श्रीकामाक्षीसुप्रभातम्


॥ श्रीकामाक्षीसुप्रभातम् ॥

कामाक्षि देव्यम्ब तवाद्रर्दृष्ट्या
मूकस्वयं मूककवीर्यथासीत्।
तथा कुरु त्वं परमेशजाये
त्वत्पादमूले प्रणतं दयार्द्रे ॥

उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि।
उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु ॥१॥

शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम्
मृदङ्गभेरीपटहानकानाम्।
वेदध्वनिं शिक्षितभूसुराणाम्
शृणोषि भद्रे कुरु सुप्रभातम्॥२॥

शृणोषि भद्रे ननु शङ्खघोषम्
वैतालिकानां मधुरं च गानम्।
शृणोषि मातः पिककुक्कुटानाम्
ध्वनिं प्रभाते कुरु सुप्रभातम्॥३॥

मातर्निरीक्ष वदनं भगवान्शशाङ्को
लज्जान्वितः स्वयमहो निलयं प्रविष्टः।
द्रष्टुं त्वदीयवदनं भगवान्दिनेशो
ह्यायाति देवि सदनं कुरु सुप्रभातम्॥४॥

पश्याम्ब केचित्घृतपूर्णकुम्भाः
केचिद् दयाद्रेर् धृतपुष्पमालाः।
काचित्शुभाङ्गयो ननुवाद्यहस्ताः
तिष्ठन्ति तेषां कुरु सुप्रभातम्॥५॥

भेरीमृदङ्गपणवानकवाद्यहस्ताः
स्तोतुं महेशदयिते स्तुतिपाठकात्वाम्।
तिष्ठन्ति देवि समयं तव काङ्क्षमाणा
ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम्॥६॥

मातर्निरीक्ष वदनं भगवान्त्वदीयम्
नैवोत्थितश्शशिधिया शयितस्तवाङ्के।
संबोधयाशु गिरिजे विमलं प्रभातम्
जातं महेशदयिते कुरु सुप्रभातम्॥७॥

अन्तश्चरन्त्यास्तव भूषणानाम्
झल्झल्ध्वनिं नूपुरकङ्कणानाम्।
शृत्वा प्रभाते तव दर्शनार्थी
द्वारि स्थितोऽहं कुरु सुप्रभातम्॥८॥

वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना
रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम्।
काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा।
नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम्॥९॥

उत्थाय देवि शयनाद्भगवान्पुरारिः
स्नातुं प्रयाति गिरिजे सुरलोकनद्याम्।
नैको हि गन्तुमनघे रमते दयाद्रेर्
ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम्॥१०॥

पश्यांब केचित्फलपुष्पहस्ताः
केचित्पुराणानि पठन्ति मातः।
पठन्ति वेदान्बहवस्तवारे
तेषां जनानां कुरु सुप्रभातम्॥११॥

लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम्
कन्दर्पदर्पदलनोऽपि वशङ्गतस्ते।
कामारिचुम्बितकपोलयुगं त्वदीयं
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम्॥१२॥

गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां
गङ्गाजलैः स्नपयितुं बहवो घटांश्च।
धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः
द्वारि स्थिता हि वरदे कुरु सुप्रभातम्॥१३॥

मन्दारकुन्दकुसुमैरपि जातिपुष्पैः
मालाकृता विरचितानि मनोहराणि।
माल्यानि दिव्यपदयोरपि दातुमम्ब
तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम्॥१४॥

काञ्चीकलापपरिरंभनितम्बबिम्बम्
काश्मीरचन्दनविलेपितकण्ठदेशम्।
कामेशचुम्बितकपोलमुदारनासां
द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम्॥१५॥

मन्दस्मितं विमलचारुविशालनेत्रम्
कण्ठस्थलं कमलकोमलगर्भगौरम्।
चक्राङ्कितं च युगलं पदयोमृर्गाक्षि
द्रष्टं स्थिताः वयमये कुरु सुप्रभातम्॥१६॥

मन्दस्मितं त्रिपुरनाशकरं पुरारेः
कामेश्वरप्रणयकोपहरं स्मितं ते।
मन्दस्मितं विपुलहासमवेक्षितुं।
ते मातः स्थिताः वयमये कुरु सुप्रभातम्॥१७॥

माता शिशूनां परिरक्षणार्थम्
न चैव निद्रावशमेति लोके।
माता त्रयाणां जगतां गतिस्त्वम्
सदा विनिद्रा कुरु सुप्रभातम्॥१८॥

मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः
हृद्यानि दिव्यमधुराणि मनोहराणि।
श्रोतुं तवाम्ब वचनानि शुभप्रदानि
द्वारि स्थिता वयमये कुरु सुप्रभातम्॥१९॥

दिगम्बरो ब्रह्मकपालपाणिः
विकीर्णकेशः फणिवेष्ठिताङ्गः।
तथापि मातस्तव देविसङ्गात्
महेश्वरोऽभूत् कुरु सुप्रभातम्॥२०॥

अयि तु जननि दत्तस्तन्यपानेन देवि
द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः।
द्रविडतनयभुक्तक्षीरशेषं भवानी
वितरसि यदि मातः सुप्रभातं भवेन्मे॥२१॥

जननि तव कुमारः स्तन्यपानप्रभावात्
शिशुरपि तव भर्तुः कर्णमूले भवानि।
प्रणवपदविशेषं बोधयामास देवि
यदि मयि च कृपा ते सुप्रभातं भवेन्मे॥२२॥

त्वं विश्वनाथस्य विशालनेत्रा
हालस्यनाथस्य नु मीननेत्रा।
एकाम्रनाथस्य नु कामनेत्रा
कामेशजाये कुरु सुप्रभातम्॥२३॥

श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये।
त्वत्पादभक्तिभरितः फलपुष्पपाणिः।
एकाम्रनाथदयिते तव दर्शनार्थी।
तिष्ठत्ययं यतिवरो मम सुप्रभातम्॥२४॥

एकाम्रनाथदयिते ननु कामपीठे
संपूजिताऽसि वरदे गुरुशङ्करेण।
श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम्
द्रष्टुं शिता वयमये कुरु सुप्रभातम्॥२५॥

दुरितशमनदक्षौ मृत्युसन्तासदक्षौ
चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ।
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं
त्रिपुरदलनजाये सुप्रभातं ममार्ये॥२६॥

मातस्तदीयचरणं हरिपद्मजाद्यैः
वन्द्यं रथाङ्गसरसीरुहशङ्खचिह्नम्।
द्रष्टुं च योगिजनमानसराजहंसं
द्वारि स्थितोऽस्मि वरदे कुरु सुप्रभातम्॥२७॥

पश्यन्तु केचिद्वदनं त्वदीयं
स्तुवन्तु कल्याणगुणांस्तवान्ये।
नमन्तु पादाब्जयुगं त्वदीयाः
द्वारि स्थितानां कुरु सुप्रभातम्॥२८॥

केचित्सुमेरोश्शिखरेऽतितुङ्गे
केचित्मणिद्वीपवरे विशाले।
पश्यन्तु केचित्त्वमृदाभ्धिमध्ये
पश्याम्यहं त्वामिह सुप्रभातम्॥२९॥

शम्भोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं
श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम्।
कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं
पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम्॥३०॥

कामप्रदाकल्पतरुर्विभासि
नान्या गतिर्मे ननु चातकोऽहम्।
वर्ष्यस्यमोघः कनकांबुधाराः
काश्चित्तु धाराः मयि कल्पयाशु॥३१॥

त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम्।
त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके॥३२॥

कामाक्षि देव्यंब तवार्द्रदृष्ट्या
कृतं मयेदं खलु सुप्रभातम्।
सद्यः फलं मे सुखमंब लब्धं
तथा च मे दुःखदशा गता हि॥३३॥

ये वा प्रभाते पुरतस्तवार्ये
पठन्ति भक्त्या ननु सुप्रभातम्।
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
तेषां प्रभातं कुरु सुप्रभातम्॥३४॥

॥ इति श्रीकामाक्षीसुप्रभातम् ॥

सम्बद्धानुबन्धाः

सम्पाद्यताम्
  1. श्रीवेङ्कटेशस्तोत्रम्
  2. श्रीवेङ्कटेशसुप्रभातम्
  3. श्रीवेङ्कटेशप्रपत्तिः
  4. श्रीवेङ्कटेशमङ्गलाशासनम्
  5. श्रीकाशीविश्वनाथसुप्रभातम्
  6. श्रीविष्णुसहस्रनामस्तोत्रम्‌

बाह्यानुबन्धाः

सम्पाद्यताम्