श्रीभक्तिचन्द्रिका
प्रथमः पटलः
[[लेखकः :|]]
द्वितीयः पटलः →

अथ प्रथमः पटलः
कान्तं शान्तमशेषजीवहृदयानन्दस्वरूपं परं
सर्वात्मानमनन्तमाद्यममलं विश्वाश्रयं केवलम् ।
भक्त्यानन्दरसैकविग्रहवरं भक्तैकभक्तिप्रियं
भक्तावेशधरं विभुं कमपि तं गौरं सदोपास्महे ॥१॥

कामाग्निमायाशशिबद्धमूर्तिर्
नामामृताब्धिर्विहरन्स्वशक्त्या ।
नामैकगम्योरससारमूर्तिर्
नामात्मको नामविनोदकारी ॥२॥

भक्तीशयोरभेदेन कृष्णचैतन्य उच्यते ।
भेदात्कृष्णस्य भक्तेश्च प्रसिद्धिस्तत्त्ववेदिनाम् ॥३॥

नामचिन्तामणिः ख्यातो नामरूपी जनार्दनः ।
स एव कृष्णचैतन्यस्तस्य नामात्मको मनुः ॥४॥

अत्रारिमित्रचिन्तापि न कार्या राशिभेदतः ।
सर्वात्मा सर्वबन्धुश्च सर्वमित्रं जगत्पतिः ॥५॥

सर्वेऽधिकारिणस्तत्र पूजाचर्याजपादिषु ॥६॥

मनवो बहुशस्तस्य धर्मकामार्थमोक्षदाः ।
सतां भागवतीभक्तिप्रदाः प्रेमप्रदाः क्वचित॥७॥

भक्तिप्रकाशं विधिवच्चन्द्रज्योत्स्नेव चन्द्रिका ।
कर्त्री चेन्नामतो भक्तिचन्द्रिका कथ्यते बुधैः ।
तदर्थं मन्त्रचर्याणां विधानं कथ्यते क्रमात॥८॥

तत्रादावुद्धरेन्मन्त्रांस्ततश्चर्याविधिं क्रमात।
तेनैव यो जपेन्मन्त्रं लभते सिद्धिमुत्तमाम् ॥९॥

मन्त्रोद्धारमहं वक्ष्ये सर्वकामार्थसिद्धये ।
कामो धरित्रीमायेन्दुकलितः स्याद्रतिप्रियः ॥१०॥

अजो वह्निरमायुक्तश्चन्द्रखण्डयुतः परः ।
प्रेमाख्यो नाम बीजोऽयं प्रेमभक्तिप्रदायकः ॥११॥

कृष्णचैतन्य ङेर्वहिजायान्तो मनुरुत्तमः ।
जपादस्यैव मन्त्रस्य सर्वसिद्धिं व्रजेन्नरः ॥१२॥

रामैं ह्रीं कमलाबीजं प्रत्येकेन नियोजयेत।
कामस्थाने नृसिंहं च वेदादिषड्विधो मनुः ।
एकेन साधयेत्सर्वं प्रेमभक्तिं विशेषतः ॥१३॥

एषामेकतमं मन्त्रं यो जपेत्स महामुनिः ।
स्तुत्यते सर्वदेवैश्च स च भागवतोत्तमः ॥१४॥

अथ चर्याविधिं वक्ष्ये सर्वमन्त्रार्थसाधनम् ।
सिद्धो न जायते मन्त्रो विना येन जपादिभिः ॥१५॥

ब्राह्मे मुहूर्ते उत्थाय साधकः स्थिरबुद्धिमान।
भालाम्बुजे गुरुं शुद्धं गौरवर्णं स्मिताननम् ॥१६॥

शुक्लमाल्याम्बरधरं शुभ्रचन्दनशोभितम् ।
स्वस्तिकासनसंविष्टं व्याख्यामुद्राकराम्बुजम् ॥१७॥

ध्यात्वैव तत्पदाम्भोजरजोभिर्वपुरात्मनः ।
संशोध्य हृदिदेवेशं संचिन्त्य तत्पदाम्बुजे ॥१८॥

यथाशक्ति जपेन्मन्त्रमात्मानं तन्मयं पुनः ।
भावयन्प्रातरुत्थाय स्नानार्थं च जलाशयम् ।
गत्वा स्नात्वा जलेकृत्वा चतुरस्रं च मण्डलम् ॥१९॥

तत्रैवाहयेन्मन्त्री तीर्थानि मनुनाधुना ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥२०॥

नर्मदे सिन्धु कावेरि जलेऽस्मिन्संनिधिं कुरु ।
इत्यनेनाङ्कुशेनैव मुद्रया सूर्यमण्डलात॥२१॥

तत्राष्टधा जपन्मन्त्रं शिरस्यञ्जलिमष्टधा ।
दत्त्वा तत्र त्रिधाप्लुत्य कृत्वा सन्ध्यादिकं सुधीः ॥२२॥

कामं प्रेमाख्यमुच्चार्य कृष्णचैतन्यमादरात।
तर्पयामीति मन्त्रेण पञ्चविंशतिमञ्जलीन॥२३॥

दत्त्वा निर्वर्त्य विधिवत्स्नानं साधकसत्तमः ।
पूजागृहद्वारदेशे शुचिर्भूत्वोपविश्य च ।
संपूज्य द्वारपालांश्च देहलीं लङ्घयेत॥२४॥

ततः—
आसनस्थोऽपि भूतानां शान्तिकर्म समाचरेत।
उत्पतन्तीह भूता ये पृथिव्यम्बरवासिनः ॥२५॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥२६॥

इत्यामन्त्र्यासनं मन्त्री तथा धारादिपञ्चभिः ।
पूजयित्वा तु तत्रैव प्राङ्मुखः साधकोत्तमः ॥२७॥

स्वस्तिकासनसंविस्टो वामाङ्घ्रिघातनत्रयम् ।
ऊर्ध्वतालत्रयं दत्त्वा दृष्ट्यापूजालयाद्बहिः ॥२८॥

भौमान्तरीक्षदिव्यांस्तान्विघ्नान्निःसारयेत॥२९॥

ततः—
अस्त्रेण गन्धपुष्पाभ्यां करौ संशोध्य साधकः ।
पुनरस्त्रेण संप्रोक्ष्य गन्धं पुष्पं जलं ततः ॥३०॥

अमृतीकृत्य मूलेन कुर्यान्मन्त्रितमुत्तमम् ।
ततः स्फोटिकया कुर्याद्दिग्बन्धनमतः परम् ॥३१॥

प्राकारत्रितयं वह्नेर्विधाय तस्य मध्यतः ।
स्थित्वाचरेद्भूतशुद्धिं यथाक्रममनन्यधीः ॥३२॥

ज्ञानकर्मेन्द्रियैर्भूतैः सूक्ष्मभूतैश्च पञ्चभिः ।
प्रकृत्या मनसा बुद्ध्याप्यहंकारेण शुद्धधीः ॥३३॥

स्वस्वकार्ययुतैर्जीवं सुषुम्नावर्त्मना ततः ।
नीत्वा ब्रह्मणि संयोज्य सोऽहमित्येव योजयेत॥३४॥

शून्यं शरीरं संचिन्त्य वायुबीजानि षोडश ।
वामनासापुटे धीमान्जपन्यत्नेन शुद्धधीः ॥३५॥

वामनासापुटेनैव वायमाकृष्य वायुना ।
तेन नाभिस्थितं वायुमण्डलं वर्धयेत्ततः ॥३६॥

तेन यत्नेन संशोध्य वामकुक्षिस्थितं पुनः ।
पुरुषं पापसंघातं श्यामं रक्तविलोचनम् ॥३७॥

अङ्गुष्ठैकमितं दुष्टमधोमुखमतः परम् ।
स्तम्भयित्वानिलं यत्नाच्चतुःषष्ठिमितं जपन॥३८॥

जपन्द्वात्रिंशद्वारं तद्दक्षिणेन शनैस्त्यजेत॥३९॥

पुनर्दक्षिणया वायुमाकृष्य वह्निमन्त्रतः ।
स्तम्भयित्वानिक्लं मन्त्रीयोगेन कुम्भकेन हि ॥४०॥

प्रज्वाल्य वायुना वह्निं संदह्य पापदेहिनम् ।
तद्भस्मसहितं वायुं वामया संत्यजेद्बहिः ॥४१॥

वामया वायुमाकृष्य जपन्नेवेन्दुसंज्ञकम् ।
बीजं मध्यमनाभ्याच ललाटेन्दौ नियोज्य च ॥४२॥

वारुणेनैव संस्तम्भ्य वायुं तच्चन्द्रमण्डलात।
विधायामृतदृष्टिं च तयामृतीकृतं वपुः ॥४३॥

विचिन्त्य शक्तिबीजेन शरीरं सुदृढं पुनः ।
भावयन्सन्त्यजेद्वायुं दक्षिणेनैव वर्त्मना ॥४४॥

पूर्वस्थापितजीवादीन्स्वे स्वे स्थाने नियोजयेत।
हंस इत्येष मन्त्रेण जीवन्यासं ततश्चरेत॥४५॥

जीवन्यासमनुं वक्ष्ये सर्वकर्माङ्गमुत्तमम् ।
वेदादिर्बिन्दुमान्शेषः शक्तिरङ्कुश एव च ॥४६॥

चादिलान्तं सेन्दुखण्डं हो हंसः सोऽहमेव च ।
मम प्राणा इह प्राणाः पुनः पूर्वमनुं पठन॥४७॥

मम जीव इह स्थितः पुनरेवं मनुं पठन।
मम वाङ्मनस्त्वगिति चक्षुः श्रोत्रं ततः परम् ॥४८॥

घ्राणप्राणा इहागत्य सुकेनैव चिरं पुनः ।
तिष्ठन्तु वह्निजाया च पूर्वबीजचतुष्टयम् ॥४९॥

जीवन्यासमनुः प्रोक्तस्तान्त्रिकैर्मन्त्रवित्तमैः ॥५०॥

इति भक्तिचन्द्रिकायां प्रथमः पटलः !