श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १६

← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १५ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १७ →



भगवत्कृतं सनकादीनां सान्त्वनम्, वैकुण्ठात् जयविजयोः पतनं च -

ब्रह्मोवाच -
इति तद्‌गृणतां तेषां मुनीनां योगधर्मिणाम् ।
 प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १ ॥
 श्रीभगवानुवाच -
एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।
 कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २ ॥
 यस्त्वेतयोर्धृतो दण्डो भवद्‌भिर्मामनुव्रतैः ।
 स एवानुमतोऽस्माभिः मुनयो देवहेलनात् ॥ ३ ॥
 तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।
 तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ ४ ॥
 यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि ।
 सोऽसाधुवादस्तत् कीर्तिं हन्ति त्वचमिवामयः ॥ ५ ॥
 यस्यामृतामलयशःश्रवणावगाहः
     सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः ।
 सोऽहं भवद्‍भ्य उपलब्धसुतीर्थकीर्तिः
     छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥
 यत्सेवया चरणपद्मपवित्ररेणुं
     सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।
 न श्रीर्विरक्तमपि मां विजहाति यस्याः
     प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७ ॥
 नाहं तथाद्मि यजमानहविर्वितानेः
     च्योतद्‍घृतप्लुतमदन् हुतभुङ्‌‌मुखेन ।
 यद्‍ब्राह्मणस्य मुखतश्चरतोऽनुघासं
     तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८ ॥
 येषां बिभर्म्यहमखण्डविकुण्ठयोग
     मायाविभूतिरमलाङ्‌‌घ्रिरजः किरीटैः ।
 विप्रांस्तु को न विषहेत यदर्हणाम्भः
     सद्यः पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥
 ये मे तनूर्द्विजवरान्दुहतीर्मदीया
     भूतान्यलब्धशरणानि च भेदबुद्ध्या ।
 द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्
     गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १० ॥
 ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तः
     तुष्यद्‌धृदः स्मितसुधोक्षितपद्मवक्त्राः ।
 वाण्यानुरागकलयात्मजवद् गृणन्तः
     सम्बोधयन्ति अहमिवाहमुपाहृतस्तैः ॥ ११ ॥
 तन्मे स्वभर्तुरवसायमलक्षमाणौ
     युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः ।
 भूयो ममान्तिकमितां तदनुग्रहो मे
     यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२ ॥
 ब्रह्मोवाच -
अथ तस्योशतीं देवीं ऋषिकुल्यां सरस्वतीम् ।
 नास्वाद्य मन्युदष्टानां तेषां आत्माप्यतृप्यत ॥ १३ ॥
 सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् ।
 विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४ ॥
 ते योगमाययारब्ध पारमेष्ठ्यमहोदयम् ।
 प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ १५ ॥
 ऋषय ऊचुः -
न वयं भगवन् विद्मः तव देव चिकीर्षितम् ।
 कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥ १६ ॥
 ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।
 विप्राणां देवदेवानां भगवान् आत्मदैवतम् ॥ १७ ॥
 त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।
 धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥ १८ ॥
 तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।
 योगिनः स भवान् किंस्विद् अनुगृह्येत यत्परैः ॥ १९ ॥
 यं वै विभूतिरुपयात्यनुवेलमन्यैः
     अर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।
 धन्यार्पिताङ्‌‌घ्रितुलसीनवदामधाम्नो
     लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥
 यस्तां विविक्तचरितैः अनुवर्तमानां
     नात्याद्रियत्परमभागवतप्रसङ्‌गः ।
 स त्वं द्विजानुपथपुण्यरजः पुनीतः
     श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥
 धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः
     पद्‌भिश्चराचरमिदं द्विजदेवतार्थम् ।
 नूनं भृतं तदभिघाति रजस्तमश्च
     सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥
 न त्वं द्विजोत्तमकुलं यदि हात्मगोपं
     गोप्ता वृषः स्वर्हणेन ससूनृतेन ।
 तर्ह्येव नङ्‌क्ष्यति शिवस्तव देव पन्था
     लोकोऽग्रहीष्यद् ऋषभस्य हि तत्प्रमाणम् ॥ २३ ॥
 तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः
     क्षेमं जनाय निजशक्तिभिरुद्‌धृतारेः ।
 नैतावता त्र्यधिपतेर्बत विश्वभर्तुः
     तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४ ॥
 यं वानयोर्दममधीश भवान्विधत्ते
     वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ।
 अस्मासु वा य उचितो ध्रियतां स दण्डो
     येऽनागसौ वयमयुङ्‌क्ष्महि किल्बिषेण ॥ २५ ॥
 श्रीभगवानुवाच -
एतौ सुरेतरगतिं प्रतिपद्य सद्यः
     संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।
 भूयः सकाशमुपयास्यत आशु यो वः
     शापो मयैव निमितस्तदवेत विप्राः ॥ २६ ॥
 ब्रह्मोवाच -
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।
 वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥
 भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
 प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥
 भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।
 ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥
 एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।
 पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥
 मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।
 प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥
 द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम् ।
 सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥
 तौ तु गीर्वाणऋषभौ दुस्तरात् हरिलोकतः ।
 हतश्रियौ ब्रह्मशापाद् अभूतां विगतस्मयौ ॥ ३३ ॥
 तदा विकुण्ठधिषणात् तयोर्निपतमानयोः ।
 हाहाकारो महानासीद् विमानाग्र्येषु पुत्रकाः ॥ ३४ ॥
 तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः ।
 दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥
 तयोरसुरयोरद्य तेजसा यमयोर्हि वः ।
 आक्षिप्तं तेज एतर्हि भगवान् तद्विधित्सति ॥ ३६ ॥
 विश्वस्य यः स्थितिलयोद्‍भवहेतुराद्यो
     योगेश्वरैरपि दुरत्यययोगमायः ।
 क्षेमं विधास्यति स नो भगवांस्त्र्यधीशः
     तत्रास्मदीयविमृशेन कियानिहार्थः ॥ ३७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे षोडशोऽध्यायः ॥ १६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥