श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः ८

← अध्यायः ७ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →


सगरचरित्रम् -

श्रीशुक उवाच ।
 हरितो रोहितसुतः चंपः तस्माद्विनिर्मिता ।
 चंपापुरी सुदेवोऽतो विजयो यस्य चात्मजः ॥ १ ॥
 भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुकः ।
 सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ २ ॥
 वृद्धं तं पञ्चतां प्राप्तं महिष्यनु मरिष्यती ।
 और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ ३ ॥
 आज्ञायास्यै सपत्‍नीभिः गरो दत्तोऽन्धसा सह ।
 सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ ४ ॥
 सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः ।
 यस्तालजंघान् यवनात् शकान् हैहयबर्बरान् ॥ ५ ॥
 नावधीद् गुरुवाक्येन चक्रे विकृतवेषिणः ।
 मुण्डान् श्मश्रुधरान् कांश्चित् मुक्तकेशार्धमुण्डितान् ॥ ६ ॥
 अनन्तर्वाससः कांश्चिद् अबहिर्वाससोऽपरान् ।
 सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ ७ ॥
 और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।
 तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ ८ ॥
 सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः ।
 हयं अन्वेषमाणास्ते समन्तात् न्यखनन् मन्महीम् ॥ ९ ॥
 प्राग् उदीच्यां दिशि हयं ददृशुः कपिलान्तिके ।
 एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ १० ॥
 हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः ।
 उदायुधा अभिययुः उन्मिमेष तदा मुनिः ॥ ११ ॥
 स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः ।
 महद्व्यतिक्रमहता भस्मसाद् अभवन् क्षणात् ॥ १२ ॥
 न साधुवादो मुनिकोपभर्जिता
     नृपेन्द्रपुत्रा इति सत्त्वधामनि ।
 कथं तमो रोषमयं विभाव्यते
     जगत्पवित्रात्मनि खे रजो भुवः ॥ १३ ॥
 यस्येरिता सांख्यमयी दृढेह नौः
     यया मुमुक्षुस्तरते दुरत्ययम् ।
 भवार्णवं मृत्युपथं विपश्चितः
     परात्मभूतस्य कथं पृथङ्‌मतिः ॥ १४ ॥
 योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः ।
 तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः ॥ १५ ॥
 असमञ्जस आत्मानं दर्शयन् असमञ्जसम् ।
 जातिस्मरः पुरा संगाद् योगी योगाद् विचालितः ॥ १६ ॥
 आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।
 सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम् ॥ १७ ॥
 एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै ।
 योगैश्वर्येण बालान् तान् दर्शयित्वा ततो ययौ ॥ १८ ॥
 अयोध्यावासिनः सर्वे बालकान् पुनरागतान् ।
 दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत ॥ १९ ॥
 अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ ।
 पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ २० ॥
 तत्रासीनं मुनिं वीक्ष्य कपिलाख्यं अधोक्षजम् ।
 अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ २१ ॥
 अंशुमानुवाच ।
 न पश्यति त्वां परमात्मनोऽजनो
     न बुध्यतेऽद्यापि समाधियुक्तिभिः ।
 कुतोऽपरे तस्य मनःशरीरधी
     विसर्गसृष्टा वयमप्रकाशाः ॥ २२ ॥
 ये देहभाजस्त्रिगुणप्रधाना
     गुणान् विपश्यन्त्युत वा तमश्च ।
 यन्मायया मोहितचेतसस्ते
     विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ २३ ॥
 तं त्वां अहं ज्ञानघनं स्वभाव
     प्रध्वस्तमायागुणभेदमोहैः ।
 सनन्दनाद्यैर्मुनिभिर्विभाव्यं
     कथं विमूढः परिभावयामि ॥ २४ ॥
 प्रशान्त मायागुणकर्मलिंगं
     अनामरूपं सदसद्विमुक्तम् ।
 ज्ञानोपदेशाय गृहीतदेहं
     नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥
 त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।
 भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ २६ ॥
 अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः ।
 मोहपाशो दृढश्छिन्नो भगवन् तव दर्शनात् ॥ २७ ॥
 श्रीशुक उवाच ।
 इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः ।
 अंशुमन्तं उवाचेदं अनुग्राह्य धिया नृप ॥ २८ ॥
 श्रीभगवानुवाच ।
 अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।
 इमे च पितरो दग्धा गंगाम्भोऽर्हन्ति नेतरत् ॥ २९ ॥
 तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।
 सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ ३० ॥
 राज्यं अंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः ।
 और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥