श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३२

← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३१ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३२
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३३  →



भगवतः प्रादुर्भावः गोपीनां आश्वासनं च -

श्रीशुक उवाच -
( अनुष्टुप् )
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा ।
 रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १ ॥
 तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।
 पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २ ॥
 तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः ।
 उत्तस्थुर्युगपत् सर्वाः तन्वः प्राणमिवागतम् ॥ ३ ॥
 काचित् कराम्बुजं शौरेः जगृहेऽञ्जलिना मुदा ।
 काचिद् दधार तद्‍बाहुं अंसे चन्दनरूषितम् ॥ ४ ॥
 काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् ।
 एका तदङ्‌घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५ ॥
 एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ।
 घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा ॥ ६ ॥
 अपरानिमिषद् दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।
 आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥
 तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।
 पुलकाङ्‌ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ ८ ॥
 सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः ।
 जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९ ॥
 ताभिर्विधूतशोकाभिः भगवानच्युतो वृतः ।
 व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १० ॥
 ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।
 विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ॥ ११ ॥
 शरच्चन्द्रांशुसन्दोह ध्वस्तदोषातमः शिवम् ।
 कृष्णाया हस्ततरला चितकोमलवालुकम् ॥ १२ ॥
( मिश्र )
तद्दर्शनाह्लादविधूतहृद्रुजो
     मनोरथान्तं श्रुतयो यथा ययुः ।
 स्वैरुत्तरीयैः कुचकुङ्‌कुमाङ्‌कितैः
     अचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥
 तत्रोपविष्टो भगवान् स ईश्वरो
     योगेश्वरान्तर्हृदि कल्पितासनः ।
 चकास गोपीपरिषद्‍गतोऽर्चितः
     त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥
 सभाजयित्वा तमनङ्‌गदीपनं
     सहासलीलेक्षणविभ्रमभ्रुवा ।
 संस्पर्शनेनाङ्‌ककृताङ्‌घ्रिहस्तयोः
     संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥
 श्रीगोप्य ऊचुः -
( अनुष्टुप् )
भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् ।
 नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६ ॥
 श्रीभगवानुवाच -
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
 न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥
 भजन्त्यभजतो ये वै करुणाः पितरो यथा ।
 धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ १८ ॥
 भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः ।
 आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ १९ ॥
( मिश्र )
नाहं तु सख्यो भजतोऽपि जन्तून्
     भजाम्यमीषामनुवृत्तिवृत्तये ।
 यथाधनो लब्धधने विनष्टे
     तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥
 एवं मदर्थोज्झितलोकवेद
     स्वानां हि वो मय्यनुवृत्तयेऽबलाः ।
 मयापरोक्षं भजता तिरोहितं
     मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ २१ ॥
 न पारयेऽहं निरवद्यसंयुजां
     स्वसाधुकृत्यं विबुधायुषापि वः ।
 या माभजन् दुर्जरगेहशृङ्‌खलाः
     संवृश्च्य तद् वः प्रतियातु साधुना ॥ २२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥