श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ११

← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १० श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ११
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १२ →


नृणां सनातनो धर्मः, वर्णधर्माः, स्त्रीधर्माश्च -


श्रीशुक उवाच -
श्रुत्वेहितं साधु सभासभाजितं
     महत्तमाग्रण्य उरुक्रमात्मनः ।
 युधिष्ठिरो दैत्यपतेर्मुदा युतः
     पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १ ॥
 युधिष्ठिर उवाच -
(अनुष्टुप्)
भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् ।
 वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ २ ॥
 भवान् प्रजापतेः साक्षात् आत्मजः परमेष्ठिनः ।
 सुतानां सम्मतो ब्रह्मन् तपोयोगसमाधिभिः ॥ ३ ॥
 नारायणपरा विप्रा धर्मं गुह्यं परं विदुः ।
 करुणाः साधवः शान्ताः त्वद्विधा न तथापरे ॥ ४ ॥
 नारद उवाच -
नत्वा भगवतेऽजाय लोकानां धर्महेतवे ।
 वक्ष्ये सनातनं धर्मं नारायणमुखात् श्रुतम् ॥ ५ ॥
 योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः ।
 लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥
 धर्ममूलं हि भगवान् सर्ववेदमयो हरिः ।
 स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ ७ ॥
 सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ।
 अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥
 सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः ।
 नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥
 अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः ।
 तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥
 श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।
 सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥
 नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।
 त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥
 संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम् ।
 इज्याध्ययनदानानि विहितानि द्विजन्मनाम् ।
 जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३ ॥
 विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः ।
 राज्ञो वृत्तिः प्रजागोप्तुः अविप्राद् वा करादिभिः ॥ १४ ॥
 वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः ।
 शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥
 वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् ।
 विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥
 जघन्यो नोत्तमां वृत्तिं अनापदि भजेन्नरः ।
 ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७ ॥
 ऋतां ऋताभ्यां जीवेत मृतेन प्रमृतेन वा ।
 सत्यानृताभ्यां जीवेत न श्ववृत्त्या कदाचन ॥ १८ ॥
 ऋतमुञ्छशिलं प्रोक्तं अमृतं यद् अयाचितम् ।
 मृतं तु नित्ययांच्या स्यात् प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥
 सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् ।
 वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् ।
 सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २० ॥
 शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।
 ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥
 शौर्यं वीर्यं धृतिस्तेजः त्याग आत्मजयः क्षमा ।
 ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥
 देवगुर्वच्युते भक्तिः त्रिवर्गपरिपोषणम् ।
 आस्तिक्यं उद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥
 शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।
 अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्र रक्षणम् ॥ २४ ॥
 स्त्रीणां च पतिदेवानां तत् शुश्रूषानुकूलता ।
 तद्‍बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५ ॥
 सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः ।
 स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥
 कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च ।
 वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥
 सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् ।
 अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥
 या पतिं हरिभावेन भजेत् श्रीरिव तत्परा ।
 हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥
 वृत्तिः सङ्‌करजातीनां तत्तत्कुलकृता भवेत् ।
 अचौराणां अपापानां अन्त्यजान्तेऽवसायिनाम् ॥ ३० ॥
 प्रायः स्वभावविहितो नृणां धर्मो युगे युगे ।
 वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥
 वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् ।
 हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥
 उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।
 न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥
 एवं कामाशयं चित्तं कामानामतिसेवया ।
 विरज्येत यथा राजन् अग्निवत् कामबिन्दुभिः ॥ ३४ ॥
 यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
 यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम एकादशोऽध्यायः ॥ ११ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥