श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ८०

← अध्यायः ७९ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ८०
[[लेखकः :|]]
अध्यायः ८१ →



सुदामोपाख्यानम् – पत्‍नीप्रेरणया सुदाम्नो भगवत् समीपे गमनं; भगवता तस्य सत्कारश्च -

श्रीराजोवाच -
( अनुष्टुप् )
भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।
 वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ॥ १ ॥
 को नु श्रुत्वासकृद् ब्रह्मन् उत्तमःश्लोकसत्कथाः ।
 विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥ २ ॥
( मिश्र )
सा वाग् यया तस्य गुणान् गृणीते
     करौ च तत्कर्मकरौ मनश्च ।
 स्मरेद्‌ वसन्तं स्थिरजङ्‌गमेषु
     श्रृणोति तत्पुण्यकथाः स कर्णः ॥ ३ ॥
 शिरस्तु तस्योभयलिङ्‌गमानं
     एत्तदेव यत्पश्यति तद्धि चक्षुः ।
 अङ्‌गानि विष्णोरथ तज्जनानां
     पादोदकं यानि भजन्ति नित्यम् ॥ ४ ॥
 सूत उवाच -
( अनुष्टुप् )
विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः ।
 वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥
 श्रीशुक उवाच -
कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः ।
 विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ ६ ॥
 यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।
 तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७ ॥
 पतिव्रता पतिं प्राह म्लायता वदनेन सा ।
 दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ ८ ॥
 ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ।
 ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः ॥ ९ ॥
 तमुपैहि महाभाग साधूनां च परायणम् ।
 दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १० ॥
 आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः ।
 स्मरतः पादकमलं आत्मानमपि यच्छति ।
 किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्‌गुरुः ॥ ११ ॥
 स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु ।
 अयं हि परमो लाभ उत्तमःश्लोकदर्शनम् ॥ १२ ॥
 इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।
 अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ १३ ॥
 याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् ।
 चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४ ॥
 स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल ।
 कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५ ॥
 त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः ।
 विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६ ॥
 गृहं द्‌व्यष्टसहस्राणां महिषीणां हरेर्द्विजः ।
 विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ १७ ॥
 तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थितः ।
 सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८ ॥
 सख्युः प्रियस्य विप्रर्षेः अङ्‌गसङ्‌गातिनिर्वृतः ।
 प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ १९ ॥
 अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् ।
 उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ २० ॥
 अग्रहीच्छिरसा राजन् भगवान् लोकपावनः ।
 व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः ॥ २१ ॥
 धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा ।
 अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२ ॥
 कुचैलं मलिनं क्षामं द्‌विजं धमनिसंततम् ।
 देवी पर्यचरत् साक्षात् चामरव्यजनेन वै ॥ २३ ॥
 अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना ।
 विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४ ॥
 किमनेन कृतं पुण्यं अवधूतेन भिक्षुणा ।
 श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५ ॥
 योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः ।
 पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६ ॥
 कथयां चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः ।
 आत्मनोर्ललिता राजन् करौ गृह्य परस्परम् ॥ २७ ॥
 श्रीभगवानुवाच -
अपि ब्रह्मन्गुरुकुलाद्‌ भवता लब्धदक्षिणात् ।
 समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ २८ ॥
 प्रायो गृहेषु ते चित्तं अकामविहितं तथा ।
 नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९ ॥
 केचित् कुर्वन्ति कर्माणि कामैरहतचेतसः ।
 त्यजन्तः प्रकृतीर्दैवीः यथाहं लोकसङ्‌ग्रहम् ॥ ३० ॥
 कच्चिद्‌ गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः ।
 द्‌विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते ॥ ३१ ॥
 स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भवः ।
 आद्योऽङ्‌ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥ ३२ ॥
 नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह ।
 ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३ ॥
 नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।
 तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४ ॥
 अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ ।
 गुरुदारैश्चोदितानां इन्धनानयने क्वचित् ॥ ३५ ॥
 प्रविष्टानां महारण्यं अपर्तौ सुमहद् द्विज ।
 वातवर्षं अभूत्तीव्रं निष्ठुराः स्तनयित्‍नवः ॥ ३६ ॥
 सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिशः ।
 निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७ ॥
( वंशस्था )
वयं भृशम्तत्र महानिलाम्बुभिः
     निहन्यमाना महुरम्बुसम्प्लवे ।
 दिशोऽविदन्तोऽथ परस्परं वने
     गृहीतहस्ताः परिबभ्रिमातुराः ॥ ३८ ॥
( अनुष्टुप् )
एतद्‌ विदित्वा उदिते रवौ सान्दीपनिर्गुरुः ।
 अन्वेषमाणो नः शिष्यान् आचार्योऽपश्यदातुरान् ॥ ३९ ॥
 अहो हे पुत्रका यूयं अस्मदर्थेऽतिदुःखिताः ।
 आत्मा वै प्राणिनां प्रेष्ठः तं अनादृत्य मत्पराः ॥ ४० ॥
 एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।
 यद्‌ वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१ ॥
 तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः ।
 छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४२ ॥
 इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु ।
 गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ ४३ ॥
 श्रीब्राह्मण उवाच -
किमस्माभिरनिर्वृत्तं देवदेव जगद्‌गुरो ।
 भवता सत्यकामेन येषां वासो गुरावभूत् ॥ ४४ ॥
 यस्य च्छन्दोमयं ब्रह्म देह आवपनं विभो ।
 श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 श्रीदामचरिते अशीतितमोऽध्यायः ॥ ८० ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥