शृङ्गारप्रकाशः/द्वादशः प्रकाशः


प्रथमो भागः सम्पाद्यताम्

द्वितीयो भागः सम्पाद्यताम्

ड़दृदद्यत्दद्वड्ढ साम दानादिसम्पन्नं भूषणं ब्रुवते बुधा: ।। यथा रत्नावल्याम्, वसुभूति: --- देवि, स्थाने देवीशब्दमुद्वहसि। 12.165 यथा च वेणीसंहारे, भीम:--- क्वासौ धार्तराष्ट्रसखा पुण्यजनापशदो येनार्यस्य महानयं चित्तविभ्रम: कृत:। कृष्ण: -- निगृहीत: स दुरात्मा नकुलेनेति। पुनर्वाक्यं तु विज्ञेयं यथोक्ताक्षेपदर्शनम् ।। यथा रत्नावल्यां, बाभ्रव्य: -- देवि, इदानीं सफनलपरिश्रमोऽस्मि संवृत्त इति। यथा च वेणीसंहारे, युधिष्ठिर: --- भगवन्, किं नाम चार्वाकेण रक्षसा वयं विप्रलब्धा: ? कृष्ण: --- अथ किम्। इति। वरप्रदानसम्प्राप्ति: काव्यसंहार इष्यते ।। यथा रत्नावल्यां, यौगन्धरायण:--- देव, तदुच्यतां किं ते भूय: प्रियमुपकरोमि ? राजा -- किमत:परमपि प्रियमस्ति। यत:, नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका तथा च भुवनप्राप्त्येकहेतु: प्रिया। देवी प्रीतिमुपागता च भगिनीलाभाज्जिता: कोसला: किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै विधेयं स्पृहाम् ।। इति। यथा वेणीसंहारे, कृष्ण: --- तत्कथय महाराज, किमस्मत्त: प्रियमिच्छसि ? युधिष्ठिर: -- न खल्वत:परमभ्यर्थयितुं क्षम:। पश्यतु देव:। क्रोधान्धै: सकलं हतं रिपुकुलं पञ्चाऽक्षतास्ते वयं पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णव:। त्वं देव: पुरुषोत्तम: सुकृतिनंन सामादृतो भाषसे किं नामान्यदत: परं भगवतो याचे प्रसन्नादहम् ।। इति। नृपदेवादिशक्तिश्च प्रशस्तिरभिधीयते ।। यथा रत्नावल्यां, राजा--- तथापीदमस्तु। उर्वीमुद्दामसस्यां जनयतु विसृजन्वासवो वृष्टिमिष्टां इष्टैस्नैविष्टानां विदधतु विधिवत्प्रीणनं विप्रमुख्या:। आकल्पान्तं च भूयात्समुपचितसुखस्सङ्गमस्सज्जनानां निश्शेषं यान्तु शाÏन्त पिशुनजनगिरो दुर्जया वज्रलेपा: ।। यथा च वेणीसंहारे, युधिष्ठिर: --- तथापि प्रीततरश्चेद्भगवांस्तदिदमस्तु। अकृपणमति: कामं जीव्याज्जज: पुरुषायुषं भवतु भगवन्भक्तिद्र्वैतं विना पुरुषोत्तमे। दयितभुवनो विद्वद्बन्धुर्गुणेषु विंशेषवि त्सततसुकृती भूयाद्भूप: प्रसाधितमण्डड्डत्ध्;ल: ।। लक्षणानि चतुष्षष्टिरिति यत्प्रागुदीरितम्। नाटकादेस्स्फुटं लक्ष्म तदिदानीं विविच्यते ।। भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा। हेतुसंशयदृष्टान्ता: प्राप्तिरोशय एव च ।। निदश्र्नं निरुक्तं च सन्धिश्चासि विशेषणम्। गुणातिपातोऽतिशयस्तुल्यतर्क: पदोच्चय: ।। दिष्टं चैवोपदिष्टं च विचारोऽथ विपर्यय:। भ्रंशश्चैवानुनीतिश्च माला दाक्षिण्यगर्हणे ।। अर्थापत्ति: प्रसिद्धिश्च पृच्छा सारूप्यमेव च। मनोरथश्च लेशश्च याच्ञा प्रोत्साहनं स्पृहा ।। पश्चात्तापोऽनुवृत्तिश्च युक्तिर्निर्भासनं क्षमा। गुणानुवाद आक्रन्द: कपटं परिवादनम् ।। उपपत्तिश्च कार्यश्च प्रतिषेधो मृषोद्यम:। छलोक्ति: काकुरुन्माद:व परिहासो विकत्थनम् ।। यदृच्छायोगवैषम्यप्रतिज्ञातप्रवृत्तय:। आशीरुक्तिश्च सिद्धिश्च प्रियं वचनमेव च ।। लक्षणानि चतुष्षष्टि काव्येष्वेतानि निर्दिशेत् ।। तत्र च, अलङ्कारै र्गुणैश्चैव बहुभिर्यदवेक्षितम् ।। यथा रत्नावल्यां प्रथमेऽङ्के, यौगन्धरायण: --- विश्रान्तविग्रहकथो रतिमान् जनस्य चित्ते वसन्प्रियवसन्तक एव साक्षात्। पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वर: कुसुमचाप इवाभ्युपैति ।। अत्र श्लेषोपमाप्रत्यक्षादिभिरलङ्कारै: श्लेषप्रसादसौकुमार्यादिभिश्च गुणैरुपेतता द्रष्टव्या। एवं वक्ष्यमाणेष्वपि गुणालङ्कारा यथासम्भवमूहनीय:। नाटककारैश्च नियमो नारभ्यते। सन्ध्यङ्गेषु तु गुणालङ्कारयोगो नापेक्ष्यत इति। यत्रार्थैरक्षरै: श्लिष्टैर्विचित्रार्थोपवर्णनम्। तमत्राक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ।। 12.166 यथाभिज्ञानशाकुन्तले सप्तमेऽङ्के, (प्रविश्य मृण्मयूरहस्ता तापसी --- सव्वदमण, सउंदलावण्णं पेक्ख। (सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व।) बाल: --- (सदृष्टिक्षेपं), कहिं सा अज्जू। (कुत्र मे अम्बा ?) उभे -- विहस्य, णामसारिच्छेण छळिदोत्ति भणिदो। (नामसादृश्येन वञ्चितोऽसि मातृवत्सल:।) राजा --- (आत्मगतं), किं शकुन्तलेति तस्य मातुराख्या ! सिद्धैरर्थैस्समं कृत्वा यत्रासिद्धं प्रसाध्यते। श्लिष्टा श्लक्ष्णा विचित्रार्था सा शोभेत्यभिधीयते ।। यथा रत्नावल्यां, प्रथमेऽङ्के, यौगन्धरायण: --- द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्। आनीय झटिति घटयति विधिरभिमतमभिमुखीभूत: ।। अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थिताया: सिंहलेश्वरदुहितु: समुद्रे प्रवहणभङ्गनिम्नगाया: फलकासादनं, क्व च कौशाम्बीयेन वणिजा सिंहलेभ्य: प्रत्यागच्छता तदवस्थाया: सम्भावनं रत्नमालाचिढद्धठ्ठड़14;नायाश्च प्रत्यभिज्ञानादिहानयनं च। सर्वथा स्पृशन्ति नस्स्वामिनमभ्युदया इत#ि। तत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात्। साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ।। 12.167 यथा रत्नावल्यां, द्वितीयेऽङ्के, राजा विदूषकश्च शारिकावचनं निशमयत:। ततो विदूषक: --- (आकाशे) किं आप्रारणे कुप्पसि। जादिसो तुए अयं कामदेवो आलिहिदो तादिसी मए रइ आलिहिदेत्ति। भो वअस्स, किं णेदं। झ्र्किं अकारणे कुप्यसि। यादृशस्त्वयायं कामदेव आलिख#ितस्तादृशी मया रतिरालिखितेति। भो वयस्य, किं न्विदम्?ट 12.168 राजा --- वयस्य, एवं तर्कयामि। कयापि हृदयवल्लभोऽनुरागादभिलिख्य कामपदेवव्यपदेशेन निढद्धठ्ठड़14;नुतस्तत्सख्यापि प्रत्यभिज्ञाय वैदग्ध्यात्प्रतिभन्दानया सापि तत्रैव लिखितेति। यत्प्रयोजनसामथ्र्याद्वाक्यमिष्टार्थसाधकम्। समासोक्तमनोग्राहि स हेतुरिति संज्ञित: ।। 12.169 यथा रत्नावल्यां, द्वितीयेऽङ्के, विदूषक: --- सच्चं सबामि बम्हसुत्तेण जइ कदावि अम्हेर्हि ईदिसी दिठ्ठपुव्वा। झ्र्सत्यं शपे ब्रह्मसूत्रेण यदि कदाप्यस्माभिरीदृशी दृष्टपूर्वा।ट 12.170 काञ्चनमाला --- भट्टिणि, कदावि ईदिसं घुणक्खदं वि संभवदि एव्व। झ्र्भट्टिणि, कदापीदृशं घुणाक्षरं संभवत्येव।ट 12.171 वासवदत्ता --- अयि उजुए,प वसत्तओ एसो ण आणासि। एदं सव्वं क भणिदीओ। (अयि ऋजुके, वसन्तवक एषो न जानासि। एतत्सर्वं भणसि किं ?) अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते। सोऽनेकत्वाद्विचाराणां संशय: परिकीर्तित: ।। यथा रत्नावल्यां, चतुर्थेऽङ्के, वसुभूति: --- (सागरिकां निर्वण्र्य) सुसदृशीयं राजपुत्र्या:। बाभ्रव्य: --- ममाप्येतदेव मनसि वर्तते। .... यस्तु वक्ष्यार्थसाधक:। हेतोर्निदर्शनकृत स्स दृष्टान्त इति स्मृत: ।। 12.172 यथा च वेणीसंहारे, प्रथमेऽङ्के, चेटी --- अइ जण्णसेणि पञ्च गामा पथीअन्तित्ति सुणीअदि कीस दाणीं वि दे केसा ण संजमीअन्ति। (अयि याज्ञसेनि पञ्चग्रामा: प्राथ्र्यन्त इति श्रूयते। तत्कस्मादिदानीमपि ते केशा न संयम्यन्ते।) भीमसेन: --- सहदेव, श्रुतम्। सहदेव: --- आर्य किमिहोच्यते। दुर्योधनकलत्रं हि सा। पश्य। स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि। मधुरापि हि मूच्र्छयते विषविटपिसमाश्रिता वल्ली ।। इति। .... .... जानीयाल्लक्षणं नाटकाश्रयम् ।। यथा रत्नावल्यां, तृतीयेऽङ्के, कदलीगृहे चित्रगतां सागरिकां निर्वर्णयति राजनि, 12.173 विदूषक: --- भो वअस्स, कीस उण एसा ओणदमुही आलिहिदा। झ्र्भो वयस्य, कस्मात्पुनरेषा अवनतमुख्यालिखिता ? (एतच्छØत्वाऽऽह सुसङ्गता) सहि, जह अय्यवसन्तिओ मंतेदि तह तक्केमि भट्टिणावि इह एव्व होवदव्वंति। झ्र्सखि, यथा वसन्तको तर्कयते तथा तर्कयामि भर#्त्राप्यत्रैव भवितव्यम्। अभूतपूर्वोऽप्यर्थो यस्सादृश्यात्परिकल्पित:। लोकस्य हृदयग्राही सोऽभिप्रापय इति स्मृत: ।। यथा मुद्रा वेदेविलीएये --- .... .... दीवरवनम्। ततस्स्नानकीडड्डत्ध्;ाजनितजडड्डत्ध्;भावैरवयवै: कदाचिन्मुञ्चेयं मदनशिखिपीडड्डत्ध्;ापरिभवम् ।। यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम्। परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ।। 12.174 यथा मालतीमाधवे, कामन्दकी --- अयि सरले, किमत्र भगवत्या शक्यम्। प्रभवति प्राय: कुमारीणां जनयिता दैवं च। यच्च किल, कौशिकी शकुन्तला दुष्यन्तमप्सरा: पुरूरवसं चकमे ऊर्वशीत्याख्यानविद आचक्षतेत्यादि तदपि साहसकल्पमित्यनुपदेष्टव्यमेवेति। निरवद्यस्य शक्यस्य पूर्वोक्तार्थप्रसिद्धये। युदच्यते तु वचनं निरुक्तं तदुदाहृतम् ।। 12.175 यथाभिज्ञानशाकुन्तले, प्रियंवदा -- हला सउंदले इह एव्व दाव मुहुत्तअं चिठ्ठ। तुए समीपट्ठिदाए ळदासणाहो विअ अअं केसररुक्खओ पडिड्डत्ध्;भाइ। झ्र्सखि शकुन्तले, अत्रैव तावत् मुहूर्तं तिष्ठ। यावत्त्वया उपगतया लताव सनाथ इव केसरवृक्ष: प्रतिभाति।ट शकुन्तला --- अदो खु सि पिअंवदा। (अत: खलु त्वं प्रियंवदा।) राजा --- प्रियमपि तथ्यमाह। अधर: किसलयराग: कोमलविटपानुकारिणौ बाहू। कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ।। बहूनां तु प्रधानानां नाम यत्राभिकीत्र्यते। अभिप्रेतार्थसिध्द्यर्थं सा सिद्धिरिति कीर्तिता ।। यथा रत्नावल्यां, चतुर्थेऽङ्के, राजा --- क्वासौ जलं हुतवहस्तदवस्थमेतदन्त:पुरं कथमवन्तिनृपात्मजेयम्। बाभ्रव्य एष वसुभूतिरयं वयस्यस्स्वप्ने मतिभ्र्रमति किन्त्विदमिन्द्रजालम् ।। सिद्वान्बहून्प्रधानार्थानुक्त्वा यत्र प्रयुज्यते। विशेष .... ।। यथा अभिज्ञानशाकुन्तले --- प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यद्वाञ्छन्ति तपोभिरन्यमुनयस्तÏस्मस्तपस्यन्त्यमी ।। गुणाभिधानैर्विविधै र्विपरीतार्थयोजितै:। गुणातिपातो मधुरैर्निष्ठुरार्थै र्भवेत्स्फुटम् ।। यथोत्तररामचरिते, लव: -- राममुविषये, वन्द्यास्ते ह्यविचारणीयचरितास्तिष्ठन्तु किं वण्र्यते सुन्दस्त्रीनिधनेऽप्यखण्डड्डत्ध्;यशसो लोके महान्तो हि ते। यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जन: ।। बहून्गुणान्कीर्तयित्वा सामान्यजनसम्भवान्। विशेष:कीत्र्यते यस्तु ज्ञेयस्सोऽतिशयो बुधै: ।। यथा रत्नावल्यां, द्वितीयेऽङ्के, राजा चित्रलिखितां सागरिकां दृष्ट्वाऽऽह -- विधायापूर्वपूर्णेन्दुमस्या मुखमभूद्ध्रुवम्। धाता निजासनाम्भोजविनिमीलनदुस्स्थित: ।। रूप ... ... स्तुल्यतर्क: प्रकीर्तित: ।। यथोत्तररामचरिते, राम: --- अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति। ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोरभिनवशतपत्रश्रीमदास्यं प्रियाया: ।। बहूनां तु प्रयुक्तानां पदानां बहुभि: पदै:। उच्चयस्सदृशार्थो यस्स विज्ञेय: पदोच्चय: ।। यथा रत्नावल्यां, प्रथमेऽङ्के, राजा वासवदत्तां प्रत्याह --- कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम्। आभाति मकरकेतो: पाश्र्वस्था चापयष्टिरिव ।। यथादेशं यथाकालं यथापात्रं च वण्र्यते। यत्प्रत्यक्षं परोक्षं वा दिष्टं तद्वर्णकोऽपि वा ।। यथा राघवानन्दे--- अङ्के न्यस्योत्तमाङ्गं प्लवगबलपते: पादमक्षस्य हन्तु: कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय। बाणं रक्ष:कुलघ्नं प्रगुणितमनुजेनादरात्तदीक्ष्णमक्ष्ण: कोणेनावेक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ।। परिगृह्यतु शास्त्रार्थं यद्वाक्यमभिधीयते। विद्वन्मनोहरं स्वन्तमुपदिष्टं प्रकीत्र्यते ।। यथा शाकुन्तले --- शुश्रूषस्व गुरून् कुरु प्रियसखीवृतिं्त सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गम:। भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामा: कुलस्याधय: ।। पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनै:। अनेकोपायसंयुक्तो विचार: परिकीर्तित: ।। यथोत्तररामचरिते, लवचन्द्रकेतू परस्परं सस्नेहानुरागं निर्वण्र्य, निजो वा सम्बन्धो न विधिवशात्कोपविदितो मया तस्मिन्दृष्टे हृदयमवधानं रचयति ।। विचारस्यान्यथाभावस्तथादिष्टोपदिष्टयो:। सन्देहाज्जायते यत्र स विज्ञेयो विपर्यय: ।। 12.176 यथा रत्नावल्यां, तृतीयेऽङ्के, वासवदत्ता --- हळा कंचणमाले, सच्चं जेव्व मह वेसधारिणी भविअ साअरिआ अय्यउत्तं अहिसरिस्सदि। झ्र्हञ्जे काञ्चनमाले ! सत्यमेव मम वेषधारिणी भूत्वा सागरिका आर्यपुत्रं अभिसरिष्यति।ट 12.177 काञ्चनमाला --- कधं अण्णधा भट्टिणीए णिवेदीअदि। अहवा चित्तसालीआदवारे उवविट्टो वसंतओ एव्व दे पच्चअं उप्पादइस्सदि। झ्र्कथमन्यथा भत्र्र्यै निवेद्यते। अथवा चित्रशालिकाद्वार उपविष्टो वसन्तक एव ते प्रत्यक्षमुत्पादयिष्यति।ट (तत: प्रविशति कृतावकुण्ठनो वसन्तक:.) 12.178 वसन्तक: --- जह अअं चित्तसालिआदुवारे पदसद्दो सुणीअदि तह तक्केमि आअदा साअरिआत्ति। झ्र्यथायं चित्रशालिकाद्वारे पदशब्द: श्रूयते तथा तर्कयाम्याम्यागता सागरिकेति।ट 12.179 काञ्चनमाला --- भट्टिणि, इयं सा चित्तशालिआ। ता जाव वसंतअस्स सण्णं करेमि। (भर्त्रि, इयं सा चित्रशालिका। तद्यावद्वसन्तकस्य संज्ञां करोमि।) इति छोटिकां ददाति। 12.180 विदूषक: -- (उपसृत्य अपवार्य), सुसङ्गदे सुसरिसो खु तुए किदो कंचणमालाए वेसो साअरिआ एव्व वासवदत्तेति। (सुसङ्गते, सदृश: खलु त्वया कृत: काञ्चनमालाया वेष: सागरिका एव वासवदत्तेति।) यथा चात्रैवाग्रत: --- 12.181 विदूषक: --- (ससम्भ्रमं, दृष्ट्वा) भो वअस्स, परित्ताअहि परित्ताअहि। एसा खु देवी वासवदत्ता। अत्ताणं उब्बंधिअ वावादेति। (भो वयस्य, परित्रायस्व परित्रायस्व। एषा खलु देवी वासवदत्ता आत्मानमुद्बध्य व्यापादयति।) राजा --- (ससम्भ्रममुपसृत्य) वयस्य, क्वासौ ? विदूषक: --- भो एसा। (भो एषा।) राजा --- (उपसृत्य, कण्ठात्पाशमपनयन्) अयि साहसकारिणि, किमिदमकार्यं क्रियते ? मम कण्ठगता: प्राणा: पाशे कण्ठगते तव। अतस्स्वार्थप्रयत्नोऽयं त्यज्यतां साहसं प्रिये ।। ... रिष्टादिभिरनेकधा। अन्यस्मिन्नेव पतनादागु भ्रंशस्स उच्यते ।। यथा च वेणीसंहारे, द्वितीयेऽङ्के, दुर्योधन: -- सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम्। सबलेन निहन्ति संयुगे न चिरात्पाण्डुड्डत्ध्;सुत स्सुयोधनम् ।। कञ्चुकी --- (कर्णौ पिधाय, सभयं) शान्तं पापम्। प्रतिहतममङ्गळम्। राजा -- (दुर्योधनोक्तं पठित्वा) तदेतद्विपरीतमभिहितं देवेन। 12.182 राजा --- विनयन्धर, अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मन इति। उभयो: प्रीतिजननो विरुद्धाभिनिवेशयो:। अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधै: ।। 12.183 यथा रत्नावल्याम्, तृतीयेऽङ्के, राजा सागरिकावृत्तान्तापराधे वासवदत्ताया: पुरो बद्धाञ्जलिस्तामनुनयन्नाह --- प्रिये वासवदत्ते देवि, एवमपि प्रत्यक्षदृष्टव्यलीक: किं ब्रवीमि ? तथापि विज्ञापयामि। आताम्रतामपनयामि विवर्ण एष लाक्षाकृतां चरणयोस्तव देवि मूध्र्ना। कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ।। अभिप्रेतार्थसिध्द्यर्थं कीत्र्यते यत्र सूरिभि:। प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ।। यथा मालतीमाधवे मकरन्दो मालतीमुद्दिनपश्य कामन्दकीं प्रति, भगवति, श्लाघ्यान्वयेति नयनोत्सवकारिणीति निव्र्यूढसौहृदमयीति गुणोज्वलेति। एकैकमेव हि वशीकरणं गरीयो युष्माकमेवमियमित्यथ किं ब्रवीमि ।। हृष्टै: प्रसन्नवदनैर्यत्परस्यानुपाधिका। .... दाक्षिण्यमुदाहृतम् ।। 12.184 यथा रत्नावल्यां, द्वितीयेऽङ्के, वासवदत्ता --- (विदूषकमुद्दिश्य), अय्य मम उण एदं चित्त्र पेक्खिअ सीसवेअणा समुप्पणा। ता गमिस्सं अहं। (आर्य, मम पुनरिदं चित्रं प्रेक्ष्य शीर्षवेदना समुत्पन्ना। तद्गमिष्याम्यहम्।) राजा --- वासवदत्तां पटान्ते गृहीत्वा, प्रिये प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नां पुनरिति भवेदभ्युपगम:। न मे दोषोऽस्तीतित्वमिदमपिच ज्ञास्यसि मृपा किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ।। विदूषक: --- भोदि पसीद। (भवति, प्रसीद।) 12.185 वासवदत्ता --- अज्जउत्त, मा अण्णधा संभवेहि। सच्चं एव्व मे सीसवेअणा समुप्पणा। ता गमिस्सं। (आर्यपुत्र, माऽन्यथा सम्भावय। सत्यं मे शीर्षवेदना समुत्पन्ना। तद्गमिष्ये) इति निष्क्रान्ता सपरिवारा वासवदत्ता। 12.186 विदूषक: --- भो दिठ्ठिआ वढ्ढसे क्खेमेण अदिक्कन्ता वासवदत्ता अआलबादलिआ विअ। झ्र्भो:, दिष्ट्या वर्धसे क्षेमेणातिक्रान्ता वासवदत्ताऽकालबादलिकैव।ट राजा --- मूर्ख, अलं परिहासेन। आभिजात्याद्विनिगूढो न लक्षितस्त्वया कोपो देव्या:। भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रता- मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्। अन्तर्बाष्पजडड्डत्ध्;ीकृतं प्रभुतया चक्षु र्न निष्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रय: ।। यत्र सङ्कीर्तयेद्दोषं गुणमर्थेन दर्शयेत्। गुणातिपाताद्दोषाद्वा गर्हणं नाम तद्भवेत्उ ।। यथा चोत्तररामचरिते, चन्द्रकेतु: --- सैनिकैरभियुज्यमानं लवमुद्दिश्य, भो भो राजान:, संख्यातीतै र्द्विरदतुरगस्यन्दनस्थै: पदातावत्रैकस्मिन्कवचनिबिडैड्डत्ध्;र्नद्धचर्मोत्तरीये। कालज्येष्ठैरपरवयसि व्यातिकामै र्भवद्भिर्योऽसौ बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ।। कथ ... न्योऽर्थ: प्रतीयते। वाक्यमाधुर्यसम्पन्ना सार्थापत्तिरुदाहृता ।। यथा राघवानन्दे, कुम्भकर्णो रावणमुद्दिश्याह --- रामोऽयं जगतीह विक्रमगुणैर्यात: प्रसिदिं्ध परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्। बन्दी वैष यशांसि गायति मरुद्यस्यैकबाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णै स्स्वरैस्सप्तभि: ।। वाक्यैस्सातिशयैर्यत्तु ... । लोकप्रसिद्धैर्बहुभि: प्रसिद्धिरिति कीर्तिता ।। यथा महावीरचरिते, राम: परशुराममुद्दिश्याह --- उत्पत्तिर्जमदग्नित: स भगवान्देव: पिनाकी गुरु: वीर्यं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभि:। त्यागस्सप्तसमुद्रमुद्रितमहीनिव्र्याजदानावधि- ब्र्रह्मक्षत्रतपोनिधेर्भगवत: किं वा न लोकोत्तरम् ।। यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम्। पृच्छन्निवाभिधत्ते .... ।। यथा महावीरचरिते, हनूमान् सीतां दृट्वा आह -- स्थानेऽवसीदसि रघूद्वह किं विधातरस्यास्त्वयेक्षितमलक्षणमङ्गकेषु। अद्यापि जीवसि दशानन हे हनूमन् केयं तवाभिमुखवर्तिरिपो: प्रतीक्षा ।। दृष्टश्रुतादिभूतार्थकथनादिसमुद्भवम्। सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ।। 12.187 यथा वेणीसंहारे, दुर्योधनेन भीमार्जुनौ हताविति चार्वाकादाकण्र्य शोकाच्चिताप्रवेशं अभिलषति सद्रौपदीके युधिष्ठिरे, (नेपथ्ये कलकलानन्तरं) भो भो: स्यमन्तपञ्चकसञ्चाचिण: क्षतजासवमत्तयक्षराक्षसपिशाचभूतवेतालकङ्कजम्बुकोलूकवायसभूयिष्ठा विरलयोधपुरुषा:कृतमस्मद्दर्शनत्रासेन। कथयत कस्मिन्नुद्देशे याज्ञसेनी संनिहितेति। कथयाम्युपलक्षणं तस्या:। ऊरू करेण परिघट्टयतस्सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या। दु:शासनेन कचकर्षणभिन्नमौलिस्सा द्रौपदी कथयत क्व पुन: प्रदेशे ।। कञ्चुकी --- हा देवि यज्ञवेदिसंभवे, परिभूयसे संप्रत्यनाथ कुरुकुलकलङ्केन। 12.188 युधिष्ठिर: --- (ससंभ्रममुत्थाय) देवि याज्ञसेनि, न भेतव्यं न भेतव्यम्। क: कोऽत्र भो: सनिषङ्गं मे धनुरुपानय। दुरात्मन्दुर्योधनहतक आगच्छागच्छ। अपनयामि ते गदाकौशलसंभृतं भुजदर्पं शिलीमुखासारेण। अन्यच्च रे कुरुकुलाङ्गार, प्रियमनुजमपश्यंस्तं जरासन्धमल्लं कुपितहरकिरातायोधिनं तं च वत्सम्। त्वमिव कठिनचेता: प्राणितुं नास्मि शक्तो ननु पुनरपहर्तुं बाणवर्षैस्तवासून् ।। (तत: प्रविशति यथानिर्दिष्टो भीमसेन:।) भीमसेन: --- भो भो: स्यमन्तपञ्चकसंचारिण: सैनिका: कोऽयमावेग:। नाहं रक्षो न भूतो रिपुरुधिरजलप्लाविताङ्ग: प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहन: क्रोधन: क्षत्रियोऽस्मि। भो भो राजन्यवीरा: समरशिखिशिखादग्धशेषा: कृतं व- स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ।। कथयन्तु भवन्त: कस्मिन्नुद्देशे पाञ्चाली तिष्ठति। कञ्चुकी --- देवि पाण्डुड्डत्ध्;स्नुषे, उत्तिष्ठोत्तिष्ठ। द्रौपदी -- (सहसोत्थाय) कहं ण संभावेमि अज्जवि चिदासमीवम्। झ्र् कथं न संभावयाम्यद्यापि चितासमीपम्।ट 12.189 युधिष्ठिर: -- क: कोऽत्र भो:। सनिषङ्गं धनुरुपनय। कथं न कश्चित्परिजन:। भवतु। बाहुयुद्धेनैव दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपातयामि। (इति परिकरं बध्नाति.) 12.190 कञ्चुकी --- देवि पाण्डुड्डत्ध्;स्नुषे, संयम्यन्तामिदानीं नयनोपरोधिनो दु:शासनावकृष्टा मूर्धजा:। अस्तमिता संप्रति प्रतीकाराशा। चितासमीपमेव द्रुततरं संभावय। युधिष्ठिर: --- कृष्णे, न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधने संहर्तव्या: केशा:। 12.191 भीमसेन: -- पाञ्चालि, न खलु मयि जीवति संहर्तव्या दु:शासनविलुलिता वेणिरात्मपाणिभ्याम्। तिष्ठतु तिष्ठतु। स्वयमेवाहं संहरामि। (इति केशेषु ग्रहीतुमिच्छति।) युधिष्ठिर: --- (वेगाद्भीममालिङ्ग्य,) दुरात्मन् भीमार्जुनशत्रो सुयोधनहतक, आशैशवादनुदिनं जनितापराधो मत्तो बलेन भुजयोर्हतराजपुत्र:। आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य जीवन्प्रयासि न पदात्पदमद्य पाप ।। भीमसेन: --- अये कथमार्य: सुयोधनशङ्क्या क्रोधान्निर्दयं मामालिङ्गति। 12.192 कञ्चुकी --- (निरूप्य, सहर्षं) महाराज वञ्च्यसे। अयं खल्वायुष्मान्भीमसेन: सुयोधनक्षतजारुणीकृतसकलशरीराम्बरो दुर्लक्ष्यव्यक्ति:। अलमधुना सन्देहेनेति। हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रकाशकम्। अन्यापदेशकथनं मनोरथ इति स्मृत: ।। 12.193 यथा रत्नावल्यां द्वितीवयेऽङ्के, सुसङ्गता --- सहि जस्स किदे तुमं आअदा सो अअं चिठ्ठदि। झ्र्सखि, यस्य कृते त्वमागता, सोऽयं तिष्ठति।ट सागरिका -- (सासूयं), सहि कस्स किदे अहं आअदा ? झ्र्सखि, कस्य कृतेऽहमागता?ट सुसङ्गता --- अइ अण्णसंकिदे, णं चित्तफलअस्स। ता गेढद्धठ्ठड़14;णतम्। झ्र्अयि अन्यशंकिते, ननु चित्रफलकस्य। तद्गृहाण तम्।ट यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते। सादृश्यार्थाभिनिष्पत्त्या स लेश इति कीर्तित: ।। 12.194 यथा शाकुन्तले सख्यौ -- शकुन्तलादुष्यन्तयोराकरं विदित्वा, जनान्तिकं, हळ सउंदळे, जइ अज्ज जादो सण्णिहिदो हवे। (सखि शकुन्तले, यद्यद्य तातस्सन्निहितो भवेत्।) शकुन्तला --- (सरोषं) तदो किं भवे। (तत: किं भवेत् ?) 12.195 सख्यौ --- इमं जीवितसव्वस्सेणवि अदिहिं किदत्थिकरिस्सदि। (इमं जीवितसर्वस्वेनाप्यतिथिं कृतार्थीकरिष्यति।) 12.196 शकुन्तला -- हळा अवेह। किं वि हिअए करिअ मंतेह। णवो वअणं सुणिस्सं। (सख्यौ अपेत। किमपि हृदये कृत्वा मन्त्रयेथे। न वां वचनं श्रोष्यामि।) परदोषैर्विचित्रार्थै र्यत्रात्मा परिकीत्र्यते। अदुष्टोऽन्योऽपि वा कश्चित्स तु क्षोभ इति स्मृत: ।। यथा रत्नावल्यां, तृतीयेऽङ्के, राजा --- (अञ्जलिं बध्वा) प्रिये वासवदत्ते प्रसीद। 12.197 वासवदत्ता --- अज्जउत्त, मा एव्वं भण। अण्णगदाइं एदाइं अक्खनराइं। (आर्यपुत्र, मा एवं भण। अन्यगतान्येतान्यक्षराणि।) 12.198 विदूषक: --- भोदि, महाणुभावा खु तुमं। ताखमीअदु दाव एक्को अवराहो पिअवअस्सस्स। झ्र्भवति, महानुभावा खलु त्वम्। तत्क्षम्यतां एतावानपराध: प्रियवयस्यस्य।ट 12.199 वासवदत्ता --- अज्ज वसन्तअ, णं पढमसंगमे विग्धं करंतीए मए जेव्व एदस्स अवरद्धं। झ्र्आर्य वसन्तक, ननु प्रथमसङ्गमे विध्नं कुर्वन्त्या मयैवैतस्यापराद्धम्।ट कीत्र्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवै:। दोषा न परिकल्प्यन्ते तज्ज्ञेयं गुणकीर्तनम् ।। यथा रत्नावल्याम्, द्वितीयेऽङ्के, राजा -- दृÏष्ट रुषा क्षिपसि भामिनि यद्यपीमां स्निग्धेयमेष्यति तथापि न रूक्षभावम्। त्यक्त्वा त्वरां व्रज पदै: स्खलितैरयं ते खेदं गमिष्यति गुरुर्नितरां नितम्ब: ।। पृष्टैरपृष्टैरथवा निर्णय: पर्यवस्थित:। तदाख्यानमिति ज्ञेयं लक्षणं नाटकाश्रयम् ।। 12.200 यथोत्तररामचरिते, चतुर्थेऽङ्के, कौसल्या -- अम्महे एदाणं मज्झेको एसो रामचंदकोमारलच्चीसावठ्ठंभेहिं मुद्धळळिदेहिं अंगेहिं दारओ अम्हाणं लोअणाइं सीअळावेइ। झ्र्अहो एतेषां मध्ये क एष: रामचन्द्रकौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचन#े शीतलयति।ट 12.201 अरुन्धती --- (अपवार्य, सहर्षोत्कण्ठं,) इदं तन्नाम यद्भागीरथीनिवेदितं रहस्यं कर्णामृतम्। नत्वेतत् विद्म: कतरोऽयमायुष्मतो: कुशलवयोरिति। वार्यमाणा: सुबहुभिर्व ... युक्तिभि:। नार्यो यं नानुतिष्ठन्ति सोऽभिमान: प्रकीर्तित: ।। 12.202 यथा रत्नावल्यां, तृतीयेऽङ्के, काञ्चनमाला --- भट्टिणि करेहि से पसादं। एअं चरणपडिड्डत्ध्;अं महाराजं उज्झिअ गदाए पच्चादावेन होदव्वं। (भर्त्रि, कुरुष्व अस्मै प्रसादम्। एवं चरणपतितं महाराजमुज्झित्वा गताया: देव्या: पश्चात्तापेन भवितव्यम्।) 12.203 वासवदत्ता --- अइ अपेहि अपण्डिड्डत्ध्;ते। कुदो एत्थ पसादस्स पच्चादावस्स वा कारणं ? (अयि, अपेहि अपण्डिड्डत्ध्;ते। कुतोऽत्र पश्चात्तापस्य प्रसादस्य वा कारणम् ?) लाभोपपत्तिमाख्याय स्वयं दूतमुखेन वा। प्राथ्र्यते यत्र कन्यादिस्सा याच्ञेत्यभिधीयते ।। यथा महावीरचरिते --- कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत्क्वचिदस्ति तत्परिणमत्यस्मासु शक्रादपि। कन्यायाश्च परार्थतैव हि मता तस्या: प्रदानादहं बन्धुर्वो भविता पुलस्त्य पुलहप्रष्ठाश्च सम्बन्धिन: ।। उत्साहजननैस्स्पष्टै र्गुणैरौपम्यसंश्रयै:। प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधै: ।। यथा रत्नावल्यां, चतुर्थेऽङ्के, विजयवर्मा प्राग्वृत्तयुद्धवर्णनायां प्राह --- देव, कृतनिश्चयश्चासौ। योद्धुं निर्गत्य विन्ध्यादभवदभिमुखस्तत्क्षणं दिग्विभागान् विन्ध्येनेवापरेण द्विरदपतिघटापीडड्डत्ध्;बन्धेन रुन्धन्। वेगाद्बाणान्विमुञ्चन्समदगजघटोत्पिष्टपत्तिर्निपत्य प्रत्यैच्छद्वाञ्छिताप्तिद्विगुणितरभसस्तं रुमण्वान् क्षणेन ।। दृष्टे श्रुतेऽनुभूते वा वस्तुनो रामणीयके। अभिलाषो भवेद्यस्तु सा स्पृहेति प्रकीर्तिता ।। यथोत्तररामचरिते, जनक: --- कुवलयदलस्निग्धश्यामश्शिखण्डड्डत्ध्;कमण्डड्डत्ध्;नो वटुपरिषदं पुण्यश्रीक: श्रियैव सभाजनम्। पुनरिव शिशुर्भूत्वा वत्सस्स मे रघुनन्दनो झटिति कुरुते दृष्ट:कोऽयं दृशोरमृताञ्जनम् ।। अकार्यंसहसा कृत्वा कृत्वाकार्यमथापि वा। सन्तापो मनसो यस्तु पश्चात्तापस्स उच्यते ।। 12.204 यथा रत्नावल्यां, तृतीपयेऽङ्के, वासवदत्ता -- कंचनमाळे, तं तहा चळणपडिड्डत्ध्;दमय्यउत्तमवधीरिअ आअच्छंतीए मए अदिणिठ्ठुरं एव्व मए किदं इति। (हञ्जे काञ्चनमाले, तं तथा चरणपतितं आर्यपुत्रं अवधीर्यागच्छन्त्या अतिनिष्ठुरमेव मया कृतम्। इति।) प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम्। स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ।। यथा रत्नावल्यां तृतीयेऽङ्के, राजा -- वयस्य, कथं दर्शनमपि भविष्यति प्रियाया:। 12.205 विदूषक: --- भो कीस ण भविस्सदि जस्स देनप उवहसितविहप्पदिबुद्धिविहवो अअं अमच्चो। (भो: कुत: न भविष्यति यस्य त उपहसितबृहस्पतिबुद्धिविभवोऽयममात्य:।) राहा --- न खलु किञ्चिन्न संभाव्यत इति। साध्यते योऽर्थसम्बन्धो महद्भिस्समवायता। परस्परानुकूलेन सा युक्ति: परिकीर्तिता ।। 12.206 यथा मालतीमाधवे, कामन्दकी --- तदिदानीं विदर्भराजमन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षकीश्रवणाय कुण्डड्डत्ध्;नपुरादिमां पद्मावतीं प्रतिप्रेषयता सुबिहितम्। अपत्यसम्बन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृद: स्मृतिं च। अलोकसामान्यगुणस्तनूज: प्ररोचनार्थं प्रकटीकृतश्च ।। अन्यच्च, मकरन्दोद्यानवृत्तान्तेन भगवतो विधेरप्यनुकूलतामवागच्छामि वकुलावलीचित्रफलकसंविधानव्यतिकरश्च कमप्यद्भुतं प्रमोदमुल्लासयतीति। अनेकयुक्तिमद्वाक्यमनेकार्थप्रसाधकम्। अनेकवाक्यसंयुक्तं ज्ञेयं निर्भासनं तु तत् ।। यथा मालतीमाधवे, मकरन्द: --- वयस्य माधव, अन्योन्यसम्भिन्नदृशां सखीनां तस्या अपि प्रागनुरागचिढद्धठ्ठड़14;नम्। कस्यापि को ऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च ।। कलहंसक: --- उपसृत्य, एदं च। चित्रफनलकं दर्शयति। प्रतिक्रियासमर्थस्य पात्रौचित्यवशेन य:। अपकारेऽप्युपशम: सा क्षमेति प्रकीर्तिता ।। 12.207 यथोत्तररामचरिते, लव: --- आत्मगतं, ईदृशो मां प्रत्यमीषामकारणस्नेह:। मया पुनरेभ्य एवाभिद्रुग्धमज्ञेन। यदायुधपरिग्रहो विहित:। (प्रकाशं), मृष्यन्तामिदानीं लवस्य बालिशतां तातपादा:। राम:-- किमपराद्धं वत्सेन ? चन्द्रकेतु: --- अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन। राम: --- नन्वयमलङ्कार: क्षत्रस्येति। गुणानुवाद: स ज्ञेयो यत्र भेदोपचारत:। गौणीं वृत्तिमुपाश्रित्य वस्तुनो रूपमुच्यते ।। यथा शाकुन्तले, राजा --- अनाघ्रातं पुष्पं किसलयमलूनं कररुहै रनाविद्धं रत्नं मधुनवमनास्वादितरसम्। अखण्डंड्डत्ध्; पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधि: ।। आत्मभावमुपन्यस्य परसादृश्ययुक्तिभि:। तीव्रार्थभाषणं यत्स्यादाक्रन्दस्स तु कीर्तित: ।। 12.208 यथा मालतीमाधवे, (प्रविश्य), संभ्रान्ता बुद्धरक्षिता --- परित्ताअह परित्ताअह। एसा णो पिअसही अमच्चणंदणस्सं भइणी मदअंतिआ एदिणा दुट्ठशर्दूलेण हतविद्दाविअपरिअणा अभिभविअदि। झ्र्एषा न: पियसख्यमात्यनन्दनस्य भगिनी मदयन्तिका एतेन दुष्टशार्दूलेन हतविद्रावितपरिजना अभिभूयते।ट अदिव्य दिव्यमपि वा कृत्वा रूपविपर्ययम्। अविद्वान्वञ्च्यते यत्र कपटं तदुदाहृतम् ।। 12.209 यथा मालतीमाधवे, कामन्दकी --- वत्स मकरन्द, अनेनैव मालतीनैपथ्येनापवारित: प्रवर्तस्व परिणयायात्मानं नन्दनेनेति। यद्दोषैरन्यनामोक्तै: प्रसिद्धार्थप्रयोजनम्। अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत्परिवादनम् ।। 12.210 यथा रत्नावल्यां, तृतीयेऽङ्के, वासवदत्ता चरणपतितं राजानमुज्झित्वा निर्गता। विदूषकश्च राजानं भाषते --- ण किदो कहं पसादो जं अज्जवि अक्खेदसरीरा चिट्ठह्म। (न कृत: कथं प्रसादो यदद्यापि अक्षतशरीरास्तिष्ठाम:।) ततो ज्ञातायां राजा परिवदन्नाह --- त्वत्कृतोऽयमनर्थोऽस्माकमापतित इति। प्राप्तानां यथा दोषाणां क्रियते शमनं पुन:। ज्ञेया साभ्युपपत्तिस्तु लक्षणं नाटकाश्रयम् ।। 12.211 यथा रत्नावल्यां, द्वितीयेऽङ्के, वासवदत्ता --- कंचणमाळे अअं अय्यउत्तो। इअं उण सारिआ। अज्जउत्त किं एदम्। (काञ्चनमाले, अयमार्यपुत्र:। इयं पुन: सारिका। आर्यपुत्र, किमेतत् ?) राजा --- अपवार्य, वयस्य, वयस्य किं ब्रवीमि ? त्वमेवास्या उत्तरं प्रयच्छ। 12.212 विदूषक: --- होदि, अप्पा किल दुक्कं आलिहदुंति मम वअणं सुणिअ पिअवअस्सएण एदं विण्णाणं दंसिदम्। (भवति, आत्मा किल दु:खं लिखतीति मम वचनं श्रुत्वा प्रियवयस्येनेदं विज्ञानं दर्शितम्।) राजा --- देवि, यथाह वसन्तक:। 12.213 वासवदत्ता --- अज्जउत्त, एसापि जा अवरा तुह समीपे आलिहिदा ता किं वसंदअस्स विण्णाणं। (आर्यपुत्र, एषापि याऽपरा तव समीपे आलिखिता, तÏत्क वसन्तकस्य विज्ञानम् ?) 12.214 राजा --- सवैलक्षस्मितं, देवि, अलमन्यथा सम्भावितेन। इयं हि मया कापि कन्यका स्वचेतसैव परिकल्प्यालिखिता। न तु दृष्टपूर्वेति। यत्र सङ्कीर्तयन्दोषं गुणमर्थेन योजयेत्। .... कार्यं तदिह कीर्तितम् ।। यथा रत्नावल्यां, प्रथमेऽङ्के, यौगन्धरायण: --- प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे। सिद्धेभ्र्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मि भर्तु: ।। कार्येषु विपरीतेषु यदि कश्चित्प्रवर्तते। निवार्यते च कार्यज्ञै: प्रतिषेधस्स कीर्तित: । यथा महावीरचरिते, दशरथ: -- विरम नरपते कथं द्विजेऽस्मिन्नविरतवितीर्णगोसहस्र:। तव पलितनिरन्तर: पृषत्कं स्पृशति पुराणधनुर्धरस्य बाहु: ।। प्रयुक्तार्थविधानाय मोहात्र प्रवर्तते। निवर्तते वृथाक्लेशस्स विज्ञेयो मृषोद्यम: ।। यथा वीरचरिते --- तपो वा शस्त्रं वा व्यपदिशति य: कश्चिदिह वो सदर्पादुद्दामं द्विषमसहमानस्सखलयतु। अरामां निस्सीरध्वजदशरथीकृत्य वसुधामतृप्तस्तत्कुल्यामपि परशुरामश्शमयति ।। काक्वाश्लेषेण वा यत्र पदं व्द्यर्थं प्रयुज्यते। प्रधानमतिसन्धातुं सा छलोक्ति:प्रकीर्तिता ।। 12.215 यथा रत्नावल्यां, द्वितीयेऽङ्के, विदूषक: --- देवि, सच्चं सबामि बह्मसुत्तेण जइ कदावि अह्मेहिं ईदिसी दिठ्ठपुव्वा। झ्र्देवि, सत्यं शपे ब्रह्मसूत्रेण यदि कदाप्यस्माभिरीदृशी दृष्टपूर्वा। 12.216 वासवदत्ता -- अइ उजुए, वसंदओ खु एसो। ण आणासि तुमं एदस्स वक्कभणिदाइं अय्य मम एदं चतिं्त पेक्खिअ सीसवेअणा समुप्पणा। ता गमिस्सं अहं इति। झ्र्अयि ऋजुके, वसन्तक: खल्वेष:। न जानासि त्वं एतस्य वक्रभणितानि। अद्य मम एतच्चित्रं प्रेक्ष्य शीर्षवेदना समुत्पन#्ना। तद्गमिष्येऽहमिति। यथा च मालतीमाधवे, प्रभवति निजस्य कन्यकाजनस्य महाराज इति। वाक्येऽभिधीयमानोऽर्थो येनान्यत्वं प्रपद्यते। भिन्नकण्ठध्वनिर्धीरैस्स काकुरिति कथ्यते ।। यथा च वेणीसंहारे, भीम: -- सहदेवमुद्दिश्य, सन्धेयास्ते भ्रातरो युष्माकम्। यथा चात्रैव लाक्षागृहानलविषान्नसभाप्रवेशै: प्राणेषु वित्तनिचयेषु च न: प्रहृत्य। आकृष्टपाण्डड्डत्ध्;ववधूपरिधानकेशारस्वस्था भवन्ति मयि जीवति धार्तराष्ट्रा: ।। असाधुकारिणं किञ्चित्पश्यतस्साधु मानिन:। सोत्प्रासं वचनं यत्स्यात्तमुन्माथं प्रचक्षते ।। 12.217 यथा रत्नावल्यां, तृतीयेऽङ्के, काञ्चनमाला -- साहु रे वसन्तअ आहु। अदिसइदो तुए अमच्च जोअंधराअणोवि इमाए संधिविग्गहचिन्ताए। झ्र्साधु रे वसन्तक साधु। अतिशयितस्त्वया अमात्ययौगन्धरायणोऽप्यनया सन्धिविग्रहचिन्तया।ट इति। यदग्राम्यं भवेद्वाक्यं गुरूणामधिकेष्वपि। तथावसरमासाद्य परिहासस्स कथ्यते ।। 12.218 यथोत्तररामचरिते, राम: --- अस्ति चेदानीमश्वमेधसहचारिणी हिरण्मयी सीताप्रतिकृति:। तत्रापि तावद्बाष्पदग्धं चक्षुर्विनोदयामि। 12.219 सीता --- धण्णा खु सा जा एव्वं अय्यवुत्तेण बहुमण्णीअदि। जा एव्वं अय्यवुत्तं विणोदअंती आसाबंधणं खु जादा जीवळोअस्स। (धन्या खलु सा यैवमार्यपुत्रेण बहुमन्यते। यैवमार्यपुत्रं विनोदयन्ती आशाबन्धनं खलु जाता जीवलोकस्य।) इति। तमसा --- (सस्मितस्नेहास्रं परिष्वज्य) अयि वत्से, एवमात्मा संस्तूयते। सीता --- (सलज्जं), परिहसिदम्मि भअवदीए। (परिहसितास्मि भगवत्या।) सगुणोत्कर्षतो वापि कर्मणो वापदानत:। आत्मश्लाघापरं वाक्यं विकत्थनमिहोच्यते ।। यथा च वेणीसंहारे, अर्जुन: --- तात, अम्ब, सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोक:। रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यम: पाण्डड्डत्ध्;वोऽयम् ।। भीम: --- चूर्णिताशेषकौरव्य: क्षीबो दु:शासनासृजा। भंक्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ।। यदृच्छया भवेद्योगो यत्राभीष्टेन केनचित्। अचिन्तितस्स धीमद्भिर्यदृच्छायोग उच्यते ।। यथा मालतीमाधवे, मालती -- णाह तुह्मे उण कहं। झ्र्नाथ, यूयं पुन: कथम् !ट माधव: -- सलज्जं, त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदथ्र्यमान:। भ्राम्यन्नृमांसपणनाय परेतभूमावाकण्र्य भीरु रुदितानि तवागतोऽस्मि ।। प्रत्यक्षमिति यत्रैक: परोक्षमिति चापर:। मन्यतेऽभिमतं वस्तु तद्वैषम्यमिति स्मृतम् ।। 12.220 यथोत्तररामचरिते, वासन्ती --- कथमद्यापि नोच्छ्वसिति रामभद्र:। हा प्रियसखि क्वासि, संभावयात्मनो जीवितेश्वरम्। विपत्तिदग्धामपि पुन:पुनर्मन्दभाग्यां दहसि। 12.121 सीता --- अपसर्तुमिच्छामि। एष पुनश्चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्रस्पर्शेन दीर्घदारुणमपि झडिड्डत्ध्;ति सन्तापं लघयता वज्रलेपोपनद्धं इव पर्यस्तव्यापार आसञ्जितो मे हस्त:। राम: --- सखि, कुत: प्रलाप:। गृहीतो य: पूर्वं परिणयविधौ कङ्कणधरस्सुधासूते: पादैरमृतशिशिरैर्य: परिचित:। स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्ध: पाणिर्ललितलवलीकन्दळनिभ: ।। गृढद्धठ्ठड़14;णाति।। सीता --- हन्त, आर्यपुत्रस्पर्शमोहिताया: प्रमाद: खलु संवृत्त:। 12.222 राम: --- सखि वासन्ति, आनन्दनिमीलित: प्रियास्पर्शसाध्वसेन परवानस्मि। तत्त्वमेतं धारय। वासन्ती --- कष्टमुन्माद एव। सीता ससम्भ्रमं हस्तमाक्षिप्यापसर्पति। राम: --- हा धिक्प्रमाद:। करपल्लवस्स तस्यास्सहसैव जडड्डत्ध्;ात्मन: परिभ्रष्ट:। परिकम्पिन: प्रकम्पी करिकर इव पीवरस्स्विद्यन् ।। तमसा --- सस्नेहकौतुकस्मितं निर्वण्र्य, प्रस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शमुखेन वत्सा। मरुन्नवाम्भ: परिधूतसिक्ता कदम्बयष्टिस्स्फुटकोरकेव ।। 12.223 सीता --- अवशं गतेनात्मना लज्जापितास्मि भगवत्या तमसया। किं किलैषा मंस्यते एष परित्याग: एष चासङ्ग इति। 12.224 राम: --- सर्वतोऽवलोक्य, हा कथं नास्त्येव। नन्वकरुणे वैदेहि। न मामेवं परित्यज्य गन्तुमर्हसि। वासन्ती -- देव प्रसीद। स्वेनैव लोकोत्तरेण संस्तम्भयाऽतिभूमिं गतमात्मानम्। कुतोऽत्र मे प्रियसखी। 12.225 राम: --- व्यक्तं नास्त्येव। कथमन्यथा वासन्त्यपि न पश्येत्। एष खलु स्वप्न एव स्यात्। कुतो रामस्य निद्रेति। न साधयामि यद्येतदेवं कत्र्रास्म्यहं तदा। इत्युद्धवादेर्वाक्यस्य तत्प्रतिज्ञानमुच्यते ।। यथा मकुटतापिते, भीम: --- ध्वस्ता: क्षुब्धा धार्तराष्ट्रास्समस्ता: पीतं रक्तं स्वादु दुश्शासनस्य। पूर्णा कृष्णाकेशबन्धप्रतिज्ञा तिष्ठत्येक: कौरवस्योरुभङ्ग: ।। ऊरू निपीडड्डत्ध्;्य गदया यदि नास्य तस्य पादेन रत्नमकुटं शकलीकरोमि। देहं निपीतनिजधूमविजृम्भमाणज्वालाजटालवपुषि ज्वलने जुहोमि ।। एवं मयात्र कर्तव्यमिति यन्निश्चितं वच:। स्नेहाद्दाक्षिण्यतो वापि प्रवृत्तिस्सा निगद्यते ।। यथा मालतीमाधवे, कामन्दकी --- मावां सपत्नेष्वपि नाम तद्भूत्पापंप यदस्यां त्वयि वा विशंक्यम्। तत्सर्वथा सङ्गमनाय यत्न: प्राणव्ययेनापि मया विधेय: ।। यदा शास्त्यर्थसम्पन्नं मनोरथसमुद्भवम्। अप्रार्थनीयमन्यद्वा विदुस्तामाशिषं बुधा: ।। यथा मालतीमाधवे, कामन्दकी --- विधाता भद्रं नो वितरतु मनोज्ञाय विधये विधेयासुर्देवा परमरमणीयां परिणतिम्। कृतार्था भूयासं प्रियसुहृदपत्योपनयत: प्रयत्न: कृत्स्नोऽयं फलतु शिवतातिश्च भवतु ।। प्रस्तावेनैव शेषोऽर्थ: कृत्स्नो यत्र प्रतीयते। वचनेन विनानुक्तस्सिद्धिस्सा परिकीर्तिता ।। 12.226 यथा शाकुन्तले, राजा --- भगवान् काश्यपश्शाश्वते ब्रह्मणि स्थित इति प्रकाश:। इयं च वस्सखी तदात्मजेति कथमेतत् ? अनसूया --- शृणोत्वार्य:। अस्ति कौशिक इति कृतगोत्रनामधेयो महाप्रभावो राजर्षि:। राजा --- अस्ति श्रूयते। तत:, अनसूया --- तं नौ सख्या: प्रभवमवगच्छ। तेनोज्झितायाश्शरीरसंवर्धनादिभिस्तात काश्यपोऽस्य पिता। राजा --- उज्झितशब्देन जनितं मे कौतूहलम्। आमूलाच्छ्रोतुमिच्छामि। अनसूया --- शृणोत्वार्य:। पुरा किल तस्य राजर्षे: उग्रे तपसि वर्तमानस्य किमपि जातशंकैर्देवै: मेनकानामाप्सरा नियमविध्नकारिणी प्रेरिता। राजा --- अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्। ततस्तत:। अनसूया --- ततो वसन्तोदारसमये तस्या उन्मादयितृकं रूपं प्रेक्ष्य, (इत्यर्धोक्ते लज्जया विरमति।) राजा --- परस्तादवगम्यत एव। सर्वधा अप्सरस्सम्भवैवैषा। इति। आदौ यत्क्रोधजननमन्ते हर्षविवर्धनम्। तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ।। 12.227 यथा रत्नावल्यां, चतुर्थेऽङ्के, विदूषक: -- अपवार्यैन्द्रजालिकमाह -- आ: दास्या: पुत्र, इन्द्रजालिक, किमेतैर्देवैरप्सरोमिश्च दर्शितै:। यदि ते अनेन परितुष्टेन कार्यं तद्दर्शय सागरिकाम्। तत एतद्वचनानन्तरमग्निसम्भ्रमादुत्थित: राजा --- न वसुभूत्यादयआवृता वढिद्धठ्ठड़14;नना। एतानि काव्यस्य विभूषणानि प्रायश्चतुष्षष्टिरुदाहृतानि। प्रबन्धशोभानकरणाय तज्ज्ञैस्सम्यक्प्रयोज्यानि यथा रसानि ।। उदाहृता नाटकनाटिकानामियं चतुष्षष्टिचतुष्टयी या। रसाविरोधेन निबन्धनीया कथासु काव्येषु च सा महद्भि: ।। भक्तीद्र्वादशता: पृथक्पृथगिमास्सञ्चिन्त्या शब्दार्थयो- रसाहित्यस्य च शब्दशासनविदा कार्य: प्रबन्धे श्रम:। कीर्तिर्यावदनश्वरी हि विदुषां रोदोगृहं गाहते ब्राह्मं लोकललामधाम तदमी तावत्किलाध्यासते ।। ---: इति श्री महाराजानधिराज श्री भोजदेवविचिते शृङ्गारप्रकाशे प्रबन्धाङ्गचतुष्षष्टिचतुष्टयप्रकाशो नाम द्वादश: प्रकाश: