श्रीभक्तिचन्द्रिका/सप्तमः पटलः
← षष्ठः पटलः | श्रीभक्तिचन्द्रिका सप्तमः पटलः [[लेखकः :|]] |
अष्टमः पटलः → |
सप्तमः पटलः
अथ मन्त्रवरं वक्ष्ये द्वात्रिंशदक्षरान्वितम् ।
सर्वपापप्रशमनं सर्वदुर्वासनानलम् ॥१॥
चतुर्वर्गप्रदं सौम्यं भक्तिदं प्रेमपूर्वकम् ।
दुर्बुद्धिहरणं शुद्धसत्त्वबुद्धिप्रदायकम् ॥२॥
सर्वाराध्यं सर्वसेव्यं सर्वेषां कामपूरकम् ।
सर्वाधिकारसंयुक्तं सर्वलोकैकबान्धवम् ॥३॥
सर्वाकर्षणसंयुक्तं दुष्टव्याधिविनाशनम् ।
दीक्षाविधिविहीनं च कालाकालविवर्जितम् ॥४॥
वाङ्मात्रेणार्चितं बाह्यपूजाविध्यनपेक्षकम् ।
जिह्वास्पर्शनमात्रेण सर्वेषां फलदायकम् ।
देशकालानियमितं सर्ववादिसुसम्मतम् ॥५॥
तस्योद्धारं प्रवक्ष्यामि समाहितमनाः शृणु ।
हरे द्वन्द्वं तथा कृष्णद्वन्द्वं व्युत्क्रमणात्पुनः ॥६॥
हरेरामद्वयं पश्चाद्विलोमेनैव तत्पठेत।
सर्वाघहर्णाद्धेतोर्हरिरित्यभिधीयते ॥७॥
भक्तियोगेन सर्वेषां जीवाकर्षणकारणात।
कृष्ण इत्युच्यते सद्भिः शुद्धसत्त्वतनुः प्रभुः ॥८॥
रामोऽपि लोकरमणात्संसारच्छेदकारकः ।
तस्मान्मोक्षप्रदो रामः सर्वशास्त्रेषु कथ्यते ॥९॥
सम्बोधनप्रियः कृष्णः सम्बोधनपदक्रमात।
मन्त्रोऽयं विहितस्तेन तत्र प्रेमा नियोजितः ॥१०॥
सर्वनामस्वरूपोऽयं देहस्वरूप एव च ।
तत्रैकत्र यदि प्रेमा सोभयत्र तदा भवीत॥११॥
चतुर्युगे भवेद्भक्तिर्मुक्तिश्चैव चतुर्युगे ।
तेन नामानि चत्वारि चत्वारि कृष्णरामयोः ॥१२॥
भक्तिसाधनतः पापनाशोऽथ मुक्तिसाधनात।
तत्रोभयत्र नामानि हरेश्चत्वारि नामतः ॥१३॥
सम्बोधनपदं श्रुत्वा प्रभुस्तत्र समागतः ।
किं प्रार्थते भक्तजनैस्तदेव दातुमुद्यतः ॥१४॥
एतैर्न प्रार्थ्यते किंचिन्नामश्रवणयोगतः ।
वसेत्तेषां च हृदय इत्थम्भूतगुणो हरिः ॥१५॥
मन्त्रे मुक्तिविधानार्थं रामनामनियोजितम् ।
द्वयोर्विरोधात्भक्तानां विधेयं किं तदुच्यताम् ॥१६॥
आदौ भक्त्या भवेन्मुक्तिः संसारच्छेदकारिणी ।
तथा भागवती भक्तिः प्रेमलक्षणलक्षिता ॥१७॥
तथा च—
न विना भक्तियोगेन मुक्तिः स्थाद्भवसागरात।
तां ऋते प्रेमदा भक्तिर्न कदाचित्प्रभोः पदे ॥१८॥
अविद्या सुखदुःखानां विनाशाद्विद्यया युतः ।
जीवन्मुक्तः स विज्ञेयः प्रेमभक्तिपरायणः ।
अमुना मनुना चैतत्साध्यसाधनतत्परः ॥१९॥
तत्साधनं प्रवक्ष्यामि यथाविधिक्रमादिह ।
नित्यानन्दो मुनिः प्रोक्तोऽनुष्टुब्छन्द उदाहृतः ॥२०॥
परमास्वरूपः श्रीचैतन्य एव दैवतम् ।
कृष्णनामेति बीजं स्याद्भक्तिः शक्तिरुदाहृता ॥२१॥
आद्या शक्तिरधिष्ठात्री देवता प्रेमरूपिणी ।
एतेषां विनियोगः स्यात्प्रेमसिद्धौ प्रभोः पदे ॥२२॥
अङ्गन्यासं प्रकुर्वीत मन्त्रवर्णविभागतः ।
हरे कृष्ण हरे कृष्ण हृदयाय नमस्ततः ॥२३॥
कृष्ण कृष्णेति शिरसे स्वाहा चैव हरे हरे ।
शिखायै वषडित्येव कवचाय हुमित्यतः ॥२४॥
हरे राम हरे राम नेत्राभ्यां वौषडित्यपि ।
राम रामेति विज्ञेयमस्त्राय फट्ततः परम् ॥२५॥
हरे हरे ततः कुर्यात्करन्यासमिति क्रमात॥२६॥
ततो यन्त्रं लिखेन्मन्त्री पद्मं षोडशपत्रकम् ।
रेखात्रयसमायुक्तं द्वारतोरणसंयुतम् ॥२७॥
अक्षरद्वयमानेन मन्त्रवर्णान्लिखेद्दले ।
षट्कोणं विलिखेन्मध्ये कर्णिकायां विधानतः ॥२८॥
प्रेमाख्यं मध्यदेशे च कामं बीजं च कोणतः ।
एतस्मिन्न्नपि यन्त्रे चाप्याधारादीन्प्रपूज्य च ।
तत्रैव स्थापयेद्ध्यात्वा यथाविधिक्रमादिति ॥२९॥
कनकरुचिरभासः शुद्धसत्त्वैकवेशो
निजसुमधुरनामाख्यानदानैकदक्षः ।
सततमवतु विश्वं श्रीनवद्वीपचन्द्रो
निजपरिजनवीतो दीनबन्धुर्द्विजेन्द्रः ॥३०॥
ध्यात्वैवं पूजयेद्भक्त्या परमात्मानमव्ययम् ॥३१॥
कोणाग्रदिक्षु देशे च पूजयेदङ्गदेवताः ।
षट्कोणस्याग्रभागे च स सम्पूज्या भक्तिसंयुताः ॥३२॥
नित्यानन्दोऽद्वैतनामा मुरारिः श्रीनिवासकः ।
काशीश्वरो मुकुन्दश्च ततः केशरमध्यतः ॥३३॥
गदाधरो द्विजवरस्तथा नरहरिः प्रियः ।
दामोदरो वासुदेवः शिवानन्दगदाधरौ ॥३४॥
रागहवश्रीरामदासौ सुन्दरानन्दशार्ङ्गिणौ ।
गौरीदासस्ततः पूज्यः परमेश्वर एव च ॥३५॥
पुरुषोत्तमदासोऽपि तथा वृन्दावनाश्रयः ।
गोविन्दो वासुदेवश्च कमलाकर एव च ॥३६॥
तद्बहिः पत्रमध्ये च वैष्णवा भक्तितत्पराः ।
गोपीनाथो महेशश्च शुक्लाम्बरसनातनौ ॥३७॥
जगायिमाधवौ ज्ञेयौ वासुदेवाच्युतावपि ।
दिक्षु पूज्याः प्रयत्नेन प्रेमाश्रुपुलकाचिताः ॥३८॥
जय गौराङ्ग गौराङ्ग जय विश्वम्भर प्रभो ।
इति वादरता नित्यं प्रेमगद्गदभाषिणः ॥३९॥
पत्राग्रे तद्बहिः पूज्याः यदुनन्दन एव च ।
गङ्गादासः केशवश्च कृष्णदासस्ततः परम् ॥४०॥
रघुनाथविश्वनाथौ नीलाम्बरसनातनौ ।
दिव्यमाल्यकराः सौम्याः प्रेमाश्रुपुलकाकुलाः ।
ततोऽन्यावरणान्येव पूर्ववत्परिपूजयेत॥४१॥
कोट्येकजपमात्रेण पुरश्चरणमुच्यते ।
दशांशहोमसङ्ख्यानां चतुर्गुणविधानतः ॥४२॥
जपं कुर्यात्प्रयत्नेन काÿअसङ्ख्या न विद्यते ।
मालया कररेखाभिर्जपेत्साधकसत्तमः ॥४३॥
विधिर्मन्त्रजपे प्रोक्तः षष्ठिदण्डात्मकं दिनम् ।
स्नानाद्यपेक्षा नास्त्यत्र यथाशक्यं करोतु वा ।
इत्येवं साधयेन्मन्त्रं स एव साधकोत्तमः ॥४४॥
इति भक्तिचन्द्रिकायां सप्तमः पटलः