ( ८।१।२।२) इति श्रुतेः । वर्षाभ्य उत्पन्नं जगतीछन्दस्तद्रूपां सा० । जगतीछन्दो वर्षाभ्य ऋतोर्निरमि० । जगतीच्छन्दस उत्पन्नमृक्समसंज्ञं यत्साम तद्रूपां सा० । जगत्यै छन्दस ऋक्समᳪं᳭साम निरमि० । ऋक्समादुत्पन्नो यः शुक्रग्रहस्तद्रूपां सा० । ऋक्समात्साम्नः शुक्रं ग्रहं निरमि० । शुक्रादुत्पन्नो यः सप्तदशस्तोमस्तद्रूपां त्वां सा० । शुक्राद्र्।हात्सप्तदशᳪं᳭स्तोमं निरमि० । सप्तदशात्स्तोमादुत्पन्नं यद्वैरूपं पृष्ठं तद्रूपां सा० । सप्तदशात्स्तोमाद्वैरूपं पृष्ठं निरमि० । जमदग्निर्ऋषिः जमति जगत्पश्यतीति जमन् । अङ्गति सर्वत्र गच्छतीत्यग्निः। ऋषति जानाति ऋषिः ईदृशं यच्चक्षुस्तद्रूपां सा०। 'चक्षुर्वै जमदग्निर्ऋषियदेनेन जगत् पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः' (८ । १।२ । ३) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजार्थं चक्षुर्गृह्णामि दशमन्त्रैश्चक्षुरेव गृह्णामि । 'सकृत्सादयत्सेतच्चक्षुः करोति' (८।१।२।३) इति श्रुतेः ॥ ५६ ॥

सप्तपञ्चाशी।
इ॒दमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्र॑ᳪं᳭ सौ॒वᳪं᳭ श॒रच्छ्रौ॒त्र्य॒नु॒ष्टुप् शा॑र॒द्य॒नु॒ष्टुभ॑ ऐ॒डमै॒डान्म॒न्थी म॒न्थिन॑ एकवि॒ᳪं᳭श ए॑कविᳪं᳭शाद्वै॑रा॒जं वि॒श्वामि॑त्र॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑: ।। ५७ ।।
उ० अथोत्तरतः । इदमुत्तरात्स्वः । 'दिशो वा उत्तरा तद्यत्तमाहोत्तरादित्युत्तरात्तर्ह्यस्मात्सर्वस्माद्दिशः । अथ यत्स्वरित्याह स्वर्गो हि लोको दिशः' इति ॥ ५७ ॥
म० दशमन्त्रैश्चतुर्थं दशकमुत्तरांसादारभ्योपदधाति । उत्तरस्यामुत्तरात् 'उत्तराधरदक्षिणादातिः' । (पा० ५। ३ । ३४) इति आतिप्रत्ययः । सर्वस्मादुत्तरभागस्था दिशः यदिदं स्वः स्वर्गो लोकः तां दिक्स्वर्गरूपां त्वां सा० । क्रियाव्ययविशेषणानां नपुंसकत्वमेकत्वं चेति वचनादिदमुत्तरादित्युक्तम् । दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा ह्यस्मात्सर्वस्माद्दिशोऽथ यत्स्वरित्याह 'स्वर्गो हि लोको दिशः श्रोत्रᳪं᳭ह दिशो भूत्वोत्तरं तस्थौ तदेतद्रूपमुपदधाति' (८।१।२ । ४) इति श्रुतेः । तस्य स्वर्गस्य संबन्धि श्रोत्रं कीदृशम् । सौवम् स्वः इदं सौवं 'तस्येदम्' (पा० ४ । ३ । १२०) इत्यण् । द्वारादित्वादैजागमः (पा. ७ । ३ । ४) अव्ययानां भमात्रे टिलोपः । श्रोत्ररूपां त्वां सा० । 'श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत' (८।१।२।५) इति श्रुतेः । श्रोत्रादुत्पन्ना या शरत्तद्रूपां सा० । 'शरदमृतुᳪं᳭ श्रोत्रान्निरमिमीत' (८।१।२।५) इति श्रुतेः । शरद उत्पन्नं यदनुष्टुप्छन्दस्तद्रूपां सा० । अनुष्टुभं छन्दः शरद ऋतोर्निरमि० । अनुष्टुभ उत्पन्नं यदैडं साम तद्रूपां सा० । अनुष्टुभश्छन्दस ऐडᳪं᳭साम निरमि० । ऐडात्साम्न उत्पन्नो यो मन्थी ग्रहस्तद्रूपां सा० । ऐडात्साम्नो मन्थिनं ग्रहं निरमि० । मन्थिग्रहादुत्पन्नो य एकविंशस्तोमस्तद्रूपां सा० । मन्थिनो ग्रहादेकविंशᳪं᳭स्तोमं निरमि० । एकविंशस्तोमादुत्पन्नं यद्वैराजं पृष्ठं तद्रूपां सा० । एकविᳪं᳭शात्स्तोमाद्वैराजं पृष्ठं निरमि० । विश्वामित्र ऋषिः विश्वं सर्वं मित्रं येन 'मित्रे चर्षौ' (पा० ६ । ३ । १३० ) इति दीर्घः । तादृश ऋषिः श्रोत्रं श्रद्धयान्यवाक्यश्रवणात्सर्वमित्रं भवति विश्वामित्रर्षिरूपं यत् श्रोत्रं तद्रूपां सा० । 'श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रं भवति तस्माच्छोत्रं विश्वामित्र ऋषिः' (८ । १।२। ६) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजाभ्यः श्रोत्रं गृह्णामीति दशमन्त्रैः श्रोत्रमेव सादयति 'ये नानाकामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं तच्छ्रोत्रं करोति' ( ८ । १ । २ । ६ ) इति श्रुतेः ॥ ५७ ॥

अष्टपञ्चाशी ।
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्म॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रि॒ᳪं᳭शौ त्रि॑णवत्रयस्त्रि॒ᳪं᳭शाभ्या॑ᳪं᳭ शाक्वररैव॒ते वि॒श्वक॑र्म॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यो॑ लो॒कं ता इन्द्र॑म् ।। ५८ ।।
उ० अथ मध्ये । इयमुपरि मतिः । 'चन्द्रमा वा उपरि तद्यत्तमाहोपरीति उपरि हि चन्द्रमा । अथ यन्मतिरित्याह वाग्वै मतिः' । समानं व्याख्यानम् । लोकं तामिन्द्रमिति तिस्रः प्रतीकगृहीताः । लोकं पृण च्छिद्रं पृण । ता अस्य सूददोहसः । इन्द्रं विश्वा अवीवृतत् ॥ ५८ ॥
इति उवटकृतौ मन्त्रभाष्ये त्रयोदशोऽध्यायः ॥ १३ ॥
म० दशमन्त्रैः पञ्चमं दशकं रेतःसिग्भ्यामुत्तरां प्रथमां कृत्वा प्रादक्षिण्येनोपधेयम् । 'उपर्युपरिष्टात्' (पा० ५। ३ । । ३१) इति निपातः। उपरि ऊर्ध्वदेशस्थश्चन्द्र इयं मतिः वाक् मन्यते ज्ञायते यया सा मतिः वागेव चन्द्रो भूत्वोपरि यस्तिष्ठति तद्रूपां सा० । चन्द्रमा वा उपरि तद्यत्तमाहोपरीत्युपरि हि चन्द्रमा अथ यन्मतिरित्याह वाग्वै मतिर्वाचा हीदᳪं᳭ सर्वं मनुते । 'वाग्घ चन्द्रमा भूत्वोपरिष्टात्तस्थौ तदेव तद्रूपमुपदधाति' (८ । १।९।७) इति श्रुतेः । तस्यै चन्द्ररूपायास्तस्या मतेरुत्पन्नात एव मात्या मतेरियं मात्या या वाक् तद्रूपां सा० । 'वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत' ( ८ । १ । २ । ८) इति श्रुतेः । वाचोऽपत्यं वाच्यः वाच उत्पन्नो यो हेमन्तस्तद्रूपां सा० । हेमन्तमृतुं वाचो निरमि० । हेमन्तस्येयं हैमन्ती या पङ्क्तिश्छन्दस्तद्रूपां सा० । पङ्क्तिश्छन्दो हेमन्तादृतोर्निरमि० । पङ्क्तेरुत्पन्नं यन्निधनवत्संज्ञं साम तद्रूपां सा० । पङ्क्यै स चतुर्थी पञ्चम्यर्थे । पङ्क्यैृत छन्दसो निधनवत्साम निरमि० । निधनवतः साम्न उत्पन्नो य आग्रयणो ग्रहस्तद्रूपां सा० । निधनवतः साम्न आग्रयणं ग्रहं निरमि० । आग्रयणादुत्पन्नौ यौ त्रिणवत्रयस्त्रिंशौ द्वौ स्तोमौ तद्रूपां सा० । आग्रयणाद्ग्रहात्त्रिणवत्रयस्त्रिᳪं᳭शौ स्तोमौ निरमि० । त्रिणवत्रयस्त्रिंशाभ्यामुत्पन्ने ये द्वे शाक्कररैवते पृष्ठे त्वां तद्रूपां सा० । त्रिणवत्रयस्त्रिᳪं᳭शाभ्याᳪं᳭स्तोमाभ्याᳪं᳭शाक्कररैवते पृष्ठे निरमि० । विश्वकर्मा विश्वं सर्वं करोतीति विश्वकर्मा ऋषिः वागेव वाचा हि सर्वं कुरुते वाग्रूपां त्वां सा० । 'वाग्वै विश्वकर्मऋषिर्वाचा हीदᳪं᳭ सर्वं कृतं तस्माद्वाग्विश्वकर्मऋषिः' (१ । २ । ९) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजाभ्यः वाचं गृह्णामि एभिर्दशमन्त्रैर्वाचमेव गृह्णाति । 'सकृत्सादयत्येकां तद्वाचं करोति' (८।१।२ । ९) इति श्रुतेः । अथ पञ्चकण्डिकासु प्राणमनश्चक्षुःश्रोत्रवाचां प्रजाभ्यो ग्रहणमित्यस्यार्थद्वयम् । प्रजाभ्य इति चतुर्थीपक्षे प्रजार्थं प्राणादीनां ग्रहणम् पञ्चाशदिष्टकास्थापने प्रजानां यजमानापत्यपश्वादीनां प्राणादयः पुष्टा भवन्त्वित्यर्थः । प्रजाभ्य इति पञ्चमीपक्षे प्रजाभ्यो नानालोकेभ्यः सकाशात्प्राणादीन्गृह्णामि मद्वशगान्करोमीति प्राणभृतामुपधानेन सर्वाः प्रजा मद्वशगा भवन्त्वित्यर्थः । ( का० । १७ । ६ । ५ ) लोकंपृणा दक्षिणाᳪं᳭सादध्यामध्यात् । आत्मनो दक्षिणकोणादारभ्यामध्यात् अधि स्वयमातृण्णापर्यन्तं लोकंपृणा उपदधाति तासां लोकंपृणेत्यभिमन्त्रणम् । ता अस्येति सूददोहःसंज्ञमन्त्रेणाधिवदनम् स्पृष्ट्वा पठनमिति सूत्रार्थः । 'मध्ये पुरीषं निवपति पूर्ववत्' ( का० १७ । ६ । ९)। स्वयमातृण्णोपरीन्द्रं विश्वेति मन्त्रेण मृत्क्षेपः । तिस्र ऋचः प्रतीकोक्ताः पूर्वमुक्तत्वात् ( अ० १२ क० ५४ । ५५ । ५६)॥५८॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। पुष्कराद्यादि चित्यन्तो रामेन्द्वध्याय ईरितः ॥ १३ ॥