अध्याय 32 यम सूक्तम्
सर्वमेध सम्बद्धा मन्त्राः

32.1
तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः ।
तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः ॥

32.2
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि ।
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥

32.3
न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः ।
हिरण्यगर्भ ऽ इत्य् एषः ।
मा मा हिꣳसीद् इत्य् एषा ।
यस्मान् न जात ऽ इत्य् एष ॥

32.4
एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भे ऽ अन्तः ।
स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥

32.5
यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीꣳषि सचते स षोडशी ॥

32.6
येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।
यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥

32.7
यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम ।
आपो ह यद् बृहतीः ।
यश् चिद् आपः ॥

32.8
वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् ।
तस्मिन्न् इदꣳ सं च वि चैति सर्वꣳ स ऽ ओतः प्रोतश् च विभूः प्रजासु ॥

32.9
प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् ।
त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत् ॥

32.10
स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त ॥

32.11
परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।
उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश ॥

32.12
परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः ।
ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत् ॥

32.13
सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् ।
सनिं मेधाम् अयासिषꣳम् स्वाहा ॥

32.14
यां मेधां देवगणाः पितरश् चोपासते ।
तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥

32.15
मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः ।
मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा ॥

32.16
इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् ।
मयि देवा दधतु[ दधवु ] श्रियम् उत्तमां तस्यै ते स्वाहा ॥

भाष्यम्(उवट-महीधर)

द्वात्रिंशोऽध्यायः।

तत्र प्रथमा।
तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमा॑: ।
तदे॒व शु॒क्रं तद्ब्रह्म॒ ता आप॒: स प्र॒जाप॑तिः ।। १ ।।
उ० इदानीं सर्वे मन्त्राः प्राक्प्रवायुमित्यस्मादनुवाकात्सर्वमेधसंबद्धाः । ब्रह्मण आर्षम् । तदेवाग्निः द्वे अनुष्टुभौ । विज्ञानात्मा परेणात्मना विशिष्टाग्न्यादिषु ओतप्रोतत्वेनोपास्योऽभिधीयते । तदेव कारणमग्निः तदादित्यः तद्वायुः तत् उ चन्द्रमाः । उकार एवार्थे । तदेव शुक्र त्रयीलक्षणम् । तद्ब्रह्म परम् । ता आपः । सः प्रजापतिः ॥ १ ॥
म० पुरुषमन्त्रा उक्ताः । अथ सर्वमेधमन्त्रा उच्यन्ते प्रवायुमच्छेत्यस्मात्प्राक् ( ३३ । ५५)। स्वयंभुब्रह्मदृष्टा आत्मदेवत्याः सप्तमेऽहनि आप्तोर्यामसंज्ञिके सर्वहोमे विनियुक्ताः 'आप्तोर्याम सप्तममहर्भवति' इत्युपक्रम्य 'सर्वं जुहोति सर्वस्यास्यै सर्वस्यावरुद्ध्यै' ( १३ । ७ । १।९) इति श्रुते । द्वे अनुष्टुभौ । विज्ञानात्मा परेणात्मना विशिष्टोऽग्न्यादिष्वोतप्रोतत्वेनोपास्योऽभिधीयते । अग्निः तदेव कारणं ब्रह्मैव आदित्यस्तदेव वायुस्तदेव चन्द्रमास्तत् तदेव । उ एवार्थे । शुक्रं शुक्लं तत् प्रसिद्धम् । ब्रह्म त्रयीलक्षण तत् ब्रह्मैव । ताः प्रसिद्धाः आपः जलानि स प्रसिद्ध प्रजापतिरपि तदेव ब्रह्म ॥ १ ॥

द्वितीया।
सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युत॒: पुरु॑षा॒दधि॑ ।
नै॑नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत् ।। २ ।।
उ० सर्वे निमेषाः । सर्वे निमेषत्रुटिकाष्ठादयः कालविशेषाः जज्ञिरे जाताः विद्युतः विद्युत्पर्जन्यस्तनयित्नवः । पुरुषादधि सकाशात् । नच एनं पुरुष सर्वस्यापि जनकं सन्तं ऊर्ध्वं नच तिर्यञ्चं नच मध्ये परिजग्रभत् न परिगृह्राति कश्चिदपि । नह्यसौ प्रत्यक्षादीनां विषयः । आगमो हि तत्र प्रवर्तते । तदुक्तम् 'एष नेतिनेत्यात्मना अगृह्यो नहि गृह्यते' इत्यादि ॥ २ ॥ |
म० सर्वे निमेषाः त्रुटिकाष्ठाघट्यादयः कालविशेषा पुरुषात् अधि पुरुषसकाशाज्जज्ञिरे । कीदृशात्पुरुषात् । विद्युत विशेषेण द्योतते विद्युत् तस्मात् । किंच कश्चिदपि एनं पुरुषमूर्ध्वमुपरिभागे न परिजग्रभत्परिगृह्णाति । एनं तिर्यञ्च चतुर्दिक्षु न परि० मध्ये मध्यदेशेऽपि न गृह्णाति । न ह्यसौ प्रत्यक्षादीनां विषय इत्यर्थः । ‘स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते' इति श्रुते । जग्रभत् । ग्रहे शतरि जुहोत्यादित्वेन रुपम् ॥ २ ॥

तृतीया।
न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यश॑: ।
हि॒र॒ण्य॒ग॒र्भ इत्ये॒ष मा मा॑ हिᳪं᳭सी॒दित्ये॒षा यस्मा॒न्न जा॒त इत्ये॒ष: ।। ३ ।।
उ० न तस्य गायत्री द्विपदा । न तस्य पुरुषस्य प्रतिमा प्रतिमानभूतं किंचिद्विद्यते । यतो यस्य नाम महद्यश इत्येष वेदान्तविदः पठन्ति हिरण्यगर्भ इत्येष चतुर्ऋचोऽनुवाकोदूरविप्रकर्षेण हिरण्यगर्भं प्रतिमाभूतमाह । मामाहिᳪं᳭सीदित्येषा च ऋक् यस्मान्न जात इत्येषा च द्विकण्डिकोऽनुवाकः षोडशिदैवत्योऽदूरविप्रकर्षेणाभिवदति । आसा च कण्डिकानां ब्रह्मयज्ञेऽध्ययनं कर्तव्य प्रतीकग्रहणत्वात् ॥ ३ ॥
म० द्विपदा गायत्री । तस्य पुरुषस्य प्रतिमा प्रतिमानमुपमानं किंचिद्वस्तु नास्ति । अतएव नाम प्रसिद्धं महत् यशः यस्यास्ति । सर्वातिरिक्तयशा इत्यर्थः । हिरण्यगर्भ इत्येषोऽनुवाकश्चतुर्ऋच हिरण्यगर्भः यः प्राणतः यस्येमे य आत्मदा इति ( २५ । १०-१३)। मा मा हिंसीज्जनितेत्येका एषा ( १२ । १०२)। यस्मान्न जातः इन्द्रश्च सम्राडिति (८। ३६-३७) द्व्यृचोऽनुवाकः । एताः प्रतीकचोदिताः पूर्वं पठितत्वादादिमात्रेणोक्ताः ब्रह्मयज्ञे जपे च सर्वा अध्येयाः । एवं सर्वत्र ॥ ३॥

चतुर्थी।
ए॒षो ह॑ दे॒वः प्र॒दिशोऽनु॒ सर्वा॒: पूर्वो॑ ह जा॒तः स उ॒ गर्भे॑ अ॒न्तः ।
स ए॒व जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ् जना॑स्तिष्ठति स॒र्वतो॑मुखः ।। ४ ।।
उ० एषो ह । त्रिष्टुभः सर्वाः सदसस्पतिमद्भुतमित्यस्या गायत्र्याः प्राक् । इदानीं स्वरूपतः कथयति । एष एव देवः प्रदिशः दिशश्च सर्वाः अनुव्याप्य वर्तते तिर्यगूर्ध्वमधश्चेति । पूर्वो ह जात अनादिनिधनः संभूतः । स उ गर्भे अन्तः स एव च मातुरुदरे अन्तर्गर्भे व्यवतिष्ठते । स एव च जातः स एव च जनिष्यमाणः । तदुक्तम् 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेति प्रतिपदार्थमञ्चनः । हे जनाः तिष्ठति सर्वतोमुखः सर्वतोऽक्षिशिरोग्रीवपाणिपादः तिष्ठति । अचिन्त्यशक्तिरित्यर्थः । जना इत्याद्युदात्तस्वरमपि स्वरामन्त्रितार्थस्यादावेव वर्तते ॥ ४॥
म० चतस्रस्त्रिष्टुभः । ह प्रसिद्धम् । एषो ह देवः सर्वाः प्रदिशः अनुतिष्ठति व्याप्य स्थितः । हे जनाः, ह प्रसिद्धमेष पूर्वः प्रथमो जात उत्पन्नः । गर्भे अन्तः गर्भमध्ये स उ स एव तिष्ठति । जातोऽपि स एव जनिष्यमाणः उत्पत्स्यमानोऽपि स एव । प्रत्यङ् प्रतिपदार्थमञ्चति प्रत्यङ् । सर्वतोमुखः सर्वतो मुखाद्यवयवा यस्य । अचिन्त्यशक्तिरित्यर्थः ॥ ४ ॥

पञ्चमी।
यस्मा॑ज्जा॒तं न पु॒रा किं च नै॒व य आ॑ब॒भूव॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ सᳪं᳭ररा॒णस्त्रीणि॒ ज्योती॑ᳪं᳭षि सचते॒ स षो॑ड॒शी ।। ५ ।।
उ० यस्मान्न जातः । यस्मात्पुरुषात् जातं न पुरा किंच एव । यश्च आबभूव संभावयति भुवनानि भूतजातानि विश्वा विश्वानि सर्वाणि । प्रजापतिरिति व्याख्यातम् । अयं षोडशकलिङ्गयुक्तः ॥ ५॥
म०. यस्मात् पुरा किंचन किमपि न जातमेव । यश्च विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि आबभूव समन्ताद्भावयामास । अन्तर्भूतो ण्यर्थः । स षोडशी षोडशावयवलिङ्गशरीरी प्रजापतिः प्रजया संरराणः रममाणः त्रीणि ज्योतींषि रवीन्द्वग्निरूपाणि सचते सेवते ॥५॥

षष्ठी।
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढा येन॒ स्व॒: स्तभि॒तं येन॒ नाक॑: ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। ६ ।।
उ० येन पुरुषेण द्यौः उग्रा उद्गूर्णा वृष्टिदायिनी कृता । पृथिवी च दृढा स्थिरा प्राणिधारणाय वृष्टिग्रहणाय च अन्ननिष्पादनाय च कृता । येन च स्वः आदित्यमण्डलं स्तभितं स्तम्भितम् । येन च नाकः स्वर्गो लोकः स्तम्भितः । यश्चान्तरिक्षे रजसः उदकस्य वृष्टिलक्षणस्य विमानो निर्माता। । तं परित्यज्य कस्मै अन्यस्मै देवाय हविषा विधेम हविर्दद्म इति समंजसम् ॥ ६ ॥ ।
म० येन पुरुषेण द्यौरुग्रा उद्गूर्णा । वृष्टिदा कृतेति शेषः । पृथिवी च येन दृढा कृता । सर्वप्राणिधारणं वृष्टिग्रहणं अन्ननिष्पादनं चेति भूमेर्दार्ढ्यम् । येन स्वः आदित्यमण्डलं स्तभितं स्तम्भितम् । येन नाकः स्वर्गोऽपि स्तम्भितः । यः अन्तरिक्षे नभसि रजसो जलस्य वृष्टिरूपस्य विमानः विमिमीते निर्माता । तं विहाय कस्मै देवाय हविषा विधेम हविर्दद्मः । न कस्मैचिदित्यर्थः ॥ ६ ॥

सप्तमी।
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
आपो॑ ह॒ यद्बृ॑ह॒तीर्यश्चि॒दाप॑: ।। ७ ।।
उ० यं क्रन्दसी यं पुरुषं क्रन्दसी द्यावापृथिव्यौ अवसा अन्नेन हविर्लक्षणेन वृष्टिधारणाद्युपकारजनितेन । तस्तभाने संस्तम्भयन्त्यौ सर्वप्राणिजातम् । अभि ऐक्षेतां मनसा । साध्वेतत्कृतमनेनेति । रेजमाने कल्पमाने । यत्र च अधि उपरि स्थितः यदाधार इत्यभिप्रायः । सूरः सूर्यः उदितः सन् विभाति । तं देवम् परित्यज्य कस्मै देवाय हविषा विधेम इति समंजसम् । आपो ह यद्बृहतीर्यश्चिदाप इति द्वे प्रतीकगृहीते । अत्रापि स्वाध्यायाध्ययनं प्राप्तं प्रतीकस्योपलक्षणार्थत्वात् ॥ ७ ॥
म० क्रन्दसी द्यावापृथिव्यौ यं पुरुषं मनसा अभ्यै॒क्षेतां साधु कृतमित्यपश्यताम् । कीदृश्यौ क्रन्दसी । अवसा हविर्लक्षणेनान्नेन वृष्टिजनकेन तस्तभाने प्राणिजातं स्तम्भयन्त्यौ । व्यत्ययेन स्तम्भेर्ह्वादित्वम् । रेजमाने शोभमाने । सूरः सूर्यः यत्र द्यावापृथिव्योः उदितः सन् अधिविभाति अधिकं शोभते वित्रासयति वा । तं विहाय कस्मै हविर्दद्मः । आपो ह यद्बृहतीः ( २७ । २५ ) यश्चिदापः ( २७ । २६ ) द्वे प्रतीकोक्ते जपादावध्येये ॥७॥

अष्टमी।
वे॒नस्तत्प॑श्य॒न्निहि॑तं॒ गुहा॒ सद्यत्र॒ विश्वं॒ भव॒त्येक॑नीडम् ।
तस्मि॑न्नि॒दᳪं᳭ सं च॒ वि चै॑ति॒ सर्व॒ᳪं᳭ स ओत॒: प्रोत॑श्च वि॒भूः प्र॒जासु॑ ।। ८ ।।
उ० वेनस्तत्पश्यत् । वेनः पण्डितः विदितवेदान्तरहस्यः । सद्भावनया तद्रूपं ब्रह्म पश्यत् पश्यति । निहितं स्थापितम्। गुहा गुहायामिव । सन्नित्यम् । यत्र विश्वं सर्वमिदं विकारजातं भवति एकनीडं एकनिलयमविभक्तम् । कारणमेवोपसंहृतं सर्वविशेषम् । तस्मिन्निदं सं च विचैति सर्वम् । तस्मिन्नेव परमात्मनि इदं विकारजातं सर्वं समेति च उपसंहृतिकाले । समेत्य च व्येति सृष्टिकाले सर्वमेव । स च परमेश्वरः ओतश्च शरीरभावेन प्रोतश्च जीवभावेन इतरथा वा विभूः विभवति च कार्यकारणभावेन प्रजासु ॥८॥
म०. वेनः पण्डितो विदितवेदान्तरहस्यः तत् ब्रह्म पश्यत् पश्यति । जानातीत्यर्थः । कीदृशं तत् । गुहा गुहायां रहःस्थाने निहितं स्थापितं दुर्ज्ञेयमित्यर्थः । सत् नित्यम् । यत्र ब्रह्मणि विश्वं कार्यजातमेकनीडं भवति । एकमेव नीडमाश्रयो यस्य तत् । अविभक्तमविशेषं कारणमेव भवतीत्यर्थः। तस्मिन्ब्रह्मणि इदं सर्वं भूतजातं समेति च सङ्गच्छते संहारकाले । व्येति च निर्गच्छति सर्गकाले । स परमात्मा प्रजासु ओतः प्रोतश्च ऊर्ध्वतन्तुषु पट इव शरीरभावेन ओतः तिर्यक्तन्तुषु पट इव शरीरिभावेन प्रोतश्च । कीदृशः। विभूः कार्यकारणरूपेण विविधं भवतीति विभूः । सर्वं स एवेत्यर्थः ॥ ८॥

नवमी।
प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा॒ सत् ।
त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒ताऽस॑त् ।। ९ ।।
उ० प्र तत् प्रवोचेत् प्रब्रूयात् तत् अमृतं शाश्वतम् । नु क्षिप्रम् । विद्वान पण्डितः गन्धर्वः । गन्धर्वलोके हि ब्रह्मविद्या सुतरां ज्ञायते । धर्मस्थानम् । विभृतं बिभृतं नानाभूतं सर्गस्थितिप्रलयैः । गुहासत् गुहायामिव निगूढम् अविवृतवेदान्तरहस्यसद्भावानाम् । किंच । त्रीणि पदानि निहितानि गुहा गुहायामिव अस्य अमृतस्य सर्गस्थितिप्रलयाः त्रयो वा वेदाः त्रयो वा कालाः । भूयस्त्वोपलक्षणार्थं वा । भूयांसो हि तत्र गुणाः श्रूयन्ते विज्ञानघनानन्दसत्यसंकल्पादयः । परब्रह्मान्तर्याम्यव्याकृतानि वा त्रयः पादाः । यश्च तानि वेद जानाति स पितुरपि पिता भवति । परं ब्रह्म भवतीत्यर्थः । तद्धि ब्रह्मरूपं श्रेष्ठम् ॥ ९॥
म०. गां वेदवाचं धारयति विचारयतीति गन्धर्वः वेदान्तवेत्ता विद्वान् पण्डितः नु क्षिप्रम् अमृतं शाश्वतम् तत् ब्रह्म प्रवोचेत् प्रब्रूयात् । गुहा गुहायां सत् विद्यमानम् धाम स्वरूपं विभृतं विहृतं सर्गस्थितिप्रलयरूपैर्विभक्तम् । किंच अस्यामृतस्य त्रीणि पदानि स्वरूपाणि गुहा गुहायां निहिता निहितानि । पदानि सर्गस्थितिप्रलयाः वेदाः काला वा ब्रह्मान्तर्यामिविज्ञानात्मानो वा। किंच यः तानि पदानि वेद जानाति स पितुः ब्रह्मणोऽपि पिता परमात्मा असत् भवति । परंब्रह्मैव भवतीत्यर्थः ॥९॥

दशमी।
स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ ।
यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धाम॑न्न॒ध्यैर॑यन्त ।। १० ।।
उ० स नो बन्धुः । स नोऽस्माकं बन्धुः । स चास्माकं जनिता । जनयितेति प्राप्ते 'जनिता मन्त्रे' इति णिचोलोपः। स च नो विधाता धारयिता । यः धामानि ब्रह्मणः स्थानानि वेद । भुवनानि भूतजातानि विश्वा सर्वाणि वेद नानात्मनो भिन्नानि वेद । किंच । यत्र देवा अग्न्यादयः अमृतं परब्रह्मलक्षणम् । आनशानाः व्याप्नुवन्तः तृतीये धामन् धामनि स्थाने अधि उपरि स्थिताः ऐरयन्त स्वेच्छया प्रवर्तन्ते तच्च यो वेद स नो बन्धुरित्याद्यनुवर्तते ॥ १०॥
म० स परमात्मा नोऽस्माकं बन्धुः बन्धुवन्मान्यः । जनिता जनयिता । 'जनिता मन्त्रे' (पा० ६ । ४ । ५३ ) इति णिचो लोपः । स च विधाता धारयिता । सः विश्वा सर्वाणि भुवनानि भूतजातानि धामानि स्थानानि च वेद । देवा अग्न्यादयः तृतीये धामन् धामनि स्थाने स्वर्गरूपे अध्यैरयन्त स्वेच्छया वर्तन्ते । कीदृशा देवाः । अमृतं मोक्षप्रापकं ज्ञानं यत्र ब्रह्मणि आनशानाः व्याप्नुवानाः अश्नुवते आनशानाः 'बहुलं छन्दसि' (पा. २ । ४ । ७६) इत्यशेर्ह्वादित्वेन द्वित्वे शानचि अभ्यासस्य नुगागमः । ब्रह्मनिष्ठं ज्ञानं प्राप्ताः सन्तः स्वर्गे देवा मोदन्त इति भावः ॥ १०॥

एकादशी।
प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान् प॒रीत्य॒ सर्वा॑: प्र॒दिशो॒ दिश॑श्च ।
उ॒प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒ऽऽत्मान॑म॒भि सं वि॑वेश ।। ११ ।।
उ० इदानीं सर्वेषु भूतेष्वहमस्मि सर्वाणि च भूतानि मयि सन्तीत्येतद्दर्शनावगुण्ठितस्य सर्वमेधयाजिनो मुक्तिरुच्यते द्वाभ्यां कण्डिकाभ्याम् । नचात्र सर्वमेधो ग्रहः कर्तव्यो दर्शनस्य प्राधान्यात् । एवं हि पश्यतो यजमानस्याग्निहोत्रादयो यज्ञाः सर्वे सर्वमेधा एव । आलम्बनमात्रं हि तत्र यज्ञाः । परीत्य भूतानि अनेन दर्शनेन परिज्ञाय सर्वाणि भूतानि एवमेतदित्यवधार्य। एवं परिज्ञाय च सर्वान् लोकान्। परिज्ञाय च सर्वाः दिशः । परिज्ञाय च सर्वाः प्रदिशः। उपस्थाय च प्रथमजां वाचं त्रयीलक्षणाम् । 'अपिहि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यते' तिश्रुतेः प्रथमजा वाक् । ऋतस्य यज्ञस्य आत्मना आत्मानम् । परेण ब्रह्मणा विशिष्टं ब्रह्म अभिसंविशति अपुनरावृत्तये ॥ ११ ॥
म० इदानीं सर्वभूतेष्वहमस्मि सर्वाणि भूतानि मयीति ज्ञानवतः सर्वमेधयाजिनो मुक्तिरुच्यते । किंच सर्वमेधग्रहोऽपि न ज्ञानं प्रधानम् । ब्रह्मज्ञानवतो यजमानस्याग्निहोत्रादयोऽपि यज्ञाः सर्वमेधा एवेत्याह परीत्य भूतानीति कण्डिकाभ्याम् ।। एवंज्ञानवान् सर्वमेधयाजी आत्मना जीवरूपेण ऋतस्य यज्ञस्यात्मानं यज्ञाधिष्ठातारं परमात्मानमभिसंविवेश प्रविशति । ब्रह्मैव भवतीत्यर्थः । किं कृत्वा । भूतानि परीत्य सर्वभूतानि ब्रह्मत्वेन विज्ञाय । लोकान्भूरादीन्परीत्य ब्रह्मरूपाञ्ज्ञात्वा । सर्वाः प्रदिशः विदिशः दिशश्च परीत्य तद्रूपा ज्ञात्वा । प्रथमजां प्रथमोत्पन्नां त्रयीरूपां वाचमुपस्थाय संसेव्य । यज्ञादि कृत्वेत्यर्थः । 'अपिहि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यत' इति श्रुतेः प्रथमजा वाक् वेदरूपा ॥ ११ ॥

द्वादशी।
परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परि॑ लो॒कान् परि॒ दिश॒: परि॒ स्व॒: ।
ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत् ।। १२ ।।
उ० परि द्यावा । परीत्ययमुपसर्गं इत्वेत्यनेन संबध्यते ।। परीत्य द्यावापृथिव्यौ अनेन दर्शनेन परीत्य च लोकान् परीत्य च दिशः परीत्य च स्वः आदित्यम् । ऋतस्य यज्ञस्य तन्तुं विततं विचृत्य विच्छिद्य परिसमाप्य । सद्य एव तत् तथाभूतमात्मानम् अपश्यत् पश्यति । तदभवत् तथाभूतं ब्रह्म भवति । तदासीत् तदेवास्ति । तदुक्तम् 'तदेव सन्तस्तदु तद्भवामः' । 'यथा ह्येकस्याग्नेः प्रदीपसहस्राणि तुल्यशक्तीनि निर्गच्छन्ति एवं परमात्मन इमे जीवा अप्युच्चरन्ति' । आभ्यां कण्डिकाभ्यां ग्रहस्थानामेव मुक्तिर्दर्शिता भवति । तेषां हि भूयांस उपायाः यज्ञादयः ॥ १२ ॥
म० परीत्युपसर्ग इत्वेत्यनेन संबध्यते । सर्वमेधयाजी तत् ब्रह्म अपश्यत् पश्यति तत् अभवत् भवति तत् आसीत् वस्तुगत्या तदेवास्ति । अज्ञाननिवृत्तिरेव दर्शनं भवनं चेति भावः । किं कृत्वा । द्यावापृथिवी सद्यः परि इत्वा परीत्य तद्रूपेण ज्ञात्वा । लोकान् परीत्य दिशः परीत्य स्वरादित्यं च परीत्य । गुह्यं वस्तु पुनःपुनः कथितं चित्तमारोहतीति पुनरुक्तिः । ऋतस्य यज्ञस्य तन्तुमितिकर्तव्यतां विततं प्रसारितं यथा तथा विचृत्य समाप्य यज्ञं कृत्वेत्यर्थः । 'तदेव सन्तस्तदु तद्भवाम' इति श्रुतेः 'ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुतेश्च ब्रह्मरूपस्य जीवस्याज्ञाननिवृत्तिरेव ब्रह्माप्तिरित्यर्थः ॥ १२ ॥

त्रयोदशी।
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासिष॒ᳪं᳭ स्वाहा॑ ।। १३ ।।
उ० इतउत्तरम् तिसृभिः कण्डिकाभिर्मेधा याच्यते श्रीश्च चतुर्थ्यां । सदसस्पतिम् सदसस्पतिर्देवता सदो यज्ञगृहं तस्य पतिः तम् । अद्भुतं महान्तं अचिन्त्यशक्तिम् । प्रियमिन्द्रस्य । काम्यं कामसंपत्करम् कमनीयं वा धनमेधार्थिभिः । सनिं धनं मेधाम् अयासिषम् याचे । द्विकर्मा चायं धातुः ॥१३॥
म० इत उत्तरमृक्त्रये मेधा याच्यते । चतुर्थ्या श्रीर्याच्यते। प्रथमा गायत्री लिङ्गोक्तदेवता । अग्निं सनिं द्रव्यदानं मेधां बुद्धिं च अयासिषं याचे । द्विकर्मकः । कीदृशमग्निम् । सदसः यज्ञगृहस्य पतिं पालकम् अद्भुतमचिन्त्यशक्तिम् इन्द्रस्य प्रियं मित्रं काम्यं कामनीयं धनमेधार्थिभिः ॥ १३ ॥

चतुर्दशी।
यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते ।
तया॒ माम॒द्य मे॒धयाऽग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑ ।। १४ ।।
उ०. याम् मेधाम् । तिस्रोऽनुष्टुभ आग्नेय्यः । यां मेधां देवगणाः पितरश्च उपासते पूजयन्ति । तया माम् अद्य मेधया हे अग्ने, मेधाविनं कुरु स्वाहा सुहुतमस्तु ॥ १४ ॥
म० अनुष्टुप् । हे अग्ने, तया मेधया अद्य मां मेधाविनं बुद्धियुक्तं कुरु । स्वाहा सुहुतमस्तु । 'अस्मायामेधास्रजो विनिः' (पा० ५। २। १२१) इति विनिप्रत्ययः । मेधास्यास्तीति मेधावी तम् । तया कया। देवगणाः देवसमूहाः पितरश्च यां मेधामुपासते पूजयन्ति । देवपितृमान्या बुद्धिरस्माकमस्त्वित्यर्थः ॥ १४ ॥

पञ्चदशी ।
मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः ।
मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑ ।। १५ ।।
उ० मेधां मे । लिङ्गोक्तदेवता । मेधाम् मे मह्यं वरुणो ददातु । मेधां चाग्निः प्रजापतिश्च । मेधां इन्द्रश्च वायुश्च । मेधां च धाता ददातु मे मह्यम् स्वाहा सुहुतमस्तु ॥ १५॥
म० लिङ्गोक्तदेवतानुष्टुप् । वरुणो मे मह्यं मेधां ददातु। अग्निः प्रजापतिश्च मे मेधां ददातु । इन्द्रः वायुश्च मे मेधां ददातु । धाता मे मेधां ददातु स्वाहा सुहुतमस्तु ॥ १५ ॥

षोडशी।
इ॒दं मे॒ ब्रह्म॑ च क्ष॒त्रं चो॒भे श्रिय॑मश्नुताम् ।
मयि॑ दे॒वा द॑धतु॒ श्रिय॒मुत्त॑मां॒ तस्यै॑ ते॒ स्वाहा॑ ।। १६ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां द्वात्रिंशोऽध्यायः ॥ ३२ ॥
उ० इदं मे । श्रीः ऋक् । इदं ब्रह्म च क्षत्रं च उभे ब्रह्मक्षत्रे श्रियम् अश्नुताम् मदीयां श्रियमुपजीवताम् । मयि च देवाः दधतु स्थापयन्तु श्रियम् उत्तमाम् । ययाहं सर्वजनभोग्यो भवामि । तस्यै ते स्वाहा । या त्वमेवं सर्वजनैरभिलष्यसे तस्यै श्रियै ते तुभ्यं स्वाहा सुहुतमस्तु । अप्राप्य मेधां श्रियं च न यज्ञाः सिध्यन्तीत्येष संबन्धः ॥ १६ ॥
इति उवटकृतौ मन्त्रभाष्ये द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥
म० मन्त्रोक्तदेवतानुष्टुप् । श्रीकामोऽनया श्रियं याचते । ब्रह्म ब्राह्मणजातिः क्षत्रं क्षत्रियजातिः इदमिमे उभे ब्रह्मक्षत्रे मे मम श्रियमश्नुताम् । देवाः मयि उत्तमां श्रियं दधतु स्थापयन्तु । तस्यै प्रसिद्धायै ते तुभ्यं श्रियै स्वाहा सुहुतमस्तु । चौ समुच्चयार्थौ । श्रीमेधे विना यज्ञासिद्धेस्ते प्रार्थ्येते ॥ १६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सार्वमेधिकमन्त्रोक्तिर्द्वात्रिंशेऽध्याय ईरिता ॥ ३२ ॥