श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ५३
← अध्यायः ५२ | श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ५३ [[लेखकः :|]] |
अध्यायः ५४ → |
अथ त्रिपञ्चाशत्तमोऽध्यायः 10.53
श्रीशुक उवाच।
वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः।
प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् १।
श्रीभगवानुवाच।
तथाहमपि तच्चित्तो निद्रां च न लभे निशि।
वेदाहम्रुक्मिणा द्वेषान्ममोद्वाहो निवारितः २।
तामानयिष्य उन्मथ्य राजन्यापसदान्मृधे।
मत्परामनवद्याङ्गी मेधसोऽग्निशिखामिव ३।
श्रीशुक उवाच।
उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः।
रथः संयुज्यतामाशु दारुकेत्याह सारथिम् ४।
स चाश्वैः शैब्यसुग्रीव मेघपुष्पबलाहकैः।
युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः ५।
आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः।
आनर्तादेकरात्रेण विदर्भानगमद्धयैः ६।
राजा स कुण्डिनपतिः पुत्रस्नेहवशानुगः।
शिशुपालाय स्वां कन्यां दास्यन्कर्माण्यकारयत् ७।
पुरं सम्मृष्टसंसिक्त मार्गरथ्याचतुष्पथम्।
चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ८।
स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः।
जुष्टं स्त्रीपुरुषैः श्रीमद् गृहैरगुरुधूपितैः ९।
पितॄन्देवान्समभ्यर्च्य विप्रांश्च विधिवन्नृप।
भोजयित्वा यथान्यायं वाचयामास मङ्गलम् १०।
सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम्।
आहतांशुकयुग्मेन भूषितां भूषणोत्तमैः ११।
चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः।
पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये १२।
हिरण्यरूप्य वासांसि तिलांश्च गुडमिश्रितान्।
प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः १३।
एवं चेदिपती राजा दमघोषः सुताय वै।
कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् १४।
मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः।
पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ १५।
तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च।
निवेशयामास मुदा कल्पितान्यनिवेशने १६।
तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः।
आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः १७।
कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम्।
यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः १८।
योत्स्यामः संहतास्तेन इति निश्चितमानसाः।
आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः १९।
श्रुत्वैतद्भगवान्रामो विपक्षीय नृपोद्यमम्।
कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः २०।
बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः।
त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः २१।
भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः।
प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा २२।
अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः।
नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम्।
सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः २३।
अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम्।
मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः २४।
दुर्भगाया न मे धाता नानुकूलो महेश्वरः।
देवी वा विमुखी गौरी रुद्राणी गिरिजा सती २५।
एवं चिन्तयती बाला गोविन्दहृतमानसा।
न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले २६।
एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप।
वाम ऊरुर्भुजो नेत्रमस्फुरन्प्रियभाषिणः २७।
अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः।
अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह २८।
सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती।
आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता २९।
तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम्।
उक्तं च सत्यवचनमात्मोपनयनं प्रति ३०।
तमागतं समाज्ञाय वैदर्भी हृष्टमानसा।
न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ३१।
प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ।
अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः ३२।
मधुपर्कमुपानीय वासांसि विरजांसि सः।
उपायनान्यभीष्टानि विधिवत्समपूजयत् ३३।
तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः।
ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा ३४।
एवं राज्ञां समेतानां यथावीर्यं यथावयः।
यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ३५।
कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः।
आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् ३६।
अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा।
असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ३७।
किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत्।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ३८।
एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः।
कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम् ३९।
पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम्।
सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम् ४०।
यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता।
गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः।
मृडङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ४१।
नानोपहार बलिभिर्वारमुख्याः सहस्रशः।
स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः ४२।
गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादकाः।
परिवार्य वधूं जग्मुः सूतमागधवन्दिनः ४३।
आसाद्य देवीसदनं धौतपादकराम्बुजा।
उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ४४।
तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः।
भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम् ४५।
नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम्।
भूयात्पतिर्मे भगवान्कृष्णस्तदनुमोदताम् ४६।
अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्य भूषणैः।
नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ४७।
विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत्।
लवणापूपताम्बूल कण्ठसूत्रफलेक्षुभिः ४८।
तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः।
ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः ४९।
मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात्।
प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ५०।
तां देवमायामिव धीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम्।
श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ५१।
शुचिस्मितां बिम्बफलाधरद्युति शोणायमानद्विजकुन्दकुड्मलाम्।
पदा चलन्तीं कलहंसगामिनीं सिञ्जत्कलानूपुरधामशोभिना ५२।
विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः।
यां वीक्ष्य ते नृपतयस्तदुदारहास व्रीडावलोकहृतचेतस उज्झितास्त्राः ५३।
पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम्।
सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ५४।
उत्सार्य वामकरजैरलकानपङ्गैः प्राप्तान्ह्रियैक्षत नृपान्ददृशेऽच्युतं च।
तां राजकन्यां रथमारुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम् ५५।
रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः।
ततो ययौ रामपुरोगमः शनैः शृगालमध्यादिव भागहृद्धरिः ५६।
तं मानिनः स्वाभिभवं यशःक्षयं।
परे जरासन्धमुखा न सेहिरे।
अहो धिगस्मान्यश आत्तधन्वनां।
गोपैर्हृतं केशरिणां मृगैरिव ५७।
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं नाम त्रिपञ्चाशत्तमोऽध्यायः।