श्रीमद्भागवतपुराणम्/स्कन्धः ७/अध्यायः ६

श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - षष्ठोऽध्यायः

दैत्यबालकेभ्यः प्रह्रादस्य उपदेशः -

प्रह्लाद उवाच - 

(अनुष्टुप्) 

कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह । 

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥ 

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । 

यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ २ ॥ 

सुखं ऐन्द्रियकं दैत्या देहयोगेन देहिनाम् । 

सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्‍नतः ॥ ३ ॥ 

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् । 

न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥ 

ततो यतेत कुशलः क्षेमाय भवमाश्रितः । 

शरीरं पौरुषं यावत् न विपद्येत पुष्कलम् ॥ ५ ॥ 

पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः । 

निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६ ॥ 

मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः । 

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ ७ ॥ 

दुरापूरेण कामेन मोहेन च बलीयसा । 

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥ 

को गृहेषु पुमान्सक्तं आत्मानं अजितेन्द्रियः । 

स्नेहपाशैर्दृढैर्बद्धं उत्सहेत विमोचितुम् ॥ ९ ॥ 

को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः । 

यं क्रीणात्यसुभिः प्रेष्ठैः तस्करः सेवको वणिक् ॥ १० ॥ 

कथं प्रियाया अनुकम्पितायाः 

     सङ्‌गं रहस्यं रुचिरांश्च मन्त्रान् । 

सुहृत्सु तत्स्नेहसितः शिशूनां 

     कलाक्षराणामनुरक्तचित्तः ॥ ११ ॥ 

पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या 

     भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ । 

गृहान् मनोज्ञोः उपरिच्छदांश्च 

     वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १२ ॥ 

त्यजेत कोशस्कृदिवेहमानः 

     कर्माणि लोभादवितृप्तकामः । 

औपस्थ्यजैह्वं बहुमन्यमानः 

     कथं विरज्येत दुरन्तमोहः ॥ १३ ॥ 

कुटुम्बपोषाय वियन् निजायुः 

     न बुध्यतेऽर्थं विहतं प्रमत्तः । 

सर्वत्र तापत्रयदुःखितात्मा 

     निर्विद्यते न स्वकुटुम्बरामः ॥ १४ ॥ 

वित्तेषु नित्याभिनिविष्टचेता 

     विद्वांश्च दोषं परवित्तहर्तुः । 

प्रेत्येह चाथाप्यजितेन्द्रियस्तद् 

     अशान्तकामो हरते कुटुम्बी ॥ १५ ॥ 

विद्वानपीत्थं दनुजाः कुटुम्बं 

     पुष्णन् स्वलोकाय न कल्पते वै । 

यः स्वीयपारक्यविभिन्नभावः 

     तमः प्रपद्येत यथा विमूढः ॥ १६ ॥ 

यतो न कश्चित् क्व च कुत्रचिद् वा 

     दीनः स्वमात्मानमलं समर्थः । 

विमोचितुं कामदृशां विहार 

     क्रीडामृगो यन्निगडो विसर्गः ॥ १७ ॥ 

ततो विदूरात् परिहृत्य दैत्या 

     दैत्येषु सङ्‌गं विषयात्मकेषु । 

उपेत नारायणमादिदेवं 

     स मुक्तसङ्‌गैः इषितोऽपवर्गः ॥ १८ ॥ 

(अनुष्टुप्) 

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः । 

आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ १९ ॥ 

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । 

भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥ 

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । 

एक एव परो ह्यात्मा भगवान् ईश्वरोऽव्ययः ॥ २१ ॥ 

प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । 

व्याप्यव्यापकनिर्देश्यो हि, अनिर्देश्योऽविकल्पितः ॥ २२ ॥ 

केवलानुभवानन्द स्वरूपः परमेश्वरः । 

माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥ 

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् । 

आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४ ॥ 

तुष्टे च तत्र किमलभ्यमनन्त आद्ये 

     किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।

धर्मादयः किमगुणेन च काङ्‌क्षितेन 

     सारंजुषां चरणयोरुपगायतां नः ॥ २५ ॥ 

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग 

     ईक्षा त्रयी नयदमौ विविधा च वार्ता ।

मन्ये तदेतदखिलं निगमस्य सत्यं 

     स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ २६ ॥ 

ज्ञानं तदेतदमलं दुरवापमाह 

     नारायणो नरसखः किल नारदाय ।

एकान्तिनां भगवतः तदकिञ्चनानां 

     पादारविन्द रजसाऽऽप्लुतदेहिनां स्यात् ॥ २७ ॥ 

(अनुष्टुप्) 

श्रुतं एतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् । 

धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात् ॥ २८ ॥ 

श्रीदैत्यपुत्रा ऊचुः - 

प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् । 

एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥ 

बालस्यान्तःपुरस्थस्य महत्सङ्‌गो दुरन्वयः । 

छिन्धि नः संशयं सौम्य स्यात् चेत् विश्रम्भकारणम् ॥ ३० ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

सप्तमस्कन्धे प्रह्रादचरिते षष्ठोऽध्यायः ॥ ६ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥