प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २८ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २९
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ३० →


भागवतधर्म निरूपणम्, उद्धवस्य बदरिकाश्रमगमनं च -

श्रीउद्धव उवाच -
( अनुष्टुप् )
सुदुश्चरां इमां मन्ये योगचर्यामनात्मनः ।
 यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥ १ ॥
 प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।
 विषीदन्त्यसमाधानान् मनोनिग्रहकर्शिताः ॥ २ ॥
( मिश्र - १२ अक्षरी )
अथात आनन्ददुघं पदाम्बुजं
     हंसाः श्रयेरन्नरविन्दलोचन ।
 सुखं नु विश्वेश्वर योगकर्मभि
     स्त्वन्माययामी विहता न मानिनः ॥ ३ ॥
( वसंततिलका )
किं चित्रमच्युत तवैतदशेषबन्धो
     दासेष्वनन्यशरणेषु यदात्मसात्त्वम् ।
 योऽरोचयत् सह मृगैः स्वयमीश्वराणां
     श्रीमत्किरीटतटपीडितपादपीठः ॥ ४ ॥
 तं त्वाखिलात्मदयितेश्वरमाश्रितानां
     सर्वार्थदं स्वकृतविद् विसृजेत को नु ।
 को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै
     किं वा भवेन्न तव पादरजोजुषां नः ॥ ५ ॥
 नैवोपयन्त्यपचितिं कवयस्तवेश
     ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः ।
 योऽन्तर्बहिस्तनुभृतां अशुभं विधुन्वन्
     आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६ ॥
 श्रीशुक उवाच -
( मिश्र - १२ अक्षरी )
इत्युद्धवेनात्यनुरक्तचेतसा
     पृष्टो जगत्क्रीडनकः स्वशक्तिभिः ।
 गृहीतमूर्तित्रय ईश्वरेश्वरो
     जगाद सप्रेममनोहरस्मितः ॥ ७ ॥
 श्रीभगवानुवाच -
( अनुष्टुप् )
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।
 याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥
 कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।
 मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९ ॥
 देशान् पुण्यान् आश्रयेत मद्‍भक्तैः साधुभिः श्रितान् ।
 देवासुरमनुष्येषु मद्‍भक्ताचरितानि च ॥ १० ॥
 पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् ।
 कारयेद् ‍गीत नृत्याद्यैः महाराजविभूतिभिः ॥ ११ ॥
 मामेव सर्वभूतेषु बहिरन्तरपावृतम् ।
 ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥
 इति सर्वाणि भूतानि मद्‍भावेन महाद्युते ।
 सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥ १३ ॥
 ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।
 अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥
 नरेष्वभीक्ष्णं मद्‍भावं पुंसो भावयतोऽचिरात् ।
 स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ १५ ॥
 विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।
 प्रणमेद् दण्डवद् भूमौ अश्वचाण्डालगोखरम् ॥ १६ ॥
 यावर् सर्वेषु भूतेषु मद्‍भावो नोपजायते ।
 तावदेवमुपासीत वाङ्‌मनःकायवृत्तिभिः ॥ १७ ॥
 सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया ।
 परिपश्यन् उपरमेत् सर्वतो मुक्तसंशयः ॥ १८ ॥
 अयं हि सर्वकल्पानां सध्रीचीनो मतो मम ।
 मद्‍भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९ ॥
 न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि ।
 मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥ २० ॥
 यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
 तदायासो निरर्थः स्याद् ‍भयादेरिव सत्तम ॥ २१ ॥
 एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् ।
 यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२ ॥
 एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः ।
 समासव्यासविधिना देवानामपि दुर्गमः ॥ २३ ॥
 अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।
 एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४ ॥
 सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् ।
 सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५ ॥
 य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।
 तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६ ॥
 य एतत् समधीयीत पवित्रं परमं शुचि ।
 स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७ ॥
 य एतत् श्ररद्धया नित्यं अव्यग्रः श्रृणुयान्नरः ।
 मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८ ॥
 अप्युद्धव त्वया ब्रह्म सखे समवधारितम् ।
 अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९ ॥
 नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च ।
 अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥
 एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च ।
 साधवे शुचये ब्रूयाद् ‍भक्तिः स्यात् शूद्रयोषिताम् ॥ ३१ ॥
 नैतद् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते ।
 पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२ ॥
 ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।
 यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ ३३ ॥
( मिश्र )
मर्त्यो यदा त्यक्तसमस्तकर्मा
     निवेदितात्मा विचिकीर्षितो मे ।
 तदामृतत्वं प्रतिपद्यमानो
     मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४ ॥
 श्रीशुक उवाच -
स एवमादर्शितयोगमार्गः
     तदोत्तमःश्लोकवचो निशम्य ।
 बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो
     न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५ ॥
 विष्टभ्य चित्तं प्रणयावघूर्णं
     धैर्येण राजन्बहुमन्यमानः ।
 कृताञ्जलिः प्राह यदुप्रवीरं
     शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६ ॥
 श्रीउद्धव उवाच -
विद्रावितो मोहमहान्धकारो
     य आश्रितो मे तव सन्निधानात् ।
 विभावसोः किं नु समीपगस्य
     शीतं तमो भीः प्रभवन्त्यजाद्य ॥ ३७ ॥
 प्रत्यर्पितो मे भवतानुकम्पिना
     भृत्याय विज्ञानमयः प्रदीपः ।
 हित्वा कृतज्ञस्तव पादमूलं
     कोऽन्यत् समीयाच्छरणं त्वदीयम् ॥ ३८ ॥
 वृक्णश्च मे सुदृढः स्नेहपाशो
     दाशार्हवृष्ण्यन्धकसात्वतेषु ।
 प्रसारितः सृष्टिविवृद्धये त्वया
     स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९ ॥
( अनुष्टुप् )
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।
 यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४० ॥
 श्रीभगवानुवाच -
गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम् ।
 तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ ४१ ॥
 ईक्षयालकनन्दाया विधूताशेषकल्मषः ।
 वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः ॥ ४२ ॥
 तितिक्षुः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।
 शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३ ॥
 मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् ।
 मय्यावेशितवाक्‌चित्तो मद्धर्मनिरतो भव ।
 अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४४ ॥
 श्रीशुक उवाच -
( मिश्र )
स एवमुक्तो हरिमेधसोद्धवः
     प्रदक्षिणं तं परिसृत्य पादयोः ।
 शिरो निधायाश्रुकलाभिरार्द्रधीः
     न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५ ॥
 सुदुस्त्यजस्नेहवियोगकातरो
     न शक्नुवंस्तं परिहातुमातुरः ।
 कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
     बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६ ॥
 ततस्तमन्तर्हुदि सन्निवेश्य
     गतो महाभागवतो विशालाम् ।
 यथोपदिष्टां जगदेकबन्धुना
     तपः समास्थाय हरेरगाद् ‍गतिम् ॥ ४७ ॥
 य एतद् आनन्दसमुद्रसम्भृतं
     ज्ञानामृतं भागवताय भाषितम् ।
 कृष्णेन योगेश्वरसेविताङ्‌घ्रिणा
     सच्छ्रद्धयाऽऽसेव्य जगद्विमुच्यते ॥ ४८ ॥
( मालिनी )
भवभयमपहन्तुं ज्ञानविज्ञानसारं
     निगमकृद् उपजह्रे भृङ्गवद् वेदसारम् ।
 अमृतमुदधितश्चा पाययद् भृत्यवर्गान्
     पुरुषं ऋषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे एकोत्रिंशोऽध्यायः ॥ २९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥