श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०९
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०८ | श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०९ [[लेखकः :|]] |
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १० → |
विश्वरूपवधः, वृत्रस्योत्पत्तिर्देवकृत भगवत्स्तवनं भगवद् वरप्रदानं च -
श्रीशुक उवाच -
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।
सोमपीथं सुरापीथं अन्नादमिति शुश्रुम ॥ १ ॥
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः ।
अददद् यस्य पितरो देवाः सप्रश्रयं नृप ॥ २ ॥
स एव हि ददौ भागं परोक्षं असुरान् प्रति ।
यजमानोऽवहद्भागं मातृस्नेहवशानुगः ॥ ३ ॥
तद् देवहेलनं तस्य धर्मालीकं सुरेश्वरः ।
आलक्ष्य तरसा भीतः तच्छीर्षाण्यच्छिनद् रुषा ॥ ४ ॥
सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः ।
कलविङ्कः सुरापीथं अन्नादं यत्स तित्तिरिः ॥ ५ ॥
ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः ।
संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ ६ ॥
भूम्यम्बुद्रुमयोषिद्भ्यः चतुर्धा व्यभजद् हरिः ।
भूमिस्तुरीयं जग्राह खातपूरवरेण वै ।
ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ॥ ७ ॥
तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ।
तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ॥ ८ ॥
शश्वत्कामवरेणांहः तुरीयं जगृहुः स्त्रियः ।
रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ॥ ९ ॥
द्रव्यभूयोवरेणापः तुरीयं जगृहुर्मलम् ।
तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ॥ १० ॥
हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ।
इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ॥ ११ ॥
अथान्वाहार्यपचनाद् उत्थितो घोरदर्शनः ।
कृतान्त इव लोकानां युगान्तसमये यथा ॥ १२ ॥
विष्वग्विवर्धमानं तं इषुमात्रं दिने दिने ।
दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ॥ १३ ॥
तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४ ॥
देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी ।
नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् ।
लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥
महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः ।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥
येनावृता इमे लोकाः तपसा त्वाष्ट्रमूर्तिना ।
स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १८ ॥
तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः ।
स्वैः स्वैः दिव्यास्त्रशस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः ॥ १९ ॥
ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।
प्रत्यञ्चमादिपुरुषं उपतस्थुः समाहिताः ॥ २० ॥
श्रीदेवा ऊचुः -
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका
ब्रह्मादयो ये वयमुद्विजन्तः ।
हराम यस्मै बलिमन्तकोऽसौ
बिभेति यस्मादरणं ततो नः ॥ २१ ॥
अविस्मितं तं परिपूर्णकामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्यपरं हि बालिशः
श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥
यस्योरुश्रृङ्गे जगतीं स्वनावं
मनुर्यथाऽऽबध्य ततार दुर्गम् ।
स एव नस्त्वाष्ट्रभयाद् दुरन्तात्
त्राताऽऽश्रितान् वारिचरोऽपि नूनम् ॥ २३ ॥
पुरा स्वयम्भूरपि संयमाम्भ
स्युदीर्णवातोर्मिरवैः कराले ।
एकोऽरविन्दात् पतितस्ततार
तस्माद्भयाद् येन स नोऽस्तु पारः ॥ २४ ॥
य एक ईशो निजमायया नः
ससर्ज येनानुसृजाम विश्वम् ।
वयं न यस्यापि पुरः समीहतः
पश्याम लिङ्गं पृथगीशमानिनः ॥ २५ ॥
यो नः सपत्नैः भृशमर्द्यमानान्
देवर्षितिर्यङ्नृषु नित्य एव ।
कृतावतारस्तनुभिः स्वमायया
कृत्वाऽऽत्मसात् पाति युगे युगे च ॥ २६ ॥
तमेव देवं वयमात्मदैवतं
परं प्रधानं पुरुषं विश्वमन्यम् ।
व्रजाम सर्वे शरणं शरण्यं
स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥
श्रीशुक उवाच -
इति तेषां महाराज सुराणां उपतिष्ठताम् ।
प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २८ ॥
आत्मतुल्यैः षोडशभिः विना श्रीवत्सकौस्तुभौ ।
पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ २९ ॥
दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः ।
दण्डवत्पतिता राजन् शनैरुत्थाय तुष्टुवुः ॥ ३० ॥
श्रीदेवा ऊचुः -
नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।
नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१ ॥
यत्ते गतीनां तिसृणां ईशितुः परमं पदम् ।
नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥
ॐ नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष
महापुरुष महानुभाव परममङ्गल परमकल्याण
परमकारुणिक केवल जगदाधार लोकैकनाथ
सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेण
आयोगसमाधिना परिभावित परिस्फुट
पारमहंस्यधर्मेण उद्घाटिततमः कपाटद्वारे चित्तेऽपावृत
आत्मलोके स्वयं उपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥
दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर
इदं अनवेक्षितास्मत् समवाय आत्मनैव अविक्रियमाणेन
सगुणमगुणः सृजसि पासि हरसि ॥ ३४ ॥
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः
पारतन्त्र्येण स्वकृतकुशलाकुशलं फलं
उपाददात्याहोस्विदात्माराम उपशमशीलः
समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ ३५ ॥
न हि विरोध उभयं भगवति अपरिमितगुणगणे
ईश्वरेऽनवगाह्यमाहात्म्ये अर्वाचीन विकल्प वितर्क विचार
प्रमाणाभास कुतर्कशास्त्र कलिलान्तःकरण आश्रय
दुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये
केवल एवात्ममायां अन्तर्धाय को न्वर्थो
दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥
समविषममतीनां मतमनुसरसि
यथा रज्जुखण्डः सर्पादिधियाम् ॥ ३७ ॥
स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः
सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्
सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८ ॥
अथ ह वाव तव महिमामृतरस समुद्रविप्रुषा
सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन
विस्मारित दृष्टश्रुत विषयसुखलेशाभासाः परमभागवता
एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि
नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते
मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः
साधवः त्वच्चरणाम्बुजानुसेवां विसृजन्ति न
यत्र पुनरयं संसारपर्यावर्तः ॥ ३९ ॥
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन
त्रिलोकमनोहरानुभाव तवैव विभूतयो
दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति
स्वात्ममायया सुरनरमृगमिश्रित जलचराकृतिभिः
यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि
भगवन्जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥
अस्माकं तावकानां तव नतानां तत ततामह
तव चरण नलिनयुगलध्यानानुबद्ध हृदयनिगडानां
स्वलिङ्गविवरणेन आत्मसात्कृतानां
अनुकम्पानुरञ्जित विशदरुचिर शिशिरस्मितावलोकेन
विगलितमधुरमुखरसामृतकलया
चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥
अथ भगवन् तवास्माभिः अखिलजगदुत्पत्ति
स्थिति लय निमित्तायमान दिव्यमायाविनोदस्य
सकलजीवनिकायानां अन्तर्हृदयेषु बहिरपि च
ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च
यथादेशकालदेहावस्थानविशेषं तदुपादान
उपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण
आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः
कियानिह वार्थविशेषो विज्ञापनीयः
स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ ४२ ॥
अत एव स्वयं तदुपकल्पयास्माकं
भगवतः परमगुरोस्तव चरणशतपलाशच्छायां
विविधवृजिनसंसार परिश्रमोपशमनीं
उपसृतानां वयं यत्कामेनोपसादिताः ॥ ४३ ॥
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।
ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥
हंसाय दह्रनिलयाय निरीक्षकाय
कृष्णाय मृष्टयशसे निरुपक्रमाय ।
सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्तौ
अन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥
श्रीशुक उवाच -
अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः ।
स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६ ॥
श्रीभगवानुवाच -
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।
आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥
किं दुरापं मयि प्रीते तथापि विबुधर्षभाः ।
मय्येकान्तमतिर्नान्यन् मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥
न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।
तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९ ॥
स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ ५० ॥
मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।
विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१ ॥
स वा अधिगतो दध्यङ् अश्विभ्यां ब्रह्म निष्कलम् ।
यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥
दध्यङ्ङ्आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।
विश्वरूपाय यत्प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ ५३ ॥
युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति ।
ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः ।
येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ ५४ ॥
तस्मिन्विनिहते यूयं तेजोऽस्त्रायुधसम्पदः ।
भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नवमोऽध्यायः ॥ ९ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥