श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २३

← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २२ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः २३
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २४ →



अनुद्रुह्युतुर्वसु यदूनां वंशवर्णनम् -

श्रीशुक उवाच ।
 अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः ।
 सभानरात् कालनरः सृञ्जयः तत्सुतस्ततः ॥ १ ॥
 जनमेजयः तस्य पुत्रो महाशालो महामनाः ।
 उशीनरः तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥
 शिबिर्वनः शमिर्दक्षः चत्वार् उशीनरात्मजाः ।
 वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ ३ ॥
 शिबेश्चत्वार एवासन् तितिक्षोश्च रुशद्रथः ।
 ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥ ४ ॥
 अंगवंगकलिंगाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः ।
 जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ ५ ॥
 चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते ।
 खनपानोऽङ्‌गतो जज्ञे तस्माद् दिविरथस्ततः ॥ ६ ॥
 सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः ।
 रोमपाद इति ख्यातः तस्मै दशरथः सखा ॥ ७ ॥
 शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्‌ग उवाह याम् ।
 देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥
 नाट्यसंगीतवादित्रैः विभ्रमालिंंगनार्हणैः ।
 स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः ॥ ९ ॥
 प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः ।
 चतुरंगो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ १० ॥
 बृहद्रथो बृहत्कर्मा बृहद्‍भानुश्च तत्सुताः ।
 आद्याद् बृहन्मनास्तस्मात् जयद्रथ उदाहृतः ॥ ११ ॥
 विजयस्तस्य संभूत्यां ततो धृतिरजायत ।
 ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ १२ ॥
 योऽसौ गंगातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।
 कुन्त्यापविद्धं कानीनं अनपत्योऽकरोत्सुतम् ॥ १३ ॥
 वृषसेनः सुतस्तस्य कर्णस्य जगतीपते ।
 द्रुह्योश्च तनयो बभ्रुः सेतुः तस्यात्मजस्ततः ॥ १४ ॥
 आरब्धस्तस्य गान्धारः तस्य धर्मस्ततो धृतः ।
 धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ १५ ॥
 म्लेच्छाधिपतयोऽभूवन् उदीचीं दिशमाश्रिताः ।
 तुर्वसोश्च सुतो वह्निः वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥
 त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः ।
 मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ १७ ॥
 दुष्मन्तः स पुनर्भेजे स्व वंशं राज्यकामुकः ।
 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥
 वर्णयामि महापुण्यं सर्वपापहरं नृणाम् ।
 यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ १९ ॥
 यत्रावतीर्णो भगवान् परमात्मा नराकृतिः ।
 यदोः सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः ॥ २० ॥
 चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः ।
 महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ २१ ॥
 धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः ।
 सोहञ्जिरभवत् कुन्तेः महिष्मान् भद्रसेनकः ॥ २२ ॥
 दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः ।
 कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥ ॥
 अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
 दत्तात्रेयात् हरेरंशात् प्राप्तयोगमहागुणः ॥ २४ ॥
 न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
 यज्ञदानतपोयोग श्रुतवीर्यदयादिभिः ॥ २५ ॥
 पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः ।
 अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ २६ ॥
 तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
 जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ २७ ॥
 जयध्वजात् तालजंघ तस्य पुत्रशतं त्वभूत् ।
 क्षत्रं यत् तालजंघाख्यं और्वतेजोपसंहृतम् ॥ २८ ॥
 तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः ।
 तस्य पुत्रशतं त्वासीत् वृष्णिज्येष्ठं यतः कुलम् ॥ २९ ॥
 माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः ।
 यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ ३० ॥
 स्वाहितोऽतो रुशेकुर्वै तस्य चित्ररथस्ततः ।
 शशबिन्दुर्महायोगी महाभागो महानभूत् ॥ ३१ ॥
 चतुर्दशमहारत्‍नः चक्रवर्ति अपराजितः ।
 तस्य पत्‍नीसहस्राणां दशानां सुमहायशाः ॥ ३२ ॥
 दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ।
 तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः ॥ ३३ ॥
 धर्मो नामोशना तस्य हयमेधशतस्य याट् ।
 तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः श्रृणु ॥ ३४ ॥
 पुरुजित् रुक्म रुक्मेषु पृथु ज्यामघ संज्ञिताः ।
 ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ ३५ ॥
 नाविन्दत् शत्रुभवनाद् भोज्यां कन्यामहारषीत् ।
 रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३६ ॥
 केयं कुहक मत्स्थानं रथमारोपितेति वै ।
 स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३७ ॥
 अहं बन्ध्यासपत्‍नी च स्नुषा मे युज्यते कथम् ।
 जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३८ ॥
 अन्वमोदन्त तद्विश्वे देवाः पितर एव च ।
 शैब्या गर्भं अधात्काले कुमारं सुषुवे शुभम् ।
 स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ ३९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥