श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १२

← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ११ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १३ →




सनकादे रुद्रस्य मरीच्यादीनां सरस्वत्त्या वेदादीनां च उत्पत्तिवर्णनम्,ब्रह्मणो देहात् स्वायंभुवोमनोः शतरूपायाश्च जन्म -

मैत्रेय उवाच ।
 इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः ।
 महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १ ॥
 ससर्जाग्रेऽन्धतामिस्रं अथ तामिस्रमादिकृत् ।
 महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥
 दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत ।
 भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् ॥ ३ ॥
 सनकं च सनन्दं च सनातनमथात्मभूः ।
 सनत्कुमारं च मुनीन् निष्क्रियान् ऊर्ध्वरेतसः ॥ ४ ॥
 तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः ।
 तन्नैच्छन् मोक्षधर्माणो वासुदेवपरायणाः ॥ ५ ॥
 सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः ।
 क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६ ॥
 धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः ।
 सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥ ७ ॥
 स वै रुरोद देवानां पूर्वजो भगवान्भवः ।
 नामानि कुरु मे धातः स्थानानि च जगद्‍गुरो ॥ ८ ॥
 इति तस्य वचः पाद्मो भगवान् परिपालयन् ।
 अभ्यधाद् भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९ ॥
 यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ।
 ततस्त्वां अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ १० ॥
 हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही ।
 सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे ॥ ११ ॥
 मन्युर्मनुर्महिनसो महान् शिव ऋतध्वजः ।
 उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥ १२ ॥
 धीर्वृत्तिरसलोमा च नियुत्सर्पिरिलाम्बिका ।
 इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ १३ ॥
 गृहाणैतानि नामानि स्थानानि च सयोषणः ।
 एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः ॥ १४ ॥
 इत्यादिष्टः स्वगुरुणा भगवान् नीललोहितः ।
 सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥ १५ ॥
 रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत् ।
 निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६ ॥
 अलं प्रजाभिः सृष्टाभिः ईदृशीभिः सुरोत्तम ।
 मया सह दहन्तीभिः दिशश्चक्षुर्भिरुल्बणैः ॥ १७ ॥
 तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् ।
 तपसैव यथापूर्वं स्रष्टा विश्वमिदं भवान् ॥ १८ ॥
 तपसैव परं ज्योतिः भगवन्तमधोक्षजम् ।
 सर्वभूतगुहावासं अञ्जसा विन्दते पुमान् ॥ १९ ॥
 मैत्रेय उवाच ।
 एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम् ।
 बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् ॥ २० ॥
 अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे ।
 भगवत् शक्तियुक्तस्य लोकसन्तानहेतवः ॥ २१ ॥
 मरीचिरत्र्यङ्‌गिरसौ पुलस्त्यः पुलहः क्रतुः ।
 भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः ॥ २२ ॥
 उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः ।
 प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः ॥ २३ ॥
 पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोH Ruषिः ।
 अङ्‌गिरा मुखतोऽक्ष्णोऽत्रिः मरीचिर्मनसोऽभवत् ॥ २४ ॥
 धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् ।
 अधर्मः पृष्ठतो यस्मात् मृत्युर्लोकभयङ्करः ॥ २५ ॥
 हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् ।
 आस्याद् वाक्सिन्धवो मेढ्रान् निर्‌ऋतिः पायोरघाश्रयः ॥ २६ ॥
 छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।
 मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७ ॥
 वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः ।
 अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् ॥ २८ ॥
 तमधर्मे कृतमतिं विलोक्य पितरं सुताः ।
 मरीचिमुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् ॥ २९ ॥
 नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे ।
 यस्त्वं दुहितरं गच्छेः अनिगृह्याङ्गजं प्रभुः ॥ ३० ॥
 तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्‍गुरो ।
 यद्‌वृत्तमनुतिष्ठन् वैन्वै लोकः क्षेमाय कल्पते ॥ ३१ ॥
 तस्मै नमो भगवते य इदं स्वेन रोचिषा ।
 आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२ ॥
 स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।
 प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा ।
 तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः ॥ ३३ ॥
 कदाचिद् ध्यायतः स्रष्टुः वेदा आसंश्चतुर्मुखात् ।
 कथं स्रक्ष्याम्यहं लोकाम् समवेतान् यथा पुरा ॥ ३४ ॥
 चातुर्होत्रं कर्मतन्त्रं उपवेदनयैः सह ।
 धर्मस्य पादाश्चत्वारः तथैवाश्रमवृत्तयः ॥ ३५ ॥
 विदुर उवाच ।
 स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् ।
 यद् यद् येनासृजद् देवस्तन्मे ब्रूहि तपोधन ॥ ३६ ॥
 मैत्रेय उवाच ।
 ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।
 शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ ३७ ॥
 आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः ।
 स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर्मुखैः ॥ ३८ ॥
 इतिहासपुराणानि पञ्चमं वेदमीश्वरः ।
 सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥
 षोडश्युक्थौ पूर्ववक्त्रात् पुरीष्यग्निष्टुतावथ ।
 आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४० ॥
 विद्या दानं तपः सत्यं धर्मस्येति पदानि च ।
 आश्रमांश्च यथासंख्यं असृजत्सह वृत्तिभिः ॥ ४१ ॥
 सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा ।
 वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे ॥ ४२ ॥
 वैखानसा वालखिल्यौ दुम्बराः फेनपा वने ।
 न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३ ॥
 आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।
 एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥ ४४ ॥
 तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः ।
 त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब् जगत्यस्थ्नः प्रजापतेः ॥ ४५ ॥
 मज्जायाः पङ्‌क्तिरुत्पन्ना बृहती प्राणतोऽभवत् ।
 स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत ॥ ४६ ॥
 ऊष्माणमिन्द्रियाण्याहुः अन्तःस्था बलमात्मनः ।
 स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥ ४७ ॥
 शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ।
 ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः ॥ ४८ ॥
 ततोऽपरामुपादाय स सर्गाय मनो दधे ।
 ऋषीणां भूरिवीर्याणां अपि सर्गमविस्तृतम् ॥ ४९ ॥
 ज्ञात्वा तद्धृदये भूयः चिन्तयामास कौरव ।
 अहो अद्‍भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥ ५० ॥
 न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ।
 एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥ ५१ ॥
 कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते ।
 ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ ५२ ॥
 यस्तु तत्र पुमान्सोऽभूत् मनुः स्वायम्भुवः स्वराट् ।
 स्त्री याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः ॥ ५३ ॥
 तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ।
 स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ॥ ५४ ॥
 प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत ।
 आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५५ ॥
 आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् ।
 दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥ ५६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे द्वादशोऽध्यायः ॥ १२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥