शृङ्गारशतकम् (धनदविरचितम्)
← वैराग्यशतकम् (धनदविरचितम्) | शृङ्गारशतकम् धनदः १९१६ |
नीतिशतकम् (धनदविरचितम्) → |
श्रीधनदराजकविविरचितम्
शतकत्रयम् ।
शृङ्गारधनदाभिधानं प्रथमं शतकम् ।
सिद्धार्थी कनकाक्षरेण कलिता यस्य प्रशस्तिः स्वयं
देवी शैलसुता महेशरजतप्रस्फारपट्टेऽभवत् ।
लक्ष्मौर्वा मुरवैरितन्मरकतप्रासादवक्षःस्थिरा
दाम्पत्यं रतिकामयोस्तदक्तादानन्दजीवास्पदम् ॥ १
मेरुर्मानितया धनैर्धनपतिर्वाचा च वाचस्पति-
र्भॊगेनापि पुरंदरः शुचितया दानेन चिन्तामणिः ।
गाम्भीर्येण महोदधिः करुणया कोऽपीह तीर्थंकरः
श्रीमालो धनदः कृती वितनुते शृङ्गारपूर्वं शतम् ॥ २ ॥
जात्या दोषपराङ्मुखाः परगुणप्रीत्या कृति सज्जनाः
पश्यन्तु प्रतिवासरं निजधिया संपादयन्तो कियान् ।
यज्जानन्ति वदन्तु तत्खलुः खला नाभ्यर्थना तेषु य-
द्कैस्तावदनादृते दिनमणौ प्राप्तोऽर्थलाभः कियान् ॥ ३ ॥
आरब्धा शतकत्रयी पृथगिह प्रायः स्थितिर्मादृशां
शान्ते वर्त्मनि कर्मणां नयविदा तोषो भवेज्जातुचित् ।
शृङ्गारः प्रथमं तथा रसवतां हेतुः प्रवृत्तौ यतो
बालानां कटुकौषधप्रणयने देयः पुरस्ताद्गुडः ॥ ४ ॥
माधुर्यं स्मितमीक्षितं चपलता यूनोः कथासंभ्रमो
व्याजेन श्रुतिमुक्तिमालिवचने स्वाभाविको वक्रिमा ।
आलत्यं गतिचातुरी मनसिजो रत्या समं खेलनीं
बालायाः करतालिकामुपगतं सख्योरिदानीं मनः ॥ ५॥
वक्षो वीक्षितमादरेण सहसा स्पृष्टो वलिपप्रक्रम-
श्वेतश्चिन्तितमुत्सुकं जघनयोरापीनता तर्किता ।
तन्व्या लोचनलोलतापि कलिता प्राप्तेऽचिराद्यौवने
मुक्तोरःस्थलमावृतं सुवदनाकण्ठे स्थितं लज्जया ॥ ६ ॥
कन्दर्पश्चरतिश्च कुङ्कुममृदालेपेन मुषाद्वयं
कुर्वाते रससाधनाय विधिवत्कस्तूरिका मुद्वया ।
अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया
निर्याता रसविन्दबो बहिरितो हारस्य मुक्ताच्छलात् ।। ७ !!
सेकं सेकमुरोजहेमकलशीयुग्मेन नाभीह्रदा-
लावण्यामृतवारिणापुषदियं शृङ्गारवल्ली हृदि ।
उन्मीलन्मितसूनसौरभभरः श्वासानिलस्तोषक-
द्वकेन्दूदयलालितोदरचरीच्छायेह रोमावलिः ॥ ८ ॥
धन्यं कुण्डलमेतदुत्तमवधूगल्लस्थलीचुम्बनं
शश्वद्यल्लभते परं स गुणवान्हारः स्तनाश्लेषकः ।
अस्माकं तु खलेन केन विधिना स्थाने स्थितिर्निर्मिता
हन्तेत्थ रटतीव खेलदबलापादे रणन्नूपुरः ॥ ९ ॥
दीर्घाभ्यर्थनया कथं कथमपि त्यस्तैः पुरो वीक्षसे
जानीषे न किलालसा नः वृणुषे स्रस्तं दुकूलाञ्चलम् ।
यावद्व्यञ्जयति स्थितो हृदि निज नायं कपोले यश-
स्तावत्तन्वि विधीयतां प्रतिकृतिस्ताक्खयं दुर्लभः ॥ १०॥
छत्रं वसुधानिधिर्धजविधौ मत्स्यौ चलच्चक्षुषी
लावण्यामृतनिर्झरा तनुरियं पीना नितम्बस्थली
रै()सिंहासनमुन्नतं कुचयुगं कुम्भौ करौ पल्लवी
सानन्दा जलहारिणी रतिरहो कामाभिषेकोऽधुना ॥ ११ ॥
साध्वी गायति किङ्किणी स्तुतिपटुर्वैतालिको हंसको
बाणाः पञ्च विलोचने सितमिदं दन्तच्छदो नासिका।
चापो भूरिति पञ्चबाणसमयो यस्यामिदानीमहो
सा त्वं वक्षि न जातु किं सुवदने चेतोऽनुरागास्पदम् ॥ १२ ॥
तस्ये पल्लवकल्पिते सुनयना शेते निधायोपरि
खच्छन्दं करपल्लवं स्तनयुगस्यारामरम्योदरे।
लक्ष्मीं वीक्षितुमागतस्य सुहृदः कामाभिषेकोत्सवे
रक्ताशोकनवप्रवालकलितं हैमं नु कुम्भद्वयम् ।। १३ ॥
अद्याश्लिष्य निपीय गाढमधरं नीत्वा च वक्षःस्थली
प्रक्ष्यामि स्मितपूर्वकं प्रतिदिनं माऽसौ यथा पृच्छति
निर्धार्येति दिने न चेतसि निशि प्राप्ता गृहं प्रेयसो
बाला न क्षरमुत्तरं वितनुते पृष्ठा प्रियेणादरात् ॥ १४ ॥
कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी
क्रीडाशैलशिरोमणिर्गृहमिदं रम्यो वसन्तोत्सवः
सख्यः कामकथोपचारचतुराः, संभोगकालेऽधुना
मानो वा कलहोऽथवा यदि कदा तच्चेतसो निर्वृतिः ॥ १५ ॥
जन्मारभ्य न यावदद्य सुसगंमन्याक्रमो हापितः
स्वैरं तिष्ठतु कान्तया स रमतां मा मां नयध्वं बलात्
इत्थं जल्पति यावदेव सुमुखी तावत्क्षणादागतः
कान्तस्तल्पमलंचकार च वदन्कस्येदृशी संगतिः ॥ १६ ॥
अज्ञास्ते सुहृदालयोऽतिपिशुनारलं कर्णयोर्दुर्बला
दृष्टे सागसि वल्लभे मृगद्दशां मानः स्वयं जायते
लोको हासरसाकुलः परगृहे प्रेमोपभेदोद्यतो
ह्याखुर्दन्तमुखेन खण्डयति सत्यद्धाम्बरं हेलया ॥ १७ ॥
पृष्टः कातरतां विहाय शयने मानापराधौ कदा
जायेतामिदमुत्तरं कथितवान्स्मित्वा चिरं चिन्तय ।
बाले संप्रति नैतयोस्तु समयः श्रुत्वेति हासच्छला-
दालीभिः समकालमेव समयं दृष्टा चिरात्तर्जनी ॥ १८ ॥
स्निग्धे ताशि नौचिती परुषता दृष्टेऽवहित्था कथं
धीरं सस्मितमालपत्यनुदिनं निर्हास्यमास्यं कुतः ।
निद्राणं तनुरोम तिष्ठति पुरा तत्संनिधावादरा-
सख्यो मानभुदाहरन्तु कलहे बालोद्यमः कीदृशः ॥ १९ ॥
धैर्यं मुञ्च कुरुष्व मानममलं तद्गौरवस्थास्पदं
मानादेव गुणोदयः किमधिकं दासायते वल्लभः ।
उक्ते धेहि मनो निशम्य सकलं तूक्ता वयस्यास्तया
दत्तं नाम मनोऽन्यतो न विदितं दत्तं कथं दीयते ॥ २० ॥
यामः पूर्वनिशोपभोगकथया नीतोऽपरो निद्रया
नीता कोऽपि वयस्यया सह रताम्योनापदेशक्षणात् ।
स्नानाकल्पविकल्पकल्पनविधेरन्यो दिनस्य क्षणा-
त्तल्पे वासकसज्जया युगसमो यामो निशायाः कृतः ॥ २१ ॥
आकल्पं विरचय्य तल्पममलं सज्जं विधायादरा-
दालीभिः कथया कयापि समयं चारान्बहून्पृच्छती ।
द्वारे निश्चललोचना परपदध्वाने तमेवागतं
मन्वाना निजमन्दिरे रसवशाद्वन्यस्य बाला वसेत् ॥ २२ ॥
गच्छ त्वं सखि वाचिकं लघुपदं नीत्वा नयैनं शठं
कुत्रास्ते तु वदन्निजेन सुहृदा केनापि तत्तद्वचः ।
गच्छामो यदि लाघवं ननु परा हासाथ दीर्घाननाः
का वा गौरवलाघवादिकलना वश्ये तथा बल्लभे ॥ २३ ॥
आकल्पो मलिनो भविष्यति मनाग्भूयोऽधुना धीयते
भुक्तं तल्पमज्झितं च सहसा सख्यः परिस्तीर्यताम् ।
संकल्पेन विधाय संगमसुखं जातावबोधा पुन-
र्धन्यो वासकसज्जया प्रतिपदं प्राणाधिकं स्मर्यते ॥ २४ ॥
पत्राली चिरलालिता करतलस्पर्शे कपोलाद्गता
लुप्तो रागपरिग्रहोऽधरतले तद्वाचिकालापतः ।
लीलातामरसं मलीमसमभूदुच्छ्वासतोऽधः पत्त-
त्संकेतालयतल्पकल्पनपरा तेऽध्वानमन्विष्यति ॥ २५ ॥
मानश्चेतसि नाथ वासकलहो नालिङ्गने नेति न
स्वैराभाषणमौनिता न शयने वैमुख्यबुद्धिश्च न ।
सीत्कारोऽधरखण्डने न सुरते मुग्धाक्रमो नेति ना
पुंभावं गतया हठादभिहितः स्त्रीत्वं गतः पुण्यवान् ॥ २६ ॥
धूपेनागुरुजन्मनाथ सुमनोमालाभिरत्यादरा-
द्दीपं दैवतमामनन्ति सुदृशामानर्च पत्युः पुरः
ज्ञानोन्मेषदृढप्रकाश भवतः कुर्वे प्रणामाञ्जलिं
सद्यः कज्जल(१)मुद्वमायमधुना कान्तो रतायोत्सुकः ॥ २७ ॥
मानेनासि सखि क्षमा शिशुरयं न प्राणनाथोऽपि ते
नास्माभिः सखि वञ्चितासि कतमस्ते खण्डिताया भ्रमः ।
भुक्तासीति न कथ्यते कथय तत्का नाम ते चातुरी
पत्राली न मलीमसा न मलिनो जातोऽङ्गरागःक्वचित् ॥ २८॥
युष्मासु स्वयमुस्थितासु शयने लुप्ते चिरान्मण्डने
मा लजस्व नवं लिखाम दयितो मां याचते स्मासकृत्
भावैरष्टविभागतोऽनु रचनाः प्रत्यूहमासादिताः
प्राप्तेयं नवमी कथं कथमपि प्रातस्ततोऽभूदहः ।। २९ ।।
स्वादङ्गादवतार्य नूपुरयुगं न्यस्तं सखीपादयो-
र्मध्ये दीर्घनिनादिनीं मणिमयीं बद्धा दृढं मेखला ।
ज्योतिःपूरमुरःस्थले कृतनवं हारं प्रियाप्राप्तये
मुग्धा गच्छति मन्दमन्दमुदितत्रासा जनावेक्षणात् ॥ ३० ॥
तल्पे जल्पितमल्पमेव तदनु व्याख्यातमन्तर्गृहे
पारेद्वारमुदाहृतं प्रतिपदं व्यावृत्तमाराद्बहिः ।
सीमान्ते प्रतिदृष्टमध्वनि हठादाशङ्कितं प्रौढया
कान्तोत्सङ्गतले तयाखिलमलं तत्संहृतं वाचिकम् ॥ ३१ ॥
वैमुख्येन शयानयान्वरमणीनाम्ना समाहूतया
नाश्रावीति निमीलितं प्रलपितं मिथ्येति निद्राहता।
उद्यद्वेपथुना द्वयोर्यदचलत्तल्पं सदाभ्यां छला-
त्त्रस्यद्भ्यां च परस्परेण कलितं नीरन्ध्रमालिङ्गनम् ॥ ३२ ॥
वारं वारमुदाजहार रमणी दृष्टान्तमेकान्ततो
दम्पत्योः कलहोपहाससमये कश्चित्सखीनां पुरः ।
रुष्टा तेन मनस्विनी नु सुभगमन्यः प्रियो नाधुना
चित्ते मानमवीवसत्किमधिकं जात्यैव वामाः स्त्रियः ॥ ३३ ॥
उच्यन्ते नु विशेषका न रमणीवक्त्रे विशेषः क्वचि
त्तेभ्यस्ते खलु वेधसा विरहिणोः सृष्टोऽन्तरायः क्षणम्
सायं सायमनीदृशं यदपरं तत्प्रातरालोक्यते
जाड्योन्मुक्तनिशीथपार्वणविधुध्वंसाय मीमांसयत्(8) ३४ ॥
निर्व्यूहः सुखमावयोर्त्योमधुरयं न स्यात्तपर्तुस्तथा
संतापाय वियोगिनोरिति मुहुः श्रुत्वा पिपासोर्वचः ।
बाला पृच्छति सस्मितं न मुकुलं स्यान्भल्लिकायां कथं
निर्गन्धा वनपाटलाः कथमसौ तन्नाथ मे कथ्यताम् ॥ ३५ ॥
प्रावृप्येष्यसि दासरास्तु बहवो मध्ये तपो दुःसहः
दातारो नवमालिकासुरभयो यत्रापरे मारुताः ।
धारामन्दिरमाद्रतल्परचना चन्द्रातपश्चन्दनं
यस्पर्शेन विषायतेऽखिलमिदं प्रायो वियोगक्षणे ।। ३६ ॥
यास्यामीति न गावदीरितमनुप्राप्ते कथागौरवे
तावन्नर्मणि न स्खलत्पतिवचा वासः स्खलद्बध्नति
चिन्ताश्चासनिपीतपीतिमतनुस्तावद्गभीराशया
नासामौक्तिकमानभूषणमणिदृष्टा मया प्रेयसी ॥ ३७॥
मा काकं दधिभक्तमाशय मुहुस्तिर्यत्करः किं वदे-
दस्य ज्ञानविबोधनाय विधिना सृष्टो धरायां पिकः ।
कण्ठे चेद्यधि कोकिलस्य कुरुते तत्कण्ठकुण्ठस्तदा
नोच्चैः पञ्चममातनोति सुदती जीवेत्कथंचित्तदा ॥ ३८ ॥
प्रालेयाचलनिम्नगाभिरभितो मार्गे निरुद्धेऽधुना
प्रावृष्येति न यक्षराजककुभस्तन्वी कथं जीवति ।
इत्यालापपरम्परां श्रुतवती त्वासां सखीनां मिथो
बाला पृच्छति साधु रावणपुरीद्वारध्वनो वासरान् ।। ३९ ।।
आकर्णाञ्चित्तधन्वनः करिवरव्यापादनायोद्यता-
न्विन्ध्यालेख्यमहाटवीषु मृगयोत्साहे सखीनां पतीन्
कोदण्डाञ्चलबद्धनिर्मदशिखिप्रस्फारपिच्छध्वजं
प्राप्तं स्वं पतिमालिलेख सुदती गर्वाज्जहासोच्चकैः ॥ ४२ ॥
यस्मात्योपीनपयोधरद्वयमिदं कृत्वोपधानं सुखं
स्नातौ दर्पकदम्पती मृदुतनावस्यां शयाते चिरात्
किंचिच्छ्यामलमग्रतस्तदुभयं पाण्डुस्वभावादहो
धम्मिल्लाङ्कनिमग्नतैलशबलच्छायां ततो लक्ष्यते ॥ ११ ॥
मञ्जीरद्वयमेतदङ्गदयुगं ग्रैवेयकं कुण्डले
सप्तैतानि विलोकय प्रभुरसि स्वैरं सपल्याः पुरः
किं ब्रूमः पतिदेवता वयमिति व्याहृत्य पत्युर्ददौ
सीमन्ताचलपद्मरागशकलं बाला बलादञ्जलौ ॥ ४२ ॥
लीलातामरसं विपक्षरमणीहस्ते निरीक्ष्यादरा-
दावेशादुपविश्य सामि सहसोड्डीनरलीनां गणैः
गुञ्जत्सौरभलम्पटालिपटलीश्याम सदेवात्मनो
मा दृष्टेति ललज्ज कापि रमणी तत्याज दूरेऽम्बुजम् ॥ १३ ॥
प्रेयस्ताडनकर्मणीदमुचितं निर्वापर्क तेजसो
लज्जानर्मणि लोचनाञ्जनरुचः सौभाग्यसंपादकम् ।
प्राप्ते प्रेयसि मन्दिरं तदपर लीलारविन्दं पुनः
शय्योत्थायमपाचकार रमणी सौधाद्बहिः सत्वरम् ॥ ४५ ॥
क्रीडासद्मनि कापि कौतुकवती क्षीरोदपूरोदरे
निन्द्राणं हरिमालिलेख निखिलप्रारम्भमुद्रागुरुम् ।
पूर्वं दक्षिणमीक्षणे भगवतो ध्यात्वा हसन्ती क्षणं
पश्चाद्धाममलीलिखत्किमु निशा यस्यां न गाढं तमः ॥ ४५ ॥
मात्रा चित्रविशेषलेखनविधावादिष्टपूर्वा चिरं
विष्णोर्जागरणोत्सवाय सुदती रेखामधादग्रतः ।
कैलासाचलगामिमानससरः खच्छे लिखेत्यादृता
क्रीडाशैलसरश्चकार विकसज्जाम्बूनदाम्भोरुहम् ॥ ४६॥
नष्टे तेजसि बान्धवे विधिवशाद्द्यावापृथिव्यौ मिथो
कुर्वाते सलिलाञ्जलिं मरुदसावद्यापि नोत्तिष्ठते ।
आक्रान्तेन महौजसा च वियता क्षिप्तं यदन्धं तमः
प्रातः पीतमनिच्छया तदधुना विष्वग्वसेन्मेदिनी ॥ ४७ ॥
वारुण्याञ्चलवायुनोपशमिते भास्वत्प्रदीपेऽधुना
किं चिन्वन्ति नवाजनं सममिदं शृङ्गारमाधित्सवः ।
किं वा सत्रिमिराहतेषु पतिषु व्योमैकगेहोदरे
सद्यः संप्रति शेरते दश दिशः सत्यं सुखं यातरः ।। ४८॥
मुग्धे माभिसर स्वमन्दिरमलं कुर्वानय प्रायशः
प्रेयांसं तव साहसं न घटते तथ्यं हितं ब्रूमहे ।
सद्यस्त्वन्मुखचन्द्रिकामिरमितो लीडेऽन्धकारेऽधुना-
प्यन्यासामभिसारसाहसरसे जातोऽन्तरायोऽधुना ॥ ४९ ॥
मञ्जीरं त्यज मुश्च मौक्तिकसरं मा मल्लिकाः शीलय
नीलं वा परिधत्स्व चारु वसनं वाचं नियच्छादरात् ।
मन्ये स्यादभिसारिका न भवती दूरे ध्वनिं प्रायश-
स्वच्छ्वासानिलविप्रलब्धमधुना प्रातः समुज्जृम्भते ॥ ५० ॥
उड्डीना स्नपया त्वया ननु जिता गत्या निमग्नाः कदा
तल्पाय प्रतिवासरं कृशतनो लूनाः सखीभिस्तव ।
दृश्यन्ते कलुषा निशा मुखपतत्कान्ताङ्गरागादिति
त्वत्कान्तानुचरीश्हु वञ्चनकथापाण्डित्यमभ्यागतम् ॥ ५१ ॥
लुप्तश्चन्दनबिन्दुरञ्जनरसः पीतोऽनुलेखो गतो
निःशेषेण कपोलयोः कुचयुगे शेषो मकर्याः कुतः
दग्धेयं सखि मध्यभागतनुता पद्भङ्गभीरुः प्रियो
गाढाश्लेषपराङ्मुखो रतविधौ तुष्टः कदाचिद्यदि ॥ ५२ ।।
सौधस्योरसि मन्मथप्रतिकृतिः प्रासादपृष्ठे शशी
क्रीडाकाननवेदिकासु च पिकस्तद्दीधिकायां मरुत् ।
इत्थं त्वद्विरहेऽधुना कृशतनोः शय्यासमासादन-
व्यग्राणामितरेतरं मधुमुखे तस्याः सखीनां मिथः ।। ५३ ।।
आगच्छेति मया श्रुतं जिगमिषोर्यामीति तूष्णी मतं
पाथेयं निजपाणिनां विरचितं दृष्टोऽवधिः समितम् ।
प्राणा येन तदा तदा किल गता वक्षो न दीर्ण च य-
त्ततेषां च का कथा यमधुना दम्भाय कार्यो विधिः ॥ ५४॥
किं निन्दन्ति सुधानिधिं मलयजं किं नाद्रियन्तेऽथ किं
श्रीखण्डानिलमावृणन्ति सहजामुज्झन्ति किं धीरताम् ।
किं कामं विलयन्ति किं सिकरुतावस्यन्ति मूर्च्छन्ति किं
तल्पे पल्लवकल्पितेऽपि सुदृशस्तद्ब्रूत किं कारणम् ॥ ५५ ॥
बाल्यादय विनिर्गतं तव वयः कान्तः स्वयं दक्षिणो
बृद्धाधीतबहुच्छला वयमिमा वा कासजीवातवः ।
क्रीडाकाननसौधशैलशिखरे श्रीखण्डशैलानिल-
स्वाचान्तश्रमवारिबिन्दुरधिकप्रेम्णा मधुनीयताम् ।। ५६ ॥
सा पत्युः शयनं गतेति मुदिता श्रुत्वा सखीभाषितं.
पश्यामः प्रियसद्म विद्म न वयं कीदृक्षमन्तर्भवेत् ।
लाक्षालक्ष्मसुलक्षपादयुगलं तल्पं दृशा चिन्वती
चित्रस्थे च निरीक्षिता सहचरीवृन्देन मन्दाक्षतः ॥ १७ ॥
मुन्धे बोधय सारिकामियमदः प्रेमास्पदं सीदति
प्रीत्या पाठय चाटु पाठकवटुं वां पीठमर्दं शुकम् ।
आलीर्हासरसोचिताः सितलवेनाभाषयेथा इमा
दृष्टेनानुगृहाण वल्लभामिभ पादानतं भीतवत् ॥ ५८ ॥
तादृक्कण्टकलम्पटापि करभी मा हास्यतां दूरतो,
नाङ्गाराशनगर्विता सुनयना निन्द्या चकोरी पुनः ।
उद्यत्कण्ठकदन्तुरेऽतिकठिने पङ्काकुले पिच्छिले
निद्रामो यदि संयतास्तदपरं नानन्दकन्दास्पदम् ।। ५९ ।।
गुल्फग्रन्थिमणिप्रभावबलतः पादाङ्गदं प्रेयस-
श्चूडारत्नपदं मदात्समगमन्मानापनोदादरात् ।
मागान्मन्त्रपदाददादपि पदं कार्याकुलोऽपि प्रियः
कर्णाशोकदनाहतचिरतरं मान समूलं जहौ । ६० ।।
कातर्यं तु न कार्मणं न न परं दम्भो न कि योषितां
यच्चित्ता तनुचापलं मधुविधुद्वेषस्तनुत्वं तनोः ।
अस्माकं सखि पश्य संप्रति तनू रोमापि वक्रायते
सद्यः प्रोषितनाथयाभिनवया पान्थस्त्रियो हासिताः ॥ ३१ ॥
द्वारे नूपुरमुच्चगोपुरमुखे काञ्ची रणत्कारिणीं
हारो द्वारचतुःपथे पथि परे कर्णोत्पलं भृङ्गमत् ।
प्रेयो मन्दिरमित्यवत्य मुमुचे तन्व्या शिरोभूषणं
व्यालोके तु परस्परं विगलिता नीवी स्वयं बन्धनात् ।। ६२ ।।
पूर्वं यत्र विशेषकक्षितिरिति प्रायः कपोलस्थली
चक्षुः सिञ्चति जागरूकमसकृद्भूयोऽञ्जसा असा तद्भवेत् ।
वाप्यक्षारतया तयाभवादियं पाण्डश्चिरायोपरा
तन्मन्ये मकरीनिकेतनधिया तत्रैव सिन्धुः कृतः ॥ ६३ ॥
हासः कोऽपि महाशुचिः स्थितिमत्ता प्रेयःसमक्षं क्षणा-
द्वारंवारमुपैति तस्य विरहे दृष्टः कदाचिन्न यः ।
वाप्यः किं व्यभिचारिणां न गणितः प्रायः पुरस्तादयं
दीनाया निजवल्लभस्य विरहे यश्चक्षुषी चुम्बति ।। ६४
साहाय्याय मलीमसाः समुन्विताः प्रायश्चकोरीदृशा-
मुत्कानामभिसारसाहसरसे गाढोऽन्धकारः सुहृत् ।
धन्यं कज्जलमुज्ज्वलं जिगमिषोरऽग्रेगमल्लोचना-
संयम्य स्वयमात्मना सुमनसो नाजिघ्रतीदं कचः ।। ६५ ।।
नापेक्षैव विभूषणस्य सहजा यस्यास्ति गम्भीरता-
सद्वृत्तं यदि पार्श्वतोऽपि सहजः कीदृग्वलिप्रक्रमः ।
मध्यस्थस्य च कोमलस्य विषये कुण्टो भवेदायुधं
दृष्टान्तोऽत्र मनोभवेन कलितो नाभिः कुरङ्गीदृशः ।। ६६ ।।
रोहिण्याधरसंपदा मुखविधोरिष्टाश्चतस्रः कला
बीजानीह निरूपितान्यतनुना हासद्रुमस्यादरात् ।
भारत्याः कठिनीलवा बटायितुं रीतीरुंदाराक्षरा
राजन्ते सुतनोर्मनोरमतमास्ते राजदन्ताः पुरः ॥ ६७ ।।
सुप्ता सञ्जकगहराञ्चलमुखे दत्त्वा नरं वीटिका
प्राप्त संप्रति तस्करेऽथ सहसा जातं कपाटे चटत् ।
रुद्धा वागथ निद्रया नयनयोरन्ते स्थितं लज्जया
क्लीबै रोमभिरुत्थितं पतिरिति ज्ञात्वा पुनर्मीलितम् ।। ६८ ॥
सिद्धस्त्वं पुरुषोत्तमोऽसि विदिता सा सत्यभामा न किं
वाचा बोधयितुं सखीभिरधिकं नापारिजातग्रहः ।
व्याख्याता स शुकः परं गिरि पटुः संतापचिन्तातति
नूनं निर्जरदैवतप्रतिभटो भूत्वा समाश्वासय ॥ ६९ ॥
जानासि क्रममञ्जसा विरचय द्रागङ्गमङ्गं परि
प्रेयो मोहनमद्य मण्डनविधौ प्रौढा नियुज्यादरात् ।
तुष्टे याचकमादरेण ददती तन्व्या सखी वारिता
मुग्धे पूर्वमलंकुरुष्व कबरीमेतं ततो रञ्जय ।। ७० ॥
नैनं वारय कामकर्मकुशयं (१) स्वच्छन्दतश्चुम्बना-
वस्त्राकर्षणकौतुकेन रमता प्रत्यङ्गमालिङ्गतु ।
अन्योन्यं तनुतां नितान्तनखरव्यापारतो विग्रहं
कावेरीतटकाननेऽध्वनि पुरः कुञ्जस्तरुस्तिष्ठति ॥ ७१ ॥
प्रातर्मन्दिरमात्मनो जिगमिषोः कान्तेन यन्मण्डनं
दूरं कल्पितमादरेण बहुना निर्जित्य कम्पादिकम् ।
बाहोर्मूलनखाङ्कलेपनविधौ जातः स कोऽपि क्रमो
येनेतावदशेषतोऽपि गलितं जाता तथैवोपसि ॥ ७२ ॥
नीचैर्निश्वसिहि स्फुरत्वनुदिशं चन्द्रातपः किं ततो
गच्छामस्तव बल्लभोऽयमधुना दूनः प्रसूनेषुणा ।
मल्लीमुच्चिनु चन्दनं च कलय क्षौमं तनावातनु
स्वच्छं मौक्तिकहारमुल्ललय तत्स्वैरं प्रियं प्राप्नुहि!! ७३ ।।
राकायाः शरदः सुधावधिरभूद्यद्याननं रोहिणी
श्रीरेखापरपल्लवस्य सुदती लावण्यवापी यदि ।
रोमालिर्जलनीतिका च चरणं पद्मे चलच्चक्षुषी.
मीनद्वन्द्वमुपान्त एष मुखरो न स्याद्युवा वा हंसकः ।। ७४ !!
श्यामाया मुखमिन्दुमण्डलमिदं पाण्डुद्युतिप्रोषिते
दूरं भर्तरि वासरे मृगतया लम्बालकाग्रच्छविः ।
उच्चैरम्बस्केलिशैलशिखरादालोकते मेदिनी
पन्थानं विरहज्वरातुरतनुस्तद्वारस्यादरात् ।। ६५ ।।
रतं किंचिद्देति वासवदिशि श्यामामुखं लोहितं
रोषेण प्रतिवासरं स भजते नाथो दिनं वारुणीम् ।
विख्यातो द्विजराजनामभिरय मौलौ भवानीपते-
स्तिष्ठकिं न हि लज्जतेऽरचितं म्लातिर्निजाङ्कच्छलात् ॥७६॥
शृङ्गाराद्वयवादिनो रतिपतेर्निःसागपात्रीमुखं
तन्मार्दङ्गिकपुंस्यिक(?)प्रतितनुच्छायान्तरुज्जृम्भते ।
कि का वासवदिग्वधूकरतलादानेय दिग्वल्लभा
कान्तस्याध्वनि पत्य(?)पातमलिनस्तञ्चन्द्रमःकन्दुकः ॥ ७७ ।।
नायातः सखि निर्दयं स समयः प्रायो गतो गम्यतां
नष्टं किं यदि नागतः सशपथं रुद्धः कचिद्बन्धुभिः ।
आयास्यत्यथ दुर्जनः परवधूगाढोपगूढाङ्कितः
प्रातर्दृष्टिमुपागतेन वटुना वृक्षो विदारिष्यते ॥ ७८ ।।
मा गाः कान्त निशामुखे परगृहं मा गास्ततोऽहर्मुखे
वेश्मासाकमिदं द्वयं वितनुते चायुःक्षतियोषिताम् ।
मा भूत्काञ्चनवञ्चितेति रमणी मा भूदहो खण्डिता
मुग्धा भावमयाचकार रमणीत्थं वारयन्ती पतिम् ॥ ७९ ॥
प्रेयः प्रेममहाधना स्मितलवोल्लास रसे मज्जती
सृष्टा केन खलेन वा परवशा योषिद्वराकीयती() ।
मा भूत्काञ्चनवञ्चिता निशि निशि प्राणेश्चरेणाबला,
पश्येयुर्न च खण्डिता मुखमपि प्रातर्वयस्याश्चिरम् ॥ ८ ॥
आयातेव निवारितः स्मितमुखो यातः समीपं बला-
दाबद्धो वलया हठेन संरुषा कर्णोत्पलेनाहतः ।
आविद्धो नखरायुधेन हृदये लाक्षारसेनाक्तितः
कान्तः कामपि तृप्तिमापदुचितं कामस्य वामा गतिः ।। ८१ ॥
मा मां कल्पय लम्पटेषु भवती मा भूः स्वयं खण्डिता
भूयोऽन्यत्र न जातु यास्यति निशा तुभ्यं शयेय स्फुटम् ।
कस्यास्तीह न मन्दिरे परिमलः कस्याङ्गरागो न वा
को नालिङ्गति बान्धवं त्यज वृथा तापं प्रसीदाधुना ।। ८२ ॥
पादालक्तकलाञ्छनं निजमुरो(?)माच्छादयालोक्यते
प्रेयांसो रसपेशला मृगदृशामानन्दथूत्पादकाः ।
रागाशोकमहीरुहस्तबकितस्तत्पादपद्माहतः
खच्छे वक्षसि बल्लभस्य परितस्तच्छायमेतद्वहिः ॥ ८३ ॥
दुष्टास्ताः पुरुषं निरीक्ष्य रमणीपादार्द्रालाक्षारसे-
नाच्छेनाङ्कितवक्षसं ननु मुधा यासां व्यथा चेतसि ।
रागाशोकमहीरुहोऽन्तरुदितः किं नावकेशी भवे-
च्चेदन्यापि तथाविधेन न पदा निःशङ्कमाताडयेत् ।। ८४ ।।
पूर्णं चन्द्रमयोगिनीजनमनःसंतापसंपादकं
सत्यं कामविदो वदन्ति विरहे चन्द्रादयो दुःसहाः ।
एतत्त्वत्तनुलमचन्द्रकलया सङ्गे तवैवाधुना
वक्षो दीर्यत एवं विद्धि झदिति त्वं नाथ दूरं व्रज ।। ८५॥
दोष्णोः पत्रकमुद्रणा नयनयो रागोऽधरे कज्जलं
गात्रेऽपि क्षतमौचिती सुभगयोः स्याद्वाससो व्यत्ययः ।
आश्लेषेऽपि परस्परं परिमलः द्रागङ्गररागक्षतिं
किं मूलो हृदि पादपल्लवगलल्लाक्षारसस्यादरः ।। ८६ ।।
दत्ते तामरसेऽलिनाधरपुटे दृष्टा वराकी सखी
वासस्तत्परिधाय मुञ्चसि चिरं येनाङ्गरागं वमेत् ।
मुद्रायै चटुले तथा विदधती प्राप्ता निशीथेऽधमा
नाभिज्ञानमुदाहरेति सुदती दूत्या रतं शंसति ।। ८७ ।।
नाथ त्वं वधुवल्लभो वयममी जाता दयाभूमयो
भूयस्तल्पमुपागतोऽसि सहसा तत्तेऽधिकं साहसम् ।
अन्यस्त्रीजनमुक्तमुक्तमघम स्पष्टापराधं नरं
चित्तेनापि खलु स्पृशान्ति न शठं चण्डालवद्योषितः ।। ८८ ॥
दूरादस्थितमुक्तमिष्टमधिकं स्वैरं स्वयं बीजितं
पृष्ठं स्वागतमीरितं च रजनीवृत्तं सखीनां मिथः ।
लिप्तं वक्षसि चन्दनेन शयनं निद्रोचितं कल्पितं
यामिन्या मुषितं वितीर्य कुसुमं व्यक्तोऽपराधः कृतः ।। ८९ !
अक्ष्णोनिक्षिप कज्जलं श्रवणयोराधेहि नीलोत्पलं
पत्रं चारुकपोलयोर्लिख कचं पुष्पस्रजा पूजय ।
लाक्षामुज्ज्वलयाधुना चरणयोर्नीवीं च संभावय
प्रातः कोऽपि निगद्यते मृगद्दशा रत्या चिरं तुष्टया ।। ९०
सीत्कारेण विना श्रमादपि विना श्वासेन वाचा विना
नीवीग्रन्थिविमोचनेन च विना गाढोपगूढं विना ।
तल्पेनापि विना विना सहचरीसङ्हगेन दीपं विना
यत्किंचित्समयं तदेव सुरतं दास्यं परं प्रेयसः ।। ११ ॥
आश्लिष्यन्नवधीरितश्चटुशतं कुर्वन्मुहुस्ताडित-
स्तल्पान्तादपसारितः स्मितमुखस्तिष्ठन्पुरो वारितः ।
नोदास्ते दयितः कथं दयितयापादानतो नेक्षित-
स्तन्मुग्धे सह यातनापरिणति तत्तत्स्वयं कर्मणः ।। ९२ ॥
मानं मानमुदीरयन्ति कथया मानः स कीदृग्वदे-
न्मुग्धैवं निजवल्लभं सितमुखो मानार्थमूचे प्रियः ।
आश्लिष्य स्वयमादरेण दयिते गृह्णाति कान्ताधरे
पश्यन्तीषु सखीषु नाम सुकरो मानस्त्वयाभ्यस्थताम् ॥ ९३ ।।
उन्मीलन्ति सरोरुहाणि मुखतः सौरभ्यमुज्जृम्भते
दीपो दैन्यमुपैति ते मणिरुचा ध्वस्तप्रकाशः स्वयम् ।
इत्थं तेन रिरंसुना न कलिता यावत्करे तावता
कालेनोञ्चरति स्म नाम किमपि स्वं ताम्रचूडा खलः ॥ ९४ ।।
गौरोत्तुङ्गपयोधराञ्चलवलच्चित्रोपचारोल्लस-
स्कस्तूरीरसलेपलेखमकरी सारम्भमुज्जृम्भते ।
पप्रच्युतसर्वजाम्बवरसम्नस्फारजम्बूनदी
मीनो सेरुशिलातलेऽपतदिवोत्पत्य क्षणं निश्चला ।। ९५ ।।
लावाण्यामृतनिझरा कृशतनुः काचिच्छरनर्मदा
पूरोन्मग्नपयोधरच्छलमिलदौराद्रिपादद्वया ।
आक्रान्ते जघनस्थले हि पुलिने कान्तेन मन्दे तरं
काञ्ची सारसशावकैदरदलत्कण्ठैर्मुहुः कूजितम् ।। ९६ ॥
रागात्संमुखमेत्य खण्डनसहो धन्योऽघरो रागवा-
न्कि नाशाकि पयोधरेण गुरुणा वक्षःशिलाताडनम् ।
न त्यक्तं जघनेन पौरुषमितो यावन्न जातो जये
कर्णेन त्रपयेव भूषणमधः क्षिप्तं स्थितेनैकतः ॥ ९७ ।।
प्रातःकञ्चुककर्मणीन्दुशकलं दृष्ट्वा कुचोपान्ततो
बालाचष्ट करद्वयाय निभृतं प्रच्छादयन्ती मुहुः ।
मूलं न क्षतमद्य ते नयनयोराकेकर पश्यतोः
कर्णोपान्तमपागमत्कथयितुं बाह रणकपणः ॥ ९८ ।।
नीली मेचकपट्टसूत्ररचिता काञ्ची रणन्ती कलं
ताहपीननितम्बविम्बफलके बद्धा स्खलद्वाससि ।
कन्दमरनाथकेलिशिस्वरिप्रस्थे चरन्ती मुहुः
कूजन्तीरनिविष्टसारसशिशुर्जम्बूनदीवाभवत् ।। ९९ ।।
दीर्घाः संप्रति वासरास्तनुरियं नाना त्रियामा तमी
सख्यो दीर्घकथालसा निधुवनं दीर्घायुरेवावयोः
दम्पत्योरिति जल्पतोः प्रतिनिशं नात्रावकाशः क्वचि-
नेत्रे केवलमन्तिके गुरुजनस्याने स्थित निद्रया ।। १०० ॥
प्राची रागसमाकुला न सुदतीमानन्दयेदीक्षिता
प्रातः शैशवकैतवं कथयति श्रीखण्डशैलानिलः ।
विच्छायव सुधानिधरुपरि सा इष्टिः पुरस्तात्पते-
दित्थं द्वारमुदाजहार वसत्तेः कामी पुरः शिल्पिनः ।। १०१ ॥
सख्यः किं स्तुत ता नवापि ककुभः स्यादुत्तरैवोत्तमा
यस्यां शंकरशैलजार्धकथया दृष्टो न मानोदयः ।
यस्यामेकरुचिः शशी न हिमतः पद्मं न याम्यो मरु-
न्न स्वेदो रतिपर्ययेऽपि सततं दीर्घा कया यामिनी ॥ १०२ ॥
किं त्वं जागरितोऽखिलामपि निशं सुप्ता कदाहं पुन-
र्येनैवं मुषिताघच्छविरसौ प्राच्या समुजृम्भते
दृश्यन्ते मणयः पुरः कतिपये व्योम्नि प्रकीर्णाः क्वचि -
द्दृष्टा मण्डनसंपदोऽपि भवता त्वद्वल्लभाः सुस्थिताः ॥ १०३ ।।
इति तपःसिद्धतरखरतराम्नायसोमवंशावतंसश्रीमाल्कुलतिलकसंघपालश्रीमद्देहडा-
त्मजविविधबरुदराजीविराजमानश्रीवनदराजांवरचिते शतकत्रये
शृङ्गारधनदाभिधानं प्रथम शतकं समाप्तम् ।