श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः १५

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - पञ्चदशोऽध्यायः

चित्रकेतवेऽङ्‌गिरोनारदयोरुपदेशः -

श्रीशुक उवाच - 

ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । 

शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १ ॥

कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । 

त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २ ॥

यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः । 

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥

यथा धानासु वै धाना भवन्ति न भवन्ति च । 

एवं भूतेषु भूतानि चोदितान् ईशमायया ॥ ४ ॥

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । 

जन्ममृत्योर्यथा पश्चात् प्राङ्‌नैवमधुनापि भोः ॥ ५ ॥

भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः । 

आत्मसृष्टैरस्वतन्त्रैः अनपेक्षोऽपि बालवत् ॥ ६ ॥

देहेन देहिनो राजन् देहाद् देहोऽभिजायते । 

बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७ ॥

देहदेहिविभागोऽयं अविवेककृतः पुरा । 

जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥

श्रीशुक उवाच - 

एवं आश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः । 

विमृज्य पाणिना वक्त्रं आधिम्लानमभाषत ॥ ९ ॥

श्रीराजोवाच - 

कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । 

अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः । 

मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्‌गिनः ॥ ११ ॥

कुमारो नारद ऋभुः अङ्‌गिरा देवलोऽसितः । 

अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२ ॥

वसिष्ठो भगवान् रामः कपिलो बादरायणिः । 

दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथाऽऽरुणिः ॥ १३ ॥

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । 

ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १४ ॥

हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः । 

एते परे च सिद्धेशाः चरन्ति ज्ञानहेतवः ॥ १५ ॥

तस्माद् युवां ग्राम्यपशोः मम मूढधियः प्रभू । 

अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥

श्रीअङ्‌गिरा उवाच - 

अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्‌गिरा नृप । 

एष ब्रह्मसुतः साक्षात् नारदो भगवान् ऋषिः ॥ १७ ॥

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । 

अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥

अनुग्रहाय भवतः प्राप्तौ आवां इह प्रभो । 

ब्रह्मण्यो भगवद्‍भक्तो नावसीदितुमर्हसि ॥ १९ ॥

तदैव ते परं ज्ञानं ददामि गृहमागतः । 

ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २० ॥

अधुना पुत्रिणां तापो भवतैवानुभूयते । 

एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१ ॥

शब्दादयश्च विषयाः चला राज्यविभूतयः । 

मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥ २२ ॥

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः । 

गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । 

कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २४ ॥

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । 

देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ २५ ॥

तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । 

द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥

श्रीनारद उवाच - 

एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । 

यां धारयन् सप्तरात्राद् द्रष्टा सङ्‌कर्षणं प्रभुम् ॥ २७ ॥

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे 

     शर्वादयो भ्रममिमं द्वितयं विसृज्य । 

सद्यस्तदीयमतुलानधिकं महित्वं

     प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्या‍यः ॥ १५ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥