श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २

← अध्यायः १ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →



पृषध्र कवि करूष धृष्ट नृग नरिष्यंतादिष्टानां वंशविस्तारः


श्रीशुक उवाच ।
 एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते ।
 पुत्रकामः तपस्तेपे यमुनायां शतं समाः ॥ १ ॥
 ततोऽयजन् मनुर्देवं अपत्यार्थं हरिं प्रभुम् ।
 इक्ष्वाकु पूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ २ ॥
 पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।
 पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ३ ॥
 एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।
 शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ ४ ॥
 एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।
 तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ॥ ५ ॥
 खड्गमादाय तरसा प्रलीनोडुगणे निशि ।
 अजानन् अहनद् बभ्रोः शिरः शार्दूलशङ्‌कया ॥ ६ ॥
 व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः ।
 निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ ७ ॥
 मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा ।
 अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ॥ ८ ॥
 तं शशाप कुलाचार्यः कृतागसं अकामतः ।
 न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना ॥ ९ ॥
 एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः ।
 अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ १० ॥
 वासुदेवे भगवति सर्वात्मनि परेऽमले ।
 एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ ११ ॥
 विमुक्तसंगः शान्तात्मा संयताक्षोऽपरिग्रहः ।
 यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ १२ ॥
 आत्मनि आत्मानमाधाय ज्ञानतृप्तः समाहितः ।
 विचचार महीमेतां जडान्ध-बधिराकृतिः ॥ १३ ॥
 एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।
 तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ १४ ॥
 कविः कनीयान् विषयेषु निःस्पृहो
     विसृज्य राज्यं सह बन्धुभिर्वनम् ।
 निवेश्य चित्ते पुरुषं स्वरोचिषं
     विवेश कैशोरवयाः परं गतः ॥ १५ ॥
 करूषान् मानवाद् आसन् कारूषाः क्षत्रजातयः ।
 उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ १६ ॥
 धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।
 नृगस्य वंशः सुमतिः भूतज्योतिः ततो वसुः ॥ १७ ॥
 वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता ।
 कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥
 चित्रसेनो नरिष्यन्ताद् ऋक्षस्तस्य सुतोऽभवत् ।
 तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥ १९ ॥
 वीतिहोत्रस्तु इन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
 उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥
 ततोऽग्निवेश्यो भगवान् अग्निः स्वयं अभूत्सुतः ।
 कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः ॥ २१ ॥
 ततो ब्रह्मकुलं जातं आग्निवेश्यायनं नृप ।
 नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ २२ ॥
 नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः ।
 भलन्दनः सुतस्तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥
 वत्सप्रीतेः सुतः प्रांशुः तत्सुतं प्रमतिं विदुः ।
 खनित्रः प्रमतेः तस्मात् चाक्षुषोऽथ विविंशतिः ॥ २४ ॥
 विविंशतेः सुतो रंभः खनीनेत्रोऽस्य धार्मिकः ।
 करन्धमो महाराज तस्यासीद् आत्मजो नृप ॥ २५ ॥
 तस्य आवीक्षित् सुतो यस्य मरुत्तः चक्रवर्ति अभूत् ।
 संवर्तोऽयाजयद् यं वै महायोग्यङ्‌गिरःसुतः ॥ २६ ॥
 मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।
 सर्वं हिरण्मयं त्वासीत् यत्किञ्चिच्चास्य शोभनम् ॥ २७ ॥
 अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।
 मरुतः परिवेष्टारो विश्वेदेवाः सभासदः ॥ २८ ॥
 मरुत्तस्य दमः पुत्रः तस्यासीद् राज्यवर्धनः ।
 सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥ २९ ॥
 तत्सुतः केवलः तस्माद् बन्धुमान् वेगवान् ततः ।
 बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥ ३० ॥
 तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् ।
 वराप्सरा यतः पुत्राः कन्या च इडविडाभवत् ॥ ३१ ॥
 यस्यां उत्पादयामास विश्रवा धनदं सुतम् ।
 प्रादाय विद्यां परमां ऋषिर्योगेश्वरः पितुः ॥ ३२ ॥
 विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः ।
 विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥
 हेमचन्द्रः सुतस्तस्य धूम्राक्षः तस्य चात्मजः ।
 तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥ ३४ ॥
 कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैः इडस्पतिम् ।
 इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ ३५ ॥
 सौमदत्तिस्तु सुमतिः तत्सुतो जनमेजयः ।
 एते वैशालभूपालाः तृणबिन्दोर्यशोधराः ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥