शृङ्गारतिलकम् (मूलमात्रम्)

शृङ्गारतिलकम्
कालिदासः
१९१०

महाकविश्रीकालिदासकृतं
शृङ्गारतिलकम् ।

बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं
 श्रोणीतीर्थशिला चनेत्रशफरी धम्मिल्लशैवालकम् ।
कान्तायाः स्तनचक्रवाकयुगलं कंदर्पबाणानलै-
 र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥
आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः
 प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः
 कंदर्प हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः ॥२॥
  इन्दीवरेण नयनं मुखमम्बुजेन
   कुन्देन दन्तमधरं नवपल्लवेन ।
  अङ्गानि चम्पकदलैः स विधाय वेधा
   कान्ते कथं घटितवानुपलेन चेतः ॥३॥
  एको हि खञ्जनवरो नलिनीदलस्थो
   दृष्टः करोति चतुरङ्गबलाधिपत्यम् ।
  किं मे करिष्यति भवद्वदनारविन्दे
   जानामि नो नयनखञ्जनयुग्ममेतत् ॥४॥
ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचि-
 त्ते सर्वेकवयो भवन्ति सुतरांप्रख्यातपृथ्वीभुजः।

त्वद्वक्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जना-
स्तेते मन्मथवाणजालविकला मुग्धे किमित्यद्भुतम् ५
 झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते
  ग्रहणसमयवेला वर्तते शीतरश्मेः ।
 तव मुखमकलकं वीक्ष्य नूनं स राहु-
  र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥६॥
कस्तुरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले
 नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् ।
रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः
 किं रुष्टासि गजेन्द्रमत्तगमने किंवा शिशुस्ते पतिः७
नाहं नो मम वल्लभश्च कुपितः सुप्तो न वा सुन्दरो
 वृद्धो नोनच बालकः कृशंतनुर्न व्याधितो नोशठः।
मां नवयौवनां शशिमुखीं कंदर्पबाणाहतो
 मुक्तो दैत्यगुरुः प्रियेण पुरतः पश्चाद्गतो विह्वलः ८
समायाते कान्ते कथमपि च कालेन बहुना
 कथाभिर्देशानां सखि रजनिरर्धं गतवती।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
 सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥९॥
श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः
क्लेशःश्लाघ्यतरःसुपङ्कनिचयैःश्लाघ्योऽतिदाहोऽनलैः
यत्कान्ताकुचपार्श्ववाहुलतिकाहिन्दोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते १०

किं किं वक्रमुपेत्यं चुम्बसि बलान्निर्लज्ज लज्जा न ते
 वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्वञ्चसे ।
खिन्नाहं तव रात्रिजागरतया तामेव याहि प्रियां
 निर्माल्योज्झितपुष्पदामनिकरे का षट्पदीनांरतिः॥
वाणिज्येन गतः स मे गृहपतिर्वार्तापि न श्रूयते
 प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता।
बालाहं नवयौवना निशि कथं स्थातव्यमेकाकिनी
सायं संप्रतिवर्ततेपथिक हे स्थानान्तरंगम्यताम् १२
यामिन्येषा बहलजलदैर्बद्धभीमान्धकारा
 निद्रां यातो मम पतिरसौ क्लेशितः कर्मदुःखैः ।
बाला चाहं खलु खलभयात्प्राप्तगाढप्रकम्पा
 ग्रामश्चौरैरयमुपहतः पान्थ निद्रां जहीहि ॥१३॥
क्व भ्रातश्चलितोऽसि वैद्यकगृहे किं तद्रुजां शान्तये
 किंते नास्ति सखे गृहे प्रियतमा सर्वं गदं हन्ति या।
वातं तत्कुचकुम्भमर्दनवशात्पित्तं तु वक्रामृता-
 च्छ्लेष्माणं विनिहन्ति हन्त सुरतव्यापारकेलिश्रमात्
यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
 स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते १५
चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते
 माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।
आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते
 हा हन्त प्रमदावियोगसमयः कल्पान्तकालायते १६

 प्राणेश विज्ञप्तिरियं मदीया
  तत्रैव नेया दिवसाः कियन्तः ।
 संप्रत्ययोग्यस्थितिरेष देशः
  करा हिमांशोरपि तापयन्ति ॥ १७ ॥
 कल्याणि चन्दनरसैः परिषिच्य गात्रं
  द्वित्राण्यहानि कथमप्यतिवाहयेथाः।
 अङ्के निधाय भवतीं परिरभ्य दोर्भ्यां
  नेष्यामि सूर्यकिरणानपि शीतलत्वम् ॥१८॥
 अन्तर्गता मदनवह्निशिखावली या
  सा बाध्यते किमिह चन्दनपङ्कलेपैः ।
 यत्कुम्भकारपचनोपरि पङ्कलेप-
  स्तापाय केवलमसौ न च तापशान्त्यै ॥१९॥
 दृष्ट्वा यासां नयनसुषमामङ्ग वाराङ्गनानां
  देशत्यागः परमकृतिभिः कृष्णसारैरकारि ।
तासामेय स्तनयुगजिता दस्तिनः सन्ति मत्ताः
 प्रायो मूर्खाः परिभवविधौ नाभिमानं त्यजन्ति २०
गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं
 संदष्टाधरमुक्तसीत्कृतमभिभ्रान्तभ्रु नृत्यत्करम्।
चाटुप्रायवचोविचित्रमणितै र्भातं रुतैश्चाङ्कितं
 वेश्यानां धृतिधाम पुष्पधनुषःप्रामोतिधन्योरतम्
  मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे
   कान्तापयोधरयुगे रतिखेदखिन्नः।

वक्षो निधाय भुजपञ्जरमध्यवर्ती
 धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २२ ॥
हे रोहिणि त्वमसि रात्रिकरस्य भार्या
 एनं निवारय पतिं सखि दुर्विनीतम् ।
जालान्तरेण मम वासगृहं प्रविश्य
 श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ २३ ॥
अविदितसुखदुःखं निर्गुणं वस्तु किंचि-
 ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारुण्यघूर्ण-
 न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥२४॥
एनं पयोधरयुगं पतितं निरीक्ष्य
 स्वेदं वृथा वहसि किं हरिणायताक्षि ।
स्तब्धो विवेकरहितो जनतापकारी
 योऽत्युन्नतः प्रपततीति किमत्र चित्रम्॥ २५ ॥
 अयि मन्मथचूतमञ्जरि
  श्रवणव्यायतचारुलोचने ।
 अपहृत्य मनः क्व यासि त-
  त्किमराजन्यकमत्र राजते ॥ २६ ॥
यदि कथमपि दैवाद्दुर्गमार्गे स्खलित्वा
 विदलति तनुमध्या दीयतां नौ न दोषः।
पृथुनिविडकुचाभ्यां वर्त्म पश्यावरुद्धं
 कथयितुमिव नेत्रे कर्णमूले प्रयातः॥२७॥

कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि
 शोचामि यत्तव किमत्र विरोधमन्यत् ।
आश्लेषमर्पय मदर्पितपूर्वमुच्चै-
 रुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २८ ॥
मानं मानिनि मुञ्च देवि दयिते मिथ्यावचः श्रूयते
कः कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते ।
दोर्भ्यां वन्धनमाशु दन्तदनलं पीनस्तनास्फालनं
दोषश्चेन्ममते कटाक्षविशिखैःशस्त्रैःप्रहारं कुरु ॥२९॥
किं मां निरीक्षसि घटेन कटिस्थितेन
 वक्रेण चारुपरिमीलितलोचनेन ।
अन्यं निरीक्ष पुरुषं तव भाग्ययोग्यं
 नाहं घटाङ्कितकटिं प्रमदां भजामि ॥ ३०॥
सत्यं ब्रवीषि मकरध्वजबाणपीड
 नाहं त्वदर्पितदृशा परिचिन्तयामि ।
दासोऽद्य मे विघटितस्तव तुल्यरूपः
 सोऽयं भवेन्नहि भवेदिति मे वितर्कः ॥ ३१ ॥

 इति महाकविश्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम् ।।