श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः १९

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - एकोनविंशोऽध्यायः

बलिवामनसंवादः, पदत्रयभूमियाचनम्, शुक्रद्वारा दाननिषेधश्च -

श्रीशुक उवाच - 

(अनुष्टुप्) 

इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् । 

निशम्य भगवान् प्रीन्प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ १ ॥ 

श्रीभगवानुवाच - 

वचस्तवैतत् जनदेव सूनृतं 

     कुलोचितं धर्मयुतं यशस्करम् । 

यस्य प्रमाणं भृगवः सांपराये 

     पितामहः कुलवृद्धः प्रशान्तः ॥ २ ॥ 

(अनुष्टुप्) 

न ह्येतस्मिन्कुले कश्चित् निःसत्त्वः कृपणः पुमान् । 

प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ ३ ॥ 

न सन्ति तीर्थे युधि चार्थिनार्थिताः 

     पराङ्‌मुखा ये त्वमनस्विनो नृपाः । 

युष्मत्कुले यद् यशसामलेन 

     प्रह्राद उद्‍भाति यथोडुपः खे ॥ ४ ॥ 

(अनुष्टुप्) 

यतो जातो हिरण्याक्षः चरन्नेक इमां महीम् । 

प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ ५ ॥ 

यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् । 

आत्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६ ॥ 

निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा । 

हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ ७ ॥ 

तं आयान्तं समालोक्य शूलपाणिं कृतान्तवत् । 

चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ ८ ॥ 

यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव । 

अतोऽहं अस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ ९ ॥ 

एवं स निश्चित्य रिपोः शरीरं 

     आधावतो निर्विविशेऽसुरेन्द्र । 

श्वासानिलान्तर्हितसूक्ष्मदेहः 

     तत्प्राणरन्ध्रेण विविग्नचेताः ॥ १० ॥ 

स तन्निकेतं परिमृश्य 

     शून्यमपश्यमानः कुपितो ननाद । 

क्ष्मां द्यां दिशः खं विवरान्समुद्रान् 

     विष्णुं विचिन्वन् न ददर्श वीरः ॥ ११ ॥ 

(अनुष्टुप्) 

अपश्यन् इति होवाच मयान्विष्टमिदं जगत् । 

भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२ ॥ 

वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् । 

अज्ञानप्रभवो मन्युः अहंमानोपबृंहितः ॥ १३ ॥ 

पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः । 

स्वमायुर्द्विजलिंगेभ्यो देवेभ्योऽदात् स याचितः ॥ १४ ॥ 

भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः । 

ब्राह्मणैः पूर्वजैः शूरैः अन्यैश्चोद्दामकीर्तिभिः ॥ १५ ॥ 

तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात् । 

पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६ ॥ 

न अन्यत् ते कामये राजन् वदान्यात् जगदीश्वरात् । 

नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ १७ ॥ 

श्रीबलिरुवाच - 

अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः । 

त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥ १८ ॥ 

मां वचोभिः समाराध्य लोकानां एकमीश्वरम् । 

पदत्रयं वृणीते यो अबुद्धिमान् द्वीपदाशुषम् ॥ १९ ॥ 

न पुमान् मां उपव्रज्य भूयो याचितुमर्हति । 

तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २० ॥ 

श्रीभगवानुवाच - 

यावन्तो विषयाः प्रेष्ठाः त्रिलोक्यां अजितेन्द्रियम् । 

न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१ ॥ 

त्रिभिः क्रमैः असन्तुष्टो द्वीपेनापि न पूर्यते । 

नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ २२ ॥ 

सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः । 

अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ २३ ॥ 

यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् । 

नासन्तुष्टः त्रिभिर्लोकैः अजितात्मोपसादितैः ॥ २४ ॥ 

पुंसोऽयं संसृतेर्हेतुः असन्तोषोऽर्थकामयोः । 

यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५ ॥ 

यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते । 

तत्प्रशाम्यति असन्तोषाद् अम्भसेवाशुशुक्षणिः ॥ २६ ॥ 

तस्मात्त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् । 

एतावतैव सिद्धोऽहं वित्तं यावत् प्रयोजनम् ॥ २७ ॥ 

श्रीशुक उवाच - 

इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् । 

वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥ 

विष्णवे क्ष्मां प्रदास्यन्तं उशना असुरेश्वरम् । 

जानन् चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ २९ ॥ 

श्रीशुक्र उवाच - 

एष वैरोचने साक्षात् भगवान् विष्णुरव्ययः । 

कश्यपाद् अदितेर्जातो देवानां कार्यसाधकः ॥ ३० ॥ 

प्रतिश्रुतं त्वयैतस्मै यद् अनर्थं अजानता । 

न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥ ३१ ॥ 

एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् । 

दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥ ३२ ॥ 

त्रिभिः क्रमैः इमान् लोकान् विश्वकायः क्रमिष्यति । 

सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥ 

क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः । 

खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ ३४ ॥ 

निष्ठां ते नरके मन्ये हि अप्रदातुः प्रतिश्रुतम् । 

प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥ ३५ ॥ 

न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते । 

दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ ३६ ॥ 

धर्माय यशसेऽर्थाय कामाय स्वजनाय च । 

पञ्चधा विभजन् वित्तं इहामुत्र च मोदते ॥ ३७ ॥ 

अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम । 

सत्यं ॐ इति यत्प्रोक्तं यत् नेति आहानृतं हि तत् ॥ ३८ ॥ 

सत्यं पुष्पफलं विद्याद् आत्मवृक्षस्य गीयते । 

वृक्षेऽजीवति तन्न स्यात् अनृतं मूलमात्मनः ॥ ३९ ॥ 

तद् यथा वृक्ष उन्मूलः शुष्यति उद्वर्ततेऽचिरात् । 

एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥ ४० ॥ 

पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति । 

यत्किञ्चित् ओमिति ब्रूयात् तेन रिच्येत वै पुमान् । 

भिक्षवे सर्वं ॐकुन् नालं कामेन चात्मने ॥ ४१ ॥ 

अथैतत्पूर्णमभ्यात्मं यच्च नेति अनृतं वचः । 

सर्वं नेति अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन्मृतः ॥ ४२ ॥ 

स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे । 

गोब्राह्मणार्थे हिंसायां नानृतं स्यात् जुगुप्सितम् ॥ ४३ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोऽध्यायः ॥ १९ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥