श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २४

← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २३ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०९/अध्यायः ०१ →



मत्स्यावतारकथा -

श्रीराजोवाच -
भगवन् श्रोतुमिच्छामि हरेरद्‍भुतकर्मणः ।
 अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १ ॥
 यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् ।
 तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २ ॥
 एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि ।
 उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥
 श्रीसूत उवाच -
इत्युक्तो विष्णुरातेन भगवान् बान्बादरायणिः ।
 उवाच चरितं विष्णोः मत्स्यरूपेण यत्कृतम् ॥ ४ ॥
 श्रीशुक उवाच -
गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः ।
 रक्षां इच्छन् तनु धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥
 उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः ।
 नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ ६ ॥
 आसीद् अतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।
 समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७ ॥
 कालेनागतनिद्रस्य धातुः शिशयिषोर्बली ।
 मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥
 ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।
 दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९ ॥
 तत्र राजऋषिः कश्चित् नाम्ना सत्यव्रतो महान् ।
 नारायणपरोऽतप्यत् तपः स सलिलाशनः ॥ १० ॥
 योऽसौ अस्मिन् महाकल्पे तनयः स विवस्वतः ।
 श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ ११ ॥
 एकदा कृतमालायां कुर्वतो जलतर्पणम् ।
 तस्याञ्जलि उदके काचित् शफर्येकाभ्यपद्यत ॥ १२ ॥
 सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।
 उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३ ॥
 तं आह सातिकरुणं महाकारुणिकं नृपम् ।
 यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।
 कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥
 तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।
 अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५ ॥
 तस्या दीनतरं वाक्यं आश्रुत्य स महीपतिः ।
 कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥
 सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।
 अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥
 नाहं कमण्डलौ अवस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।
 कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥
 स एनां तत आदाय न्यधादौदञ्चनोदके ।
 तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥
 न मे एतद् अलं राजन् सुखं वस्तुमुदञ्चनम् ।
 पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥ २० ॥
 तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।
 तद् आवृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१ ॥
 नैतन्मे स्वस्तये राजन् उदकं सलिलौकसः ।
 निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥
 इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।
 जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥
 क्षिप्यमाणस्तमाहेदं इह मां मकरादयः ।
 अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥
 एवं विमोहितस्तेन वदता वल्गुभारतीम् ।
 तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥
 नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा ।
 यो भवान् योजनशतं अह्नाभिव्यानशे सरः ॥ २६ ॥
 नूनं त्वं भगवान् साक्षात् हरिर्नारायणोऽव्ययः ।
 अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥
 नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
 भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८ ॥
 सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
 ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥
 न तेऽरविन्दाक्ष पदोपसर्पणं
     मृषा भवेत्सर्वसुहृत् प्रियात्मनः ।
 यथेतरेषां पृथगात्मनां सतां
     अदीदृशो यद्वपुरद्‍भुतं हि नः ॥ ३० ॥
 श्रीशुक उवाच -
इति ब्रुवाणं नृपतिं जगत्पतिः
     सत्यव्रतं मत्स्यवपुर्युगक्षये ।
 विहर्तुकामः प्रलयार्णवेऽब्रवीत्
     चिकीर्षुः एकान्तजनप्रियः प्रियम् ॥ ३१ ॥
 श्रीभगवानुवाच -
(अनुष्टुप्)
सप्तमे ह्यद्यतनाद् ऊर्ध्वं अहन्येतदरिन्दम ।
 निमंक्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥
 त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।
 उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥
 त्वं तावदोषधीः सर्वा बीजानि उच्चावचानि च ।
 सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ ३४ ॥
 आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः ।
 एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥
 दोधूयमानां तां नावं समीरेण बलीयसा ।
 उपस्थितस्य मे शृंगे निबध्नीहि महाहिना ॥ ३६ ॥
 अहं त्वां ऋषिभिः साकं सहनावमुदन्वति ।
 विकर्षन् विचरिष्यामि यावद्‍ब्राह्मी निशा प्रभो ॥ ३७ ॥
 मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
 वेत्स्यसि अनुगृहीतं मे संप्रश्नैर्विवृतं हृदि ॥ ३८ ॥
 इत्थमादिश्य राजानं हरिरन्तरधीयत ।
 सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥
 आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदंमुखः ।
 निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४० ॥
 ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।
 वर्धमानो महामेघैः वर्षद्‌भिः समदृश्यत ॥ ४१ ॥
 ध्यायन् भगवदादेशं ददृशे नावमागताम् ।
 तामारुरोह विप्रेन्द्रैः आदायौषधिवीरुधः ॥ ४२ ॥
 तं ऊचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् ।
 स वै नः संक्स्द् अस्माद् अविता शं विधास्यति ॥ ४३ ॥
 सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे ।
 एकशृंगधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४ ॥
 निबध्य नावं तत् श्रृंगे यथोक्तो हरिणा पुरा ।
 वरत्रेणाहिना तुष्टः तुष्टाव मधुसूदनम् ॥ ४५ ॥
 श्रीराजोवाच -
अनाद्यविद्योपहतात्मसंविदः
     तन्मूलसंसारपरिश्रमातुराः ।
 यदृच्छयेहोपसृता यमाप्नुयुः
     विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६ ॥
 जनोऽबुधोऽयं निजकर्मबन्धनः
     सुखेच्छया कर्म समीहतेऽसुखम् ।
 यत्सेवया तां विधुनोत्यसन्मतिं
     ग्रन्थिं स भिन्द्याद् हृदयं स नो गुरुः ॥ ४७ ॥
 यत्सेवयाग्नेरिव रुद्ररोदनं
     पुमान् विजह्यान् मलमात्मनस्तमः ।
 भजेत वर्णं निजमेष सोऽव्ययो
     भूयात् स ईशः परमो गुरोर्गुरुः ॥ ४८ ॥
 न यत्प्रसादायुतभागलेशं
     अन्ये च देवा गुरवो जनाः स्वयम् ।
 कर्तुं समेताः प्रभवन्ति पुंसः
     तं ईश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥
 अचक्षुरन्धस्य यथाग्रणीः कृतः
     तथा जनस्याविदुषोऽबुधो गुरुः ।
 त्वं अर्कदृक् सर्वदृशां समीक्षणो
     वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ ५० ॥
 जनो जनस्यादिशतेऽसतीं गतिं
     यया प्रपद्येत दुरत्ययं तमः ।
 त्वं त्वव्ययं ज्ञानममोघमञ्जसा
     प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥
 त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो
     ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।
 तथापि लोको न भवन्तमन्धधीः
     जानाति सन्तं हृदि बद्धकामः ॥ ५२ ॥
 तं त्वामहं देववरं वरेण्यं
     प्रपद्य ईशं प्रतिबोधनाय ।
 छिन्ध्यर्थदीपैर्भगवन् वचोभिः
     ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ ५३ ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
इत्युक्तवन्तं नृपतिं भगवान् आदिपूरुषः ।
 मत्स्यरूपी महाम्भोधौ विहरन् तत्त्वमब्रवीत् ॥ ५४ ॥
 पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम् ।
 सत्यव्रतस्य राजर्षेः आत्मगुह्यमशेषतः ॥ ५५ ॥
 अश्रौषीद् ऋषिभिः साकं आत्मतत्त्वं असंशयम् ।
 नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥
 अतीतप्रलयापाय उत्थिताय स वेधसे ।
 हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः ॥ ५७ ॥
 स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।
 विष्णोः प्रसादात् कल्पेऽस्मिन् आसीत् वैवस्वतो मनुः ॥ ५८ ॥
 सत्यव्रतस्य राजर्षेः मायामत्स्यस्य शार्ङ्‌गिणः ।
 संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥
 अवतारं हरेर्योऽयं कीर्तयेद् अन्वहं नरः ।
 संकल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६० ॥
 प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः
     श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।
 दितिजमकथयद् यो ब्रह्म सत्यव्रतानां
     तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे मत्यावतारचरितानुवर्णनं तुर्विंशोऽध्यायः ॥ २४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥