श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १८

← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १७ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १८
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १९ →


वानप्रस्थ संन्यासाश्रमधर्म निरूपणम् -

श्रीभगवानुवाच -
( अनुष्टुप् )
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।
 वन एव वसेत् शान्तः तृतीयं भागमायुषः ॥ १ ॥
 कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् ।
 वसीत वल्कलं वासः तृणपर्णाजिनानि च ॥ २ ॥
 केशरोमनखश्मश्रुमलानि बिभृयाद् दतः ।
 न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३ ॥
 ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले ।
 आकण्ठमग्नः शिशिरे एवंवृत्तस्तपश्चरेत् ॥ ४ ॥
 अग्निपक्वं समश्नीयात् कालपक्वमथापि वा ।
 उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५ ॥
 स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्तिकारणम् ।
 देशकालबलाभिज्ञो नाददीतान्यदाऽऽहृतम् ॥ ६ ॥
 वन्यैश्चरु-पुरोडाशैः निर्वपेत् कालचोदितान् ।
 न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७ ॥
 अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् ।
 चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ ८ ॥
 एवं चीर्णेन तपसा मुनिः र्धमनिसंततः ।
 मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९ ॥
 यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् ।
 कामायाल्पीयसे युञ्ज्याद् बालिशः कोऽपरस्ततः ॥ १० ॥
 यदासौ नियमेऽकल्पो जरया जातवेपथुः ।
 आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११ ॥
 यदा कर्मविपाकेषु लोकेषु निरयात्मसु ।
 विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः ॥ १२ ॥
 इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे ।
 अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ १३ ॥
 विप्रस्य वै संन्यसतो देवा दारादिरूपिणः ।
 विघ्नान् कुर्वन्त्ययं ह्यस्मान् आक्रम्य समियात् परम् ॥ १४ ॥
 बिभृयाच्चेन् मुनिर्वासः कौपीनाच्छादनं परम् ।
 त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥ १५ ॥
 दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् ।
 सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ १६ ॥
 मौनानीहानिलायामाः दण्डा वाक्-देह-चेतसाम् ।
 न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यतिः ॥ १७ ॥
 भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् ।
 सप्तागारान् असङ्‌क्लृप्तान् तुष्येत् लब्धेन तावता ॥ १८ ॥
 बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः ।
 विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९ ॥
 एकश्चरेत् महीमेतां निःसङ्गः संयतेन्द्रियः ।
 आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥ २० ॥
 विविक्तक्षेमशरणो मद्‍भावविमलाशयः ।
 आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ २१ ॥
 अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।
 बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ २२ ॥
 तस्मान्नियम्य षड्वर्गं मद्‍भावेन चरेन् मुनिः ।
 विरक्तः क्षुद्रकामेभ्यो लब्ध्वा आत्मनि सुखं महत् ॥ २३ ॥
 पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत् ।
 पुण्यदेश सरिच्छैशैल वनाश्रमवतीं महीम् ॥ २४ ॥
 वानप्रस्थाश्रमपदेषु अभीक्ष्णं भैक्ष्यमाचरेत् ।
 संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा ॥ २५ ॥
 नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति ।
 असक्तचित्तो विरमेद् इहामुत्र चिकीर्षितात् ॥ २६ ॥
 यदेतदात्मनि जगन् मनो-वाक्-प्राण-संहतम् ।
 सर्वं मायेति तर्केण स्वस्थः त्यक्त्वा न तत्स्मरेत् ॥ २७ ॥
 ज्ञाननिष्ठो विरक्तो वा मद्‍भक्तो वाऽनपेक्षकः ।
 सलिङ्गान् आश्रमान् त्यक्त्वा चरेद् अविधिगोचरः ॥ २८ ॥
 बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् ।
 वदेद् उन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९ ॥
 वेदवादरतो न स्यात् न पाखण्डी न हैतुकः ।
 शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३० ॥
 नोद्विजेत जनाद् धीरो जनं चोद्वेजयेत् न तु ।
 अतिवादान् तितिक्षेत नावमन्येत कञ्चन ।
 देहमुद्दिश्य पशुवत् वैरं कुर्यान् न केनचित् ॥ ३१ ॥
 एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
 यथेदमुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२ ॥
 अलब्ध्वा न विषीदेत कालेकालेऽशनं क्वचित् ।
 लब्ध्वा न हृष्येद्-धृतिमानुभयं दैवतं त्रितम् ॥ ३३ ॥
 आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
 तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ ३४ ॥
 यदृच्छयोपपन्नान्नमद्यात् श्रेष्ठमुतापरम् ।
 तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥ ३५ ॥
 शौचमाचमनं स्नानं न तु चोदनया चरेत् ।
 अन्यांश्च नियमान् ज्ञानी यथाहं लीलयेश्वरः ॥ ३६ ॥
 न हि तस्य विकल्पाख्या या च मद् वीक्षया हता ।
 आ देहान्तात् क्वचित् ख्यातिः ततः संपद्यते मया ॥ ३७ ॥
 दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् ।
 अजिज्ञासित मद्धर्मो गुरुं मुनिमुपाव्रजेत् ॥ ३८ ॥
 तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः ।
 यावद् ब्रह्म विजानीयान् मामेव गुरुमादृतः ॥ ३९ ॥
 यस्त्वसंयत षड्वर्गः प्रचण्डेन्द्रिय सारथिः ।
 ज्ञानवैराग्यरहितः त्रिदण्डमुपजीवति ॥ ४० ॥
 सुरान् आत्मानमात्मस्थं निह्नुते मां च धर्महा ।
 अविपक्वकषायोऽस्माद् अमुष्माच्च विहीयते ॥ ४१ ॥
 भिक्षोः धर्मः शमोऽहिंसा तप ईक्षा वनौकसः ।
 गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२ ॥
 ब्रह्मचर्यं तपः शौचं संतोषो भूतसौहृदम् ।
 गृहस्थस्यापि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३ ॥
 इति मां यः स्वधर्मेण भजन् नित्यमनन्यभाक् ।
 सर्वभूतेषु मद्‍भावो मद्‍भक्तिं विन्दते दृढाम् ॥ ४४ ॥
 भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् ।
 सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥ ४५ ॥
 इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्‌गतिः ।
 ज्ञानविज्ञान सम्पन्नो न चिरात् समुपैति माम् ॥ ४६ ॥
 वर्णाश्रमवतां धर्म एष आचार लक्षणः ।
 स एव मद्‍भक्तियुतो निःश्रेयसकरः परः ॥ ४७ ॥
 एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् ।
 यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ ४८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥