प्रमुखा विकल्पसूचिः उद्घाट्यताम्


अध्याय 13
अग्निचयने चिति पुष्करपर्णादि उपधान मन्त्राः

13.1
मयि गृह्णाम्य् अग्रे ऽ अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।
माम् उ देवताः सचन्ताम् ॥

13.2
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाँ२ ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥

13.3
ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन ऽ आवः ।
स बुध्न्या ऽ उपमा ऽ अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥

13.4
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

13.5
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।
समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥

13.6
नमोऽस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
ये ऽ अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥

13.7
या ऽ इषवो यातुधानानां ये वा वनस्पतीꣳ१ ऽरनु ।
ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

13.8
ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः ॥

13.9
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ२ ऽ इभेन ।
तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥

13.10
तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः ।
तपूꣳष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥

13.11
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः ।
यो नो दूरे ऽ अघशꣳसो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥

13.12
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते ।
यो नो ऽ अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥

13.13
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्र मृणीहि शत्रून् ।
अग्नेष् ट्वा तेजसा सादयामि ॥

13.14
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाꣳ रेताꣳसि जिन्वति ।
इन्द्रस्य त्वौजसा सादयामि ॥

13.15
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चक्रिषे हव्यवाहम् ॥

13.16
ध्रुवासि धरुणास्तृता विश्वकर्मणा ।
मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृꣳह ॥

13.17
प्रजापतिष् ट्वा सादयत्व् अपा पृष्ठे समुद्रस्येमन् ।
व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यसि ॥

13.18
भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीं मा हिꣳसीः ॥

13.19
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
अग्निष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

13.20
काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि ।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥

13.21
या शतेन प्रतनोषि सहस्रेण विरोहसि ।
तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥

13.22
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥

13.23
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥

13.24
विराड् ज्योतिर् अधारयत् ।
स्वराड् ज्योतिर् अधारयत् ।
प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
अग्निष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

13.25
मधुश् च माधवश् च वासन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे वासन्तिकाव् ऋतू ऽअभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

13.26
अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः ।
सहस्रवीर्यासि सा मा जिन्व ॥

27
मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्व् ओषधीः ॥

13.28
मधु नक्तम् उतोषसो मधुमत् पार्थिवꣳ रजः ।
मधु द्यौर् अस्तु नः पिता ॥

13.29
मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः ।
माध्वीर् गावो भवन्तु नः ॥

13.30
अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः ।
अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् ॥

13.31
त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् ।
पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥

13.32
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥

13.33
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥

13.34
ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः ।
स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन् ॥

13.35
इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय ।
सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् ॥

13.36
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्ति मन्यवे ॥

13.37
युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥

13.38
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।
घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः ॥

13.39
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा ।
अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च ॥

13.40
अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ।
सहस्रदा ऽ असि सहस्राय त्वा ॥

13.41
आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् ।
परि वृङ्धि हरसा माभि मꣳस्थाः शतायुषं कृणुहि चीयमानः ॥

13.42
वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये ।
शिशुं नदीनाꣳ हरिम् अद्रिबुध्नम् अग्ने मा हिꣳसीः परमे व्योमन् ॥

13.43
अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।
स पर्वभिर् ऋतुशः कल्पमानो गां मा हिꣳसीर् अदितिं विराजम् ॥

13.44
वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् ।
महीꣳ साहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन् ॥

13.45
यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि ।
येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥

13.46
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च ॥

13.47
इमं मा हिꣳसीर् द्विपादं पशुꣳ सहस्राक्षो मेधाय चीयमानः ।
मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद ।
मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.48
इमं मा हिꣳसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।
गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.49
इमꣳ साहस्रꣳ शतधारम् उत्सं व्यच्यमानꣳ सरिरस्य मध्ये ।
घृतं दुहानाम् अदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन् ।
गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.50
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।
त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् ।
उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.51
अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे ।
तेन देवा देवताम् अग्रम् आयꣳस् तेन रोहम् आयन्न् उप मेध्यासः ।
शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.52
त्वं यविष्ठ दाशुषो नॄꣳः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥

13.53
अपां त्वेमन्त् सादयामि ।
अपां त्वोद्मन्त् सादयामि ।
अपां त्वा भस्मन्त् सादयामि ।
अपां त्वा ज्योतिषि सादयामि ।
अपां त्वायने सादयामि ।
अर्णवे त्वा सदने सादयामि ।
समुद्रे त्वा सदने सादयामि ।
सरिरे त्वा सदने सादयामि ।
अपां त्वा क्षये सादयामि ।
अपां त्वा सधिषि सादयामि ।
अपां त्वा सदने सादयामि ।
अपां त्वा सधस्थे सादयामि ।
अपां त्वा योनौ सादयामि ।
अपां त्वा पुरीषे सादयामि ।
अपां त्वा पाथसि सादयामि ।
गायत्रेण त्वा छन्दसा सादयामि ।
त्रैष्टुभेन त्वा छन्दसा सादयामि ।
जागतेन त्वा छन्दसा सादयामि ।
आनुष्टुभेन त्वा छन्दसा सादयामि ।
पाश्रून त्वा छन्दसा सादयामि ॥

13.54
अयं पुरो भुवः ।
तस्य प्राणो भौवनायः ।
वसन्तः प्राणायनः ।
गायत्री वासन्ती ।
गायत्र्यै गायत्रम् ।
गायत्राद् उपाꣳशुः ।
उपाꣳशोस् त्रिवृत् ।
त्रिवृतो रथन्तरम् ।
वसिष्ठ ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ॥

13.55
अयं दक्षिणा विश्वकर्मा ।
तस्य मनो वैश्वकर्मणम् ।
ग्रीष्मो मानसः ।
त्रिष्टुब् ग्रैष्मी ।
त्रिष्टुभः स्वारम् ।
स्वाराद् अन्तर्यामः ।
ऽअन्तर्यामात् पञ्चदशः ।
पञ्चदशाद् बृहत् ।
भरद्वाज ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः ॥

13.56
अयं पश्चाद् विश्वव्यचाः ।
तस्य चक्षुर् वैश्वव्यचसम् ।
वर्षाश् चाक्षुष्यः ।
जगती वार्षी ।
जगत्या ऽ ऋक्समम् ।
ऋक्समाच् छुक्रः ।
शुक्रात् सप्तदशः ।
सप्तदशाद् वैरूपम् ।
जमदग्निर् ऋषिः ।
प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्यः ॥

13.57
इदं उत्तरात् स्वः ।
तस्य श्रोत्रꣳ सौवम् ।
शरच् छ्रौत्री ।
अनुष्टुप् शारदी ।
अनुष्टुभ ऽ ऐडम् ।
ऐडान् मन्थी ।
मन्थिन ऽ एकविꣳशः ऽ ।
एकविꣳशाद् वैराजम् ।
विश्वामित्र ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ॥

13.58
इयं उपरि मतिः ।
तस्यै वाङ् मात्या ।
हेमन्तो वाच्यः ।
पङ्क्तिर् हैमन्ती ।
पङ्क्त्यै निधनवत् ।
निधनवत ऽ आग्रयणः ।
आग्रयणात् त्रिणवत्रयस्त्रिꣳशौ ।
त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते ।
विश्वकर्म ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ।
[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ ]???