श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०५

← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०४ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०६ →


हिरण्यकशिपु-प्रह्रादसंवादः, प्रह्रादवधार्थं हिरण्यकशिपो प्रय‌त्‍नः, प्रह्रादस्य पुनर्गुरुगृहे स्थापनं च -


श्रीनारद उवाच -
(अनुष्टुप्)
पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः ।
 षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ १ ॥
 तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।
 पाठयामासतुः पाठ्यान् अन्यांश्च असुरबालकान् ॥ २ ॥
 यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च ।
 न साधु मनसा मेने स्वपरासद्‍ग्रहाश्रयम् ॥ ३ ॥
 एकदासुरराट् पुत्रं अङ्‌कमारोप्य पाण्डव ।
 पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्‍भवान् ॥ ४ ॥
 प्रह्लाद उवाच -
तत्साधु मन्येऽसुरवर्य देहिनां
     सदा समुद्विग्नधियामसद्‍ग्रहात् ।
 हित्वात्मपातं गृहमन्धकूपं
     वनं गतो यद्धरिमाश्रयेत ॥ ५ ॥
 नारद उवाच -
(अनुष्टुप्)
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ।
 जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥ ६ ॥
 सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः ।
 विष्णुपक्षैः प्रतिच्छन्नैः न भिद्येतास्य धीर्यथा ॥ ७ ॥
 गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः ।
 प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥ ८ ॥
 वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा ।
 बालानति कुतस्तुभ्यं एष बुद्धिविपर्ययः ॥ ९ ॥
 बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् ।
 भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ १० ॥
 प्रह्राद उवाच -
स्वः परश्चेत्यसद्‍ग्राहः पुंसां यन्मायया कृतः ।
 विमोहितधियां दृष्टः तस्मै भगवते नमः ॥ ११ ॥
 स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते ।
 अन्य एष तथान्योऽहं इति भेदगतासती ॥ १२ ॥
 स एष आत्मा स्वपरेत्यबुद्धिभिः
     दुरत्ययानुक्रमणो निरूप्यते ।
 मुह्यन्ति यद्‌वर्त्मनि वेदवादिनो
     ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ १३ ॥
(अनुष्टुप्)
यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।
 तथा मे भिद्यते चेतः चक्रपाणेर्यदृच्छया ॥ १४ ॥
 नारद उवाच -
एतावद् ब्राह्मणायोक्त्वा विरराम महामतिः ।
 तं सन्निभर्त्स्य कुपितः स दीनो राजसेवकः ॥ १५ ॥
 आनीयतामरे वेत्रं अस्माकं अयशस्करः ।
 कुलाङ्‌गारस्य दुर्बुद्धेः चतुर्थोऽस्योदितो दमः ॥ १६ ॥
 दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः ।
 यन्मूलोन्मूलपरशोः विष्णोर्नालायितोऽर्भकः ॥ १७ ॥
 इति तं विविधोपायैः भीषयन् तर्जनादिभिः ।
 प्रह्रादं ग्राहयामास त्रिवर्गस्य उपपादनम् ॥ १८ ॥
 तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।
 दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्‌कृतम् ॥ १९ ॥
 पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः ।
 परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ २० ॥
 आरोप्याङ्‌कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः ।
 आसिञ्चन् विकसद्वक्त्रं इदमाह युधिष्ठिर ॥ २१ ॥
 हिरण्यकशिपुरुवाच -
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् ।
 कालेनैतावताऽऽयुष्मन् यदशिक्षद्‍गुरोर्भवान् ॥ २२ ॥
 प्रह्राद उवाच -
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
 अर्चनं वन्दनं दास्यं सख्यं आत्मनिवेदनम् ॥ २३ ॥
 इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
 क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ २४ ॥
 निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।
 गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥ २५ ॥
 ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता ।
 असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥ २६ ॥
 सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः ।
 तेषामुदेत्यघं काले रोगः पातकिनामिव ॥ २७ ॥
 गुरुपुत्र उवाच -
न मत्प्रणीतं न परप्रणीतं
     सुतो वदत्येष तवेन्द्रशत्रो ।
 नैसर्गिकीयं मतिरस्य राजन्
     नियच्छ मन्युं कददाः स्म मा नः ॥ २८ ॥
 नारद उवाच -
(अनुष्टुप्)
गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।
 न चेद्‍गुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥ २९ ॥
 प्रह्राद उवाच -
मतिर्न कृष्णे परतः स्वतो वा
     मिथोऽभिपद्येत गृहव्रतानाम् ।
 अदान्तगोभिर्विशतां तमिस्रं
     पुनः पुनश्चर्वितचर्वणानाम् ॥ ३० ॥
 न ते विदुः स्वार्थगतिं हि विष्णुं
     दुराशया ये बहिरर्थमानिनः ।
 अन्धा यथान्धैरुपनीयमानाः
     वाचीशतन्त्यामुरुदाम्नि बद्धाः ॥ ३१ ॥
 नैषां मतिस्तावदुरुक्रमाङ्‌घ्रिं
     स्पृशत्यनर्थापगमो यदर्थः ।
 महीयसां पादरजोऽभिषेकं
     निष्किञ्चनानां न वृणीत यावत् ॥ ३२ ॥
(अनुष्टुप्)
इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।
 अन्धीकृतात्मा स्वोत्सङ्‌गात् निरस्यत महीतले ॥ ३३ ॥
 आहामर्षरुषाविष्टः कषायीभूतलोचनः ।
 वध्यतां आश्वयं वध्यो निःसारयत नैर्‌ऋताः ॥ ३४ ॥
 अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधमः ।
 पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ॥ ३५ ॥
 विष्णोर्वा साध्वसौ किं नु करिष्यति असमञ्जसः ।
 सौहृदं दुस्त्यजं पित्रोः अहाद्यः पञ्चहायनः ॥ ३६ ॥
 परोऽप्यपत्यं हितकृद्यथौषधं
     स्वदेहजोऽप्यामयवत्सुतोऽहितः ।
 छिन्द्यात्तदङ्‌गं यदुतात्मनोऽहितं
     शेषं सुखं जीवति यद्विवर्जनात् ॥ ३७ ॥
(अनुष्टुप्)
सर्वैः उपायैः हन्तव्यः सम्भोजशयनासनैः ।
 सुहृल्लिङ्‌गधरः शत्रुः मुनेर्दुष्टमिवेन्द्रियम् ॥ ३८ ॥
 नैर्‌‍ऋतास्ते समादिष्टा भर्त्रा वै शूलपाणयः ।
 तिग्मदंष्ट्रकरालास्याः ताम्रश्मश्रुशिरोरुहाः ॥ ३९ ॥
 नदन्तो भैरवान् नादान् छिन्धि भिन्धीति वादिनः ।
 आसीनं चाहनन् शूलैः प्रह्रादं सर्वमर्मसु ॥ ४० ॥
 परे ब्रह्मण्यनिर्देश्ये भगवति अखिलात्मनि ।
 युक्तात्मन्यफला आसन् अपुण्यस्येव सत्क्रियाः ॥ ४१ ॥
 प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्‌कितः ।
 चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर ॥ ४२ ॥
 दिग्गजैर्दन्दशूकैश्च अभिचारावपातनैः ।
 मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ ४३ ॥
 हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि ।
 न शशाक यदा हन्तुं अपापं असुरः सुतम् ।
 चिन्तां दीर्घतमां प्राप्तः तत्कर्तुं नाभ्यपद्यत ॥ ४४ ॥
 एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः ।
 तैस्तैः द्रोहैः असद्धर्मैः मुक्तः स्वेनैव तेजसा ॥ ४५ ॥
 वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् ।
 न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ॥ ४६ ॥
 अप्रमेयानुभावोऽयं अकुतश्चिद्‍भयोऽमरः ।
 नूनमेतद् विरोधेन मृत्युर्मे भविता न वा ॥ ४७ ॥
 इति तच्चिन्तया किञ्चित् म्लानश्रियं अधोमुखम् ।
 शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥ ४८ ॥
 जितं त्वयैकेन जगत्त्रयं भ्रुवोः
     विजृम्भणत्रस्त समस्तधिष्ण्यपम् ।
 न तस्य चिन्त्यं तव नाथ चक्ष्वहे
     न वै शिशूनां गुणदोषयोः पदम् ॥ ४९ ॥
 इमं तु पाशैर्वरुणस्य बद्ध्वा
     निधेहि भीतो न पलायते यथा ।
 बुद्धिश्च पुंसो वयसाऽऽर्यसेवया
     यावद्‍गुरुर्भार्गव आगमिष्यति ॥ ५० ॥
(अनुष्टुप्)
तथेति गुरुपुत्रोक्तं अनुज्ञायेदमब्रवीत् ।
 धर्मो ह्यस्योपदेष्टव्यो राज्ञां ये गृहमेधिनाम् ॥ ५१ ॥
 धर्ममर्थं च कामं च नितरां चानुपूर्वशः ।
 प्रह्रादायोचतू राजन्प्रश्रितावनताय च ॥ ५२ ॥
 यथा त्रिवर्गं गुरुभिः आत्मने उपशिक्षितम् ।
 न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ ५३ ॥
 यदाऽऽचार्यः परावृत्तो गृहमेधीयकर्मसु ।
 वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥ ५४ ॥
 अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ।
 उवाच विद्वांन् तन्निष्ठां कृपया प्रहसन्निव ॥ ५५ ॥
 ते तु तद्‍गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः ।
 बाला न दूषितधियो द्वन्द्वारामेरितेहितैः ॥ ५६ ॥
 पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः ।
 तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥ ५७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरिते पंचमोऽध्यायः ॥ ५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥