← अध्यायः ३८ शुक्लयजुर्वेदः
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →

अध्यायः 39
प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम्

39.1
स्वाहा प्राणेभ्यः साधिपतिकेभ्यः ।
पृथिव्यै स्वाहा ।
अग्नये स्वाहा ।
अन्तरिक्षे स्वाहा ।
वायवे स्वाहा ।
दिवे स्वाहा ।
सूर्याय स्वाहा ॥

39.2
दिग्भ्यः स्वाहा ।
चन्द्राय स्वाहा ।
नक्षत्रेभ्यः स्वाहा ।
अद्भ्यः स्वाहा ।
वरुणाय स्वाहा ।
नाभ्यै स्वाहा ।
पूताय स्वाहा ॥

39.3
वाचे स्वाहा ।
प्राणाय स्वाहा ।
प्राणाय स्वाहा ।
चक्षुषे स्वाहा ।
चक्षुषे स्वाहा ।
श्रोत्राय स्वाहा ।
श्रोत्राय स्वाहा ॥

39.4
मनसः कामम् आकूतिं वाचः सत्यम् अशीय ।
पशूनाꣳ रूपम् अन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥

5
प्रजापतिः संभ्रियमाणः सम्राट् संभृतो वैश्वदेवः सꣳसन्नो घर्मः प्रवृक्तस् तेज ऽ उद्यत ऽ आश्विनः पयस्या नीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन् ।
मैत्रः शरसि संताय्यमाने वायव्यो ह्रियमाण ऽ आग्नेयो हूयमानो वाग्घुतः ॥

39.6
सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे ।
मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे ॥

39.7
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।
सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा ॥

39. 8
अग्निꣳ हृदयेनाशनिꣳ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना ।
शर्वं मतस्नाभ्याम् ईशानं मन्युना महादेवम् अन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥

39.9
उग्रं लोहितेन मित्रꣳ सौव्रत्येन रुद्रं दौर्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान् प्रमुदा ।
भवस्य कण्ठ्यꣳ रुद्रस्यान्तःपार्श्व्यं महादेवस्य यकृच् छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥

39.10
लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा ।
माꣳसेभ्यः स्वाहा माꣳसेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ।
रेतसे स्वाहा पायवे स्वाहा ॥

39.11
आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा ।
शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥

39.12
तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा ।
निष्कृत्यै स्वाहा प्रायश्चित्त्यै स्वाहा भेषजाय स्वाहा ॥

39.13
यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्याꣳ स्वाहा ॥

भाष्यम्(उवट-महीधर)

महावीरः

एकोनचत्वारिंशोऽध्यायः।

तत्र प्रथमा।
स्वाहा॑ प्रा॒णेभ्य॒: साधि॑पतिकेभ्यः । पृ॒थि॒व्यै स्वाहा॒ ऽग्नये॒ स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ ।
दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ ।। १ ।।
उ० इतउत्तरं प्रवर्ग्यभेदं प्रायश्चित्तं स्वाहाप्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिं यावत् जुहोति । स्वाहा प्राणेभ्यः मनो वै प्राणानामधिपतिः । सुहुतमस्तु प्राणेभ्यः मनसा सहितेभ्यः। पृथिव्यै स्वाहेत्यादिस्पष्टम् ॥ १॥२॥३॥
म० प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम् । तत्र 'स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति' ( का० २६ । ७ । ४९) । तदर्थोऽयम् अध्वर्युः भूमिर्भूमिम् य ऋतेचिदिति मन्त्राभ्यां भग्नं घर्ममभिमृश्य परमेष्ठ्यादिचतुस्त्रिंशदाहुतीर्हुत्वा स्वाहा प्राणेभ्य इत्याद्यां पूर्णाहुतिं हुत्वा पृथिव्यै स्वाहेत्याहुतिविंशतिं सकृद्गृहीतेन हुत्वा मनस इत्यन्त्यां पूर्णाहुतिं करोतीति । मन्त्रार्थो यथा । साधिपतिकेभ्यः अधिपतिना हिरण्यगर्भेण सह वर्तमानेभ्यः प्राणेभ्यः स्वाहा सुहुतमस्तु इति पूर्णाहुतिमन्त्रः । ततो विंशतिः स्पष्टा मन्त्राः । पृथिव्यै सुहुतमस्तु । एवमग्रेऽपि अग्नये अन्तरिक्षाय वायवे दिवे सूर्याय ॥१॥

द्वितीया।
दि॒ग्भ्यः स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्य॒: स्वाहा॒ ऽद्भ्यः स्वाहा॒ वरु॑णाय॒ स्वाहा॑ ।
नाभ्यै॒ स्वाहा॑ पू॒ताय॒ स्वाहा॑ ।। २ ।।
म०. दिग्भ्यः चन्द्राय नक्षत्रेभ्यः अद्भ्यः वरुणाय नाभ्यै देवतायै पूताय शोधकाय । पुनातीति पूतः देवस्तस्मै ॥ २॥

तृतीया ।
वा॒चे स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॒
श्रोत्रा॑य॒ स्वाहा॑ ।। ३ ।।
म०. वाचे वागधिष्ठात्रे एवमग्रेऽपि । प्राणाय प्राणेन्द्रियाधिष्ठात्रे । प्राणादीनां द्वित्वान्मन्त्रावृत्तिः । चक्षुषे तदधिष्ठात्रे। श्रोत्राय ॥ ३ ॥

चतुर्थी।
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय । प॒शू॒नाᳪं᳭ रू॒पमन्न॑स्य॒ रसो॒ यश॒: श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑ ।। ४ ।।
उ० मनसः कामम् । पूर्णाहुतिहोमः अनुष्टुप् श्रीदेवत्या यजमानाशीः । मनसः कामं कामप्राप्तिः । आकूतिं आकवनम् । आत्मनो धर्मो मनसः संयोगे सति जायते । वाचः सत्यम् । यष्टव्यं मयेत्यादि । अशीय प्राप्नुयाम् । अनया पूर्णाहुत्या । किंच । पशूनां रूपं पशूपकारः । अन्नस्य रसः। यशश्च श्रीश्च श्रयतां आश्रयन्तु । मयि मामिति विभक्तिव्यत्ययो वा । यन्महावीरभेदनेनापचितं तत्सर्वमुपचीयतामित्यर्थः ॥ ४॥ . . -
म० द्वितीयः पूर्णाहुतिमन्त्रः । अहं मनसः कामममिलाषम् । आकुञ्चनमाकूतिः प्रयत्नस्तं चाशीय प्राप्नुयाम् । वाचः सत्यं चाशीय मद्वाक् सत्यं वदतु । मयि एतत्सर्वं श्रयतां तिष्ठतु। पशूनां रूपं पशुसंबन्धिनी शोभा अन्नस्य रसः स्वादुत्वम् यशः कीर्तिः श्रीर्लक्ष्मीश्च ॥४॥ ...

पञ्चमी। .
प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः स॒म्राट् सम्भृ॑तो वैश्वदे॒वः स॑ᳪं᳭स॒न्नो घ॒र्मः प्रवृ॑क्त॒स्तेज॒ उद्य॑त आश्वि॒नः पय॑स्यानी॒यमा॑ने पौ॒ष्णो वि॑ष्य॒न्दमा॑ने मारु॒तः क्लथ॑न् । मै॒त्रः शर॑सि सन्ता॒य्यमा॑ने वाय॒व्यो॒ ध्रि॒यमा॑ण आग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः ।। ५ ।।
उ० प्रजापतिः संभ्रियमाण इति महावीरावस्थानप्रतिपादिका श्रुतिः ॥ ५॥ . :
म० 'प्रजापतिः संभ्रियमाण इति यथाकालमिति' ( का० २६ । ७ । ५०)। संभ्रियमाणाद्यवस्थायां महावीरभेदे प्रजापतये स्वाहेत्याद्या यथाकालमाहुतयो होतव्या इति सूत्रार्थः । तद्यथा मन्त्रो दर्शयति । संभ्रियमाणो महावीरो यदि भिद्यते तदा प्रायश्चित्तहोमे प्रजापतिर्देवता । प्रजापतये स्वाहेति प्रायश्चित्ताहुतिर्होतव्येत्यर्थः । प्रजापतिः संभ्रियमाणो यथाकालं प्रायश्चित्तदेवतेत्युक्तत्वात् ( अनु० ४ । ८)। निष्ठिताभिमर्शनादारभ्याजापयोऽवसेचनान्तं संभ्रियमाणः। सम्राट् संभृतः पयोऽवसेकानन्तरं कुशासादनात्प्राक् संभृत इत्युच्यते । तत्र भेदे सम्राट प्रायश्चित्तदेवता सम्राजे स्वाहेति । वैश्वदेवः संसन्नः। आसादनादारभ्य मुञ्जप्रलवेष्वधिश्रयणात् प्राक् संसन्नः । तत्र भेदे विश्वदेवदैवतः विश्वेभ्यो देवेभ्यः स्वाहेति । घर्मः प्रवृक्तः। अधिश्रयणादारभ्य परिशासाभ्यां ग्रहणात्प्राक् प्रवृक्तः प्रवृज्यत इति । तत्र भेदे घर्माय स्वाहेति । तेज उद्यतः । उद्यम्यत इत्युद्यतः उद्यमनादारभ्य प्रागजापयोऽवसेकादुद्यतः । तत्र भेदे तेजसे स्वाहेति । आश्विनः पयस्थानीयमाने । अजापयस्यासिच्यमाने घर्मभेदे आश्विनः अश्विदेवत्यो घर्मः अश्विभ्यां स्वाहेति जुहोति । पौष्णी विष्यन्दमाने 'स्यन्दू प्रस्रवणे' विशेषेण स्यन्दमाने घृते बहिर्निःसरति सति भेदे घर्मः पौष्णः पूषदेवत्यः पूष्णे स्वाहेति जुहोति । मारुतः क्लथन् । क्लथनं मध्ये घृतस्यावर्तनम् तदा मरुद्देवत्यः तत्र भेदे मरुद्भ्यः स्वाहेति जुहोति । मैत्रः शरसि संताय्यमाने पयोऽवसेके योपरि तरिका जायते सा शरःशब्देनोच्यते तस्मिन् संताय्यमाने मथ्यमाने मैत्रो मित्रदेवत्यः 'तायृ पालनसंतत्योः' कर्मणि यकि | शानचि रूपम् । तत्र शरआदिहरणात् प्राक् भेदे मित्राय स्वाहेति जुहोति । वायव्यो ह्रियमाणः । आहवनीयं ह्रियमाणो होमात्प्राक् वायुदेवतः तत्र भेदे वायवे स्वाहेति जुहोति । आग्नेयो हूयमानः । हूयमानो घर्मोऽग्निदेवतः तत्र तद्भेदे अग्नये स्वाहेति जुहोति । वाग्घुतः हुतो हुतहोमादूर्ध्वं प्रागुत्तरघर्मारम्भात् वाक् वाग्दैवतः तत्र भेदे वाचे स्वाहेति जुहोति । एता आहुतयः सकृद्गृहीताज्यैः ॥ ५ ॥

षष्ठी।
स॒वि॒ता प्र॑थ॒मेऽह॑न्न॒ग्निर्द्वि॒तीये॑ वा॒युस्तृ॒तीय॑ आदि॒त्यश्च॑तु॒र्थे च॒न्द्रमा॑: पञ्च॒म ऋ॒तुः ष॒ष्ठे म॒रुत॑: सप्त॒मे बृह॒स्पति॑रष्ट॒मे मि॒त्रो न॑व॒मे वरु॑णो दश॒म इन्द्र॑ एकाद॒शे विश्वे॑दे॒वा द्वा॑द॒शे ।। ६ ।।
उ० सविता प्रथमेऽहन्नित्याह । देवतासंबन्धविधाना श्रुतिः ॥ ६ ॥ महावीरप्रायश्चित्तानि समाप्तानि ॥
म० 'सविता प्रथमेऽहन्निति च प्रत्यहमिति' ( का० २६ । ७ । ३५)। प्रथमे अहन् दिने घर्मभेदे सविता देवता सवित्रे स्वाहेति जुहोति । एवमग्रेऽपि । अग्निर्द्वितीये द्वितीयेऽहनि घर्मभेदेऽग्निर्देवता । वायुस्तृतीये तृतीयेऽहनि वायुर्देवता । चतुर्थे आदित्यो देवता । चन्द्रमाः पञ्चमेऽह्नि । ऋतुः षष्ठेऽह्नि । मरुतः सप्तमेऽह्नि । बृहस्पतिरष्टमेऽह्नि । मित्रो नवमेऽह्नि । वरुणो दशमेऽह्नि । इन्द्र एकादशेऽह्नि । विश्वेदेवाः द्वादशेऽह्नि देवता । तत्र भेदे विश्वेभ्यो देवेभ्यः स्वाहेति जुहोति । उपसत्प्रवृद्धौ एता एवाहुतयः पुनरादित आरभ्यावर्त्यन्ते ॥ ६ ॥
महावीरप्रायश्चित्तानि समाप्तानि ॥

सप्तमी।।
उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॒न्तश्च॒ धुनि॑श्च ।
सा॒स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिप॒: स्वाहा॑ ।। ७ ।।
उ० उग्रश्च । अग्निकण्डिका । अरण्याध्ययनसामान्यादिह पाठः। मारुती गायत्री विमुखाख्या। भीमश्च । ध्वान्तश्च । धुनिश्च । सासह्वांश्च । अभियुग्वा च । विक्षिपश्च । अत्रापि चकारः समुच्चयार्थीयः । एवं सप्त मरुतः ॥ ७ ॥
म० 'विमुखेनारण्येऽनूच्यमिति' ( का० १८ । ४ । २४)। चयने मारुतान् षट् पुरोडाशान् शुक्रज्योतिश्चेत्यादिषण्मारुतमन्त्रैः ( १७ । ८०-८५) हुत्वारण्येऽनूच्यसंज्ञं सप्तमं पुरोडाशं विमुखसंज्ञेनोग्रश्चेति मन्त्रेण जुहुयात् । तथाचानुक्रमणी 'उग्रश्च मारुती गायत्री विमुखाख्यो मन्त्रोऽग्नौ विनियुक्तस्तस्मादाग्निक एवास्यर्षिः परमेष्ठी प्राजापत्यो वेति' ( ४।८।) आग्निकः प्रजापतिर्ऋषिः । अस्य मन्त्रस्यात्र पाठोऽरण्ये पाठयोग्यत्वात् । अथ मन्त्रार्थः । य एते उग्रादिनामकाः सप्त मरुतः तेभ्यः स्वाहा सुहुतमस्तु । उग्रः उत्कृष्टः । बिभेत्यस्मादसौ भीमः । ध्वनति शब्दं करोतीति ध्वान्तः । धूनयति कम्पयति शत्रूनिति धुनिः । सहते शत्रूनभिभवति ससह्वान् ‘सहतेः क्वसुश्च' (पा० ३।२।१०७) इति क्वसुप्रत्ययः। संहितायामभ्यासदीर्घश्छान्दसः । अभियुनक्ति अस्मत्संमुखं योगं प्राप्नोतीत्यभियुग्वा । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३।२।७५) इति युजेः क्वनिप्प्रत्ययः । विक्षिपः विविधं क्षिपति रिपूनिति विक्षिपः 'इगुपध-' (पा० ३। १।१३५) इति कप्रत्ययः ॥७॥

अष्टमी।
अ॒ग्निᳪं᳭ हृद॑येना॒शनि॑ᳪं᳭ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना ।
श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ।। ८ ।।
उ० अग्निं हृदयेन । आश्वमेधिकं आ अध्यायसमाप्तेः। अरण्येऽध्येयत्वादिह पाठः । द्वे कण्डिके श्रुतिर्देवताश्वावयवसंबन्धविधानात् ॥८॥
म० 'विमुखाच्च परेभ्यो मा नो मित्र इति प्रत्यृचमनुवाकाभ्यामन्त्यां द्यावापृथिवीयामिति' (का० २०।८।५-७)। अस्यार्थः-उग्रश्चेति मन्त्रो विमुखः ततः परेभ्यो देवताश्वाङ्गेभ्योऽग्निं हृदयेनेत्यादिभ्यश्चतुर्गृहीतमाज्यं गृहीत्वा जुहोति । तत्रापि पक्षद्वयम् । अग्नये स्वाहा हृदयाय स्वाहा अशनये स्वाहा हृदयाग्राय स्वाहा इत्यादि कात्यायनादीनामभिप्रायः । अग्निं हृदयेन प्रीणामि स्वाहेत्यादि हरिस्वामिमते प्रयोगः । ततश्चाग्निं हृदयेनेत्यादीन् विश्वेभ्यो देवेभ्यः स्वाहेत्यन्तान्होमान्कृत्वा मा न इत्यनुवाकाभ्यां (२५ । २४-३९) षोडशाहुतीर्हुत्वा द्यावापृथिवीभ्यां स्वाहेति चरमामाहुतिं जुहोतीति सूत्रार्थः । 'अरण्येऽनूच्यान्हुत्वा द्यावापृथिव्यामुत्तमामाहुतिं जुहोती ति श्रुतेः अरण्येऽनूच्यानरण्ये पठितानग्निं हृदयेनेत्यादीन्विश्वेभ्यो देवेभ्यः स्वाहेत्येवमन्तान्होमान्कृत्वा द्यावापृथिवीयामुत्तमामाहुतिं जुहोतीति श्रुतेरर्थः । तथा चानुक्रमणी 'अग्निᳪं᳭ हृदयेनाश्वमेधिकानि तत्रत्य एवर्षिर्लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिᳪं᳭शत् (४।८)। तत्राग्निं हृदयेन उग्रं लोहितेन द्वे कण्डिके ब्राह्मणरूपे देवताश्वावयवसंबन्धविधानात् । अरण्येऽध्येयत्वादिह पाठः । लोमादीन्यङ्गान्येव पठितानि । आयासादयो देवता एव । अथ मन्त्रार्थः । हृदयेनाङ्गेनाग्निं देवं प्रीणामि । हृदयस्याग्रभागेनाशनिं देवं प्रीणामि । समग्रहृदयेन पशुपतिं देवं प्रीणामि । यक्ना यकृता कालखण्डेन भवं प्रीणामि । 'पद्देन्न-' (पा० ६ । १।६३) इत्यादिना यकृच्छब्दस्य यकन्नादेशः । मतस्ने हृदयास्थिविशेषौ ताभ्यां शर्वं देवं प्रीणामि । मन्युना अश्वसंबन्धिक्रोधेन ईशानं देवं प्रीणामि । अन्तर्वर्तमानेन पर्शव्येन पार्श्वास्थिसंबन्धिना मांसेन महादेवं देवं प्रीणामि । पर्शवः पार्श्वास्थीनि । वनिष्ठुः स्थूलान्त्रं तेनोग्रं देवं प्रीणामि । वसिष्ठहनुः वसिष्ठस्य देवस्य हनुः कपोलैकदेशो ज्ञातव्यः । यद्वा वसिष्ठा या हनुः कपोलाधोदेशः 'तत्परा हनुः' इत्यमरः । तत्परा कपोलाधोभागस्था हन्त्याहारमिति हनुः लिङ्गव्यत्ययः । वसिष्ठहन्वा कोशाभ्यां कोशो हृदयकोशः तत्स्थाभ्यां मांसपिण्डाभ्यां च शिङ्गीनि शिङ्गिसंज्ञानि दैवतानि प्रीणामि ॥८॥

नवमी। . .
उ॒ग्रँल्लोहि॑तेन मि॒त्रᳪं᳭ सौ॑व्रत्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान् प्र॒मुदा॑ । भ॒वस्य॒ कण्ठ्य॑ᳪं᳭ रु॒द्रस्या॑न्तः पा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पते॑: पुरी॒तत् ।। ९ ।।
उ० उग्रेति स्पष्टार्थः ॥ ९॥
म०. लोहितेनासृजा उग्रं देवं प्रीणामि । शोभनं व्रतं कर्म यस्य स सुव्रतस्तस्य भावः सौव्रत्यं शोभनगत्यादिकर्मकर्तृत्वं तेन मित्रं देवं प्रीणामि । दुष्टं स्खलनोच्छलनादि व्रतं यस्य स दुर्र्ततः तस्य भावो दौर्व्रत्यम् तेन रुद्रं देवं प्रीणामि । प्रकृष्टं क्रीडनं प्रक्रीडः तेनेन्द्रं देवं प्रीणामि । बलेन सामर्थ्यन मरुतो देवान्प्रीणामि । प्रमुदा प्रकृष्टा मुत् हर्षः प्रमुत् तया साध्यान्देवान्प्रीणामि । भवस्य कण्ठ्यम् अत्र षष्ठ्यन्तो देवः अङ्गं प्रथमान्तम् कण्ठ्यं कण्ठे भवं मांसं भवस्यास्तु । विभक्तिव्यत्ययो वा। कण्ठ्येन भवं देवं प्रीणामि । एवमग्रेऽपि । पार्श्वस्यान्तर्मध्ये भवं मांसमन्तःपार्श्व्यं तद्रुद्रस्यास्तु । यकृत् कालखण्डं महादेवस्यास्तु । वनिष्ठुः स्थूलान्त्रं शर्वस्यास्तु । पुरीतत् हृदयाच्छादकमन्त्रं पशुपतेर्देवस्यास्तु ॥ ९ ॥

दशमी।
लोम॑भ्य॒: स्वाहा॒ लोम॑भ्य॒: स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्य॒: स्वाहा॒ मेदो॑भ्य॒: स्वाहा॑ ।
मा॒ᳪं᳭सेभ्य॒: स्वाहा॑ मा॒ᳪं᳭सेभ्य॒: स्वाहा॒ स्नाव॑भ्य॒: स्वाहा॒ स्नाव॑भ्य॒: स्वाहा॒ ऽस्थभ्य॒: स्वाहा॒ ऽस्थभ्य॒: स्वाहा॑ म॒ज्जभ्य॒: स्वाहा॑ म॒ज्जभ्य॒: स्वाहा॑ ।
रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ।। १० ।।
उ० तथाचानुक्रमणी 'अग्निᳪं᳭ हृदयेनाश्वमेधिका तत्रत्य एवर्षिलोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशत् १०
म० लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशत् । लोमादीन्यङ्गानि । लोमभ्यः स्वाहा लोमानि जुहोमीत्यर्थः । २, त्वचे ४, लोहिताय ६, मेदोभ्यः मेदो धातुविशेषः, - मांसेभ्यः १०, स्नावभ्यः स्नावानः-स्नायवो नसा १२, अस्थभ्यः 'छन्दस्यपि दृश्यते' (पा० ७।१।७६) इत्यस्थिशब्दस्य हलादिविभक्तावप्यनङादेशः १४, मजभ्यः मज्जा षष्ठी धातुः १६, रेतसे रेतो वीर्यम् १७, पायवे पायुर्गुदम् १८॥१०॥

एकादशी।
आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ ।
शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ।। ११ ।।
उ०. आयासायेत्यादयः स्पष्टार्थाः ॥ ११ ॥ १२॥ १३॥
म० आयासाय आयासादयो देवविशेषाः १९, प्रायासाय २०, संयासाय २१, विवासाय २२, उद्यासाय २३, शुचे २४, शोचते २५, शोचमानाय २६, शोकाय २७ ॥ ११ ॥

द्वादशी।
तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ ।
निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ।। १२ ।।
म० तपसे २८, तप्यते २९, तप्यमानाय ३०, तप्ताय ३१, घर्माय ३२, निष्कृत्यै ३३, प्रायश्चित्त्यै ३४, भेषजाय ३५॥ १२॥

त्रयोदशी।
य॒माय॒ स्वाहा ऽन्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॑। विश्वे॑भ्यो दे॒वेभ्य॒: स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪं᳭ स्वाहा॑ ।।१३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
इति उवटकृतौ मन्त्रभाष्ये एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
म० यमाय ३६, अन्तकाय ३७, मृत्यवे ३८, ब्रह्मणे ३९, ब्रह्महत्यायै ४०, विश्वेभ्यो देवेभ्यः ४१, एतेभ्यो देवेभ्यः सुहुतमस्तु । एता आहुतीर्हुत्वा द्यावापृथिवीभ्यः स्वाहेत्यन्त्यामाहुतिं जुहुयात् ४२ । एतावता कर्मकाण्डं समाप्तम् ॥ १३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
गतोऽध्याय उपान्त्योऽयं प्रोक्तघर्मादिनिष्कृतिः ॥ ३९॥

टिप्पणी

प्रवर्ग्योपरि टिप्पणी

प्रवर्ग्यस्य कर्मकाण्डे निहिताः सामानि

कर्मकाण्डे, यदि एकः मृन्मयः महावीरपात्रः दीर्णं भवति, तदा तस्य स्थाने द्वितीयस्य वैकल्पिकपात्रस्य उपयोगं कुर्वन्ति। शतपथब्राह्मणे कथनमस्ति - स उद्वपति। ऋजवे त्वेत्यसौ वै लोक ऋजुः सत्यं ह्यृजुः सत्यमेष य एष तपत्येष उ प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाहर्जवे त्वेति - १४.१.२.२२

साधवे त्वेति। अयं वै साधुर्योऽयं पवत एष हीमांल्लोकान्त्सिद्धोऽनुपवत एष उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह साधवे त्वेति - १४.१.२.२३

३९.६ सविता प्रथमे अहन् इति

सविता भूत्वा प्रथमेऽहन्प्र वृज्यते । तेन कामाꣳ एति । यद्द्वितीयेऽहन्प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन्प्रवृज्यते । वायुर्भूत्वा प्राणानेति । यच्चतुर्थेऽहन्प्रवृज्यते । आदित्यो भूत्वा रश्मीनेति । यत्पञ्चमे हन्प्रवृज्यते । चन्द्रमा भूत्वा नक्षत्राण्येति १ यत्षष्ठेऽहन्प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति । यत्सप्तमेऽहन्प्रवृज्यते । धाता भूत्वा शक्वरीमेति । यदष्ठमेऽहन्प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन्प्रवृज्यते । मित्रो भूत्वा त्रिवृत इमाꣳ लोकानेति । यद्दशमेऽहन्प्रवृज्यते । वरुणो भूत्वा विराजमेति २ यदेकादशेऽहन्प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । यद्द्वादशेऽहन्प्रवृज्यते । सोमो भूत्वा सुत्यामेति । यत्पुरस्तादुपसदां प्रवृज्यते । तस्मादितः पराङ् अमूꣳ लोकाꣳ स्तपन्नेति । यदुपरिष्टादुपसदां प्रवृज्यते । तस्मादमुतोऽर्वाङ् इमाङ् लोकाꣳ स्तपन्नेति । य एवं वेद । ऐव तपति ३ नक्षत्राण्येति विराजमेति तपति शं नः तन्नो मा हासीत् - तैआ ५.१२.१

३९.८ भवं यक्ना

यकृतोपरि टिप्पणी

शर्वं मतस्नाभ्यां

मतस्नौ पार्श्वयोर्वर्तमानावाम्रफलाकृती वृक्कौ - ऋ. १०.१६३.३ सा.भा.