श्रीभागवतसन्दर्भः/तृतीयः सन्दर्भः

← द्वितीयः सन्दर्भः श्रीभागवतसन्दर्भः
तृतीयः सन्दर्भः
[[लेखकः :|]]
चतुर्थः सन्दर्भः →


षट्सन्दर्भनामक
श्रीभागवतसन्दर्भे तृतीयः
परमात्मसन्दर्भः


तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥ि॥
तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥िइ॥

[१]

अथ परमात्मा विव्रियते । अत्र तं जगद्गतजीवनिरूपणपूर्वकं
निरूपयति द्वाभ्याम्

क्षेत्रज्ञ एता मनसो विभूतीर्
जीवस्य मायारचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ [भागवतम् ५.११.१२]

क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयं ज्योतिरजः परेशः ।
नारायणो भगवान् वासुदेवः
स्वमाययात्मन्यवधीयमानः ॥ [भागवतम् ५.११.१३]

यः शुद्धोऽपि मायातः परोऽपि मायारचितस्य वक्ष्यमाणस्य सर्व
क्षेत्रस्य मायया कल्पितस्य मनसोऽन्तःकरणस्यैताः विभूतीर्वृत्तीर्
विचष्टे विशेषेण पश्यति, पश्यंस्तत्राविष्टो भवति, स खल्वसौ जीवनामा
स्वशरीरद्वयलक्षणक्षेत्रस्य ज्ञातृत्वात्क्षेत्रज्ञ उच्यते इत्यर्थः ।

तदुक्तम्

यया संमोहितो जीवो
आत्मानं त्रिगुणात्मकं
परोऽपि मनुतेऽनर्थं
तत्कृतं चाभिपद्यते ॥ [भागवतम् १.७.५] इति ।

तस्य मनसः कीदृशतया मायारचितस्य तत्राह जीवध्य जीवोपाधितया
जीवतादात्म्येन रचितस्य । ततश्च तत्तयोपचर्यमाणस्येत्यर्थः । ततश्
च कीदृशस्य, अविशुद्धं भगवद्बहिर्मुखं कर्म करोतीति तादृशस्य ।
कीदृशीर्विभूतीर्नित्या अनादित एवानुगताः ।

अत्र स कदा कीदृशीरित्यपेक्षायामाह जाग्रत्स्वप्नयोराविर्भूताः
सुषुप्तौ तिरोहिताश्चेति । यस्तु पुराणो जगत्कारणभूतः पुरुषः
आद्योऽवतारः पुरुषः परस्येत्यादि [भागवतम् २.६.४१] द्वितीयादौ प्रसिद्धः ।
साक्षादेव स्वयं ज्योतिः स्वप्रकाशो तनु जीववदन्यापेक्षया । अजो
जन्मादिशून्यः । परेषां ब्रह्मादीनामपीशः । नारं जीवसमूहः
स्वनियम्यत्वेनायनं यस्य सः । भगवानैश्वर्याद्य्अंशत्वात् । वासुदेवः
सर्वभूतानामाश्रयः । स्वमायया स्वस्वरूपशक्त्या आत्मनि स्व
स्वरूपे अवधीयमानः अवस्थाप्यमानः । कर्मकर्तृप्रयोगः ।
मायायां मयिकेऽप्यन्तर्यामितया प्रविष्टोऽपि स्वरूपशक्त्या स्वरूपस्य एव
न तु तत्संसक्त इत्यर्थः । वासुदेवत्वेन सर्वक्षेत्रज्ञातृत्वात्सोऽपरः ।
मायामोहितात्जीवादन्यः मायारहितः शुद्धः । क्षेत्रज्ञः आत्मा
परमात्मेति ।

तदेवमपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्येव । तदुक्तम्

सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे इति [भागवतम् ६.४.२५] ।

श्रीगीतोपनिषत्सु

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ [गीता १३.१]
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ [गीता १३.१]

अत्र खलु क्षेत्रज्ञं चापि मां विद्धीति सर्वेष्वपि क्षेत्रेषु मां च
क्षेत्रज्ञं विद्धि, न तु जीवमिव स्वक्षेत्र एव इत्येवार्थं वहति । न च
जीवेशयोः समानाधिकरण्येन निर्विशेषचिद्वस्त्वेव ज्ञेयतया निर्दिशति ।
सर्वक्षेत्रेष्वित्यस्य विअयर्थ्यापत्तेः । ज्ञेयं यत्तत्प्रवक्ष्यामीत्यादौ
सर्वतः पाणिपादं तद्सर्वतोऽक्षिशिरोमुखमित्य्[गीता १३.१३] आदिना
सविशेषस्यैव निर्देक्ष्यमाणत्वात् । अमानित्वमित्यादिना ज्ञानस्य च
तथौपदेक्ष्यमाणत्वात् ।

किं च क्षेत्रज्ञं चापीत्यत्र त्त्वमसीतिवत्सामानाधिकरण्येन तन्
निर्विशेषज्ञाने विवक्षिते क्षेत्रज्ञेश्वरयोर्ज्ञानमित्येवनानूद्येत न तु
क्षेत्रक्षेत्रज्ञयोत्ज्ञानमिति । किन्तु क्षेत्रक्षेत्रज्ञयोरित्यस्यायमर्थः ।
द्विव्दिहयोरपि क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तन्ममैव ज्ञानं मतम् ।

अन्यार्थस्तु परामर्श इति न्यायेन यज्ज्ञानैकतात्पर्यकमित्यर्थः ।
ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात्योग्यत्वाच्च । न च निरीश्वरसाङ्ख्यवत्
क्षेत्रक्षेत्रज्ञमात्रविभागादत्र ज्ञानं मतं ममेत्य्
अनेनेश्वरस्यावेक्षितत्वात् । न च विवर्तवादवदीश्वरस्यापि भ्रममात्र
प्रतीतपुरुषत्वम् । तद्वचनलक्षणसवेदगीतादिशास्त्राणाम्
अप्रामाण्याद्बौद्धवादापत्तेः । तस्यां च सत्यां बौद्धानामिव विवर्त
वादिनां तद्व्याख्यानायुक्तेः । न च तस्य सत्यपुरुषत्वेऽपि निर्विशेष
ज्ञानमेव मोक्षसाधनमिति तदीयशास्त्रान्तरतः समाहार्यम् ।

एवं सततयुक्ता ये [१२.१] इत्यादि पूर्वाध्याये निर्विशेषज्ञानस्य हेयत्वेन
विवक्षितत्वात् । तत्रैव च ये तु सर्वाणि कर्माणि इत्य्[१२.६] आदिनानन्यभक्तान्
उद्दिश्य तेषामहं समुद्धर्ता मृत्युसंसारसागरादित्य्[१२.७] अनेन तज्
ज्ञानापेक्षापि नादृतेति । तदुक्तमेकादशे स्वयं भगवता यत्कर्मभिर्
यत्तपसेत्यादि [भागवतम् ११.२०.३२] । मोक्षधर्मे च
य वै साधनसम्पत्तिः पुरुषार्थचतुष्टये ।
तया विना तदाप्नोति नरो नारायणाश्रयः ॥ इति ।

अत्र तु पूर्वाध्यायविश्लाघितं तदेवावृथाकर्तुं सविशेषतया निर्दिश्य

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ [गीता १३.१८]

इत्यन्तेन भक्तिसंवलिततया सुकरार्थप्रायं कृतम् । अतएवात्र व्यष्टि
क्षेत्रज्ञ एव भक्तत्वेन निर्दिष्टः समष्टिक्षेत्रज्ञस्तु ज्ञेयत्वेनेति
क्षेत्रज्ञानाभ्यां सह ज्ञेयस्य पाठादनुस्मार्य तद्अनन्तरं च तस्य
तस्य च जीवत्वमीश्वरत्वं च क्षरं नेति दर्शितम् । यतः

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुणसङ्गोऽस्य सद्असद्योनिजन्मसु ॥ [गीता १३.२१]

इति जीवस्य प्रकृतिस्थत्वं निर्दिश्य स्वतस्तस्याप्राकृतत्वदर्शनया स्फुटम्
एवाक्षरत्वं ज्ञापितम् ।

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ [गीता १३.२२]

इति जीवात्परत्वेन निर्दिष्टस्य परमात्माख्यपुरुषस्य तु कैमुत्येनैव
तद्दर्शितम् ।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ [गीता १५.१६]
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ [गीता १५.१७]

इत्यत्र जीवस्याप्यक्षरत्वं कण्ठोक्तमेव । तत्रोपद्रष्टा परमसाक्षी,
अनुमन्ता तत्तत्कर्मानुरूपः प्रवर्तकः । भर्ता पोषकः । भोक्ता
पालयिता । महेश्वरः सर्वाधिकर्ता । परमात्मा सर्वान्तर्यामीति
व्याख्येयम् ।

उत्तरपद्ययोस्तु । कूटस्थ एकरूपतया तु यः कालव्यापी स कूटस्थ इत्य्
अमरकोषादवगतार्थः । असौ शुद्धजीव एव उत्तमः पुरुषस्त्वन्य इत्य्
उत्तरात् । तदेवमत्रापि क्षेत्रक्षेत्रज्ञसर्वक्षेत्रज्ञा उक्ताः । अत्र
चोत्तरयोरन्य इत्यनेन भिन्नयोरेव सतोरक्षरयोर्न तत्तद्रूपता
परित्यागः सम्भवेदिति न कदाचिदपि निर्विशेषरूपेनावस्थितिरिति
दर्शितम् । तस्मान्मद्भावायोपपद्यते इति यदुक्तं तदपि तत्सार्ष्टि
प्राप्तितात्पर्यकम्[*Eण्ड्ण्Oट्E ॰१] । तदेवं द्वयोरक्षरत्वेन साम्येऽपि
जीवस्य हीनशक्तित्वात्प्रकृत्य्आविष्टस्य तन्निवृत्त्य्अर्थमीश्वर एव
भजनीयत्वेन ज्ञेय इति भावः ।

तस्मादिदं शरीरमित्यादिकं पुनरित्थं विवेचनीयम् । इदं स्व
स्वापरोक्षमित्यर्थः । शरीरक्षेत्रयोरेकैकत्वेन ग्रहणमत्र व्यक्ति
पर्यवसानेन जातिपुरस्कारेणैवेति गम्यते । सर्वक्षेत्रेष्विति बहु
वचनेनानुवादात् । एतद्यो वेत्ति इत्यत्र देहोऽसवोऽक्षामनव इत्यादौ
सर्वं पुमान् वेदगुणांश्च तज्ज्ञः [भागवतम् ६.४.२५] इत्य्उक्तदिशा क्षेत्रज्ञ एता
मनसो विभूतीरित्य्उक्तदिशा च जानातीत्यर्थः ।

क्षेत्रज्ञं चापि मां विद्धीति । तदुक्तम् विष्टभ्याहमिदं कृत्स्नम्
एकांशेन स्थितो जगत्[गीता १०.४२] । यत्र गत्य्अन्तरं नास्ति तत्रैव लक्षणा
मयकष्टमाश्रीयेत । तथापि तेन सामानाधिकरण्यं यदि विवक्षितं
स्यात्तर्हि क्षेत्रज्ञं चापि मां विद्धीत्येतावदेव तं च मां विद्धीत्य्
एतावदेव वा प्रोच्येत, न तु सर्वक्स्रेषु भारतेत्यधिकमपि । किन्तु
क्षेत्रज्ञ एता मनसो व्भूतीरित्यादिवत्क्षेत्रज्ञद्वयमपि वक्तव्यमेव
स्यात् ।

तथा च ब्रह्मसूत्रं गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति [Vस्
१.२.११] तद्वैध्यमेव चोपसंहृतम् । पुरुषः प्रकृतिस्थो हीत्यादिना ।
तस्मादुपक्रमार्थस्योपसंहाराधीनत्वादेष एवार्थः समञ्जसः ।
यथोक्तं ब्रह्मसूत्रकृद्भिः असद्व्यपदेशान्नेति चेन्न
धर्मान्तरेण वाक्यशेषादिति [Vस्२.१.१७] ।

अथ क्षेत्रक्षेत्रज्ञयोर्ज्ञानमित्यत्र यत्क्षेत्रे ज्ञानेन्द्रियगतं चेतना
गतं च ज्ञानं दर्शयिष्यते यच्च पूर्वक्षेत्रज्ञे निजनिजक्षेत्रज्ञानं
दर्शितं तत्तत्मज्ज्ञानांशस्य क्षेत्रेषु च्छायारूपत्वात्क्षेत्रज्ञेषु यत्
किञ्चिदंशांशतया प्रवेशान्ममैव ज्ञानं मतमिति । तस्मात्साधूक्तं
मुख्यं क्षेत्रज्ञत्वं परमात्मन्येवेति ।

अत्र श्रीभगवतः परमात्मरूपेणाविर्भावोऽपि । अजनि च यन्मयं तद्
अविमुच्यनियन्तृ भवेदित्य्उक्तदिशा [भागवतम् १०.८७.३०] शक्तिविशेषालिङ्गित्वाद्
यस्मादेवांशाज्जीवानामाविर्भावस्तेनैवेति ज्ञेयम् । तदुक्तं तत्रैव
विष्टभ्याहमित्यादि । श्रीविष्णुपुराणे च

यस्यायुतांशांशे विश्वशक्तिरियं स्थिता ।
परब्रह्मस्वरूपस्य प्रणमाम तमव्ययम् ॥ इति [Vइড়् १.९.५३]

पूर्णशुद्धशक्तिस्तु कलाकाष्ठानिमेषादित्यनेन दर्शिता । तथा श्री
नारदपञ्चरात्रे

नारद उवाच
शुद्धसर्गमहं देव ज्ञातुमिच्छामि तत्त्वतः ।
सर्गद्वयस्य चैवस्य यः परत्वेन वर्तते ॥

तत्रैतत्पूर्वोक्तः प्राधानिकः शाक्तश्चेत्येतत्सर्गद्वयस्येति ज्ञेयम् ।

श्रीभगवानुवाच
यः सर्वव्यापको देवः परब्रह्म च शाश्वतम् ।
चित्सामान्यं जगत्यस्मिन् परमानन्दलक्षणम् ॥
वासुदेवादभिन्नस्तु बह्न्अर्केन्दुशतप्रभम् ।
वासुदेवोऽपि भगवांस्तद्धर्मा परमेश्वरः ॥
स्वां दीप्तिं क्षोभयत्येव तेजसा तेन वै युतम् ।
प्रकाशरूपो भगवानच्युतं चासकृद्द्विज ॥
सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति वै ।
आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ॥
क्षोभयित्वा स्वमात्मानं सत्यभास्वरविग्रहम् ।
उत्पादयामास तदा समुद्रोर्मिजलं यथा ॥
स चिन्मयः प्रकाशात्मा उत्पाद्यात्मानमात्मना ।
पुरुषाख्यमनन्तं च प्रकाशप्रसरं महत् ॥
स च वै सर्वजीवानामाश्रयः परमेश्वरः ।
अन्तर्यामी च तेषां वै तारकाणामिवाम्बरम् ॥
सेन्धनः पावको यद्वत्स्फुलिङ्गनिचयं द्विज ।
अनिच्छातः प्रेरयति तद्वदेव परः प्रभुः ॥
प्राग्वासनानिबन्धानां बन्धानां च विमुक्तये ।
तस्माद्विद्धि तद्अंशांशस्तान् सर्वांशत्वमजं प्रभुम् ॥ इति ।

अतएव यत्तु ब्रह्मादौ श्रीप्रद्युम्नस्य मन्वादौ श्रीविष्णोः, रुद्रादौ
श्रीसङ्कर्षणस्यान्तर्यामित्वं श्रूयते तन्नानांशमादायावतीर्णस्य
तस्यैव तत्तद्अंशेन तत्तद्अन्तर्यामित्वमिति मन्तव्यम् । अतएव रुद्रस्य
सङ्कर्षणप्रकृतित्वं पुरुषप्रकृतित्वं चेत्युभयमप्याम्नातं
प्रकृतिमात्मनः सङ्कर्षणसंज्ञां भव उपधावतीत्यादौ [भागवतम् ५.१७.१६]
आदावभूच्छतधृतिरित्यादौ च [भागवतम् ११.४.५] । एष एव

भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥

इत्य्[Vइড়् ५.१८.५०] आदौ विवृतम् । तस्मात्सर्वान्तर्यामी पुरुष एव ब्रह्मेति
परमात्मेतीत्यादौ परमात्मत्वेन निर्दिस्ट इति स्थितम् । व्याख्यातं च
स्वामिभिः । नमस्तुभ्यं भगवते ब्रह्मणे परमात्मन [भागवतम् १०.२८.६]
इत्यत्र वरुणस्तुतौ । परमात्मने सर्वजीवनियन्त्रे इति । अस्य
परमात्मनो मायोपाधितया पुरुषत्वं तूपचरितमेव । तदुक्तं
वैष्णवे एव

नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापेक्षयं च समुपैत्य विकल्पस्वस्तु
यस्तं नतोऽस्मि पुरुषोत्तममाद्यमीड्यम् ॥ [Vइড়् ६.८.६०]

तस्यैव योऽनुगुणभुग्बहुधैक एव
शुद्धोऽप्यशुद्ध इव मूर्तिविभागभेदैः ।
ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ [Vइড়् ६.८.६१] इति ।

तस्यैवानुपूर्वोक्तात्परमेश्वरात्समनन्तरम् । बहुधा ब्रह्मादि
रूपेण । अशुद्ध इव सृष्ट्य्आदिष्वासक्त इव । मूर्तिविभागानां दक्षादि
मन्व्आदिरूपाणां भेदैः । अर्वसत्त्वानां विभूतीकर्ता विस्तारकृतिति
स्वामी ।

तत्र गुणभुगिति षाड्गुण्यानन्दभोक्तेत्यर्थः ।

यत्तत्सूक्ष्ममविज्ञानमव्यक्तमचलं ध्रुवम् ।
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।
त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः ॥ [ंBह्१२.३२१.२८२९]

इति मोक्षधर्मेऽपि नारायणीयोपाख्याने । श्रुतयोऽप्येनं शुद्धत्वेनैव
वर्णयन्ति

एको देवो सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्सी चेताः केवलो निर्गुणश्च ॥ [श्वेतू ६.११] ।

अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमाना सरूपाः ।
अजो ह्येको जूषमाणोऽनुशेते जहात्य्
एनां भुक्तभोगामजोऽन्यः ॥ इत्याद्याः [श्वेतू ४.५]

तस्मात्साधु व्याख्यातं क्षेत्रज्ञ एता इत्यादिपद्यद्वयम् ॥

॥ ५.११ ॥ श्रीब्राह्मणो रहूगणम् ॥ १ ॥

[२]

अथ तस्याविर्भावे योग्यताप्राग्वद्भक्तिरेव ज्ञेया । आविर्भावस्तु त्रिधा
यथा नारदीये तन्त्रे[*Eण्ड्ण्Oट्E ॰२]

विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः ।
एकं तु महतः स्रष्टृ द्वितीयं तन्तुसंस्थितम् ।
तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते ॥

अत्र प्रथमो यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति स
ऐक्षतेत्याद्युक्तेः । महासमष्टिजीवप्रकृत्योरेकतापन्नयोर्द्रष्टेत्य्
एक एव । अयमेव सङ्कर्षण इति महाविष्णुरिति च । ब्रह्मसंहितायां
यथा

तल्लिङ्गं भगवान् शम्भुर्ज्योतीरूपं सनातनम् ।
तस्मिन्नाविरभूल्लिङ्गे महाविष्णुर्जगत्पतिः ॥ [Bरह्मष्५.८]

सहस्रशीर्षा पुरुष इत्यारभ्य [Bरह्मष्५.११]

नारायणः स भगवानापस्तस्मात्सनातनात् ।
आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः ।
योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ [Bरह्मष्५.१२]
तद्रोमबिलजालेषु बीजं सङ्कर्षणस्य च ।
हैमान्यण्डानि जातानि महाभूतावृतानि तु ॥ ईत्यादि [Bरह्मष्५.१३]

लिङ्गमिति यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थितेत्य्[Vइড়् १.९.५३]
अनुसारेण तस्य महाभगवतः श्रीगोविन्दस्य पुरुषोत्पादकत्वाल्लिङ्गम्
इव लिङ्गं यः खल्वंविशेषस्तदेव शम्भुः । शम्भुशब्दस्य
मुख्याया वृत्तेराश्रय इत्यर्थः ।

अथ द्वितीयपुरुषस्तत्सृष्ट्वा तदेवानुप्रविशदित्याद्युक्तः समष्टि
जीवान्तर्यामी । तेषां ब्रह्माण्डात्मकानां बहुभेदाद्बहुभेदः ।
तत्रैव सूक्ष्मान्तर्यामी प्रद्युम्नः स्थूलान्तर्याम्यनिरुद्ध इति क्वचित् ।
अनेन महावैकुण्ठस्थाः सङ्कर्षणादयस्तद्अंशिनः । ये तु चित्ताद्य्
अधिष्ठातारो वासुदेवादयस्ते तद्अंशा एवेत्यादि विवेचनीयम् ।

तृतीयोऽपि पुरुषः

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्य्
अनश्नन्नन्योऽभिचाकशीति ॥ [ऋग्वेद १.१६३.२०, ंुण्डू ७.१.१]

इत्य्आद्य्उक्तो व्यष्ट्य्अन्तर्यामी । तेषां बहुभेदाद्बहुभेदः ।

तत्र प्रथमस्याविर्भावो यथा आद्योऽवतारः पुरुषः परस्येति [भागवतम् २.६.४१] ।
टीका च परस्य भूम्नः पुरुषः प्रकृतिप्रवर्तकः । यस्य सहस्रशीर्षेत्य्
आद्युक्तो लीलाविग्रहः स आद्योवतारः । इत्येषा ॥ अत्र चान्यत्र चावतारत्वं
नामैकपादविभूत्य्आविर्भावत्वं ज्ञेयम् ॥ २.६ ॥ श्रीब्रह्मा
नारदम् ॥२॥

[३]

द्वितीयस्य यथा

कालेन सोऽजः पुरुषायुषाभि
प्रवृत्तयोगेन विरूढबोधः
स्वयं तदन्तर्हृदयेऽवभातम्
अपश्यतापश्यत यन्न पूर्वम् ॥
मृणालगौरायतशेषभोग
पर्यङ्क एकं पुरुषं शयानम् । [भागवतम् ३.८.२३]

अयं गर्भोदकस्थः सहस्रशीर्षा प्रद्युम्न एव । पुरुषायुषा वत्सर
शतेन । योगो भक्तियोगः । एतदग्रेऽप्यव्यक्तमूलमित्यत्र अव्यक्तं
प्रधानं मूलमधोभागो यस्येत्यर्थः । भुवनाङ्घ्रिपेन्द्रमिति ।
भुवनानि चतुर्दश तद्रूपा अङ्घ्रिपास्तेषामिन्द्रं तन्नियन्तृत्वेन
वर्तमानमित्यर्थः ॥ ३.८ ॥ श्रीमैत्रेयो विदुरम् ॥ ३ ॥

[४]

तृतीयस्याविर्भावो यथा

केचित्स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङ्गशङ्ख
गदाधरं धारणया स्मरन्ति ॥ [भागवतम् २.२.८]

प्रादेशस्तर्जन्य्अङ्गुष्ठेयोर्विस्तारस्तत्प्रमाणं हृद्यपेक्षया
मनुष्याधिकारत्वादिति न्यायेन ॥ २.२ ॥ श्रीशुकः ॥४॥

[५]

एवं पुरुषस्यानेकविधत्वेऽपि दृष्टान्तेनैक्यमुपपादयति ।

यथानिलः स्थावरजङ्गमानाम्
आत्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ [भागवतम् ५.११.१४]

आत्मस्वरूपेण प्राणरूपेण ईशेदीशेत नियमयति । इदं विश्वम् । श्रुतिश्


वायुर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ इति काठके [Kअठू २.२.१०]

॥ ५.११ ॥ श्रीब्राह्मणो रहूगणम् ॥५ ॥

[६]
तथा,

एक एव परो ह्यात्मा सर्वेषामेव देहिनाम् ।
नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ [भागवतम् १०.५४.४४]

देहिनां जीवानाम् । आत्मा परमात्मा ॥ १०.५४ ॥ श्रीबलदेवः श्री
रुक्मिणीम् ॥६॥

[७]

एवमेक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥ [भागवतम् ११.१८.३२]

भूतेषु जीवेषु एक एव पर आत्मा न त्वसौ जीववत्तत्र तत्र लिप्तो भवति
इत्याह आत्मनि स्वस्वरूप एवावस्थितः । भूतानि जीवदेहा अपि येन कारण
रूपेणैकात्मकानीति ॥ ११.१८ ॥ श्रीभगवानुद्धवम् ॥७॥

[८]

एवमेकस्य पुरुषस्य नानात्वमुपपाद्य तस्य पुनरंशा विव्रियन्ते । अत्र
द्विविधा अंशा स्वांशा विभिन्नांशाश्च । विभिन्नांशा तटस्थशक्त्य्आत्मका
जीवा इति वक्ष्यते । स्वांशास्तु गुणलीलाद्य्अवतारभेदेन विविधाः । तत्र
लीलाद्य्अवताराः प्रसङ्गसङ्गत्या श्रीकृष्णसन्दर्भे वक्ष्यते ।
गुणावतारा यथा

आदावभूच्छतधृती रजसास्य सर्गे,
विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ [भागवतम् ११.४.५]

स युगपत्गुणत्रयाधिष्ठाद्यः पुरुषः पृथक्पृथगपि तत्तद्
गुणाधिष्ठानलीलयैव आदौ रजसा अस्य जगतः सर्गे विसर्गे कार्ये शत
धृतिर्ब्रह्माभूत् । स्थितौ विष्णुः सत्त्वेनेति शेषः । तत्र साक्षाद्गुणानुक्तिश्
च तयातिरोहितस्वरूपतया तत्सम्बन्धोपचारस्याप्युट्टङ्कनमयुक्तम्
इत्यभिप्रायेण । पालनकर्तृत्वेन क्रतुपतिस्तत्फलदाता । यज्ञरूपस्तु
लीलावतारमध्य एव श्रीब्रह्मणा द्वितीये गणितः । द्विजानां धर्मानां
च सेतुः पालक इत्यर्थः । नमसा तस्याप्ययाय रुद्रोऽभूतित्यनेन
प्रकारेणोद्भवस्थितिलया भवन्तीति । अत्र ब्रह्मरुद्रयोरवतारावसरो
मोक्षधर्मे विवृत्तोऽस्ति । यथा

ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः
अह्नः क्षये ललाताच्च सुतो देवस्य वै तथा
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः [ंBह्१२.३२८.१५१६]

श्रीविष्णोस्तु तृतीये दृश्यते

तल्लोकपद्मं स उ एव विष्णुः
प्रावीविशत्सर्वगुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ [भागवतम् ३.८.१५]

अस्यार्थः तल्लोकात्मकं पद्मम् । सर्वगुणान् जीवभोग्यानर्थान्
अवभासयतीति तथा । तत्यस्माज्जातं श्रीनारायणाख्यः पुरुष एव विष्णु
संज्ञः सन् स्थापनरूपान्तर्यामितायै प्रावीविशत्प्रकर्षेनालुप्त
शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्रीविष्णुना लब्धस्थितौ पद्मं
पुनः सृष्ट्य्अर्थं स्वयमेव ब्रह्माभूत्स्थितस्यैव मृदादेर्
घटादितया सृष्टेः । अतएव स्थित्य्आदये हरिविरिञ्चिरेति संज्ञा इत्य्
अन्यत्रापि ॥

॥ ११.४ ॥ द्रुमिलो निमिम् ॥ ८ ॥

[९]

एवं यो वा अहं च गिरिशं च विभुः स्वयं चे इत्य्[भागवतम् ३.९.३] आदौ त्रिपाद्
इति ।

टीका च यो वै एकस्त्रिपात्त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य इत्य्
एषा । वृक्षरूपत्वेन तद्वर्णनादेषां स्कन्धत्वम् ॥३.९॥ ब्रह्मा
गर्भोदशायिनम् ॥९॥

[१०]

तेषामाविर्भावो यथा

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।
निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥
अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।
वितायमानयशसस्तद्आश्रमपदं ययुः ॥ इत्यादि ॥ [भागवतम् ४.१.२१२२]

मुनेरत्रेः । श्रीमैत्रेयः ॥१०॥

[११]

यथा वा

सरस्वत्यास्तटे राजनृषयः सत्रमासते ।
वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ [भागवतम् १०.८९.१]

इत्यादिरितिहासः । श्रीविष्णोः स्थानं च क्षीरोदादिकं पाद्मोत्तर
खण्डादौ जगत्पालननिमित्तकनिवेदनार्थं ब्रह्मादयस्तत्र मुहुर्
गच्छतीति प्रसिद्धेः । विष्णुलोकतया प्रसिद्धेश्च । बृहत्सहस्रनाम्नि च
क्षीराब्धिमन्दिर इति तन्नामगणे पठ्यते । श्वेतद्वीपपतेः क्वचिद्
अनिरुद्धतया ख्यातिश्च तस्य साक्षादेवाविर्भाव इत्यपेक्षयेति ॥

॥ १०.८९ ॥ श्रीशुकः ॥११॥

[१२]

एवं परोक्षया तत्र त्रिदेव्यास्तारतम्यमपि स्फुटम् । तथा चान्यत्र
द्वयेनाह

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्
युक्तः परमपुरुष एक इहास्य धत्ते ।
स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः ॥ [भागवतम् १.२.२३]

इह यद्यप्येक एव परः पुमानस्य विश्वस्य स्थित्य्आदये सृष्टिस्थिति
लयार्थं तैः सत्त्वादिभिर्युक्तः सन् हरिविरिञ्चहरेति संज्ञा भिन्ना धत्ते
तत्तद्रूपेणाविर्भवतीत्यर्थः । तथापि तत्र तेषां मध्ये श्रेयांसि
धर्मार्थकाममोक्षभक्त्य्आख्यानि शुभफलानि सत्त्वतनोर्
अधिष्ठितसत्त्वशक्तेः श्रीविष्णोरेव स्युः । अयं भावः । उपाधिदृष्ट्या
तौ द्वौ सेव्यमाने रजस्तमसोर्घोरमूढत्वात्भवन्तोऽपि धर्मार्थ
कामा नातिसुखदा भवन्ति तथोपाधित्यागेन सेवमाने भवन्नपि
मोक्षो न साक्षान्न च झटिति किन्तु कथमपि परमात्वांश एवायमित्य्
अनुसन्धानाभ्यासेनैव परमात्मन एव भवति । अथोपाधिदृष्ट्यापि
श्रीविष्णुं सेव्यमाने सत्त्वस्य शान्त्तत्वात्धर्मार्थकामा अपि सुखदाः ।
तत्र निष्कामत्वेन तु तं सेव्यमाने सत्त्वात्सञ्जायते ज्ञानमिति [गीता १४.१७]
कैवल्यं सात्त्विकं ज्ञानम् [भागवतम् ११.२५.२४] इति चोक्तेर्मोक्षस्य साक्षात् ।
अत उक्तं स्कान्दे

बन्धको भवपाशेन भवपाशाच्च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुरेव सनातनः ॥ इति ।

उपाधिपरित्यागेन तु पञ्चमपुरुषार्थो भक्तिरेव भवति तस्य
परमात्माकारेणैव प्रकाशात् । तस्मात्श्रीविष्णोरेव श्रेयांसि स्युरिति । अत्र
तु यत्त्रयाणामभेदवाक्येनोपजप्तमतयो विवदन्ते तत्रेदं ब्रूमः ।
यद्यपि तारतम्यमिदमधिष्ठानगतमेव अधिष्ठाता तु परः पुरुष
एक एवेति भेदासम्भवात्सत्यमेवाभेदवाक्यं तथापि तस्य तत्र तत्र
साक्षात्त्वासाक्षात्त्वभेदेन प्रकाशेन तारतम्यं दुर्निवारमेवेति
सट्टष्टान्तमाह ॥

[१३]

पार्थिवाद्दारुणो धूमस्
तस्मादग्निस्त्रयीमयः ।
तमसस्तु रजस्तस्मात्
सत्त्वं यद्ब्रह्मदर्शनम् ॥ [भागवतम् १.२.२४]

पार्थिवान्न तु धूमवद्अंशेनाग्नेयात्तत एव वेदोक्तकर्मणः साक्षात्
प्रवृत्तिप्रकाशरहिताद्दारुणो यज्ञीयान्मथनकाष्ठात्सकाशाद्
अंशेनाग्नेयो धूमस्त्रयीमयः पूर्वापेक्षया वेदोक्तकर्मस्थानीयस्य
तत्तद्अवतारिणः पुरुषस्य प्रकाशद्वारम् । तुशब्देन लयात्मकात्
तमसः सकाशाद्रजसः सोपाधिकज्ञानहेतुत्वेनेषद्गुणविप्रादुर्भाव
रूपं किञ्चित्ब्रह्मदर्शनप्रत्यासत्तिमात्रमुक्तं न तु सर्वथा
विक्षेपकत्वम् । यदग्निस्थानीयं सत्त्वं तत्साक्षात्ब्रह्मणो दर्शनम् ।
साक्षादेव सम्यक्तत्तद्गुणरूपाविर्भावद्वारं शान्तस्वच्छ
स्वभावात्मकत्वात् । अतो ब्रह्मशिवयोरसाक्षात्त्वं श्रीविष्णौ तु
साक्षात्त्वं सिद्धमिति भावः । तथा च श्रीवामनपुराणे
ब्रह्मविष्ण्व्ईशरूपाणि
त्रीणि विष्णोर्महात्मनः ।
ब्रह्मणि ब्रह्मरूपः
स शिवरूपः शिवे स्थितः ॥
पृथगेव स्थितो देवो
विष्णुरूपी जनार्दनः ॥ इति ।

तदुक्तं ब्रह्मसंहितायां

भास्वान् यथाश्मशकलेषु निजेषु तेजः
स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एव जगद्अण्डविधानकर्त्रा
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४८]

क्षीरं यथा दधिविकारविशेषयोगात्
सञ्जायते न तु ततः पृथगस्ति हेतोः ।
यः शम्भुतामपि तथा समुपैति कार्याद्
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४५]
दीपार्चिरेव हि दशान्तरमभ्युपेत्य
दीपायते विवृतहेतुसमानधर्मा ।
यस्तादृगेव हि च विष्णुतया विभाति
गोविन्दमादिपुरुषं तमहं भजामि ॥ इत्यादि [Bरह्मष्५.४६]।

न च दधिदृष्टान्तेन विकारित्वमायातम् । तस्य श्रुतेस्तु शब्दमूलत्वाद्
इति न्यायेन मुहुः परिहृतत्वात् । यथोक्तम् यत उदयास्तमयौ विकृतेर्मृद्
इवाविकृतादिति ।

दृष्टान्तत्रयेण तु क्रमेणेदं लभ्यते । सूर्यकान्तस्थानीये
ब्रह्मोपाधौ सूर्यस्येव तस्य किञ्चित्प्रकाशः । दधिस्थानीये
शम्भूपाधौ क्षीरस्थानीयस्य न तादृगपि प्रकाशः । दशान्तर
स्थानीये विष्णूपाधौ तु पूर्ण एव प्रकाश इति ॥ १.२ ॥ श्रीसूतः ॥१३॥

[१४]

एवमेवाह त्रिभिः

शिवः शक्तियुतः शश्वत्
त्रिलिङ्गो गुणसंवृतः ।
वैकारिकस्तैजसश्च
तामसश्चेत्यहं त्रिधा ॥ [भागवतम् १०.८८.३]

ततो विकारा अभवन्
षोडशामीषु कञ्चन ।
उपधावन् विभूतीनां
सर्वासामश्नुते गतिम् ॥ [भागवतम् १०.८८.४]

हरिर्हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः ।
स सर्वदृगुपद्रष्टा
तं भजन्निर्गुणो भवेत् ॥ इति [भागवतम् १०.८८.५]

शश्वच्छक्तियुतः प्रथमतस्तावन्नित्यमेव शक्त्या गुणसाम्यावस्थ
प्रकृतिरूपोपाधिना युक्तः । गुणक्षोभे सति त्रिलिङ्गो गुणत्रयोपाधिः ।
प्रकटेश्च सद्भिस्तैर्गुणैः संवृतश्च ।

ननु तमोपाधित्वमेव तस्य श्रूयते कथं तत्तद्उपाधित्वं
तत्रावैकारिक इति । अहमहंतत्त्वं हि तत्तद्रूपेण त्रिधा । स च तद्
अधिष्ठात्यर्थः । ततस्तेन भगवत्प्रतिनिधिरूपेणाधिष्ठितादहन्
तत्त्वात्षोडशविकारा ये अभवनमीषु विकारेषु मध्ये सर्वासां
विभूतीनां सम्बन्धिनं कञ्चन उपधावन् तद्उपाधिकत्वेन तम्
उपासीनो गतिं प्राप्यं फलं लभते । हि प्रसिद्धौ हेतौ वा । हरिस्तु
प्रकृतेरुपाधितः परस्तद्धर्मैरस्पृष्टः । अतएव त्रिर्गुणोऽपि कुतस्
त्रिलिङ्गत्वादिकमिति भावः । तत्र हेतुः साक्षादेव पुरुष ईश्वरः । न तु
प्रतिबिम्बवद्व्यवधानेनेत्यर्थः । अतो विद्याविद्ये मम तनू [भागवतम्
११.११.३] इतिवत्तनुशब्दोपादानात्कुत्रचित्सत्त्वशक्तित्वश्रवणमपि
प्रेक्षादिमात्रेणोपकारित्वादिति भावः । अतएव सर्वेषां शिवब्रह्मादीनां
दृक्ज्ञानं यस्मात्तथाभूतः सन्नुपद्रष्टा तद्आदिसाक्षी भवति । अतः
स तं भजन्निर्गुणो भवेद्गुणातीतफलभाग्भवतीति ॥ १०.८८ ॥ श्री
शुकः ॥१४॥

[१५]

अतएव विष्णोरेव परमपुरुषेण साक्षादभेदोक्तिमाह

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ इति [भागवतम् २.६.३१]

अहं ब्रह्मा । श्रुतिश्चात्र

स ब्रह्मणा सृजति स रुद्रेण विलापयति ।
सोऽनुत्पत्तिरलय एव हरिः परः परमानन्दः ॥ इति
महोपनिषदि[*Eण्ड्ण्Oट्E ॰३] ॥

॥ २.६ ॥ ब्रह्मा नारदम् ॥१५॥

[१६]

तत्रैवाह

अत्रानुवर्ण्यतेऽभीक्ष्णं
विश्वात्मा भगवान् हरिः ।
यस्य प्रसादजो ब्रह्मा
रुद्रः क्रोधसमुद्भवः ॥ [भागवतम् १२.५.१]

अत्र श्रीविष्णुर्न कथित इति तेन साक्षादभेद एवेत्यायातम् । तदुक्तम्
स उ एव विष्णुरिति [भागवतम् ३.८.१५] । श्रुतिश्च पुरुषो वै नारायणोऽकामयत अथ
नारायणादजोऽजायत यतः प्रजाः सर्वाणि भूतानि [णारायणऊ] ।

नारायणः परं ब्रह्म
तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म
पुरुषं कृष्णपिङ्गलम् ॥ इति । [ंहाणू १३.४]

एको ह नारायण आसीन्न ब्रह्मा न च शङ्करः ।
स मुनिर्भूत्वा समचिन्तयत् ।
तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्वरुणरुद्रेन्द्रा इति च ।

तस्मात्तस्यैव वर्णनीयत्वमपि युक्तम् ॥१२.५॥ श्रीसूतः ॥१६॥

[१७]

ननु त्रयाणामेकभावानां यो न पश्यति वै भिदां, तथा न ते मय्य्
अच्युतेऽजे च भिदामण्वपि चक्षते इत्य्[भागवतम् १२.१०.१७] आदावभेदः श्रूयत
पुराणान्तरे च विष्णुतस्तयोर्भेदे नरकः श्रूयते सत्यं वयमपि भेदं
न ब्रूमः ।

परमपुरुषस्यैव तत्तद्रूपमित्येकात्मत्वेनैवोपक्रान्तत्वात् । शिवो
ब्रह्मा च भिन्नस्वभावादितया दृश्यमानोऽपि प्रलये सृष्टौ न तस्मात्
स्वतन्त्र एकान्य ईश्वर इति न मन्तव्यं किन्तु विष्वात्मक एव सः इति हि
तत्रार्थः । तदुक्तं ब्रह्मणि ब्रह्मरूपः स इत्य्[Vआमनড়्] आदि ।

न च प्रकाशस्य साक्षादसाक्षाद्रूपत्वाद्तारतम्यं वयं कल्पयामः
परं शास्त्रमेव वक्ति । शास्त्रं तु दर्शितम् । एवं भगवद्
अवतारानुक्रमणिकासु त्रयाणां भेदमङ्गीकृत्यैव केवलस्य श्रीदत्तस्य
गणना सीमदूर्वासोस्त्वगणना । किं च ब्राह्मे ब्रह्मवैवर्ते च
ब्रह्मवाक्यं

नाहं शिवो न चान्ये च
तच्छक्त्येकांभागिनः ।
बालक्रीडनकैर्यद्वत्
क्रीडतेऽस्माभिरच्युतः ॥ इति ।

अतएव श्रुतौ यं कामये तमुग्रं कृणोमि तं ब्रह्माणं तमुषिं तं
सुमेधामित्युक्त्वा मम योनिरप्स्वन्तरिति [ऋग्वेद १०.१२५.५,७] शक्ति
वचनम् । अप्स्वन्तरिति कारणोदशायी सूच्यते । आपो नारा इति प्रोक्ता इत्यादेः ।
योनिः कारणम् । एवमेव स्कान्दे

ब्रह्मेशानादिभिर्देवैर्
यत्प्राप्तुं नैव शक्यते ।
तद्वत्स्वभावः कैवल्यं
स भवान् केवओल्हरे ॥ इति ।

तथा विष्णुसामान्यदर्शिनो दोषः श्रूयते । यथा वैष्णवतन्त्रे

न लभेयुः पुनर्भक्तिं हरेरैकान्तिकीं जडाः ।
ऐका यं मनसश्चापि विष्णुसामान्यदर्शिनः ॥ इति ।

अन्यत्र

यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम् ॥ इति [Vऐष्णवतन्त्र] ।

तथा च मन्त्रवर्णः । मध्ये वामनमासीनं विश्वे देवा उपासत
[Kअठऊ २.२.३] इति ।

ननु क्वचिदन्यशास्त्रे शिवस्यैव परमदेवत्वमुच्यते सत्यं तथापि
शास्त्रस्य सारासारत्वविवेकेन तद्वाधितमिति । तथा च पाद्मशैवयोर्
उमां प्रति श्रीशिवेन श्रीविष्णुवाक्यमनुकृतम्

त्वामाराध्य तया शम्भो ग्रहीष्यामि वरं सदा ।
द्वापरादौ युगे भूत्वा प्रलया मनुषादिषु ॥
स्वागमैः कल्पितैस्त्वं तु जनान्मद्विमुखं कुरु ।
मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा ॥ इति ।

वाराहे च

एष महीं सृजाम्याशु यो जनान्मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥ इति ।

पुराणानां च मध्ये यद्यत्तामसकल्पकथामयं तच्छिवादिमहिम
परमिति श्रीविष्णुप्रतिपादकपुराणस्यैव सम्यग्ज्ञानप्रदत्वम् ।
सत्त्वात्सञ्जायते ज्ञानमिति दर्शनात् । तथा च मात्स्ये

सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ।
राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥
तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति ।

अत उक्तं स्कान्दे षण्मुखं प्रति श्रीशिवेन

शिवशास्त्रेषु तद्ग्राह्यं भगवच्छास्त्रयोगिषत् ।
परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।
शास्त्राणां निर्णयस्त्वेषस्तदन्यन्मोहनाय हि ॥ इति ।

तथैव च द्रष्टुं मोक्षधर्मे नारायणोपाख्याने

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्येतानि राजर्षे विद्धि नाना मतानि वै ॥
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते ।
प्राचीन गर्भं तमृषिं प्रवदन्तीह के चन ॥
उमापतिर्भूतपतिः श्रीकन्थो ब्रह्मणः सुतः ।
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् ।
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥
यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः ।
न चैनमेवं जानन्ति तमो भूता विशां पते ॥
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः ।
निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः ॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ।
ससंशयान् हेतुबलान्नाध्यावसति माधवः ॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥

सांख्यं च योगं च सनातने द्वे
वेदाश्च सर्वे निखिलेन राजन् ।
सर्वैः समस्तैरृषिभिर्निरुक्तो
नारायणो विश्वमिदं पुराणम् ॥ इति [ंBह्१२.३३७.५९६८]

अत्रोपान्तरतमा इति श्रीकृष्णद्वैपायनस्यैव जन्मान्तरनामविशेष इति
तत्रैव ज्ञेयम् । अत्रैवं व्याख्येयम् । पञ्चरात्रसम्मतं श्रीनारायणम्
एव सर्वोत्तमत्वेन वक्तुं नानामतं दर्शयति । साङ्ख्यमिति । तत्र
पञ्चरात्रमेव गरिष्ठमाचष्टै पञ्चरात्रस्यैत्नादौ भगवान् स्वयम्
इति । अथ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च इति श्रीगीतासु [गीता
१६.६] श्रूयते । यदेव तानि नानामतानीत्युक्तं तत्त्वासुरप्रकृत्य्
अनुसारेणेति ज्ञेयम् । दैवप्रकृतयस्तु तत्तत्सर्वावलोकेन पञ्चरात्र
प्रतिपाद्ये श्रीनारायण एव पर्यवस्यन्तीत्याह सर्वेष्विति । आसुरास्तु
निन्दति न चैनमिति । तदुक्तं विष्णुधर्माग्निपुराणयोः

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
विष्णुभक्तिपरो दैव आसुरस्तद्विपर्ययः ॥ इति ।

ननु तत्र तत्र नानामतय एव दृश्यन्ते तत्राह तमेव इति ।
पञ्चरात्रेतरशास्त्रकर्तारो हि द्विविधाः किञ्चिज्ज्ञाः सर्वज्ञाश्च ।
तत्राद्या यथा स्वस्वज्ञानानुसारेण यत्किञ्चित्तत्त्वैकदेशं वदन्ति
नासाभिरासुराणां मोहनार्थमेव कृतानि शास्त्राणि किन्तु दैवानां
व्यतिरेकेण बोधनार्थम् । ते हि रजस्तमःशबलस्य खण्डस्य च तत्त्वस्य
तथा क्लेशबहुलस्य साधनस्य प्रतिपादकान्येतानि शास्त्राणि दृष्ट्वा
वेदांश्च दुर्गान् दृष्ट्वा निर्विद्य सर्ववेदार्थसारस्य शुद्धाखण्ड
तत्त्वश्रीनारायणस्य सुखमयतद्आराधनस्य च सुष्ठु प्रतिपादके
पञ्चरात्रे एवे गाढं प्रवेक्ष्यन्तीति । तदेतदाह निःसंशयेष्विति । तस्माज्
झटिति वेदार्थप्रतिपत्तये पञ्चरात्रमेवाधेतव्यमित्याह ।

पञ्चरात्रेति । यत एवं तत उपसंहरति साङ्ख्यं च योगश्चेति । तदेवं
पञ्चरात्रप्रतिपाद्यस्य श्रीभगवत एवमुत्कर्षे स्थिते आत्मारामाश्च
मुनय इत्याद्यसकृदपूर्वमुपदिशता श्रीभागवतेन प्रतिपाद्य
रूपस्य तस्य किमुतेत्यपि विवेचनीयम् । तदेतदुक्तानुसारेण सदा
शिवेश्वरत्रिदेवीरूपव्यूहोऽपि निरस्तः । तस्मादेव च श्रीभगवत्
पुरुषयोरेव शैवागमे सदाशिवादिसंज्ञे तन्महिमख्यापनाय धृत
इति गम्यते । सर्वशास्त्रशिरोमणौ श्रीभागवते तु त्रिदेव्यामेव तत्
तारतम्यजिज्ञासा पुरुषभगवतोस्तु तत्प्रसङ्ग एव नास्ति ।

ननु न ते गिरित्राखिललोकपालविरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः
परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदमित्य्[भागवतम्
८.७.३१] अत्र तस्य परत्वं श्रूयते एवाष्टमे । मैवम् । महिम्ना स्तूयमाना
हि देवा वीर्येण वर्धतु इति वैदिक
 
न्यायेन तद्युक्तेः । स हि स्तवः कालकूटनाशनार्थ इति । तत्रैव प्रीते
हरौ भगवति प्रीयेऽहं सचराचर इति [भागवतम् ८.७.४०] । तथा नवमे

वयं न तात प्रभवाम भूम्नि
यस्मिन् परेऽन्येऽप्यजजीवकोषाः ।
भवन्ति काले न भवन्ति हीदृशाः
सहस्रशो यत्र वयं भ्रमामः ॥ इति [भागवतम् ९.४.५६]

एते वयं यस्य वशे मतात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । इति च
तद्वाक्यविरोधातथवा यत्शिवस्य ज्योतिस्तत्र स्थितं परमात्माख्यं
चैतन्यं तत्सम्यग्ज्ञाने तस्याप्यक्षमता युक्तैव । यदुक्तम्
द्युपतयः एव ते न ययुरन्तमनन्ततया त्वमसीति [भागवतम् १०.८७.४१] ।
ब्रह्मसंहितमते तु भगवद्अंशविशेष एव सदाशिवो न त्वन्यः ।
यथा तत्रैव सर्वादिकारणगोविन्दकथने

नियतिः सा रमादेवी तत्प्रिया तद्वशंवदा ।
तल्लिङ्गे भगवान् शम्भुर्ज्योती रूपः सनातनः ॥
या योनिः सा परा शक्तिरित्यादि
तस्मिनाविर्भभूल्लिङ्गे महाविष्णुरित्याद्यन्तम् ॥

तदेतदभिप्रेत्य सदाशिवत्वादिप्रसिद्धिमप्याक्षिप्याह ।

अथापि यत्पदनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्यन्यतमो मुकुन्दात्
को नाम लोके भगवत्पदार्थः ॥ [भागवतम् १.१८.२१]

स्पष्टम् ॥ १.१८ ॥ श्रीसूतः ॥१७॥

[१८]

तस्मान्नाहं न च शिवोऽन्ये च तच्छक्त्य्एकांशभागिनः इत्येवोक्तं
साध्येव इत्याह । ब्रह्मा भवोऽहमपि यस्य कलाः कलाया इति [भागवतम्
१०.६८.३७] ।

शेषं स्पष्टम् ॥ १०.६८ ॥ श्रीबलदेवः ॥१८॥

[१९]

अथ परमात्मपरिकरेषु जीवस्तस्य च तटस्थलक्षणं क्षेत्रज्ञ एता इत्य्
एवोक्तं स्वरूपलक्षणं पाद्मोत्तरखण्डादिकमनुसृत्य श्री
रामानुजाचार्यादतिप्राचीनेन श्रीवैष्णवसम्प्रदायगुरुणा श्री
जामातृमुनिनोपदिष्टम् । तत्र प्रणवव्याख्याने पाद्मोत्तरखण्डं
यथा

ज्ञानाश्रयो ज्ञानगुणश्चेतनः प्रकृतेः परः ।
न जातो निर्विकारश्च एकरूपः स्वरूपभाक् ॥
अणुर्नित्यो व्याप्तिशीलश्चिद्आनन्दात्मकस्तथा ।
अहमर्थोऽव्ययः क्षेत्री भिन्नरूपः सनातनः ॥
अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च ।
एवमाधिगुणैर्युक्तः शेषभूतः परस्य वै ॥
मकारेणोच्यते जीवः क्षेत्रज्ञः परवान् सदा ।
दासभूतो हरेरेव नान्यस्यैव कदाचन ॥ इति ।

श्रीजामातृमुनिनाप्युपदिष्टं, यथा

आत्मा न देवो न नरो न तिर्यक्स्थावरो न च ।
न देहो नेन्द्रियं नैव मनः प्राणो न नापि धीः ॥
न जडो न विकारी च ज्ञानमात्रात्मको न च ।
स्वस्मै स्वयं प्रकाशः स्यादेकरूपः स्वरूपभाक् ॥
चेतनो व्याप्तिशीलश्च चिदानन्दात्मकस्तथा ।
अहमर्थः प्रतिक्षेत्रं भिन्नोऽणुर्नित्यनिर्मलः ॥
तथा ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मकः ।
परमात्मैकशेषत्वस्वभावः सर्वदा स्वतः ॥ इति ।

श्रीरामानुजभाष्यानुसारेण व्याख्या चेयम् । तत्र देवादित्वं निरस्तम्
एवास्ति तत्त्वसन्दर्भे ।

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु
प्राणो हि जीवमुपधावति तत्र तत्र ।
सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते
कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ [भागवतम् ११.३.३९] इत्यनेन ॥

देहादित्वं निरस्यन्नाह

विलक्षणः स्थूलसूक्ष्माद्
देहादात्मेक्षिता स्वदृक् ।
यथाग्निर्दारुणो दाह्याद्
दाहकोऽन्यः प्रकाशकः ॥ [भागवतम् ११.१०.८]

विलक्षणत्वे हेतुरीक्षिता तस्य द्रष्टा प्रकाशकश्च स्वयं तु स्वदृक्स्व
प्रकाश इति ॥ श्रीभगवान् ॥१९॥

[२०]

जडत्वं निरस्यन्नाह

जाग्रत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ [भागवतम् ११.१३.२७]

या तु मयि तुर्ये स्थितो जह्यादित्यादौ [भागवतम् ११.१३.२८] परमेश्वरेऽपि तुर्यत्व
प्रसिद्धिः सान्यथैव ।

विराठिरण्यगर्भश्च कारणं चेत्युपाधयः ।
ईश्वरस्य यत्त्रिभिर्हीनं तुरीयं तत्पदं विदुः ॥[*Eण्ड्ण्Oट्E ॰४]

इत्याद्य्उक्तेर्वासुदेवस्य चतुर्व्यूहे तुर्यकक्षाक्रान्तत्वाद्
वा ॥ ११.१३ ॥ श्रीभगवान् ॥ २० ॥

[२१]

विकारित्वं निरस्यन्नाह

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।
कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥ [भागवतम् ११.७.४८]

चन्द्रस्य जलमयमण्डलत्वात्कलानां सूर्यप्रतिच्छविरूपज्योतिर्
आत्मत्वात्यथा कलानामेव जन्माद्या नाशान्ता भावा न तु चन्द्रस्य
तथा देहस्यैव ते भावा अव्यक्तवर्त्मना कालेन भवन्ति न त्वात्मन
इत्यर्थः । श्रीदत्तात्रेयो यदुम् ॥२१॥

[२२]

ज्ञानात्मको न चेति किं तर्हि ज्ञानमात्रत्वेऽपि ज्ञानशक्तित्वं प्रकाशस्य
प्रकाशनशक्तित्ववत्तादृक्त्वमपि ।

नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद्व्यभिचारिणां हि ।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ इत्यनेन [भागवतम् ११.३.३७]

तत्त्वसन्दर्भ एव दर्शितम् । उपलब्धिमात्रत्वेऽपि सबलवत्त्वेनोक्तेः ।
अतएव शुद्धो विचष्टे ह्यविशुद्धकर्तुरित्युक्तम् । प्रकारान्तरेणापि तद्
आह

गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।
विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ [भागवतम् ३.२६.५]

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता ५.१५] इति

॥ ३.२६ ॥ श्रीकपिलदेवः ॥२२॥

[२३]

शक्त्य्अन्तरं चाहुः स यदजया त्वजामनुशयीत गुणांश्च जुषन्
भजति सरूपतां तदनु मृत्युमुपेतभग इति [भागवतम् १०.८७.३८] ॥

टीका च स तु जीवः यद्यस्मादजया मायया अजामविद्यामनुशयीत
आलिङ्ग्येत ततो गुणांश्च देहेन्द्रियादीन् गुषन् सेवमानः आत्मतया
अध्यस्यन् तदनु तद्अनन्तरं सरूपतां तद्धर्मयोगं च जुषनपेत
भगः पिहितानन्दादिगुणः सन्मृत्युं संसारं भजति प्राप्नोति इत्य्
एषा ॥ १०.८७ ॥ श्रुतयः ॥२३॥

[२४]

तथा

तत्सङ्गभ्रंितैश्वर्यं
संसरन्तं कुभार्यवत् ।
तद्गतीरबुधस्येह
किमसत्कर्मभिर्भवेत् ॥[भागवतम् ६.५.१५]

तस्याः पुंश्चलीरूपाया मायायाः सङ्गेन भ्रंशितमैश्वर्यं किञ्चित्
स्वीयज्ञानादिसामर्थ्यं यस्य तम् । तस्या गतीः संस्मरन्तं गच्छन्तं
जीवं स्वस्वरूपमबुधस्याजानत इत्यर्थः ॥६.५॥ हर्यश्वाः ॥२४॥

[२५]

तथा

ईश्वरस्य विमुक्तस्य
कार्पण्यमुत बन्धनम् ॥ [भागवतम् ३.७.९]

ईश्वरस्य किञ्चिज्ज्ञानादिशक्तिमतः ॥ ३.७ ॥ मैत्रेयः ॥२५॥

[२६]

तथा

विप्रलब्धो महिष्यैवं
सर्वप्रकृतिवञ्चितः ।
नेच्छन्ननुकरोत्यज्ञः
क्लैब्यात्क्रीडामृगो यथा ॥ [भागवतम् ४.२५.६२]

महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या
ज्ञानादिरूपया वञ्चितः त्याजितः सन्नेच्छन् तद्इच्छयैवेत्यर्थः ।
अनुकरोति तद्धर्मात्मन्यध्यस्यति । अत्र जीवस्य शक्तिमत्तायां
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययावित्येतत्सूत्रम्
अप्यनुसन्धेयम् ॥ श्रीनारदः प्राचीनबर्हिषम् ॥२६॥

[२७}

पूर्वोक्तमेवार्थं व्यञ्जयितुं स्वस्मै स्वयं प्रकाश इत्युक्तम् ।
तथाभूतत्वं च विलक्षण इत्याद्युक्तपद्य एव स्वदृगित्यनेन व्यक्तम्
अस्ति । तत्र प्रकाशस्तावद्गुणद्रव्यभेदेन द्विविधः । प्रथमो
निजाश्रयस्य स्फूर्तिरूपः । द्वितीयः स्वपरस्फूर्तिनिदानं वस्तुविशेषः ।
तत्रात्मनो द्रव्यत्वादयमेव गृह्यते । यथा दीपश्चक्षुः प्रकाशयन्
स्वरूपस्फूर्तिं स्वयमेव करोति न तु घटादिप्रकाशवत्तद्आदि
साक्षेपः । तस्मादयं स्वयं प्रकाशः । तथापि स्वं प्रति न प्रकाशते
यत एव जड इत्युच्यते । तस्मात्तु स्वं परं च प्रकाशयन् स्वात्मानं प्रति
प्रकाशमानत्वात्स्वस्मै स्वयं प्रकाशः । यत एव चिद्रूप उच्यते । तद्
उक्तमन्यैरपि । स्वयं प्रकाशत्वं स्वव्यवहारे परानपेक्षत्वात्
अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं चेति ।तत्र पूर्वत्र
स्वस्मैपदमपेक्ष्यमुत्तरत्र तु स्पष्टार्थम् । अतः स्वदृक्स्वस्मै
स्वयं प्रकाश इत्यर्थः । न चासौ परमात्मप्रकाश्यत्वे घटवत्पर
प्रकाश्यः परमात्मनस्तत्परमस्वरूपत्वेन परप्रकाश्यत्वाभावात् ।
एवमेवाह द्वाभ्याम् ।

ममाङ्ग माया गुणमय्यनेकधा
विकल्पबुद्धीश्च गुणैर्विधत्ते ।
वैकारिकस्त्रिविधोऽध्यात्ममेकम्
अथाधिभूतमधिदैवमन्यत् ॥

दृग्रूपमार्कं वपुरत्र रन्ध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यदेषामपरो य आद्यः
स्वयानुभूत्याखिलसिद्धसिद्धिः ॥ [भागवतम् ११.१२.३०३१]

विकल्पं भेदं तद्बुद्धीश्च । अनेकधात्वं प्रपञ्चयति वैकारिक इति ।
अनेकविकारवानप्यस्यौ स्थूलदृष्ट्या तावत्त्रिविधः । त्रैविध्यमाह
अध्यात्म इत्यादिना । तानि क्रमेणाह दृग्आदित्रयेण । वपुरंशः । अत्र
रन्ध्रे दृग्गोलके प्रविष्टं तत्त्रयं च परस्परमेव सिध्यति न तु
स्वतः । यस्तु खे आकाशे अर्को वर्तते स पुनः स्वतः सिध्यति । चक्षुर्
विषयत्वेऽपि स्वविरोधिनः प्रतियोग्यप्रेक्षाभावमात्रेण स्वत इत्युक्तम् ।
एवं यथा मण्डलात्मार्कः स्वतः सिध्यति तथात्मापीत्याह । यद्यतः
पूर्वोक्तदृष्टान्तहेतोरात्मा एषामध्यात्मादीनां योऽपर आद्यस्तेषाम्
आश्रयः । सोऽपि स्वतः सिध्यति किन्तु स्वयानुभूत्येति चिद्रूपत्वाद्विशेषः ।
न केवलमेतावदपि तु अखिलानां परस्परसिद्धानां सिद्धिर्यस्मात्
तथाभूतः सन्निति ॥

॥ ११.१२ ॥ श्रीभगवान् ॥२७॥

[२८]

यस्मात्स्वरूपभूतयैव शक्त्या तथा प्रकाशते तस्मादेकरूपस्वरूप
भाक्त्वमपि दीपवदेव । नात्मा जजानेत्यादाव्[भागवतम्
११.३.३७][*Eण्ड्ण्Oट्E ॰५] उपलब्धिमात्रमित्यनेनैवोक्तं मात्रपदं
तद्धर्माणामपि स्वरूपानतिरिक्तत्वं ध्वनयति । अथ चेतनत्वं नाम
स्वस्य चिद्रूपत्वेऽप्यन्यस्य देहादेश्चेतयितृत्वं दीपादिप्रकाशयितृत्ववत् ।
तदेतद्विलक्षण इत्यादावेव दृष्टान्तेनोक्तम् । प्रकाशक इति चेतयितृत्वे
हेतुः । व्याप्तिशीलत्वमुदाहरिष्यमाण आत्मेत्यादौ श्रीप्रह्लादवाक्ये
व्यापक इत्यनेनोक्तं व्याप्तिशीलत्वमतिसूक्ष्मतया सर्वाचेतनान्तः
प्रवेशस्वभावत्वम् । ज्ञानमात्रात्मको न चेत्यत्र चिद्आनन्दात्मक इत्य्
अपि हेत्व्अन्तरम् । तत्र तस्य जडप्रतियोगित्वेन ज्ञानत्वं दुःख
प्रतियोगित्वेन तु ज्ञानत्वमानन्दत्वं च । ज्ञानत्वं तूदाहृतम् ।
आनन्दत्वं निरुपाधिप्रेमास्पदत्वेन साधयति ।

तस्मात्प्रियतमः स्वात्मा
सर्वेषामेव देहिनाम् ।
तदर्थमेव सकलं
जगच्चैतच्चराचरम् ॥ [भागवतम् १०.१४.५४]

स्पष्टम् ॥ १०.१४ ॥ श्रीशुकः ॥२८॥

[२९]

तस्मिंश्चानन्दात्मके ज्ञाने प्रतिस्वं युष्मद्अर्थत्वं न भवति । किन्त्व्
आत्मत्वादस्मद्अर्थत्वमेव । तच्चास्मद्अर्थत्वमहम्भाव एव ।
ततोऽहमित्येतच्छब्दाभिधेयाकारमेवअ ज्ञानं शुद्ध आत्मा
प्रकृत्यावेशोऽन्यथा नोपपद्यते । यत एवावेशात्तदीयसङ्खात एवाहम्
इत्यहस्मावान्तरं प्राप्नोति तदेतदभिप्रेत्य तस्याहमत्वमाह ।

एवं पराभिध्यानेन
कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु
गुणैरात्मनि मन्यते ॥ [भागवतम् ३.२६.६]

पराभिध्यानेन प्रकृत्यावेशेन प्रकृतिरेवाहमिति मननेन प्रकृति
गुणैः क्रियमाणेषु कर्मसु कर्तृत्वमात्मनि मन्यते । अत्र
निरहम्भावस्य पराभिध्यानासम्भवात्परावेशजाताहङ्कारस्य
चावरकत्वादस्त्येव तस्मिन्नन्योऽहम्भावविशेषः । स च शुद्ध
स्वरूपमात्रनिष्ठत्वान्न संसारहेतुरिति स्पष्टम् । एतदेवाहङ्कार
द्वयं सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तद्
अनुस्मृतिर्न इत्यत्र [भागवतम् ११.३.३९] दर्शितम्[*Eण्ड्ण्Oट्E ॰६] ।
उपाध्वभिमानात्मकस्याहङ्कारस्य प्रसुप्तत्वात्तद्अनुस्मृतिर्न इत्य्
अनेन सुखमहमस्वाप्स्वमित्यात्मनोऽहतयैव परामर्शाच्च अतएव
मामहं नाज्ञासिषमित्यत्र परामर्शेऽपि
उपाध्यभिमानिनोऽनुसन्धानाभावः अन्यस्य त्वज्ञान
साक्षित्वेनानुसन्धानमिति दिक् ।

॥ ३.२६ ॥ श्रीकपिलदेवः ॥२९॥

[३०]

तथा

नृत्यतो गायतः पश्यन्
यथैवानुकरोति तान् ।
एवं बुद्धिगुणान् पश्यन्न्
अनीहोऽप्यनुकार्यते ॥ [भागवतम् ११.१२.५३]

पूर्ववत् ॥ ११.१२ ॥ श्रीभगवान् ॥३०॥

[३१]

एवमेव स्वप्नदृष्टान्तमपि घटयन्नाह ।

यद्अर्थेन विनामुष्य
पुंस आत्मविपर्ययः ।
प्रतीयत उपद्रष्टुः
स्वशिरश्छेदनादिकः ॥ [भागवतम् ३.७.१०]

उपद्रष्टुरमुष्येति स्वप्नद्रष्ट्रा अमुना जीवेनेत्यर्थः ॥ ३.७ ॥ श्री
मैत्रेयः ॥३१॥

[३२]
साधिते च सव्रूपभूतेऽहम्भावे प्रतिक्षेत्रं भिन्नत्वमपि साधितम् ।
यत्तु

वस्तुनो यद्यनानात्वम्
आत्मनः प्रश्न ईदृशः ।
कथं घटेत वो विप्रा
वक्तुर्वा मे क आश्रयः ॥ [भागवतम् ११.१३.२२]

इत्यादौ ज्ञानिनो लौकिकगुरुरीतिं तदीयप्राकृतदृष्टिं वानुसृत्य स्वस्य
जीवान्तरसाधारण्यकल्पनामये श्रीहंसदेववाक्ये जीवात्मनाम्
एकत्वम् । तत्खलु अंशभेदेऽपि ज्ञानेच्छून् प्रति ज्ञानोपयोगित्वेन तम्
अविविच्यैव समानाकारत्वेन । भेदव्यपदेशः यथा तत्रैव ।

पञ्चात्मकेषु भूतेषु समानेष्वपि वस्तुतः ।
को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ [भागवतम् ११.१३.२३] इति ।

तत्राप्यंशभेदोऽस्त्येव । अत उक्तं स्वयं भगवता शुनि चैव श्वपाके
च पण्डिताः समदर्शिनः [गीता ५.१८] इति । निर्दोषं हि समं ब्रह्म इत्यादि
च [गीता ५.१९] । अत्र ब्रह्मेति जीवब्रह्मैवोच्यते । यथा यथाहमेतत्सद्
असत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे इति । मयि ब्रह्मणि
देहात्मकं परे ब्रह्मणि च जगद्आत्मकं सद्असत्कार्यकारण
सङ्घातं स्वविषयकमायया जीवमायाख्यया देह एवाहं तथा इन्द्र
चन्द्राद्य्आत्मकं जगदेवेश्वर इतीदं कल्पितमेव यया मत्या पश्ये
पश्यामीत्यर्थः । समानकारणत्वादेव पूर्ववदन्यत्र च सोऽहं स च
त्वमिति । तदेवं सर्वेषामेव जीवानामेकाकारत्वे सति । यावत्स्याद्गुण
वैषम्यं तावन्नानात्वमात्मनः । नानात्वमात्मनो यावत्पारतन्त्र्यं
तदैव हीत्य्आदिषु देवादिदेहभेदकृतागन्तुकनानात्वं निगद्यते ।

वेणुरन्ध्रविभेदेन
भेदः षड्जादिसंज्ञ्तः ।
अभेदव्यापिनी वायोस्
तथा तस्य महात्मनः ॥ इत्य्[Vइড়् २.१४.३२] आदिकं तु परमात्मविषयकम्
एव ।

तदेतत्सर्वमभिप्रेत्य जीवानां प्रतिक्षेत्रं भिन्नत्वं स्वपक्षत्वेन
निर्दिशन्ति । अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता इति ॥ [भागवतम् १०.८७.३०]
 
अत्र यदिशब्दात्पूर्वपाठेनापरिमितत्वं ध्रुवत्वं चासन्दिग्धमिति
तत्र स्वपक्षत्वं पश्चात्पाठेन सर्वगतत्वं तु सन्दिग्धमिति । तत्र
परपक्षत्वं स्पष्टमेव । अतएव एको देवः सर्वभूतेषु गूढ इत्य्
आदिकं पर्मात्मपरं वाक्यं जीवानामेकत्वं
बोधयति ॥ १०.८७ ॥ श्रुतयः ॥३२॥

[३३]

प्रतिक्षेत्रभिन्नत्वे हेत्व्अन्तरमणुरिति । अणुः परमाणुरित्यर्थः ।
परमाणुश्च यस्य दिग्भेदेऽप्यंशो न कल्पयितुं शक्यते स एवांशस्य
परा काष्ठेति तद्विदः । अणोरप्यखण्डदेहचेतयितृत्वं प्रभाव
विशेषाद्गुणादेव भवति । यथा शिर आदुअ धार्यमाणस्य जतु
जठितस्यापि महौषधिखण्डस्याखण्डदेहपुष्टीकरणादिहेतुः
प्रभावः । यथा वायस्कान्तादेर्लौहचालनादिहेतुः प्रभाव एव तद्वत् ।
तदेतदणुत्वमाह सूक्ष्माणामप्यहं जीव इति [भागवतम् ११.१६.११]

तस्मात्सूक्ष्मतापराकाष्ठाप्राप्तो जीव इत्यर्थः । दुर्ज्ञेयत्वाद्यत्
सूक्ष्मत्वं तदत्र न विवक्षितम् । महतां च महानहं सूक्ष्माणाम्
अप्यहं जीव इति परस्परप्रतियोगित्वेन वाक्यद्वयस्यानन्दर्यौक्तौ
स्वारस्यभङ्गात् । प्रपञ्चमध्ये हि सर्वकारणत्वान्महत्तत्त्वस्य
महत्त्वं नाम व्यापकत्वं न तु पृथिव्याद्य्अपेक्षया सुज्ञेयत्वं यथा
तद्वत्प्रपञ्चे जीवानामपि सूक्ष्मत्वं परमाणुत्वमेवेति स्वारस्यम् ।
श्रुतयश्च एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा
संविवेशेति [ंुण्डू ३.१.९] ।

बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः [श्वेतू ५.९] इति ।

आराग्रमात्रो ह्यपरोऽपि दृष्ट इति च ॥ ११.१६ ॥ श्रीभगवान् ॥३३॥

[३४]

तथा

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास्
तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्
सममनुजानतां यदमतं मतदुष्टतया ॥ [भागवतम् १०.८७.३०]

अयमर्थः परमात्मनोऽंशत्वं तस्माज्जायमानत्वं च जीवस्य
श्रूयते । तत्र ममैवांशो जीव लोके [गीता १५.७] इत्यादि सिद्धेऽंशत्वे तावत्
तस्य विभुत्वमुक्तमित्याहुः । अपरिमिता वस्तुत एवानन्तसङ्ख्या नित्याश्
च ये तनुभृतो जीवास्ते यदि सर्वगता विभवाः स्युः, तर्हि तेषां
व्याप्यत्वाभावेन समत्वात्शास्यतेति नियमो न स्यात् । ईश्वरो नियन्ता जीवो
नियम्य इति वेदकृतनियमो न घटत इत्यर्थः । हे ध्रुव इतरथा
जीवस्याणुत्वेन व्याप्यभावे तु सति न तन्नियमो न अपि तु स घटत एवेत्य्
अर्थः ।

अथ यतो वा इमानि भूतानि जायन्ते इति जायमानत्वावस्थायामपि व्याप्य
व्यापकत्वेनैव नियन्तृत्वं भवति । सर्वत्रैव कार्यकारणयोस्
तथाभावदर्शनादित्याहुः अजनीति । यन्मयं यद्उपादानकं यदजनि
जायत इत्यर्थः । तद्उपादानं कर्तृ तस्य जायमानस्य यन्नियन्तृ भवेत्
तदविमुच्य किञ्चिदप्यनुक्ता व्याप्यैवेत्यर्थः । किं च यद्उपादान
रूपं परमात्माख्यं तत्त्वं केनाप्यपरेण समं समानमित्य्
अनुजानतां यः कश्चित्तथा वदति तत्रानुज्ञामपि ददताममतं ज्ञातं
न भवतीत्यर्थः । तत्र हेतुः मतदुष्टतया तस्य मतस्याशुद्धत्वेन ।
तत्राशुद्धत्वं श्रुत्वा च विरोधात् । श्रुतिश्च असमो वा एष परो न हि
कश्चिदेव दृश्यते सर्वे त्वेते न वा जायन्ते च म्रियते सर्वे ह्यपूर्णाश्च
भवन्तीति चतुर्वेदशिखायाम् । न तत्समश्चाभ्यधिकश्च दृश्यते इति ।

अथ कस्मादुच्यते ब्रह्मा बृंहति बृंहयति चेति चान्यत्र । बृहत्वाद्
बृंहणत्वाच्च यद्ब्रह्म परमं विदुरिति [Vइড়् १.१२.५७] श्रीविष्णुपुराणे ।
अतः परमात्मन एव सर्वव्यापकत्वम् । एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा इत्यादौ । तस्मादणुरेव जीव इति ।

यत्तु श्रीभगवद्गीतासु नित्यः सर्वगतः स्थाणुरित्यादिना जीव
निरूपणं तत्र सर्वगतः श्रीभगवानेव तत्स्थस्तद्आश्रितश्चासाव्
अगुणश्च इति सर्वगतः स्थाणुर्जीवः प्रोक्तः ॥ १०.८७ ॥ श्रुतयः ॥३४॥

[३५]

अथ शुद्धस्वरूपत्वान्नित्यनिर्मलत्वमुदाहृतमेव । शुद्धो विचष्टे
ह्यविशुद्धकर्तुरित्यनेन । तथा तेनैव शुद्धस्यापि ज्ञातृत्वमप्य्
उदाहृतम् । ज्ञानं च नित्यस्य स्वाभाविकधर्मत्वान्नित्यम् । अतएव न
विक्रियात्मकमपि । तथा चैतन्यसम्बन्धेन देहादेः कर्तृत्वदर्शनात् ।
क्वचिदचेतनस्य कर्तृत्वं च । न ऋते तत्क्रियते किं च नारे इत्यादाव्
अन्तर्यामिचैतन्यसम्बन्धेन भवतीत्यङ्गीकाराच्च शुद्धादेव
कर्तृत्वं प्रवर्तते । तदुक्तम् देहेन्द्रियप्राणमनोधियोऽमी यद्अंश
बिद्धाः प्रचरन्ति कर्मस्विति [भागवतम् ६.१६.२४] । तत्तूपाधिप्राधान्येन
प्रवर्तमानमुपाधिधर्मत्वेन व्यपदिश्यते । यथा कार्यकारण
कर्तृत्वे कारणं प्रकृतिं विदुरित्य्[भागवतम् ३.२६.८] आदौ । परमात्म
प्राधान्येन प्रवर्तमानं तु निरुपाधिकमेवेत्याह ।

सात्त्विकः कारकोऽसङ्गी
रागान्धो राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टो
निर्गुणो मद्अपाश्रयः ॥ [भागवतम् ११.२५.२६]

स्पष्टम् ॥ ११.२५ ॥ श्रीभगवान् ॥३५॥

[३६]

अथ भोक्तृत्वं संवेदनरूपत्वेन यथा तथा तत्रैव चिद्रूपे
पर्यवस्यतीत्याह भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परमिति
[भागवतम् ३.२६.८] ॥ कारणमिति पूर्वेणैवान्वयः ॥ ३.२६ ॥ श्रीकपिलदेवः ॥३६॥

[३७]

अथ परमात्मैकशेषत्वेति व्याख्येयम् । एकः परमात्मनोऽन्यः
शेषोऽंशः । स चासौ स च एकशेषः । परमात्मन एकशेषः परमात्मैक
शेषः । तस्य भावस्तत्त्वं तदेव स्वभावः प्रकृतिर्यस्य स
परमात्मैकशेषत्वस्वभावः । तथाभूतश्चायं सर्वदा मोक्ष
दशायामपीत्यर्थः । एतादृशत्वं चास्य स्वतः स्वरूपत एव न तु
परिच्छेदादिना । तदीयस्वाभाविकाचिन्त्यशक्त्या स्वाभाविकतदीयरश्मि
परमाणुस्थानीयत्वातौपाधिकावथायास्त्वंशेन प्रकृतिशेषत्वमपि
भवति इति च स्वत इत्यस्य भावः । शक्तिरूपत्वं चास्य तटस्थशक्त्य्
आत्मकत्वात्, तथा तदीयरश्मिस्थानीयत्वेऽपि नित्यतद्आश्रयित्वात्तद्
व्यतिरेकेण व्यतिरेकात् । हेतुर्भावोऽस्य सर्गादेरित्यनुसारेण जगत्सृष्टौ
तत्साधनत्वात् । द्रव्यस्वरूपत्वेऽपि प्रधानसाम्याच्चावगम्यते । उक्तं
च प्रकृतिविशेषत्वेन तस्य शक्तित्वम्

विष्णुशक्तिः परा प्रोक्ता
क्षेत्रज्ञाख्या तथा परा ।
अविद्या कर्मसंज्ञाख्या
तृतीया शक्तिरुच्यते ॥ इति विष्णुपुराणे [Vइড়् ६.७.६१] ।

भूमिरापोऽनलो वायुरित्य्[गीता ७.४] आदौ भिन्ना प्रकृतिरष्टधेत्य्
अनन्तरम् ।

अपरेयमितस्त्वन्यां
प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो
ययेदं धार्यते जगत् ॥ इति श्रीगीतोपनिषत्सु च ।

विष्णुशक्तिः परा प्रोक्तेत्यादि विष्णुपुराणवचने तु तिसॄणामेव पृथक्
शक्तित्वनिर्देशात्क्षेत्रज्ञस्याविद्याकर्मसम्बन्धेन शक्तित्वमिति परास्
तम् । किन्तु स्वरूपेनैवेत्यायातम् । तथा च गीतं ममैवांश इति ।
अतएवापरेयमितस्त्वन्यामित्युक्तम् । क्षेत्रज्ञ एता मनसो विभूतीरित्य्
आदौ क्षेत्रज्ञशब्दश्च शुद्धेऽपि प्रवर्तते क्षेत्रशब्दस्योपलक्षण
मात्रत्वात् ।

तदेवं शक्तित्वेऽप्यन्यत्वमस्य तटस्थत्वात् । तटस्थत्वं च मायाशक्त्य्
अतीतत्वात् । अस्याविद्यापराभवादिरूपेण दोषेण परमात्मनो लेपाभावाच्
चोभयकोटावप्रवेशात् । तस्य तच्छक्तित्वे सत्यपि परमात्मनस्तल्
लेपाभावश्च यथा क्वचिदेकदेशस्थे रश्मौ छायया तिरस्कृतेऽपि
सूर्यस्यातिरस्कारस्तद्वत् । उक्तं च तटस्थत्वं श्रीनारदपञ्चरात्रे

यत्तटस्थं तु चिद्रूपं
स्वसंवेद्याद्विनिर्गतम् ।
रञ्जितं गुणरागेण
स जीव इति कथ्यते ॥ इत्यादौ ।

अतो विष्णुपुराणेऽप्यन्तराल एव पठितोऽसौ । अन्यत्वं च श्रुतौ अस्मान्
मायी सृजते विश्वमेतत्तस्मिंश् चान्यो मायया संनिरुद्धः [श्वेतू ४.९] ।
तयोरन्यः पिप्पलं स्वाद्वत्ति इत्यादौ । अतएवोक्तं वैष्णवे विभेदजनके
ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः
करिष्यतीति । देवत्वमनुष्यत्वादिलक्षणो विशेषतो यो भेदस्तस्य जनकेऽप्य्
अज्ञाने नाशं गते ब्रह्मणः परमात्मनः सकाशादात्मनो जीवस्य यो
भेदः स्वाभाविकस्तं भेदमसन्तं कः करिष्यति अपि तु सन्तं
विद्यमानमेव सर्व एव करिष्यतीत्यर्थः । उत्तरत्र पाठे नासन्तमित्य्
एतस्य विधेयत्वादन्यार्थः कष्टसृष्ट एवेति मोक्षदायामपि तद्
अंशत्वाव्यभिचारः स्वाभाविकशक्तित्वादेव । अतएवाविद्याविमोक्ष
पूर्वकस्वरूपावस्ह्तितिलक्षणायां मुक्तौ तल्लीनस्य तत्साधर्म्यापत्तिर्
भवति । निरञ्जनः परमं साम्यमुपैतीत्यादिश्रुतिभ्यः । इदं ज्ञानम्
उपाश्रित्य मम साधर्म्यमागताः । स्वर्गेऽपि नोपजायते प्रलये न
व्यथन्ति चेति श्रीगीतोपनिषद्भ्यश्च । अतएव ब्रह्म वेद ब्रह्मैव
भवतीत्य्[ंुण्ड्३.२.९] आदिषु च ब्रह्मतादात्म्यमेव बोधयति ।
स्वाभाव्यापत्तिरुपपत्तेरितिवत् । तदेवं शक्तित्वे सिद्धे शक्तिशक्तिमतोः
परस्परानुप्रवेशात्शक्तिमद्व्यतिरेके शक्तिव्यतिरेकात्चित्त्वाविशेषाच्च
क्वचिदभेदनिर्देश एकस्मिन्नपि वस्तुनि शक्तिवैविध्यदर्शनात्भेद
निर्देशश्च नासमञ्जसः । श्रीरामानुजीयास्तु अधिष्ठानाधिष्ठात्रोरपि
जीवेशयोरभेदव्यपदेशो व्यक्तिजात्योर्गवादिव्यपदेशवदिति मन्यन्ते ।
यथा श्रीविष्णुपुराणे[*Eण्ड्ण्Oट्E ॰७]

योऽयं तवागतो देव
समीपं देवतागणः ।
स त्वमेव जगत्स्रष्टा
यतः सर्वगतो भवान् ॥ इति ।

श्रीगीतासु च सर्वं समाप्नोषि ततोऽसि सर्व इति । तत्र ज्ञानेच्छून् प्रति
शास्त्रमभेदमुपदिशति भक्तीच्छून् प्रति तु भेदमेव । क्वचित्तु
परमात्मप्रतिबिम्बत्वं यदस्य श्रूयते, यथा

यथा पुरुष आत्मानमेकमादर्शचक्षुषोर्द्विधाभूतमेवेक्षेत
तथैवान्तरमावयोरिति । तदपि ज्ञानेच्छून् प्रत्यभेददृष्टि
पोषणार्थमेवोच्यते न वास्तववृत्त्यैव प्रतिबिम्बत्वेन । अद्वयवाद
गुरुमतेऽप्यम्बुवदग्रहणाद्[*Eण्ड्ण्Oट्E ॰८] इति [Vस्३.२.१९] न्याय
विरोधाद्वृद्धिह्रासभाक्त्वमन्त्रभावादुभयसामञ्जस्यादेवमिति
[Vस्३.२.२०] न्यायेन यथाकथञ्चित्प्रतिबिम्बसादृश्यमात्राङ्गीकाराच्च ।
तदेतत्तस्य पर्मात्मांशरूपताया नित्यत्वं श्रीगीतोपनिषद्भिरपि
दर्शितं ममैवांशो जीवलोके जीवभूतः सनातन इति । तदेवमंशत्वं
तावदाह तत्र समष्टेः

एष ह्यशेषसत्त्वानाम्
आत्मांशः परमात्मनः ।
आद्योऽवतारो यत्रासौ
भूतग्रामो विभाव्यते ॥ [भागवतम् ३.६.८]

टीका च अशेषसत्त्वानां प्राणिनामात्मा व्यष्टीनां तद्अंशत्वातंशो
जीवः । अवतारतोक्तिस्तस्मिन्नारायणाविर्भावाभिप्रायेणेत्येषा ॥ ३.६ ॥ श्री
शुकः ॥ ३७ ॥

[३८]

अथ व्यष्टेः

एकस्यैव ममांशस्य
जीवस्यैव महामते ।
बन्धोऽस्याविद्ययानादेर्
विद्यया च तथेतरः ॥ [भागवतम् ११.११.४]

इतरो मोक्षः । अत्र रश्मिपरमाणुस्थानीयो व्यष्टिः । तत्र सर्वाभिमानी
कश्चित्समष्टिरिति ज्ञेयम् ॥ ११.११ ॥ श्रीभगवान् ॥३८॥
[३९]

तत्र शक्तित्वेनैवांशत्वं व्यञ्जयन्ति

स्वकृतपुरेऽप्यमीष्वबहिर्अन्तरसंवरणं
तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् । [भागवतम् १०.८७.२०] इति ।

अबहिर्अन्तरसंवर्णं बहिर्बहिरङ्गाणि कारणानि कार्याणि अन्तर्
अन्तरङ्गानि तैरसंवरणं कार्यकारणैरसंस्पृष्टम् । अंशकृतम्
अंशमित्यर्थः । अखिलशक्तिधृतः सर्वशक्तिधरस्येति विशेषणं जीव
शक्तिविशिष्टस्यैव तव जीवोऽंशो न तु शुद्धस्येति गमयित्वा जीवस्य तच्
छक्तिरूपत्वेनैवांशत्वमित्यनेनैवांशत्वमित्येतद्व्यञ्जयन्ति । अथ
तटस्थत्वं च स यदजया त्यजामनुशयीतेत्यादौ व्यक्तमस्ति
उभयकोटावप्रविष्टत्वादेव ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥३९॥

[४०]

अथ ज्ञानेच्छुं प्रति जीवेशयोरभेदमाह

अहं भवान्न चान्यस्त्वं
त्वमेवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश्
छिद्रं जातु मनागपि ॥ [भागवतम् ४.२८.६२]

स्पष्टम् ॥ ४.२८ ॥ श्रीपरमात्मा पुरञ्जनम् ॥ ४० ॥

[४१]
तत्र पूर्वोक्तरीत्या प्रथमं तावत्सर्वेषामेव तत्त्वानां
परस्परानुप्रवेश
विवक्षयैक्यं प्रतीयते इत्येवं शक्तिमति परमात्मनि जीवाख्यशक्त्य्
अनुप्रवेशविवक्षैव तयोरैक्यपक्षे हेतुरित्यभिप्रैते श्रीभगवान्

परस्परानुप्रवेशात्
तत्त्वानां पुरुषर्षभम् ।
पौर्वापर्यप्रसङ्ख्यानं
यथा वक्तुर्विवक्षितम् ॥ [भागवतम् ११.२२.७]

टीका च अन्योन्यस्मिन्ननुप्रवेशाद्वक्तुर्यथा विवक्षितं तथा पूर्वा
अल्पसङ्ख्या अपरा अधिकसङ्ख्या तयोर्भावः परुवापर्यं तेन
प्रसङ्ख्यानं गणनमित्येषा ॥ ११.२२॥ श्रीभगवान् ॥ ४१ ॥

[४२]

अथाव्यतिरेकेण चिद्रूपत्वाविशेषेणापि तयोरैक्यमुपदिशति

पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि ।
तद्अन्यकल्पनापार्था इति [भागवतम् ११.२२.११] ।
टीका च कथं तर्हि पञ्चविंशतिपक्षस्तत्राह पुरुषेति । वैलक्षण्यं
विसदृशत्वं नास्ति द्वयोरपि चिद्रूपत्वात् । अतस्तयोरत्यन्तमन्यत्व
कल्पनापार्था इत्येषा । अत्र सदृशत्वानन्यत्वाभ्यां तयोः शक्ति
शक्तिमत्त्वं दर्शितम् । तेनाव्यतिरेकोऽपि ॥ ११.२१ ॥ श्रीभगवान् ॥४२॥

[४३]

अथ भक्तीच्छुं प्रति तयोर्भेदमुपदिशति ।

यदा रहितमात्मानं
भूतेन्द्रियगुणाशयैः ।
स्वरूपेण मयोपेतं
पश्यन् स्वाराज्यमृच्छति ॥ [भागवतम् ३.९.३३]

आत्मानं जीवं स्वरूपेण तस्या जीवशक्तेराश्रयभूतेन शक्तिमता मया
उपेतं युक्तम् । स्वाराज्यं सार्ष्ट्यादिकम् ॥ ३.९ ॥ ग्रभोदशायी
ब्रह्माणम् ॥४३॥

[४४]

तत्र भेदे हेतुमाह

अनाद्य्अविद्यायुक्तस्य
पुरुषस्यात्मवेदनम् ।
स्वतो न सम्भवादन्यस्
तत्त्वज्ञो ज्ञानदो भवेत् ॥ [भागवतम् ११.२२.१०]

टीका च स्वतो न सम्भवति, अन्यतस्तु सम्भवात् । स्वतः सर्वज्ञः
पर्मेश्वरोऽन्यो भवेदिति अड्विंशतितत्त्वपोअक्षाभिप्रायः इत्येषा ।
ज्ञानदत्वमत्र ज्ञानाज्ज्ञातुश्च वैलक्षण्यमीश्वरस्य बोधयत्येवेति
भावः । एवं त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः [भागवतम् ११.२२.२८]
इत्युद्धववाक्यं चाग्रे ।

अत्र यदि जीवाज्ञानकल्पितमेव तस्य परमेश्वरत्वं स्यात्तर्हि स्थाणु
पुरुषवत्तस्य ज्ञानदत्तमपि न स्यादित्यतः सत्य एव जीवेश्वरभेद
इत्येवं श्रीमद्ईश्वरेणैव स्वयं तस्य
पारमर्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितमिति
स्पष्टम् । भेदवादिनश्चात्रैव प्रकरणे यथा विविक्तं यद्वक्त्रं
गृह्णीमो युक्तिसम्भवादित्यत्र परमविवेकजस्तु भेद एवेति । तथा,
मायां मदीयामुदगृह्य वदतां किं नु दुर्घटमिति [भागवतम् ११.२२.४] च
मन्यते ।

ननु,

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।
प्रमाणेष्वनवस्थानाद्विकल्पान् स विरज्यते ॥ इत्य्[भागवतम् ११.१९.१७]

अत्र भेदमात्रं निषिध्यते विकल्पशब्दस्य संशयार्थत्वात् । संशयं
परित्यज्य वस्तुन्येव निष्ठा करोतीत्यर्थः । अतएव कर्मणां
परिणामित्वादाविरिञ्च्यादमङ्गलम् । विपश्चिन्नश्वरं पश्येददृष्टम्
अपि दृष्टवदित्यत्रास्योत्तरश्लोकेऽपि विरिञ्चमेवावधिं कृत्वा नश्वरत्व
दृष्टिरुक्ता न तु वैकुण्ठादिकमपीति ॥ ११.१९ ॥ श्रीभगवान् ॥४४॥

[४५]

अन्यत्रापि श्रीजामातृमुनिभिरुपदिष्टस्य जीवलक्षणस्यविओपजीव्यत्वेन
तं लक्षयति त्रिभिः

अहं ममाभिमानोत्थैः
कामलोभादिभिर्मलैः ।
वीतं यदा मनः शुद्धम्
अदुःखमसुखं समम् ॥ [भागवतम् ३.२५.१६]

तदा पुरुष आत्मानं
केवलं प्रकृतेः परम् ।
निरन्तरं स्वयंज्योतिर्
अणिमानमखण्डितम् ॥ [भागवतम् ३.२५.१७]

ज्ञानवैराग्ययुक्तेन
भक्तियुक्तेन चात्मना ।
परिपश्यत्युदासीनं
प्रकृतिं च हतौजसम् ॥ [भागवतम् ३.२५.१८]

स्पष्टैव योजना । तवाहमिति पद्येन स आत्मा नित्यनिर्मल इति । आत्मानम्
इत्यनेनैवाहमर्थ इति । अन्यथा ह्यात्मत्वप्रतीत्य्अभावः स्यात् ।
केवलमित्यनेनैकरूपस्वरूपभागिति । प्रकृतेः परमित्यनेन विकार
रहितः । भक्तियुक्तेनेत्यनेन परमात्मप्रसादाधीनतत्प्रकाशत्वात्
निरन्तरमित्यनेन नित्यत्वात्परमात्मैकशेषत्वमिति । स्वयं ज्योतिरित्य्
अनेन स्वस्मै स्वयं प्रकाश इति ज्ञानमात्रात्मको न च इति च । अणिमानम्
इत्यनेनाणुरेवेति प्रतिक्षेत्रं भिन्न इति च । अखण्डितमित्यनेन विच्छिन्न
ज्ञानादिशक्तित्वात्ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मक इति
व्यञ्जितम् ॥ ३.२५ ॥ श्रीकपिलदेवः ॥४५॥

[४६]

तथेदमपि प्राक्तनलक्षणाविरुद्धम्

आत्मा नित्योऽव्ययः शुद्ध
एकः क्षेत्रज्ञ आश्रयः ।
अविक्रियः स्वदृघेतुर्
व्यापकोऽसङ्ग्यनावृतः ॥ [भागवतम् ७.७.१९]

एतैर्द्वादशभिर्विद्वान्
आत्मनो लक्षणैः परैः ।
अहं ममेत्यसद्भावं
देहादौ मोहजं त्यजेत् ॥ [भागवतम् ७.७.२०]

अव्ययः अपक्षयशून्यः । एको न तु देहेद्रियादिसङ्घातरूपः । क्षेत्रज्ञो
ज्ञातृत्वादिधर्मकः । इन्द्रियादीनामाश्रयः । स्वाभाविकज्ञातृत्वाद्
एवाविक्रियः । स्वदृक्स्वस्मै स्वयं प्रकाशः । हेतुः सर्गादिनिमित्तम् । तद्
उक्तं श्रीसूतेन हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारक [भागवतम् १२.७.१८]
इति । व्यापको व्याप्तिशीलः । असङ्गी अनावृतश्च स्वतः प्रकाशरूपत्वात् ।
अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेदिति देहाद्य्अधिकरणकस्य
मोहजस्यैव त्यागो न तु स्वरूपभूतस्येत्यहम अर्थ इति । व्यज्जते । तद्
एवं जीवस्तअद्अंशत्वात्सूक्ष्मज्योतीरूप इत्येके । तथैव हि
कौस्तुभांशत्वेन व्यञ्जितम् । तथा च स्कान्दप्रभासखण्डे जीव
निरूपणे

न तस्य रूपं वर्णा वा प्रमाणं दृश्यते क्वचित् ।
न शक्यं कथितुं वापि सूक्ष्मश्चानन्तविग्रहः ॥
बालाग्रशतभागस्य शतधा कल्पितस्य च ।
तस्मात्सूक्ष्मतरो देवः स चानन्त्याय कल्प्य्ते ॥
आदित्यवर्णं सूक्ष्माभमब्बिन्दुमिव पुष्करे ।
नक्षत्रमिव पश्यन्ति योगिनो ज्ञानचक्षुषा ॥ इति ॥

॥७.९॥ श्रीप्रह्लादोऽसुरबालकान् ॥४६॥

[४७]

तदेवमनन्ता एव जीवाख्यास्तटस्थाः शक्तयः । तत्र तासां वर्ग
द्वयम् । एको वर्गोऽनादित एव भगवद्उन्मुखः अन्यस्त्वनादित एव
भगवत्पराङ्मुखः । स्वभावतस्तदीयज्ञानभावात्तदीय
ज्ञानाभावाच्च । अत्र प्रथमोऽन्तरङ्गाशक्तिविलासानुगृहीतो नित्य
भगवत्परिकररूपो गरुडादिकः । यथोक्तं पाद्मोत्तरखण्डे त्रिपाद्
विभूतेर्लोकास्त्वित्यादौ भगवत्सन्दर्भोदाहृते (८१) । अस्य च
तटस्थत्वं जीवत्वप्रसिद्धेरीश्वरत्वकोटावप्रवेशात् । अपरस्य तत्
पराङ्मुखत्वदोषेण लब्धच्छिद्रया मायया परिभूतः संसारी ।
यथोक्तं हंसगुह्यस्तवे सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद
सर्वज्ञमनन्तमीडे इति [भागवतम् ६.४.२५] । एकादशे च भयं
द्वितीयाभिनिवेशतः स्यादिति [भागवतम् ११.२.३७] ।

तद्वर्गद्वयमेवोक्तं श्रीविदुरेणापि

तत्त्वानां भगवंस्तेषां
कतिधा प्रतिसङ्क्रमः ।
तत्रेमं क उपासीरन्
क उ स्विदनुशेरते ॥ [भागवतम् ३.७.३७] इत्यनेन ।

तत्र परमेश्वरपराड्मुखानां शुद्धानामपि तच्छक्तिविशिष्टान्
परमेश्वरात्सोपाधिकं जन्म भवति । तच्च जन्म निजोपाधिजन्मना
निजज्नमाभिमानहेतुकाध्यात्मिकावस्थाप्राप्तिरेव । तदेतदाहुः

न घटत उद्भवः प्रकृतिपुरुषयोरजयोर्
उभययुजा भवन्यसुभृतो जलबुद्बुदवत् ।
त्वयि न इमे ततो विविधनामगुणैः परमे
सरित इवार्णवे मधुनि लिख्युरशेषरसाः ॥ [भागवतम् १०.८७.३१]

प्रकृतेस्त्रैगुण्यं पुरुषं शुद्धौ जीवस्तयोर्द्वयोरप्यजत्वादुद्भवो
न घटते ये चासुभृत आध्यात्मिकरूपाः सोपाधयो जीवा जायन्ते तत्तद्
उभयशक्तियुजा परमात्मनैव कारणेन जायन्ते प्रकृतिविकारप्रलयेण
सुप्तवासनत्वात्शुद्धास्ताः परमात्मनि लीना जीवाख्याः शक्तयः सृष्टि
काले विकारिणीं प्रकृतिमासृज्य क्ष्भितवासनाः सत्यः सोपाधिकावस्थां
प्राप्नुवन्त्य एव व्युच्चरन्तीत्यर्थः । एतदभिप्रेत्यैव भगवानेक
आसेदमित्य्[३.५.२३] आदि तृतीयस्कन्धप्रकरणे

कालवृत्त्या तु मायायां
गुणमय्यामधोक्षजः ।
पुरुषेणात्मभूतेन
वीर्यमाधत्त वीर्यवान् ॥ [भागवतम् ३.५.२६]

इत्यनेन वीर्यशब्दोक्तस्य जीवस्य प्रकृतावाधानमुक्तम् । एवं श्री
गीतोपनिषत्स्वपि मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्
इत्य्[गीता १४.३] अत्रोक्तम् । टीकाकारैश्च ब्रह्मशब्देन प्रकृतिर्व्याख्याता
गर्भशब्देन जीव इति । पुनरेष एव तृतीये

दैवात्क्षुभितधर्मिण्यां
स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं सासूत
महत्तत्त्वं हिरण्मयम् ॥ [भागवतम् ३.२६.१९]

इत्यत्र वीर्यं चिच्छक्तिमिति टीकायां व्याख्यातमतः शक्तित्वमस्य टीका
सम्मतम् । ततोऽकस्मादुद्भवमात्रांशे दृष्टान्तः । जलबुद्बुदवदिति ।
अतः पुनरपि प्रलयसमये इमे सोपाधिका जीवास्त्वयि बिम्बस्थानीय
मूलचिद्रूपे रश्मिस्थानीयचिद्एकलक्षणशुद्धजीवशक्तिमये । तत
एव स्वमपीतो भवतीत्यादि श्रुतौ स्वशब्दाभिधेये परमे परमात्मनि
विविधनामगुणैर्विविधाभिर्देवादि संज्ञाभिर्विविधैः शुभाशुभ
गुणैश्च सह लिल्युर्लीयन्ते । पूर्ववत्प्रलयेऽपि दृष्टान्तः सरित इवार्णव
इति अशेषरसा इव मधुनि इति च । अत्र देवमनुष्यादिनामरूप
परित्यागेन तस्मिन् लीनेऽपि स्वरूपभेदोऽस्त्येव तत्तद्अंशसद्भावादित्य्
अभिप्रायः । अत्र श्रुतयः अजामेकामित्य्[श्वेतू ५.५] आदि ।

यथा नद्यः स्यन्दमानाः समुद्रे
ऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः
परात्परं पुरुषमुपैति दिव्यम् ॥ [ंुण्डू ३.२.८] इति ।

यथा सौम्येमा मधुकृतो निस्तिष्ठन्ति नानारूपाणां वृक्षाणां रसान्
समवहारम्
एकतां रसं गमयन्ति ॥ [Cहाऊ ६.९.१]

ते यथा विवेकं न लभन्ते अमुषाहं वृक्षस्य रसोऽस्मीत्येवं खलु
सौम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ इति
[Cहाऊ ६.९.२]

॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥४७॥

[४८]

तदेवं परमात्मनस्तटस्थाख्या शक्तिर्विवृता । अन्तराङ्गाख्या तु
पूर्ववदेव ज्ञेया । अथ बहिरङ्गाख्या विव्रियते ।

एषा माया भगवतः
सृष्टिस्थित्य्अन्तकारिणी
त्रिवर्णा वर्णितास्माभिः
किं भूयः श्रोतुमिच्छसि ॥ [भागवतम् ११.३.१८]

भगवतः स्वरूपभूतैश्वर्यादेः । परमात्मन एषा तटस्थलक्षणेन
पूर्वोक्ता जगत्सृष्ट्य्आदिकारिणी मायाख्या शक्तिः । त्रयो वर्णा यस्याः सा ।
तथा चाथर्वणिकाः पठन्ति । सितासिता च कृष्णा च सर्वकामदुघा विभोर्
इति । उक्तं च दैवी ह्येषा गुणमयी मम माया दुरत्यया [गीता ७.१४]
इति ॥११.३॥ अन्तरीक्षो विदेहम् ॥४८॥

[४९]

तस्या मायायाश्चांशद्वयम् । तत्र गुणरूपस्य मायाख्यस्य
निमित्तांशस्य द्रवरूपस्य प्रधानाख्यस्योपादानांशस्य च परस्परं
भेदमाह चतुर्भिः ।

अथ ते सम्प्रवक्ष्यामि
साङ्ख्यं पूर्वविनिश्चितम् ।
यद्विज्ञाय पुमान् सद्यो
जह्याद्वैकल्पिकं भ्रमम् ॥ [भागवतम् ११.२४.१]

टीका च अद्वितीयात्परमात्मनो मायया प्रकृतिपुरुषद्वारा सर्वं
द्वैतमुदेति पुनस्तत्रैव लीयते इत्यनुसन्दधानस्य पुरुषस्य द्वन्द्व
भ्रमो निवर्तते इति वक्तुं साङ्ख्यं प्रस्तौति अथ ते इत्येषा । अत्र प्रधान
पर्यायः प्रकृतिशब्धः ॥४९॥

[५०]

आसीज्ज्ञानमयो अर्थं
एकमेवाविकल्पितम् ।
यदा विवेकनिपुणा
आदौ कृतयुगे युगे ॥ [भागवतम् ११.२४.२]

टीका च अथो शब्दः कार्त्स्न्ये । ज्ञानं द्रष्टृ । तेन दृश्यरूपः कृत्स्नोऽप्य्
अर्थश्च विकल्पशून्यमेकमेव । ब्रह्मण्येव लीनमासीदित्यर्थः ।
इत्येषा ।
तृतीयस्कन्धे च भगवानेक आसेदमग्र आत्मात्मनां विभुरित्य्[भागवतम्
३.५.२३] आदौ यद्भगवत्त्वेन शब्द्यते तदेवात्र ब्रह्मत्वेन शब्द्यते इति
वदन्तीत्यादिवदुभत्रैकमेव वस्तु प्रतिपाद्यम् । अन्ते तु एष साङ्ख्य
विधिः प्रोक्त इत्यादौ परावरदृशा मयेत्यनेन भगवद्रूपेणाप्य्
अवस्थितिः स्पष्टैव । कदेत्यपेक्षायामाह । यदा आदौ कृतयुगे विवेक
निपुणा जना भवन्ति तस्मिन् युगे तत्पूर्वस्मिन् प्रलयसमय इत्य्
अर्थः ॥५०॥

[५१]

तन्मायाफलरूपेण
केवलं निर्विकल्पितम् ।
वाङ्मनोगोचरं सत्यं
द्विधा समभवद्बृहत् ॥ [भागवतम् ११.२४.३]

टीका च तद्बृहद्ब्रह्म वाङ्मनोगोचरं यथा भवति तथा । माया
दृश्यम् । फलं तत्प्रकाशः । तद्रूपेण मायारूपेण विलासरूपेण च
द्विधाभूदित्येषा । अत्र माया दृश्यमिति फलं तत्प्रकाश इति छेदः ।
तेन ब्रह्मणा यद्दृश्यं वस्तु तन्माया । तस्य ब्रह्मणो यः प्रकाश
विकाशः स फलमित्यर्थः ॥५१॥

[५२]

तयोरेकतरो ह्यर्थः
प्रकृतिः सोभयात्मिका ।
जानन्त्यन्यतमो भावः
पुरुषः सोऽभिधीयते ॥ [भागवतम् ११.२४.४]

टीका च तयोर्द्विधाभूतयोरंशयोर्मध्ये उभयात्मिका कार्यकारण
रूपिणी । इत्येषा । श्रीविष्णुपुराणे विष्णोः स्वरूपात्परतो हि तेऽन्ये रूपं
प्रधानं पुरुषश्च विप्र इत्य्[Vइড়् १.२.२४] अत्र तेषामेव टीका च परतो
निरुपादेर्विष्णोः स्वरूपात्ते प्रागुक्ते प्रधानं पुरुषं चेति द्वे रूपे
अन्ये मायाकृते इति ॥ ११.२४ ॥ भगवान् ॥५२॥

[५३]

अन्यत्र तयोरुपादाननिमित्तयोरंशयोर्वृत्तिभेदेन भेदानप्याह

कालो दैवं कर्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राणमात्मा विकारः ।
तत्सङ्घातो बीजरोहप्रवाहस्
तन्मायैषा तन्निषेधं प्रपद्ये ॥ [भागवतम् १०.६३.२६]

टीका च कालः क्षोभकः । कर्म निमित्तं तदेव फलाभिमुखम्
अभिव्यक्तं दैवम् । स्वभावस्तत्संस्कारः । जीवस्तद्वान् । द्रव्यं भूत
सूक्ष्माणि । क्षेत्रं प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार
एकादेशेन्द्रियाणि महाभूतानि चेति षोडशकः तत्सङ्घातो देहः । तस्य च
बीजरोहवत्प्रवाहः । रोहोऽङ्कुरः । देहाद्बीजरूपं कर्म । ततोऽङ्कुर
रूपो देहः । ततः पुनरेवमिति प्रवाहः । तं त्वां निषेधावधिभूतं
प्रपद्ये भजे इति । इत्येषा ।

अत्र कालदैवकर्मस्वभावा निमित्तांशाः अन्ये उपादानांशास्तद्वान्
जीवस्तूभयात्मकस्तथोपादानवर्गे निमित्तशक्त्य्अंशोऽप्यनुवर्तते ।
यथा जीवोपाधिलक्षणेऽहम्आख्ये तत्त्वे तदीयाहम् (अंह?)भावः स ह्य्
अविद्यापरिणाम इत्यादि । यथोक्तं तृतीयस्य षष्ठे

आत्मानं चास्य निर्भिन्नम्
अभिमानोऽविशत्पदम् ।
कर्मणांशेन येनासौ
कर्तव्यं प्रतिपद्यते ॥ [भागवतम् ३.६.२५] इति ।

अत्रात्मानमहङ्कारमभिमानो रुद्रः कर्मणाहंवृत्त्या इति टीका च ।
अत्र च यन्निर्भिन्नं तद्अधिष्ठात्नं वाग्आदीन्द्रियं तृतीयान्त
मध्यात्ममिति प्रकरणनिर्णयष्टीकायामेव कृतोऽस्ति । बीजरूपत्वं
कारणतामात्रविवक्षया । तदेवमत्रापि मूलमायायाः
सर्वोपादानांशमूलभूतं क्षेत्रशब्दोक्तं प्रधानमप्यंशरूपम्
इत्यधिगतम् । जीवस्तद्वानित्यनेन शुद्धजीवस्य मायातीतत्वं
बोधयति ॥ १०.६२ ॥ ज्वरः श्रीभगवन्तम् ॥५२॥

[५४]

अथ निमित्तरूपांशस्य प्रथमे द्वे वृत्ती आह

विद्याविद्ये मम तनू
विद्ध्युद्धव शरीरिणाम् ।
बन्धमोक्षकरी आद्ये
मायया मे विनिर्मित्ते ॥ [भागवतम् ११.११.३]

टीका च तन्येते बन्धमोक्षावावाभ्यामिति तनू शक्ती मे मायया
विनिर्मिते । मायावृत्तिरूपत्वाद्बन्धमोक्षकरीत्येकवचनं द्वि
वचनार्थे । ननु तत्कार्यत्वे बन्धमोक्षयोरनादित्वनित्यत्वे न स्यातां
तत्राह आद्ये अनादी । ततो यावदविद्यां प्रेरयामि तावद्बन्धः यदा
विद्यां ददामि तदा मोक्षः स्फुरतीत्यर्थः । इत्येषा ।

अत्र मायावृत्तित्वादिति वस्तुतो मायावृत्ती एव ते । विनिर्मितत्वं त्व्
अपरानन्तवृत्तिकया तया प्रकाशमानत्वादेवोच्यते । यतोऽनादी इत्यर्थः ।
तथा स्फुरतीत्यस्य मोक्ष इत्यनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम्
एव । बन्धस्त्वविद्यामात्रेण प्रतीतः । विद्योदये तु तत्प्रकाशते
मात्रम् । ततो नित्य एव मोक्ष इति भावः । न च वाच्यमेषा मायेत्यादौ
सामान्यलक्षणो मोक्षप्रदत्वं तस्या नोक्तमित्यसम्यअक्त्वमिति ।
अन्तकारित्वेनात्यन्तप्रलयरूपस्य मोक्षस्याप्युपलक्षितत्वात् । अत्र
व्दियाख्या वृत्तिरियं स्वरूपशक्तिवृत्तिविशेषविद्याप्रकाशे द्वारमेव
न तु स्वयमेव सेति ज्ञेयम् । अथाविद्याख्यस्य भागस्य देव वृत्ती ।
आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव एव तिष्ठन्ती तदीयं
स्वाभाविकं ज्ञानमावृण्वाना । उत्तरा च तं तद्अन्यथाज्ञानेन
सञ्चयन्ती वर्तत इति ॥ ११.११ ॥ श्रीभगवान् ॥५४॥
[५५]

अत्र निमित्तांशस्त्वेवं विवेचनीयः । यथा निमित्तांशरूपया
मायाख्ययैव प्रसिद्धा शक्तिस्त्रिधा दृश्यते ज्ञानेच्छाक्रियारूपत्वेन ।
तत्र तस्याः परमेश्वरज्ञानरूपत्वं यथा तृतीये ।

सा वा एतस्य संद्रष्टुः
शक्तिः सद्असद्आत्मिका ।
माया नाम महाभाग
ययेदं निर्ममे विभुः ॥ [भागवतम् ३.५.२५] इति ।

अस्य टीकायाम् । सा वै दृअष्टृदृश्यानुसन्धानरूपा । सहदृश्यमसद्
दृश्यमात्मा स्वरूपम् । सद्असतीरात्मा यस्यास्तद्उभयानुसन्धान
रूपत्वादिति । तद्इच्छारूपत्वं यथा तत्रैव । आत्मेच्छानुगतावात्मेत्य्
अस्य टीकायाम् । आत्मेच्छा माया तस्यानुगतौ लये सतीति । तत्क्रियारूपत्वं
चैकादशे एषा माया भगवत इत्युदाहृतवचने एव द्रष्टव्यम् । यद्यदि
परमेश्वरस्य साक्षाज्ज्ञानादिकं न माया । किन्तु स्वरूपशक्तिरेव ।
तथापि तज्ज्ञानादिकं प्राकृते कार्ये न तद्अर्थं प्रवर्तते । किन्तु
भक्तार्थमेव प्रवर्तमानमनुषङ्गेन्नैव प्रवर्तत इत्यग्रे
विवेचनीयत्वात् । तत्प्रवृत्त्याभाससंवलितं यन्मायावृत्तिरूपं
ज्ञानादिकमन्यत्तदेव तज्ज्ञानादिशब्देनोच्यते । तथाभूतं च तज्
ज्ञानादिकं द्विविधम् । स्वभावसिद्धत्वात्केवलपरमेश्वरनिष्ठं
तद्दत्तत्वात्जीवनिष्ठं च । तत्र प्रथमं द्रष्टृदृश्यानुसन्धान
सिसृक्षाकालादिरूपं द्वितीयं विद्याविद्याभोगेच्छाकर्मादिरूपमिति ।
अथोपादानांशस्य प्रधानस्य लक्षणम् ।

यत्तत्त्रिगुणमव्यक्तं
नित्यं सद्असद्आत्मकम् ।
प्रधानं प्रकृतिं प्राहुर्
अविशेषं विशेषवत् ॥ [भागवतम् ३.२६.१०]

यत्खलु त्रिगुणं सत्त्वादिगुणत्रयसमाहारस्तदेवाव्यक्तं प्रधानं
प्रकृतिं च प्राहुः । तत्राव्यक्तसंज्ञत्वे हेतुरविशेषं गुणत्रयसाम्य
रूपत्वादनभिव्यक्तविशेषमतएवाव्याकृतसंज्ञं चेति गमितम् ।
प्रधानसंज्ञत्वे हेतुः विशेषवत्स्वकार्यरूपाणां महद्आदिविशेषाणाम्
आश्रयरूपतया तेभ्यः श्रेष्ठम् । प्रकृतिसंज्ञत्वे हेतुः । सद्असद्
आत्मकं सद्असत्सु कार्यकारणरूपेषु महद्आदिषु कारणत्वादनुगत
आत्मा स्वरूपं यस्य तत् । तथा नित्यं प्रलये कारणमात्रात्मनावस्थित
सर्वांशत्वेन सृष्टिस्थित्योश्च पञ्चीकृतांशत्वेनाविकृतं स्वरूपं यस्य
तादृशमिति ब्रह्मत्वं महद्आदिरूपत्वं च व्यावृत्तम् । ब्रह्मणो
निर्गुणत्वात्महद्आदीनां चाव्यक्तापेक्षया कार्यरूपत्वात् । एवं च श्री
विष्णुपुराणे

अव्यक्तं कारणं यत्तत्
प्रधानमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा
नित्यं सद्असद्आत्मकम् ॥

अक्षय्यं नान्यदाधारम्
अमेयमजरं ध्रुवम् ।
शब्दस्पर्शविहीनं तद्
रूपादिभिरसंहितम् ॥

त्रिगुणं तज्जगद्योनिर्
अनादिप्रभवाप्ययम् ।
तेनाग्रे सर्वमेवासीद्
व्याप्तं वै प्रलयादनु ॥ इत्यादि [Vइড়् १.२.१९२१] ।

इदमेव प्रधानमनादेर्जगतः सूक्ष्मावस्थारूपम्
अव्याकृताव्यक्ताद्य्अभिधं वेदान्तिभिरपि परमेश्वराधीनतया मन्यते
तद्अधीनत्वादर्थवदित्य्[Vस्१.४.३] आदिन्यायेषु निषिध्यते तु साङ्ख्यवत्
स्वतन्त्रतया आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त
गृहीतेर्दर्शयति च इत्यादिन्यायेषु [Vस्१.४.१] । श्वेताश्वतरोपनिषदि
प्रधानशब्दश्च श्रूयते । प्रधानक्षेत्रज्ञपतिर्गुणेशः संसार
बन्धस्थितिमोक्षहेतुरित्यादौ ॥३.२६॥ श्रीकपिलदेवः ॥५५॥

[५६]

तदेवं सन्दर्भद्वये शक्तित्रयविवृतिः कृता । तत्र नामाभिन्नताजनित
भ्रान्तिहानाय सङ्ग्रहश्लोकाः

माया स्यादन्तरङ्गायां बहिरङ्गा च सा स्मृता ।
प्रधानेऽपि क्वचिद्दृष्टा तद्वृत्तिर्मोहिनी च सा ।
आद्ये त्रये स्यात्प्रकृतिश्चिच्छक्तिस्त्वन्तरङ्गिका ।
शुद्धजीवेऽपि ते दृष्टे तथेशज्ञानवीर्ययोः ॥
चिन्मायाशक्तिवृत्त्योस्तु विद्याशक्तिरुदीर्यते ।
चिच्छक्तिवृत्तौ मायायां योगमाया समा स्मृता ॥
प्रधानाव्याकृताव्यक्तं त्रैगुण्ये प्रकृतौ परम् ।
न मायायां न चिच्छक्तावित्याद्यूह्यं विवेकिभिः ॥ इति ।

अथ मायाकार्यं जगल्लक्ष्यते

ततस्तेनानुविद्धेभ्यो
युक्तेभ्योऽण्डमचेतनम् ।
उत्थितं पुरुषो यस्माद्
उदतिष्ठदसौ विराट् ॥ [भागवतम् ३.२६.५१]

एतदण्डं विशेषाख्यं
क्रमवृद्धैर्दशोत्तरैः ।
तोयादिभिः परिवृतं
प्रधानेनावृतैर्बहिः
यत्र लोकवितानोऽयं
रूपं भगवतो हरेः ॥ [भागवतम् ३.२६.५२]

तेनेश्वरेणानुबिद्धेभ्यः क्षुभ्तेभ्यो महद्आदिभ्योऽण्डमचेतनम्
उत्थितम् । यस्मादण्डासौ विराट्पुरुषस्तूदतिष्ठत् । भगवतः
पुरुषस्य ॥ ३.२६ ॥ श्रीकपिलदेवः ॥५६॥

[५७]

तदेवं भगवतो रूपमित्युक्तेस्तस्यापि प्राग्वद्अप्राकृतत्वमापतति ।
तन्निषेधायाह ।

अमुनी भगवद्रूपे
मया ते ह्यनुवर्णिते ।
उभे अपि न गृह्णन्ति
मायासृष्टे विपश्चितः ॥ [भागवतम् २.१०.३५]

अमुनी अमू उपासनार्थं भगवत्यारोपिते जगद्आत्मके स्थूल
सूक्ष्माख्ये विराठिरण्यगर्भापरपर्याये समष्टिशरीरे ये मया
तुभ्यमनुवर्णिते ते उभे अपि विपश्चितो न गृह्णन्ति वस्तुतया नोपासते किं
तर्हि तदीयबहिरङ्गाधिष्ठानतयैवेत्यर्थः । तदुक्तं वैष्णवे

यदेतद्दृश्यते मूर्तम्
एतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानेन पश्यन्ति
जगद्रूपमयोगिनः ॥ इति [Vइড়् १.४.३९] ।

एतन्मूर्तं जगद्भ्रान्तिज्ञानेनैव तव रूपं जानन्तीत्यर्थः । श्रुतिश्च
 नेदं यदिदमुपासत इति । यदिदं जगदुपासते प्राणिनः नेदं
ब्रह्मेति श्रीरामानुजभाष्यम् । अतएव न गृह्णन्तीत्यत्र हेतुर्माया
सृष्टे न तु स्वरूपशक्तिप्रादुर्भाविते । अनेन चतुर्भुजादिलक्षणस्य
साक्षाद्रूपस्य मायातीतत्वमपि व्यक्तम् । अत्रास्य जगतो मायामयस्य
पुरुषरूपत्वे पुरुषगुणावताराणां विष्ण्व्आदीनां सत्त्वादिअमयास्तद्
अंशा रूपाणीति ज्ञेयम् । तान्यपेक्ष्य चोक्तं मार्कण्डेये

विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ इति ।

शरीरशब्दस्य तत्तन्निजशरीरवाचित्वे तु तद्ग्रहणात्पूर्वं विष्ण्व्आदि
भेदासम्भवात्तन्निर्देशानुपपत्तेः ॥ २.१० ॥ श्रीशुकः ॥ ५७ ॥

[५८]

पूर्वं मायासृष्टे इत्युक्तम् । तत्र मायाशब्दस्य नाज्ञानार्थत्वम् । तद्
वादे हि सर्वमेव जीवादिद्वैतमज्ञानेनैव स्वस्वरूपे ब्रह्मणि कल्प्यते
इति मतम् । निरहङ्कारस्य केनचिद्धर्मान्तरेणापि रहितस्य सर्व
विलक्षणस्य चिन्मात्रस्य ब्रह्मणस्तु नाज्ञानाश्रयत्वं न चाज्ञान
विषयत्वं न च ब्रह्महेतुत्वं सम्भवतीति । परमालौकिकवस्तुत्वाद्
अचिन्त्यशक्तित्वं तु सम्भवेत् । यत्खलु चिन्तामण्य्आदावपि दृश्यते,यता
त्रिदोषघ्नौषधिवत्परस्परविरोधिनामपि गुणानां धारिण्या तस्य
निरवयवत्वादिके सत्यपि सावयवत्वादिकमङ्गीकृतम् । तत्र शब्दश्चास्ति
प्रमाणम् । विचित्रशक्तिः पुरुषः पुराणः चान्वेषां शक्तयस्तादृशः स्युर्
इत्यादिकाः श्वेताश्वतरोपनिषद्आदौ । आत्मेश्वरोऽतर्क्यसहस्रशक्तिरित्य्
[भागवतम् ३.३३.३] आदिकः श्रीभागवतादिषु । तथा च ब्रह्मसूत्रम् आत्मनि
चैवं विचित्राश्च हि इति [Vस्. २.१.२८] ।

तत्र द्वैतान्यथानुपपत्त्यापि ब्रह्मण्य्अज्ञानादिकं कल्पयितुं न शक्तये
असम्भवादेव । ब्रह्मण्यचिन्त्यशक्तिसद्भावस्य युक्तिलब्धत्वात्
श्रुतत्वाच्च द्वैतान्यथानुपपत्तिश्च दूरे गता । ततश्चाचिन्त्यशक्तिरेव
द्वैतोपपत्तीकारणं पर्यवसीयते । तस्मान्निर्विकारादिस्वभावेन सतोऽपि
परमात्मनोऽचिन्त्यशक्त्या विश्वाकारत्वादिना परिणामादिकं भवति
चिन्तामण्य्अयस्कान्तादीनां सर्वार्थप्रसवलोहचालवादिवत् । तदेतद्
अङ्गीकृतं श्रीबादरायणेन श्रुतेस्तु शब्दमूलत्वादिति [Vस्२.१.२७] ।

ततस्तस्य तादृशशक्तित्वात्प्राकृतवन्मायाशब्दस्येन्द्रजालविद्या
वाचित्वमपि न युक्तम् । किन्तु मीयते विचित्रं निर्मीयतेऽनयेति विचित्रार्थ
करशक्तिवाचित्वमेव । तस्मात्परमात्मपरिणाम एव शास्त्र
सिद्धान्तः । तदेतच्च भगवत्सन्दर्भे विवृतमस्ति । तत्र
चापरिणतस्यैव मतोऽचिन्तया शक्त्या परिणाम इत्यासौ सन्
मात्रतावभासमानस्वरूपव्यूहरूपद्रव्याख्यशक्तिरूपेणैव
परिणमते न तु स्वरूपेणेति गम्यते । यथैव चिन्तामणिः । अतस्तन्
मूलत्वान्न परमात्मोपादानतासम्प्रतिपत्तिभङ्गः । तदुक्तम्
एकादशे श्रीभगवता

प्रकृतिर्यस्योपादानम्
आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो
ब्रह्म तत्त्रितयस्त्वहम् ॥ [भागवतम् ११.२४.१९] इति ।

अतएव क्वचिदस्य ब्रह्मोपादानत्वं क्वचित्प्रधानोपादानत्वं श्रूयते ।
तत्र सा मायाख्या परिणामशक्तिश्च द्विविधा वर्ण्यते । निमित्तांशो माया
उपादानांशः प्रधानमिति । तत्र केवला शक्तिर्निमित्तं तद्व्यूहमयी
तूपादानमिति विवेकः । अतएव श्रुतावपि विज्ञानं चाविज्ञानं चेति [टैत्तू
२.६.१] कस्च्यचिद्भागस्याचेतनता श्रूयते ।

अथ मूलप्रमाणे श्रीभागवतेऽपि तृतीयादौ मुख्य एव सृष्टिप्रस्तावे
च ज्ञानवैराग्याङ्गत्वेन च पुर्णान्तरगतिसामान्यसेवितः प्रधान
परिणाम एव स्फुटमुपलभ्यते । क्व च स्तुत्य्आदौ ज्ञान
वैराग्याङ्गतयैव विवर्तोऽपि यः श्रूयते सोऽपि जगतो नान्यथासिद्धतापरः
किन्तु परमात्मयूहप्रधानपरिणामेन सिद्धस्यैव तस्य समष्टि
व्यष्टिरूपस्य यथायथं शुद्धे परमात्मनि तद्अंशरूपात्मनि
वात्मात्मीयताध्यारोपितापरः ।

तत्र परमात्मनि विराद्धुपासनावाक्यादिश्रवणं हेतुरात्मनि तु तत्
तद्आवेशो हेतुरिति विवेचनीयम् । अन्यत्र सिद्धस्य वस्तुन एवान्यत्रारोपो
मिथ्याखपुष्पादेरारोपासम्भवात्पूर्वपूर्वविवर्तमात्र
सिद्धानादिपरम्परात्वे दृष्टान्ताभावाच्च । किं च पूर्वं वारिदर्शनाद्
वार्य्आकारा वृत्तिर्जातापि तद्अप्रसङ्गसमये सुप्ता तिष्ठति तत्तुल्यवस्तु
दर्शनेन तु जागर्ति, तद्विशेषानुसन्धानं विना तद्अभेदेन स्व
तन्त्रारोपयति तस्मान्न वारि मिथ्या, न वा स्मरणमयी तद्आकारा वृत्तिर्,
न वा तत्तुल्यं मरीचिकादि वस्तु किन्तु तद्अभेदेनारोप एवायथार्थत्वान्
मिथ्या । स्वप्ने च मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति
न्यायेन [Vस्३.२.३] जाग्रद्दृष्टवस्त्व्आकारायां मनोवृत्तौ परमात्म
माया तद्वस्त्व्अभेदमारोपयतीति पूर्ववत् । तस्माद्वस्तु तस्य न क्वचिद्
अपि मिथ्यात्वम् । शुद्ध आत्मनि परमात्मनि वा तादृशतद्आरोप एव
मिथ्या न तु विश्वं मिथ्येति । ततो जगतः परमात्मजातत्वेन साक्षात्तद्
आत्मीयत्वाभावादबुधानामेव तत्र शुद्धे तत्तद्बुद्धिः ।

यद्यपि शुद्धाश्रयमेव जगत्तथापि जगता तत्संसर्गो नास्ति । तदुक्तम्
असक्तं सर्वभृच्चैव इति गीतासु [गीता १३.१४] । तथा देहगेहादाव्
आत्मात्मीयताज्ञानं तेषामेव स्यादित्युभयत्रैवारोपः शास्त्रे श्रूयते ।
यथा यदेतद्दृश्यते मूर्तमित्य्[Vइড়् १.४.३९] आदिकं विष्णुपुराणे । यथा
वा

त्वामात्मानं परं मत्वा
परमात्मानमेव च ।
आत्मा पुनर्बहिर्मृग्य
अहो अक्षजनाज्ञता ॥ इति [भागवतम् १०.१४.२७] ।

त्वामात्मानं सर्वेषां मूलरूपं परमितरं तद्विपरीतं मत्वा तथा
परमितरं जीवमेव च मूलरूपात्मानं मत्वा साङ्ख्यविद इव तस्य
तथा मन्यमानस्य पुनः स जीवात्मा बहिर्मृग्यो भवति । तस्य तेनैव
हेतुना लब्धच्छिद्रया मायया देहात्मबुद्धिः कार्यत इत्यर्थः । अहो
अज्ञजनताया अज्ञता क्रमाज्ज्ञानभ्रंश इत्यर्थः । तदुक्तं हंस
गुह्यस्तवे

देहोऽसवोऽक्षा मनवो भूतमात्राम्
आत्मानमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे ॥ [भागवतम् ६.४.२५] इति ।

तथा श्रीभगवद्उद्धवसंवादे

आत्मा परिज्ञानमयो विवादो
ह्यस्तीति नास्तीति भिदात्मनिष्ठः ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्तः परावृत्तधियां स्वलोकात् ॥ इति [भागवतम् ११.२२.३४]

किं च विवर्तस्य ज्ञानादिप्रकरणपठित्वेन गौणत्वात्परिणामस्य तु
स्वप्रकरणपठितत्वेन मुख्यत्वात्ज्ञानाद्य्उभयप्रकरण
पठितत्वेन सद्अंशन्यायसिद्धप्राबल्याच्च परिणाम एव श्री
भागवततात्पर्यमिति गम्यते । तच्च भगवद्अचिन्त्यैश्वर्यज्ञानार्थं
मिथ्यात्वाभिधानं तु नश्वरत्वाभिधानवत्विश्वस्य परमात्म
बहिर्मुखत्वापादकत्वाद्धेयताज्ञानमात्रार्थं न तु वस्त्वेव तन्न
भवतीति जीवेशस्वरूपैक्यज्ञानमात्रार्थं वैधर्म्याच्च न
स्वप्नादिवत्[Vस्२.२.२९] इति न्यायेन । तथा च नारदीये

जगद्विलापयामासुर्
इत्युच्येताथ तत्स्मृतेः ।
न च तत्स्मृतिमात्रेण
लयो भवति निश्चितम् ॥ इति ।

तत्र मुख्य एव सृष्टिप्रस्तावे प्रधानपरिणाममाह

कालवृत्त्या तु मायायां
गुणमय्यामधोक्षजः ।
पुरुषेणात्मभूतेन
वीर्यमाधत्त वीर्यवान् ॥ [भागवतम् ३.५.२६]

ततोऽभवन्महत्तत्त्वम्
अव्यक्तात्कालचोदितात् ।
विज्ञानात्मात्मदेहस्थं
विश्वं व्यञ्जंस्तमोनुदः ॥ [भागवतम् ३.५.२७]

भगवानेक आसेदमिति [भागवतम् ३.५.२३] प्राक्तनानन्तरग्रन्थादधोक्षजो
भगवान् पुरुषेण प्रकृतिद्रष्ट्र्आत्मभूतेन स्वांशेन द्वारभूतेन
कालो वृत्तिर्यस्यास्तया मायया निमित्तभूतया गुणमय्यां मायायाम्
अव्यक्ते वीर्यं जीवाख्यमाधत्त । हन्तेमास्तिस्रो देवता इत्यादिश्रुतेः ।
विज्ञानात्मैव महत्तत्त्वम् । तमोनुदः प्रल्यगताज्ञानध्वंस
कर्ता ॥ ३.५ ॥ श्रीमैत्रेयः ॥ ५८ ॥

[५९]

ज्ञानाद्य्अङ्गत्वेऽप्याह

एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पन्त इदमीश्वरः ॥
एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥
परावराणां परम आस्ते कैवल्यसंज्ञितः ।
केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥
तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् ॥
यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ [भागवतम् ११.९.१६२१]

कालः कला यस्यास्तया स्वाधीनतया मायया । श्रुतिश्च

यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात्केशलोमानि
तथाऽक्षरात्संभवतीह विश्वम् ॥ इति [ंुण्डू १.१.७]
॥ ११.९ ॥ श्रीदत्तात्रेयो यदुम् ॥ ५९ ॥

[६०]

तदेवं सूक्ष्मचिद्अचिद्वस्तु रूपशुद्धजीवाव्यक्तशक्तेः
परमात्मनः स्थूलचेतनाचेतनवस्तुरूपाण्याध्यात्मिकजीवादिपृथिव्य्
अन्तानि जायन्त इत्युक्तम् । ततः केवलस्य परमात्मनो निमित्तत्वं शक्ति
विशिष्टस्योपादानत्वमित्युभयरूपतामेव मन्यन्ते । प्रकृइतिं च
प्रतिज्ञा दृष्टान्तानुरोधादित्यादौ । तदेवं तस्य सदा शुद्धत्वमेव ।
तत्र शक्तेः शक्तिमद्अव्यतिरेकादननयत्वमुक्तम् । तथा सत्कार्य
वादाङ्गीकारे स्वान्तः स्थितस्वधर्मविशेषाभिव्यक्तिलब्धविकाशेन
कारणस्यैवांशेन कार्यत्वमित्येवं वाचारम्भणं विकारो नामधेयं
मृत्तिकेत्येव सत्यमित्यादिश्रुइत्सिद्धं कार्यस्य कारणादन्यत्वं
कारणस्य तु कार्यादन्यत्वमित्यायाति ।

तदेवं जगत्कारणशक्तिविशिष्टात्परमात्मनोऽनन्यदेवेदं जगतस्त्व्
अभावन्य एवेत्याह

इदं हि विश्वं भगवानिवेतरो
यतो जगत्स्थाननिरोधसम्भवाः
तद्धि स्वयं वेद भवांस्तथापि ते
प्रादेशमात्रं भवतः प्रदर्शितम् ॥ [भागवतम् १.५.२०]

इदं विश्वं भगवानिव भगवतोऽनन्यदित्यर्थः । तस्मादितरस्
तटस्थाख्यो जीवश्च स इवेति पूर्ववत् । अतएव एतद्आत्म्यमिदं सर्वमिति
सर्वं खल्विदं ब्रह्मेति श्रुत्ः । यतो भगवतः । भवतो भवन्तं प्रति
प्रदेशमात्रं किञ्चिन्मात्रं दर्शितमित्यर्थः ॥ १.५ ॥ श्रीनारदः श्री
व्यासम् ॥ ६० ॥

[६१]

स्पष्टमेवाह

सोऽयं तेऽभिहितस्तात
भगवान् विश्वभावनः ।
समासेन हरेर्नान्यद्
अन्यस्मात्सद्असच्च यत् ॥ [भागवतम् २.७.५०]

सोऽयं समासेन सङ्क्षेपेणाभिहितः । कथं तटस्थलक्षणेनैवेत्याह ।
सत्कार्यं स्थूलमशुद्धजीवजगद्आख्यं चेतनाचेतनं वस्तु । असत्
करणं सूक्ष्मं शुद्धजीवप्रधानाख्यं चिद्अचिद्वस्तु च यत्तत्सर्वं
हरेरन्यन्न भवति सूक्ष्मस्य तच्छक्तिरूपत्वात्स्थूलस्य तत्कार्य
रूपत्वादिति भावः । इदमेव श्रीहंसदेवेनोक्तं अहमेव न
मत्तोऽन्यदिति बुध्यध्वमञ्जसा इति [भागवतम् ११.१३.२४] । जगतस्तद्अनन्यत्वेऽपि
शुद्धस्य तस्य तद्दोषसाङ्कर्यं नास्तीत्याह अन्यस्मादिति ॥ २.७ ॥ श्री
ब्रह्मा श्रीनारदम् ॥६१॥

[६२]
तत्रानन्यत्वे युक्तिं विवृणोति पञ्चभिः

आदावन्ते जनानां सद्
बहिरन्तः परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं
तमो ज्योतिस्त्वयं स्वयम् ॥ [भागवतम् ७.१५.५७]

जनानां देहादीनामादौ कारणत्वेन अन्ते चावधित्वेन यत्परमात्म
लक्षणं सर्वकारणं वस्तु सद्वर्तमानं तदेव स्वयं बहिर्भोग्यं
अन्तभोक्तृ परवरं चोच्चनीचं तमोऽप्रकाशः ज्योतिः प्रकाशश्च स्फुरति
नान्यत् । अन्यस्य तद्विना स्वतः स्फुरणानिरूप्यत्वादिति भावः ।

[६३]

ननु कथं तर्हि तस्मादत्यन्तपृथगिवाथजातं प्रतीयते तत्राह

आबाधितोऽपि ह्याभासो
यथा वस्तुतया स्मृतः ।
दुर्घटत्वादैन्द्रियकं
तद्वदर्थविकल्पितम् ॥ [भागवतम् ७.१५.५८]

आबाधितस्तर्कविरोधेन सर्वतो बाधितः स्वातन्त्र्यसत्तायाः सकाशान्
निरस्तोऽपि यथा आभासः सूर्यादिप्रतिरश्मिर्बालादिभिः पृथक्प्रकाशम्
आनतादर्थनाद्वस्तुतया स्वतन्त्रपदार्थतया स्मृतः कल्पितः तद्वद्
ऐन्द्रियक सर्वं मूढैः स्वतन्त्रार्थत्वेन विविधं कल्पितं तत्तु न
तत्त्वदृष्ट्या स्वातन्त्र्यनिरूपणस्य दुर्घटत्वादित्यर्थः ।

[६४]

तदेवाह द्वाभ्याम्

क्षित्य्आदीनामिहार्थानां
छाया न कतमापि हि ।
न सङ्घातो विकारोऽपि
न पृथङ्नान्वितो मृषा ॥ [भागवतम् ७.१५.५९]

क्षित्य्आदीनां पञ्चभूतानां छाया ऐक्यबुद्ध्यालम्बनरूपं देहादि
सङ्घातारम्भपरिणामानां मध्ये कतमाप्यन्यतमापि न भवति ।
न तावत्तेषां सङ्घातो वृक्षाणामिव वनमेकदेशाकर्षणे
सर्वाकर्षणानुपपत्तेः । न ह्येकस्मिन् वृक्ष आकृष्टे सर्वं वनम्
आकृष्यते । न च विकारः आरब्धोऽवयवी । अपिशब्दात्परिणामोऽपि । कुतः ।
किमवयवेभ्यः पृथगारभ्यते परिणमते च तद्अन्वितो वा । न तावद्
अत्यन्तं पृथक्तथा अप्रतीतेः । न चान्वितः । स किं प्रत्यवयवमन्वेति
अंशेन वा । आद्ये अङ्गुलिमात्रेऽपि देहबुद्धिः स्यात् । द्वितीये तस्याप्य्
अंशाङ्गीकारे सत्यनवस्थापातः स्यात् । अतो देहादेः स्वातन्त्र्येणावस्थितिर्
मृषैवेति ।

[६५]
एवं देहादेः स्वातन्त्र्येणानिरूप्यत्वमुक्त्वा तद्धेतूनां क्षित्य्आदीनाम्
अपि तथैवानिरूप्यत्वमाह

धातवोऽवयवित्वाच्च
तन्मात्रावयवैर्विना ।
न स्युर्ह्यसत्यवयविन्य्
असन्नवयवोऽन्ततः ॥ [भागवतम् ७.१५.६०]

धारयन्तीति । धातवो महाभूतानि तन्मात्रैः सूक्ष्मैरवयवैर्विना न
स्युः । अवयवित्वात्तेषामपि । तर्ह्यवयव एव स्वतन्त्र इति चेत्तत्राह उक्त
प्रकारेणावयविनि निरूपयितुमसति अवयवोऽप्यन्ततो निरूपयितुमसन्निव
स्यात् । अवयविप्रतीत्य्अन्यथानुपपत्तिं विना परमाणुलक्षणावयवसद्
भावे प्रमाणाभावादित्यर्थः । तदुक्तं पञ्चमे

एवं निरुक्तं क्षितिशब्दवृत्तमित्य्[भागवतम् ५.१२.९] आदि । तस्मादैक्य
बुद्ध्यालम्बनरूपं यत्प्रतीयते तत्सर्वत्र परमात्मलक्षणं सर्व
कारणं वस्त्वेवेति साधूक्तमादावन्ते जनानां सदित्यादिना । एवमेव
तृतीयेऽप्युक्तम्

इति तासां स्वशक्तीनां सतीनामसमेत्य सः ।
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥
कालसंज्ञा ततो देवीं विभ्रच्छक्तिमुरुक्रमः ।
त्रयोविंशतित्तत्त्वानां गणं युगपदाविशत् ॥
सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम्
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ इति [भागवतम् ३.६.१३]

अतएव यस्य पृथिवी शरीरमित्यादिश्रुतौ [Bऋहदू ३.७.३] सर्वस्य
परमात्मशरीरत्वेन प्रसिद्धिः परमात्मनस्तु शरीरत्वेन । तदेवम्
अवयवरूपेण प्रधानपरिणामः सर्वत्रावयवी तु परमात्मवस्त्वेवेति
सिद्धम् । ततोऽप्यमिथ्यात्वमेव जगत उपपद्येत ॥

[६६]

ननु यदि परमात्मवस्त्वेव सर्वत्रावयवी देहः स्यात्ततश्च तत्रैव
ब्राह्मणत्वादिसंज्ञाप्राप्ते गुणदोषहेतू विधिनिषेधावपि स्याताम् । तौ
च न सम्भवतः । तस्मादन्य एवावयवी युज्यते । इत्याशङ्क्याह

स्यात्सादृश्यभ्रमस्तावद्
विकल्पे सति वस्तुनः ।
जाग्रत्स्वापौ यथा स्वप्ने
तथा विधिनिषेधता ॥ [भागवतम् ७.१५.६१]

वस्तुनः परमात्मनो विकल्पे संशये सतीति तस्य तादृशत्वेन निर्णयो यावन्
न स्यातित्यर्थः । तावदेव तस्मात्सर्वैक्यबुद्धिनिदानात्पृथग्
देहैक्यबुद्धिः सादृश्यभ्रमः स्यात् । पूर्वापरावयवानुसन्धाने सति
परस्परमासज्यैकत्र स्थितत्वेनावयवत्वसाधारण्येन चैक्यसादृश्यात्
प्रत्यवयवमेकतया प्रतीतेः । सोऽयं देह इति भ्रम एव भवतीत्यर्थः ।
प्रतिवृक्षं तदिदं वनमितिवत् । यथोक्तं स्वयं भगवता
सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् ।
सोऽयं पुमानिति नॄणां मृषा धीर्गोर्मृषायुषाम् ॥ इति [भागवतम् ११.२२.४५] ।

ततश्च तत्रैव ब्राह्मणत्वाद्य्अभिमाने सति स्वप्नवैषयकौ जाग्रत्
स्वप्नाविव तद्विषयकौ विधिनिषेधौ स्यातामित्याह जाग्रदिति । तथा
तेन प्रकारेण विधेर्विधिता निषेधस्य निषेधतेत्यर्थः । एवं

परस्वभावकर्मणि न प्रशंसेन्न गर्हयेत् ।
विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ [भागवतम् ११.२८.१]

इत्यादिरेकादशाष्टविंशतितमाध्यायो ज्ञेयः । तत्र च किं भद्रं किम्
अभद्रं वा द्वैतस्यावस्तुनः कियदित्यादिकं स्यात्सादृश्यभ्रमस्तावद्
इत्याद्य्अनुसारेणैव व्याख्येयम् । अवस्तु यद्द्वैतं तस्येत्यर्थः । तस्मात्
स्वातन्त्र्येण निरूपणाशक्त्या परमात्मनो ‘नन्यदेव सर्वमिति
प्रकरणार्थः ॥

॥७.१५ ॥ श्रीनारदः श्रीयुधिष्ठिरम् ॥ ६६॥

[६७]

अत आह

त्वं वायुरग्निरवनिर्वियदम्बु मात्राः
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ [भागवतम् ७.९.४८]

हृदयमन्तर्इन्द्रियं मनो बुद्ध्याहङ्कारचित्तात्मकं, चित्शुद्दो जीवः ।
अनुग्रहः स्वसम्मुखीकरणशक्तिः । किं बहुना सगुणो मायिकः
विगुणश्चामायिकः सर्वार्थस्त्वमेवेति ॥ ७.९ ॥ श्रीप्रह्लादः श्री
नृसिंहम् ॥६७॥

[६८]

अथ तस्य मायाशक्तिकार्यमायाजीवेभ्योऽन्यत्वं च स्पष्टयति

यथोल्मुकाद्विस्फुलिङ्गाद्
धूमाद्वापि स्वसम्भवात् ।
अप्यात्मत्वेनाभिमताद्
यथाग्निः पृथगुल्मुकात् ॥ [भागवतम् ३.२८.४०]

भूतेन्द्रियान्तःकरणात्
प्रधानाज्जीवसंज्ञितात् ।
आत्मा तथा पृथग्द्रष्टा
भगवान् ब्रह्मसंज्ञितः ॥ [भागवतम् ३.२८.४१]

अयमर्थः । स्वसम्भवात्स्वोपादानकारणातुल्मुकात्काष्ठमुष्ट्य्
उपाधिकात् । अग्नेर्हेतोर्या विस्फुलिङ्गो यश्च धूमस्तस्मात्तस्माद्यथा
तत्तद्उपादानमग्निः पृथग्यथा च तस्मादुल्मुकात्तद्उपादान, असाव्
अग्निः पृथक् । कीदृशादपि तत्त्रयादप्यात्मत्वेनाभिमतात्नापकतया
धूमेऽग्न्य्अंशसद्भावेनाग्निस्वरूपतया प्रतीतादपि तथा विस्फुलिङ्ग
स्थानीयाज्जीवसंज्ञिताज्जीवातुल्मुकस्थानीयात्प्रधानात्
प्रधानोपाधिकभगवत्तेजसः धूमस्थानीयाद्भूतादेः सर्वोपादान
रूपो भगवान् पृथक् । य एवात्मा स्वांशेन तत्तद्अन्तर्यामितया
परमात्मा । क्वचिदधिकारिणि निर्विशेषचिन्मात्रतया स्फुरन् ब्रह्म
संज्ञितश्च । यत एव द्रष्टा तेषामादिमध्यान्तावस्था
साक्षीति ॥ ३.२८ ॥ श्रीकपिलदेवः ॥६८॥

[६९]

तत्र येषां मनः परमात्मनि नास्ति, ते परमात्मात्मके जगत्यसदंशम्
एव गृह्णन्ति, ये तु परमात्मविदस्ते सद्अंशमेव गृह्णन्तीत्याहुर्
भागवताः ।

सदिव मनस्तिर्वृत्त्वयि विभात्यसदामनुजात्
सदभिमृशन्त्यशेषमिदमात्मतयात्मविदः ।
न हि विकृतिं त्यजन्ति कनकस्य तद्आत्मतया
स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ [भागवतम् १०.८७.२६]

त्वय्यसदवर्तमानं यन्मनस्तत्खलु त्रिवृत्त्रिगुणकार्ये जगति
वर्तमानं सत्त्वयि सदिव वर्तमानमिव विभाति । दर्वीसूपरस
न्यायेन स्वावगाढे जगति सतोऽपि परमात्मनो ग्रहणाभावात् । न तु
वर्तमानमेव विभातीत्यर्थः । अतएवासद्अंशस्य त्रिगुणमायामयत्वं
मनोमयत्वं चोक्तम्

यदिदं मनसा वाचा
चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च
विद्धि मायामनोमयम् ॥ इति । [भागवतम् ११.७.७]

ये त्वात्मविदस्त्वद्धेतोरअस्ते आमनुजात्सोपाधिकजीवस्वरूपम्
अभिव्याप्य इदमशेषं जगदेव आत्मतया त्वद्रूपतया सदभिमृशन्ति
तेषां सद्अंश एव दृष्टिर्नान्यत्रेत्यर्थः ।

तत्र दृष्टान्तः न हि विकृतमिति । तेषां कनकमात्रं मृगयमानानां
कनकवणिजां हि कनकविकारे सुन्दरकुरूपाकारतायां दृष्टिर्नास्ति ।
शुद्धकनकमात्रगृआहित्वात्तथात्मविदामपीति भावः ।
दार्ष्टान्तिकेऽपि तद्आत्मत्वे हेतुत्रयमाहुः इदं जगत्स्वेन सच्छक्ति
विशिष्टेन उपादानरूपेण त्वया कृतं पश्चात्सिद्धेऽपि कार्ये कारणांश
व्यभिचारितयान्तर्यामितया च स्वेन त्वया प्रविष्टं पुनः प्रलयेऽप्य्
आत्मतया सच्छक्तिविशिष्टसद्रूपतयैवावसितं चेति । एवं दृष्टान्तेऽपि
विवेचनीयम् । तदेतत्सर्वमभिप्रेत्योक्तं वैष्णवे

ज्ञानस्वरूपमखिलं
जगदेतदबुद्धयः ।
अर्थस्वरूपं पश्यन्तो
भ्राम्यन्ते मोहसम्प्लवे ॥

ये तु ज्ञानविदः शुद्ध
चेतसस्तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति
त्वद्रूपं परमेश्वर ॥ इति ॥ [Vइড়् १.४.४०४१]

॥१०.८७॥ श्रुतयः ॥६९॥

[७०]

तदेवं परिणामादिकं साधितम् । विवर्तश्च परिहृतः । ततो विवर्त
वादिनामिव रज्जुसर्पवन्न मिथ्यात्वं किन्तु घटवन्नश्वरत्वमेव
तस्य । ततो मिथ्यात्वाभावेऽपि त्रिकालव्यभिचारभावाज्जगतो न सत्त्वम् ।

विवर्तपरिणामासिद्धत्वेन तद्दोषद्वयाभाववत्येव हि वस्तूनि सत्त्वं
विधीयते । यथा परमात्मनि तच्छक्तौ वा । सदेव सौम्येदमग्र आसीद्
इत्यादौ इदंशब्दोक्तं जगत् । सूक्ष्मावस्थालक्षणतच्छक्तिब्रह्मणोर्
मिथस्तादात्म्यापन्नयोः सच्छब्दवचनात् । अतः सत्कार्यवादश्च
सूक्ष्मावस्थामवलम्ब्यैव प्रवर्तते । तदेवं स्थितेऽपि पुनराशङ्कते ।

ननु सद्उपादानं जगत्कथं तद्वन्नश्वरतामपि भजन्न खलु सत्
स्यात् । यदि च नश्वरं स्यात्तर्हि कथं शुक्तिरजतवत्व्यभिचारित्वेन
केवलविवर्तान्तः पाति न स्यात् । तदेतत्प्रश्नमुट्टङ्क्य परिहरन्ति ॥

सत इदमुत्थितं सदिति चेन्ननु तर्कहतं
व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।
व्यवहृतये विकल्प इषितोऽन्धपरम्परया
भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ [भागवतम् १०.८७.३६]

इदं विश्वं धर्मि सदिति साध्यो धर्मः सत उत्पन्नत्वात्यद्यत
उत्पन्नं तत्खलु तद्आत्मकमेव दृष्टम् । यथा कनकादुत्पन्नं
कुण्डलादिकं तद्आत्मकं तद्वत् । तत्रोत्थितमेव न तु शुक्तौ रजतमिव ।
तत्रारोपितमिति सिद्धान्तिनः स्वमतमनूदितं नैवेत्याहुः ।

ननु तर्कहतमिति । अपादाननिर्देशेन भेदप्रतीतेर्विरुद्धहेतुत्वात् ।
ननु नामेदं साधयामः । किन्तु तत उत्पन्नत्वेन कुण्डलादिवद्भेदम्
अनूद्य प्रतिषेधामः । तत्राभेद एव स्यादित्याशङ्क्यानैकान्तिकत्वेन
हेतुं दूषयति । व्यभिचरति क्व चेति । क्व च कुत्रापि कारणधर्मानुगतिर्
व्यभिचरति । कार्यकारणधर्मस्य सवांशेनानुगतं भवतीति नियमो
न विद्यत इत्यर्थः । दहनाद्य्उद्भवए प्रभादौ दाहकत्वादि
धर्मादर्शनादिति भावः ।

द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च ।
क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ॥
अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगद् । इत्य्[Vइড়् १.२२.५५] आद्य्
अनन्तरम् ।

एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ॥ इत्य्[Vइড়् १.२२.५६] एतद् ।

एवं व्याख्यातं श्रीस्वामिभिरेव श्रीविष्णुपुराणे नन्वक्षरस्य पर
ब्रह्मणस्तद्विलक्षणं क्षररूपं कथं स्यादित्याशङ्क्य
दृष्टान्तेनोपपादयति एकदेशेति । प्रादेशिकस्याग्नेर्दीपादेर्दाहकस्यापि
तद्विलक्षणा ज्योत्स्ना प्रभा यथा तत्प्रकाशविस्तारस्तथा ब्रह्मणः
शक्तिकृतविस्तार इदमखिलं जगदिति ।

प्रकृतमनुसरामः । ननु तर्हि व्यभिचारित्वे शुक्तिरजतवदेवास्तु ।
तत्राहुः क्व च मृषेति । क्व च शुक्तादावेव प्रातीतिकमात्रसत्ताकं
रजतादिकं मृषा । अन्यत्र यत्र उभयं प्रतीतिमर्थक्रियाकारित्वं च
युनक्ति भजते तत्र न तथा मृषेति ।

ननु कूटताम्रिकादिष्वर्थक्रियाकारितापि दृश्येते इत्याशङ्क्याहुः
व्यवृतय इति । क्रयविक्रयादिलक्षणव्यवहारायैव विकल्पो भ्रम इष्टः ।
न तु तत्तत्प्रसिद्धसम्यग्अर्थक्रियाकारितायै । तद्दानादौ यथावत्
पुण्यफलादिकं क्रीत्वा शुण्ठीज्ञानेन भक्षितमपि नारोग्यजनकं
प्रतुय्त मारकमेव इति । तस्मात्तत्तत्प्रसिद्धसम्यग्अर्थक्रिया
कारितयैव सत्यत्वमङ्गीक्रियते । एकाङ्गेन सा कूटसर्पादौ भयादि
रूपा त्वस्त्येवेति न तद्धेतुः । किं चान्धपरम्परयेति ।

स च क्रयविक्रयादिलक्षणव्यवहारोऽपि न तु यथार्थताम्रिकस्येव तद्
व्यवहारकुशलेष्वपि किन्त्वन्धपरम्परयैव । अतस्तत्र तदीय
कुशलेष्वसिद्धत्वेन व्यवहारस्याभ्यासमात्रत्वात्तस्मादन्यथा
नानुमेयम् । धूमाभासे हि वह्निव्यभिचारस्यौचित्यमेवेति भावः । तद्
एवमर्थक्रियाकारित्वेनास्त्येवेतरस्य भ्रमवस्तुवैलक्ष्यात्सत्यत्वम्
इति विवर्तवादिनि निरस्ते पुनरनश्वरवादी प्रत्युत्तिष्ठते ।

नन्वपाम सोमममृता अभूम अक्षय्यं ह वै चातुर्मासयाजिनः
सुकृतं भवतीति [आथर्वशिर ऊपनिषद्३] श्रुत्यैव कर्मफलस्य
नित्यत्वप्रतिपादनान्नश्वरत्वं न घटते इत्याशङ्क्याहुः भ्रमयतीति ।
हे भगवन् ते तव भारती उरुवृत्तिभिः वह्नीभिर्गौणलक्षणादिभिर्
वृत्तिभिः उक्थजडानुक्थानि यज्ञे शस्यन्ते तत्र जडाः कर्मश्रद्धा
भराक्रान्तमन्दमतय इत्यर्थः तान् भ्रमयति । अयं भावः न हि
वेदः कर्मफल:अ नित्यमभिप्रैति । किन्तु लक्षणया प्राशस्त्यमात्रम् ।
अन्येषां वाक्यानां विध्य्एकवक्यत्वेन विधावेव तात्पर्यात् । अन्यथा
वाक्यभेदप्रसङ्गः तद्यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र
पुण्यजितो लोकः क्षीयत [Cहाऊ ८.१.६] इति न्यायोपार्त हि श्रुत्य्अन्तरविरोधश्
च । अतः कर्मजडानामिदं भ्रममात्रं जगत्तु सत्यमपि परिणाम
धर्मत्वेन नश्वरमेवेति । तदुक्तं भट्टेनैव अथवेतिहासपुराण
प्रामाण्यात्सृष्टिप्रलयावपीष्येते इति ।

अथवा नाभेदं साधयाम इत्यादिकमाशङ्क्य प्रसिद्धस्य सत्तात्रयस्य
मिथो वैलक्षण्यात्परिहरति । क्व च घटादौ अर्थक्रियाकारिण्यपि
व्यभिचरति सत्तेति शेषः । वस्त्व्अन्तरस्यार्थक्रियाकारितायामसाम्र्थ्यात्
देशान्तरे स्वयमैद्यमानत्वात्कालान्तरे तिरोभावित्वाच्च । क्व च शुक्ति
रजतादौ तत्रापि तदानीमपि मृषा अर्थक्रियाकारित्वाभावात् । या तूभय
युकुभयत्र घटादिसत्तायां शुक्तिरजतादिसत्तायां च युग्योगो यस्याः ।
यया सा सत्ता लब्धपदा भवतीत्यर्थः । सा परमकारणसत्ता न तथा
किन्तु सर्वत्रापि सर्वदापि तत्तद्उपाध्य्अनुरूपसर्वार्थक्रियाद्य्
अधिष्ठानरूपेत्यर्थः । तस्मादर्थक्रियाकारित्वेन सत्यमपि
परिणतत्वेन घटवन्नश्वरमेव जगत्न प्रतीतमात्रसत्ताकं न
चानश्वरसत्ताकमिति परस्परवैलक्षण्यदर्शनात्कथमेकमन्यद्
भवितुमर्हतीति भावः ।

कूटताम्रिकत्वमाशङ्क्याहुः व्यवहृतय इति । विकल्प्यते अन्यत्रारोप्यते
इति विकल्पः स्वतःसिद्धस्ताम्रिकादिरर्थः स एव व्यवहृतये इषितः । अयम्
अर्थः । अत्र कूटताम्रिकेण यं व्यवहारं मन्यसे सोऽपि न तेन सिध्यति ।
किं तर्हि सत्यताम्रिकेणैव । अर्थान्तरं व्यवहर्तुर्हृदि तस्यैव
प्रत्यक्षत्वात् । कूटताम्रिकमत्रोपलक्षणमेव क्वचित्तं विनापि तव
गृहे ताम्रिको दत्त इति पश्चाद्दातव्य इति वा छलप्रयोगे स्मर्यमाणेनापि
तेन तथा व्यवहारसिद्धेः । तस्माद्व्यवहाररूपाप्यर्थक्रियाकारिता
तस्यैव भवतीति स सत्य एव । अन्यथा सत्यस्य ताम्रिकस्याभावे शतमप्य्
अन्धानां न पश्यतीति न्यायेन कूटताम्रिकपरम्परयापि व्यवहारोऽपि
न सिध्येदित्याहुः । अन्धपरम्परयेति । अन्धपरम्परा दोषात्स एव
व्यवहृतय इषित इत्यन्वयः । यथान्धपरम्परया व्यवहारो न सिध्येत्
तथा कूटताम्रिकपरम्परयापीत्यर्थः । इत्थमेव विज्ञानवादोऽपि
निराकृतः । शङ्करशारीरिकेऽपि अनादित्वेऽप्यन्धपरम्परा
न्यायेनाप्रतिष्ठैवानवस्था व्यवहारविलोपिनी स्यात् । नाभिप्रायसिद्धिर्
इत्युक्तम् ।

एतदुक्तं भवति यथेदं सुवर्णं केन क्रीतमिति प्रश्ने कश्चिदाह
अनेनान्धेनेति । अनेन कथं परिचितमिति पुनराह तेनान्धेन
परिचायितम् । तेन च कथ्मित्याह केनाप्यपरेणान्धेनेत्य्
अन्धपरम्परयापि न सिधेद्व्यवहारः । किन्तु तत्रान्धपरम्परायाय्ं
यद्येकोऽपि चक्ष्ष्मान् सर्वादिप्रवर्तको भवति तदैव सिध्यति । यथा च
तत्र सर्वेष्वपि चक्षुष्मत एव व्यवहारसाधकत्वम् । तथा कस्मिंश्चित्
ताम्रिके प्रथमं सत्ये सत्येव व्यवहारः सिध्यति । तत्र च सत्यसैव
व्यवहारसाधकत्वम् । तदनुसन्धानेनैव तत्र प्रवृत्तेश्चक्षुष्मत इव
प्रवर्तकत्वात्ततश्च न ताम्रिक सत्य इति स्थिते, यत्र तद्व्यवहारकुशलः
परीक्षया सत्यतावगम्यते स एव कूटताम्रिकेऽप्यारोप्यमाणः सत्यो
भवेत् । तदेवमर्थक्रियाकारित्वेन तस्य सत्यत्वे तद्उपलक्षितं विश्वम्
एव भ्रमवस्तुविलक्षणं सत्यमिति सिद्धम् । परमात्मन एवावयवित्व
व्यवहारसाधितत्वाद्युक्तमेव तत् । तथा च भ्रमादिभिः स्तुतम्
सत्यस्य योनिम् [भागवतम् १०.२.२६] इति । तत्सत्यमित्याचक्षत इति श्रुतिश्च । शिष्टम्
अन्यत्समानम् ।

[७१]

एवं जगतः सत्यत्वमङ्गीकृतं तच्च नश्वरमिति । तत्र नश्वरत्वं
नात्यन्तिकं किन्त्वव्यक्ततया स्थितेरदृश्यतामात्रमेव । सत्कार्यता
सम्प्रत्तिपत्तेः । यद्भूतं भवच्च भविष्यच्चेत्यादि श्रुतेः । अतएव
शुक्तित्वे रजत्वमिव तस्याव्यक्तरूपत्वे जगत्त्वमसन्न भवति । पटवच्
च इति [Vस्२.१.२०] न्यायेन जगदेव हि सूक्ष्मतापन्नमव्यक्तमिति
दृश्यत्वेन भ्रान्तिरजतकक्षमपि जगत्तद्विलक्षणसत्ताकं
तथात्मवदपरिणतत्वाभावेन नैकावस्थसत्ताकमित्येवमर्थ
सिद्धये तद्अनन्तरमेवाहुः ।

न यदिदमग्र आस न भविष्यदतो निधनाद्
अनुमितमन्तरा त्वयि विभाति मृषैकरस ।
अत उपमीयते द्रविणजातिविकल्पपथैर्
वितथमनोविलासमृतमित्यवयस्न्त्यबुधाः ॥ [भागवतम् १०.८७.३७]

यद्यदि इदं विश्वमग्रे सृष्टेः पूर्वं नासत्नासीत्तदा न भविष्यन्
नाभविष्यदेव अडागमाभाव आर्षः आकाशे कुसुममिवेति । श्रुतयशासीद्
एवेति वदन्ति सदेव सौम्येदमग्र आसीतात्मा वा यदिदमग्र आसीदित्य्
आद्याः । तदेवं सूक्ष्मतया त्वत्तादात्म्येन स्थितं कारणावस्थमिदं
जगत्विस्तृततय कार्यावस्थं भवति । अतो यन्निधनान्नाशमात्राद्धेतोः
शुक्तौ रजतमिव त्वयि तदिदमन्तरा सृष्टिमध्य एव न त्वग्रे चान्ते
च विभातीत्यनुमितं तन्मृषेति प्रमाणसिद्धं न भवतीत्यर्थः । तत्र
हेतुमाहुरेकरसे इति । अनुभवान्तराविषयानन्दस्वाद इति । यस्मिन्न्
अनुभूते सति विषयान्तरस्फूर्तिर्न सम्भवति तस्मिंस्त्वयि शुक्त्य्आदि
निकृष्टवस्तूनीव विषयारोपः कथं स्यादित्यर्थः ।

दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे
न पुनरुपासते पुरुषसारहरावस्थान् ॥ इत्य्[भागवतम् १०.८७.३५] अस्माकम्
एवोक्तेः ॥

अतोऽचिन्त्यशक्त्या स्वरूपादच्युतस्यैव तव परिणामस्वीकारेण द्रविण
जातीनां द्रव्यमात्राणां मृल्लोहादीनां विकल्पा भेदा घट
कुण्डलादयस्तेषां पन्थानो मार्गाः प्रकारास्तैरेवास्माभिरुपमीयते
न तु कुत्रापि भ्रमरजतादिभिः । यस्मादेवं तस्माद्वितथा मनो
विलासाः य एतादृशमेव ऋतं तद्रूपं ब्रह्म वेदं जगदित्यबुधा
एवावयन्ति मन्यन्ते । तस्य तद्अधिष्ठानत्वासमभवादिति भावः । इत
शब्दप्रयोगस्त्वत्र मिथ्यासम्बन्धराहित्यव्यञ्जनार्थं व कृत इति
ज्ञेयम् ।

अत्र सत्कार्यवादिनामयमभिप्रायः । मृत्पिण्डादिकारकैर्यो घट
उत्पद्यते सन्नसन् वा । आद्ये पिष्टपेषणम् । द्वितीये क्रियायाः कारकैश्च
तत्सिद्धिरिति दिक् । तस्मान्न प्रकटमेव सन्न चात्यन्तमसन् किन्त्व्
अव्यक्ततया मृत्पिण्डे एव स्थितोऽसौ यथा कारकतन्निष्पन्नक्रियायोगेन
व्यज्यते । तथा परमकारणे त्वयि स्थितं विश्वं त्वत्स्वाभाविकशक्तितन्
निष्पन्नक्रियायोगेनेति । अत्र स्ववेदान्तित्वप्रख्यापकानामन्यथा
युक्तिविरुद्धमेव । मन एव भूतकार्यमिति हि तत्र प्रसिद्धं युक्ति
विरुद्धं च । मनोऽहङ्कारादीनां मनःकल्पितत्वासम्भवात् । तथा हि
सति वेदविरुद्धोऽनीश्वरवादश्च प्रसज्येत । स च निन्दितः पाद्मे

श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् ।
वदन्ति तद्विरुद्धं यो वदेत्तस्मान्न चाधमः ॥ इति ।

असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ इति [गीता १६.८]

श्रीगीतोपनिषदमनीश्वरवादिन एव व्याचक्षते । असत्यं मिथ्याभूतं
सत्यासत्याभ्यामनिर्वचनीयत्वेनाप्रतिष्ठं निर्देशशून्यं स्थाणौ
पुरुषत्ववत्ब्रह्मणीश्वरत्वस्याज्ञानमात्रकल्पितत्वादीश्वराभिमानी
तत्र कश्चिन्नास्तीत्यनीश्वरमेव जगतपरस्परसम्भूतमनाद्य्
अज्ञानपरम्परासम्भूतमपरस्पराः क्रियासातत्ये अतः कामहैतुकं
मनः सङ्कल्पमात्रजातं स्वप्नवदित्यर्थः । अत्र प्रवृत्तिं चेत्यादिना
तेषां संस्कारदोष उक्तः ।

एतां दृष्टिमित्य्[गीता १६.९] आदिना तु गतिश्च निन्दिष्यते इति ज्ञेयमेभिरेव
ब्रह्मण ऐश्वर्योपादिर्मायापि जीवाज्ञानकल्पिता तयैव जगत्सृष्टिरिति
मतम् । यदुक्तं तदीयभाष्ये तद्अनन्यत्वमित्य्[Vस्२.१.१५] आदिसूत्रे
सर्वज्ञेश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्वातत्त्वाभ्याम्
अनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञेश्वरस्य मायाशक्तिः
प्रकृतिरिति श्रुतिस्मृत्योरभिलप्येते इति । किन्त्वत्र विद्याविद्ये मम तनू इत्य्
[भागवतम् ११.११.३] आदि श्रीभगवद्वाक्येन तु विरुद्धमिति । अतो मायावादतया
चायं वादः ख्यायते ।

तदेवं च पाद्मोत्तरखण्डे देवीं प्रति पाषण्डशास्त्रं गणतया श्री
महादेवेनोक्तम्

मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते ।
मयैवं कथितं देवि कलौ ब्राह्मणरूपिणा ॥
वेदान्ते तु महाशास्त्रे मायावादमवैदिकम् ।
मयैव वक्ष्यते देवि जगतां नाशकारणात् ॥ इति ।

तच्चासुराणां मोहनार्थं भगवत एवाज्ञयेति तत्रैवोक्तमस्ति । तया च
पाद्म एवान्यत्र शैवे च

द्वापरादौ युगे भूत्वा कलया मानुषादिषु ।
स्वागमैः कल्पतैस्त्वं च जनान्मद्विमुखान् कुरु ॥

इति श्रीभगवद्वाक्यमिति दिक् । अतएवोक्तं श्रीनृसिंहपुराणे यम
वाक्यम्

विषधरकणभक्षशङ्करोक्तीर्
दशबलपञ्चशिखाक्षपादवादान् ।
महदपि सुविचार्य लोकतन्त्रं
भगवद्उक्तिमृते न सिद्धिरस्ति ॥ इति ।

सर्वेऽत्र वादग्रन्था एव निर्दिष्टा न तु मन्त्रग्रन्था इति नामाक्षरम्
एव साक्षान्निर्दिष्टमिति च नान्यथा मननीयम् । अतो यत्क्वचित्तत्तत्
प्रशंसा वा स्यात् तदपि नितान्तनास्तिकवादं निर्जित्यांशेनाप्यास्तिक्य
वादः ख्यापित इत्यपेक्षया ज्ञेयम् । तस्मात्स्वतन्त्र ईश्वर एव सर्व
स्रष्टा न तु जीवः । स्वाज्ञानेन स्वशक्त्यैवेत्यायातम् । तदुक्तं श्री
बादरायणेनापि बहुत्र संज्ञामूर्तिक्प्तिस्तु त्रिवृत्कुर्वत उपदेशादित्य्
[Vस्२.४.२०] आदिषु ।

अतस्तन्मनोऽसृजत मनः प्रजापतिमित्यादौ मनःशब्देन समष्टि
मनोऽधिष्ठाता श्रीमाननिरुद्ध एव । बहु स्यां प्रजायेय इति [Cहा ६.२.३]
तत्सङ्कल्प एव वा वाच्यः । सत्यस्वाभाविकाचिन्त्यशक्तिः परमेश्वरस्
तुच्छमायिकमपि न कुर्यात्चिन्तामणीनामधिपतिः स्वयं चिन्तामणिर्
एव वा कूटकनकादिवत् । तथा च माध्वभाष्यप्रमाणिता श्रुतिः
अथैनमाहुः सत्यकर्मेति सत्यं ह्येवेदं विश्वमसृजत इति । एवं च

सत्यव्रतं सत्यपरं त्रि सत्यं
सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यमृत सत्यनेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नः ॥ [भागवतम् १०.२.२६]

इत्यत्र सत्यसङ्कल्पत्वं सत्यपारायणत्वं सृष्ट्य्आदिलीलात्रयेषु
सत्यत्वं सत्यस्य विश्वस्य कारणत्वं सत्य एव विश्वस्मिन्नन्तर्यामितया
स्थितत्वं सत्यस्य तस्य स्थितताहेतुत्वं सत्यवचनस्याव्यभिचारिदिष्टेश्च
प्रवर्तकत्वं सत्यरूपत्वमित्येतेषामर्थानामाकूतं परिपाटी च
सङ्गच्छते । अन्यथा सत्यस्य योनिमित्य् आदौ त्रये तत्रापि निहितं च सत्य
इत्यत्राकस्माद् अर्धजरतीयन्यायेन कष्टकल्पनामयार्थान्तरे तु
भगवता स्वप्रतिश्रुतं सत्यकृतं यत्तत्तद्युक्तमेवेत्यतो
ब्रह्मादिभिस्तथा स्तवे स्वारस्यभङ्गः स्यात्प्रक्रमभङ्गश्च ।
तस्मात्सत्यमेव विश्वमिति स्थितम् ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥७१॥

[७२]

तदेव न यदिदमग्र आसेत्यनेन प्राकृतलयोऽपि सत्कार्य
वादेऽनुगमितः । आत्यन्तिके तु मोक्षलक्षणलये न पृथिव्यादीनां नाशः ।
जीवकृतेन तथा भावनामात्रेण स्वाभाविकपरमात्मशक्तिमयानां
तेषां नाशायुक्तेः । लब्धमोक्षेषु श्रीपरीक्षितादिषु तद्देहस्थानामपि
पृथिव्य्आद्य्अंशानां स्थितेः श्रवणात्तथा हिरण्यगर्भांशानां बुद्ध्य्
आदीनामपि भविष्यति । अतस्तेष्वध्यासपरित्याग एवात्यन्तिकलय इत्य्
उच्यते । अतएव

घटे भिन्ने घटाकाश
आकाशः स्याद्यथा पुरा ।
एवं देहे मृते जीवो
ब्रह्म सम्पद्यते पुनः ॥ इत्यत्र ।

तथा

एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ।
दशन्तं तक्षकं पादे लेलिहानं विषानलम् ॥
न द्रक्ष्यसि शरीरं त्वं विश्वं च पृथग्आत्मनः ॥ [भागवतम् १२.५.१२]

इत्यत्राप्युपाधेः संयोग एव पर्तियज्यते न तु तस्य मिथ्यात्वं
प्रतिपाद्यते ।

तथा हि बुद्धीन्द्रियेत्यादिप्रकरणम् । तत्र तद्आश्रयत्वतत्
प्रकाश्यत्वतद्अव्यतिरिक्तत्वेभ्यो हेतुभ्यो बुद्धीन्द्रियादीनां
परमात्मस्वभावशक्तिमयत्वमाह ।

बुद्धीन्द्रियार्थरूपेण
ज्ञानं भाति तद्आश्रयम् ।
दृश्यत्वाव्यतिरेकाभ्याम्
आद्य्अन्तवदवस्तु यत् ॥ [भागवतम् १२.४.२३]

अन्तःकरणबहिःकरणविषयरूपेण परमात्मलक्षणं ज्ञानमेव
भाति तस्मादन्यदेव बुद्ध्य्आदिवस्त्वित्यर्थः । यतस्तद्आश्रयं तेषाम्
आश्रयरूपं तज्ज्ञानम् । क्लीब्त्वमार्षम् । तथापि राजभृत्ययोरिवात्यन्त
भेदः स्यात् । तत्र हेत्व्अन्तरेऽप्याह । दृश्यत्वं तत्प्रकाश्यत्वम्
अव्यतिरेकस्तद्व्यतिरेके व्यतिरेकः ताभ्याम् । तस्मातेकदेशस्थितस्याग्नेर्
ज्योत्स्ना विस्तारिणी यथा । इत्य्[Vइড়् १.२२.५६] आदिवद्बुद्ध्य्आदीनां तत्
स्वाभाविकशक्तिमयत्वमेव सेत्स्यतीति भावः । यत्खल्वाद्य्अन्तवत्
शुक्त्य्आदौ कदाचिदेवारोपितं रजतं तत्पुनरवस्तु तद्आश्रयकत्वतत्
प्रकाशकत्वतद्अव्यतिरेकाभावात् । शुक्त्य्आदिवस्तु न भवति शुक्त्य्
आदिभ्योऽनन्यन्न भवतीत्यर्थः । ततश्चैकविज्ञानेन सर्वविज्ञान
प्रतिज्ञा विरुद्धेतेति भावः ॥७२॥

[७३]

एवमसत्कार्यवादान्तरेऽपि ज्ञेयम् । एकस्यापि
वस्तुनोऽंशभेदेनाश्रयाश्रयित्वं स्वयमेव दृष्टान्तेन स्पष्टयति

दीपश्चक्षुषश्च रूपं च
ज्योतिषो न पृथग्भवेत् ।
एवं धीः खानि मात्राश्च
न स्युरन्यतमादृतात् ॥ [भागवतम् १२.४.२४]

दीपश्चकूरूपाणां महाभूतज्योतिर्अंशरूपत्वात्दीपादिकं न ततः
पृथक् । एवं धीप्रभृतीनि ऋतात्परमात्मनो न पृथक्स्युः । तथापि
यथा महाभूतज्योतिर्दीपादिदोषेण न लिप्यते तथा बुद्ध्यदिदोषेण
परमात्मापि । तद्वदस्याप्यन्यतमत्वादित्याह अन्यतमादिति ।

[७४]

तदेवं धीप्रभृतीनां परमात्मस्वाभाविकशक्तिमयत्वमुक्त्वा
तथापि तेभ्यो बहिरङ्गअशक्तिमयेभ्योऽन्तरङ्गशक्तितटस्थशक्ति
विशिष्टपरमात्मनोऽन्यतमत्वेन तेषामशुद्धत्वव्यञ्जनया स
दोषत्वमुक्त्वा तेष्धीवृत्तिषु तावच्छुद्धस्यैव जीवस्य सकारणम्
अध्यासमाह

बुद्धेर्जागरणं स्वप्नः
सुषुप्तिरिति चोच्यते ।
मायामात्रमिदं राजन्
नानात्वं प्रत्यग्आत्मनि ॥ [भागवतम् १२.४.२५]
बुद्धिवृत्तिरूपं जागरणं स्वप्नः सुषुप्तिरितीदं प्रत्यग्आत्मनि शुद्ध
जीवे विश्वतैर्जसप्राज्ञत्वाख्यं नानात्वं मायामात्रं मायाकृताध्यास
मात्रेण जातमित्यर्थः ।

[७५]

ततः परमात्मनि बुद्ध्य्आदिमयस्य जगतः सतोऽपि सम्पर्कः सुतरां
नास्तीत्यर्थं चाह

यथा जलधरा व्योम्नि
भवन्ति न भवन्ति च ।
ब्रह्मणीदं तथा विश्वम्
अवयव्युदयाप्ययात् ॥ [भागवतम् १२.४.२६]

यथा व्योम्नि व्योमकार्यवायुज्योतिःसलिलपार्थिवांशधूमपरिणता
जलधराः स्वेषामेवावयविनामुदयाद्भवन्ति दृश्यन्ते । अप्ययान्न
भवन्ति न दृश्यन्ते च ते च तन्न स्पृशन्तीति ज्ञेयम् । तथा ब्रह्मणीदं
विश्वमिति योज्यम् । ततः सूक्ष्मरूपेण तस्य स्थितिरस्त्येव जगच्छक्ति
विशिष्टकारणास्तित्वात् । इत्थमेवोक्तं सतोऽभिव्यञ्जकः काल इति ॥७५॥

[७६]

तदेवं वक्तुं कारणास्तित्वं दृष्टान्तेन प्रतिपादयति

सत्यं ह्यवयवः प्रोक्तः
सर्वावयविनामिह ।
विनार्थेन प्रतीयेरन्
पटस्येवाङ्ग तन्तवः ॥ [भागवतम् १२.४.२७]

सर्वेषामवयविनां स्थूलवस्तूनामवयवः कारणं सत्यं सत्यो
व्यभिचाररहितः प्रोक्तः । लोके यथा दर्श्नादित्याह विनेति ॥७६॥

[७७]

अर्थेन स्थूलरूपेण पटेनापि विना तस्मिन् कार्यास्तित्वमपि व्यतिरेकेण
प्रतिपादयति ।

यत्सामान्यविशेषाभ्याम्
उपलभ्येत स भ्रमः । [भागवतम् १२.४.२८]

अयमर्थः । यद्येवमुच्यते पूर्वं सूक्ष्माकारेणापि जगन्नासीत्किन्तु
सामान्यं केवलं शुद्धं ब्रह्मैवासीत्तदेव शक्त्या निमित्तभूतया
विशेषाकारेण जगद्रूपेण परिणतमिति तदसत् । यतः यदेव सामान्य
विशेषाभ्यामुपलभ्येत स भ्रमो विवर्तवाद एव । तत्र हि शुद्धं
ब्रह्मैवाज्ञानरूपया शक्त्या जगत्तया विवृतमिति मतं न चास्माकं तद्
अभ्युपपत्तिः परिणामवादस्य सत्कार्यतापूर्वकत्वादित्यर्थः ॥७७॥

[७८]
नन्वपूर्वमेव कार्यमारम्भविवर्तवादिनामिव युष्माकमपि
ज्ञायतां तत्राह

अन्योन्यापाश्रयात्सर्वम्
आद्यन्तवदवस्तु यत् ॥ [भागवतम् १२.४.२८]

यदाद्यन्तर्वदपूर्वं कार्यं तत्पुनरवस्तु निरूपणासहमित्यर्थः ।
तत्र हेतुरन्योन्योपश्रयात् । यावत्कार्यं न जायते तावत्कारणत्वं मृत्
शुक्त्य्आदेर्न सिध्यति कारणत्वासिद्धौ च कार्यं न जायत एवेति परस्पर
सापेक्षत्वदोषात् । ततः कारणत्वसिद्धये कार्यशक्तिस्तत्रावश्यम्
अभुपगन्तव्या । सा च कार्यसूक्ष्मावस्थैवेति कार्यास्तित्वं सिध्यति ।
तथापि स्थॣलरूपतापादकत्वान्मृद्आदेः कारणत्वमपि सिध्यतीति
भावः ।

[७९]

तदेवं स्वाभावैकशक्तिमयमेव परमात्मनो जगदित्युपसंहरति


विकारः ख्यायमानोऽपि
प्रत्यग्आत्मानमन्तरा ।
न निरूप्योऽस्त्यणुरपि
स्याच्चेच्चित्सम आत्मवत् ॥ [भागवतम् १२.४.२९]

यद्यपि ख्यायमामनः प्रकाशमान एव तथापि स्वल्पोऽपि विकारः प्रत्यग्
आत्मानं परमात्मानं विना तद्व्यतिरेकेण स्वतन्त्रतया न निरूप्योऽस्ति ।
तदुक्तं तद्अनन्यत्वविवरण एव । यदि च तं विनापि स्यात्तदा चित्समः
स्याच्चिद्रूपेण समः स्वप्रकाश एवाभविष्यत् । आत्मवत्परमात्मवन्
नित्यैकावस्थश्चाभविष्यत् ।

[८०]

ननु यदि परमात्मानं विना विकारो नास्ति तर्हि परमात्मनः सोपाधित्वे
निरुपाधित्वं न सिध्यति । तस्मात्सोपाधेर्निरुपाधिरन्येव किमित्य्
अत्राह

न हि सत्यस्य नानात्वम्
अविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर्यद्वज्
ज्योतिषोर्वातयोरिव ॥ [भागवतम् १२.४.३०]

सत्यस्य परमात्मनो नानात्वं न हि विद्यते । यदि तस्य नानात्वं मन्यते
तर्ह्यविद्वान् यतस्तस्य निरुपाधित्वसोपाधित्वलक्षणं नानात्वं
महाकाशघटाकाशयोर्यद्वत्तद्वद्गृहाङ्गनगतसर्वव्यापितेजसोर्
इव बाह्यशरीरवाय्वोरिव चेति ।

[८०]

यस्माद्विकारः ख्यायमानोऽपि प्रत्यग्आत्मानमन्तरा न निरूप्योऽस्त्यणुर्
अपि तस्मात्सर्वशब्दवाच्योऽपि स एवेति सदृष्टान्तमाह

यथा हिरण्यं बहुधा समीयते
नृभिः किर्याभिर्व्यवहारवर्त्मसु ।
एवं वचोभिर्भगवानधोक्षजो
व्याख्यायते लौकिकवैदिकैर्जनैः ॥ [भागवतम् १२.४.३१]

क्रियाभिस्तत्तद्वचनभेदैर्बहुधा कटककुण्डादिरूपेण यथा
सुवर्णमेव वचोभिस्तत्तन्नामभिः प्रतीयते तथा लौकिअक्वैदिकैः
सर्वैरेव वचोभिर्भगवानेव व्याख्यायते । तदुक्तम् सर्व
नामाभिधेयश्च सर्ववेदेडितश्च सः इति स्कान्दे ।

[८१]

तदेवं जगतः परमात्मस्वाभाविकशक्तिमयत्वमुक्त्वा तेन च जीव
कर्तृकेण ज्ञानेन तन्नाशनसामर्थ्यं व्यज्य मोक्षार्थं तद्अध्यास
परित्यागमुपदेष्टुं परमात्मशक्तिमयस्यापि तस्योपाध्यध्यात्मकस्य
जीवस्वरूपप्रकाशावरकत्वरूपं दोषं सदृष्टान्तमुपपादयति

यथा घनोऽर्कप्रभवोऽर्कदर्शितो
ह्यर्कांशभूतस्य च चक्षुषस्तमः ।
एवं त्वहं ब्रह्मगुणस्तद्ईक्षितो
ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ [भागवतम् १२.४.३२]

अर्करश्मय एव मेघरूपेण परिणता वर्षन्ति । (!)

अग्नौ प्राप्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायत वृष्टिर्वृष्टेरन्नं ततः प्रजाः । इति वचनात् ।

अयमर्थः । यथार्कप्रभवोऽर्केणैव दर्शितः प्रका
 
शितश्च घनो निविडो मेघः । अर्कांशभूतस्य चक्षुषस्तमः दिवि
भूमौ च महान्धकाररूपो भवति । एवमहं प्राकृताहङ्कारो
ब्रह्मगुणः परमात्मशक्तिकार्यभूतः तदीक्षितस्तेनैव
परमात्मना प्रकाशितश्च ब्राह्मांशकस्य तटस्थशक्तिरूपत्वात्
परमात्मनो यो हीनांशस्तस्यात्मनो जीवस्यात्मबन्धनः स्वरूप
प्रकाशावरको भवति ।

[८२]

स चाध्यासपरित्यागः स्वतो न भवति किन्तु परमात्मजिज्ञासया तत्
प्रभावेनैवेति वक्तुं पूर्ववदेव दृष्टान्तपअरिपाटीमाह

घनो यदार्कप्रभवो विदीयर्यते
चक्षुः स्वरूपं रविमीक्षते तदा ।
यदा ह्यहङ्कार उपाधिरात्मनो
जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ [भागवतम् १२.४.३३]

घनो यथार्कप्रभवो विदीर्यते इति दृष्टान्तांशे तद्विदारणस्य न
चक्षुःशक्तिसाध्यत्वं किन्तु सूर्यप्रभावसाध्यत्वमिति व्यक्तम् ।
अनेन दार्ष्टान्तिकेऽपि आत्मनः परमात्मनो जिज्ञासया जातेन तत्
प्रसादेनाहङ्कारो नश्यति पलायते इत्यत्रांशे पुरुषज्ञानसाध्यत्वम्
अहङ्कारनाशस्य खण्डितम् । अतो विवर्तवादो नाभ्युपगतः । अत्र
चोपाधिरिति विशेषणेन स्वरूपभूताहङ्कारस्त्वन्य एवेति स्पष्टीभूतम् ।
एवं यथा दृष्टान्तेघनप्रायमहान्धकारावरणाभावात्तत्
प्रभावेण योग्यतालाभाच्च चक्ष्ः कर्तृ भूतं स्वरूपं कर्मभूतम्
ईक्षते स्वस्वरूपप्रकाशमस्तित्वेन जानाति स्वशक्तिप्राकट्यं लभत इत्य्
अर्थः । कदाचित्तदीक्षणोन्मुखः सन् रविं चेक्षते तथा दार्ष्टान्तिकेऽप्य्
अनुस्मरेत्स्मर्तुरनुसन्धातुं योग्यो भवति, आत्मानं चेति शेषः ।

[८३]

निगमयति

यदैवमेतेन विवेकहेतिना
मायामयाहङ्कारणात्मबन्धनम् ।
च्छित्वाच्युतात्मानुभवोऽवतिष्ठते
तमाहुरायन्तिकमङ्ग सम्प्लवम् ॥ [भागवतम् १२.४.३४]

एतेन पूर्वोक्तविवेकशस्त्रेण । मायामयेति विशेषणं स्वरूप
भूताहङ्कारस्य व्यवच्छेदार्थम् । अवतिष्ठते स्वस्वरूपेणावस्थितो
भवति । न केवलमेतावदेव अच्युत्मानुभवः अच्युतेऽच्युतनाम्न्यात्मनि
परमात्मन्यनुभवो यस्य तथाभूत एव सन्नवतिष्ठते ॥ १२.४ ॥ श्री
शुकः ॥८४॥

[८४]

अत्रायमप्येकेषां पक्षः परमेश्वरस्य शक्तिद्वयमस्ति स्वरूपाख्या
मायाख्या चेति । पूर्वया स्वरूपवैभवप्रकाशनमपरया त्विन्द्र
जालवत्तयैव मोहितेभ्यो जीवेभ्यो विश्वसृष्ट्य्आदिदर्शनम् । दृश्यते
चैकस्य नानाविद्यावतः कस्यापि तथा व्यवहारः । न चैवम्
अद्वैतवादिनामिव वेदनमापतितम् । सत्येनैव कर्त्रा सत्यमेव
द्रष्टारं प्रति सत्ययैव तथा शक्त्या वस्तुनः स्फोरणात्लोकेऽपि तथैव
दृश्यत इति भवत्वपीदं नाम ।

यतः सत्यं न सत्यं नः
कृष्णपादाब्जामोदमन्तरा ।
जगत्सत्यमसत्यं वा
कोऽयं तस्मिन् दुराग्रहः ॥

तदेतन्मते सत इदमुत्थितमित्यादिवाक्यानि प्रायो यथा टीका
व्याख्यानमेव ज्ञेयानि । क्वचित्तत्कृतानुमानादौ भेदमात्रस्यासत्त्वे
प्रसक्ते वैकुण्ठादीनामपि तथात्वप्रसक्तिस्तन्मते स्यादित्यत्र तु
तेषामयमभिप्रायः । वयं हि यल्लोकप्रत्यक्षादिसिद्धं वस्तु तदेव
तत्सिद्धवस्त्व्अन्तरदृष्टान्तेन तद्धर्मकं साधयामः । यत्तु तद्
असिद्धं शास्त्रविद्अनुभवैकगम्यतादृशत्वं तत्पुनस्तद्दृष्टान्त
परार्धादिनाप्यन्यथाकर्तुं न शक्यत एवेति । जीवेश्वराभेदस्थापना
च चिद्रूपतामात्र एवेति । अथ स्वाभाविकमायाशक्त्या परमेश्वरो विश्व
सृष्ट्य्आदिकं करोति जीव एव तत्र मुह्यतीत्युक्तम् । तत्र सन्देहं
प्रश्नोत्तराभ्यां परिहरत्यष्टभिः

श्रीविदुर उवाच
ब्रह्मन् कथं भगवतश्
चिन्मात्रस्याविकारिणः ।
लीलया चापि युज्येरन्
निर्गुणस्य गुणाः क्रियाः ॥ [भागवतम् ३.७.२]

हे ब्रह्मन् चिन्मात्रस्य चिन्मात्रस्वरूपस्य सतः स्वरूपशक्त्या
भगवतः श्रीवैकुण्ठादिगततादृशैश्वर्यादियुक्तस्य अतएव निर्गुणस्य
प्राकृतगुणास्पृष्टस्य तत एवाविकारिणस्तादृक्स्वरूपशक्तिविलास
भूतानां क्रियाणामनन्तानामपि सदोदितवरानन्तविधप्रकाशे तस्मिन्
नित्यसिद्धत्वात्तत्तत्क्रियाविर्ग्भावकर्तुस्तस्यावस्थाअन्तर
प्राप्तत्वाभावात्प्राकृतकर्तुरिव न विकारापत्तिरिति । निर्विकारस्य च
कथं सत्त्वादयः प्राकृतगुणाः कथं वा तदासङ्गहेतुकाः स्थित्य्
आदयः क्रियाश्च युज्येरन् । ततश्च चिन्मात्रवस्तुविरोधादेव ते च ताश्च
न युज्यन्ते । भगवत्त्वे तु स्वैरचेष्टयापि न युज्येरनित्याह लीलया
वापीति । अत्राविकारित्वनिर्गुणत्वाभ्यां सह चिन्मात्रभगवत्त्वं चेत्य्
उभयमपि स्वीकृत्यैव पूर्वपक्षिणा पृष्टम् ।

[८५]

ततश्च तस्य चिन्मात्रस्वरूपस्य भवतु भगवत्त्वं तत्रास्माकं न
सन्देहः । किन्तु तस्य कथमितरगुणादिस्वीकारो युज्यते इत्येव पृच्छत
इति वाक्यार्थः । ततश्चिन्मात्रत्वे भगवत्त्वे च तस्य तुच्छा गुणाः क्रियाश्
च न सम्भवन्त्येवेति द्विगुणीभूयैव प्रश्नः । लीलया वापि कथं
युज्येरनिति विशदयति ।

क्रीडायामुद्यमोऽर्भस्य
कामश्चिक्रीडिषान्यतः ।
स्वतस्तृप्तस्य च कथं
निवृत्तस्य सदान्यतः ॥ [भागवतम् ३.७.३]

उद्यमयैत्प्रवर्तयति इत्युद्यमः । अर्भकस्य क्रीडायां प्रवृत्तिहेतुः
कामोऽस्ति । अन्यतस्तु वस्त्व्अन्तरेण बालान्तरप्रवर्तनेन वा तस्य
क्रीडेच्छा भवति । भगवतस्तु स्वतः स्वेनात्मना स्वरूपवैभवेन च
तृप्तस्य अत एवान्यतः सदा निवृत्तस्य च कथमन्यतो जीवाज्जगच्च
निमित्तात्चिक्रीडिषेति । न च तस्य ते गुणास्ताङ्क्रियाश्च न विद्यन्ते इत्य्
अपलपनीयम् ।

[८६]

तथैव प्रसिद्धेरित्याह

अस्राक्षीद्भगवान् विश्वं
गुणमय्यात्ममायया ।
तया संस्थापयत्येतद्
भूयः प्रत्यपिधास्यति ॥ [भागवतम् ३.७.४]

गुणमय्या त्रैगुण्यव्यञ्जिन्या आत्माश्रितया मायया संस्थापयति पालयति
प्रत्यपिधास्यति प्रातिलौम्येन तिरोहितं करिष्यति । जीवस्य च कथं माया
मोहितत्वं

[८८]

घटतीत्याक्षेपान्तरमाह

देशतः कालतो योऽसाव्
अवस्थातः स्वतोऽन्यतः ।
अविलुप्तावबोधात्मा
स युज्येताजया कथम् ॥ [भागवतम् ३.७.५]

योऽसौ देशादिभिरविलुप्तावबोध आत्मा जीवः स कथमजयाविद्यया
युज्येत । तत्र देशव्यवधानतो देशगतदोषतो वा चक्षुः प्रकाश इव
कालतो विद्युदिव अवस्थातः स्मृतिरिव स्वतः शुक्तिरजतमिव अन्यतो
घटादिवस्त्विव न तस्यावबोधो लुप्यते अव्याहतस्वरूपभूत
ज्ञानाश्रयत्वादेवेत्यर्थः ॥

[८९]

तत्रैव विरोधान्तरमाह

भगवानेक एवैष
सर्वक्षेत्रेष्ववस्थितः ।
अमुष्य दुर्भगत्वं वा
क्लेशो वा कर्मभिः कुतः ॥ [भागवतम् ३.७.६]

एष एक एव भगवान् परमात्मापि सर्वक्षेत्रेषु सर्वस्य जीवस्य क्षेत्रेषु
देहेष्ववस्थितः । तत्र सति कथममुष जीवस्य दुर्भगत्वं स्वरूप
भूतज्ञानादिलोपः कर्मभिः क्लेशश्च तस्य वा कुतो नास्ति । न ह्येकस्मिन्
जलादौ स्थितयोर्वस्तुनोः कस्यचित्तत्संसर्गः कस्यचिन्नेति युज्यत इत्य्
अर्थः ।

[९०]

तत्र केवलं चिन्मात्रत्वं न सम्भवतीति भत्गवत्त्वमेवाङ्गीकृत्य श्री
मैत्रेय उवाच

सेयं भगवतो माया
यन्नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य
कार्पण्यमुत बन्धनम् ॥ [भागवतम् ३.७.९]

यया विश्वसृष्ट्य्आदिकं भवति सेयं भगवतोऽचिन्त्यस्वरूपशक्तेर्
मायाख्या शक्तिः । यद्या च नयेन तर्केण विरुध्यते तर्कातीततया सेयम्
अप्यचिन्त्येत्यर्थः । यद्यप्येवं द्वयोरप्यचिन्त्यत्वं तथापि भगवतो
म्>अयेत्यनेन व्यक्तत्वात्स्वरूपशक्तेरन्तरङ्गत्वाद्बहिरङ्गाया
मायाया गुणैः सत्त्वादिभिस्तत्कार्यैः स्थापनादिलीलाभिश्च नासौ स्पृशत
इत्यर्थः । तन्त्रेण चायमर्थः । यद्यया मायया येन भगवता सह न
विरुध्यते नासौ विरोधविषयीक्रियत इति च एवमेव षष्ठे नवमाध्याये
 दुरवबोध इव तवायमित्य्[भागवतम् ६.९.३४] आदिना गद्येन तस्य सगुण
कर्तृत्वं विरुध्य पुनरथ तत्रभवानिति [भागवतम् ६.९.३५]
गद्येनान्तर्यामितया गुणविसर्गपतितत्वेन जीववद्भोक्तृत्वयोगं
सम्भाव्य, न हि विरोध उभयमित्य्[भागवतम् ६.९.३६] आदि गद्येन तत्र
तत्रावितर्क्यशक्तित्वमेव च सिद्धान्ते योजितम् ।

तत्र स्वरूपशक्तेरवितर्क्यत्वं भगवतीत्यादिभिर्विशेषणैर्मायायाश्
चात्ममायामित्यनेन दर्शितम् । तत्र स्वरूपद्वयाभावादित्यस्य
तथाप्यचिन्त्यशक्त्या तत्कर्तृत्वं तद्अन्तःपातित्वं च विद्यते इत्यर्थः ।
समविषममतीनामिति [भागवतम् ६.९.३७] तु गद्यं तथाप्युच्चावचबुद्धीनां
तथा स्फुरसीति प्रतिपत्त्य्अर्थं ज्ञेयम् । दुरवबोध इवेति प्राक्तनगद्ये
त्वशरीर इति शरीरचेष्टां विना अशरण इति भूम्य्आद्य्आश्रयं विना इत्य्
अर्थः ।

अथ तत्रेत्यादौ स्वकृतेऽपि तस्यापि हेतुकर्तृत्वाद्योजनीयम् । तस्मादत्रापि
स्वरूपशक्तेरेव प्राधान्यं दर्शितम् । अतएव ऋतेऽर्थं यत्प्रतीयेत इत्य्
[भागवतम् २.९.३४] आदौ मायाया आभासस्थानीयत्वं प्रदर्श्य तद्अस्पृश्यत्वम्
एव भगवतो दर्शितम् । त्वमाद्यः पुरुषः साक्षादित्यादौ मायां
व्युदस्य चिच्छक्त्या इत्य्[भागवतम् १.७.२३] अनेन च तथा ज्ञापितम् । माया परैत्य्
अभिमुखे च विलज्जमाना इत्य्[भागवतम् २.७.४७] अनेन च । तदेवं भगवति तद्
विरोधं परिहृत्य जीवेऽप्यविद्यासम्बन्धमतर्क्यत्वेन दर्शितया तन्
माययैव समादधति । ईश्वरस्येति यदित्यनेनैव सम्बध्यते ।

अर्थवशादत्र च तृतीयया परिणम्यते । यद्यया ईश्वरस्य स्वरूप
ज्ञानादिभिः समर्थस्य अतएव विमुक्तस्य जीवस्य कार्पण्यं तत्तत्
प्रकाशतिरोभावस्तथा बन्धनं तद्दर्शिगुणमयजालप्रवेशश्च
भवतीति । तदुक्तम् तत्सङ्गभ्रंशितैश्वर्यमिति [भागवतम् ६.५.१५] । तदेतत्
सर्वमभिप्रेत्य श्रुतयोऽप्याहुः स यदजया त्वजामित्यादावपेत
भग इति [भागवतम् १०.८७.३८] च ।

अत्र मूलपद्ये भगवतो मायेत्यनेन भगवत्त्वं तु मायिकमित्य्
आयातम् । इन्द्रस्य मायेत्यत्र यथेन्द्रत्वम् ।

[९१]

एवं पूर्वत्रापि ज्ञेयम् । पुनरपि जीवस्य वस्तुतः स्वीयतत्तद्
अवस्थत्वाभावेऽपि भगवन्माययैव तत्तत्प्रतीतिरिति सदृष्टान्तम्
उपपादयति ।

यदर्थेन विनामुष्य
पुंस आत्मविपर्ययः ।
प्रतीयत उपद्रष्टुः
स्वशिरश्छेदनादिकः ॥ [भागवतम् ३.७.१०]

यद्यस्य । मायया हेतोरर्थेन विनापि । यद्यपि तस्य त्रिकालमेव सोऽर्थो
नास्ति तथाप्यात्मविपर्ययः आत्मविस्मृतिपूर्वकपराभिमाने नाहमेव
तद्धर्मीत्येवंरूपः सोऽर्थः स्यात् । उपद्रष्टुर्जीवस्य । तृतीयार्थे
षष्ठी । स्वप्नावस्थायां जीवेन स्वशिरश्छेदनादिकोऽतीवासम्भवोऽर्थः
प्रतीयते । न हि तस्य शिरश्छिन्नं न तु वा स्वशिरश्छेदं कोऽपि पश्येत् ।
किन्तु भगवन्मायैवान्यत्रसिद्धं तद्रूपमर्थं तस्मिन्न्
आरोपयतीति ।

[९२]

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति न्यायेन । अतएव
शुद्धस्यापि सतो जीवस्यौपाधिकेनैव रूपेणोपाधिधर्मापत्तिरिति
दृष्टान्तान्तरेणोपपादयतीति

यथा जले चन्द्रमसः
कम्पादिस्तत्कृतो गुणः ।
दृश्यतेऽसन्नपि द्रष्टुर्
आत्मनोऽनात्मनो गुणः ॥ [भागवतम् ३.७.११]॥

यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधिकृतः कम्पादिगुणो
धर्मो दृश्यते न त्वाकाशस्थितस्य तद्वदनात्मनः प्रकृतरूपोपाधेर्
धर्मः आत्मन शुद्धस्यासन्नपि अहमेव सोऽयमित्यावेशान्
माययोपाधितादात्म्यापन्नाहङ्काराभासस्य प्रतिबिम्बस्थानीयस्य तस्य
द्रष्टुराध्यात्मिकावस्थस्यैव यद्यपि स्यात्तथापि शुद्धोऽसौ तद्
अभेदाभिमानेन तं पश्यतीत्यर्थः । तदुक्तमेकादशे श्रीभगवता


नृत्यतो गायतः पश्यन्
यथैवानुकरोति ताम् ।
एवं बुद्धिगुणान् पश्यन्न्
अनीहोऽप्यनुकार्यते ॥ [भागवतम् ११.२२.५३] इति ।

तथैवोक्तम् शुद्धो विचष्टे ह्यविशुद्धकर्तुरिति । विशब्दस्य चात्र तद्
आवेश एव तात्पर्यं तस्माद्भगवतोऽचिन्त्यस्वरूपान्तरङ्गमहाप्रवल
शक्तित्वाद्बहिरङ्गया प्रवलयाप्यचिन्तयापि माययापि न सृष्टिः । जीवस्य
तु तया सृष्टिरिति सिद्धान्तितम् ॥ ३.७ ॥ श्रीशुकः ॥ ८५९२ ॥

[९३]

एवं सृष्ट्य्आदिलीलात्रये योजिनेऽपि पुनर्विशेषतः संशय्य सिद्धान्तः
क्रियते स्थूणानिखननन्यायेन । ननु पालनलीलायां ये येऽवतारास्तथा
तत्रैव स्वप्रसादव्यट्जकस्मिताभयमुद्रादिचेष्टया सुरपक्षपातो
युद्धादिचेष्टया दैत्यसंहार इत्यादिका या या वा लीलाः श्रूयन्ते ते च ताश्
च स्वयं परमेश्वरेण क्रियन्ते न वा । आद्ये पूर्वपक्षस्तदत्रस्थ एव
प्रत्युत पक्षपातादिना वैषम्यं च । अन्ते तेषामवताराणां लीलानां च
न स्वरूपभूतया सिध्यतीति सम्प्रतिपत्तिभङ्गः । अत्रोच्यते । सत्यं विश्व
पालनार्थं परमेश्वरो न किञ्चित्करोति किन्तु स्वेन सहैवावतीर्णान्
वैकुण्ठपार्षदान् तथाधिकारिकदेवाद्य्अन्तर्गतान् तथा तटस्थान्
अन्यांश्च भक्तानानन्दयितुं स्वरूपशक्त्याविष्कारेणैव नानावतारान्
लीलाश्चासौ प्रकाशयति । तदुक्तं पाद्मे

मुहूर्तेनापि संहर्तुं शक्तो यद्यपि दानवान् ।
मद्भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥
दर्शनध्यानसंस्पर्शैर्मत्स्यकूर्मविहङ्गमाः ।
स्वान्यपत्यानि पुष्णन्ति तथाहमपि पद्मज ॥ इति ।

हरिभक्तिसुधोदये

नित्यं च पूर्णकामस्य जन्मानि विविधानि मे ।
भक्तसर्वेष्टदानाय तस्मात्किं ते प्रियं वद ॥ इति ।

तथा श्रीकुन्तीदेवीवचनं च भक्तियोगविधानार्थं कथं पश्येम
हि स्त्रिय इति [भागवतम् १.८.२०] । अत्र भक्तियोगविधानार्थं तद्अर्थमवतीर्णं
त्वामिति टीका च । श्रीब्रह्मवचनं च

प्रपञ्चं निष्प्रपञ्चोऽपि
विडम्बयसि भूतले ।
प्रपन्नजनतानन्द
सन्दोहं प्रथितुं प्रभो ॥ [भागवतम् १०.१४.३७]

स्वरूपशक्त्यैवाविष्कारश्च श्रीब्रह्मणैव दर्शितः

एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतार
[भागवतम् ३.९.२३] इत्यादिना । गृहीता गुणाः कारुण्यादयो यत्र तथाभूतोऽवतारो
यस्येत्यर्थः । तदेवं भक्तानन्दार्थमेव तान् प्रकटयतस्
तस्याननुसंहितमपि सुरपक्षपातादिविश्वपालनरूपं तन्माया
कार्यं स्वत एव भवति । लोके यथा केचिद्भक्ताः परस्परं भगवत्
प्रेममुखोल्लासाय मिलितास्तदनभिज्ञानपि कांश्चिन्मार्दङ्गिकादीन्
सङ्गृह्य तद्गुणगानानन्देनोन्मत्तवन्नृत्यन्तो विश्वेषामेवामङ्गलं
घ्नन्ति मङ्गलमपि वर्धयन्तीति । तदुक्तं वाग्गद्गदेत्यादौ मद्
भक्तियुक्तो
भुवनं पुनातीति [भागवतम् ११.१४.२४] । एवमेवोक्तम्

सृष्ट्य्आदिकं हरेर्नैव
प्रयोजनमपेक्ष्य तु ।
कुरुते केवलानन्दाद्
यथा मर्त्यस्य नर्तनम् ॥ इति । [णारायणसंहिता]

न च वक्तव्यं स्वेन तेषां तैरपि स्वस्यानन्दने स्वतस्तृप्तताहानिः स्यात्
तथान्यान् परित्यज्य च तेषामेवानन्दने वैषम्यान्तरमपि स्यादिति ।
तत्राद्ये विशुद्धोर्जितसत्त्वतनुमाश्रितेऽपि मुनिजने स्वतस्तृप्ति
पराकाष्ठां प्राप्तो भक्तवात्सल्यदर्शनात्तद्अनुचर एवासौ गुणो न
तु तत्प्रतिघातीति लभ्यते । यथा सर्वान्मुनीन् प्रति श्रीपरीक्षिद्वाक्यम्


नेहाथ नामुत्र च कश्चनार्थ
ऋते परानुग्रहमात्मशीलम् । [भागवतम् १.१९.२३]

तथा जडभरतचरितादौ सिन्धुपतय आत्मसतत्वं विगणयतः
परानुभावः परमकारुणिकतयोपदिश्य इत्यादि [भागवतम् ५.१३.२४]

श्रीनारदपूर्वजन्मनि चक्रुः कृपां यद्यपि तुल्यदर्शनाः;
शुश्रूषमाणे मुनयोऽल्पभाषिणि । [भागवतम् १.५.२४]

तथा कुन्तीस्तवे

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ [भागवतम् १.८.२७]

अकिञ्चना भक्ता एव वित्तं सर्वस्वं यस्येति टीका च । ततोऽन्यथा
चाकृतज्ञतादोषश्च निर्दोषे भगवत्यापतति । ततः सिद्धे तथाविधस्यापि
भक्तवात्सल्ये भक्तानां दुःखहान्या सुखप्राप्त्या वा स्वानन्दो
भवतीत्यायातमेव । किं च परमसारअभूताया अपि स्वरूपशक्तेः सार
भूता ह्लादिनी नाम या वृत्तिस्तस्या एव सारभूतो वृत्तिविशेषो भक्तिः सा च
रत्य्अपरपर्याया । भक्तिर्भगवति भक्ते च निक्षिप्तनिजोभयकोटिः
सर्वदा तिष्ठति । अतएवोक्तं भगवान् भक्तभक्तिमानिति । तस्माद्
भक्तस्थया तया भगवतस्तृप्तौ न स्वतस्तृप्तिर्ताहानिः । प्रत्युत
शक्तित्वेन स्वरूपतो भिन्नाभिन्नाया अपि तस्याः ये यथा मां प्रपद्यन्ते
तांस्तथैव भजाम्यहमिति न्यायेन भक्तचित्तस्फुरिताया भेदवृत्तेर्
एव स्फुरणात्भगवतो मां ह्लादयत्यस्य भक्तिरिति
आनन्दचमत्कारातिशयश्च भवति । शक्तितद्वतोर्भेदमतेऽपि
विशिष्टस्यैव स्वरूपत्वं सम्प्रतिपन्नम् ।

तदेतत्सर्वमभिप्रेत्य भणितं दुर्वाससं प्रति श्रीविष्णुना

अहं भक्तपराधीनो
ह्यस्वतन्त्र इव द्विज ।
साधुभिर्ग्रस्तहृदयो
भक्तैर्भक्तजनप्रियः ॥

नाहमात्मानमाशासे
मद्भक्तैः साधुभिर्विना ।
श्रियं चात्यन्तिकीं ब्रह्मन्
येषां गतिरहं परा ॥

ये दारागारपुत्राप्त
प्राणान् वित्तमिमं परम् ।
हित्वा मां शरणं याताः
कथं तांस्त्यक्तुमुत्सहे ॥

मयि निर्बद्धहृदयाः
साधवः समदर्शनाः ।
वशे कुर्वन्ति मां भक्त्य्
सत्स्त्रियः सत्पतिं यथा ॥

मत्सेवया प्रतीतं ते
सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः
कुतोऽन्यत्कालविप्लुतम् ॥

साधवो हृदयं मह्यं
साधूनां हृदयं त्वहम् ।
मद्अन्यत्ते न जानन्ति
नाहं तेभ्यो मनागपि ॥ [भागवतम् ९.४.६३६८] इति ।

अत्र ये दारागारेति त्रयमकृतज्ञतानिवारणे साधवो हृदयं मह्यमिति
स्वतस्तृप्तिपरिहारे । भक्तेः स्वरूपशक्तिसारह्लादिनीसारत्वे च अहं
भक्तपराधीन इति द्वयम् ।

तत्रैव भक्तेष्वपि भक्तिरूपेण तत्प्रवेशे सति विशेषतो मत्सेवया
प्रतीतमित्यपि ज्ञेयम् । ततो न प्राक्तनो दोषः । द्वितीयेऽप्येवम्
आचक्ष्महे । परानन्दने प्रवृत्तिर्द्विधा जायते परतो निजाभीष्ट
सम्पत्त्यै क्वचित्तद्अभीष्टमात्रसम्पत्त्यै च । तत्र प्रथमो नात्राप्य्
अयुक्तः सात्मार्थमात्रतया कुत्रापि पक्षपाताभावात् । अत्रोत्तरपक्षे
परसुखस्य परदुःखस्य चानुभवेनैव परानुकूल्येनैव प्रवृत्तीच्छा
जायते न तु यत्किञ्चिज्ज्ञानमात्रेण चित्तस्य परदुःखास्पर्शे कृपारूप
विकारासम्भवात् ।

यथा कण्टकबिद्धाङ्गो
जन्तोर्नेच्छति तां व्यथाम् ।
जीवसाम्यं गतो लिङ्गैर्
न तथाबिद्धकण्टकः ॥ इति न्यायात् ।

ततश्च सदा परमानन्दैकरूपेऽपहतकल्मषे भगवति प्राकृतस्य
सुखाभिधदुःखस्य प्रसिद्धदुःखस्य च सूर्य पेचकचक्षुर्ज्योतिष
इव तमस इव चात्यन्ताभावात्तत्तद्अनुभवो नास्त्येव ।

यत्तु भगवति दुःखसम्बन्धं परिजिहीर्षन्तोऽपि केचिदेवं वदन्ति,
तस्मिन् दुःखानुभवज्ञानमस्त्येव, तच्च परकीयत्वेनैव भासते न
तु स्वीयत्वेनेति । तदपि घट्टकुड्यां प्रभातम् दुःखानुभवो नाम
हि अन्तःकरणे दुःखस्पर्शः, स च स्वस्माद्भवतु परस्माद्वेति
दुःखसम्बन्धाविशेषात् । असर्वज्ञतादोषश्च सूर्यदृष्टान्तेनैव
परिहृतः, प्रत्युत गुणत्वेनैव दर्शितश्च । तस्मात्तस्मिन् यत्किञ्चिद्
दुःखज्ञानमस्तु, दुःखानुभवस्तु नास्त्येव । यत एव कर्तुमकर्तुम्
अन्यथाकर्तुं समर्थे परमकरुणामयनिचयशिरोमणौ तस्मिन्
विराजमानेऽप्यद्यापि जीवाः संसारदुःखमनुभवन्तीत्यत्र नैर्घृण्य
परिहारश्च भवति । यत्तु भक्तानां सुखं तत्तस्य भक्तिरूपमेव,
तथा तेषां दुःखं भगवत्प्राप्त्य्अन्तरायेणैव भवति, तत्र चाधिका
भगवत्येव चित्तार्द्रता जायते सा च भक्तिरेवेति ।
क्वचिद्गजेन्द्रादीनामपि प्राकृत एव दुःखे स एव मम शरणमित्य्
आदिना तथैव भक्तिरुद्भूतैवेति । क्वचिद्यमलार्जुनादिषु श्रीनारदादि
भक्तानां भक्तिः स्फुटैवेति च सर्वथा दैन्यात्मकभक्तभक्त्य्
अनुभव एव तं करुणयति न तु प्राकृतं दुःखं, योग्ये कारुणे सत्य्
अयोग्यस्य कल्पनानौचित्यआत्दुःखसद्भावोऽस्त्येव कारणत्वे सर्व
संसारोच्छित्तेः ।

अथ तस्य परम्पराकारणत्वमस्त्येव चेदस्स्तु न कापि हानिरिति । तस्माद्
उभयथा भक्तानन्दने तद्भक्त्य्अनुभव एव भगवन्तं
प्रवर्तयतीति सिद्धम् । ततेतदुक्तं भवति । यद्यन्यस्य सुखदुःखम्
अनुभूयापि तत्तत्त्यागेनेतरस्य सुखः दुःखहानिं वा सम्पादयति
तदैव वैषम्यमापतति । श्रीभगवति तु प्राकृतसुख
दुःखानुभवाभावान्न तदापतति, यथा कल्पतरौ । तदुक्तं श्रीमद्
अक्रूरेण

न तस्य कश्चिद्दयितः सुहृत्तमो
न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
तथापि भक्तान् भजते यथा तथा
सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ इति [भागवतम् १०.३८.२२] ।

अत्र भक्तादन्य एव कश्चिदिति ज्ञेयम् ।

कः पण्डितस्त्वद्अपरं शरणं समीयाद्भक्तप्रियादृतगिरः सुहृदः
कृतज्ञादित्य्[भागवतम् १०.४८.२६] एतद्वाक्येनैव तत्प्रियत्वप्रोक्तेः । श्री
महादेवेनाप्युक्तम्

न ह्यस्यास्ति प्रियः कश्चिन्
नाप्रियः स्वः परोऽपि वा ।
आत्मत्वात्सर्वभूतानां
सर्वभूतप्रियो हरिः ॥

तस्य चायं महाभागश्
चित्रकेतुः प्रियोऽनुगः ।
सर्वत्र समदृक्शान्तो
ह्यहं चैवाच्युतप्रियः ॥ [भागवतम् ६.१७.३३३४]

तथोक्तं श्रीप्रह्लादेनापि

चित्रं तवेहितमहोऽमितयोगमाया
लीलाविसृष्टभुवनस्य विशारदस्य ।
सर्वात्मनः समदृशोऽविषमः स्वभावो
भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ [भागवतम् ८.२३.८] इति ।

अर्थश्च यत्त्वं भक्तप्रियोऽसि सोऽपि समदृशस् तव स्वभावोऽविषमः
विषमो न भवति । तत्र हेतुगर्भविशेषणं कल्पतरुस्वभाव इति ।
तस्माद्विषमस्वभावतया प्रतीतेऽपि त्वय्यवैष्यमित्यतीव चित्रमिति ।
अथवा परत्रापि कल्पवृक्षादिलक्षणे समान एवाश्रयणीये वस्तुनि भक्त
पक्षपातरूपवैषम्यदर्शनाद्वैषम्यमपि समस्यैव स्वभाव इत्य्
एव व्याख्येयम् । तथा पूर्वत्रापि भक्तान् भजत इति वैषम्य एव
योजनीयमिति । वस्तुतस्तु श्रीभगवत्यचिन्त्यमैश्वर्यमेव मुख्यस्
तद्अविरोधे हेतुः । यदुक्तम् नमो नमस्तेऽस्त्वृषभाय सात्वतामित्य्
[भागवतम् २.४.१४] आदौ द्वितीयस्य चतुर्थे टीकायाम् । तदेवं वैषम्यप्रतीताव्
अप्यदोषत्वायाचिन्त्यमैश्वर्यमाहेति । तदुक्तं श्रीभीष्मेण

सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥ इति [भागवतम् १.९.२१२२]

तथा श्रीभगवता

समोऽहं सर्वभूतेषु
न मे द्वेष्योऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्यहम् ॥ इति [भागवतम् ९.२९]

तदेवं तत्तद्दोषे भक्तपक्षपातस्य स्वरूपशक्तिसारभूतत्वे
भक्तविनोदार्थमेव स्वरूपशक्त्यैव स्वयमेव च तत्तद्अवतारलीलाः
करोति भगवान् ततो विश्वपालनं तु स्वयमेव सिध्यतीति स्थिते न वैदुर
प्रश्नस्तद्अवस्थः । अत्र देवादीनां प्राकृततया तैः सह लीलायां स्वतस्
तृप्तताहानिस्तेषु तद्अंशावेशादिस्वीकारेणाग्रे परिहर्तव्या । तथा न
चावतारादीनां स्वरूपशक्त्य्आत्मताहानिः । तथा भक्तविनोदैक
प्रयोजनकस्वैरलीलाकैवल्येन चान्यत्र रागद्वेषाभावान्न वैषम्यम्
अपि प्रत्युत पित्तदूषितजिह्वानां खण्डाद्वैरस्य इव तस्मान्निग्रहेऽप्य्
अनुभूयमाने तेषां दुष्टतादिक्षपणलक्षणं हितमेव भवति । अत्र

न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते ।
आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः ।
यन्मया चेष्टितं पुंसः स्थित्य्उत्पत्त्य्अप्ययाय हि ।
अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥ [भागवतम् ९.२४.५७५८]

इति नवमान्तस्थश्रीशुकवाक्यानुसारेण प्रलये लीनोपाधेर्जीवस्य
धर्माद्य्असम्भवादुपाधिसृष्ट्य्आदिना धर्मादिसम्पादनेनानुग्रह
इति तदीय=टीकानुसारेण च । तथा,

लोके भवान् जगति नः कलयावतीर्णः
सद्रक्षणाय खलनिग्रहणाय चान्यः ।
कश्चित्तदीयमभियाति निदेशमीश
किं वा जनः स्वकृतमृछति तन्न विद्मः ॥ [भागवतम् १०.७०.२७]

इति जरासन्धबद्धराजवृन्दनिवेदनेऽपि ईश्वरे त्वयि सद्रक्षणार्थम्
अवतीर्णेऽपि चेदस्माकं दुःखं स्यात्तर्हि किमन्यः कश्चिज्जरासन्धादिस्
त्वद्आज्ञामपि लङ्घयति किं च त्वया वक्ष्यमाणोऽपि जनः स्वकर्म
दुःखं प्राप्नोतीत्येवेति न विद्मः । न चैतदुभयमपि युक्तमिति
भावः । इति तदीयटीकानुसारेण च लीलायाः स्वैरत्वेऽपि दुर्घटनी मायैव
तदा तदा देवानुसरादीनां तत्तत्कर्मोद्बोधसन्धानमपि घटयति ।
यथा स्वस्वकर्मणा पृथगेव चेष्टमानानां जीवानां चेष्टाविशेषाः
परस्परशुभाशुभशकुन्ततया घटिता भवतीत्यादिकं लोकेऽपि दृश्यते ।
यत्र तु क्वचिदेषा तल्लीलाजवमनुगन्तुं न शक्नोति तत्रैव परमेशितुः
स्वैरता व्यक्तीभवति । यथा

गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् ।
आनयस्व महाराज मच्छासनपुरस्कृतः ॥ [भागवतम् १०.४५.४५]

इति यमविषयकश्रीभगवद्आदेशादौ । ततश्च तस्यातिविरलप्रचारत्वान्
न सर्वत्र कृतहान्य्अकृताभ्यागमप्रसङ्गश्च ।

अथ यदि केचिद्भक्तानामेव द्विषन्ति तदा तदा भक्तपक्ष
पातान्तःपातित्वाद्भगवता स्वयं तद्द्वेषेऽपि न दोषः । प्रत्युत भक्त
विषयकतद्रतेः पोषकत्वेन ह्लादिनीवृत्तिभूतानन्दोल्लासविशेष एवासौ ।
येन हि द्वेषेण प्रतिपदप्रोन्मीलत्सान्द्रानन्दवैचित्रीसमतिरिक्तभक्ति
रसमरुस्थलब्रह्मकैवल्यापादानरूपत्वेन तदीयभक्तिरसमहा
प्रतियोगितया ततोऽन्यथा दुश्चिकित्सतया च तत्रोचितम् । तद्उत्थभगवत्
तेजसा तत्स्वरूपशक्तेरपि तिरस्कारेण ध्वंसाभावतुल्यत्वम् ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन इति [भागवतम् ६.१७.२८]
न्यायेनान्येषामतीव दुःसहं तेषामपि कामुकानां निकामम्
अनभीष्टमुद्दण्डदण्डविशेषं कुर्वत्येव भगवति तस्य सर्वहित
पर्यवसायिचारित्रस्वभावत्वादेव तत्तद्दुर्वारदुर्वासनामयाशेष
संसारक्लेशनाशोऽपि भवति । यः खल्वभेदोपासकानामतिकृच्छ्र
साध्यः पुरुषार्थः । क्वचिच्च परमार्थवस्त्व्अवभिज्ञानां नरक
निर्विशेषं तेषां कामिनां तु निकाममभीष्टं विटकीटानामिवामेध्यं
स्वर्गविशेषं तेभ्यो ददाति स परमेश्वरः । अतएवोक्तं नागपत्नीभिः
रिपोः सुतानामपि सुतवत्

 
पाल्यानां देवानामित्य्[भागवतम् १०.१६.३३] अर्थः । दममिति यतो दम अपीत्य्
अर्थः । यत्तु पूतनादावुत्तमभक्तगतिः श्रूयत तद्भक्तानुकरण
माहात्म्येनैवेति तत्र तत्र स्पष्टमेव । यथा सद्वेषादपि पूतनापि
सकुलेत्य्[भागवतम् १०.१४.३५] आदि ।

अथ यदि केचिद्भक्ता एव सन्तो भक्तान्त्रेषु कथञ्चिदपराध्यन्ति तदा
तेनैवापराधेन भक्तेषु भगवति च विवर्तमानं द्वेषबाडवानल
ज्वालालापमनुभूय चिरात्कथञ्चित्पुनः सद्वेषेणापि भगवत्
संस्पर्शादिना सपरिकरे तद्अपराधदोषे विनष्टे स्वपदमेव
प्राप्नुवन्ति । न तु ब्रह्मकैवल्यं भक्तिलक्षणबीजस्यानश्वर
वभावत्वात् । तेषु भगवतः क्रोधश्च बालेषु मातुरिवेति ॥

[९३]

तथा हि श्रीराजोवाच

समः प्रियः सुहृद्ब्रह्मन्
भूतानां भगवान् स्वयम् ।
इन्द्रस्यार्थे कथं दैत्यान्
अवधीद्विषमो यथा ॥ [भागवतम् ७.१.१]

परमात्मत्वेन समः सुहृथितकारी प्रियः प्रीतिविषयो भगवान् । एवं
सति साम्येनैवोपकर्तव्यत्वेन प्रीतिविषयत्वेन न च सर्वेष्वेव प्राप्तेषु
कथं विषम इव दैत्यानवधीत् । विषमत्वमुपलक्षणम् असुहृदि वा
प्रिय इव चेति ।

[९४]

किं च यस्य यैः प्रयोजनं सिध्यति स तत्पक्षपाती भवति । येभ्यो बिभेति
तान् द्वेषेण हन्ति न तु तदत्रास्तीत्याह

न ह्यस्यार्थः सुरगणैः
साक्षान्निःश्रेयसात्मनः ।
नैवासुरेभ्यो विद्वेषो
नोद्वेगश्चागुणस्य हि ॥ [भागवतम् ७.१.२]

निःश्रेयसं परमानन्दः ।

[९५]

अतः

इति नः सुमहाभाग
नारायणगुणान् प्रति ।
संशयः सुमहान् जातस्
तद्भवांश्छेत्तुमर्हति ॥ [भागवतम् ७.१.३]

गुणाननुग्रहनिग्रहादीन् प्रति तत्तत्संशयम् ।

[९६]

अत्र श्र्यृष्रुवाच

साधु पृष्टं महाराज
हरेश्चरितमद्भुतम् ।
यद्भागवतमाहात्म्यं
भगवद्भक्तिवर्धनम् ॥ [भागवतम् ७.१.४]

हे महाराज । इदं यत्पृष्ठं तत्साधु सुविचारितमेव । किन्तु हरेश्
चरितमद्भुतमपूर्वमवैषम्येऽपि विषमतया प्रतीयमानत्वेन
विचारातीतत्वात् । यद्यत्र हरेश्चरित्रे भगवद्भक्तिवर्धनं भागवत
माहात्म्यं भागवतानां प्रह्लादोपलक्षितभक्तवृन्दानां माहात्म्यं
वर्तते । अनेन भागवतार्थमेव सर्वं करोति भगवान्न त्वन्यार्थम्
इत्यस्यैवार्थस्य पर्यवसानं भविष्यतीति व्यञ्जितम् । टीका च

स्वभक्तपक्षपातेन तद्विपक्षविदारणम् ।
नृसिंहमद्भुतं वन्दे परमानन्दविग्रहम् ॥ इत्येषा ।

[९७]

अतो

गीयते परमं पुण्यम्
ऋषिभिर्नारदादिभिः ।
नत्वा कृष्णाय मुनये
कथयिष्ये हरेः कथाम् ॥ [भागवतम् ७.१.५]

परमं पुण्यं यथा स्यात्तथा या गीयते तां कथामिति यत्
तदोरध्याहारेणान्वयः । अत्र च तैर्गीयमानत्वेन भक्तैकसुख
प्रयोजनत्वमेव व्यञ्जितम् ।

[९८]

तत्र तत्र तावद्व्यञ्जितार्थानुरूपमेव प्रश्नस्योत्तरमाह

निर्गुणोऽपि ह्यजोऽव्यक्तो
भगवान् प्रकृतेः परः ।
स्वमायागुणमाविश्य
बाध्यबाधकतां गतः ॥ [भागवतम् ७.१.६]

यस्मात्प्रकृतेः परस्तस्मान्निर्गुणः प्राकृतगुणरहितः तत एवाजो नित्य
सिद्धः तत एव चाव्यक्तः प्राकृतदेहेन्द्रियादिरहितत्वान्नान्येन व्यज्यते
इति स्वयं प्रकाशदेहादिरित्यर्थः । ततश्च प्रकृतिगुणोत्थरागद्वेषादि
रहितश्चेति भावः । एवमेवम्भूतोऽपि स्वेषु भक्तेषु या माया कृपा
तत्रोपितो यो गुणो लीलाकौतुकमयविशुद्धोर्जितसत्त्वाख्यस्तम्
आविश्यालम्ब्य भगवान्नित्यमेव प्रकाशितषड्गुणैश्वर्यः सन्, एतदप्य्
उपलक्षणं कदाचिदित्यादौ जातः सन् लोकेन्द्रियेषु व्यक्तोऽपि सन् बाध्य
बाधकतां गतः । निजदृष्टिपथेऽपि स्थातुमसमर्थेषु अतिक्षुद्रेषु
देवासुरादिषु स्वसाहाय्यप्रतियोद्धृत्वसम्पादनाय स्वयं सञ्चारितं
किञ्चित्तद्अंशलक्षणमेव तेजः समाश्रित्य बाध्यतां बाधकतां च
गतः । युद्धलीलावैचित्र्याय प्रतियोद्धृषु तदानीं स्वस्मिन्
प्रकाश्यमानादपि तेजसोऽधिकं तेजोऽंशं सञ्चार्य बाध्यतां पराजयं
कदाचित्तु तस्मान्नूनं सञ्चार्य बाधकतां जयं प्राप्त इत्यर्थः । स्यात्
कृपादम्भयोर्माया इति विश्वप्रकाशः ।

अत्र सत्यप्यर्थान्तरे भागवतानुग्रहप्रयोजनत्वेनैवोपक्रान्तत्वाद्
उपसंहरिष्यमाणत्वाच्च गतिसामान्याच्च छलमयमायया तत्तत्
कर्तृत्वेऽप्यधिकदोषापाताच्च तन्नापेक्षते । तस्माद्भक्तविनोदैक
प्रयोजनकस्वैरलीलाकैवल्येनान्यत्र रागद्वेषाभावान्नात्र वैषम्यम्
इति भावः । अतएव बाध्यतामपि यातीति बाधक्तया सहैवोक्तम् । तथा निज
स्वरूपशक्तिविलासलक्षणलीलाविष्कारेण सर्वेषामेव हितं पर्यवस्यतीति
सुहृत्तादिकं च नापयातीति ध्वनितम् ।

[९९]
अथ कथं सोऽपि विशुद्धसत्त्वाख्यो गुणः प्राकृतो न भवति कदा वा
कुत्र तं वीर्यातिशयं सञ्चारयति कथां वा कृतहान्यकृताभ्याभ्यागम
प्रसङ्गो न भवतीत्यादिकमाशङ्क्याह द्वाभ्याम्

सत्त्वं रजस्तम इति
प्रकृतेर्नात्मनो गुणाः ।
न तेषां युगपद्राजन्
ह्रास उल्लास एव वा ॥ [भागवतम् ७.१.७]

सत्त्वादयो गुणाः प्रकृतेरेव नात्मनः । आत्मनः परमेश्वरस्य तस्य तु
ये सर्वेऽपि नित्यमेवोल्लासिनो गुणास्ते तु ते न भवन्तीत्यर्थः । तदुक्तम्
सत्त्वादयो न सन्तीश [Vइড়् १.९.४४] इति ।

ह्लादिनी सन्धिनी संवित्
त्वय्येव सर्वसंस्थितौ इति [Vइড়् १.१२.६९] च ।

यस्मान्नात्मनस्ते तस्मादेव युगपथ्रास एव वा उल्लास एव वा नास्ति,
किन्तु विकारित्वेन परस्परमुपमर्द्यत्वात्कस्यचित्कदाचिथ्रासः कदाचित्
कदाचिदुल्लासो भवतीत्यर्थः ।

[१००]

ततश्च देवादीनां तत्साहाय्ये सुरादीनां च तद्युद्धे योग्यतां
दर्शयति । तथा सत्त्वाद्य्उल्लासकाले तल्लीलायास्तद्अधीनत्वमिव यत्
प्रतीयते तदनुवदन् परिहरति

जयकाले तु सत्त्वस्य
देवर्षीन् रजसोऽसुरान् ।
तमसो यक्षरक्षांसि
तत्कालानुगुणोऽभजत् ॥ [भागवतम् ७.१.८]

सत्त्वस्य जयकाले देवानृषींश्चाभजत्भजति भगवान् तत्तद्देहेषु
सत्त्वोपाधिकनिजतेजः सञ्चारयति येन च तान् सहायमानान् करोतीत्य्
अर्थः । एवं रजसो जयकाले असुरेषु रजोपाधिकं तमसो जयकाले यक्ष
रक्षःसु तमोपाधिकमिति योजनीयम् ।

ततश्च येन तान् यक्षादीन् प्रतियोद्दॄन् कुर्वन् देवादीन् पराजितान् करोति
स्वयमपि तथा दर्शयतीत्यर्थः । तदेवं भक्तरसपोषलीला
वैचित्र्याय बाध्यबाधकतां यातीति दर्शितम् । यच्च क्षीरोदमथने
श्रूयते ।

तथा सुराणाविशदासुरेण
रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन् देवगणांश्च विष्णुर्
देवेन नागेन्द्रमबोधरूपः ॥ [भागवतम् ८.७.११] इति ।

तत्रापि तद्वैचित्र्यार्थमेव तथा तत्तद्आवेशस्तस्येति लभ्यते ।

नन्वायाता तस्य तत्तद्गुणोद्बोधकालपारवश्येन स्वैरलीलताहानिः ।
ततश्च गुणसम्बन्धातिशये वैष्यादिकं च स्पष्टमेवेत्याशङ्क्याह तत्
कालानुगुण इति । तेषां सत्त्वादीनां काल एवानुगुणो यस्य सः । भगवच्
छरण इतिवत्समासः । स्वैरमेव क्रीडति तस्मिन्नित्यमेव तद्
अनुगतिकया मायया तद्अनुसारेणैवानादिसिद्धप्रवाहं तं जगत्कर्म
समुदायं प्रेर्य स्ववृत्तिविशेषरूपत्वेन प्रवर्त्यमानः सत्त्वादि
गुणानां काल एव तद्अधीनो भवतीत्यर्थः । कालस्य मायावृत्तित्वम्
उदाहृतं कालो दैवमित्यादौ त्वन्मायैषेति । यद्वा तेषां कालोऽपि
सदानुगतो भक्तानुग्रहमात्रार्थस्वैरचेष्टात्मकप्रभावलक्षणो
गुणो यस्य स इत्यर्थः । ततोऽपि तच्चेष्टानुसारेणैव मायया तत्तत्
प्रवर्तनमिति भावः । यदुक्तम्

योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम् ॥ [भागवतम् १०.३.२६] इति ।

तथा चोभयथापि न पारवश्यमित्यायातम् । इत्थमेव श्रीकपिलदेवोऽपि
 यः कालः पञ्चविंशक इति [भागवतम् ३.२६.१५] । प्रभावं पौरुषं प्राहुः
कालमेके यतो भयमिति [भागवतम् ३.२६.१६] च । तत्र मायाव्यङ्गत्वपुरुष
गुणत्वलक्षणमतद्वयमुपन्यस्तवान् । अत्र तस्य चेष्टा प्रभावस्य
भक्तविनोदायैव मुख्या प्रवृत्तिः । गुणोद्बोधादिकार्यं तु तत्र स्वत
एव भवतीति तत्र प्रवृत्त्याभास एव । ततश्च पूर्वोऽंशः स्वयमेवेति
स्वरूपशक्तेरेव विलासः परस्तद्आभासरूप एवेत्याभासशक्तेर्
मायाया एवान्तर्गतः । योऽयं काल इत्यादौ निमेषादिरित्युक्तिस्तु द्वयोर्
अभेदविवक्षयैवेति ज्ञेयम् ।

अत एवं व्याख्येयम् । यथा भृत्यस्यानुगतो भृत्योऽनुभृयः तथात्र
प्रभावलक्षणस्य गुणस्यानुगत आभासरूपो गुणोऽनुगुणः । तथा च
तेषां कालोऽप्यनुगुणो न तु साक्षाद्गुणो यस्येति ॥

[१०१]

ननु तेषु तेषु तेनावेश्यमानं तेजः कथं न लक्ष्यते । तत्राह

ज्योतिर्आदिरिवाभाति
सङ्घातान्न विविच्यते ।
विदन्त्यात्मानमात्मस्थं
मथित्वा कवयोऽन्ततः ॥ [भागवतम् ७.१.९]

यद्यपि तेषु तेषु निजतेजोऽंशेनाविष्टोऽसौ सङ्घातात्सम्मिश्रत्वात्न
विविच्यते लोकैर्विवेक्तुं न शक्यते तथापि कवयो विवेकनिपुणा अन्ततो
मथित्वा तस्यापि साहाय्यं तेनापि युद्धमित्यादिकासम्भवार्थनिषेधेन
विविच्य तद्अंशेनात्मस्थं तत्तद्आत्मनि प्रविष्टमात्मानमीश्वरं
विदन्ति जानन्ति । तत्र हेतुगर्भो दृष्टान्तः । यस्मात्तत्तेजः ज्योतिर्आदि
पदार्थ इवाभाति द्रष्टृष्विति विशेषः ।

अयमर्थः । यथा नेदं मणेस्तेजः पूर्वमदर्शनात्, किन्तु तदातप
संयोगेन सौरं तेज एवात्र प्रविष्टमिति सूर्यकान्तादौ तूलादिदाहेन तद्
अनुभविषु तदा भाति । यथा च पूर्ववदेव वायोरयं गन्धः पार्थिव
एव प्रविष्ट इति तेष्वाभाति । तथात्रापीति ।

अथवा नन्वेवं तर्हि तैरपि क्रीडतीति दृश्यत तत्राह ज्योतिरिति । यथा
चक्ष्र्आदिज्योतिभिः स्वांशे रूपमात्रेऽपि प्रकाश्यमाने गन्धादिगुण
पञ्चका मृदेवासुअ प्रकाशत इति प्रतीयते । यथा च कर्णादिनभसा
स्वांशे शब्दमात्रेऽपि गृह्यमाने दुन्दुभिरेवासाविति प्रतीयते । तच्च तत्
तद्गुणानां संमिश्रत्वादेव भवति न वस्तुतः । तथा कवयः आत्मानम्
ईश्वरं तत्तत्सङ्घातस्थत्वेनान्यैरविविक्तमपि आत्मस्थं स्वांश
तेजोभिरेव क्रीडन्तं जानन्तीत्यर्थः ।

[१०२]

यदेवं युद्धादिनिजलीलाभिर्भक्तविनोदनमेव प्रयोजनं, विश्व
पालनं तु ततः स्वत एव भवतीत्युक्त्वा, सृष्टिप्रलययोः प्रकृतीक्षणादाव्
अपि सर्वाशङ्कनिरासार्थमतिदिशन् त्रिष्वप्यविशेषमाह

यदा सिसृक्षुः पुर आत्मनः परो
रजः सृजत्येष पृथक्स्वमायया ।
सत्त्वं विचित्रासु रिरंसुरीश्वरः
शयिष्यमाणस्तम ईरयत्यसौ ॥ [भागवतम् ७.१.१०]

यदा यत्र स्वचेष्टालक्षणे काले एष परः परमेश्वरः स्वमायया
भक्तकृपया आत्मनः पुरः प्राचीनसृष्टिगतसाधकभक्तरूपाणि
स्वस्याधिष्ठानानि सिसृक्षुर्भवति प्रकृत्या सह तेषु लीनेषु
आविर्भावनार्थामीक्षां करोति तदा पृथक्स्वरूपशक्तेरितरासौ जीव
मायाख्या शक्तिः पूर्ववत्तच्चेष्टात्मकप्रभावाभासोद्दीप्ता रजः सृजति
स्वांशभूताद्गुणत्रयसाम्यादव्यक्ताद्विक्षिपति उद्बोधयतीति वा । यद्
वा पृथङ्मायानुगत एष काल एव सृजति तथासौपदेन च काल एवोच्यते ।

अथ विचित्रासु नानागुणवैचित्रीमतीषु तल्लक्षणासु पूर्षु यदा रन्तुम्
इच्छुर्भवति तदासौ सत्त्वं सृजति, यदा पुनस्ताभिरेव मिलित्वा
शयिष्यमाणः शयितुमिच्छुर्भवतीत्यर्थः । तदासौ तमः सृजतीति । ततो
भक्तनिमित्तमेव सर्वा एव सृष्ट्य्आदिक्रियाः प्रवर्तन्ते इति भावः ।
यथाङ्गीकृतमेकादशस्य तृतीये टीकाकृद्भिरपि । किमर्थं ससर्ज स्व
मात्रात्मप्रसिद्धये । स्वं मिमीते प्रमिमीते आत्मानमुपास्ते यः स स्व
माता तस्यात्मनो जीवस्य प्रकृष्टा ये सिद्धय इति शयनमत्र
पुरुषावतारस्य कदाचित्प्रलयोदधौ योगनिद्रा कदाचिद्भगवत्प्रवेशो
वा । यद्यपि सर्वेष्वपि जीवेषु अन्तर्यामितया परमेश्वरस्तिष्ठति तथापि
तत्रासंसक्तत्वादस्थित एव भवति तद्भक्तेषु तु समासक्तत्वान्न
तथेति । न च तत्सङ्गादौ तस्येच्छेति यथोक्तव्याख्यानमेव बलवत् ।
तथा च श्रीभगवद्उपनिषदः

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ [गीता ९.४५] इति
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ [गीता ९.२९] इति च ।

उक्तं च हरिभक्तिसुधोदये

भक्तानां हृदयं शान्तं सश्रियो मे प्रियं गृहम् ।
वसामि तत्र शोभैव वैकुण्ठाख्यादिवर्णना ॥ इति ।

[१०३]

एवं प्रसङ्गेन सृष्टिप्रलयावपि व्याख्याय पुनः पालनमेव
व्याचक्षाणः प्रकरणमुपसंहरति सार्धेन

कालं चरन्तं सृजतीश आश्रयं
प्रधानपुम्भ्यां नरदेव सत्यकृत् ।
य एष राजन्नपि काल ईशिता
सत्त्वं सुरानीकमिवैधयत्यतः ।
तत्प्रत्यनीकानसुरान् सुरप्रियो
रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ [भागवतम् ७.१.११]

सत्यकृत्स्वरूपशक्तिविलासेनैव स्वयं परमार्थसत्यक्रियाविर्भावक
एव सन् स्वचेष्टारूपं कालं सृजति व्यञ्जयति । किं कुर्वन्तं प्रधान
पुंभ्यां च चरन्तं तत्तत्सम्बन्धानां साधकभक्तानां देवादि
प्रविष्टं निजतेजोऽंशानां च साहाय्यअहेतोरेव सृज्यमानतया
उत्पत्तैवाव्यक्तजीवसङ्घाताभ्यां चरन्तमतएव सन्निधानेनैव तयोस्
तत्तद्अवस्थानामाश्रयमुद्भवहेतुं च । नरद्देवेति सम्बोधनेन
यथा निजैषया मुख्यमेव कार्यं कुर्वतस्तव तथैवानयदपि
क्षुद्रतरं स्वयमेव सिध्यति तद्वदिहापीति बोधितम् । ततो य एष चेष्टा
रूपः काल स सत्त्वं सत्र्त्वप्रधानं सुरानीकमेघयतीव तत एव त
प्रत्यनीकान् रजस्तमःप्रधानानसुरान् प्रमिणोतीव हिन्स्तीव, ये तु
देवेषु भक्ता असुरेषु भक्तद्वेषिणस्तान् स्वयं पालयति चैवेति पूर्वेम्
एवोक्तम् । यस्मात्तच्चेष्टालक्षणस्य कालस्यैवं वार्ता तस्मादीशितापि
एधयतीव प्रमिणोतीव चेति । हे राजन्निति पूर्वाभिप्रायमेव ।

ननु यदि चेशितुः प्रयोजनं न भवति तर्हि कथं कदाप्यसुरानपि स्व
पक्षान् विधाय देवैर्न युध्येत, तत्राह सुरप्रियः । सुरेषु वर्तमानाः
प्रिया भक्ता यस्य सः । सत्त्वप्रधानेषु सुरेषु प्रायशस्तेषां सर्वेषाम्
अनुगमनेनैव तस्यानुगमनम् । कदाचिद्बृहस्पत्य्आदिषु महत्स्व्
अपराधे तु तेषां मालिन्येन सुरत्वाच्छादनात्तेषां तस्य चैतेष्व्
अननुगमनं स्यादिति । जयकाले तु सत्त्वस्येत्याद्युक्तमिति भावः ।

ननु कथं तेऽपि तान्नानुगच्छन्ति तत्राह रजस्तमस्कानिति । अत्यन्त
भगवद्बहिर्मुखताकरयोर्गुणयोररोचकत्वादेवेति भावः । तर्यसौ
सदैवासुराणां निग्रहमेव करोतीत्यथाप्यसमञ्जस्यमित्याशङ्क्याह
उरुश्रवाः । उरु सर्वतो विस्तृतं महत्तमं वा श्रवः कीर्तिर्यस्य स तेषाम्
अप्यनुग्रहं करोतीति भावः ।

[१०४]

तदेवं सिद्धान्तं प्रदर्श्य तत्र स्वभक्तानुग्रहमात्रप्रयोजनस्तत्
तत्करोति परेश इति प्रतिज्ञातार्थोदाहरणाय प्रह्लादजयविजयादिकृपायाः
सूचकमितिहासविशेषमाह

अत्रैवोदाहृतः पूर्वम्
इतिहासं सुरर्षिणा ।
प्रीत्या महाक्रतौ राजन्
पृच्छतेऽजातशत्रवे ॥ इत्य्[भागवतम् ७.१.१२] आदि । टीकैव दृश्या ॥ ७.१ ॥ श्री
शुकः ॥९३१०४॥

[१०५१०६]

तदेवं सर्वे अपि वैषम्यनैर्घृण्ये परिहृते । ईश्वरस्तु पर्यन्यवद्
द्रष्टव्य इत्यस्य ब्रह्मसूत्रनिर्गतार्थन्यायस्याप्यत्रैवान्तर्भाव
सिद्धेः । इति ब्रह्मभगवत्परमात्मानो विवृताः । तदेवं त्रिव्यूहत्वम्
एव व्याख्यातम् । क्वचिद्वासुदेवादिचतुर्व्यूहादित्वं च दृश्यते । स च
भेदः कस्यचित्केनचिदभेदविवक्षया च नायुक्तः। तदुक्तं मोक्ष
धर्मे नारायणीये

एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः ।
त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते ॥ इति [ंभ्१२.३३६.५३]

श्रुतिश्च स एकधा भवति द्विधा भवतीत्य्[Cहा ७.२६.२] आद्या ।

अथ पूर्वरीत्या चतुर्व्यूहत्वाद्य्अविसंवादितया यदत्र त्रिव्यूहत्वं तत्र
प्रथमव्यूहस्य श्रीभगवत एव मुख्यत्वं यत्प्रतिपादकत्वेनैवास्य
श्रीभागवतमित्याख्या । यथोक्तम् इदं भागवतं नाम पुराणं
ब्रह्मसम्मितमिति । तस्य हि प्राधान्ये षड्विधेन लिङ्गेन तात्पर्यमपि
पर्यालोच्यते ।

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इत्युक्तप्रकारेण ।

तथा हि तावदुपक्रमोपसंहारयोरैक्येन

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ [भागवतम् १.१.१]

कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा
तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा ।
योगीन्द्राय तद्आत्मनाथ भगवद्राताय कारुण्यतस्
तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ [भागवतम् १२.१३.१९]

तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्मसूत्राणामिति गारुडोक्तेरस्य महा
पुराणस्य ब्रह्मसूत्राकृत्रिमभाष्यात्मकत्वात्प्रथमं तद्
उपादायैवावतारः । तत्र पूर्वमथातो ब्रह्म जिज्ञासेति व्याचष्टे तेजोवारि
मृदामित्य्आद्य्अर्धेन । योजनायां प्राथमिकत्वादस्य पूर्वत्वम् ।

तत्र ब्रह्मजिज्ञासेति व्याचष्टे परं धीमहीति । परं श्रीभगवन्तं
धीमहि ध्यायेम । तदेवं मुक्तप्रग्रहया योगवृत्त्या बृहत्वाद्
ब्रह्म यत्सर्वात्मकं तद्बहिश्च भवति । तत्तु निजरश्म्य्आदिभ्यः
सूर्य इव सर्वेभ्यः परमेव स्वतो भवतीति मूलरूपत्वप्रदर्शनाय
परपदेन ब्रह्मपदं व्याख्यायते । तच्चात्र भगवानेवेत्य्
अभिमतम् । पुरुषस्य तद्अंशत्वान्निर्गुणस्य ब्रह्मणो गुणादिहीनत्वात् ।
उक्तं च श्रीरामानुजचरणैः सर्वत्र बृहत्वगुणयोगेन हि ब्रह्म
शब्दः । बृहत्वं च स्वरूपेण गुणैश्च यत्रानवधिकातिशयः सोऽस्य
मुखोऽर्थः । स च सर्वेश्वर एवेति । उक्तं प्रचेतोभिः नह्यन्तो यद्
विभूतीनां सोऽनन्त इति गीयते । अतएव विव्धमनोहरानन्ताकारत्वेऽपि तत्
तद्आकाराश्रयपरमाद्भुतमुख्याकारत्वमपि तस्य व्यञ्जितम् । तद्
एवं मूर्तत्वे सिद्धे तेनैव परत्वेन न तस्य विष्ण्व्आदिरूपक
भगवत्त्वमेव सिद्धम् । तस्यैव ब्रह्मशिवादिपरत्वेन दर्शितत्वात् ।
अत्र जिज्ञासेत्यस्य व्याख्या धीमहीति । यतस्तज्जिज्ञासास्तात्पर्यं तद्
ध्यान एव । तदुक्तमेकादशे स्वयं भगवता

शब्दब्रह्मणि निष्णातो
निष्णायात्परे यदि ।
श्रुतस्तस्य श्रमफलो
ह्यधेनुमिव रक्षत ॥ [भागवतम् ११.११.१८] इति ।

ततो धीमहीत्यनेन श्रीरामानुजमतं जिज्ञासापदं निदिध्यासन
परमेवेति । स्वीयत्वेनाङ्गीकरोति श्रीभागवतनामा सर्ववेदादिसार
रूपोऽयं ग्रन्थ इत्यायातम् । धीमहीति बहुवचनं कालदेशपरम्परा
स्थितस्य सर्वस्यापि तत्कर्तव्यताभिप्रायेण अनन्तकोटि
ब्रह्माण्डान्तर्यामिनां पुरुषाणामंशिभूते भगवत्येव
ध्यानस्याभिधानात् । अनेनैकजीववादजीवनभूतो विवर्तवादोऽपि
निरस्तः । ध्यायतिरपि भगवतो मूर्तत्वमपि बोधयति ध्यानस्य मूर्त
एवाकष्टार्थत्वात् । सति च सुसाध्ये पुमर्थोपाये दुःसाध्यस्य
पुरुषाप्रवृत्त्या स्वत एवापकर्षात्तद्उपासकस्यैव युक्ततमत्वनिर्णयाच्
च । तथा च गीतोपनिषदः

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ [गीता १२.२]
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ [गीता १२.३४]
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तैतसाम्
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ [गीता १२.५]

इदमेव च विवृतं ब्रह्मणा

श्रेयःसृतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवेलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ॥ [भागवतम् १०.१४.४] इति ।
अतएवास्य ध्येयस्य स्वयं भगवत्त्वमेव साधितम् । शिवादयश्च
व्यावृत्ताः । तथा धीमहीति लिङ्गा ध्योतिता पृथग्अनुसन्धानरहिता
प्रार्थना ध्यानोपलक्षितभगवद्भजनमेव परम्पुरुषार्थत्वेन
व्यनक्ति । ततो भग्वतस्तु तथात्वं स्वयमेव व्यक्तम् । ततश्च यथोक्त
परममनोहरमूर्तित्वमेव लक्ष्यते । तथा च वेदानां सामवेदोऽस्मीति
[गीता १०.२२]। तत्र च बृहत्साम तथा साम्नामित्य्[गीता १०.३५] उक्तमहिम्नि
बृहत्साम्नि बृहद्धामं बृहत्पार्थिवं बृहद्अन्तरीक्षं बृहद्दिवं
बृहद्वामं बृहद्भ्यो वामं वामेभ्यो वाममिति । तदेवं ब्रह्म
जिज्ञासेति व्याख्यातम् ।

अथात इत्यस्य व्याख्यामाह सत्यमिति । यतस्तत्राथशब्द आनन्तर्ये अतः
शब्दो वृत्तस्य हेतुभावे वर्तते तस्मादथेति स्वाध्यायक्रमतः प्राक्
प्राप्तकर्मकाण्डे पूर्वमीमांसया सम्यक्कर्मज्ञानादनन्तरमित्य्
अर्थः । अत इति तत्क्रमतः समनन्तरं प्राप्तब्रह्मकाण्डे तूत्तर
मीमांसया निर्णेयसम्यग्अर्थेऽधीतचराद् यत्किञ्चिद्अनुसंहितार्थात्
कुतश्चिद्वाक्याद्धेतोरित्यर्थः । पूर्वमीमांसायाः पूर्व
पक्षत्वेनोत्तरमीमांसानिर्णयोत्तरपक्षेऽस्मिन्नवय्श्यापेक्ष्यत्वाद्
अविरुद्धांशे सहायत्वात्कर्मणः शान्त्य्आदिलक्षणसत्त्वशुद्धिहेतुत्वाच्
च तद्अनन्तरमित्येव लभ्यम् । वाक्यानि चैतानि तद्यथेह कर्मजितो
लोकः क्षीयते एवामेवामुत्र पुण्यजितो लोकः क्षीयते । अथ य इहात्मानम्
अनुविद्य व्रजन्त्येतांश्च सत्यकामांस्तेषां सर्वेषु लोकेषु कामचारो
भवतीति न स पुनरावर्तते इति स चानन्त्याय कल्पते इति निरञ्जनः परमं
साम्यमुपैतीति ।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति [गीता १४.२] ।
तदेतदुभयं विवृतं रामानुजशारीरके मीमासापूर्वभागज्ञातस्य
कर्मणोऽल्पास्थिरफलत्वं तद्उपरितनभागावसेयस्य ब्रह्मज्ञानस्य
त्वनन्ताहप्रफलत्वं श्रूयते । अतः पूर्ववृत्तान् कर्मज्ञानादनन्तरं
ब्रह्म ज्ञातव्यमित्युक्तं भवति । तदाह सर्वादिवृत्तिकारो भगवान्
बौधायनः वृत्तान् कर्माधिगमादनन्तरं ब्रह्म विविदिषेतीति ।

एतदेव पुरञ्जनोपाख्याने च दक्षिणवामकर्णयोः पितृहूद्वहूशब्द
निरुक्तौ व्यक्तमस्ति । तदेवं सम्यक्कर्मकाण्डज्ञानानन्तरं ब्रह्म
काण्डगतेषु केषुचिद्वाक्येषु स्वर्गाद्य्आनन्दस्य वस्तुविचारेण दुःख
रूपत्वव्यभिचारिसत्ताकत्वज्ञानपूर्वकं ब्रह्मणस्त्वव्यभिचारि
परतमानन्दत्वेन सत्यत्वज्ञानमेव ब्रह्मजिज्ञासायां हेतुरिति अर्थात
इत्यस्यार्थे लब्धे तन्निर्गलितार्थमेवाह सत्यमिति । सर्व
सत्तादात्रव्यभिछारिसत्ताकमित्यर्थः । परमित्यनेनान्वयात्सत्यं
ज्ञानमनन्तं ब्रह्मेत्यत्र [टैत्त्२.१.३] श्रुतौ च ब्रह्मेत्यनेन ।

तदेवमन्यस्य तद्इच्छाधीनसत्ताकत्वेन व्यभिचारिसत्ताकत्वमायाति ।
तदेवमत्र तदेतदवधि व्यभिचारिसत्ताकमेव ध्यातवन्तो वयम्
इदानीं त्वव्यभिचारिसत्ताकं ध्यायेमेति भावः ।

अथ परत्वमेव व्यनक्ति धाम्नेति । अत्र धामशब्देन प्रभाव उच्यते
प्रकाशो वा । गृहदेहत्विट्प्रभावा धामनीत्यमरादिनानार्थवर्गात् ।
न तु स्वरूपम् । तथा कुहकशब्देनात्र प्रतारणकृदुच्यते । तच्च जीव
स्वरूपावरणविक्षेपकारित्वादिना मायावैभवमेव । ततश्च स्वेन
धाम्ना स्वप्रभावरूपया स्वप्रकाशरूपया वा शक्त्या सदा नित्यमेव
निरस्तं कुहकं मायावैभवं यस्मात्तम् । तदुक्तं मायां व्युदस्य
चिच्छक्त्येति । तस्या अपि शक्तेरागन्तुकत्वेन स्वेनेत्यस्य वैयअर्थ्यं स्यात् ।
स्वस्वरूपेणेत्येवं व्याख्याने तु स्वेनेत्यनेनैव चरितार्थता स्यात् । यथा
कथञ्चित्तथा व्याख्यानेऽपि कुहकनिरसनलक्षणा शक्तिरेवापद्यते । सा
च साधकतमरूपया तृतीयया व्यक्तेति । एतेन मायातत्कार्यविलक्षणं
यद्वस्तु तत्तस्य स्वरूपमिति स्वस्वरूपलक्षणमपि गम्यम् । तच्च
सत्यं ज्ञानमानन्दं ब्रह्मेति विज्ञानमानन्दं ब्रह्मेति [टैत्त्२.१.३]
श्रुतिप्रसिद्धमेव । एतच्छ्रुतिलक्षकमेव च सत्यमिति विन्यस्तम् । तद्
एवं स्वरूपशक्तिश्च साक्षादेवोपक्रान्ता ततः सुतरामेवास्य
भगवत्त्वं स्पष्टम् ।

अथ मुख्ये सत्यत्वे युक्तिं दर्शयति यत्रेति । ब्रह्मत्वात्सर्वत्र स्थिते
वासुदेवे भगवति यस्मिन् स्ह्तितस्त्रयाणां गुणानां भूतेन्द्रिय
देवतात्मको यस्यैवेशितुः सर्गोऽप्ययमृषा शक्त्यादौ रजतादिकम्
इवारोपितो न भवति । किन्तु यतो वा इमानीति श्रुतिप्रसिद्धे ब्रह्मणि यत्र
सर्वदा स्थितत्वात्संज्ञामूर्तिक्प्तिस्तु त्रिवृत्कुर्वत उपदेशादिति [Vस्. २.४.२०]
यदेककर्तृकत्वाच्च सत्य एव । तत्र दृष्टान्तेनाप्यमृषात्वं साधयति
तेजादीनां विनिमयः परस्परांशव्यत्ययः परस्परस्मिन्न्
अंशेनावस्थितिरित्यर्थः । स यथा मृषा न भवति किन्तु यथैवेश्वर
निर्माणं तथेत्यर्थः । हतेमास्तिस्रो देवतास्त्रिवृदेकैका भवति । तद्
अग्ने रोहितं रूपं तेजसस्तद्रूपं यत्शुक्लं तदपां यत्कृष्णं तत्
पृथिव्याः तदन्नस्येति श्रुतेः [Cहाऊ ६.४.१] ।

तदेवमर्थस्यास्य श्रुतिमूलत्वात्कल्पनामूलस्त्वन्योऽर्थः स्वत एव
परास्तः । तत्र च सामान्यतया निर्दिष्टानां तेजादीनां विशेषत्वे
सङ्क्रमणं न शाब्दिकानां हृदयमध्यारोहति । यदि च तदेवामंस्यत
तदा वारादीनि मरीचिकादिषु यथेत्येवावक्ष्यते । किं च तन्मते ब्रह्मतस्
त्रिसर्गस्य मुख्यं जन्म नास्ति किन्त्यारोप एव जन्मेत्युच्यते । स पुनर्
भ्रमादेव भवति । भ्रमश्च सादृश्यावलम्बी । सादृश्यं तु काल
भेदेनोभयमेवाधिष्ठानं करोति । रजतेऽपि शुक्तिभ्रमसम्भवात् ।
न चैकात्मकं भ्रमाधिष्ठानं बह्व्आत्मकं तु भ्रमकल्पितमित्य्
अस्ति नियमो मिथो मिलितेषु विदूरवर्तिधूमपर्वतवृक्षेष्वखण्ड
मेघभ्रमसम्भवात् ।

तदेवं प्रकृतेऽप्यनादित एव त्रिसर्गः प्रत्यक्षं प्रतीयते । ब्रह्म च
चिन्मात्रतया स्वत एव स्फुरदस्ति । तस्मादनाद्यज्ञानाक्रान्तस्य जीवस्य
यथा सद्रूपतासादृश्येन ब्रह्मणि त्रिसर्गभ्रमः स्यात्तथा त्रिसर्गेऽपि
ब्रह्मभ्रमः कथं न कदाचित्स्यात् । ततश्च ब्रह्मण
एवाधिष्ठानत्वमित्यनिर्णये सर्वनाशप्रसङ्गः । आरोपकत्वं तु
जडस्यैव चिन्मात्रस्यापि न सम्भवति । ब्रह्म च चिन्मात्रमेव तन्
मतमिति । ततश्च श्रुतिमूल एव व्याख्याने सिद्धे सोऽयमभिप्रायः ।
यत्र हि यन्नास्ति किन्त्वन्यत्रैव दृश्यते तत्रैव तद्आरोपः सिद्धः । ततश्
च वस्तुतस्तद्अयोगात्तत्र तत्सत्तया तत्सत्ता कर्तुं न शक्यत एव । त्रि
सर्गस्य तु तच्छक्तिविशिष्टाद्भगवतो मुख्यवृत्त्यैव जातत्वेन
श्रुतत्वात्तद्व्यतिरेकात्तत्रैव सर्वात्मके सोऽस्ति । ततस्तस्मिन्न चारोपितं
च । आरोपस्तु तथापि धाम्नेत्यादिरीत्यैवाचिन्त्यशक्तित्वात्तेन
लिप्तत्वाभावेऽपि तच्छाङ्कररूप एव । तथा च एकदेशस्थितस्याग्नेर्
ज्योत्स्ना विस्तारिणी यथेत्यनुसारेण तत्सत्तया तत्सत्ता भवति ।

ततो भगवतो मुख्यं सत्यत्वं त्रिसर्गस्य च न मिथ्यात्वमिति । तथा च
श्रुतिः सत्यस्य सत्यमिति तथा प्राणा वै सत्यं तेषामेव सत्यमिति
(Bऋह्ददू २.३.६) । प्राणशब्दोदितानां स्थूलसूक्ष्मभूतानां
व्यवहारतः सत्यत्वेनाधिगतानां मूलकारणभूतं परमसत्यं
भगवन्तं दर्शयतीति ।

अथ तमेव तटस्थलक्षणेन च तथा व्यञ्जयन् प्रथमं विशदार्थतया
ब्रह्मसूत्राणामेव विवृतिरियं संहितेति बिबोदयिषया च तद्अन्तरं
सूत्रमेव प्रथममनुवदति जन्माद्यस्य यत इति । जन्मादीनि सृष्टि
स्थितिप्रलयम् । तद्गुणस:अविज्ञानबहुव्रीहि । अस्य विश्वस्य
ब्रह्मादिस्तम्बपर्यन्तानेककर्तृभोक्तृसंयुक्तस्य प्रतिन्यतदेशकाल
निमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यविविधचित्ररचनारूपस्य
यतो यस्मादचिन्त्यशक्त्या स्वयमुपादानरूपात्कर्त्रादिरूपाच्च
जन्मादि तं परं धीमहीत्यन्वयः । अत्र विषयावाक्यं च भूगुर्वै
वारुणिर्वरुणं पितरमुपससार अधीहि भो भगवो ब्रह्मेत्यारभ्य
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति
तद्विजिज्ञासस्व तद्ब्रह्म इति (टैत्तू ३.१.१.) तत्तेजोऽसृजत इत्यादि (Cहाऊ
६.२.३) च ।

जन्मादिकमिहो लक्षणं न तु विशेषणम् । ततस्तद्ध्याने तन्न
प्रविशन्ति । किन्तु शुद्ध एव ध्येय इति । किं च अत्र प्रागुक्तविशेषण
विशिष्टविश्वजन्मादेस्तादृशहेतुत्वेन सर्वशक्तित्वं सत्यसङ्कल्पत्वं
सर्वज्ञत्वं सर्वेश्वरत्वं च तस्य सूचितम् । यः सर्वज्ञः सर्वविद्यस्य
ज्ञानमयं तपः सर्वस्य वशी इत्यादि श्रुतेः [ंुण्ड्१.१.९, २.२.७]। तथा
परत्वेन निरस्ताखिलहेयप्रत्यनीकस्वरूपत्वं ज्ञानाद्य्अनन्तकल्याण
गुणत्वं सूचितम् । न तस्य कार्यं कारणं च विद्यते इत्यादि श्रुतेः । ये तु
निर्विशेषवस्तु जिज्ञास्यमिति वदन्ति तन्मते ब्रह्मजिज्ञासायां जन्म्¨द्यस्य
यत इत्यसङ्गतं स्यात् । निरतिशयबृहद्बृंहणं चेति निर्वचनात् । तच्च
ब्रह्म जगज्जन्मादिकारणमिति वचनाच्च । एवमुत्तरेष्वपि सूत्रेषु
सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम् । तर्कश्च साध्य
धर्माव्यभिचारिसाधनधर्मान्वितवस्तुविषयत्वान्न निर्विशेष
वस्तुनि प्रमाणम् । जगञ्जन्मादिभ्रमो यतस्तद्ब्रह्मति स्वोत्प्रेक्ष
पक्षे च न निर्विशेषवस्तुसिद्धिः । भ्रम्मूलमज्ञानमज्ञानसाक्षि
ब्रह्मेति उपयमात् । साक्षित्वं हि प्रकाशैकरसतयोच्यते । प्रकाशत्वं तु
जडाद्व्यावर्तकं स्वस्य परस्य च व्यवहारयोग्यतापादनस्वभावेन
भवति । तथा सति स्वैशेषत्वं तद्अभावे प्रकाशतैव न स्यात् । तुच्छतैव
स्यात् । किं च तेजोवारिमृदामित्यनेनैव तेषां विवक्षितं सेत्स्यतीति
जन्माद्यस्य यत इत्यप्रयोजकं स्यात् । अतस्तद्विशेषत्वे लब्धे स विशेषः
शक्तिरूप एव । शक्तिश्चान्तराङ्गा बहिरङ्गा तडस्था चेति त्रिधा दर्शिता ।
तत्र विकारात्मकेषु जगज्जन्मादिषु साक्षाद्धेतुना बहिरङ्गाया एव स्याद्
इति सा मायाख्या चोपक्रान्ता । तटस्था च वयं धीमहीत्यनेन ।

अथ यद्यपि भगवतोऽंशात्तद्उपादानभूतप्रकृत्याख्यशक्तिविशिष्टात्
पुरुषादेवास्य जन्मादि तथापि भगवत्येव तद्धेतुना पर्यवसति ।
समुद्रैकदेशे यस्य जन्मादि तस्य समुद्र एव जन्मादीनि । यथोक्तम्
प्रकृतिर्यस्योपादानम्
आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो
ब्रह्म तत्त्रितयं त्वहम् ॥ [भागवतम् ११.२४.१९]

तस्य च भगवतो जन्माद्यस्य यत इत्यनेनापि मूर्तत्वमेव लभ्यते । यतो
मूर्तस्य जगतो मूरित्शक्तेर्निधानरूपतादृशानानन्तपरशक्तीनां
निधानरूपोऽसावित्याक्षिप्यते । तस्य परमकारुणत्वाङ्गीकारात् । न च
तस्य मूर्तत्वे सत्यन्यतो जन्मापतेतनवस्थापत्तेर्
एकस्यैवादित्वेनाङ्गीकारात् । साङ्ख्यानामव्यक्तस्येव ।

स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः [श्वेतू ६.९]

इति श्रुतिनिषेधात् । अनादुसिद्धाप्राकृतस्वाभाविकमूर्तित्वेन तस्य तत्
प्रसिद्धिश्च । तदेवं मूर्तत्वे सिद्धे स च मूर्तो विष्णुनारायआदि
साक्षाद्रूपकः श्रीभगवानेव नान्यः । तथा च

यतः सर्वाणि भूतानि
भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति
पुनरेव युगक्षये ॥

इत्यादि तत्प्रतिपादकसहस्रनामादौ तत्रैव तु यथोक्तमनिर्देश्य
वपुः श्रीमानिति ।

एवं च स्कान्दे

स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।
स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ॥
एकदेशक्रियावत्त्वान्न तु सर्वात्मनेरितम् ।
सृष्ट्य्आदिकं समस्तं तु विष्णोरेव परं भवेत् ॥ इति ।

महोपनिषदि च स ब्रह्मणा सृजति स रुद्रेण विलापयति इत्यादिकम् । अत
एव विवृतं

निमित्तं परमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भः सर्वश्च कालस्यारूपिणस्तव ॥ इति ।

तव यो रूपरहितः कालः कालशक्तिस्तस्य निमित्तमात्रमिति व्यधिकरण
एव षष्ठी । तथा आद्योऽवतारः पुरुषः परस्येत्यादि । यद्अंशतोऽस्य स्थिति
जन्मनाशा इत्यादि च ।

तदेवमत्रापि तथाविधमूर्तिर्भगवानेवोपक्रान्तः । तदेवं
तटस्थलक्षणेन परं निर्धार्य तदेव लक्षणं ब्रह्मसूत्रे शास्त्र
योनित्वात्, तत्तु समन्वयादित्येतत्सूत्रद्वयेन (१.१.३४) स्थापितमस्ति तत्र
पूर्वसूत्रस्यार्थः । कुतो ब्रह्मणो जगज्जन्मादिहेतुत्वं तत्राह शास्त्रं
योनिर्ज्ञानकारणं यस्य तत्त्वात् । यतो वामानि भूतानीत्यादिशास्त्र
प्रमाणकत्वादिति । नात्र दर्शनानतरवत्तर्कप्रमाणकत्वम् ।
तर्काप्रतिष्ठानातन्त्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणविषयत्वाद्
ब्रह्मणश्चेति भावः । वैनाशिकास्त्वविरोधाध्याये तर्केणैव
निराकरिष्यन्ते । अत्र तर्काप्रतिष्ठानं चैवम् ईश्वरः कर्ता न भवति
प्रयोजनशून्यत्वान्मुक्तात्मवत् । तनुभुवनादिकं जीवकर्तृकं
कार्यत्वात घटवत् । विमतिविषयः कालो न लोकशून्यः कालत्वात्
वर्तमानकालवदित्यादि । तदेवं दर्शनानुगुण्य्नेश्वरानुमानं
दर्शनान्तरप्रातिकूल्यपराहतमिति शास्त्रैकप्रामाणिकः परब्रह्म
भूतः सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतरप्रमाणपरिदृष्ट
समस्तवस्तुविजातीयसार्वज्ञ्यसत्यसङ्कल्पत्वादि
मिश्रानवधिकातिशयापरिमितोदारविचित्रगुणसागरं निखिलहेय
प्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसाधर्म्य
प्रयुक्तदोषगन्धः । अतएव स्वाभाविकानन्तनित्यमूर्तिमत्त्वमपि
तस्य सिध्यति ।

अथोत्तरसूत्रस्यार्थः । ब्रह्मणः कथं शास्त्रप्रमाणकत्वं तत्राह तत्
त्विति । तु शब्दः प्रसक्ताशङ्कनिवृत्त्य्अर्थः । तच्छास्त्रप्रमाणकत्वं
ब्रह्मणः सम्भवत्येव । कुतः समन्वयात् । अन्वयव्यतिरेकाभ्याम्
उपपादनं समन्वयस्तस्मात् । तत्रान्वयः सत्यं ज्ञानमनन्तं ब्रह्मेति
[टैत्त्२.१.३] आनन्दो ब्रह्मेति एकमेवाद्वितीयं ब्रह्म इति । तत्सत्यं स आत्मा
इति । सदेव सोम्येदमग्र आसीदिति । आत्मा वा इदमेक एवाग्र आसीत्पुरुष
विध इति । पुरुषो ह वै नारायण इति । एको ह वै नारायण आसीदिति । बहु
स्यां प्रजायेय इति [Cहा ६.२.३] । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत
इति । तत्तेजोऽसृजत इति । यतो वा इमानि भूतानि जायन्त इति । पुरुषो ह वै
नारायणोऽकामयत अथ नारायणादजोऽज्¨आयत यतः प्रजाः सर्वाणि भूतानि
नारायणं परं ब्रह्म तत्त्वं नारायणः परमृतं सत्यं परं ब्रह्म
पुरुषं पिङ्गलमित्यादिषु च ।

अथ व्यतिरेकः । कथमसतः सज्जायेत इति । को ह्येवान्यात्कः प्राण्याद्यद्
एष आकाश आनन्दो न स्यादिति । एको ह वै नारायण आसीन्न ब्रह्मा न च
शङ्कर इत्यादिना । स चैवं परमानन्दरूपत्वेनैव समन्वितो भवतीति
तदुपलब्ध्यैव परमपुरुषार्ह्तत्वसिद्धेर्न प्रयोजनशून्यत्वम्
अपि ।

तदेवं सूत्रद्वयार्थे स्थिते तदेतद्व्याचष्टे, अन्वयादितरतश्चार्थेष्व्
इति । अर्थेषु नानाविधेषु वेदवाक्यार्थेष्सत्स्वन्वयातन्वयमुखेन
यतो यस्मातेकस्मादस्य जन्मादि प्रतीयते तथेतरतो व्यतिरेकमुखेन
च यस्मादेवास्य ततः प्रतीयत इत्यर्थः । अतएव तस्य श्रुत्य्अन्वय
व्यतिरेकदर्शितेन परमसुखरूपत्वेन परमपुरुषार्थत्वं च
ध्वनितम् । एको ह वै नारायण आसीदित्यादिशास्त्रप्रमाणत्वेन प्राक्
स्थापितरूपं चेति ।

अथेक्षतेर्नाशब्दमिति व्याचष्टे अभिज्ञ इति । अत्र सूत्रार्थः इदमाम्नायते
छान्दोग्ये सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं ब्रह्म तदैक्षत
बहु स्यां प्रजाययेति । [Cहा ६.२.३] । तत्तेजोऽसृजतेत्यादि । अत्र परोक्तं
प्रधानमपि जगत्कारणत्वेनायाति । तच्च नेत्याह ईक्षतेरिति । यस्मिन्
शब्द एव प्रमाणं न भवति तद्अशब्दमानुमानिकं प्रधानमित्य्
अर्थः । न तदिह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्याशङ्क्याह ईक्षतेः ।
न तदिह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्याशङ्क्याह ईक्षतेः । सच्
छब्दवाच्यसम्बन्धिव्यापारविशेषाभिधायिअ ईक्षतेर्धातोः श्रवणात् ।
तदैक्षतेतीक्षणं चाचेतने प्रधाने न सम्भवेत् । अन्यत्र
चेक्षापूर्विकैव सृष्टिः । स ऐक्षत लोकानुसृजा इति स इमान् लोकानसृजतेत्य्
आदौ । ईक्षणं चात्र तदेशसृज्यविचारात्मकत्वात्सर्वज्ञत्वमेव
क्रोडीकरोति । तदेतदाह अभिज्ञ इति ।

ननु तदानीयमेवाद्वितीयमित्युक्तेस्तस्येक्षणसाधनं न सम्भवति
तत्राह स्वराडिति । स्वस्वरूपेणैव तथा राजत इति । न तस्य कार्यं करणं
च व्दियत इत्यादौ स्वाभाविकी ज्ञानबलक्रिया चेत्यादि श्रुतेः ।
एतेनेक्षणवन्मूर्तिमत्त्वमपि तस्य स्वाभावैकमित्यायातम् ।
निःश्वतितस्यान्यग्रे दर्शयिष्यमाणत्वात् । तच्च यथोक्तमेवेति च ।

अत्र शास्त्रयोनित्वादित्यस्यार्थान्तरं व्याचष्टे तेन इति । तच्चार्थान्तरं
यथा कथं तस्य जगज्जन्मादिकर्तृत्वं कथं वा नान्यतन्त्रोक्तस्य
प्रधानस्य न चान्यस्येति तत्राह । शास्त्रस्य वेदलक्षणस्य योनिः कारणं
तद्रूपत्वात् । एवं वा अरे अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो
यजुर्वेदः सामवेदोऽथ वाङ्गिरस इतिहासपुराणं विद्या उपनिषदः
श्लोकाः सूत्राण्युपसूत्राणि व्याख्यानानीति श्रुतेः । शास्त्रं हि सर्व
प्रमाणागोचरविविधानन्तज्ञानमयं तस्य च कारणं ब्रह्मैव
श्रूयत इति ।

तदेवं मुख्यं सर्वज्ञं तादृशं सर्वज्ञत्वं विना च सर्वशृष्ट्य्
आदिकमन्यस्य नोपपद्यतिति प्रोक्तलक्षणं ब्रह्मैव जगत्कारणं न
प्रधानं न जीवान्तरमिति । तदेव विवृत्याह तेने ब्रह्म हृदा य
आदिकवय इति । ब्रह्म वेदमादिकवये ब्रह्मणे ब्रह्माणणं हृदान्तः
करणद्वारैव, न तु वाक्यद्वारा । तेने आविर्भावितवान् ।

अत्र बृहद्वाचकेन ब्रह्मपदेन सर्वज्ञानमयत्वं तस्य ज्ञापितम् ।
हृदेत्यनेनान्तर्यामित्वं सर्वशक्तिमयत्वं च ज्ञापितम् । आदिकवय इत्य्
अनेन तस्यापि शिक्षानिदानत्वाच्छास्त्रयोनित्वं चेति । श्रुतिश्चात्र

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ [श्वेतू ६.१८] ।

मुक्तजीवा अपि तत्कारणं नेत्याह मुह्यन्तीति । यत्र ब्रह्मणि वेदख्ये
सूरयः शेषादयोऽपि । अनेन च शयनलीलाव्यञ्जितनिश्वसितमयवेदो
ब्रह्मादिविविधाननलोचनश्च यः पद्मनाभस्तद्आदिमूर्तिकः श्री
भगवानेवाभिहितः । विवृतं चैतत् । प्रचोदिता येन पुरा सरस्वतीत्य्[भागवतम्
२.४.२२] आदिना ।

अथ तत्तु समन्वयादित्यस्यान्तरं, यथा शास्त्रयोनित्वे हेतुश्च दृश्यते
इत्याह तत्त्विति । समन्वयोऽत्र सम्यक्सर्वतोमुखोऽन्वयो व्युत्पत्तिर्
वेदार्थपरिज्ञातं यस्मात्तु शास्त्रनिदानत्वं निश्चीयत इति जीवे सम्यक् ।
ज्ञानमेव नास्ति प्रधानं त्वचेनमेवेति भावः । स वेत्ति विश्वं न हि
तस्य वेत्तेति श्रुतेः । यदेतदस्य तदीयसम्यग्ज्ञानं व्यतिरेकमुखेन
बोधयितुं जीवानां सर्वेषामपि तदीयसम्यग्ज्ञानाभावमाह
मुह्यन्तीति । सूरयः शेषादयोऽपि यद्यत्र शब्दब्रह्मणि मुह्यन्ति । तद्
एतद्विवृतं स्वयं भगवता

किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
इत्यस्या हृदयं लोके नान्या मद्वेद कश्चन ॥ इति (भागवतम् ११.२१.४२) ।

अनेन च साक्षाद्भगवानेवाभिहितः ।

अथेक्षतेर्नाशब्दमित्यस्यार्थान्तरमभिइज्ञ इत्यत्रैव व्यञ्जितमस्ति ।
अत्र सूत्रार्थः नन्वशब्दमस्पर्शमरूपमव्ययमित्यादि श्रुतेः ।
कथं तस्य शब्दयोनित्वं, तत्र हि प्रकृतब्रह्म शब्दहीनं न भवति ।
कुतः ।
 
ईक्षतेः । तदैक्षत बहु स्यां प्रज्यायेयेत्यत्र बहु स्यामिति
शब्दात्मकेक्षधातोः श्रवणात् । तदेतदाह, अभिज्ञः । बहु स्यामित्यादि
शब्दात्मकविचारविदग्धः । स च शब्दादिशक्तिसमुदायस्तस्य न
प्राकृतः प्रकृतिक्षोभात्पूर्वत्रापि सद्भावात् । ततः स्वरूपभूत एवेत्य्
आह स्वराडिति ।

अत्र पूर्ववत्तादृशं सधर्मकत्वं मूर्तिमत्त्वमपि सिद्धम् । यथाहुः
सूत्रकाराः अन्तस्तद्धर्मोपदेशादिति (Vस्१.१.१०) । अतोऽशब्दत्वादिकं
प्राकृतशब्दहीनत्वादिमेवेति ज्ञेयम् । अत्रोत्तरमीमांसाध्याय
चतुष्टयस्याप्यर्थो दर्शितः । तत्रान्वयादितरतश्चेति समन्वयाध्यायस्य
सत्यं परमिति फलाध्याययेति । तथा गायत्र्य्अर्थोऽपि स्पष्टः । तत्र
जन्माद्यस्य यत इति प्रणवार्थः सृष्ट्य्आदिशक्तिमत्त्ववाचित्वात् । तदेवम्
एवाग्निपुराणे गायत्रीव्याख्याने प्रोक्तं तज्ज्योतिर्भगवान् विष्णुर्जगज्
जन्मादिकारणमिति । यत्र त्रिसर्गो मृषेति व्याहृतित्रयार्थः । उभयत्रापि
लोकत्रयस्य तद्अनन्यत्वेन विवक्षितत्वात् । स्वराडिति सवितृप्रकाशक
परमतेजोवाचि । तेने ब्रह्म हृदेति बुद्धिप्रवृत्तिप्रेरणा प्रार्थना
सूचिता । तदेव कृपया स्वध्यानायास्माकं बुद्धिवृत्तीः प्रेरयतादिति
भावः । एवमेवोक्तं गायत्र्या च समारम्भ इति । तच्च तेजस्तत्र अन्तस्
तद्धर्मोपदेशादित्यादिना सम्प्रतिपन्नं यन्मूर्तं तद्आद्य्अनन्त
मूर्तिमदेव ध्येयमिति । तत्र चाग्निपुराणक्रमवचनानि

एवं सन्ध्याविधिं कृत्वा गायत्रीं च जपेत्स्मरेत् ।
गायत्र्य्उक्थानि शास्त्राणि भर्गं प्राणांस्तथैव च ॥
ततः स्मृतेयं गायत्री सावित्री यत एव च ।
प्रकाशिनी सा सवितुर्वाग्रूपत्वात्सरस्वती ॥
तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतः ।
भर्गः स्यात्भ्राजत इति बहुलं छन्दसीरितम् ॥
वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं परम् ।
सर्गापवर्गकामैर्वा वरणीयं सदैव हि ॥
वृणोतेर्वरणार्थत्वात्जाग्रत्स्वप्नादिवर्जितम् ।
नित्यं शुद्धं बुद्धमेकं नित्यं भर्गम् अधीश्वरम् ॥
अहं ब्रह्म परं ज्योतिर्ध्यायेम हि विमुक्तये ।
तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणम् ॥
शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च ।
केचित्सूर्यं केचिदग्निं दैवतान्यग्निहोत्रिणः ॥
अग्न्य्आदिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ।
तत्पदं परमं विष्णोर्देवस्य स्वैतुः स्मृतम् ॥
दधातेर्वा धीमहीति मनसा धारयेमहि ।
नोऽस्माकं यच्च भर्गस्तत्सर्वेषां प्राणिनां धियः ॥
चोदयात्प्रेरयाद्बुद्धिं भोक्तॄणां सर्वकर्मसु ।
दृष्टादृष्टविपाकेषु विष्णुः सूर्याग्निरूपभाक् ॥
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ।
ईशावास्यमिदं सर्वं महद्आदिजगद्धरिः ॥
स्वर्गाद्यैः क्रीडते देवी यो हंसः पुरुषः प्रभुः ।
ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्यमण्डले ॥
सत्यं सदाशिवं ब्रह्म विष्णोर्यत्परमं पदम् ।
देवस्य स्वैतुर्देवो वरेण्यं हि तुरीयकम् ॥
योऽसावादित्यपुरुषः सोऽसावहमनुत्तमम् ।
जनानां शुभकर्मादीन् प्रवर्तयति यः सदा ॥ इत्यादि ।

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ।
वृत्रासुरवधोत्सिक्तं तद्भागवतमुच्यते ॥ इत्यादीनि च ।

तस्माद्भग ब्रह्म परा विष्णुर्भगवतच्छब्दाभिन्नवर्णतया तत्र
तत्र निर्दिष्टा अपि भगवत्प्रतिपादका एव ज्ञेयाः । मध्ये मध्ये त्व्
अहंग्रहोपासनानिर्देशस्तत्साम्य इव लब्धे हि तद्उपासनायोग्यता
भवतीति । तथा दशलक्षणर्थोऽप्यत्रैव दृश्यः । तत्र सर्गविसर्ग
स्थाननिरोधा जन्द्माद्यस्य यतः इत्यत्र । मन्वन्तरेशानुकथने च
स्थानान्तर्गते पोषणं तेन इत्यादौ । ऊतिर्मुह्यन्तीत्यादौ । मुक्तिर्
जीवानामपि तत्सान्निध्ये सति कुहकनिरसनव्यञ्जके धाम्नेत्य् आदौ ।
आश्रयः सत्यं परमित्यादौ[*Eण्ड्ण्Oट्E ॰९] ।

स च स्वयंभगवत्त्वेन निर्णीयत्वात्श्रीकृष्ण एवेति पूर्वोक्तप्रकार एव
व्यक्त इति । तदेवमस्मिन्नुपक्रमवाक्ये सर्वेषु पदवाक्यतात्पर्येषु
तस्य ध्येयस्य सविशेषत्वं मूर्तित्वं भगवद्आकारं च व्यक्तम् । तच्च
युक्तम् । स्वरूपवाक्यान्तरव्यक्तत्वात् ।

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो
यः सृष्ट्येदमनुप्रविश्य ऋषिणा चक्रपुरः शास्ति ताः ।
यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा
तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ इति ।[भागवतम् १०.८७.५०]

अतो धर्मः प्रोज्झितेत्यादावनन्तरवाक्येऽपि किं वा परैरित्यादिना
तत्रैव तात्पर्यं दर्शितम् ।

तथोपसंहारवाक्याधीनार्थत्वादुपक्रमस्य नातिकमणीयमेव ।
कस्मै येन विभासितोऽयमित्यादिदर्शितं तस्य तादृशविशेषवत्त्वादिकम् ।
यथैव आत्मगृहीतिरितरवदुत्तरादित्यत्र (Vस्३.३.१६) शङ्कर
शारीरकस्यापरस्यां योजनायामुपक्रमोक्तस्य सच्छब्द
वाच्यस्यात्मत्वमुपसंहारस्थादात्मशब्दाल्लभ्यते तद्वदिहापि
चतुःश्लोकीवक्तुर्भगवत्त्वं दर्शितं च श्रीव्याससमाधावपि तस्यैव
ध्येयत्वम् । तदेव च स्वसुखनिभृतेत्यादि श्रीशुकहृदयानुगतम्
इति ॥ १.१ ॥ श्रीव्यासः ॥१०५॥
अथोपसंहार[*Eण्ड्ण्Oट्E ॰१०]वाक्यस्याप्ययमर्थः । कस्मै
गर्भोदकशायिपुरुषनाभिकमलस्थाय ब्रह्मणे तत्रैव येन महा
वैकुण्ठं दर्शयता द्वितीयस्कन्धवर्णिततादृशश्रीमूर्त्य्आदिना
भगवता विभासितः प्रकाशितः न तु तदापि रचितः अयं श्रीभागवत
रूपः पुरा पूर्वपरार्धादौ तद्रूपेण ब्रह्मरूपेण तद्रूपिणा श्री
नारदरूपिणा योगीन्द्राय श्रीशुकाय तद्आत्मना श्रीकृष्णद्वैपायन
रूपेण । तद्आत्मनेत्यस्योत्तरेणान्वयः । तत्र तद्आत्मना श्रीशुक
रूपेणेति ज्ञेयम् । तद्रूपेणेत्यादिभिस्त्रिभिः पदैर्न केवलं चतुःश्लोक्य्
एव तेन प्रकाशिता किं तर्हि तत्र तत्राविष्टेनाखण्डमेव पुराणमिति
द्योतितम् ।

अत्र मद्रूपेण च युष्मभ्यमिति सङ्कोचेनानुक्तोऽपि श्रीसूतवाक्यशेषो
गम्यः । एवं सर्वस्यापि श्रीभागवतगुरोर्महिमा दर्शितः । सङ्कर्षण
सम्प्रदायप्रवृत्तिस्तु कृष्णद्वैपायनकर्तृकप्रकाशनान्तर्गतैवेति
पृथङ्नोच्यते ।

तत्परं सत्यं श्रीभगवद्आख्यं तत्त्वं धीमहि । यत्तत्परम्
अनुत्तममिति सहस्रनामस्तोत्रात्परशब्देन च श्रीभगवानेवोच्यते ।
आद्योऽवतारः पुरुषः परस्येति द्वितीयात् । ब्रह्मादीनां बुद्धिवृद्धि
प्रेरकत्वेनाभिधानाद्गायत्र्या अप्यर्थोऽयं ग्रन्थ इति दर्शयति । तद्
उक्तं गायत्रीभाष्यरूपोऽसौ भारतार्थविनिर्णयः ॥ इति ॥

॥१२.१३॥ श्रीसूतः ॥ १०६॥

[१०७]

अथाभ्यासेन

कलिमलसंहतिकालनोऽखिलेशो
हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।
इह तु पुनर्भगवानशेषमूर्तिः
परिवृतोऽनुपदं कथाप्रसङ्गैः ॥ [भागवतम् १२.१२.६६]

कालेनोनाशनः । इतरत्र कर्मब्रह्मादिप्रतिपादकशास्त्रान्तरे । अखिलेशो
विराड्अन्तर्यामी नारायणोऽपि तत्पालको विष्णुर्वापि न गीयते क्वचिद्गीयते
वा तत्र त्वभीक्ष्णं नैव गीयते तुशब्दोऽवधारणे साक्षात्श्रीभगवान्
पुनरिह श्रीभागवते एवाभीक्ष्णं गीयते । नारायणादयो वा येऽत्र
वर्णितास्तेऽप्यशेषा एव मूर्तयोऽवतारा यस्य सः । तथाभूत एव गीयते न
त्वितरत्रैव तद्अविवेकेनेत्यर्थः । अतएव तत्तत्कथाप्रसङ्गैरनुपदं
पदं पदमपि लक्ष्यीकृत्य भगवानेव परि सर्वतोभावेन पठितो
व्यक्तमेवोक्त इति । अनेनापूर्वतापि व्याख्याता
अन्यत्रानधिगतत्वात् ॥ १२.१२ ॥ श्रीसूतः ॥१०७॥

[१०८]

अथ फलेनापि

पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवणपुटेषु सम्भृतम् ।
पुनन्ति ते विषयविदूषिताशयं
व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ [भागवतम् २.२.३७]

सतामात्मनः प्राणेश्वरस्य यद्वा व्यधिकरणे षष्ठी सतामात्मनः
स्वस्य यो भगवांस्तस्येत्यर्थः । तेषां भगवति स्वामित्वेन
ममतास्पदत्वात् अत्र कथामृतं प्रक्रम्यमाणं श्रीभागवताख्यम्
एव मुख्यम् । यस्यां वै श्रूयमाणायामित्य्[भागवतम् १.७.७] आदिकं च
तथैवोक्तमिति ॥२.२॥ श्रीशुकः ॥१०८॥

[१०९]

अथार्थवादेन

यं ब्रह्म वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामागाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ [भागवतम् १२.१३.१]

स्तवैर्वेदैश्च स्तुन्वन्ति स्तुवन्ति । ध्यानेनावस्थितं निश्चलं तद्गतं
यन्मनस्तेन ॥ १२.१३ ॥ श्रीसूतः ॥ १०९ ॥

[११०]

अथोपपत्त्या

भगवान् सर्वभूतेषु
लक्षितः स्वात्मना हरिः ।
दृश्यैर्बुद्ध्य्आदिभिर्
द्रष्टा लक्षणैरनुमापकैः ॥ [भागवतम् २.२.३५]

प्रथमद्रष्टा जीवो लक्षितः । कैर्दृश्यैर्बुद्ध्य्आदिभिः । तदेव
द्वेधा दर्शयति दृश्यानां जडानां बुद्ध्य्आदीनां दर्शनं स्वप्रकाशं
द्रष्टारं विना न घटत ज्ञानोपपत्तिद्वारा लक्षणैः स्वप्रकाश
द्रष्टृअलक्षकैः तथा बुद्ध्य्आदीनि कर्तृ प्रयोज्यानि करणत्वाद्
वास्यादिवदिति व्याप्तिद्वारानुमापकैरिति ।

अथ भगवानपि लक्षितः । केन सर्वभूतेषु सर्वेषु तेषु द्रष्टृषु
प्रविष्टेन स्वात्मना स्वांशरूपेणान्तर्यामिणा । आदौ सर्वैर्द्रष्टृभिर्
अन्तर्यामी लक्षितः ततस्तेन भगवानपि लक्षित इत्यर्थः । स च स च
पूर्ववत्द्विधैव लक्ष्यते । तथा हि कर्तृत्वभोक्तृत्वयोरस्वातत्न्र्य
दर्शनात्कर्मणो जडत्वात्कर्मणो जडत्वात्सर्वेषामपि जीवानां तत्र
तत्र प्रवृत्तिरन्तःप्रयोजकविशेषं विना न घटत इत्यनुपपत्ति
द्वारान्तर्यामी लक्ष्यते । एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण
श्रावयति मनसा मानयति बुद्ध्या बोधयति तस्मादेता बाहुः । मृतिर्
अमृतिरिति भाल्लवेयश्रुतिश्च ।

अतएव गीतोपनिषत्सु
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ इति ।

विष्णुपुराणे च स्वशक्तिलेशावृतभूतसर्ग इति । तथा जीवाः प्रयोजक
कर्तृप्रेरितव्यापाराः । अस्वातन्त्र्यात् । तक्षादिकर्मकरजनवदित्येवम्
अन्तर्यामिणि तत्त्वे व्याप्तिद्वारा सिद्धेः । पुनस्तेनैव भगवानपि
साध्यते । तुच्छवैभवजीवान्तर्यामिस्वरूपमीश्वरतत्त्वं
निजांशित्वाश्रयं तथैव पर्याप्तेः । राजप्रभुत्वाश्रिततक्षकादिकर्म
कर प्रयोजकप्रभुत्वादिवदिति । अथवात्र

यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः ।
एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः ॥ [भागवतम् ३.३२.३३] इत्य्
एवोदाहरणीयम् । अनेनैव गतिसामान्यं च सिध्यतीति ॥ २.२ ॥ श्री
शुकः ॥ ११० ॥

प्रत्यवस्थापितं वदन्तीत्यादिपद्यम् ।

इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री
भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन
भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे
परमात्मसन्दर्भो नाम तृतीयः सन्दर्भः ॥

श्रीभागवतसन्दर्भे सर्वसन्दर्भगर्भगे ।
परमात्माभिधेयोऽसौ सन्दर्भोऽभूत्तृतीयकः ॥

समाप्तोऽयं तृतीयः सन्दर्भः ॥