शुक्लयजुर्वेदः/अध्यायः ३३

(शुक्‍लयजुर्वेदः/अध्यायः ३३ इत्यस्मात् पुनर्निर्दिष्टम्)

अध्यायः 33
सार्वमेधिके सप्तदशकाः पुरोरुग्गणाः

33.1
अस्याजरासो दमाम् अरित्रा ऽ अर्चद्धूमासो ऽ अग्नयः पावकाः ।
श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥

33.2
हरयो धूमकेतवो वातजूता ऽ उप द्यवि ।
यतन्ते वृथग् अग्नयः ॥

33.3
यजा नो मित्रावरुणा यजा देवाꣳ २ऽ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ॥

33.4
युक्ष्वा हि देवहूतमाꣳ२ऽ अश्वाꣳ२ऽ अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥

33.5
द्वे विरूपे चरतः स्वर्थे ऽ अन्यान्या वत्सम् उप धापयेते ।
हरिर् अन्यस्यां भवति स्वधावाञ्छुक्रो ऽ अन्यस्यां ददृशे सुवर्चाः ॥

33.6
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥

33.7
त्रीणि शता त्री सहस्राण्य् अग्निं त्रिꣳशच् च देवा नव चासपर्यन् ।
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा ऽ आद् इद् होतारं न्य् असादयन्त ॥

33.8
मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।
कविꣳ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥

33.9
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया ।
समिद्धः शुक्र ऽ आहुतः ॥

33.10
विश्वेभिः सोम्यं मध्व् अग्न ऽ इन्द्रेण वायुना ।
पिबा मित्रस्य धामभिः ॥

33.11
आ यद् इषे नृपतिं तेज ऽ आनट् शुचि रेतो निषिक्तं द्यौर् अभीके ।
अग्निः शर्धम् अनवद्यं युवानꣳ स्वाध्यं जनयत् सूदयच् च ॥

33.12
अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यꣳ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाꣳसि ॥

33.13
त्वाꣳ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने ।
इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥

33.14
त्वे ऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम् ॥

33.15
श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः ।
आ सीदन्तु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरम् ॥

33.16
विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् ।
अग्निर् देवानाम् अव ऽ आवृणानः सुमृडीको भवतु जातवेदाः ॥

33.17
महो ऽ अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये ।
श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो ऽ अद्या वृणीमहे ॥

33.18
आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त ऽ इन्द्र ।
याहि वायुर् न नियुतो नो ऽ अच्छा त्वꣳ हि धीभिर् दयसे वि वाजान् ॥

33.19
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥

33.20
यद् अद्य सूर ऽ उदिते नागा मित्रो ऽ अर्यमा ।
सुवाति सविता भगः ॥

33.21
आ सुते सिञ्चत श्रियꣳ रोदस्योर् अभिश्रियम् ।
रसा दधीत वृषभम् ॥[ तं प्रत्नथा। अयं वेनः॥]

33.22
आतिष्ठन्तं परि विश्वे ऽ अभूषञ् छ्रियो वसानश् चरति स्वरोचिः ।
महत् तद् वृष्णो ऽ असुरस्य नामा विश्वरूपो ऽ अमृतानि तस्थौ ॥

33.23
प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे ।
इन्द्रस्य यस्य सुमखꣳ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥

33.24
बृहन्न् इद् इध्म ऽ एषां भूरि शस्तं पृथुः स्वरुः ।
येषाम् इन्द्रो युवा सखा ॥

33.25
इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः ।
महाꣳ२ऽ अभिष्टिर् ओजसा ॥

33.26
इन्द्रो वृत्रम् अवृणोच्छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः ।
अहन् व्यꣳसम् उशधग् वनेष्व् आविर् धेना ऽ अकृणोद् राम्याणाम् ॥

33.27
कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त ऽ इत्था ।
सं पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते ऽ अस्मे ।
महाꣳ२ऽ इन्द्रो य ऽ ओजसा ।
कदा चन स्तरीर् असि ।
कदा चन प्र युच्छसि ॥

33.28
आ तत् त ऽ इन्द्रायवः पनन्ताभि य ऽ ऊर्वं गोमन्तं तितृत्सान् ।
सकृत्स्वं ये पुरुपुत्रां महीꣳ सहस्रधारां बृहतीं दुदुक्षन् ॥

33.29
इमां ते धियं प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त ऽ आनजे ।
तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥

33.30
विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् ।
वातजूतो यो ऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥

33.31
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यꣳ स्वाहा ॥

33.32
येना पावक चक्षसा भुरण्यन्तं जनाꣳ२ऽ अनु ।
त्वं वरुण पश्यसि ॥

33.33
दैव्याव् अध्वर्यू ऽ आ गतꣳ रथेन सूर्यत्वचा ।
मध्वा यज्ञꣳ सम् अञ्जाथे ।
तं प्रत्नथा । अयं वेनः। चित्रं देवानाम्(अ.वे.)
अयं वेनः ।
चित्रम् देवानाम् ॥

33.34
आ न ऽ इडाभिर् विदथे सुशस्ति विश्वानरः सविता देव ऽ एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥

33.35
यद् अद्य कच् च वृत्रहन्न् उदगा ऽ अभि सूर्य ।
सर्वं तद् इन्द्र ते वशे ॥

33.36
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।
विश्वम् आ भासि रोचनम् ॥

33.37
तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततꣳ सं जभार ।
यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥

33.38
तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे ।
अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सं भरन्ति ॥

33.39
बण् महाꣳ२ऽ असि सूर्य बड् आदित्य महाꣳ२ऽ असि ।
महस् ते सतो महिमा पनस्यते द्धा देव महाꣳ२ऽ असि ॥

33.40
बट् सूर्य श्रवसा महाꣳ२ऽ असि सत्रा देव महाꣳ२ऽ असि ।
मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥

33.41
श्रायन्त ऽ इव सूर्यं विश्वेद् इन्द्रस्य भक्षत ।
वसूनि जाते जनमान ऽ ओजसा प्रति भागं न दीधिम ॥

33.42
अद्या देवा ऽ उदिता सूर्यस्य निर् अꣳहसः पिपृता निर् अवद्यात् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥

33.43
आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥

33.44
प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट ऽ इयाते ।
विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥

33.45
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
आदित्यान् मारुतं गणम् ॥

33.46
वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः ।
करतां नः सुराधसः ॥

33.47
अधि न इन्द्रेषां विष्णो सजात्यानाम् ।
इता मरुतो ऽ अश्विना ।
[तं प्रत्नथा । अयं वेनः । ये देवासः । आ न इडाभिः । विश्वेभिः सोम्यं मधु ।] (अ.वे. 7.12, 16. 19, )
ओमासश् चर्षणीधृतः ॥

33.48
अग्न ऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
उभा नासत्या रुद्रो ऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥

33.49
इन्द्राग्नी मित्रावरुणादितिꣳ स्वः पृथिवीं द्यां मरुतः पर्वताꣳ२ऽ अपः ।
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शꣳसꣳ सवितारमूतये ॥

33.50
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शꣳसते स्तुवते धायि पज्र ऽ इन्द्रज्येष्ठा ऽ अस्माꣳ२ऽ अवन्तु देवाः ॥

33.51
अर्वाञ्चो ऽ अद्या भवता यजत्रा ऽ आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥

33.52
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥

33.53
विश्वे देवाः शृणुतेमꣳ हवं मे ये ऽ अन्तरिक्षे य ऽ उप द्यवि ष्ठ ।
ये ऽ अग्निजिह्वा ऽ उत वा यजत्रा ऽ आसद्यास्मिन् बर्हिषि मादयध्वम् ॥

33.54
देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वꣳ सुवसि भागम् उत्तमम् ।
आद् इद् दामानꣳ सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥

33.55
प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारꣳ रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥

33.56
इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ॥

33.57
मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीꣳ साधन्ता ॥

33.58
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
आ यातꣳ रुद्रवर्तनी । [ तं प्रत्नथा । अयं वेनः ॥ ](अ.वे. 7.12.16)

33.59
विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यꣳ सध्र्यक् कः ।
अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवं प्रथमा जानती गात् ॥

33.60
नहि स्पशम् अविदन्न् अन्यम् अस्माद् वैश्वानरात् पुर ऽ एतारम् अग्नेः ।
एम् एनम् अवृधन्न् अमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥

33.61
उग्रा विघनिना मृध ऽ इन्द्राग्नी हवामहे ।
ता नो मृडात ऽ ईदृशे ॥

33.62
उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवाꣳ२ऽ इयक्षते ॥

33.63
ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ ।
ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमꣳ सगणो मरुद्भिः ॥

33.64
जनिष्ठा ऽ उग्रः सहसे तुराय मन्द्र ऽ ओजिष्ठो बहुलाभिमानः ।
अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥

33.65
आ तू न ऽ इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि ।
महान् महीभिर् ऊतिभिः ॥

33.66
त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा ऽ असि स्पृधः ।
अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥

33.67
अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा ।
विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥

33.68
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत् ॥

33.69
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥

33.70
प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः ।
वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥

33.71
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥

33.72
काव्ययोर् आजानेषु क्रत्वा दक्षस्य दुरोणे ।
रिशादसा सधस्थ ऽ आ ॥

33.73
दैव्याव् अध्वर्यू आ गतꣳ रथेन सूर्यत्वचा ।
मध्वा यज्ञꣳ सम् अञ्जाथे । [ + तं प्रत्नथा । अयं वेनः ॥]

33.74
तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् ।
रेतोधा ऽ आसन् महिमान ऽ आसन्त् स्वधा ऽ अवस्तात् प्रयतिः परस्तात् ॥

33.75
आ रोदसी ऽ अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो ऽ अधारयन् ।
सो ऽ अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥

33.76
उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा ।
आङ्गूषैर् आविवासतः ॥

33.77
उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये ।
सुमृडीका भवन्तु नः ॥

33.78
ब्रह्माणि मे मतयः शꣳ सुतासः शुष्म ऽ इयर्ति प्रभृतो मे ऽ अद्रिः ।
आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो ऽ अच्छ ॥

33.79
अनुत्तमा ते मघवन् नकिर् नु न त्वावाꣳ२ऽ अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥

33.80
तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ ऽ उग्रस् त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥

33.81
इमा ऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥

33.82
यस्यायं विश्व ऽ आर्यो दासः शेवधिपा ऽ अरिः ।
तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो ऽ अज्यते रयिः ॥

33.83
अयꣳ सहस्रम् ऋषिभिः सहस्कृतः समुद्र ऽ इव पप्रथे ।
सत्यः सो ऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥

33.84
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥

33.85
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
अन्तः पवित्र ऽ उपरि श्रीणानो ऽयꣳ शुक्रो ऽ अयामि ते ॥

33.86
इन्द्रवायू सुसंदृशा सुहवेह हवामहे ।
यथा नः सर्व ऽ इज् जनो ऽनमीवः संगमे सुमना ऽ असत् ॥

33.87
ऋधग् इत्था स मर्त्यः शशमे देवतातये ।
यो नूनं मित्रावरुणाव् अभिष्टय ऽ आचक्रे हव्यदातये ॥

33.88
आ यातम् उप भूषतं मध्वः पिबतम् अश्विना ।
दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥

33.89
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥

33.90
चन्द्रमा ऽ अप्स्व् अन्तर् आ सुपर्णो धावते दिवि ।
रयिं पिशंगं बहुलं पुरुस्पृहꣳ हरिर् एति कनिक्रदत् ॥

33.91
देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये ।
देवं-देवꣳ हुवेम वाजसातये गृणन्तो देव्या धिया ॥

33.92
दिवि पृष्टो ऽ अरोचताग्निर् वैश्वानरो बृहन् ।
क्ष्मया वृधान ऽ ओजसा चनोहितो ज्योतिषा बाधते तमः ॥

33.93
इन्द्राग्नी ऽ अपाद् इयं पूर्वागात् पद्वतीभ्यः ।
हित्वी शिरो जिह्वया वावदच् चरत् त्रिꣳशत् पदा न्य् अक्रमीत् ॥

33.94
देवासो हि ष्मा मनवे समन्यवो विश्वे साकꣳ सरातयः ।
ते नो ऽ अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥

33.95
अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् ।
देवास् त ऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥

33.96
प्र व ऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रꣳ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥

33.97
अस्येद् इन्द्रो वावृधे वृष्ण्यꣳ शवो मदे सुतस्य विष्णवि ।
अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ।
[इमा ऽ उ त्वा । यस्यायम् । अयꣳ सहस्रम् । ऊर्ध्व ऽ ऊ षु णः ॥] (अ.वे. )

भाष्यम्(उवट-महीधर)

त्रयस्त्रिंशोऽध्यायः।

तत्र प्रथमा।
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नय॑: पाव॒काः ।
श्वि॒ती॒चय॑: श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमा॑: ।। १ ।।
उ० इत उत्तरं सप्तदशकाः पुरोरुग्गाना अस्मिन्नध्याये पठ्यन्ते । तत्र सार्वमेधिकानां चतुर्णामह्नां चत्वार आद्याः पुरोरुच इत्येवमेते विदुः। यथास्याग्निष्टुदग्निष्टोमः प्रथममहर्भवति तस्याग्नेया ग्रहा भवन्ति आग्नेय्यः पुरोरुच । एवमिन्द्रस्तदुक्थ्यो द्वितीयमहर्भवति तस्य एन्द्र्याग्रहा भवन्ति ऐन्द्र्यः पुरोरुचः । सूर्यस्तदुक्थ्यस्तृतीयमहर्भवति तस्य सौर्या ग्रहा भवन्ति सौर्यः पुरोरुचः । वैश्वदेवश्चतुर्थमहर्भवति तस्य वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुच इति । य एतैस्त्रयोनुवाका अनारभ्याधीताः । एताश्च पुरोरुचोयच्छन्दस्काः प्रकृतिदृष्टास्तच्छन्दस्का इहापि प्रायो दृश्यन्ते अन्त्यमनुवाकं वर्जयित्वा । अस्या जरासः । ऐन्द्रवायवस्य द्वे पुरोरुचौ । अस्य यजमानस्य अजरासः जरारहिताः। दमां ग्रहाणाम् अरित्राः अरणाः। नावामिव केनिपाताः । यद्वा दमां दमनीयानां रक्षसाम् अरणास्तारकाः । अर्चद्धूमासः अर्चन्पूजनीयो धूमो येषां ते अर्चद्धूमासः पूज्यधूमाः। पावकाः पावयितारश्च अग्नयो भवन्तु । अस्य च श्वितीचयः श्वेतत्वप्रचयकारिणः । श्वात्रासः । श्वात्रशब्दः क्षिप्रवचनः । क्षिप्रकर्माणः । भुरण्यवः भर्तारः वनसदः रेफ उपजनः । वनमुदकं तत्र सन्ना उदकाभिषुता इत्यर्थः । वायवो न वायव इवोद्दीपयितारः गृहे रक्ष्यमाणाः सोमाः सन्तु । यद्वा सर्वाण्यरण्यग्निविशेषणानि । श्वितीचयः श्वेतत्वमञ्चनाः । वायव इव श्वात्रासः क्षिप्रगमनाः । वनर्षदो वनसदः । 'वनसदो वेटो रेफेणे'ति प्रातिशाख्यसूत्रेण रेफागमः । सोमा इव यजमानेष्टदाः । समानमितरत् ॥ १ ॥
म० सर्वमेधेऽग्निष्टोमसंस्थेऽग्निष्टुत्संज्ञे प्रथमेऽहनि अस्याजरास इत्याद्या महो अग्ने इत्यन्ताः सप्तदश ऋचोऽग्निदेवत्याः पुरोरुचो भवन्ति । पुरोरुक्शब्देन ऋग्रूपा ग्रहणमन्त्रा उच्यन्ते न यजूरूपाः 'ऋग्घि पुरोरुक्' इति श्रुतेः । उक्थ्यमहावैश्वदेवपात्नीवतहारियोजनेषु यजूरूपे ग्रहणमन्त्रे सत्यपि 'तं वा अपुरोरुक्कं गृह्णातीति श्रुतेस्तत्र न दोषः । अतएवाग्नेयीभिर्ऋच एव निवर्त्यन्ते नोपयामादीनि । आद्ये द्वे ऐन्द्रवायवग्रहस्य पुरोरुचौ । वत्सप्रीदृष्टाग्नेयी त्रिष्टुप् आ वायवित्यस्याः (७ । | ७) स्थाने । अस्य यजमानस्य अग्नयः ईदृशाः सन्तु । कीदृशाः । अजरासः नास्ति जरा येषां ते अजराः वार्धक्यहीनाः । दमां गृहाणामरित्राः रक्षकाः नावामिव केनिपाताः। अरिभ्यः त्रायन्तेऽरित्राः । यद्वा दमानां दमनीयानां रक्षसामरित्राः तारकाः। विभक्तेर्नुडभावात्सवर्णदीर्घः । अर्चद्भूमासः अर्चन् अर्चनीयः पूजनीयो धूमो धूमोपलक्षिता ज्वाला येषां तेऽर्चद्धूमाः । पावकाः शोधकाः । श्वितीचयः श्वितिं श्वेतवर्णं चिन्वन्ति श्वितिचयः । चिनोतेः क्विप् अनित्यमागमशासनमिति तुगभावः श्वितिशब्दस्य छान्दसो दीर्घः । श्वेतत्वमुज्ज्वलत्वं यजमानस्य वर्धयन्तः । श्वात्रासः श्वात्रशब्दः क्षिप्रवाचकः । श्वात्राः क्षिप्रफलप्रदाः भुरण्यवः भरणकर्तारः । वनर्षदः वनसदः वने काष्ठे सीदन्तीति वनसदः 'वनसदोऽवेटो रेफेण' (३ । ३ । ११) इति प्रातिशाख्यसूत्रेण रेफागमः । वायवो न वायव इत्र दीपयितारः । सोमा इव यजमानेष्टदाः॥१॥

द्वितीया।
हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यत॑न्ते॒ वृथ॑ग॒ग्नय॑: ।। २ ।।
उ० हरयो धूमकेतवः । ये अग्नयः हरयो हरितवर्णाः । धूमकेतवः धूमप्रज्ञानाः । वातजूता वातगमनाः । उपद्यवि द्युलोकंप्रति । यतन्ते यत्नमाचरन्ति । वृथक् । पृथगिति प्राप्ते वर्णव्यापत्तिः। पृथक् नाना ताम् स्तुम इति शेषः ॥ २ ॥
म०. गायत्री विश्वरूपदृष्टा इन्द्रवायू इत्यस्याः (७।८) स्थाने । अग्नयः पृथक् पृथक् नानाप्रकारेण द्यवि स्वर्गे उपयतन्ते स्वर्गं गन्तुं यत्नं कुर्वन्ति । कीदृशाः । हरयः हरितवर्णाः । धूमकेतवः धूम एव केतुर्ज्ञापको येषां ते । यत्र धूमस्तत्राग्निरिति व्याप्तेः । वातजूताः वातेन जूतं गमनं प्रसारो येषां ते। 'आ वायो इन्द्रवायू इमे' (७ । ७-८) अनयोः स्थाने एते द्वे उक्ते ॥ २ ॥

तृतीया।
यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ२ ऋ॒तं बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वं दम॑म् ।। ३ ।।
उ० यजा नः मैत्रवारुणी गायत्री । यज नः अस्माकम् मित्रावरुणा मित्रावरुणौ । यज च देवान् यज च ऋतं यज्ञम् बृहन्महान्तम् । हे अग्ने, यक्षि यज च स्वं दमं । स्वकीयं गृहम् ॥ ३॥
म० गायत्री गोतमदृष्टा मैत्रावरुणस्य पुरोरुक् अयं वाम् (७ । ९) इत्यस्याः स्थाने । हे अग्ने, नोऽस्माकं मित्रावरुणा यज । यज देवान् । यज बृहत् महत् ऋतं यज्ञम् स्वं दमं गृहं यक्षि यज ॥३॥

चतुर्थी।
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२।। अश्वाँ॑२ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ।। ४ ।।
उ० अथाश्विनस्य । युक्ष्वाहीति व्याख्यातम् ॥ ४ ॥
म० आश्विनग्रहस्य पुरोरुक् या वां कशेत्यस्याः स्थाने (७।११) व्याख्यातेयम् ( १३ । ३७) ॥ ४ ॥

पञ्चमी ।
द्वे विरू॑पे चरत॒: स्वर्थे॑ अ॒न्याऽन्या॑ व॒त्समुप॑ धापयेते ।
हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑: ।। ५ ।।
उ० द्वे विरूपे । त्रिष्टुप् शुक्रस्य । द्वे रात्र्यहनी विरूपे नानारूपे । कृष्णा रात्रिः शुक्लमहः । चरतः आदित्येन सहाहश्चरति इतरत्र अग्निनातु रात्रिः। स्वर्थे शोभनार्थे । अन्यान्या वत्समुपधापयेते । अन्या एकारात्रिः एकमग्निरूपं वत्सम् अन्या एकमहः एकमादित्यरूपं वत्सम् उपधापयेते । रात्रिरग्निदेवत्यमग्निहोत्रम् अहः सूर्यदेवत्यमग्निहोत्रं वत्समित्याशयः । किंच हरिर्हरितवर्णोऽग्निः अन्यस्यां रात्रौ स्वधावान् अन्नवानुपभोग्यः तापपाकप्रकाशैर्भवति । शुक्रः शुक्लवर्ण आदित्यः अन्यस्यामहनि ददृशे दृश्यते सुवर्चाः सुतेजाः । यद्वा द्वे द्यावापृथिव्यौ विरूपे नानारूपे परस्परापेक्षया चरतः स्वर्थे कल्याणप्रयोजने । अन्या पृथिवी अग्निंवत्सम् अन्या द्यौरादित्यं वत्सम् उपधापयेते पोषयतः । किंच हरिरग्निः अन्यस्यां पृथिव्यां स्वधावान् भवति । शुक्र आदित्यश्च अन्यस्यां दिवि ददृशे सुवर्चाः दृश्यते सुतेजाः ॥ ५ ॥
म० शुक्रग्रहपुरोरुक् कुत्सदृष्टा त्रिष्टुप् तं प्रत्नथेत्यस्याः (७ । १२) स्थाने । द्वे रात्र्यहनी चरतः निरन्तरं प्रवर्तेते । कीदृशे । विरूपे विविधं रूपं ययोस्ते । कृष्णा रात्रिः शुक्लमहः । स्वर्थ शोभनोऽर्थो ययोस्ते कल्याणप्रयोजने। अन्यान्या अन्या च अन्या च वत्समुपधापयेते क्षीरं पाययतः । अन्या एका रात्रिः वत्समग्निमुपधापयते रात्रावग्निदेवत्यमग्निहोत्रम् । अन्या दिवसरूपा वत्समादित्यमुपधापयते अह्नि सूर्यदेवत्यमग्निहोत्रम् । किंच तदेवाह । अन्यस्यां रात्रौ हरिः हरितवर्णोऽग्निः स्वधावान् अन्नवान् भवति अन्यस्यामहनि शुक्रः शुक्लः आदित्यः सुवर्चाः शोभनतेजाः ददृशे दृश्यते । यद्वा द्वे द्यावापृथिव्यौ अग्निर्भूमौ स्वधावान् रविर्दिवि सुवर्चाः दृश्यते ॥५॥

षष्ठी। ।
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शे-वि॑शे ।। ६ ।।
उ० मन्थिनः अयमिहेति व्याख्यातम् ॥ ६ ॥
म० मन्थिग्रहपुरोरुक् अयं वेन (७ । १६ ) इत्यस्याः स्थाने । व्याख्याता ( ३ । १५) ॥ ६ ॥

सप्तमी।
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रि॒ᳪं᳭शच्च॑ दे॒वा नव॑ चाऽसपर्यन् ।
औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॒सादयन्त ।। ७ ।।
उ० वैश्वदेवं गृह्णाति । त्रीणि शता शतानि त्री त्रीणि सहस्राणि त्रिंशत् नव च । देवाः असपर्यन् । सपर्यतिः । परिचरणकर्मा । परिचरितवन्तः । कथमितिचेत् । औक्षन् असिञ्चन् अग्निम् घृतैः । अस्तृणन् बर्हिश्च अस्मै अग्नये । आत् इत् अथ एव अनन्तरमेव । होतारं वृत्वा न्यसादयन्त नितरां विनियुक्तवन्तः ॥ ७ ॥
म० विश्वामित्रदृष्टा त्रिष्टुप् विश्वदेवदेवतस्याग्रयणग्रहस्य पुरोरुक् । ये देवास ( ७ । १९) इति स्थाने । त्रीणि शता । त्रीणि शतानि त्री त्रीणि सहस्राणि त्रिंशत् नव च देवाः यथा ३३३९ । एते वस्वादिगणा देवा अग्निमसपर्यन् परिचरन्ति । सपर्यतिः परिचरणकर्मा । यद्वागमोक्ता देवाः 'नवैवाङ्गास्त्रिवृद्धाः स्युर्देवानां दशकैर्गणैः । ते ब्रह्मविष्णुरुद्राणां शक्तीनां वर्णभेदतः' इति । ते च ३३३ ३३३ ३३३ एतावन्तो भवन्ति । कथं परिचरन्ति तदाह । ते घृतैरग्निमौक्षन् असिञ्चयन् । 'उक्ष सेचने' लुङ् । अस्मै अग्नये बर्हिरस्तृणन् आच्छादयन् । आत् इत् अनन्तरमेव होतारं वृत्वा हौत्रे कर्मणि न्यसादयन्त नियुक्तवन्तः । घृतसेचनबर्हिःस्तरणहोतृवरणमेवाग्निपरिचर्येति भावः ७

अष्टमी।
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒विᳪं᳭ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ।। ८ ।।
उ० अथ ध्रुवस्य । मूर्धानं दिव इति व्याख्यातम् ॥ ८॥
म०. प्रकृतिवदेव ध्रुवग्रहपुरोरुक् व्याख्याता (७। २४ ) ॥ ८॥

नवमी।
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ।। ९ ।।
उ० ऐन्द्राग्नस्य । अग्निर्वृत्राणि गायत्री । अग्निः वृत्राणि यजमानस्य वृजिनानि । जंघनत् अत्यर्थं हन्ति । किंभूतः द्रविणस्युः धनं हविर्लक्षणमिच्छन् । केन हेतुना जंघनत् । विपन्यया । विपनिरर्चतिकर्मा । यजमानपूजया निमित्तभूतया । पुनः किंभूतोऽग्निः । समिद्धः दीप्तः शुक्रः शुक्लः आहुतः अभिहुतः सन् ॥ ९॥
म० गायत्री भरद्वाजदृष्टा ऐन्द्राग्नग्रहपुरोरुक् इन्द्राग्नी आगतमित्यस्याः (७ । ३१) स्थाने । अग्निर्वृत्राणि पापानि जङ्घनत् अत्यर्थं हन्ति । यड्लुगन्तम् । कया । विपन्यया पनतिरर्चतिकर्मा । विविधया पूजया पापं हन्ति । कीदृशोऽग्निः । द्रविणस्युः द्रविणो धनमिच्छति द्रविणस्यति 'सुप आत्मनः क्यच्' 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इति क्यजन्तादुप्रत्ययः । हविर्लक्षणं धनमिच्छन् । समिद्धः दीप्तः । शुक्रः शुद्धः । आहुतः निमन्त्रितः ॥ ९ ॥

दशमी।
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ । पिबा॑ मि॒त्रस्य॒ धाम॑भिः ।। १० ।।
उ० वैश्वदेवस्य । विश्वेभिः सोम्यम् गायत्री । विश्वेभिः देवैः सह । सोमसंबन्धि मधु हे अग्ने, इन्द्रेण च सह वायुना च सह पिब । मित्रस्य धामभिर्नामभिः स्तुतः सन् । तदुक्तम् 'त्वमग्ने वरुणो जायसे यस्त्वं मित्रो भवसि दस्म ईड्यः' इति ॥ १० ॥
म० गायत्री मेधातिथिदृष्टा वैश्वदेवग्रहपुरोरुक् ओमासश्चर्षणी ( ७ । ३३) इत्यस्याः स्थाने । हे अग्ने, विश्वेभिः विश्वैर्देवैः इन्द्रेण वायुना च सह सोम्यं सोममयं मधु पिब । कीदृशस्त्वम् । मित्रस्य धामभिः नामभिः स्तुत इति शेषः । 'त्वमग्ने वरुणो जायसे यस्त्वं मित्रो भवति दस्म ईड्यः' इति श्रुतेः ॥ १० ॥

एकादशी।
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् शुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नᳪं᳭ स्वा॒ध्यं॒ जनयत् सू॒दय॑च्च ।। ११ ।।
उ० आ यत् । द्वाभ्यां मरुत्वतीयाभ्याम् द्वे त्रिष्टुभौ । व्यवहितपदप्रायः आहुतिपरिणामवादिन्यौ । आ उपसर्गः आनट् इत्यनेनाख्यातेन संबध्यते । यत् यदा इषे अन्नाय निषिक्तं नितरां सिक्तं देवतोद्देशेन क्षिप्तम् शुचि मन्त्रैः संस्कृतम् तेजः जगदुत्पत्तिबीजम् । नृपतिम् अग्निम् आ आनट् अश्नोतेरेतद्रूपम् । व्याप्नोति । ततोऽपि रेतो मध्यस्थानं व्याप्नोति विद्युल्लक्षणं तेजः । द्यौरभीके द्यौरपि तस्याहुतिपरिणामभूतस्य रसस्य अभीके निकट एवं वर्तते । तत् अग्निः शर्धम् शर्धं बलं तस्य हेतुभूतम् । अनवद्यं प्रशस्यम् युवानम् परिपक्वं रसम् स्वाध्यं सुष्ठु ध्यानीयम् । सर्वोऽपि वृष्टिमभिलषति । जनयत् जनयति अष्टभिर्मासैः । सूदयच्च । 'षूद क्षरणे' । निष्पन्नमुदकं चतुर्भिर्मासैः क्षरति च वृष्टिद्वारेण ॥ ११ ॥
म०. त्रिष्टुप् पराशरदृष्टा मरुत्वतीयग्रहपुरोरुक् इन्द्र मरुत्व (७ । ३५) इत्यस्याः स्थाने । आ उपसर्गः आनडित्यनेन संबध्यते यत् यदा तेजः तेजसो हेतुभूतं हविर्नृपतिं नुर्यजमानस्य पालकमग्निमानट् अश्नुते व्याप्नोति । यदाग्नौ हविर्हूयत इत्यर्थः । तदा अग्निः रेतो जगद्वीजभूतं जलम् द्यौरभीके । प्रथमा षष्ठ्यर्थे । दिवः समीपेऽन्तरिक्षे जनयत् जनयति । मेघरूपेण च पुरः सूदयत् सूदयति क्षरति वृष्टिद्वारेण 'षूद क्षरणे' । कीदृशं तेजः । इषे वृष्ट्यै निषिक्तं देवतोद्देशेनाग्नौ सिक्तं हुतम् । शुचि मन्त्रसंस्कृतम् । कीदृशं रेतः । शर्धं बलहेतुभूतम् । अनवद्यं निर्दोषम् 'अवद्यपण्यवर्या गर्ह्यपणितव्या निरोधेषु' (पा० ३ । १। १०१) इति गर्ह्यार्थेऽवद्यमिति निपातः । न अवद्यमनवद्यमगर्ह्यं प्रशस्यम् । युवानं युवतुल्यं परिपक्वरसं दृढमित्यर्थः । स्वाध्यं सुष्ठु आ समन्तात् ध्यायते चिन्त्यत इति स्वाध्यं चिन्तनीयम् । सर्वो वृष्टिमिच्छति । | हविषा तर्पितोऽग्निरष्टमासैर्जलं निष्पाद्य वर्षासु वर्षतीत्यर्थः । व्यवहितपदो मन्त्रः ॥ ११॥

द्वादशी।
अग्ने॒ शर्ध॑ मह॒ते सौ॑भगाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सं जा॑स्प॒त्यᳪं᳭ सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महा॑ᳪं᳭सि ।। १२ ।।
उ० अग्ने शर्ध । हे भगवन्नग्ने, शर्ध उत्सहस्व बलमाविष्कुरु । महते सौभगाय । महत्सौभाग्यं लोकस्थितिः । एवं कुर्वतस्तव द्युम्नानि उत्तमानि सन्तु । द्युम्नं द्योततेर्यशो वान्नं वा । हविर्लक्षणानि धनानि सन्तु यशांसि वा। किंच एतच्च त्वं प्रार्थ्यसे । संजास्पत्यम् । जायापतिमिति प्राप्ते आकारयकारयोर्लोपः सुक् च । सुयमं सुनियमं अन्योन्यबद्धरागम् समाकृणुष्व कुरुष्व । शत्रूयतां शत्रुत्वमिच्छताम् । अभितिष्ठ पद्भ्यामभिभव महांसि महत्त्वानि ॥ १२ ॥
म० त्रिष्टुप् विश्ववारादृष्टा द्वितीयमरुत्वतीयपुरोरुक् मरुत्वन्तं वृषभं ( ७ । ३६ ) इत्यस्याः स्थाने । हे अग्ने, त्वं शर्ध उत्सहस्व बलमाविष्कुरु । किमर्थम् । महते सौभगाय महत्सौभाग्यं लोकस्थितिः । उद्यच्छतस्तव द्युम्नानि उत्तमानि उत्कृष्टानि सन्तु 'द्युम्नं द्योततेर्यशो वान्नं वा' (निरु० ५। ५) इति यास्कः । हविर्लक्षणान्यन्नानि यशांसि वा सन्तु । किंच जास्पत्यं जायापत्यमित्यर्थे जास्पत्यमिति निपातः । जायापत्यं पत्नीयजमानरूपं सुयमं सुनियमं जितेन्द्रियमन्योन्याबद्धरागं समाकृणुष्व कुरु । सुष्ठु यम्यते सुयमम् 'ईषद्दुःसुषु' (पा० ३ । ३ । १२७) इति खल्प्रत्ययः । किंच शत्रूयतां शत्रुत्वमिच्छतां महांसि तेजांसि अभितिष्ठ आक्रमस्व अभि (???)

त्रयोदशी।
त्वाᳪं᳭ हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ न॒: श्रोष्य॑ग्ने ।
इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ।। १३ ।।
उ० त्वाᳪं᳭ हि । माहेन्द्रस्य त्रिष्टुप् । त्वां हि त्वामेव मन्द्रतमं मन्दनीयतमं मृदुहृदयं वा । अर्कशोकैः मन्त्रैर्दीप्तैः । यथोक्तस्थानकर्णानुप्रदानवद्भिः । देवताद्यात्मवित्तसन्ता नगर्भगुरुशुश्रूषाधिगताविप्लावितब्रह्मचर्यैः । एवं हि मन्त्रा दीप्ताः स्युः । ववृमहे वृतवन्तो वयम् । त्वं च वृतः सन् महि महत् स्तोत्रम् नोऽस्माकम् श्रोषि शृणोषि । श्रुत्वा च प्रभावयसि कर्म हे अग्ने । किंच इत्थं नाम त्वं महती देवता । येन इन्द्रं न । उपमार्थीयो नकारः । इन्द्रमिव त्वा शवसा बलेन पृणन्ति पूरयन्ति । वायुमिव च पूरयन्ति राधसा हविर्लक्षणेन धनेन । नृतमाः मनुष्यतमाः मनुष्यश्रेष्ठाः ॥ १३ ॥
म० त्रिष्टुब् भरद्वाजदृष्टा माहेन्द्रग्रहपुरोरुक् इन्द्रो नृवदित्यस्याः (७ । ३९) स्थाने । हे अग्ने, वयं त्वां ववृमहे वृतवन्तः । कीदृशं त्वाम् । मन्द्रतममतिगम्भीरम् । कैः अर्कशोकैः अर्कवत् शोचन्तेऽर्कशोका मन्त्रास्तैः अविप्लुतब्रह्मचर्यैः । यथोक्तमधीता मन्त्रा अर्कवद्दीप्ताः स्युरिति भावः । हि यस्मात् नोऽस्माकं महि महत् स्तोत्रं त्वं श्रोषि शृणोषि । विकरणव्यत्ययः । किंच नृतमाः मनुष्यश्रेष्ठाः देवता देवतां त्वा त्वां राधसा हवीरूपेणान्नेन पृणन्ति पूरयन्ति । देवताशब्दात्सुपो लुक् । कीदृशं त्वाम् । शवसा बलेन इन्द्रं न इन्द्रमिव वायुमिव च स्थितम् । न इवार्थे उभयोः संबध्यते ॥ १३ ॥

चतुर्दशी।
त्वे अ॑ग्ने स्वाहुत प्रि॒यास॑: सन्तु सू॒रय॑: ।
य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान् दय॑न्त॒ गोना॑म् ।। १४ ।।
उ० त्वे अग्ने आदित्यग्रहस्य धृत्यौ । त्वे तव हे अग्ने, स्वाहुत साधुना प्रकारेणाभिहुत । प्रियासः प्रियाः सन्तु सूरयः पण्डिताः । ये च यन्तारः निगूहितसर्वविषयाः । ये च मघवानः धनवन्तः । जनानां मध्ये । न केवलं धनवन्त एव किंतर्हि । ऊर्वान् अन्नप्रकारान् दयन्त । दयतिर्दानार्थः । ददति । गोनाम् गवामिति प्राप्ते 'गोः पादान्ते' इति नुट् । गवां संबन्धिभिरुपसेचनैः सहितान् ॥ १४ ॥
म०. द्वे बृहत्यौ आदित्यग्रहपुरोरुचौ । आद्या वसिष्ठदृष्टा अन्त्या प्रस्कण्वदृष्टा कदाचन स्तरीरसि कदाचन प्रयुच्छसीत्यनयोः ( ८ । २ । ३ ) स्थाने । सुष्ठु हूयते स्वाहुतः हे स्वाहुत हे अग्ने, जनानां मध्ये जनाः गोनां गवां संबन्धिभिर्दुग्धदधिकृतैः सह ऊर्वान् अन्नविशेषान् पुरोडाशादीन् दयन्त ददति 'दय दानगतिहिंसादानेषु' लङ् अडभाव आर्षः । ते सूरयः पण्डिताः त्वे तव प्रियासः सन्तु । कीदृशास्ते । यन्तारः निगृहीतेन्द्रियाः। मघवानः धनवन्तः । गोनामित्यत्र 'गोः पादान्ते' | (पा. ७ । १।५७ ) इति नुडागमः ॥ १४ ॥

पञ्चदशी ।
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।
आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ।। १५ ।।
उ० श्रुधि श्रुत्कर्ण । हे अग्ने, श्रुधि शृणु । श्रुशृणु' इत्यादिना धिभावः । सत्वरं यज्ञमाग्नेयम् । हे श्रुत्कर्ण, शृणुतः । कर्णावर्थिनां वचांसि यस्य स तथोक्तः । त्वयि श्रुतवति वह्निभिः वौढृभिर्देवैः । सयावभिः । 'या प्रापणे' वनिप् । समानमाप्तिभिः सहिताः । आसीदन्तु बर्हिषि । मित्रः अर्यमा च । अन्ये च । प्रातर्यावाणः प्रातरेव हविःप्राप्तिर्येषां ते तथोक्ताः ॥ १५॥
म० शृणुतः इति श्रुतौ अर्थिवचःश्रोतारौ कर्णौ यस्य स श्रुत्कर्णः हे श्रुत्कर्ण, देवैः सह त्वमध्वरं यज्ञं श्रुधि शृणु । कीदृशैर्देवैः । वह्निभिः हवींषि वहन्ति ते वह्नयः तैः । सयावभिः सह यान्ति ते सयावानः तैः । किंच मित्रः अर्यमा प्रातर्यावाणश्च देवाः बर्हिषि आसीदन्तु उपविशन्तु प्रातर्यान्ति हविः प्राप्नुवन्ति प्रातःसवने येषां हविःप्राप्तिस्ते ॥ १५॥

षोडशी।
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृडी॒को भ॑वतु जा॒तवे॑दाः ।। १६ ।।
उ० विश्वेषामदितिः । आदित्यग्रहे दधिश्रयणमन्त्रः । अयमपि पुरोरुचां मध्ये गण्यते । तथाहि । कदाचन स्तरीरसि । कदाचन प्रयुच्छसि । यज्ञो देवानामिति तिसृणामादित्येभ्यस्त्वेत्यनुषङ्गः । त्रिष्टुप् । योऽग्निः विश्वेषाम् अदितिः अदीनः । यज्ञियानां यज्ञसंपादकानाम् । विश्वेषां च अतिथिः मानुषाणाम् अग्निहोत्रिणाम् । सोऽग्निः देवानाम् अवः अन्नं हविर्लक्षणम् आवृणानः समर्पयन् । सुमृडीको भवतु । जातवेदाः जातप्रज्ञानः ॥ १६ ॥
म० त्रिष्टुब्गोतमदृष्टादित्यग्रहदधिश्रयणे विनियुक्ता यज्ञो देवानामित्यस्याः ( ८।४) स्थाने । अग्निः ईदृशो भवतु । कीदृशः । विश्वेषां सर्वेषां देवानां मध्ये अदितिः नास्ति दितिः खण्डनं यस्य अदीनः । कीदृशानां देवानाम् । यज्ञियानां यज्ञार्हाणाम् । तथा विश्वेषां सर्वेषां मानुषाणां नराणामतिथिः पूज्यः देवानामवो हविर्लक्षणमन्नमावृणानः समर्पयन् । सुमृडीकः शोभनं मृडीकं सुखं यस्मात् सुखकारी । जातवेदाः जातप्रज्ञानः ॥ १६ ॥

सप्तदशी।
म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ ।
श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ।। १७ ।।
उ० महो अग्नेः । सावित्रस्य त्रिष्टुप् । महः महतः अग्नेः समिधानस्य संदीप्यमानस्य । शर्मणि शरणे आश्रये वर्तमानाः अनागाः अनपराधाः स्याम । येन च मित्रे वरुणे अनपराधा एव स्याम । स्वस्तये अविनाशाय । येन च श्रेष्ठे स्थाम सवितुः सवीमनि प्रसवे । तत् देवानां संबन्धि अवः हविर्लक्षणमन्नम् । अद्य आवृणीमहे अधिसंस्कुर्मः ॥ १७ ॥
म० लुशोधानाकदृष्टा त्रिष्टुप् सावित्रग्रहपुरोरुक् वाममद्येत्यस्याः ( ८ । ६ ) स्थाने । देवानां तत् अवः अन्नं हविर्लक्षणमद्य वयं वृणीमहे संस्कुर्मः । क्व सति । सवितुः सूर्यस्य सवीमनि सति आज्ञायां सत्याम् । 'देवस्य त्वा सवितुः प्रसवे' इत्युक्तेः । 'सवीमा प्रसवोऽनुज्ञा' इति कोशः । कीदृशे सवीमनि । श्रेष्ठे अन्यदेवाज्ञातः सूर्याज्ञोत्कृष्टा । तत्किम् । येनान्नेन वयं स्वस्तये स्वस्तिमन्तो भवेम । कीदृशा वयम् । अग्नेः शर्मणि शरणे आश्रये मित्रे वरुणे च अनागाः अनागसः 'सुपां सुप' (पा० ७ । १।३९) इति जसः सुः । अग्निमित्रवरुणेष्वपराधरहिताः । कीदृशस्याग्नेः । महः पूज्यस्य । मह्यते पूज्यते मद तस्य 'मह पूजायां' क्विप् । समिधानस्य । दीप्यमानस्य ॥ १७ ॥

अष्टादशी।
आप॑श्चित्पिप्यु स्त॒र्यो न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र ।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वᳪं᳭ हि धी॒भिर्दय॑से॒ वि वाजा॑न् ।। १८ ।।
उ० इदानीमिन्द्रस्तुतिः । उक्थसंस्थे द्वितीयेऽहनि पुरोरुच ऐन्द्र्यो द्वादश । आपश्चित् त्रिष्टुप् । आपोपि । पिप्युः । प्यायः पी आदेशः । पाययेयुः निग्राह्यसोमे स्तर्यो न गावः सुन्वन्ति अभिषुण्वन्ति याभिर्वाग्भिः सोमं तास्तर्यः । सोमाभिषवे हि त्रयीलक्षणा वाचो व्याप्रियन्ते । तदेतदुक्तम् । तर्यों न गावः तर्य इव गावः । नक्षन्नृतं जरितारस्त इन्द्र । नक्षन् । नक्षतिर्व्याप्तिकर्मा । एवमनेन प्रकारेण नक्षन्व्याप्नुवन्ति ऋतं यज्ञम् । जरितारः स्तोतारः ते तव हे इन्द्र । एतच्च ज्ञात्वा । वाहि वायुर्न नियुतो नो अच्छ । अच्छ अभियाहि । आयाहि नः अस्मान् वायुर्न वायुर्यथा नियुतः अश्वान् याति । त्वं हि यस्मात् । पुनस्त्वमेवमुच्यसे । यस्त्वं धीभिः स्वकीयाभिर्बुद्धिभिः दयसे ददासि । विविधं वाजान् अन्नानि ॥ १८॥
म० 'इन्द्रस्तदुतथ्यो द्वितीयमहर्भवति तस्येन्द्रा ग्रहा भवन्त्यैन्द्र्यः पुरोरुचः सर्वमैन्द्रमसत्' (पा० १३ । ७ । १ । ४) इति सर्वमेधे श्रुतिः । ततः इन्द्रस्तुत्संज्ञे उक्थ्यसंस्थे सर्वमेधस्य द्वितीयेऽहनि आपश्चिदित्यादि इमां त इत्यन्ता द्वादश ऋचः। तं प्रत्नथा अयं वेनः महाँ इन्द्रः कदाचन स्तरीः कदाचन प्रयुच्छसीति पञ्च प्रतीकोक्ताः एवं सप्तदशेन्द्रदेवत्याः ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहणमन्त्राः वसिष्ठदृष्टाः त्रिष्टुप् ऐन्द्रवायवस्य पुरोरुक् आ वायो इत्यस्याः ( ७ । ७) स्थाने । हे इन्द्र, जरितारः स्तोतारः ऋत्विजः ते तव ऋतं यज्ञं नक्षन् नक्षन्ति व्याप्नुवन्ति । नक्षतिर्व्याप्तिकर्मा । लङि अडभाव आर्षः। : आपः चित् आपोऽपि निग्राभ्यारूपाः पिप्युः आप्याययन्ति सोमं वर्धयन्ति 'ओप्यायी वृद्धौ' लिटि प्यायः पी-आदेशः । तत्र दृष्टान्तः । स्तर्यो गावः इव स्तृण्वन्ति सुन्वन्ति याभिस्ताः स्तर्यः याभिः सोमः सूयते ता गावो वाचो वेदरूपा इव ता यथा सोममाप्याययन्ति तथापोऽपि । अतएव त्वं नोऽस्मानच्छ अभिमुखं याहि आगच्छ । वायुर्न वायुरिव वायुर्यथा नियुतः स्वानश्वानभियाति । हि यतः त्वं धीभिः बुद्धिभिः कर्मभिर्वा वाजानन्नानि विदयसे विविधं ददासि 'दय दानादौ' अत एवागच्छ ॥ १८॥

एकोनविंशी ।
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ।। १९ ।।
उ० गाव उप । तिस्रो गायत्र्यः । दक्षिणालक्षणा गाव उच्यन्ते । हे गावः, उपावत उपगच्छत दक्षिणमार्गेण अवतः प्रति । अवतमिति कूपनाम । सचात्र चात्वालं तदन्तरेण हि गवां संचारः । को हेतुरागमन इति चेत् । मही यज्ञस्य रप्सुदा । मही महत्यः यज्ञस्य रप्सुदा दानं वर्तते । यतश्च भवतीनाम् उभाकर्णा हिरण्यया उभौ कर्णौ हिरण्मयौ कृतौ । दानार्थमेव अत उपावतेति संबन्धः ॥ १९ ॥ -
म० तिस्रो गायत्र्यः आद्या पुरुमीढाजमीढदृष्टा ऐन्द्रवायवस्य, द्वितीया पुरोरुक् इन्द्रवायू इत्यस्याः (७।८) स्थाने । गाव उच्यन्ते । हे गावः, अवतं कूपं चात्वालरूपं प्रति उपावत उपगच्छत दानार्थम् । चावालान्तरेण गवां संचारोऽस्ति । अवत इति कूपनाम । को हेतुरागमने तत्राह । मही महत्यौ द्यावापृथिव्यौ यज्ञस्य रप्सुदा रप्सुदे रप्स्विति रूपनाम तद्दत्तस्ते रप्सुदे वर्तेते । द्यावाभूमी यज्ञस्य शोभां कुरुत इति यूयमुपागच्छत । किंच उभा कर्णा भवतीनामुभौ कर्णौ हिरण्ययौ हिरण्मयौ अतएव दानार्थमागच्छतेत्यर्थः ॥ १९ ॥

विंशी।
यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा ।
सु॒वाति॑ सवि॒ता भग॑: ।। २० ।।
उ० यदद्य । यत्कर्म अद्य अस्मिन्द्यवि सूरे उदिते उद्गते अनागाः अनपराधो मित्रः सुवाति प्रसौति तत्कर्म प्रयादिति शेषः । एवमर्यम्णः सवितुर्भगस्य च वाक्यानि अविशेषात् ॥ २० ॥
म० वसिष्ठदृष्टा मैत्रावरुणपुरोरुक् अयं वामित्यस्याः (७।९) स्थाने । अद्य सूरे सूर्ये उदिते सति मित्रः अर्यमा सविता भगश्च यत् सुवाति प्रेरयति तत् कर्म कुर्यादिति शेषः । नास्ति आगोऽपराधो यस्य सोऽनागा इति चतुर्णां विशेषणम् ॥ २० ॥

एकविंशी ।
आ सु॒ते सि॑ञ्चत॒ श्रिय॒ᳪं᳭ रोद॑स्योरभि॒श्रिय॑म् । र॒सा द॑धीत वृष॒भम् ।।तं प्र॒त्नथा॒ ऽयं वे॒न: ।। २१ ।।
उ० आसुते । तृतीयः पादः प्रथमं व्याख्यायते । यं सोमम् रसा नदी रसतेः शब्दकर्मणः । दधीत धारयति । नद्युपकण्ठे हि सोमो जायते । वृषभं वर्षितारम् आसुते सिञ्चत आसिञ्चत ग्रहपात्रेषु चमसेषु सोमं हे ऋत्विजः । सुते अभिषुते सति सोमे । कथंभूतम् । श्रियम् श्रियोहेतुभूतम् । रोदस्योरभिश्रियम् द्यावापृथिव्योरधिगतश्रियम् । ब्रह्माण्डव्यापिनी हि सोमश्रीः । तं प्रत्नथायं वेनः इति द्वे प्रतीके उक्ते ॥२१॥
म०. सुनीतिदृष्टाश्विनपुरोरुक् या वामित्यस्याः ( ७ । ११) स्थाने । रसा नदी 'रसतेः शब्दकर्मणः' ( निरु० ११ । २५) इति यास्कः । रसा नदी वृषभं वर्षितारं सोमं दधीत पुष्णाति । दधातेर्लिङ् । नदीसमीपे हि सोमोत्पत्तेः । तस्मिन्सोमे सुते अभिषुते सति आसिञ्चत । चमसेष्विति शेषः । ऋत्विजः प्रति वचनमेतत् । कीदृशं वृषभम् । रोदस्योः द्यावापृथिव्योः श्रियं श्रीयते श्रीः तम् आश्रयम् । सोमस्य जगदाधारत्वात् । अभिश्रियम् अभि सर्वतः श्रीः शोभा यस्य सोऽभिश्रीः तम् । तं प्रत्नथा अयं वेनः द्वे प्रतीकोक्ते शुक्रमन्थिनोः प्राकृते ( ७ । १२ । १६ ) पुरोरुचौ ॥ २१ ॥

द्वाविंशी।
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।। २२ ।।
उ० आतिष्ठन्तम् त्रिष्टुप् । इन्द्रस्यात्र वृष्टिकर्मोच्यते । ग्रीष्मान्ते मध्यमस्थाने आतिष्ठन्तम् इन्द्रं पर्यभूषन् परिरक्षितवन्तः । विश्वे सर्वे देवा मध्यमका देवगणाः । श्रियो वसानश्चरति स्वरोचिः । सतु मध्यमस्थानः सर्वेषां देवगणानां श्रियः आच्छादयन् स्वेच्छया चरति । स्वरोचिः अपराधीनदीप्तिः । तृतीयः पादश्चतुर्थान्ते व्याख्यायते तच्छब्दयोगात् । आविश्वरूपो अमृतानि तस्थौ । यत् आतस्थौ विश्वरूपः इन्द्रः अमृतानि उदकानि उदकेषु पातयितव्येषु । महत् तत् वृष्णः वर्षितुः असुरस्य प्रज्ञानवतः नाम । नमनं प्रह्वीभावः ॥ २२ ॥
म० विश्वामित्रदृष्टाग्रयणपुरोरुक ये देवास इत्यस्याः (७। १९ ) स्थाने । इन्द्रस्य वृष्टिकर्मोच्यते । विश्वे देवाः आतिष्ठन्तं समन्तात् स्थितमिन्द्रं पर्यभूषन् परिरक्षितवन्तः । स इन्द्रः चरति सर्वत्र गच्छति । कीदृशः । श्रियो वसानः देवानां दीप्तीः आच्छादयन् स्वरोचिः स्वं रोचिर्यस्य सः अनन्याधीनदीप्तिः । किंच विश्वं रूपयति निरूपयतीति विश्वरूपः इन्द्रो यतः अमृतानि जलानि आतस्थौ वृष्टये आस्थितवान् वृष्णः इन्द्रस्य तत् महत् प्रसिद्धं नाम वासवो वृत्रहा इत्यादि । कीदृशस्य वृष्णः । असुरस्य असवो विद्यन्ते यस्य सोऽसुरस्तस्य प्राणवतः सावधानस्य प्रज्ञावत इत्यर्थः ॥ २२ ॥

त्रयोविंशी।
प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।
इन्द्र॑स्य॒ यस्य॒ सुम॑ख॒ᳪं᳭ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑: ।। २३ ।।
उ० प्र वः त्रिष्टुप् । हे ऋत्विजः, प्रार्च प्रार्चत । वः यूयम् स्तुतीः । महे इन्द्रविशेषणमेतत् । महते । अन्धसः अन्नस्य दात्रे इति वाक्यशेषः । मन्दमानाय स्तूयमानाय मोदमानाय वा । विश्वानराय सर्वभूताय । विश्वाभुवे सर्वव्यापिने किंच इन्द्रस्य यस्य सुमखं साधुयज्ञम् । सहः बलं च महि महच्च श्रवः श्रवणीयं च यशः नृम्णं च धनं च नॄन्नमयतीति नृम्णम् । रोदसी द्यावापृथिव्यौ सपर्यतः परिचर्यतः । तस्य चेन्द्रस्य प्रार्चत स्तुतीरित्यनुषङ्गः ॥ २३ ॥ ।
म० सुचीकदृष्टा त्रिष्टुप् ध्रुवग्रहपुरोरुक् मूर्धानमित्यस्याः (७ । २४ ) स्थाने । हे ऋत्विजः, यूयं विश्वानराय विश्वे सर्वे नरा यजमाना यस्य तस्मै प्रार्च प्रार्चत । वचनव्यत्ययः । इन्द्रं पूजयतेत्यर्थः । कीदृशाय । महे महते । वो युष्माकमन्धसः अन्धसा अन्नेन हवीरूपेण मन्दमानाय मोदमानाय । विश्वाभुवे विश्वं भवति प्राप्नोति विश्वभूः तस्मै सर्वव्यापिने, विश्वा भूर्यस्येति वा, विश्वं भवति यस्मादिति वा । संहितायां दीर्घः । किंच रोदसी द्यावापृथिव्यौ यस्येन्द्रस्य एतान् पदार्थान्सपर्यतः पूजयतः । कान् सुमखं शोभनं यज्ञम् सहः बलम् महि महत् श्रवो यशः नृम्णं धनं च । द्यावाभूमी यस्य मखादीनि मानयतस्तं पूजयतेत्यर्थः ॥ २३ ॥

चतुर्विंशी ।
बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरु॑: । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।। २४ ।।
उ० बृहन्नित् द्वे गायत्र्यौ । अन्त्यः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । येषामिन्द्रो युवा सर्वकर्मसु । दक्षः सखा । तेषामेषां यजमानानाम् बृहन्नित् महानेव इध्मः भवति । महत्त्वं च साधनानां साध्योत्कर्षं कुर्वतां भवति । भूरिशस्तं भवति । पृथुश्च स्वरुः भवति । यज्ञानां वा भूयोभूयः करणमेवाभिप्रेतं स्यात् ॥ २४ ॥
म० त्रिशोकदृष्टा गायत्री ऐन्द्राग्नपुरोरुक् इन्द्राग्नी इत्यस्याः ( ३ । ७१) स्थाने । युवा समर्थः इन्द्रः येषां यजमानानां सखा सहायः एषामिन्द्रः बृहन् इत् महानेव भवति । शस्तं शस्त्रं भूरि बहु । स्वरुः खड्गः पृथुः विशालः । यज्ञबाहुल्यमाशास्यत इत्यर्थः ॥ २४ ॥

पञ्चविंशी।
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
म॒हाँ२ अ॑भि॒ष्टिरोज॑सा ।। २५ ।।
उ० इन्द्रेहि । हे इन्द्र, आ इहि आगच्छ । एत्य च मत्सि तृप्तिं कुरु अन्धसः अध्यानीयस्य सोमलक्षणस्यान्नस्य स्वेनांशेन । ततोऽपि विश्वेभिः सर्वैः सोमपर्वभिः सोमयागकालैर्निमित्तभूतैः । आइहि । यद्वा सर्वसवनगतैः सोमांशुभिः निमित्तभूतैः । कस्मात्पुनस्त्वमेवमस्माभिः प्रार्थ्यसे इत्यत आह । यतो महानसि अभिष्टिश्च अभ्येषणशीलश्च शत्रूणामभियष्टव्यो वा । ओजसा स्वकीयेन बलेन ॥ २५ ॥
म० मधुच्छन्दोदृष्टा गायत्री वैश्वदेवपुरोरुक् ओमास इत्यस्याः (७ । ३३ ) स्थाने । इन्द्र आ इहि 'ओमाङोश्च' (पा० ६ । १ । ९५) इति पररूपम् । हे इन्द्र, आ इहि आगच्छ । आगत्य अन्धसः अन्धसान्नेन हविर्लक्षणेन विश्वेभिः विश्वैः सर्वैः सोमपर्वभिः सोमांशुभिश्च त्वं मत्सि तृप्यस्व । 'मद तृप्तौ' शपो लुक् । कीदृशः त्वम् । ओजसा तेजसा महान् श्रेष्ठः । अभिष्टिः अमीज्यत इत्यभिष्टिः अभियष्टव्यः पृषोदरादिः ॥२५॥

षड्विंशी।
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीति॒: प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।
अह॒न् व्य॒ᳪं᳭समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ।। २६ ।।
उ० इन्द्रो वृत्रम् त्रिष्टुभौ । य इन्द्रः वृत्रं युद्धाय अवृणोत् शर्धनीतिः । शर्ध इति बलनाम । शर्धे चतुरङ्गबले नीतिर्यस्य स तथोक्तः । प्रमायिनाममिनात् यश्च मायिनां मायाविनां प्र अमिनात् । 'मीङ् हिंसायाम्' हिनस्ति । यश्च वर्पणीतिः । वर्प इति रूपनाम । रूपसन्नद्धः स्वेच्छारूपविजृम्भकः । यश्च अहन् हन्ति व्यंसं निरसं संधिसंबन्धिनं मायिनम् । उशधक् 'वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । दहतेरुत्तरं कृतभष्भावस्य । अथ कोर्थः शत्रुत्वं कामयमानान् दहति वनेष्वपि वर्तमानान् आविर्धेना अकृणोद्राम्याणाम् । स इन्द्रः आविः प्रकटम् धेना स्तुतीः इत्थं शत्रून्हन्ति इत्थमपरिमितं धनं ददातीति । अवश्यं च रमयितव्यानां यायजूकानाम् ॥ २६ ॥
म० विश्वामित्रदृष्टा त्रिष्टुप् प्रथममरुवतीयपुरोरुक् इन्द्र मरुत्व इत्यस्याः ( ७ । ३५ ) स्थाने । इन्द्रः वृत्रं दैत्यमवृणोत् युद्धाय वृणोति स्म । मायिनां मायिनो दैत्यान् प्रामिणात् हिनस्ति 'मीञ् हिंसायाम्' क्र्यादिः प्वादित्वाद्ध्रस्वः कर्मणि षष्ठी । व्यंसमहन् हन्ति । 'अंस विभागे' चुरादिरदन्तः अंसयति विभजति स्वान्परानिति व्यंसो दुष्टः तम् । क्व । वनेषु वनस्थान् हन्तीत्यर्थः । रमयन्ति देवान् ऋते राम्याः यायजूकाः तेषां धेनाः स्तुतिरूपा वाचः आविः अकृणोत् आविः करोति । यजमानाः स्तुवन्तीति देवेषु प्रकटयतीत्यर्थः । कीदृश इन्द्रः । शर्धनीतिः । शर्ध इति बलनाम । शर्धे चतुरङ्गे बले नीतिर्यस्य सः । वर्पणीतिः । वर्प इति रूपनाम । वर्पं नानारूपं नयति प्राप्नोतीति वर्पणीतिः नानारूपधारी । उशधक् उशन्ति कामयन्ते परस्वं ते उशाश्चौरास्तान् दहति उशधक् ॥ २६ ॥

सप्तविंशी।
कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒: सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।
सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ।
म॒हाँ२।। इन्द्रो॒ य ओज॑सा क॒दा च॒न स्त॒रीर॑सि क॒दा च॒न प्र यु॑च्छसि ।। २७ ।।
उ० कुतस्त्वम् । इन्द्रमरुत्संवादे मरुतामेतद्वाक्यम् । हे इन्द्र, त्वम् कुतः कस्माद्धेतोः माहिनः महनीयः सर्वस्य पूज्यः सन् शत्रून् एकः असहायः यासि । हे सत्पते, श्रुतिस्मृत्यनुष्ठानरतानां पालयितः । किंत इत्था किंच ते तव इत्थंभूतम् प्रयोजनमस्ति येनैकाकी यासि । संपृच्छसे समराणः संगच्छमानः शुभानैः शोभनैः वचोभिः संपृच्छसे कतमः पन्था इति । हे हरिवः हरिवन् । तत्करणं नः अस्माकं वोचेः ब्रूयाः । यत्ते अस्मे यत् व्यावृत्तिकारणं ते तव अस्मे अस्मासु वर्तत इति । महाँ २ इन्द्रो य ओजसा । कदाचन स्तरीरसि कदाचन प्रयुच्छसि इति तिस्रः प्रकृताः प्रतीकोक्ताः ॥ २७ ॥
म० अगस्त्यदृष्टा त्रिष्टुप् सशस्त्रमरुत्वतीयपुरोरुक् मरुत्वन्तमित्यस्याः ( ७ । ३६ ) स्थाने । इन्द्रं प्रति मरुद्वाक्यम् । हे इन्द्र, हे सत्पते, श्रुतिस्मृत्युक्ताजाररताः सन्तः तेषां पते पालक, त्वमेकः सन् कुतो यासि असहायः क्व गच्छसि । ते तव किमित्था गमने को हेतुः किं प्रयोजनम् । 'था हेतौ च छन्दसि' (पा० ५। ३ । २६ ) इतीदमः थाप्रत्ययः। 'एतेतौ रथोः' (पा० ५।३।४) इतीदम इदादेशः। कीदृशस्त्वम् । ( माहिनः महितः पूज्यः । निष्ठातस्य नत्वम् धातोर्वृद्धिश्च छान्दसी । यद्वा मह उत्सवोऽस्यास्तीति मही एव माहिनः स्वार्थेऽण् ‘इनण्यनपत्ये' ( पा० ६ । ४ । १६४ ) इति टिलोपाभावः । किंच समराणः सम्यक् गच्छन् सन् शुभानैः शोभनैः वचनैः त्वं संपृच्छसे कतमः पन्था इति लोकान् पृच्छसि एकाकित्वात् । शोभन्ते तानि शुभानानि । शानचि शपि लुप्ते रूपम् । संपूर्वस्यर्तेः शानचि शपि लुप्ते समराण इति । हरयोऽश्वा अस्य सन्तीति हरिवान् 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८ । ३ । १) इति रुः । हे हरिवः इन्द्र, नोऽस्माकं तत् एकाकिगमनकारणं वोचेः ब्रूहि । यत् यतो हेतोः अस्मे वयं ते तव त्वदीया वयमिति हेतोर्वक्तव्यमित्यर्थः । तिस्रः प्रतीकोक्ताः तत्र महाँइन्द्र इत्यस्याः (७ । ४० ) महेन्द्रग्रहणे विनियोगः नृवदित्यस्याः (७॥३९ ) स्थाने कदाचनेति ( ८।२-३) द्वयोरादित्यग्रहणे विनियोगः ॥ २७ ॥

अष्टाविंशी।
आ तत्त॑ इन्द्रा॒यव॑: पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
स॒कृ॒त्स्वं ये पु॑रुपु॒त्रां म॒हीᳪं᳭ स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ।। २८ ।।
उ० आ तत् त्रिष्टुप् । आङुपसर्गः पनन्तेत्याख्यातेन संबध्यते । आपनन्त । पनतिः पूजाकर्मा । पूजयन्ति वृत्रवधादिकम् ते तव संबन्धि कर्म हे इन्द्र, आयवः मनुष्याः यजमानाः । कथंभूता आयवः । अभितितृत्सान् । तृत्सतिर्हिंसाकर्मा । ये अभितर्दितुं हिंसितुमिच्छन्ति । किमित्यत आह । ऊर्वम् अन्नं सोमलक्षणम् । गोमन्तं उदकवन्तम् । निग्राभ्याभिः सोमोऽभिषूयते । येऽपि उदकवन्तं सोममभिषुण्वन्ति तेपि पूजयन्तीत्यर्थः । किंच । सकृत्स्वम् । एकवारमेव प्रसूयते यागो हिरण्यधान्यादिभिः सा सकृत्सूस्तां सकृत्स्वम् । ये यजमानाः । पुरुपुत्रां बहुपुत्राम् । सर्वे एव पदार्थाः पृथिवीत उत्पद्यन्ते। महीं भूमिम् । सहस्रधारां अनन्तभोगप्रदायिनीम् । बहुधा प्राणिजातं धारयन्तीं वा । बृहतीं महतीम् । दुदुक्षन् दोग्धुमिच्छन्ति । भूमिदानं सर्वमेधयाजिनश्चोद्यते तदभिप्रायमेतत् । ये च सोमाभिषवं कुर्वन्ति ये च पृथिवीं ददति ते त्वां पूजयन्ति नान्ये दुर्मेधस इति ॥ २८॥
म० गौरीवितिदृष्टा त्रिष्टुप् आदित्यग्रहस्य दधिश्रयणे विनियोगः । यज्ञो देवानामित्यस्याः ( ८ । ४) स्थाने । हे इन्द्र, आयवो मनुष्याः ते तव तत् कर्म आपनन्त पूजयन्ति । पनतिः पूजाकर्मा । लङ् अडभाव आर्षः । ये आयवः ऊर्वमन्नं सोमरूपमभितितृत्सान् अभितितृत्सन्ति तर्दितुं हिंसितुमिच्छन्ति तितृत्सन्ति 'उतृदिर् हिंसानादरयोः' सन्नन्तः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इत्यतेरिकारलोपः । सोमं सोतुमिच्छन्तीत्यर्थः । कीदृशमूर्वम् । गोमन्तं गौरुदकमस्ति यस्मिन् स गोमान् तम् निग्राभ्यालक्षणोदकयुतम् । ताभिरेव सोमः सूयते । किंच ये मनुष्याः महीं भूमिं दुदुक्षन् दुधुक्षन्ति दोग्धुमिच्छन्ति । दुहेः सनन्ताल्लट् पूर्ववदिकारलोपः । तेऽपि तव कर्म पनन्ति स्तुवन्ति । कीदृशीं महीम् । सकृत्स्वं सकृदेकवारमेव सूते हिरण्यधान्यादि ददाति सकृत्सूः ताम् । पुरुपुत्रां बहुपुत्राम् । सर्वे पदार्थाः पृथिवीत उत्पद्यन्ते । सहस्रधारां सहस्रं धारा हिरण्यादयो यस्याः सा ताम् बहुभोगदाम् । यद्वा सहस्रमसंख्यं प्राणिजातं धरति सहस्रधारा ताम् । बृहती महतीम् । ये विप्राः सोमाभिषवं कुर्वन्ति ये च क्षत्रिया भूमिं दुहन्ति पालयन्ति ददते ते इन्द्रस्य वृत्रवधादिकर्म स्तुवन्ति नान्ये दुर्मेधस इत्यर्थः ॥ २८ ॥

एकोनत्रिंशी।
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वास॒: शव॑सामद॒न्ननु॑ ।। २९ ।।
उ० इमां ते हे इन्द्र, इमां ते तव धियं स्तुति प्रभरे प्रहरामि शपयामि । कथंभूतस्य ते । महः महतः । कथं भूतां धियम् । महीं महतीम् । अस्य यज्ञस्य स्तोत्रे धिषणा वाक् । यत्ते यस्मात्ते तव स्वभूतान् गुणान् आनजे अभिव्यनक्ति ऐन्द्रमेव यज्ञं प्रकाशयति । किंच । तमेवेन्द्रम् । उत्सवे च अभ्युदये प्रसवे च अभ्यनुज्ञानाय विषयभूतायाम् । सासहिं शत्रूणामभिभवितारम् । देवासः देवा अपि शवसा मदन्ननु । शवसा बलेन अन्वमदन् अभिष्टुवन्ति । पूर्वार्धर्चः प्रत्यक्षकृतः उत्तरस्तु परोक्षकृतः अतो वाक्यभेदेन व्याख्यानम् ॥ २९ ॥
म० कुत्सदृष्टा जगती सावित्रपुरोरुक् वाममद्येत्यस्याः ( ८ । ६ ) स्थाने । हे इन्द्र, इमां मामकीं धियं बुद्धिं स्तुतिं वा कर्म वा ते तुभ्यं प्रभरे प्रहरे समर्पयामि । कीदृशस्य ते। महः महतः पूज्यस्य । कीदृशीं धियम् । महीं महतीम् । यत् यस्मात् अस्य यजमानस्य धिषणा बुद्धिर्वाग्वा स्तोत्रे क्रियमाणे ते तव आनजे त्वां व्यनक्ति । कर्मणि षष्ठी । अञ्जेर्लिट् नलोपश्छान्दसः । किंच देवासः देवाः तमिन्द्रमन्वमदन अनुमदन्ति स्तुवन्ति 'छन्दसि परेऽपि' ( पा० १।४। ८१ ) इत्यनोः परः प्रयोगः । क्व स्तुवन्ति । उत्सवे अभ्युदये । प्रसवे गुर्वाद्यनुज्ञायां सत्याम् । यद्वा प्रसवे पुत्राद्युत्पत्तिरूपे उत्सवे इन्द्रं स्तुवन्ति । कीदृशमिन्द्रम् । शवसा बलेन सासहिम् सहते सासहिः शत्रूणामभिभवितारम् । चौ समुच्चये ॥ २९ ॥ इन्द्रस्तुत्संज्ञं द्वितीयमहः समाप्तम् ॥
.
त्रिंशी।
वि॒भ्राड् बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ।। ३० ।।
उ० विभ्राट् बृहत् । जगती सूर्यस्तुतिः। द्वितीयेऽहनि ग्रहाणां पुरोरुचः । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यः वातजूतः वातप्रेरितः वातो यस्य वोढेत्यभि
प्रायः । अभिरक्षति त्मना आत्मनैव जगत् । 'मन्त्रेष्वाड्यादेरात्मनः' इत्याकारलोपः। यश्च प्रजाः पुपोष पोषयति शीतोष्णवर्षैः । यश्च पुरुधा विराजति बहुधा च दीप्यति अग्निविद्युन्नक्षत्रादिरूपैः । स विभ्राट् विविधं भ्राजते इति विभ्राट् सूर्यः । बृहत् महत् पिबतु सोम्यं सोममयं मधु । किं कुर्वन् । आयुः जीवनम् दधत् स्थापयन् यज्ञपतौ यजमाने । अविह्रुतम् अनवखण्डितम् । 'ह्वृ कौटिल्ये' । 'ह्वुह्वरेश्छन्दसि' इति ह्रुआदेशः ॥ ३०॥
म० अथ तृतीयमहः सूर्यस्तुत् । तथाच श्रुतिः 'सूर्यस्तदुक्थ्यस्तृतीयमहर्भवति तस्य सौर्या ग्रहा भवन्ति सौर्यः पुरोरुचः सर्व सौर्यमसदिति' ( १३ । ७।१।५) । चतुर्दश पुरोरुचस्तिस्रः प्रतीकोक्ताः । एवं सप्तदश ऋचः सूर्यस्तुत्संज्ञे उक्थ्यसंस्थे सर्वमेधस्य तृतीयेऽहनि । ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां पूर्वोक्तक्रमेण ग्रहणमन्त्रा बोध्याः । विभ्रादृष्टा जगती ऐन्द्रवायवपुरोरुक् । विविधं भ्राजते विभ्राट् सूर्यः सोम्यं सोमरूपं हविः पिबतु । कीदृशं सोम्यम् । बृहत् महत् मधु मधुरखादम् । यः सूर्यः त्मना आत्मना प्रजाः अभिरक्षति पालयति पुपोष पुष्णाति च । पुरुधा बहुधा विराजति च शोभते । कीदृशः । यज्ञपतौ यजमाने अविहृतमखण्डितमायुः दधत् स्थापयन् । वातजूतः वातेन प्रेरितः । वातेन प्रेरितं रविमण्डलं भ्रमतीति प्रसिद्धिः । त्मना 'मन्त्रेष्वाड्यादेरात्मनः' (पा० ६ । ४ । १४१) इत्याकारलोपः । 'ढ कौटिल्ये' 'हुहरेश्छन्दसि' ( पा० ७ । २।३१ ) इति हु आदेशः॥ ३० ॥

एकत्रिंशी।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॒ᳪं᳭ स्वाहा ।। ३१ ।।
उ० उदुत्यमिति व्याख्यातम् ॥ ३१ ॥
म० ऐन्द्रवायवस्य द्वितीया पुरोरुक् । व्याख्याता (७ ।४१) ॥ ३१ ॥

द्वात्रिंशी।
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२।। अनु॑ । त्वं व॑रुण॒ पश्य॑सि ।। ३२ ।।
उ० येना पावक । द्वे गायव्यौ सर्वमेधाग्निश्चीयते तेन रूपेण । आत्मानं संपाद्य क्षिप्रं यजमानो मोक्षं प्राप्नोति तदिह प्रार्थ्यते । येन हे पावक पावयितः, येन चक्षसा दर्शनेन । भुरण्यन्तम् जनान् अनु । शकुनिः क्षिप्रपाती भुरण्युरित्यभिधीयते । सर्वमेधयाजिनो जनान् अनुभुरण्यन्तम् पक्षिरूपेणात्मानं संपाद्य क्षिप्रं गच्छन्तमित्यर्थः । त्वं हे वरुण सूर्य, पश्यसि । तदोध्याहारेण वाक्यपरिपूर्तिः। येन जनान् अनु भुरण्यतः पश्येति ॥ ३२ ॥
म० प्रस्कण्वदृष्टा गायत्री मैत्रावरुणपुरोरुक् । सर्वमेधे पक्षाकारेणाग्निश्चीयते तद्रूपमात्मानं संपाद्य मुक्तिमाप्नोति तदत्र प्रार्थ्यते । हे पावक शोधक, येन चक्षसा दर्शनेन त्वं भुरण्यन्तमनुपश्यसि । क्षिप्रपाती पक्षी भुरण्युः । भुरण्युमात्मानं करोति भुरण्यति भुरण्यतीति भुरण्यन् तम् । क्विबन्तात् शतृप्रत्ययः । सर्वमेधयाजिनं भुरण्युपक्षिरूपमात्मानं कृत्वा स्वर्गच्छन्तं येन चक्षसानुपश्यसीत्यर्थः । तेन चक्षसा जनानस्मानपि भुरण्यतः हे वरुण, त्वं पश्य । वरुणः सूर्यः ॥ ३२ ॥

त्रयस्त्रिंशी।
दैव्या॑वध्वर्यू॒ आ ग॑त॒ᳪं᳭ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञᳪं᳭ सम॑ञ्जाथे ।
तं प्र॒त्नथा॒ऽयं वे॒नश्चि॒त्रं दे॒वाना॑म् ।। ३३ ।।
उ० दैव्यावध्वर्यू । हे दैव्यावध्वर्यू अध्वरस्य नेतारौ | इह आगतम् आगच्छतम् आगमनं कुरुतम् । रथेन सूर्यत्वचा सूर्यस्येव त्वक् यस्य स सूर्यत्वक् तेन सूर्यत्वचा । मध्वा मधुस्वादुना हविषा सोमपुरोडाशेन दध्यादिना । यज्ञं समञ्जाथे समाप्तमिति साधुरूपं समंजयतम् । प्रभूतानि हवींषि कुरुतमित्यर्थः । तं प्रत्नथाऽयं वेनश्चित्रं देवानामिति तिस्रः प्रतीकोक्ताः ॥ ३३ ॥
म० आश्विनपुरोरुक् गायत्रो । देवानामिमौ दैव्यौ हे दैव्यावध्वर्यू अश्विनौ, युवां रथेन आगतमागच्छतम् । शपो लुक् । कीदृशेन रथेन । सूर्यत्वचा सूर्यस्येव त्वक् कान्तिर्यस्य तेन । एत्य मध्वा मधुरेण हविषा सोमपुरोडाशदध्यादिना यज्ञं समञ्जाथे युवां संम्रक्षयतम् । बहूनि हवींषि कुरुतमित्यर्थः । तं प्रत्नथा ( ७ । १२ ) अयं वेनः ( ७ । १६) चित्रं देवानाम् (७ । ४२ ) तिस्रः प्रतीकोक्ताः । आद्ये द्वे शुक्रमन्थिपुरोरुचौ तृतीयाग्रयणस्य ॥ ३३ ॥

चतुस्त्रिंशी। |
आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ।। ३४ ।।
उ० आ नः त्रिष्टुप् । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । अपि यथा येन प्रकारेण । हे देवाः, युवानः सर्वकर्मक्षमा अविपरिणामिनो वा मत्सथ माद्यथ तृप्यथ नः अस्माकं गृहे । विश्वं जगदुद्धराम इति कृत्वा अभिपित्वे अभिपतनकाले प्राप्ते । मनीषा मनीषयेति विभक्तिव्यत्ययः । मनस इच्छया । अपि तथा तेन प्रकारेण माद्यत यथेष्टम् । नः अस्माकं विदथे यज्ञे इडाभिः करणभूतैः । सुशस्ति अविभक्तिको निर्देशः । सुशस्तिभिश्च शोभनैः शंसनैश्च करणभूतैः । विश्वानरः आ एतु सविता च देवः आ एतु ॥ ३४ ॥
म० अगस्त्यदृष्टा त्रिष्टुप् ध्रुवपुरोरुक् । विश्वानरो विश्वनर हितकारी सविता देवः नोऽस्माकं विदथे यज्ञगृहे आ एतु आगच्छतु । कथम् । इडाभिः सुशस्ति यथा स्यात् तथा इडाभक्षणेन शोभना शस्तिः शंसनं प्रशंसा यस्यां क्रियायां तथा । यथा सर्वे इडां भक्षयन्ति तथा एत्वित्यर्थः । यद्वा सुशस्ति विभक्तिलोपः । कीदृशे यज्ञगृहे । सुशस्ति सुशस्तौ इडाभिः शोभनप्रशंसायुक्ते । एवं सूर्यमुक्त्वा देवानाह । हे युवानः, जरारहिता देवाः अपि निश्चितम् अभिपित्वे अभिपतने आगमनकाले यथा येन प्रकारेण यूयं मत्सथ 'मद तृप्तौ' तृप्यथ तथा नोऽस्माकं विश्वं सर्वं जगत् गन्तृ जङ्गमं पुत्रगवादिकं मनीषा मनीषया बुद्ध्या मत्सथ । अन्तर्भूतण्यर्थः । तर्पयत । यथा भवद्भिस्तृप्तिः क्रियते तथास्मत्प्रजास्तर्पणीया इत्यर्थः ॥ ३४ ॥

पश्चत्रिंशी।
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।। ३५ ।।
उ० यदद्य । द्वे गायत्र्यौ । यत् अद्य कच्च कुत्रचित् यत् । हे वृत्रहन् वृत्रस्य पाप्मनः शार्वरस्य तमसो हन्तः, त्वम् उदगा अभि अभ्युदगाः अभ्युदेषि । हे सूर्य, तत्सर्वमेतत् हे इन्द्र ऐश्वर्ययुक्त, ते तव वशे वर्तते । त्वमेवैक ईश्वरो न द्वितीय इत्यभिप्रायः ॥ ३५ ॥
म० श्रुतकक्षसुकक्षदृष्टा गायत्री ऐन्द्राग्नपुरोरुक् । 'वृत्रो मेधे रिपौ ध्वान्ते दानवे वासवे गिरौ' इति कोशाद्वृत्रमन्धकारं शार्वरं हन्तीति वृत्रहा रविः । हे वृत्रहन्, हे सूर्य, हे इन्द्र ऐश्वर्ययुक्त, अद्य यत् कच्च यत्र कुत्रचित् त्वमभि उदगाः अभ्युदेषि तत्सर्वं ते तव वशेऽस्तीति शेषः । यद्वा उदगाः अत्र पुरुषव्यत्ययः । यत्किंचित्प्राणिजातमुदेति तत्सर्वं तव वशे सर्वस्येशिता त्वमेवेत्यर्थः ॥ ३५॥

षट्त्रिंशी।
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ।। ३६ ।।
उ० तरणिर्विश्वदर्शतः । यस्त्वं तरणिरसि तूर्णं वर्तसे विश्वदर्शतः सर्वदर्शनीयश्चासि । ज्योतिष्कृत् ज्योतिषश्च कर्तासि हे सूर्य, तं त्वां प्रति तथा ब्रूमः त्वमेव विश्वं सर्वम् आभासि दीपयसि । रोचनं दीप्तम् अग्निविद्युद्ग्रहतारकारूपं त्वदीयमेवैकं ज्योतिः सर्वत्राभातीत्यर्थः ॥ ३६ ॥
म० प्रस्कण्वदृष्टा गायत्री वैश्वदेवपुरोरुक् । हे सूर्य, त्वं ज्योतिष्कृत् तेजसः कर्तासि । विश्वमाभासि प्रकाशयसि च । अग्निविद्युन्नक्षत्रचन्द्रग्रहतारकादिषु त्वदीयं तेज इत्यर्थः । कीदृशं विश्वम् । रोचनं दीप्यमानं त्वत्प्रकाशेनेति भावः । कीदृशस्त्वम् । तरणिः तरत्यतिक्रामति नभोवर्त्मेति तरणिः 'अश्यवितृभ्योऽनिः' ( उणा० २ । ९८ ) इति तरतेरनिप्रत्ययः। विश्वदर्शतः विश्वस्य दर्शतो दर्शनीयः । दृशेरतच् ॥३६॥

सप्तत्रिंशी।
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ᳪं᳭ सं ज॑भार ।
य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।। ३७ ।।
उ० तत्सूर्यस्य । द्वे त्रिष्टुभौ । तदेव सूर्यस्य देवत्वम् । तच्च महित्वं महाभाग्यम् । तत्किमित्यत आह । मध्या कर्तोर्विततं संजभार मध्या मध्ये इत्यर्थः । कर्तोः कर्मण इत्यर्थः । मध्ये यत्कर्मणां क्रियमाणानां देवासुरमनुष्यसंबन्धिनां विततं रश्मिजालं अहर्लक्षणं संजभार । अयमेव संहरते नान्य एतत्तनितुं शक्नोति न चोपसंहर्तुमित्यभिप्रायः । किंच यदा इत् अयुक्त यदा प्रयुङ्क्ते आत्मनि आत्मसंस्थान्करोति हरितः हरितवर्णान्रश्मीन् । ह्यस्तमनकाले लोहिततां यन्ति सधस्थात् सहस्थानादाहृत्य पृथिव्यादिलोकत्रयं तेषां सहस्थानम् तत्रहि ते निपतन्ति । आद्रात्रीवासस्तनुते । आत् अथानन्तरम् रात्री तमोमयं वासः तनुते विस्तारयति । सिमस्मै सर्वस्मै जगति एकत्रादित्यसहितं ज्योतिरेकत्र तमः आदित्यप्रभावात्प्रभ्रमतीत्ययमभिप्रायः ॥ ३७॥
म० कुत्सदृष्टे द्वे त्रिष्टुभौ मरुत्वतीययोः पुरोरुचौ । सूर्यस्य तत् देवत्वं देवतानुभावः । तच्च महित्वं महाभाग्यमैश्वर्यम् । तत् किम् । कर्तोः 'ईश्वरे तोसुन्कसुनौ' (पा० ३ । ४ । १३) करोतेस्तोसुन्प्रत्ययः । कार्यश्रेष्ठस्य जगद्रूपस्य मध्या मध्ये विततं विस्तारितमंशुजालं संजभार संजहार संहरते । न ह्यन्य एतादृशमंशुजालं प्रसारयितुं संहर्तुं वा शक्नोतीत्यर्थः । किंच यदा इत् यदैव हरितः हरितवर्णान्रश्मीनयुक्त युङ्क्ते आत्मनि आरोपयति सधस्थात् सह तिष्ठन्त्यंशवो यत्र तत्सधस्थं व्योममण्डलम् । 'सध मादस्थयोश्छन्दसि' (पा० ६।३ । १६) | इति सहस्य सधादेशः । सन्ध्याकाले पीतवर्णानंशून् यदा व्योममण्डलात्स्वस्मिन्योजयति । आत् अनन्तरमेव रात्री निशा सिमस्मै वासः तनुते । सर्वं वस्तु तमसाच्छादयतीत्यर्थः । सूर्यास्तादनन्तरं रात्रिसद्भावात् । सिमशब्दः सर्वपर्यायः ॥ ३७॥

अष्टत्रिंशी ।
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाज॑: कृ॒ष्णम॒न्यद्ध॒रित॒: सं भ॑रन्ति ।। ३८ ।।
उ० तन्मित्रस्य । सूर्यः तद्रूपं ज्योतिः कृणुते कुरुते द्योर्लोकस्य उपस्थे उत्सङ्गे । मित्रस्य वरुणस्याभिचक्षे अदर्शनाय । मित्रो हि सुकृतिनो गृह्णाति वरुणः दुष्कृतिनो गृह्णाति एवमनेन प्रकारेण जगदनुगृह्णातीत्यभिप्रायः। किंच अनन्तम् अपर्यन्तं कालतः देशतश्च । अन्यत् एकम् । रुशत् शुक्लं जरामरणादिभिर्वियुक्तम् । विज्ञानघनमानन्दः अस्य सूर्यस्य पाजः । पाज इति बलनाम इह तु रूपमुच्यते । रूपम् अस्तीति शेषः । तच्चाद्वैतलक्षणम् कृष्णं द्वैतलक्षणं अन्यत् अपरं रूपम् हरितः हरिणा इन्द्रियवृत्तयः संभरन्ति निदानभूता भवन्ति ॥ ३८॥
म०. सूर्यो द्योः द्युलोकस्योपस्थे उत्सङ्गे मित्रस्य वरुणस्य च तद्रूपं कृणुते कुरुते । येन रूपेण जनानभिचक्षे अभिचष्टे पश्यति । मित्ररूपेण सुकृतिनोऽनुगृह्णाति वरुणरूपेण दुष्कृतिनो निगृह्णातीत्यर्थः । अस्य सूर्यस्य अन्यत् एकं पाजो रूपमनन्तम् कालतो देशतश्चापरिच्छेद्यम् । रुशत् शुक्लं दीप्यमानं विज्ञानघनानन्दं ब्रह्मैव । अन्यत् कृष्णं द्वैतलक्षणं रूपं हरितः 'दिशः इन्द्रियवृत्तयो वा संभरन्ति धारयन्ति । इन्द्रियग्राह्यं द्वैतरूपमेकम् । एकं शुद्धं चैतन्यमद्वैतमिति द्वे रूपे सूर्यस्य सगुणनिर्गुणं ब्रह्म सूर्य एवेत्यर्थः । पाज इति बलनाम इह रूपमुच्यते । रोचत इति रुशत् । ओणादिकेऽतिप्रत्यये चकारो रस्य शकारो गुणाभावश्च निपात्यते । यद्वा 'रुश हिंसायाम्' रुच्यर्थे वर्तमानादस्माल्लटः शतरि रुशदिति रूपम् ॥ ३८ ॥

एकोनचत्वारिंशी।
बण्म॒हाँ२ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ२ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ अ॑सि ।। ३९ ।।
उ० बण्महान् । प्रगाथः द्वाभ्याम् । पूर्वा बृहती उत्तरा सतोबृहती। बट् सत्यम् महान्परब्रह्म असि । हे सूर्य, बट् हे आदित्य, तेजसामादानादादित्यः । महानसि । किंच महः महतः ते तव सतः महिमा महाभाग्यं सर्वेषु देवेष्ववस्थितम् पनस्यते पूज्यते सर्वैः प्राणिभिः । अद्धा सत्यं हे देव दानादिगणयुक्त, महान् असि । अभ्यासे भूयांसमर्थं मन्यन्ते यथा अहो दर्शनीयाहो दर्शनीया इति ॥३९॥
म० जमदग्निदृष्टे द्वे बृहतीसतोबृहत्यौ । आद्या माहेन्द्रपुरोरुक् । बडित्यव्ययं सत्यार्थम् । हे सूर्य, सुवति प्रेरयति कार्येषु जगदिति सूर्यः 'राजसूयसूर्य-' (पा० ३ । १ । ११४) इत्यादिना क्यबन्तो निपातः । बट् सत्यं त्वं महान् असि श्रेष्ठोऽसि । आदत्तेंऽशूनित्यादित्यः हे आदित्य, बट् त्वं महानसि । किंच महः महतः सतः नित्यस्य ते तव महिमा पनस्यते लोकैः स्तूयते । हे देव, दीप्यमान, अद्धा सत्यं त्वं महानसि । अभ्यासे भूयांसमर्थं मन्यन्त इति पुनरुक्तिरादरार्था ॥ ३९ ॥

चत्वारिंशी।
बट् सू॑र्य॒ श्रव॑सा म॒हाँ२।। अ॑सि स॒त्रा दे॑व म॒हाँ२।। अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्य॒: पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ।। ४० ।।
उ० बट् सूर्य बट् सत्यम् हे सूर्य, श्रवसा श्रवणीयेन धनेन महानसि । सत्रा सत्यम् हे देव, महानसि । किंच मह्ना स्वकीयेन महत्त्वेन त्वमेव देवानां मध्ये असुर्यः । असवः . प्राणाः सन्ति येषां ते असुराः रो मत्वर्थीयः तेभ्यो हितः असुर्यः । उगवादित्वाद्यत् । प्राणिभ्यो हित इत्यर्थः । पुरोहितश्च पुर एनं धाति सर्वेषु कार्येष्विति पुरोहितः । किंच विभु व्यापि । ज्योतिः विज्ञानघनानन्दम् । अदाभ्यम् अनुपहिंसितम् ॥ ४० ॥
म०. आदित्यग्रहप्रथमग्रहणम् । हे सूर्य, बट् सत्यश्रवसा धनेन यशसा वा त्वं महानसि । हे देवा, सत्यं त्वं महानसि देवानां मध्ये श्रेष्ठोऽसि । केन । मह्ना महत्त्वेन । कीदृशः त्वम् । असुर्यः असवः प्राणा येषां सन्ति तेऽसुराः तेभ्यो हितोऽसुर्यः प्राणिहितः पुरोऽग्रे हितः स्थापितः सर्वकार्येषु पुरः पूज्यः । सर्वदेवानां सूर्यार्घदानानन्तरमेव पूजाधिकारात् । विभु व्यापकमदाभ्यमनुपहिंस्यं ज्योतिः तेजः । त्वमेव तेजोरूप इत्यर्थः ॥ ४० ॥

एकचत्वारिंशी। |
श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ।। ४१ ।।
उ० श्रायन्त इव । बृहती। यथा श्रायन्त आश्रिताः सूर्यरश्मयः विश्वानि धनानि। इदिति निपातः पादपूरणार्थः । इन्द्रस्य संबन्धीनि इन्द्रानुज्ञातानि । भक्षत आख्यातमेतत् अनुदात्तत्वात् विभक्षन्ते विभजन्ते एवं वयमपि समाश्रिताः सूर्यॆ विश्वानीन्द्रस्य धनानि विभक्षामः । किंच वसूनि धनानि जाते पौत्रादौ जनमाने जनिष्यमाणे च भविष्यत्कालविषये । ओजसा बलेन ज्ञानकर्मसमुच्चयकारितया । प्रतिपुरुषम् भागं न भागमिव । दीधिम निधीमहि स्थापयाम। दधातेरेतद्रूपं नतु ध्यायतेरर्थपौष्कल्यात् ॥ ४१ ॥
म० नृमेधदृष्टा बृहती । आदित्यस्य पुनर्ग्रहणम् । श्रयन्त इति श्रायन्तः 'श्रिञ् सेवायाम्' अतः शतरि शपि गुणे प्राप्ते व्यत्ययेन वृद्धिः । इव एवार्थे । सूर्यॆ श्रायन्तः आश्रयन्तः एव अर्थाद्रश्मयः इन्द्रस्य विश्वा इत् विश्वानि सर्वाण्येव वसूनि धनानि वृष्टिधान्यनिष्पत्त्यादीनि भक्षत अभक्षत भजन्ते, विभजन्ते । प्राणिभ्यो विभज्य ददतीत्यर्थः। 'भज भागसेवयोः' अस्य लुङि तङि प्रथमबहुवचने रूपम् । अडभाव आर्षः 'आत्मनेपदेष्वनतः' (पा० ७ । १।५) इति झस्यादादेशः। सूर्यकिरणा इन्द्रदत्तां वृष्टिं भूमौ विभजन्तीत्यर्थः । किंच वयं तान्येव वसूनि जाते पुत्रे जनमाने उत्पद्यमाने च ओजसा तेजसा सह प्रतिदीधिम धारयाम । स्थापयामेत्यर्थः । किमिव भागं न भागमिव । यथा स्वभागं पुत्रादिषु धारयामस्तथेत्यर्थः । 'धि धृतौ' लङ् व्यत्ययेन शपः श्लुः द्वित्वम् । तुजादित्वादभ्यासदीर्घः ॥४१॥

द्विचत्वारिंशी।
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरᳪं᳭ह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौ: ।। ४२ ।।
उ० अद्या देवाः । द्वे त्रिष्टुभौ । अद्यास्मिन्नहनि हे देवाः, रश्मयः उदयकाले सूर्यस्य । निरंहसः पिपृत निष्पिपृत निर्मुञ्चत अंहसः पापात्सकाशात् अंहतिश्चांहश्चांहुश्च हितनिगूढोपधाद्विपरीतात् निरवद्यात् निष्पिपृत च निर्मुञ्चत च अवद्यात् अवदनीयात् । येन दुर्यशो भवति तदवद्यम् । तदेतदुच्यमानम् नः अस्माकम् मित्रावरुणः मामहन्तां पूजयतु । अदितिः सिन्धुः नदी । पृथिवी उत अपि च द्यौः॥ ४२ ॥
म० कुत्सदृष्टा त्रिष्टुप् दध्नादित्यग्रहश्रयणे विनियोगः । दीव्यन्ति दीप्यन्ते इति देवाः रश्मयः हे देवाः, नोऽस्मानंहसः पापात् निःपिपृत निर्मुञ्चत । अवद्यात् दुर्यशसोऽपि निःपिपृत पृथक् कुरुत । अस्माकं पापानि दुर्यशांसि च नाशयतेत्यर्थः । क्व । अद्यास्मिन्दिने सूर्यस्य उदिता उदिते उदये अद्य सूर्योदयेऽस्माञ्शुद्धान्कुरुतेत्यर्थः । अद्येत्यत्र 'द्व्यचोऽतस्तिङः' । 'निपातस्य च' (पा० ६। ३ । १३५,३६ ) इति दीर्घः । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति दीर्घः पिपृतेत्यत्र । किंच मित्रादयः तत् नः अस्मद्वचनं मामहन्तां पूजयन्तु । अङ्गीकुर्वन्त्वित्यर्थः । के मित्रः वरुणः अदितिः देवमाता सिन्धुः समुद्रो नदी वा पृथिवी उतापि च द्यौः स्वर्गः ॥ ४२ ॥

त्रिचत्वारिंशी।
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।। ४३ ।।
उ०. आ कृष्णेन । आवर्तमानः पुनःपुनर्भ्रमणं कुर्वन् । कृष्णेन रजसा रात्रिलक्षणेन सह निवेशयन् स्वेषु स्वेषु प्रदेशेषु स्थापयन् अमृतं देवादिकम् मर्त्यं च मनुष्यादिकं च । हिरण्ययेन हिरण्मयेन सविता रथेन । आदेवो याति आयाति देवः दानादिगुणयुक्तः भुवनानि भूतजातानि पश्यन् कानि कानि साधु कुर्वन्ति कानि कानि वा असाध्विति स्वरूपानुवादः ॥ ४३॥
म० हिरण्यस्तूपदृष्टा त्रिष्टुप् सावित्रपुरोरुक् । सविता देवः हिरण्ययेन हिरण्मयेन रथेन आयाति आगच्छति । किं कुर्वन् । कृष्णेन रजसा रात्रिलक्षणेन सह आवर्तमानः पुनर्भ्रमणं कुर्वन् अमृतं देवादिकं मर्त्यं मनुष्यादिकं च निवेशयन् स्वस्वप्रदेशेषु स्थापयन् भुवनानि पश्यन् कानि साधु कुर्वन्ति कान्यसाध्विति विचारयन् ॥ ४३ ॥
तृतीयं सूर्यस्तुदुक्थ्यमहः समाप्तम् ।

चतुश्चत्वारिंशी।
प्रवा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।
वि॒शाम॒क्तोरु॒षस॑: पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ।। ४४ ।।
उ० प्रवावृजे। त्रिष्टुप् । वैश्वदेवस्तुतिः । चतुर्थेऽहनि सर्वमेधे वैश्वदेव्यः पुरोरुचः । प्रवावृजे प्रवृज्यते प्रच्छिद्यते सुप्रयाः सुप्रयाणं सुगमनम् बर्हिः एषाम् । येषामिति सर्वनामव्यत्ययः । येषां यजमानानाम् । आइयाते आगच्छतम् अश्विनौ । कथमिव । विश्पती इव सर्वस्य पती इव । | बीरिटशब्दो गणवचनः । यथा विशां मनुष्याणां पती राजानौ विशां मनुष्याणां गणे अवस्थितौ । कस्सिन्काले । अक्तोः रात्र्याः अवसाने । उषसः आगमनकाले । पूर्वहूतौ पूर्वस्मिन् आह्वानकाले । किंच वायुः नियुत्वान् अश्ववान् । पूषा च स्वस्तये स्वस्त्ययनाय अविनाशाय आइयाते ॥ ४४ ॥
म०. अथ चतुर्थमहः वैश्वदेवस्तुत् । तथाच श्रुतिः 'वैश्वदेववच्चतुर्थमहर्भवति वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुचः' (१३ । ७।१।६) इति । वैश्वदेवस्तु चतुर्थेऽह्नि एकादश पुरोरुचः षट् प्रतीकोक्ताः इति सप्तदश ऐन्द्रवायवादिसावित्रान्तग्रहाणां पुरोरुचो ग्रहणमन्त्राः । वसिष्ठदृष्टा त्रिष्टुप् ऐन्द्रवायवपुरोरुक् । एषां यजमानानां स्वस्तये कल्याणाय बीरिठेऽन्तरिक्षे वर्तमानौ वायुः पूषा च आ इयाते आगच्छतः । 'ई कान्त्यसनगतिव्याप्त्यादौ' व्यत्ययेन तङ् । कीडशो वायुः । | नियुत्वान् नियुतो नियुत्संज्ञा अश्वाः सन्त्यस्य सः । 'नियुतो वायोः' इत्युक्तेः । कस्मिन् काले । अक्तोः रात्रेः उषसः दिनस्य । पूर्वहूतौ पूर्वा चासौ हूतिश्च पूर्वहूतिस्तस्याम् । प्रथमाह्वानकाले । अग्निहोत्रहोमकाले इत्यर्थः । उषसः पूर्वाह्वाने पूषा रविरायाति रात्रौ वायुः । वायुना वायुसखत्वादग्निर्लक्ष्यते रात्रिहोमस्याग्निदेवत्यत्वात् । तत्र दृष्टान्तः । काविव । विश्पतीव यथा विशां पती द्वौ राजानौ विशां बीरिटे मनुष्याणां गणे आगच्छतस्तद्वत् तावपि तेषां स्वस्तये इयाते। एषां केषाम् । येषां बर्हिः प्रवावृजे प्रवृज्यते प्रस्तीर्यते 'वृजी वृतित्यागयोः' लिट् अभ्यासदीर्घः संहितायाम् । कीदृशं बर्हिः । सुप्रयाः शोभनं प्रयः प्रगमनं प्रस्तरणं यस्य तत् सुप्रयः दीर्घश्छान्दसः । सम्यक् विधिना प्रस्तीर्णमित्यर्थः । बीरिटशब्दो गणवाचकः । | तथाच यास्कः 'प्रवृज्यते सुप्रायणं बर्हिरेषामियाते सर्वस्य पातारौ वा पालयितारौ वा बीरिटमन्तरिक्षं भियो वा भासो वा ततिरिति गणाभिधानं वा स्यात् सोऽपि भीतनयो भासस्तनयश्च अन्तरिक्षे निरालम्बने भयं भासो नक्षत्राणां तननम् गणमपि दृष्ट्वा योद्धारो बिभ्यति भियो बी-आदेशे तनोतेः रिटः' (निरु० ५ । २८) इति ॥४॥

पञ्चचत्वारिंशी।
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं भग॑म् । आ॒दि॒त्यान् मारु॑तं ग॒णम् ।। ४५ ।।
उ० इन्द्रवायू बृहस्पतिम् । तिस्रो गायत्र्यः । इन्द्रवायू बृहस्पतिम् । मित्रा मित्रमितिप्राप्ते आकारः । मित्रम् अग्निम् पूषणम् भगम् । आदित्यान् मारुतं च गणम् आह्वयामीति शेषः ॥ ४५॥
म० मेधातिथिदृष्टे द्वै गायत्र्यौ । आद्या ऐन्द्रवायवस्य पुनर्ग्रहणे द्वितीया मैत्रावरुणग्रहणे । इन्द्रवायू बृहस्पतिं मित्रा। विभक्तेराकारः । अग्निं पूषणं भगम् आदित्यान् मारुतं मरुत्संबन्धिनं गणं एतानाह्वयामि ॥ ४५ ॥

षट्चत्वारिंशी।
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑: । कर॑तां नः सु॒राध॑सः ।। ४६ ।।
उ० वरुणः प्राविता । वरुणः प्राविता प्रकर्षेण अविता रक्षकः भुवन् भवतु मित्रश्च । विश्वाभिः सर्वाभिः ऊतिभिः अवनैः पालनैः । किंच करतां कुरुतां च नः अस्मान् सुराधसः शोभनधनान् ॥ ४६॥
म० वरुणः मित्रश्च विश्वाभिः सर्वाभिः ऊतिभिः अवनैः रक्षणप्रकारैः प्राविता प्रकर्षेण रक्षको भुवत् भवतु । भवतेर्व्यत्ययेन तुदादित्वात् शप्रत्ययः 'इतश्च लोपः' (पा० ३ । ४ । ९७) इति तिप इलोपः धातोरुवङ् । किंच मित्रावरुणौ नोऽस्मान् सुराधसः शोभनधनान् करतां कुरुताम् । शोभनं राधो येषाम् ॥ ४६ ॥

सप्तचत्वारिंशी ।
अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॒नाम् । इ॒ता मरु॑तो॒ अश्वि॑ना ।
तं प्र॒त्नथा॒ ऽयं वे॒नो ये दे॑वास॒ आ न॒ इडा॑भि॒र्विश्वे॑भिः सो॒म्यं मध्वोमा॑सश्चर्षणीधृतः ।। ४७ ।।
उ० अधि नः । अधि इत् अध्यागच्छति नोऽस्माकम् एषां च सजात्यानामृत्विजाम् । हे इन्द्र, हे विष्णो, हे मरुतः, हे अश्विनौ । अथ प्रतीकोक्ताः तं प्रत्नथा । अयं वेनः । ये देवासः । आ न इडाभिः विश्वेभिः सोम्यं मधु । ओमासश्चर्षणीधृतः ॥ ४७ ॥
म० कुसीदिदृष्टा गायत्र्याश्विनपुरोरुक् । हे इन्द्र, हे विष्णो, हे मरुतः, हे अश्विना अश्विनौ, नोऽस्माकमेषां सजात्यानां समानजातीयानामधि सजात्यमध्ये यूयमित आगच्छत । अत्र प्रतीकोक्ताः तं प्रत्नथा ( ७ । १२ ) शुक्रग्रहे अयं वेनः (७।१६) मन्थिग्रहे ये देवासः ( ७ । १९) आग्रयणस्य आ न इडाभिः ( ३३ । ३४ ) ध्रुवस्य विश्वेभिः सोम्यं मधु ( ३३ । १० ) ऐन्द्राग्नस्य ओमासश्चर्षणीधृतः (७ । ३३) वैश्वदेवस्य ग्रहणे ॥४७॥

अष्टचत्वारिंशी।
अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒: शर्ध॒: प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो ।
उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒: सर॑स्वती जुषन्त ।। ४८ ।।
उ० अग्न इन्द्र त्रिष्टुप् । हे अग्ने, हे इन्द्र, हे मित्र, 'हे देवाः । शर्धः बलं संगृह्य । प्रयन्त प्रगच्छत । सोमिनो गृहं सोमं पातुम् । हे मारुतगण उत अपि हे विष्णो । प्रत्यक्षकृतोऽयमर्धर्चः। द्वितीयस्तु परोक्षकृतः वाक्यभेदात् । उभा नासत्या उभौ नासत्यौ रुद्रः अध अथ ग्नाः देवपत्न्यः पूषा भगः सरस्वती च जुषन्त सेवन्त यज्ञं सोमपानाय ॥४८॥
म० प्रतिक्षत्रदृष्टा त्रिष्टुप् मरुत्वतीयपुरोरुक् । हे अग्ने, हे इन्द्र, हे वरुण, हे मित्र, हे देवाः, हे मारुत मरुद्गण, उतापि हे विष्णो, यूयं शर्धः बलं प्रयन्त प्रयच्छत दत्त । यमेः शपो लुक् । एवं प्रत्यक्षमुक्त्वा परोक्षमाह । उभा नासत्या उभौ नासत्यावश्विनौ रुद्रः अध अथ ग्नाः देवपत्न्यः पूषा भगः सरस्वती च जुषन्त जुषन्तां सेवन्तां हवींषि ॥४८॥

एकोनपञ्चाशी।
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑ति॒ᳪं᳭ स्व॑: पृथि॒वीं द्यां म॒रुत॒: पर्व॑ताँ२।। अ॒पः ।
हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शᳪं᳭स॑ᳪं᳭ सवि॒तार॑मू॒तये॑ ।। ४९ ।।
उ०. इन्द्राग्नी मित्रावरुणा । जगती । इन्द्राग्नी च मित्रावरुणौ च अदितिं च स्वः आदित्यं च पृथिवीं च द्यां च मरुतश्च पर्वतांश्च अपश्च हुवे आह्वयामि । विष्णुं च पूषणं च ब्रह्मणस्पतिं च नु क्षिप्रम् शंसं शंसितव्यं सवितारं च हुवे। ऊतये अवनाय ॥ ४९॥
म० वत्सारदृष्टा जगती सशस्त्रमरुत्वतीयपुरोरुक् । इन्द्राग्नी मित्रावरुणौ अदितिम् स्वः आदित्यम् पृथिवीम् द्यां द्युलोकम् मरुतः पर्वतान् अपः विष्णुम् पूषणं ब्रह्मणस्पतिम् भगम् शंसं स्तुत्यं सवितारम् एतान् नु क्षिप्रमूतयेऽवनायाहं हुवे आह्वयामि ॥ ४९॥

पञ्चाशी।
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑: ।
यः शᳪं᳭स॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ२ अ॑वन्तु दे॒वाः ।। ५०।।
उ० अस्मे रुद्राः। त्रिष्टुभः पञ्च । अस्मे अस्माकं रुद्राः मेहनाः सेचनाः यद्वा महनीयाः पूजनीयाः पर्वतासः पर्वताश्च वृत्रहत्ये वृत्रवधे भरहूतौ संग्रामाह्वाने च । सजोषाः समानजोषणा: समानप्रीतयः । एकाभिप्राया भवन्त्विति शेषः । यश्च शंसते शस्त्राणि स्तुवते स्तौति च स्तोत्राणि । धायि दधति हवींषि । पज्रः प्रार्जितधनः सन् । तस्मै च रुद्राः सजोषाः भवन्तु । किंच इन्द्रज्येष्ठाः इन्द्रो ज्येष्ठो येषां ते तथोक्ताः । अस्मान् अवन्तु पालयन्तु देवाः ॥ ५० ॥
म० पञ्च त्रिष्टुभः आद्या प्रगाथदृष्टा माहेन्द्रपुरोरुक् । यो नरः शंसते शस्त्राणि शंसति स्तुवते स्तौति स्तोत्राणि प्रकर्षेण जपति पज्रः प्रार्जितधनः सन् धायि दधाति हवींषि । तान् अस्मांश्च यजमानान् देवा अवन्तु पान्तु । पज्रः पृषोदरादिः । कीदृशा देवाः । अस्मे अस्मासु मेहना। शस आकारः। मेहन्ति सिञ्चन्ति मेहनाः धनादिसेक्तारः । रोदयन्ति शत्रूनिति रुद्राः । पर्वतासः पर्वाणि उत्सवा विद्यन्ते येषां ते पर्वताः उत्सववन्तः 'तप्पर्वमरुद्भ्यां' (पा० ५।२।१२२) इति तत्प्रत्ययः । वृत्रहत्ये वृत्रासुरवधाय । भरहूतौ भरे संग्रामे हूतिराह्वानं तत्र सजोषाः समानो जोषः प्रीतिर्येषां ते । एकमतय इत्यर्थः । इन्द्रज्येष्ठाः इन्द्रो ज्येष्ठो येषां ते । ईदृशा देवा नोऽवन्तु ॥ ५० ॥

एकपञ्चाशी।
अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् ।
त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ।। ५१ ।।
उ० अर्वाञ्चो अद्य । अर्वागञ्चनाः अद्य भवत हे यजत्राः हे यजनीयाः । किंच आवो हार्दि भयमानो व्ययेयम् आव्ययेयम् । व्ययतिर्गत्यर्थः । आगमयेयं अभिमुखमापादयेयं वः युष्माकं हार्दि हृदयम् भयमानः बिभ्यत् । बिभेतेर्विकरणव्यत्ययेन शानचि शप् । यत एवमतो ब्रवीमि त्राध्वं पालयत नः अस्मान् हे देवाः, निजुरः नितरां यो भक्षितं जरयति स निजूः बुभुक्षितादित्यः वृकस्य वृकादिति विभक्तिव्यत्ययः । त्राध्वं च कर्तात् कूपात् । अवपदः अवाचीनानि यत्र पदानि स तथोक्तः तस्मात् सोपानैर्यत्रोत्तरितुं । न शक्यत इत्यर्थः । हे यजत्रा यष्टव्याः ॥५१॥
म०. कूर्मदृष्टादित्यस्य प्रथमा पुरोरुक् । यजन्तं त्रायन्ते यजत्राः यष्टव्या वा हे यजत्राः देवाः, अद्य यूयमर्वाञ्चः अस्मदभिमुखाः भवत । दीर्घौ संहितायाम् । यतो भयमानः बिभ्यत् अहं वो युष्माकं हार्दि हृदि भवं मनः आव्ययेयं आगमयेयम् । अभिमुखं संपादयेयमित्यर्थः । 'व्यय गतौ' णिजन्तः । भिञो व्यत्ययेन शपि भयमानः । किंच हे यजत्राः देवाः, नोऽस्मान् वृकस्य वृकात् त्राध्वम् पालयत । कर्तात् कूपाच्च त्राध्वम् । कीदृशाद् वृकात् । निजुरः 'जूरी वधे' नितरां जूर्यते हिनस्ति निजूः । क्विप् तस्मान्निजुरः हिंसकात् । कीदृशात् कर्तात् । अवपदः अवाचीनाः पादन्यासा यत्र सः अवपात् तस्मादवपदः सोपानैर्यत्रोत्तरीतुं न शक्यत इत्यर्थः ॥५१॥

द्विपञ्चाशी।
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ।। ५२ ।।
उ० विश्वे अद्य इति व्याख्यातम् ॥ ५२ ॥
म० विश्वे अद्य लुशदृष्टादित्यपुनर्ग्रहणे । व्याख्याता ( १८। ३१) ॥ ५२ ॥

त्रिपञ्चाशी।
विश्वे॑ देवाः शृणु॒तेमᳪं᳭ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।। ५३ ।।
उ० विश्वेदेवाः हे विश्वेदेवाः, शृणुत इमं हवं आह्वानं मे मम । ये अन्तरिक्षे स्थ भवथ । ये च उपद्यवि द्युलोके स्थ भवथ ये च अग्निजिह्वा अग्निमुखाः । उत वा अपिच यजत्रा यष्टव्याः । श्रुत्वा च आह्वानम् आसद्य स्थित्वा अस्मिन्बर्हिषि मादयध्वं तृप्यध्वम् ॥ ५३ ॥
म०. सुहोत्रदृष्टादित्यग्रहस्य दध्ना श्रयणे विनियुक्ता । हे विश्वेदेवाः, ये यूयमन्तरिक्षे स्थ भवथ । ये च द्यवि उप स्वर्गसमीपे स्थ । ये चाग्निजिह्वाः वह्निमुखाः । उत वा अपिच यजत्राः यजनीयाः ते सर्वे यूयमिमं मे मत्कृतं हवमाह्वानं शृणुत । श्रुत्वा चास्मिन्बर्हिषि आसद्योपविश्य मादयध्वं तृप्यध्वम् ॥५३॥

चतुःपञ्चाशी।
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वᳪं᳭ सु॒वसि॑ भा॒गमु॑त्त॒मम् ।
आदिद्दा॒मान॑ᳪं᳭ सवित॒र्व्यू॒र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ।। ५४ ।।
उ० देवेभ्यो हि । यस्माद्देवेभ्यः प्रथमं यज्ञियेभ्यः | यज्ञार्हेभ्यः अमृतत्वं सुवसि अभ्यनुजानासि भागं चोत्तमं सुवसि आत् इत् अथानन्तरमेव दामानम् दातारमुत्पत्तिस्थितिलयानाम् स्वकीयं रश्मिजालम् हे सवितः, व्यूर्णुषे विवृणोषि विस्तारयसि । रश्मीनामुद्गमे हि विप्रोऽकम्पितमनसाग्निहोत्रादीनि कर्माणि कुर्वीत । किंच अनूचीना अन्वञ्चितानि तदनुगतानि जीविता जीवितानि जीवनहेतूनि कर्माणि मानुषेभ्यः ददासि तस्मात् त्वामेव स्तुम इति वाक्यशेषः ॥ ५४॥
समाप्तं सर्वमेधिकं कर्म । ।
म० वामदेवदृष्टा जगती सावित्रग्रहस्य पुरोरुक् । हे सवितः, हि निश्चितं प्रथममुदयसमये यज्ञियेभ्यः यज्ञार्हेभ्यो देवेभ्यः त्वमुत्तमं भागमग्निहोमरूपं सुवसि प्रेरयसि 'षू प्रेरणे' | तुदादिः अभ्यनुजानासीत्यर्थः । कीदृशं भागम् । अमृतत्वममृतप्रदमित्यर्थः । कार्यकारणयोरभेदेन निर्देशः । आत् इत् अनन्तरमेव उदयानन्तरम् दामानम् ददाति प्रकाशमिति दामा रश्मिसमूहः तं । व्यूर्णुषे विवृणोषि विस्तारयसि । ततो मानुषेभ्यः जीविता जीवितानि जीवनहेतूनि कर्माणि व्यूर्णुषे । सूर्योदयानन्तरमेव प्राणिनां कर्मसु प्रवृत्तेः । कीदृशानि जीवितानि । अनूचीना अनूचीनानि अन्वञ्चन्ति तान्यनूचीनानि रश्मिसमूहानुगतानि तमसि तदभावात् । लौकिकवैदिकव्यवहारप्रवर्तयिता त्वमेवेत्यर्थः ॥ ५४ ॥
इति वैश्वदेवस्तुच्चतुर्थमहः समाप्तोऽयं सर्वमेधः ॥

पञ्चपञ्चाशी ।
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रᳪं᳭ रथ॒प्राम् ।
द्यु॒तद्या॑मा नि॒युत॒: पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ।। ५५ ।।
उ० इदानीं त्रयोनुवाकाः पुरोरुचामनारभ्याधीता व्याख्येया आदित्यस्य वा याज्ञवल्क्यस्य वा आर्षमापितृमेधात् । प्रवायुम् त्रिष्टुप् । चतुर्थः पूर्वं व्याख्यायते वाक्यवशात् । हे प्रयज्यो प्रकर्षेण यजनशील अध्वर्यो, योग्यस्त्वं कविः क्रान्तदर्शनः वायुम् अच्छ आभिमुख्येन प्रइयक्षसि प्रकर्षेण यष्टुमिच्छसि । यजतेरेतद्रूपम् । बृहती मनीषा बृहत्या मनीषया। किंभूतं वायुम् । बृहद्रयिम् महाधनम् । विश्ववारं सर्वस्य वरणीयम् । रथप्रां रथपूरणम् । शत्रुधनैरसौ रथं पूरयति । द्युतद्यामा द्योतनं यमनं यस्य स तथोक्तः । द्युतद्यामानमिति विभक्तिव्यत्ययः वायुविशेषणत्वात् । नियुतः पत्यमानः अत्रापि पत्यमानमिति पदयोर्विकारो वाक्यवशात् । नियुद्भिरश्वैरुत्पतन्तम् । कविं क्रान्तदर्शनम् ॥ ५५॥
म० अथ पञ्चदशपञ्चदशत्रयोदशर्चास्त्रयोऽनुवाकाः पुरोरुचोऽनारभ्याधीताः श्रौतकर्मण्यविनियुक्ताः ब्रह्मयज्ञार्हा आदित्ययाज्ञवल्क्यदृष्टाः पितृमेधपर्यन्तम् । ऋजिश्वदृष्टा त्रिष्टुप् वायुदेवत्या । प्रकर्षेण यजति प्रयज्युः हे प्रयज्यो अध्वर्यो, बृहती मनीषा महत्या बुद्ध्या कृत्वा अच्छ आभिमुख्येन त्वं वायुं प्र इयक्षसि प्रकर्षेण यष्टुमिच्छसि । कीदृशः त्वम् । कविः ज्ञानी । कीदृशं वायुम् । बृहद्रयिम् बृहन् रयिर्यस्य तं महाधनम् । विश्ववारम् विश्वेन व्रियते तम् सर्वस्य वरणीयम् विश्वं वृणोतीति वा सर्वव्यापकम् । रथप्राम् रथं प्राति पूरयति रथप्राः तम् । यजमानाय दातुं धनैः रथं पूरयति । द्युतद्यामा व्यत्ययः द्युतद्यामानम् द्युतत् दीप्यमानं याम यमनं नियमनं यस्य तम् । नियुतः पत्यमानः । उभयत्र विभकिव्यत्ययः । नियुद्भिरश्वैः पत्यमानं गच्छन्तम् । कविं क्रान्तदर्शनम् । ईदृशं वायुं यजेत्यर्थः ॥ ५५ ॥

द्विदेवत्यग्रह१ -ऐन्द्रवायवग्रह। टिप्पणी

ऐन्द्रवायव - मैत्रावरुणग्रहौ। टिप्पणी

ऐन्द्रवायव-मैत्रावरुण-आश्विन् ग्रहाः


षट्पञ्चाशी।
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि
उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनि॑: स॒जोषो॑भ्यां त्वा ।। ५६ ।।
उ० इन्द्रवायू इमे व्याख्यातम् ॥ ५६ ॥
म० इन्द्रवायू व्याख्याता (७।८)॥५६॥

सप्तपञ्चाशी।
मि॒त्रᳪं᳭ हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताची॒ᳪं᳭ साध॑न्ता ।। ५७ ।।
उ० मित्रᳪं᳭हुवे । द्वे गायत्र्यौ मित्रमाह्वयामि । पूतदक्षम् पूतस्य शुद्धस्य प्राणिन उद्धरणे दक्षं सोमम् । वरुणं च रिशादसम् हिंसकादिविनाशाने शक्तिं कुर्वाणम् हुवे । कीदृशः । धियं कर्म । घृताचीम् येन कर्मणा घृतमच्यते हूयते तत्कर्म । साधन्ता साधयन्तौ । नहि देवतामन्तरेण कर्मसिद्धिः ॥ ५७ ॥
म०. द्वे मधुच्छन्दोदृष्टे गायत्र्यौ आद्या लिङ्गोक्तदेवत्या । मित्रं वरुणं चाहं हुवे आह्वयामि। कीदृशम् । पूतदक्षं पूतं पवित्रं सदाचारं दक्षयति धनपुत्रादिभिर्वर्धयति पूतदक्षस्तम् 'दक्ष कम्यृद्ध्योः' इत्यस्माण्णिजन्तात्कर्मण्यण् । रिशादसम् रिशन्ति हिंसन्ति रिशा दुष्टाः तान् समन्ताद्दसति नाशयति रिशादसः तम् । 'रिश हिंसायाम्' 'दस उपक्षये' । द्वयोर्विशेषणे । कीदृशावुभौ । धियं कर्म साधन्ता साधयन्तौ । कीदृशीं धियम् । घृताचीम् घृतमच्यते हूयते यत्र ताम् ॥ ५७ ॥

अष्टपञ्चाशी।
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑तᳪं᳭ रुद्रवर्तनी । तं प्र॒त्नथा॒ऽयं वे॒नः ।। ५ ८ ।।
उ० दस्रा युवाकवः । द्वयोरश्विनोरेकस्य दस्र इति नाम अंपरस्य नासत्य इति । तत्रायं विभक्त्यर्थे आकारो विरूपैकशेषे वर्तते । 'गुणो यङ्लुकोः' इति च पाणिनिर्दर्शयति । हे दस्रौ दर्शनीयौ, हे नासत्यौ न असत्यौ सत्यावेव । 'नभ्राण्नपात्-' इति प्रकृतिभावः । युवाकवः युवां कामयमानाः अहमहमिकया मां पिबतं मां पिबतमिति सुता अभिषुताः। वृक्तबर्हिषः प्रस्तीर्णबर्हिषः । यतः अतो ब्रवीमि आयातम् आगच्छतम् । हे रुद्रवर्तनी रुद्रस्येव वर्तनिर्ययोस्तौ तथोक्तौ रुद्रपन्थानौ । तं प्रत्नथायं वेन इति प्रतीकोक्तौ ॥ ५८॥
म० आश्विनी द्वयोरश्विनोरेकस्य दस्र इति नामापरस्य नासत्य इति । हे दस्रौ दर्शनीयौ, हे नासत्या नासत्यौ न असत्यौ । सत्यवादिनावित्यर्थः । युवामायातमागच्छतम् । यतः सुता अभिषुताः सोमा इति शेषः । कीदृशाः सोमाः । युवाकवः युवां कामयन्ते ते युवाकवः मां पिबतमितीच्छन्तः। यद्वा युवन्ति अग्नौ मिश्रीभवन्ति युवाकवः 'कटिकुषिभ्यां काकुः' ( उणा० ३ । ७६ ) इति बहुलग्रहणात्काकुप्रत्ययः। वृक्तबर्हिषः वृक्तं बर्हिर्यत्र ते । कीदृशौ युवाम् । रुद्रवर्तनी रुद्रस्येव वर्तनिः पन्था ययोस्तौ रुद्रवद्गमनशीलौ । तं प्रत्नथा (७ । १२) अयं वेनः (७ । १६) एते द्वे प्रतीकोक्ते ॥ ५८ ॥

आग्रयण स्थाली


एकोनषष्टी।
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथ॑: पू॒र्व्यᳪं᳭ स॒ध्र्य॒क्कः ।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ।। ५९ ।।
उ० आग्रयणं गृह्णाति । विदद्यदि त्रिष्टुप् । इह वाक्प्रकटीभवेति सोच्यते । विदत् जानीयात् यदि । सरमा वाक् त्रयीलक्षणा । सा हि अभिषवे समानं रमते । रुग्णं चूर्णीकृतम् अद्रेः सोमाभिषवस्य कर्तुः अद्रिभिश्च सोमोऽभिषूयते। महि महत् पाथः सोमलक्षणमन्नम् पूर्व्यं उपांश्वन्तर्यामैन्द्रवायवादिषु गृहीतम् । सध्र्यक् समानाञ्चनम् । सहस्य सध्रिः अञ्चतेरुत्तरम् । कः कुर्यात् । किंच अग्रंनयत् यज्ञाग्रं नयति सा पाथः । सुपदी शोभनानि पदानि यस्या वाचः सा तथोक्ता । नहि पदानि प्रत्याख्याय वाक्यं स्यात् । अक्षराणामकारादीनां रवं शब्दं जानती प्रथमा अच्छ आभिमुख्येन अगात् गच्छति । एवमधियज्ञं मन्त्रो व्याख्यायते बह्वृचांतु संवादसूक्तम् । तत्र सरमा देवशुनी इन्द्रेण प्रेषितान्वेषणार्थं गोधने पणिभिरसुरैर्हृते तदभिप्रायेण व्याख्यायते । तत्रासुराणां पर्यालोचनवाक्यम् । विदद्यदि विदत् अलभत् यदा सरमा देवशुनी । रुग्णं भग्नं गवां संबन्धिभिः खुरैः । अद्रेः पर्वतस्य द्वारम् । अथानन्तरं महि महत् गोलक्षणं पाथः अन्नम् । पूर्व्यम् पूर्वेषु कालेषु अपहृतम् । सध्र्यक् देवान्प्रति सहाञ्चनम् कः। करोतेः रूपं । करिष्यति । अग्रम् गवामग्रमवस्थाय नयत् नेष्यति । सुपदी शोभनपादयुक्ता पदेन यान्वेषयति नष्टं सैवमुच्यते । अक्षराणामस्मदीयवाक्यसंबन्धिनाम् अच्छ अभि रवमुच्चारणम् प्रथमा जानती अगात् आगमिष्यति ॥ ५९ ॥
म० कुशिकदृष्टा त्रिष्टुप् इन्द्रदेवत्या । सह रमन्ते देवा विप्रा वा यस्यां सा सरमा वाक् । प्रथमा आद्या सरमा त्रयीलक्षणा वाक् अच्छ यज्ञाभिमुखं गात् आगच्छति । यज्ञं प्रतिपादयतीत्यर्थः । कीदृशी सरमा । सुपदी शोभनानि पदानि सुप्तिङन्तानि यस्यां सा । अक्षराणामकारादीनां रवं शब्दं जानती ज्ञापयन्ती । अन्तर्भूतणिजर्थः । तां सरमां यदि चेत् विदज्जानीयात् अध्वर्युः तर्हि पाथः सोमलक्षणमन्नं कः कुर्यात् वेदानभिज्ञस्य सोमकण्डनानधिकारात् । कीदृशं पाथः । अद्रेः रुग्णम् विभक्तिव्यत्ययः । अद्रिणा सोमाभिषवग्राव्णा रुग्णमभिषुतम् । महि महत् । पूर्व्यं पूर्वगृहीतमुपांश्वन्तर्यामैन्द्रवायवादिपात्रेषु । सध्र्यक् सहाञ्चति सहस्य सध्रिः । सहैव हवनाय गच्छत् । अग्रं नयत् अग्रं मुख्यत्वं यजमानं प्रापयत् यज्ञेन यजमानो मुख्यो भवति । एवमधियज्ञं मन्त्रो व्याख्यातः । बह्वृचानां तु संवादसूक्तमिदम् । तत्र पणिभिरसुरैर्देवगोधनेऽपहृते इन्द्रेण देवशुनी तद्भीत्यै प्रेरिता तदभिप्रायेण व्याख्यायते । सरमा देवशुनी इन्द्रेण वान्वेषणाय प्रहिता सती यदि यदा अद्रेः गिरेः रुग्णं भग्नम् द्वारम् विदत् अविदत् अलभत् तदा इन्द्रः पाथः हविरन्नं कः अकार्षीत् तस्यै दत्तवान् । ततः सुपदी शोभनपादयुक्ता सा सरमा अक्षराणां क्षरणेन नाशेन रहितानामनुपद्रुतानां गवाम् अग्रं प्रान्तं नयत् अनयत् प्राप्नोत् । प्रथमा प्रथमम् रवं गवां हम्भारवं जानती सती अच्छ गवामभिमुखं गात् अगात् जगाम । कीदृशं पाथः । महि महत् । पूर्व्यं पूर्वं प्रेषणकाले अन्नादिनीं ते प्रजां करिष्यामीति प्रतिज्ञातम् । सध्र्यक् सध्रीचीनमितरैरपि सह भोज्यम् । विदत् 'विद्लृ लामे' 'पुषादि' (पा० ३ । १ । ५५) इत्यादिना च्लेरङादेशः अडभाव आर्षः । सरमा ‘सृ गतौ' औणादिकोऽमप्रत्ययः । 'सरमा सरणिः' इति यास्कः । रुग्णम् 'रुजो भङ्गे' निष्ठायां 'ओदितश्च' (पा० ८।२। ४५ ) इति नत्वम् । पाथः पातीति 'पा रक्षणे' अन्नम् असुन्प्रत्ययस्य थुडागमः। कः करोतेर्लुङि 'मन्त्रे घसह्वर-' (पा० २।४ । ८० ) इत्यादिना च्लेर्लोपे रूपम् । सुपदी 'पादोऽन्यतरस्याम् (पा० ४ । १ । ८) इति ङीप् । गात् 'इणो गा लुङि' ॥ ५९॥

षष्टी।
न॒हि स्पश॒मवि॑दन्न॒न्यम॒स्माद्वै॑श्वान॒रात्पु॑रए॒तार॑म॒ग्नेः ।
एमे॑नमवृधन्न॒मृता॒ अम॑र्त्यं वैश्वान॒रं क्षै॑त्रजित्याय दे॒वाः ।। ६० ।।
उ० नहि स्पशम् । त्रिष्टुप् । नहिशब्दः प्रतिषेधवचनः । स्पशम् स्पशः प्रणिधिरुच्यते। अविदन् अन्यम् अस्मात् वैश्वानरादग्नेः । पुरएतारं सर्वेषु कार्येषु अग्रगन्तारं च नहि अविदन् । आ ईम् द्वौ निपातौ अथशब्दस्यार्थे वर्तेते । अथ एनं वैश्वानरम् अवृधन् वर्धितवन्तः । अमृता अमरणधर्माणो देवाः । अमर्त्यम् अमरणधर्माणं वैश्वानरम् । क्षैत्रजित्याय यजमानस्य देवयजनक्षेत्रजयनिमित्तम् ॥ ६० ॥
म० विश्वामित्रदृष्टा त्रिष्टुब्वैश्वानरी । देवाः वैश्वानरात् विश्वेभ्यो हितात् अग्नेः अन्यं स्पशं दूतं पुरएतारं सर्वकार्येषु पुरःसरं च नहि अविदन् नालभन्त । नहिशब्दो निषेधवाची। स्पशः प्रणिधिरुच्यते । पुर एति गच्छति पुरएता तम् । आ ईम् निपातौ अथार्थौ । अथामृता देवाः एनं वैश्वानरमवृधन् अवर्धयन् । कीदृशमग्निम् । अमर्त्यममरणधर्माणम् । किमर्थमवृधन् । क्षैत्रजित्याय क्षेत्रमेव क्षैत्रं तस्य जित्यं जयस्तस्मै यजमानस्य क्षेत्राप्त्यै ॥ ६०॥

एकषष्टी।
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे । ता नो॑ मृडात ई॒दृशे॑ ।। ६१ ।।
उ० उग्रा विघनिना । द्वे गायत्र्यौ । उग्रा उग्रौ उद्गूर्णौ । विघनिना हन्तेर्घत्वम् विहन्तारौ मृधः संग्रामस्य संग्रामकारिणां वा । इन्द्राग्नी हवामहे आह्वयामः । तौ च आहूतौ नः अस्मान् मृडातः मृडयतः सुखयतः ईदृशे कर्मणि ॥६॥
म० भरद्वाजदृष्टा ऐन्द्राग्नी गायत्री । वयमिन्द्राग्नी हवामहे आह्वयामः । कीदृशाविन्द्राग्नी उग्रौ उद्गूर्णबलौ । मृधो हिंसकान् विघनिनौ विशेषेण हतो नाशयतस्तौ विघनिनौ हन्तेर्घः । ता तौ आहूतौ इन्द्राग्नी नोऽस्मान् । ईदृशे भयानके संग्रामे कर्मणि वा । मृडातः मृडयतः सुखयतः ॥ ६१॥

द्विषष्टी।
उपा॑स्मै गायता नर॒: पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ२ इय॑क्षते ।। ६२ ।।
उ० उपास्मै । उपगायत हे नरः ऋत्विजः, अस्मै पवमानाय दशापवित्राद्द्रोणकलशं प्रति गच्छते । इन्दवे सोमाय अभिइयक्षते यष्टुमिच्छते । सनि यकारलोपः। देवान् ॥ ६२॥
म० देवलदृष्टा सोमदेवत्या गायत्री । हे नरो यज्ञनेतारः ऋत्विजः, अस्मै इन्दवे सोमाय उपगायत उद्गातृशास्त्रमनुसृत्योपशब्दयत । स्तोत्राणि कुरुतेत्यर्थः । कीदृशायेन्दवे । पवमानाय ‘पव गतौ' पवते दशापवित्राद्द्रोणकलशं गच्छति पवमानस्तस्मै देवान् यष्टव्यानभि संमुखमियक्षते यष्टुमिच्छते। यजेः सनि छान्दसोऽभ्यासयकारलोपः ॥ ६२ ॥

त्रिषष्टी। ।
ये त्वा॑ऽहि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्रा॒: पिबे॑न्द्र॒ सोम॒ᳪं᳭ सग॑णो म॒रुद्भि॑: ।। ६३ ।।
उ० ये त्वा द्वे त्रिष्टुभौ । ये मरुतः त्वाम् अहिहत्ये अहिरसुरः । अहिवधे कर्तव्ये हे मघवन्, अवर्धन्वर्धितवन्तः । ये च शाम्बरे वधे कर्तव्ये हे हरिवन् । ये च गविष्टौ गवामपामेषणायोपस्थितं सन्तं त्वामवर्धन् । ये च त्वा त्वाम् नूनं निश्चयेन अनुमदन्ति उत्कर्षयन्ति तर्पयन्ति वा । विप्राः मेधाविनः पिब हे इन्द्र, सोमम् सगणः समानगणः तैः मरुद्भिः ॥ ६३ ॥
म० विश्वामित्रदृष्टाद्या द्वे त्रिष्टुभौ इन्द्रदेवत्यास्तिस्रः । हे मघवन् धनवन् , ये मरुतो गणदेवाः अहिहत्ये वृत्रहननरूपे कर्मणि त्वा त्वामवर्धन् जहि वीरयस्वेत्यादिवचोभिस्ते वृद्धिमकुर्वन् । हे हरिवः, हरिनामकाश्वयुक्त, शाम्बरे शम्बरसंबन्धिनि युद्धे ये त्वामवर्धन् । ये च मरुतो गविष्टौ गवां पण्यसुरहृतानामिष्टौ प्रत्याहरणेच्छायां ये त्वामवर्धयन् । ये च विप्राः मेधाविनो मरुतो नूनं निश्चितं त्वामनु मदन्ति उत्कर्षयन्ति तर्पयन्ति वा । हे इन्द्र, तैर्मरुद्भिः सगणः गणसहितः सन् सोमं पिब मरुत्वतीयादिग्रहं पिबातृप्तेः । अहिहत्ये हन्तेर्भावे 'हनस्त च' (पा० ३ । १ । १०८) इति क्यप् कृदुत्तरपदसमासः । अवर्धन् । झेः सार्वधातुकत्वेऽपि 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इत्यार्धधातुकले णिलोपः। यद्वृत्तयोगान्निघाताभावः (पा० ८ । १। ६६ )। गवामिष्टिर्यस्मिन् रणे इति 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा० ६ । २ । १) इति पूर्वपदस्वरः । अनुमदन्ति । झेर्लसार्वधातुकानुदात्तत्वे धातुस्वरः 'तिङि चोदात्तवति-' (पा० ८ । १।७१) | इति गतेर्निघातः ॥ ६३ ॥

चतुःषष्टी।
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ।। ६४ ।।
उ० जनिष्ठा उग्रः । जातः उग्रः उद्गूर्णः । सहसे बलाय तुराय त्वरणाय । वचनविशेषणम् । मन्द्रः मन्दनीयः ओजिष्ठः अतिशयेन ओजसा युक्तः । बहुलाभिमानः अचिन्त्याभिमानः बहुप्रकाराभिमानो वा । अभिमानः ज्ञानम् यत् तस्मात् । अवर्धन् अवर्धयन् इन्द्रं । मरुतश्चित् मरुतोऽपि अत्र परमपदे स्थितम् । माता अदितिः यत् यस्मात् वीरंच दधनत् दधातेरेतद्रूपम् नकार उपजनः। धारितवती। धनिष्ठा अतिशयेन धन्या धनवती । तस्माच्च मरुतः अवर्धन्निति संबन्धः ॥ ६४ ॥
म० गौरिवीतिदृष्टा । हे इन्द्र, त्वं सहसे बलाय जनिष्ठा अजनिष्ठाः जातोऽसि लुङ् अडभावः । कीदृशाय । सहसे तुराय त्वरमाणाय वेगवते । कीदृशः त्वम् । उग्रः उत्कृष्टः । मन्द्रः स्तुत्यः ओजिष्ठः अत्यन्तमोजस्वी ओजिष्ठः 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इति विनो लुक् । बहुलाभिमानः सर्वं जगन्मद्विभूतिरिति भूयिष्ठाभिमानः । अत्र वृत्रवधे ईदृशमिन्द्रमरुतश्चित् मरुतोऽपि अवर्धन् । स्तुतिसहायाभ्यामिति शेषः। इदं चेन्द्रसौभाग्यं गर्भकालीनमित्याह । यत् यस्मात् मातादितिः धनिष्ठान्या वीरमिन्द्रं दधनत् गर्भे धारितवती । नकार उपजनः ॥ ६४ ॥

पञ्चषष्टी।
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि । म॒हान्म॒हीभि॑रू॒तिभि॑: ।। ६५ ।।
उ० आ तू नः । आ तू नः इति त्रयो निपाताः छन्दः. परिपूर्तिकराः । हे इन्द्र, हे वृत्रहन् वृत्रस्य हन्तः, अस्माकमर्धम् अस्मदीयं पक्षम् आगहि आगच्छ । एत्य च अस्मान् पालयेति शेषः । महान् सन् महीभिर्महतीभिः ऊतिभिरवनैः पालनैः ॥ ६५॥
म० वामदेवदृष्टा गायत्री । तु इति निपातः क्षिप्रवचनः । 'ऋचि तुनुघ-' (पा० ६ । ३ । १३३ ) इत्यादिना तस्य संहितायां दीर्घः । वृत्राणामावरकाणां पाप्मनां हन्ता वृत्रहा । हे वृत्रहन् हे इन्द्र, त्वं नोऽस्मान् प्रति तु क्षिप्रम् आ आगच्छेत्यर्थः । आगत्य चास्माकमर्धमस्मन्निवासदेशमागहि । देवयजनदेशं प्राप्नुहीत्यर्थः । कीदृशस्त्वम् । महीभिः महतीभिः ऊतिभिः अवनैः रक्षाभिः महान् । योऽन्यं रक्षति स महानुच्यते ॥६५॥

षट्षष्टी।
त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृध॑: ।
अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ।। ६६ ।।
उ० त्वमिन्द्र बृहती । त्वमेव हे इन्द्र, प्रतूर्तिषु प्रतरणेषु शत्रुषु निमित्तभूतेषु । अभिविश्वा असि अभ्यसि अभिभवसि विश्वाः सर्वाः स्पृधः संग्रामान् । किंच अशस्तिहा अभेरादिशेषः । अभिशस्तिहा । जनयिता च सुखानाम् । विश्वतूः सर्वतूरणश्चासि । अतो ब्रवीमि । त्वमेव तूर्यं जहि मारय । तरुष्यतः हनिष्यतः शत्रून् ॥ ६६ ॥
म० नृमेधदृष्टे द्वे ऐन्द्र्यौ पथ्याबृहतीसतोबृहत्यौ । प्रकृष्टा तूर्तिर्हिंसा येषां यत्र वा ते प्रतूर्तयः शत्रवः संग्रामा वा तेषु प्रतूर्तिषु हे इन्द्र, त्वं विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेनाः अभि असि अभिभवसि । किंच यतः त्वं विश्वतूरसि विश्वान् सर्वान् रिपून् तूयेते हिनस्ति विश्वतूः । ततः तरुष्यतः हनिध्यतः शत्रून् तूर्य जहि मारय । कीदृशस्त्वम् । अशस्तिहा नास्ति शंसा प्रशस्तिर्येषां ते अशस्तयः दुष्टास्तान्हन्तीत्यशस्तिहा। जनिता जनयिता स्वपक्षप्रशंसोत्पादकः ॥ ६६ ॥

सप्तषष्टी।
अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
विश्वा॑स्ते॒ स्पृध॑: श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ।। ६७ ।।
उ० अनु ते । सतोबृहती। चतुर्थः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । हे इन्द्र, यत् यस्मात्कारणात् वृत्रमसुरं तूर्वसि । तूर्वतिर्हिंसाकर्मा हिंसि । अतः कारणात् । अनु ते शुष्मं तुरयन्तमीयतुः । अन्वीयतुः अनुजग्मतुः अनुगतवत्यौ त्वामेव । ते तव शुष्मं बलं किंकुर्वाणं । तुरयन्तं तूर्ण गच्छन्तम् । क्षोणी क्षोण्यौ द्यावापृथिव्यौ । शिशुं न शिशुमिव पुत्रमिव । मातरा मातृपितरौ विरूपैकशेषः । किंच विश्वाः सर्वाः स्पृधः संग्रामाः ते तव मन्यवे मन्योः भयात् श्रथयन्ति विशीर्यन्ति । यो हि वृत्रं हन्ति यस्य च द्यावापृथिव्यौ बलमीयतुः ॥ ६७ ॥
म० हे इन्द्र, क्षोणी द्यावापृथिव्यौ ते तव शुष्मं बलमन्वीयतुः अनुगच्छतः । द्यावापृथिवीस्था लोकास्त्वद्बलं बहु मन्यन्त इति भावः । कीदृशं शुष्मम्। तुरयन्तं शत्रुषु त्वरामाविष्कुर्वन्तम् । अनुगमने दृष्टान्तः । मातरौ मातापितरौ शिशुं न शिशुमिव । यथा पितरौ बालमनुगच्छतः 'यस्य बलाद् द्यावापृथि
व्यावप्यबिभीताम्' ( निरु० १० । १० ) इति यास्कः । तदेव प्रपञ्चयति विश्वा इति । विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेनाः ते तव मन्यवे । पञ्चम्यर्थे चतुर्थी । तव क्रोधात् श्रथयन्त अश्रथयन्त श्रथिताः खिन्ना भवन्ति । तव क्रोधदर्शनादुद्विजन्त इत्यर्थः । युक्तमेतत् । यत् यस्मात् युद्धे हे इन्द्र, त्वं वृत्रं देवासुरावध्यं तूर्वसि हंसि । तूर्वतिर्हिंसार्थः ॥ ६७॥ .

अष्टषष्टी ।
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑: ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ᳪं᳭हो॑श्चि॒द्या व॑रिवो॒वित्त॒रास॑त् । आ॒दि॒त्येभ्य॑स्त्वा ।। ६८ ।।
उ० यज्ञो देवानामिति व्याख्यातम् ॥ ६८ ॥
म० कुत्सदृष्टा त्रिष्टुप् व्याख्याता ( ८ । ४ ) ॥ ६८ ॥

एकोनसप्ततितमी।।
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वᳪं᳭ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪं᳭स ईशत ।। ६९ ।।
उ० अदब्धेभिः सवितः। जगती । हे सवितः, अदब्धेभिः अनुपहिंसितैः पायुभिः पालनैः त्वम् शिवेभिः शान्तैः अद्य परिपाहि परिपालय नोऽस्माकम् गयं गृहम् । हिरण्यजिह्वः सत्यवाक् भूत्वा । सुविताय सुप्रसूताय कर्मणे नव्यसे नवतराय । भवेति वाक्यशेषः । रक्ष च सर्वथा । माकिः मा कश्चन नोऽस्माकं अघशंसः अघं पापं यः शंसति स अघशंसः । ईशत ईष्टा ईशिता भवतु ॥ ६९ ॥ ।
म० भरद्वाजदृष्टा जगती सवितृदेवत्या । हे सवितः सर्वस्य प्रसवितः, पायुभिः पालनैः नोऽस्माकं गयं गृहं धनं वा त्वमद्य परिपाहि रक्ष । 'गयः कृदरः' इति गृहनामसु, 'मीड्हुं गयः' इति धननामस्वपि पाठात् गृहधनयोर्गयशब्दः। कीदृशैः पायुभिः । अदब्धेभिः अदब्धैरनुपहिंसितैः । शिवेभिः शान्तैः सुखरूपैः । कीदृशस्त्वम् । हिरण्यजिह्वः हिरण्यवदविचला जिह्वा यस्य सत्यवाक् । यद्वा 'हिरण्या हितरमणीया जिह्वा ज्वाला यस्येति वा 'हिरण्यं कस्मादित्यादि हितरमणीयं भवतीति वा' ( निरु० २ । १३ । १२) इति यास्कोक्तेः । किंच नव्यसे नवीयसे नवतराय सुविताय सु इताय सुखाय अस्मान् रक्ष पालय । किंच माकिः मा कश्चनाघशंसः पापमाशंसमानः शत्रुः नोऽस्माकमीशत ऐश्वर्यं कुर्यात् । त्वत्प्रसादात्पाप्मास्माकमीशिता मा भूदित्यर्थः । ईशत लङ् 'बहुलं छन्दसि' (पा० २। ४ । ७३ ) इति शपो लुगभावः अडभावश्च ॥ ६९ ॥

सप्ततितमी।
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑: ।
वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ।। ७० ।।
उ० प्रवीरया । अन्याः पुरोरुग्गणः त्रिष्टुप् । प्रवीरया । बहुवचनस्य स्थाने यादेशः । प्रकृष्टवीराः सोमाः शुचयः स्वभावादेव शुद्धाः । दद्रिरे 'दॄ विदारणे । विदीर्णाः कणीभूताः । वां युवयोः संबन्धिनः । हे यजमानौ जायापती । कथं दद्रिरे इति चेत् । वाम् अध्वर्युभिः मधुमन्तः उदकवन्तः सुतासः अभिषुताः ग्रावभिः । एवमनेनार्धर्चेन यजमानौ संबोध्य अथेदानीं संबोधयति वायुम् । वह वायो नियुतः । वह प्रापय । हे वायो, नियुद्गणकानश्वान् याहि च अच्छ सोममभि । सोमं वा प्राप्तुम् । पिब च सुतस्याभिषुतस्य । अन्धसः सोमस्य । मदाय तृप्तये मदजननार्थं वा ॥ ७० ॥
म० वसिष्ठदृष्टा त्रिष्टुप् । वायुदेवत्याः पञ्चदश ऋचः द्वे प्रतीकोक्ते एवं सप्तदशकः पुरोरुचां समूहः । वामिति द्विवचनं पत्नीयजमानविषयम् । हे पत्नीयजमानौ, वां युवयोः स्वभूताः सोमाः दद्रिरे विदीर्णाः चूर्णीभूताः 'द्रु विदारणे' कर्मकर्तरि लिट् । कीदृशाः । प्रवीरया प्रकृष्टा वीरा ज्ञानोद्भवा ऋत्विजो येषां सोमानां ते प्रवीराः 'सुपां सुलुक्' (पा० ७ । १।३९) इति जसो याजादेशः। शुचयः निर्मलाः । अध्वर्युभिः सुतासः सुताः अभिषवधर्मेण 'ग्रावभिः द्रवीभावमापादिताः अभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात्' ( का. ९।५।१) इति कात्यायनस्मरणादध्वर्युभिरिति बहुवचनम् । अध्वरनेतृभिर्ऋत्विग्विशेषैः सुता इत्यर्थः । मधुमन्तः मधुनिग्राभ्यारूपमुदकं तद्वन्तः । एवं पूर्वार्धे पत्नीयजमानौ संबोध्य वायुमाह । वाति सर्वत्र गच्छति वायुः हे वायो, नियुतोऽश्वान् त्वं वह देवयजनदेशं प्रापय अच्छ याहि । अच्छाभेरर्थे आप्तुमिति वा । सोमाभिमुखं सोममाप्तुं वा याहीत्यर्थः । यात्वा च मदाय तृप्तये मत्ततायै वा सुतस्याभिषुतस्यान्धसः सोमस्य स्वमंशं पिब ॥ ७० ॥

एकसप्ततितमी।
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ।। ७१ ।।
उ. गाव उपेति व्याख्यातम् ॥ ७१ ॥
म०. गाव उपेति व्याख्याता ( ३३ । १९) ॥ ७१॥

द्विसप्ततितमी।
काव्य॑योरा॒जाने॑षु॒ क्रत्वा॒ दक्ष॑स्य दुरो॒णे । रि॒शाद॑सा स॒धस्थ॒ आ ।। ७२ ।।
उ०. काव्ययोराजानेषु । गायत्री । काव्ययोः कवीनां हितयोः । आजानेषु आजन्मभूमिषु उत्पत्तिस्थानेषु । क्रत्वा कर्मणा अग्निष्टोमादिकया क्रियया । दक्षस्य उत्साहवतो यजमानस्य । दुरोणे यज्ञगृहे । रिशादसा । रेशितव्यस्योपलक्षयितारौ । सधस्थआ सहस्थाने आगच्छतम् । हे मित्रावरुणाविति शेषः ॥७२॥
म० दक्षदृष्टा गायत्री मैत्रावरुणी । कवीनां क्रान्तदर्शिनां ज्ञानसमुच्चयकारिणां हितौ काव्यौ तयोः । रिशन्ति हिंसन्ति रिशाः तानासमन्ताद्दस्यतो नाशयतः तौ रिशादसौ । द्विवचनं मित्रावरुणविषयम् । हे रिशादसौ शत्रूपक्षयितारौ मित्रावरुणौ, यजमानस्य सधस्थे देवमनुष्याणां सहसोमपानस्थाने युवाम् आ आगच्छतम् । कीदृशस्य यजमानस्य । काव्ययोः कविहितयोर्युवयोः आजानेषु आ समन्ताज्जन्मसु सोमपानार्थमाविर्भूतभूमिषु देवयजनादिषु दुरोणे यज्ञगृहे च क्रत्वा क्रतुना यज्ञकर्मणा कृत्वा दक्षस्य उत्साहवतः यज्ञं समर्धयत इत्यर्थः । दक्षस्येति विशेषणाद्यजमानपदमध्याहर्तव्यम् । आ इत्युपसर्गेण गच्छतमिति क्रियाध्याहारः ॥ ७२ ॥

त्रिसप्ततितमी।
दै॑व्यावध्वर्यू॒ आग॑त॒ᳪं᳭ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञᳪं᳭ सम॑ञ्जाथे ।
तं प्र॒त्नथा॒ऽयं वे॒नः ।। ७३ ।।
उ० दैव्यावध्वर्यू व्याख्यातम् । तं प्रत्नथा अयं वेन इति द्वे प्रतीकोक्ते ॥ ७३ ॥
म० दैवेति व्याख्याता ( ३३ । ३३ ) तं प्रत्नथा (७ । १२) अयं वेनः ( ७ । १६) इति द्वे प्रतीकोक्ते ॥ ७३ ॥

चतुःसप्ततितमी।
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ।। ७४ ।।
उ० तिरश्चीनो विततः । त्रिष्टुप् । आग्रयणेनया गृह्यते तदभिप्रायेण प्रधार्यते आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानः । ततो ग्रहग्रहणम् । तिरश्चीनो विततो रश्मिरेषाम् एषां सोमानाम् अन्तरा दशापवित्रलक्षणात् रश्मिः तिरश्चीनः विततः प्रसारितः उद्गातृमिः तस्मिन्दशापवित्रे सोमः प्रक्षिप्तः दशापवित्रात् अधःस्वित् अधश्च आसीत् उपरिस्वित् उपरि च आसीत्। आसीदित्युभयत्र विचारे प्लुतिः । किंच रेतोधा आसन् । रेतः सोमः स हि जगदुत्पत्तिबीजम् । तस्य धारयितार आसन् ग्रहचमसाधवनीयद्रोणकलशादयः। महिमानश्च आसन् । सोमैकादशाः सोमस्य महिमानः । किंच स्वधा अवस्तात् स्वधा अन्नम् अवस्तात् शुक्रो द्रोणकलश इत्येतदुक्तं भवति । प्रयतिः परस्तात् प्रयतनं प्रयतिः परस्तादुपरिष्टात् । आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानोऽवनयति इत्येतदुक्तं भवति ॥ ७४ ॥
म० प्रजापतिदृष्टा त्रिष्टुप् भाववृत्तदेवत्या । भावेषु पदार्थेषु वृत्तः स्थितो भाववृत्तः परमात्मा सोऽस्या देवता । आग्रयणग्रहे विनियोगः क्रमपाठाल्लभ्यते ततोऽधियज्ञं तावद्ख्या>तयते । 'आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानस्ततो ग्रहग्रहणमा ध्रुवादिति' ( का० ९ । ५। १७ ) कात्यायनेनोक्तं तदभिप्रायेणोच्यते । एषां पूयमानसोमानां रश्मिः यमनात् ऋजीषादिकल्कनियामको दशापवित्रलक्षणः तिरश्चीनः तिर्यङ् एव विततो विस्तारितः उद्गातृभिरिति शेषः । तस्मिन् दशापवित्रे सोमः प्रक्षिप्तः सन् दशापवित्रादधश्च आसीत् उपरि च आसीत् । स्विच्छब्दौ चार्थो । उपरि स्विदासीदितीकारः प्लुतः । किंच तत्रैके पदार्था ग्रहचमसाधवनीयद्रोणकलशादयो रेतोधा आसन् रेतो जगदुत्पत्तिबीजं सोमं दधति धारयन्ति ते रेतोधाः सोमाधारभूताः आसन् । 'यज्ञाद्वै प्रजाः प्रजायन्ते' इति श्रुतेर्जगद्बीजत्वं सोमस्य । तथाऽपरे पदार्थाः सोमरसरूपास्तत्राधेयाः सन्तो महिमानः महान्तः उत्कृष्टा आसन् । आधाराधेयभावेन सर्वोऽयं यज्ञात्मैव स्थित इति भावः । 'ब्रह्मार्पणं ब्रह्म हविः' इति स्मृतेः । किंच स्वधान्नं तद्रूपः अवस्तात् अवरो होमात् प्राक् नीच आसीत् । प्रयतिः प्रयतते प्रयतिः प्रयत्नवान् होमानन्तरं लब्धफलकः सन् परस्तात् परः उत्कृष्टः आसीत् । अथाधिदैवतं व्याख्या । एषां प्रसिद्धानां सूर्यरश्मीनां मध्ये एकः सुषुम्णाख्यो रश्मिः तिरश्चीनः विततः विस्तृतः सन् किम् द्युलोकादधःस्वित् आसीत् उतोपरिस्विदासीत् । स्विदिति वितर्के । 'विचार्यमाणानाम्' (पा. ८ । २ । ९७ ) इति प्लुतः । किंच स रश्मिः रेतोधाः रेतसो विश्वबीजस्योदकस्य धारयिता आसीत् । व्यत्ययेनैकवचनम् । तथाच श्रुतिः ‘सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति' इति । अन्ये रश्मयो महिमानः माहात्म्याधायका आसन् विश्वप्रकाशत्वेन । किंच स्वधान्ननिष्पादकः स एव रश्मिः अवस्तात् अवरो भूम्यभिमुखः प्रयतिः प्रयत्नात्सोर्ध्वमुखः सन् परस्तात् परः उत्कृष्टः दर्शनमात्रेण देवानां तृप्तिदः । तथोक्तं छान्दोग्यश्रुतौ 'असौ वा आदित्यो देवमध्वि'त्युपक्रम्य 'न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति' ( छां० ५।१।६ ) इति । अथाध्यात्मपक्षे व्याख्या । नासदासीदिति सप्तर्चेऽध्यात्मप्रतिपादके सूक्ते (ऋ. ८। ७ । १७) बह्वृच इमामृचं पठन्ति तत्र । नासदासीदिति निरस्तसमस्तप्रपञ्चां प्रलयावस्थामनूद्य विश्वबीजमविद्योक्ता । कामस्तदग्रे समवर्ततेति पादेन च काम उक्तः । मनसो रेतः प्रथमं यदासीदिति पादेन पुण्यापुण्यात्मकं कर्मोक्तम् । एवमविद्याकामकर्माणि सृष्टिहेतून्युक्त्वा तेषां स्वकार्यजनने शैघ्र्यमाह तिरश्चीन इति । एषामविद्याकामकर्मणां रश्मिरिव रश्मिः कार्यवर्गो वियदादि विततः विस्तृतः सन् तिरश्चीनः तिर्यगवस्थितो मध्ये स्थितः अधश्चासीदुपरि चासीत् । सूर्यरश्मिवद्युगपत्सर्वं व्यापेत्यर्थः । तदेव विभजते रेतोधा इति । सृष्टे कार्यवर्गे केचन रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवाः आसन् । अन्ये महिमानः महान्तो विपुला वियदादयो भोग्या आसन् । महिमान इति स्वार्थे इमनिच् । एवं मायायामीश्वरः सर्वं जगत्सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यरूपेण विभागं कृतवानित्यर्थः । तयोर्भोक्तृभोग्ययोर्मध्ये स्वधान्नं भोग्यप्रपञ्चोऽवस्तादवरो निकृष्ट आसीत्। प्रयतिः प्रयतिता भोक्ता परस्तात् परः उत्कृष्टः भोक्तृप्रपञ्चाधीनं भोग्यप्रपञ्चं कृतवानित्यर्थः । 'विभाषा परावराभ्याम्' (पा० ५। ३ । २९) इति प्रथमार्थेऽस्तातिप्रत्ययः । 'अस्ताति च' (पा० ५। ३ । ४० ) इत्यवरशब्दस्यावादेशः । 'एतद्वा इदᳪं᳭ं᳭ सर्वमन्नं चैवान्नादश्च' इति श्रुतेः ॥ ७४ ॥

पञ्चसप्ततितमी ।
आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् ।
सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ।। ७५ ।।
उ०. आरोदसी जगती । वैश्वानर उच्यते । आ अपृणत् आपूरयति रोदसी द्यावापृथिव्यौ । आ स्वः आपूरयति च स्वः आदित्यम् महत् महान्तम् । कदा आपृणत् । यत् यदा जातं जातमात्रम् एनं वैश्वानरम् अपसः अपस्विनः कर्मवन्तः अधारयन् कर्मणि स्थापितवन्तः । सो अध्वराय स एवायमग्निः अध्वरा यज्ञार्थं परिणीयते । कविः क्रान्तदर्शनः । कथमिव अत्योन अश्वइव । वाजसातये अन्नसंभजनाय । चनोहितः चनसि अन्ने स्थापितः। अश्वो हि घृतादिभिरभिघारितेनान्नेन पोष्यते अतस्तेनोपमीयते ॥ ७५ ॥
म० तमेव वैश्वानराख्यं भोक्तारं परमात्मानं स्तौति । विश्वामित्रदृष्टा जगती वैश्वानरदेवत्या । यत् यदा जातमरणीत उत्पन्नमात्रमेनं वैश्वानरमपसोऽपस्विनः कर्मवन्तो यजमाना अधारयन् कर्मणि स्थापितवन्तः । तदा स रोदसी द्यावाभूमी आ सर्वतः अपृणत् पूरयति स्म । स्थावराणां प्रस्तरादौ तदुपलब्धेः । न केवलं रोदसी किंतु महत्प्रभूतं स्वः अन्तरिक्षमापृणत्सूर्यात्मना । त्रैलोक्यं जाठरात्मना पूरितमित्यर्थः । गार्हपत्यादीनां लोकत्वं श्रुत्योक्तम् 'अयं वै लोको गार्हपत्यो द्यौराहवनीय' इति । उक्तार्थमेव विवृणोति स इति । सोऽग्निरध्वराय यागाय परिणीयते सर्वतोऽतिप्रणीताग्नीध्रीयादिधिष्ण्यादिषु प्रकर्षेण प्रापय्यते । नयने दृष्टान्तः । अत्यो न यथाश्वो वाजसातयेऽन्नलाभाय सर्वतो नीयते । राजाश्ववान्भोगजातं लभते यथा तद्वद्विप्रोऽग्निं सेवमानो ब्रह्मलोकान्तभोगानिति भावः । कीदृशोऽग्निः । कविः सर्वज्ञः चनोहितः चन इत्यन्ननामेति यास्कः । चनसेऽन्नाय भोग्याय हितः सर्वभोगसंपादक इत्यर्थः ॥ ७५ ॥

षट्सप्ततितमी।
उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा । आ॒ङ्गू॒षैरा॒विवा॑सतः ।। ७६ ।।
उ० उक्थेभिर्वृत्रहन्तमा । द्वे गायत्र्यौ । यौ इन्द्राग्नी । उक्थेभिः उक्थैः स्तुतौ सन्तौ । वृत्रहन्तमा वृत्रस्यातिशयेन हन्तारौ स्तः । या चित् यौच गिरा वाचा स्तुतौ आमन्दाना मोदमानौ स्तः । यौ च आङ्गूषैः स्तोमैः स्तुतौ आविवासतः परिचरतः स्तोतॄन् । तौ उक्थैः गिरा आङ्गूषैश्च स्तुमः सर्वकामाप्त्यर्थम् ॥ ७६ ॥
म० वसिष्ठदृष्टेन्द्राग्निदेवत्या गायत्री । या यौ इन्द्रामी आङ्गूषैः आघोषैः चित् लौकिकवाक्स्तोमैरपि स्तुतौ आ आगच्छतः 'आङ्गूषः स्तोम आघोषः' (निरु० ५। ११) इति यास्कः । तौ उक्थेभिः उक्थैः गिरा स्तोत्रात्मिकया स्तुत्या आविवासतः आविवस्येते परिचर्येते यजमानैरिति शेषः । व्यत्ययेन कर्तरि लट् । 'विवासतिः परिचर्यायाम्' ( निरु० ११ । २३ ) इति यास्कः । कीदृशौ तौ । वृत्रहन्तमा वृत्राणामावरकाणां पाप्मनां हन्तृतमौ 'नाद्धस्य' ( पा० ८ । २ । १७) इति नुम् । मन्दाना मन्दानौ मोदमानौ स्वभावतः । सर्वत्र विभक्तेर्डादेशः ॥ ७६ ॥

सप्तसप्ततितमी।
उप॑ नः सू॒नवो॒ गिर॑: शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒डी॒का भ॑वन्तु नः ।। ७७ ।।
उ० उप नः । उपशृण्वन्तु नोऽस्माकम् गिरः वाचः सूनवः पुत्राः अमृतस्य प्रजापतेः ये विश्वेदेवाः । श्रुत्वा च सुमृडीकाः अतिशयेन सुखयितारः भवन्तु नः अस्माकम् ७७
म० सुहोत्रदृष्टा वैश्वदेवी गायत्री । ये अमृतस्य मरणहीनस्य प्रजापतेः सूनवः पुत्राः विश्वेदेवाः ते नोऽस्माकं गिरः उपशृण्वन्तु समीपमागत्यावधारयन्तु । श्रुत्वा च नोऽस्माकं सुमृडीकाः सुखकराः भवन्तु । शोभनं मृडीकं सुखं येभ्यस्ते ॥ ७७ ॥

अष्टसप्ततितमी ।
ब्रह्मा॑णि मे म॒तय॒: शᳪं᳭ सु॒तास॒: शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रि॑: ।
आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ।। ७८ ।।
उ० ब्रह्माणि मे तिस्रस्त्रिष्टुभः । इन्द्रमरुत्संवादे इन्द्रस्य द्वैतवाक्यम् । ब्रह्माणि स्तुतयः हवींषि वा । मे मतयः मम मतीः इयर्ति उद्गमयन्ति । शं सुखम् सुतासः अभिषुताः सोमाः मम उद्गमयन्ति । शुष्म इयर्ति प्रभृतो मे अद्रिः । शुष्मः बलम् इयर्ति । 'ऋ गतौ' णिचो लोपश्छान्दसः । अर्पयति उद्गमयति । प्रभृतः 'हृग्रहोर्भश्छन्दसि हस्य' इति हकारस्य भकारः । प्रहृतः सोमाभिषवनिमित्तम् । मे मम अद्रिः ग्रावा । यत्र च आशासते यजमानाः मदीयमागमनमिच्छन्ति । यत्र च प्रतिहर्यन्ति प्रतिकामयन्ते । हर्यतिः प्रेप्साकर्मा । उक्था उक्थानि । इमानि इन्द्रः शृणोत्विति । "इमा इमौ हरी अश्वौ वहतः प्रापयतः । ता तानि स्थानानि नः अस्मान् अच्छ आभिमुख्येन ॥ ७८ ॥ ।
म० तिस्रस्त्रिष्टुभः द्वे इन्द्रमरुत्संवादे इन्द्रमरुद्देवत्ये । आद्येऽगस्त्यदृष्टे । इन्द्रो मरुतः सहचरानाह । हे मरुतः, ब्रह्माणि मन्त्रवाक्यात्मकानि स्तुतिवचांसि हवींषि वा सोमाज्यादीनि मे मम स्वभूतानि । चोदनावाक्येऽग्न्यादिदेवतान्तरसंबन्धेन प्रतीयमानान्यपि सर्वदेवताप्राणात्मनो ममेन्द्रस्यैव तानीति भावः । मतयः मननयुक्ताः स्तुतयोऽपि शं मम सुखोत्पादिकाः अतो यज्ञे गन्तव्यमिति भावः । किंच मे मया प्रभृतः प्रकर्षेण धृतः अद्रिः वज्रः इयर्ति गच्छत्येव लक्ष्यंप्रति । न प्रतिहन्यत इत्यर्थः। कीदृशः । शुष्मः शोषयति शत्रूनिति शुष्मः। अतएव गमने राक्षसाद्युपद्रवो नास्तीत्यर्थः । न केवलं हविरादीनां मदीयत्वेन गन्तव्यम् अपितु आशासति प्रार्थयन्ते यजमाना यानि उक्था उक्थानि ता तानि स्तोत्रशस्त्राणि मां प्रतिहर्यन्ति कामयन्ते । हर्यतिः प्रेप्साकर्मेति यास्कः । किंच नोऽस्माकमिमा इमौ हरी अश्वौ अच्छ यज्ञाभिमुखं वहतः मां प्रापयतः । अत एवास्माभिर्गन्तव्यमिति भावः । यद्वार्थान्तरम् । ब्रह्माणि मतयः सुताः सोमाः प्रहृतः अद्रिः सोमाभिषवग्रावा शुष्मः सुखरूपः एतत् सर्वं मम शं सुखमियर्ति अर्पयति उद्गमयति । णिजन्तर्भूतः समानमन्यत् । शुष्मः 'अविसिविशुषिभ्यः कित्' ( उणा० १ । १४२ ) इति मन्प्रत्ययः कित्त्वाद्गुणाभावः नित्त्वादाद्युदात्तः । अत्ति भक्षयति रिपूनित्यद्रिः 'अदिशदिभूशुभिभ्यः क्रिन्' ( उणा० ४ । ६६) इति क्रिन्प्रत्ययः आद्युदात्तः ॥ ७८ ॥

एकोनाशीतितमी।
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑२ अस्ति दे॒वता॒ विदा॑नः ।
न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ।। ७९ ।।
उ० अनुत्तमा ते । एवमिन्द्रेणोक्ता मरुतः प्रत्याहुः । | अनुत्तम् ‘णुद प्रेरणे' अस्य निष्ठाप्रत्यये 'अनुत्तप्रतूर्त-' इत्यादिना सिद्धिः । अनुत्तम् अप्रच्युतस्वभावं महाभाग्यम् । आ आस्ते । ते तव । हे मघवन् धनवन् । नकिर्नु नवा कश्चित् प्रच्यावको महाभागस्य । किंच न त्वावान् । मतुप् सादृश्यार्थे । न त्वत्सदृशः अस्ति देवता देवः विदानः सर्वज्ञ इत्यर्थः । किंच न जायमानः नशते । नशिर्व्याप्त्यर्थश्छन्दसि व्याप्नोति । नच जातः तानि करिष्यति । तानि कानि । यानि त्वं कृणुहि करोषीति लकारव्यत्ययः । हे प्रवृद्ध ॥ ७९ ॥
म० एवमिन्द्रेणोक्ता मरुतः प्रत्याहुः । 'नुद प्रेरणे' अस्य निष्ठायां 'नसत्तनिषत्त-' (पा. ८।२।६१ ) इत्यादिना अनुत्तमिति निपातः । आ इति स्मरणे । स्मृतवन्तो वयम् । हे मघवन् धनवन् इन्द्र, ते तव अनुत्तं न केनापि नुत्तं नाशितं महाभाग्यमिति शेषः । नु निश्चये । नकिः न कोऽपि त्वन्महाभाग्यनाश इति शेषः । न केवलं तवैश्वर्यमात्रं किंतु सर्वज्ञत्वमपीत्याह न त्वेति । वतुरत्र सादृश्ये । त्वावान् त्वत्सदृशो विदानः विद्वान् देवता देवो नास्ति । स्वार्थे तल् विदेः शानन् नित्त्वादाद्युदात्तः । किंच हे प्रवृद्ध प्रकर्षेण वृद्ध पुराणपुरुष, यानि कर्माणि वृत्रवधादीनि त्वं कृणुहि करोषि । व्यत्ययेन लोट् । तानि कर्माणि जायमानः वर्तमानः जातो भूतपूर्वश्च देवमनुष्येषु कश्चित् न नशते न व्याप्नोति । न करोतीत्यर्थः । नशतिर्व्याप्तिकर्मा । न करिष्या न च करिष्यति । उत्पत्स्यमान इति शेषः । तिलोपो दीर्घश्च छान्दसः । कालत्रये त्वादृशो नास्तीत्यर्थः । अतो यज्ञेशस्त्वम् ॥ ७९ ॥

अशीतितमी।
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः ।
स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा॑: ।। ८० ।।
उ० तदित् । तत् इत् आस । इच्छब्द एवार्थे । आसीदिति लकारव्यत्ययः । तदेवासीत् भुवनेषु भूतजातेषु ज्येष्ठं वृद्धतमम् । यतो यज्ञे जातः उग्रः उद्गूर्णः वज्रहस्त इन्द्रः । त्वेषनृम्णः तेजोधनो वा महाधनो वा । कार्यं दृष्ट्वा कारणानुमानं कुरुते । नहि यतः कुतश्चिदिन्द्रो जायत इति । किंच । यश्च सद्योजज्ञानः जायमानः बाल्यमनपेक्ष्य । निरिणाति निहन्ति शत्रून् । पुनरपि विशिनष्टि । अनु यं विश्वे मदन्ति अनुमदन्ति अनुतृप्यन्ति यं विश्वे सर्वे देवाः । उमाः अवितारः अवनीया वा । नास्ति यतः कुतश्चिज्जायत इति विशेषः ॥ ८०॥
म० बृहद्दिवदृष्टा माहेन्द्री त्रिष्टुप् । भुवनेषु भूतजातेषु तत् इत् तदेव ज्येष्ठं श्रेष्ठमास बभूव । 'छन्दस्युभयथा' (पा० ३। ४ । ११७) इति लिटः सर्वधातुत्वादस्तेर्भूभावः । न सर्वोत्कृष्टं ब्रह्मैवासीत् यतो ज्येष्ठात् उग्रः उत्कृष्टः इन्द्रो जज्ञे जातः। कीदृशः। त्वेषनृम्णः त्वेषः कान्तिः नृम्णं धनं यस्य तेजोधनः कार्यं दृष्ट्वा कारणमहत्त्वं कल्प्यते। किंच य इन्द्रो जज्ञानः जायमान एव सद्यः तत्क्षणं शत्रून्निरिणाति नितरां हन्ति । 'री वधे' क्र्यादिः प्वादित्वाद्ध्रस्वः । किंच विश्वे सर्वे देवाः यमिन्द्रमनुमदन्ति अनुतृप्यन्ति । 'अनुर्लक्षणे' (पा० १।४। ८४) इति द्वितीया 'यद्वृत्तान्नित्यम्' (पा. ८।१।६६) इति मदन्तीत्यत्र निघातो न । कीदृशा । विश्वे ऊमाः अवन्ति रक्षन्ति ऊमाः रक्षकाः । अवतेर्मन्प्रत्ययः 'छ्वोः शूड्-' (पा० ६ । ४ । १९) इति ऊठ् ॥ ८० ॥

एकाशीतितमी।
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
पा॒व॒कव॑र्णा॒: शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ।। ८१ ।।
उ०. इमा उ त्वा द्वे बृहत्यौ । तृतीयः पादः पूर्वं व्याख्यायते सामर्थ्यात् । यं त्वां पावकवर्णा अग्निवर्णा ऋषयः । शुचयः यमनियमपराः । विपश्चितः त्रिकालदर्शिनः । अभ्यनूषत अभिष्टुवन्तः । स्तोमैः स्तोत्रैः। तं त्वा इमा उः पादपूरणः । याः मम गिरः हे पुरूवसो प्रभूतधन, ता वर्धन्तु वर्धयन्तु ॥ ८१ ॥
म० मेधातिथिदृष्टे आदित्यदेवत्ये द्वे बृहत्यौ । पुरु बहु वसु धनं यस्य स पुरुवसुः । संहितायां छान्दसो दीर्घः पुरुशब्दस्य । हे पुरुवसो बहुधनादित्य, या मम गिरः शस्त्ररूपा वाचः इमाः त्वा त्वां वर्धन्तु वर्धयन्तु । किंच विपश्चितो विद्वांसः तव स्वरूपाभिज्ञा उद्गातारश्च स्तोमैः स्तोत्रैः बहिष्पवमानादिभिः त्वामभ्यनूषत अस्तुवत । 'नू स्तुतौ' लुङ् कुटादित्वाद्गुणाभावः । कीदृशा विपश्चितः । पावकवर्णाः अग्नितुल्यतेजसः ब्रह्मवर्चसवन्तोऽत एव शुचयः शुद्धागमाः स्तोत्रशस्त्ररूपा गिरस्त्वां स्तुवन्तीत्यर्थः ॥ ८१ ॥

द्व्यशीतितमी ।
यस्या॒यं विश्व॒ आर्यो॒ दास॑: शेवधि॒पा अ॒रिः ।
ति॒रश्चि॑द॒र्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ।। ८२ ।।
उ०. यस्वायम् । यस्येन्द्रस्य अयं विश्वः सर्वः आर्यः दासः वर्णाश्रमविहितकर्मानुष्ठाता दास इव । शेवधिपाअरिः | शेवधिर्निधिः । निधिमिव यो धनं रक्षति न वर्णाश्रमविहितकर्मानुष्ठानं करोति सः यस्य शत्रुभूतः । किंच । तिरश्चित् प्राप्तेपि अर्ये ईश्वरे रुशमे । रुशतिर्हिंसाकर्मा । हिंस्रे । पवीरवि पवीरमायुधं तद्वति । आयुधवति युद्धकर्मणि । य इन्द्रः अरिः शत्रुः । हे यजमान, तुभ्य इत् तुभ्यमेव । स इन्द्रः अज्यते । धातूनामनेकार्थत्वादञ्जिर्दानार्थः विकरणव्यत्ययश्च । अनक्ति ददाति रयिः धनम् । अत्रापि रयिमिति विभक्तिव्यत्ययः ॥ ८२॥
म० हे आदित्य, यस्य तवायं विश्वः सर्वोऽपि आर्यः वर्णाश्रमविहितकर्मानुष्ठाता सन् दासः दासवत् सर्वदा रक्षणीयः शेवधिपाः निधिरक्षकः कृपणो यस्य तवारिः शत्रुः । निधिः शेवधिरिति यास्कः । किंच एवंविधे कृपणे अर्ये धनखामिनि वैश्ये वा तिरश्चित् । तिरोऽन्तर्धौ चिदप्यर्थे । अन्तर्भूतो भूमिगर्तादौ निक्षिप्तोऽपि तस्य रयिर्धननिचयः तुभ्यं इत् मलोपश्छान्दसः । तुभ्यमेव त्वदर्थमेवाज्यते व्यक्तो भवति । कर्मकर्तरि यक् । कृपणस्य धनं त्वदर्थमेवोपयुज्यते पक्षहरणादिना नतु कृपणभोगाय भवतीत्यर्थः । कीदृशेऽर्थे । रुशमे रुशतिर्हिंसाकर्मा औणादिकोऽमप्रत्ययः । रुशति हिनस्तीति रुशमः तस्मिन् धनापहर्तॄणां हिंसके । आतिथ्यादितिरस्कारेणात्मनोऽपि हिंसके । पवीरवि पविः शल्यमस्यास्तीति पवीरमायुधम् रो मत्वर्थीयः । पवीरं वाति गच्छति पवीरवाः तस्मिन् धनरक्षार्थमायुधधारके । तथाच यास्कः 'पविः शल्यो भवति यद्धि पुनाति कायं तद्वत्पवीरमायुधं तद्वानिन्द्रः पवीरवान्' (नि. १२ । ३१) इति । धनिनातियत्नेन गुप्तमपि धनं तत आच्छिद्य धर्मिष्ठाय ददातीति भावः ॥ ८२॥

त्र्यशीतितमी।
अ॒यᳪं᳭ स॒हस्र॒मृषि॑भि॒: सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ।। ८३ ।।
उ० अयᳪं᳭सहस्रम् । सतोबृहती । योयमिन्द्रः सहस्रं सहस्रकृत्वः । ऋषिभिः सहस्कृतः । सह इति बलनाम । बलं कृत्वा स्तुतः सन् समुद्र इव पप्रथे प्रथते । तस्यास्य सत्यः सः महिमा शवः बललक्षणः गृणे । गीयते अस्माभिर्यज्ञेषु विप्रराज्ये । यज्ञे हि ब्राह्मणाः स्वतन्त्रा राजान इव भवन्ति ॥ ८३॥
म० मेधातिथिदृष्टादित्यदेवत्या सतोबृहती । अयमादित्यरूप इन्द्रः समुद्र इव उदधिवत् पप्रथे प्रथितो विस्तीर्णो व्यापकोऽभूत् । कीदृशोऽयम् । ऋषिभिरतीन्द्रियार्थदर्शिभिः सहस्कृतः सहसा बलेन युक्तः कृतः । स्तुत्या हि देवताबलं वर्धते । किंच अस्यादित्यस्य स महिमा सत्योऽवितथः । शवो बलं च सत्यम् । यज्ञेषु विप्रराज्ये विप्राणां राज्ये स्तोत्रशस्त्रसंदेहे गृणे स्तौमि तं महिमानमिति शेषः । यज्ञेषु विप्राः स्वतन्त्राः राजान इव भवन्ति । राज्ञां कर्म राज्यम् । स्तोत्रशस्त्राणां संसदि पठनेन सोऽयं स्तूयत इत्यर्थः ॥ ८३ ॥

चतुरशीतितमी।
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वᳪं᳭ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪं᳭स ईशत ।। ८४ ।।
उ० अदब्धेभिः सवितरिति व्याख्यातम् ॥ ८४ ॥
म०. व्याख्याता ( ३३ । ६९) । षष्ठः पुरोरुग्गणः ।
समाप्तः॥ ८४॥

पञ्चाशीतितमी।
आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।
अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नोऽयᳪं᳭ शु॒क्रो अ॑यामि ते ।। ८५ ।।
उ० आ नः आयाहि नः अस्माकं यज्ञम् । दिविस्पृशं द्युलोकयायिनम् । ऋत्विग्यजमानैर्विद्वद्भिरारब्धः दक्षिणादिभिः संपन्नः यज्ञः दिवं स्पृशत्येव । हे वायो, सुमन्मभिः सुमनसैः संकल्पैः । आगतस्य किं फलमितिचेत् । अन्तः पवित्रे दशापवित्रस्य उपरि श्रीणानः होतृचमसे निषिच्यमानः सोमो वर्तते तत्र तव ग्रहो गृह्यते । अयं च यः शुक्रः सोमः तम् अयामि प्रापयामि ते तव ॥ ८५॥
म० इतोऽध्यायसमाप्त्यन्तं त्रयोदश ऋचः प्रतीकोक्ताश्चतस्रश्चेति ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहणमन्त्राः पूर्ववत् । जमदग्निदृष्टा वायुदेवत्या बृहत्य आद्या नव द्वादशी च। दशम्येकादशीत्रयोदश्यः सतोबृहत्यः । हे वायो, नोऽस्माकं यज्ञमायाहि आगच्छ । कीदृशं यज्ञम् । दिविस्पृशं द्युलोकव्यापिनम् ऋत्विग्यजमानवैदुष्याद्दक्षिणासंपन्नत्वाच्च स्वर्गेऽपि श्रूयमाणमित्यर्थः । आगम्य किं फलमत आह अन्तरिति । अन्तः पात्रमध्यस्थः पवित्रे दशापवित्रस्योपरि श्रीणानः श्रयमाणः होतृचमसेन विषिच्यमानोऽयं शुक्रः शुद्धः ऋजीषकल्करहितः सोमो रसात्मा ते तुभ्यं त्वदर्थमयामि नियतः त्वदीयभागत्वेन मया संस्कृतः । 'यमु उपरमे' कर्मणि चिण् ॥ ८५ ॥

षडशीतितमी।
इ॒न्द्र॒वा॒यू सु॑स॒न्दृशा॑ सु॒हवे॒ह ह॑वामहे ।
यथा॑ न॒: सर्व॒ इज्जनो॑ऽनमी॒वः स॒ङ्गमे॑ सु॒मना॒ अस॑त् ।। ८६ ।।
उ० इन्द्रवायू सुसंदृशा । सुसंदृशा सुतरां सम्यग्दर्शनीयौ । सुहवा स्वाह्वानौ च । इह हवामहे आह्वयामः । तथा चाह्वयामः यथा येन प्रकारेण नः अस्माकम् सर्वइत् सर्वएव जनः । अनमीवः अमीवा व्याधिस्तद्रहितः। सङ्गमे इन्द्रवायू संगतौ । सुमना शोभनमनस्कः । असत् भूयात् ॥८६॥
म० तापसदृष्टैन्द्रवायवी । इह यज्ञे वयमिन्द्रवायू हवामहे आह्वयामः । उभयत्र वायोः प्रतिषेध इति आनङ्ङभावः। कीदृशी सुसंदृशा सुसदृशी सुतरां सम्यक् पश्यतस्तौ । सुहवा सुहवौ शोभनाह्वानौ । तथा हवामहे यथा नोऽस्माकं सर्वं इत् सर्व एव जनः पुत्रपौत्रादिरीदृशः असत् भवेत् । अस्तेर्लेट्यडागमः । कीदृशः। अनमीवः व्याधिरहितः। सङ्गमे धनप्राप्तौ बहूनां समागमे वा सुमनाः शोभनचित्तः । उदारो वक्ता चेत्यर्थः ॥ ८६ ॥

सप्ताशीतितमी।
ऋध॑गि॒त्था स मर्त्य॑: शश॒मे दे॒वता॑तये ।
यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ।। ८७ ।।
उ० ऋधगित्था । तृतीयः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । यः मर्त्यः नूनं निश्चयेन मित्रावरुणौ अभिष्टये स्वाभीष्टप्राप्तये । आचक्रे सेवते । हव्यदातये हविषो दानाय । स मर्त्यः ऋधक् समृद्धियुक्तः । इत्था इत्थमित्यभिनयेन दर्शयति । शशमे शाम्यति यमनियमज्ञो भवति । देवतातये देवानां कर्म देवतातिः तस्यै । यज्ञायेत्यर्थः ॥ ८७ ॥
म० जमदग्निदृष्टा मैत्रावरुणी । नूनं निश्चितं यो मर्त्यो मनुष्यो मित्रावरुणौ आचक्रे आकुरुते सेवते 'गन्धनावक्षेपण-' (पा० १ । ३ । ३२ ) इत्यादिना करोतेः सेवनार्थे आत्मनेपदम् । किमर्थम् । अभिष्टये अभिमतलाभाय । पृषोदरादि. लोपः । हव्यदातये हविषो दानाय च । स नरः इत्था अनेन हेतुना सेवनरूपेण शशमे शाम्यति । यमनियमशमदमादियुक्तो भवतीत्यर्थः । कीदृक् सः । देवतातये देवस्य कर्म देवतातिः तस्मै यज्ञाय । ऋधक् ऋध्नोतीति ऋधक् समृद्धिमान् यज्ञसंपत्तिक्षमधनाढ्यः सन् शान्तो भवतीत्यर्थः । बट् श्रत् सत्रा अद्धा इत्थेति निपातः । सत्यवचनो वा । सत्यं शाम्यति । एत्वाभ्यासलोपाभाव आर्षः शशमेत्यत्र ॥ ८७ ॥

अष्टाशीतितमी। .
आ या॑त॒मुप॑ भूषतं॒ मध्व॑: पिबतमश्विना ।
दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तम् ।। ८८ ।।
उ० आयातं आगच्छतम् । उपभूषतम् अलंकुरुतं च यज्ञम् । मध्वः मधुरूपस्य स्वमंशं पिबतं च । हे अश्विनौ । किंच । दुग्धं पयः महावीरसेचनार्थम् । हे वृषणौ सेक्तारौ हे जेन्यावसू जेन्यं जितं स्वीकृतं वसु धनं याभ्यां तो जेन्यावसू । किंच मा नो मर्धिष्टं माच मर्धिष्टं संप्रहारं कुरुतम् नः अस्मान्प्रति । आगतम् अवश्यं च आगच्छतम् ॥ ८८ ॥
म० वसिष्ठदृष्टाश्विदेवत्या । हे अश्विना अश्विनौ, युवामायातं यज्ञं प्रत्यागच्छतम् । आगत्य च उपभूषतमलंकुरुतं यज्ञम् । मध्वः मधुरं सोमं पिबतम् । कर्मणि षष्ठी नुमभावश्छान्दसः । किंच हे वृषणा वृषणौ वर्षकौ यज्ञफलस्य सेक्तारौ, हे जेन्यावसू, जेन्यं जेतव्यं जितं वा आ समन्तात् वसु धनं याभ्यां तौ जेन्यावसू वशीकृतधनौ तादृशौ । युवां पयः वृष्ट्युदकं दुग्धमन्तरिक्षात्प्रक्षारयतम् । दुहेर्लोण्मध्यमद्विवचनं दुग्धमिति । किंच नोऽस्मान्मा मर्धिष्टं मा हिंस्तम् । मृधिर्हिंसार्थः लुङ् । किं बहुना युवामागच्छतम् । आदरार्थं पुनर्वचनम् ॥ ८८ ॥

एकोननवतितमी।
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ।। ८९ ।।
उ० प्रैतु अस्मदीयं यज्ञं प्रति आगच्छतु । ब्रह्मणस्पतिः बृहस्पतिः । प्रैतु च देवी वाक् । सूनृता शोभना सत्यवती त्रयीलक्षणा । कं प्रत्यागच्छत्वित्यत आह । अच्छ अभि। वीरं पुत्रं महावीरं वा । नर्यम् नृभ्यो हितम् अनुग्राहकम् । पङ्तिराधसं ब्रह्मपङ्क्तिसाधकम् । पङ्क्तिपावनमित्यर्थः । किंच देवाः यज्ञं नयन्तु नः अस्माकम् ॥ ८९ ॥
म० कण्वदृष्टा वैश्वदेवी । ब्रह्मणो वेदस्य पतिः हिरण्यगर्भः नोऽस्माकं यज्ञमच्छ यज्ञाभिमुखं प्रैतु प्रकर्षेणागच्छतु । ब्रह्मणस्पतिः । 'ब्रह्मणः पाता पालयिता वा' (निरु० १० । १२) इति यास्कः । तथा देवी देवतात्मा सूनृता प्रियसत्यस्वरूपा तस्यैव वाक् त्रयीरूपा यज्ञं प्रैतु । किंच देवा यष्टव्या नोऽस्मान् यज्ञं नयन्तु प्रापयन्तु । यज्ञं कारयन्त्वित्यर्थः । कीदृशं यज्ञम् । वीरं विशेषेणेरयति वीरस्तं शत्रूणां विशेषोन्मूलयितारम् । 'वीरो - वीरयत्यमित्रान्' ( निरु० १। ७) इति यास्कः । नर्यं नृभ्यो मनुष्येभ्यो हितम् 'उगवादिभ्यः' (पा० ५। १ ।२) इति यत् । पङ्क्तिराधसम् इन्द्रस्य पुरोडाशः हर्योर्धानाः पूष्णः करम्भः सरस्वत्यै दधि मित्रावरुणयोः पयस्या एषा हविःपङ्क्तिः, द्विनाराशंसं प्रातःसवनं द्विनाराशंसं माध्यन्दिनं सवनं सकृन्नाराशंसं तृतीयं सवनम् एषा नाराशंसपङ्क्तिः, त्रीणि सवनानि पशुरुपवसथ्यः पशुरनुबन्ध्यः एषा सवनपङ्क्तिः, एताभिः पङ्क्तिभिः राधः समृद्धिर्यस्य पङ्क्तयो राध्यन्ते साध्यन्ते यत्रेति वा पङ्क्तिराधाः तम् । ब्रह्मणस्पत्यादयः ईदृशं यज्ञमस्माभिः कारयन्त्विति सर्वार्थः ॥ ८९ ॥

नवतितमी।
च॒न्द्रमा॑ अ॒प्स्वन्तरा सु॑प॒र्णो धा॑वते दि॒वि ।
र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृह॒ᳪं᳭ हरि॑रेति॒ कनि॑क्रदत् ।। ९० ।।
उ० चन्द्रमा अप्सु । आहुतिपरिणामोऽत्रोच्यते । योसौ चन्द्रमाः स तथा सोमरूपापन्नः । अभिषुतः अप्स्वन्तः मध्ये रसरूपेण आस्थितः। अग्नौ हुतः सन् सुपर्णः सुपतनः धावते दिवि । तस्मात् पर्जन्यरूपमास्थाय उदकदानद्वारेण रयिं धनम् पिशङ्गं पीतवर्णम् । बहुलमसंख्यातम् । पुरुस्पृहं बहवो यत्र स्पृहयन्ति । हरिः सोम एति । कनिक्रदत् पर्जन्यरूपेणात्यर्थं स्तनितं कुर्वन् ॥ ९० ॥
म० त्रितदृष्टाहुतिपरिणामवादिन्यैन्द्री । 'आहुतेर्होमद्रव्यस्य परिणामो द्युपर्जन्यपृथिवीपुरुषयोषात्मकपञ्चाग्निक्रमेण परिपाकः' 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति श्रुत्योक्तः तं वदत्येषा ऋक् । अधियज्ञॆ तावदर्थः । चन्द्रं देवानामाह्लादं मिमीते करोति चन्द्रमाः लतारूपः सोमोऽभिषुतः सन् अप्सु वसतीवरीनिग्राभ्यादिजलेषु अन्तर्मध्ये रसरूपेण स्थिताग्नौ हुतः सन् सुपर्णः गरुडाकृतिः साधुपतनो भूत्वा दिवि आधावते शीघ्रं गच्छति । स गतौ' इत्यस्य शीघ्रगतौ धावादेशः 'तृतीयस्यामितो दिवि सोम आसीत्' इति श्रुतेः । 'हरिः सोमो हरितवर्णः' ( निरु० ४ । १९) इति यास्कोक्तेर्हरिः पूर्वोक्तः सोम एव दिवि गतः पर्जन्यरूपमास्थायोदकदानद्वारेण रयिमेति रयिरिति धननाम' ( निरु० ४ । १७) इति यास्कः । धान्यभावं प्राप्नोति व्रीहियवाद्यन्नरूपो भवतीत्यर्थः । कीदृशं रयिम् । पिशङ्गम् परिपाकेन व्रीहियवादिकं धान्यं पीतवर्णं भवति । बहुलमसंख्यातम् । चतुर्विधभूतग्रामजीवनपर्याप्तमित्यर्थः । पुरूस्पृहं पुरूणां बहूनामपि स्पृहा लिप्सा यत्र तम् । बहवोऽपि यद्धान्यमिच्छन्ति तद्रूपो भवतीत्यर्थः । कीदृशो हरिः । कनिक्रदत् पर्जन्यरूपात्यर्थस्तनितं कुर्वन् । 'दाधर्ति-' (पा० ७ । ४ । ६३ ) इत्यादि निपातः ॥ ९०॥

एकनवतितमी।
दे॒वं-दे॑वं॒ वोऽव॑से दे॒वं-दे॑वम॒भिष्ट॑ये । दे॒वं-दे॑वᳪं᳭ हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ।। ९१ ।।
उ० देवं देवं वः । देवं देवमिति वीप्सार्थोऽभ्यासः । यावन्तो देवास्तावतो देवान् वः युष्माकमवसे पालनाय । हुवेमेत्यनेन संबन्धः । आह्वयामः । देवं देवमभिष्टये अभीष्टकामावाप्तये आह्वयामः । देवं देवं हुवेम । वाजसातये अन्नसंभजनाय । कथं हुवेमेतिचेत् । गृणन्तः स्तुतिभिः देव्या धिया । देवतायाथात्म्यचिन्तनपरया बुद्ध्या ॥ ९१ ॥
म० मनुदृष्टा वैश्वदेवी । वीप्सार्थोऽभ्यासः । यावन्तो देवास्तान् वो युष्मानवसेऽवनाय पालनाय वयं हुवेम आह्वयामः । अभिष्टयेऽभिलषितफलाप्तये देवं देवं हुवेम । वाजसातयेऽन्नलाभाय देवं देवं हुवेम । 'अभ्यासे भूयांसमर्थं मन्यन्ते' ( निरु० १० । ४२ ) इति यास्कः । कीदृशा वयम् । देवया देवतायाथात्म्यानुसन्धानपरया धिया बुद्ध्या गृणन्तः स्तुवन्तः । यद्वा देव्या स्वरादिसौष्ठवेन दीप्यमानया धिया स्तुत्या गृणन्तः ॥ ९१ ॥

द्विनवतितमी ।
दि॒वि पृ॒ष्टो अ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन् ।
क्ष्मया॑ वृधा॒न ओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तम॑: ।। ९२ ।।
उ० दिवि पृष्टः । योऽग्निर्वैश्वानरः दिवि पृष्टः द्युलोके स्थितः आदित्यात्मना अरोचत देदीप्यते बृहन् महान् । सोऽयम् क्ष्मया पृथिव्या कारणभूतया । वृधानः वर्धमानः ओजसा बलेन च । चनोहितः चनसि
अन्ने हविर्लक्षणे हितः स्थापितः । ज्योतिषा बाधते तमः ॥ ९२
म० मेधदृष्टा वैश्वानरी । योऽग्निः दिवि द्युलोके पृष्टः सिक्तः आदित्यात्मना स्थितः सन् अरोचत दीप्यते 'पृषु सेके' निष्ठान्तः सेकः स्थितिरेव । कीदृशोऽग्निः । वैश्वानरः विश्वेषां नराणां हितः । बृहन् महान् । किंच सोऽग्निः ज्योतिषा स्वप्रकाशेन तमः नैशं बाधते लोकानुग्रहायान्धकारं निवर्तयति। कीदृशः । क्ष्मया वृधानः क्ष्मा पृथिवी तया तत्स्था मनुष्या उपलक्ष्यन्ते मञ्चाः क्रोशन्तीति वत् । भूस्थैर्वर्णाश्रमिभिः नरैर्दत्तेन हविषा वर्धमानः । अतएव ओजसा च चनोहितः ओषधिपाकक्षमेण तेजसा चनसेऽन्नाय हितः 'चन इत्यन्ननाम' (निरु० ६ । १८ ) अन्ननिष्पादक इत्यर्थः ॥ ९२ ॥

त्रिनवतितमी ।
इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त् प॒द्वती॑भ्यः ।
हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रि॒ᳪं᳭शत्प॒दान्य॑क्रमीत् ।। ९३ ।।
उ० इन्द्राग्नी अपात् । प्रवह्लिकेयमृक् । यथाप्रज्ञं तु व्याख्यायते । मानुषी वागनयोच्यते । उक्तंच 'अथ यन्मानुष्या वाचाह इतीदं कुरुतेतीदं कुरुतेति तदु ह तया चीयत' इति । हे इन्द्राग्नी, अपात् पादरहिता गद्या इयं वाक् । पूर्वा आअगात् आगता । पद्वतीभ्यः पादवतीभ्यः सकाशात् । हित्वी हित्वा परित्यज्य शिरः प्रथमं पदम् अन्यत्करोति । नहि लौकिक्या वाचः कश्चित्पदनियमोऽस्ति । जिह्वया विदुषः वावदत् वदन्ती । चरत् चरति । कियन्ति तत्र पदानि । त्रिंशत्पदानि त्रिंशत्संख्याकानि पदानि अक्रमीत् अतिक्रामति । नहि परतः त्राणविषयः ॥ ९३ ॥
म० सुहोत्रदृष्टा इन्द्राग्निदेवत्या प्रवह्लिका । हे इन्द्राग्नी, अपात्स्वयं पादरहितापि इयमुषाः पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः पूर्वा प्रथमभाविनी सती आ अगात् आगच्छति सा च तासां प्रजानां शिरो हित्वी निद्रात्याजनेन प्रेरयित्री । यद्वा शिरो हित्वी हित्वा त्यक्वाी स्वयमशिरस्का सती जिह्वया प्राणिनां वागिन्द्रियेण वावदत् । यङ्लुगन्तं । भृशं शब्दं कुर्वती सती चरत् चरति प्रसरति । अडभावः । एवं चरन्ती उषा एकदिनेन त्रिंशत्संख्यानि पदा पदानि गमनसाधनभूतान् मुहूर्तान् नि अक्रमीत् नितरां क्रमते । अहोरात्रेण त्रिंशन्मुहूर्तान्क्रामतीत्यर्थः । यद्वा वाक्पक्षेऽर्थः । इन्द्रः प्राणः अग्निः पुरुषः। हे इन्द्राग्नी, युवयोरेवैतत् कर्म यत् अपात् पादरहिता गद्यात्मिका त्रयीलक्षणेयं वाक् पूर्वा प्रथमभाविनी सती आ अगात् । पद्वतीभ्यः पादयुक्ताभ्यो रामायणभारतादिश्लोकात्मकवाल्मीकिव्यासादिवाणीभ्यः सकाशात् वेदवाचः प्राथम्यं श्रुत्योक्तम् ततो ब्रह्मैव प्रथममसृज्यतेति । एवं प्रथमजाया वाचोऽविकृतत्वं निर्णीय मानुष्या वाचो विकृतत्वमाह हित्वी शिर इति । शिर इति प्राधान्यादाख्यातपदमुच्यते। अभ्याज गां दण्डेन शुक्लां गां दण्डेनाभ्याजेत्येवं लौकिक्या वाचः पदप्रयोगनियमाभावात् शिरः शिरस्थानीयमाख्यातपदं हित्वा त्यक्त्वा जिह्वया विदुषो वागिन्द्रियेण वावदत् अतिवदन्ती सती चरति प्रकाशीभवति । एवं चरन्ती सा त्रिंशत्पदानि न्यक्रमीत् क्रमति। अत्र पदशब्दोऽङ्गुलवचनः । मूलाधारादारभ्य मुखपर्यन्तं त्रिंशदङ्गुलानि क्रामति । एवं वाग्विषयोऽर्थः ॥ ९३ ॥

चतुर्नवतितमी।
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कᳪं᳭ सरा॑तयः ।
ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विद॑: ।। ९४ ।।
उ० देवासो हि ष्मा । हि स्म निपातौ । ये देवासः मनवे समन्यवः मनुना समानदीप्तयः समानक्रोधा वा । । विश्वे सर्वे साकं सह उपास्याः । सरातयः समानदानाश्च । ते विश्वेदेवाः नः अस्माकम् अद्य । ते च अपरम् आगामिकाले । तुचेतु नः । तुगित्यपत्यनाम । अपत्याय च अस्मदीयाय भवन्तु । वरिवोविदः वरिवो धनं ये अस्मदर्थं विन्दन्ति ते वरिवोविदः ॥ ९४ ॥
म० मनुदृष्टा वैश्वदेवी । हि स्म एतौ निपातौ प्रसिद्ध्यतिशयार्थौ । छान्दसौ षत्वदीर्घौ। ते प्रसिद्धा विश्वे देवासः अद्य वर्तमानकाले नोऽस्माकं साकं सहैव वरिवोविदः भवन्तु वरिवो धनं वेदयन्ति लम्भयन्ति वरिवोविदः एकीभूय धनप्रापका भवन्तु । तु पुनः अपरं भविष्यति काले नोऽस्माकं तुचे अपत्याय पुत्रपौत्रादिकाय ते वरिवोविदः भवन्तु । तुगित्यपत्यनाम । कीदृशास्ते । मनवे समन्यवः मनुनामकाय मुनये मन्त्रदर्शिने मह्यं समानो मन्युर्दीप्तिर्येषां ते । 'मन्युर्मनतेर्दीप्तिकर्मणः' ( निरु. १० । २९ ) इति यास्कः । मदर्थकमैकमत्यं प्राप्ताः । यद्वा मन्युना क्रोधेन सह वर्तमानाः । अस्मच्छत्रुहननाय क्रोधयुक्ता इत्यर्थः । तथा सरातयः रातिर्दानं तत्सहिताः दातार इत्यर्थः ॥ ९४ ॥

पञ्चनवतितमी।
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ।। ९५ ।।
उ० अपाधमत् । प्रथमोऽर्धर्चः परोक्षकृतः द्वितीयः प्रत्यक्षकृतः अतो वाक्यभेदः पदसंनतिर्वैकस्मिन्नर्धर्चे । अपाधमत् धमतिर्गतिकर्मा । यदा अपगमयति । अभिशस्तीः अभिशापान् अशस्तिहा । अभेरादिशेषः । अभिशस्तिहा स्वतएव । अथानन्तरम् इन्द्रः द्युम्नी अन्नवान् यशस्वी वा आअभवत् भवति । एवं स्तुत इन्द्रः प्रत्यक्षीभूतः । इत उत्तरोऽर्धर्चः प्रत्यक्षकृतः । देवाः ते तव हे इन्द्र, सख्याय सखिभावाय येमिरे आत्मानं संयतं कृतवन्तः । हे बृहद्भानो महादीप्ते हे मरुद्गण, एकवाक्ये तु बहूनां पदानां संनतिः कार्या ॥ ९५॥
म० नृमेधदृष्टे द्वे मरुत्वद्गुणविशिष्टेन्द्रदेवत्ये । बृहन्तो महान्तो भानवो दीप्तयो यस्य स बृहद्भानुः मरुतां गणो यस्य स मरुद्गणः हे बृहद्भानो, हे मरुद्गण हे इन्द्र, देवाः वसुरुद्रादित्याः ते तव सख्याय मैत्रे येमिरे कथं नु नामेन्द्रोऽस्मान्सखिभावाय वृणीत इत्यभिप्राया आत्मानं संयतं कृतवन्त इत्यर्थः । स भवान् अभिशस्तीः अभिशापान् शत्रुप्रयुक्तानपवादान् अपाधमत् अपगमयति निवर्तयति । धमतिर्गतिकर्मा (निरु. ६ । २) इति यास्कः । अथ पश्चात् द्युम्नी अन्नवान् यशस्वी वा आ अभवत् सर्वतो धनवान् भवति । कीदृशो भवान् । अशस्तिहा शंसनं शस्तिः प्रशंसा सा नास्ति येषां ते अशस्तयः निन्द्या असुरास्तान् हन्तीत्यशस्तिहा । इन्द्रः ऐश्वर्यवान् इन्दतीतीन्द्रः । यो दुष्टहन्ताभिशापनाशको यशस्वी तेजस्वी बहुभृत्यसेव्यस्तस्य सख्यायान्ये यतन्त इति युक्तमिति भावः ॥९५॥

षण्णवतितमी।
प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रᳪं᳭ ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ।। ९६ ।।
उ०. प्र वः प्रथमाबहुवचनस्य वआदेशः । प्रार्चत प्रोच्चारयत वः यूयम् स्तुतीः । इन्द्राय बृहते महते हे मरुतः, ब्रह्म त्रयीलक्षणाः किमितिचेत् । वृत्रं हनति । हन्तीति प्राप्ते शपः श्रवणम् । वृत्रहा वृत्रवधप्रवणः शतक्रतुः बहुकर्मा । वज्रेण शतपर्वणा शतग्रन्थिना ॥ ९६ ॥
म०. हे मरुतः, वो युष्माकं स्वामिने इन्द्राय यूयं ब्रह्म वेदं सामरूपस्तोत्रं प्रार्चत प्रोच्चारयत । कीदृशायेन्द्राय । बृहते महते । ततो वृत्रहा वृत्रस्यासुरस्य पाप्मनो वा हन्तेन्द्रो वृत्रं हनति हन्तु । 'बहुलं छन्दसि' (पा० २। ४ । ७३) इति शपो लुगभावः । केन । वज्रेण स्वायुधेन । कीदृशेन वज्रेण । शतपर्वणा शतसंख्यानि पर्वाणि धारा ग्रन्थयो वा यस्य स शतपर्वा तेन । कीदृशो वृत्रहा । शतक्रतुः शतं क्रतवो यस्य बहुकर्मा बहुप्रज्ञो वा ॥ ९६ ॥

सप्तनवतितमी।
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्य॒ᳪं᳭ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ष्टुवन्ति पू॒र्वथा॑ ।
इ॒मा उ॑ त्वा यस्या॒यम॒यᳪं᳭ स॒हस्र॑मू॒र्ध्व ऊ॒ षु ण॑: ।। ९७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ |
उ० अस्येत् । अस्य इत् इदिति निपातः पादपूरणः । मदे सुतस्य विष्णवि विष्णुर्यज्ञः । यज्ञे अभिषुतस्य मदे संजाते य इन्द्रो वावृधे वृद्धश्च वृष्ण्यं सेक्तृत्वम् शवो बलं च आविष्करोति । तस्यास्य इन्द्रस्य अद्य अद्यापि तं महिमानं आयवः मनुष्याः अनुष्टुवन्ति । पूर्वथा पूर्ववत् यथा पूर्वमृषिभिः स्तुतः । इमा उत्वा यस्यायम् अयᳪं᳭ सहस्रम् ऊर्ध्वं उषुणः इति चतस्रः प्रतीकोक्ता व्याख्याताः ॥ ९७ ॥
इति उवटकृतौ मन्त्रभाष्ये त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
म० मेधातिथिदृष्टा माहेन्द्री सतोबृहती । इन्द्रः अस्य इत् अस्यैव यजमानस्य वृष्ण्यं शवः च वावृधे वर्धयति । णिजन्तत्वं | बोध्यम् । वर्षति सिञ्चतीति वृषा तस्येदं वृष्ण्यं वीर्यम् । यप्रत्यये उपधालोपः । शवः बलम् । क्व सति । सुतस्याभिषुतस्य सोमस्य मदे सति । कीदृशे मदे । विष्णवि वेवेष्टि व्याप्नोति विष्णुस्तस्मिन् सर्वशरीरव्यापके । सप्तम्येकवचने 'घेर्ङिति' -- ( पा. ७।३।१११) इति गुणेऽवादेशः । यद्वा विष्णवि विष्णौ योऽभिषुतस्येति संबन्धः । 'यज्ञो वै विष्णुः' इति श्रुतेः। सोमपानेन मत्त इन्द्रो यजमानस्य माहात्म्यं बलं च वर्धयतीत्यर्थः । किंच अस्येन्द्रस्य तमुक्तं यज्वनो वीर्यादिवर्धनरूपं महिमानमद्यास्मिन्कालेऽपि आयवः मनुष्याः अनुष्टुवन्ति आनुपूर्व्येण स्तुवन्ति । तत्र दृष्टान्तः । पूर्वथा पूर्वमिव यथा पूर्वमृषयोऽस्तुवन्नेवमिदानीमपि नराः स्तुवन्तीत्यर्थः । 'प्रत्नपूर्वविश्वमात्थालच्छन्दसि' (पा० ५। ३ । १११) इति पूर्वशब्दादिवार्थे थाल्प्रत्ययः । इमा उ त्वा यस्यायम् अयं सहस्रम् (३३ । ८१-८३) ऊर्ध्व ऊ षुणः (११ । ४२) एताः प्रतीकोक्ताः ॥ ९७॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
त्रयस्त्रिंशत्तमोऽध्यायो गतोऽयं सार्वमेधिकः ॥ ३३ ॥