श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः २०

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - विंशोऽध्यायः

बलिकर्तृकं पदत्रयमितभूमिदानं भगवतो विराड्‌रूपग्रहणं च -

श्रीशुक उवाच - 

(अनुष्टुप्) 

बलिरेवं गृहपतिः कुलाचार्येण भाषितः । 

तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम् ॥ १ ॥ 

श्रीबलिरुवाच - 

सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् । 

अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥ 

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । 

प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ ३ ॥ 

न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् । 

सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥ 

नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् । 

न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात् ॥ ५ ॥ 

यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् । 

तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥ 

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः । 

दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥ 

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः । 

तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥ 

सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः । 

न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥ 

मनस्विनः कारुणिकस्य शोभनं 

     यदर्थिकामोपनयेन दुर्गतिः । 

कुतः पुनर्ब्रह्मविदां भवादृशां 

     ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥ 

यजन्ति यज्ञं क्रतुभिर्यमादृता 

     भवन्त आम्नायविधानकोविदाः । 

स एव विष्णुर्वरदोऽस्तु वा परो 

     दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥ 

(अनुष्टुप्) 

यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् । 

तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥ 

एष वा उत्तमश्लोको न जिहासति यद् यशः । 

हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥ 

श्रीशुक उवाच - 

एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः । 

शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥ 

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया । 

मच्छासनातिगो यस्त्वं अचिराद्‍भ्रश्यसे श्रियः ॥ १५ ॥ 

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् । 

वामनाय ददौ एनां अर्चित्वोदकपूर्वकम् ॥ १६ ॥ 

विन्ध्यावलिस्तदागत्य पत्‍नी जालकमालिनी । 

आनिन्ये कलशं हैमं अवनेजन्यपां भृतम् ॥ १७ ॥ 

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा । 

अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥ 

तदासुरेन्द्रं दिवि देवतागणा 

     गन्धर्वविद्याधरसिद्धचारणाः । 

तत्कर्म सर्वेऽपि गृणन्त आर्जवं 

     प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९ ॥ 

नेदुर्मुहुर्दुन्दुभयः सहस्रशो 

     गन्धर्वकिम्पूरुषकिन्नरा जगुः । 

मनस्विनानेन कृतं सुदुष्करं 

     विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २० ॥ 

तद्वामनं रूपमवर्धताद्‍भुतं 

     हरेरनन्तस्य गुणत्रयात्मकम् । 

भूः खं दिशो द्यौर्विवराः पयोधयः 

     तिर्यङ्‌नृदेवा ऋषयो यदासत ॥ २१ ॥ 

काये बलिस्तस्य महाविभूतेः 

     सहर्त्विगाचार्यसदस्य एतत् । 

ददर्श विश्वं त्रिगुणं गुणात्मके 

     भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥ 

रसामचष्टाङ्‌घ्रितलेऽथ पादयोः 

     महीं महीध्रान्पुरुषस्य जंघयोः । 

पतत्त्रिणो जानुनि विश्वमूर्तेः 

     ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३ ॥ 

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् 

     प्रजापतीन्जघने आत्ममुख्यान् । 

नाभ्यां नभः कुक्षिषु सप्तसिन्धून् 

     उरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥ 

हृद्यंग धर्मं स्तनयोर्मुरारेः 

     ऋतं च सत्यं च मनस्यथेन्दुम् । 

श्रियं च वक्षस्यरविन्दहस्तां 

     कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥ 

इन्द्रप्रधानानमरान्भुजेषु 

     तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि । 

केशेषु मेघान्छ्वसनं नासिकायां 

     अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥ 

वाण्यां च छन्दांसि रसे जलेशं 

     भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । 

अहश्च रात्रिं च परस्य पुंसो 

     मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥ 

स्पर्शे च कामं नृप रेतसाम्भः 

     पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । 

छायासु मृत्युं हसिते च मायां 

     तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥ 

नदीश्च नाडीषु शिला नखेषु 

     बुद्धावजं देवगणान् ऋषींश्च । 

प्राणेषु गात्रे स्थिरजंगमानि 

     सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥ 

सर्वात्मनीदं भुवनं निरीक्ष्य 

     सर्वेऽसुराः कश्मलमापुरंग । 

सुदर्शनं चक्रमसह्यतेजो 

     धनुश्च शार्ङ्‌ग स्तनयित्‍नुघोषम् ॥ ३० ॥ 

पर्जन्यघोषो जलजः पाञ्चजन्यः 

     कौमोदकी विष्णुगदा तरस्विनी । 

विद्याधरोऽसिः शतचन्द्रयुक्तः 

     तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥ 

सुनन्दमुख्या उपतस्थुरीशं 

     पार्षदमुख्याः सहलोकपालाः । 

स्फुरत्किरीटाङ्‌गदमीनकुण्डलः 

     श्रीवत्सरत्‍नोत्तममेखलाम्बरैः ॥ ३२ ॥ 

मधुव्रतस्रग्वनमालयावृतो 

     रराज राजन्भगवानुरुक्रमः । 

क्षितिं पदैकेन बलेर्विचक्रमे 

     नभः शरीरेण दिशश्च बाहुभिः ॥ ३३ ॥ 

पदं द्वितीयं क्रमतस्त्रिविष्टपं 

     न वै तृतीयाय तदीयमण्वपि । 

उरुक्रमस्याङ्‌घ्रिरुपर्युपर्यथो 

     महर्जनाभ्यां तपसः परं गतः ॥ ३४ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥