श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१)

               




   

श्रीमद्वाल्मीकिरामायणम्

श्रीमाधवयोगीयामृतकतकव्याख्यायुतम्

(द्वितीयसंपुटः-अयोध्याकाण्डः- १)







प्राच्यविद्यासंशोधनालयः

मैसूरुविश्वविद्यानिलयः

मैसूरु

१९६४

श्रीमद्वाल्मीकिरामायणम्

श्रीमाधवयोगीयामृतकतकव्याख्यायुतम्
(द्वितीयसंपुटः-अयोध्याकाण्डः- १)





प्राच्यविद्यासंशोधनालयः
मैसूरुविश्वविद्यानिलयः
मैसूरु
१९६४

GENERAL EDITOR:

H. DEVEERAPPA, M.A.,

Director

SRIMADVALMIKIRAMAYANA

WITH

AMRTAKATAKA OF MADHAVAYOGI

(VOL.II--AYODHYĀKĀNDA-I)

EDITOR:

VIDWAN K. S. VARADACHARYA,

Research Assistant



ORIENTAL RESEARCH INSTITUTE

UNIVERSITY OF MYSORE

MYSORE

1964




ALL RIGHTS RESERVED



Price: Rs. 5-50 Ps.





MYSORE:

PRINTED BY THE SUPERINTENDENT, GOVT. TEXT BOOK PRESS

1964

प्रधानसम्पादकः
एच्. देवीरप्प, एम्.ए.,
डैरेक्टर


श्रीमद्वाल्मीकिरामायणम्
श्रीमाधवयोगीयामृतकतकव्याख्यायुतम्

(द्वितीयसंपुटः-अयोध्याकाण्डः- १)


सम्पादकः
विद्वान् के. एस्. वरदाचार्यः,
रिसर्च् असिस्टेण्ट्





प्राच्यविद्यासंशोधनालयः
मैसूरुविश्वविद्यानिलयः
मैसूरु
१९६४

आरक्षितास्सर्वेऽधिकाराः





मूल्यं सार्धरूप्यपञ्चकम्




मैसूरुराजकीयपठ्यपुस्तकमुद्रालये तदधिकारिभिः मुद्रितम्

१९६४

IT is well known that there are several editions of the great epic, Vālmīki Ramāyaṇa, with or without commentary. But an authoritative edition of this great work is under preparation in one of our sister Institutes, the Oriental Institute, Baroda.

 This Institute, therefore, has undertaken to bring out a critical edition of the same with the Amṛtakataka commentary of the Madhavayogi (about 1700 A. D.). 'Amṛtakataka' is brought to light for the first time.

 The Balakāṇḍa has been already published. Now the I Part of Ayodhyākāṇḍa is coming to light. The II Part of Ayodhyakaṇḍa is in press. Other Volumes are under preparation.

 Vidwan Sri K. S. Varadacharya, one of the Research Assistants of our Institute, has edited the work ably. I wish to state that it is also intended to give the critical introduction and appreciation of the same in a separate Volume after the whole work is published.  My thanks are due to the authorities of the Palace Saraswati Bhandara, Mysore, Oriental Manu scripts Library, Madras, and Sri Sachidananda Sarada Bhandagara of Sri Jagadguru Sri Koodal Sringeri Mahasamsthana, Chitradurga, Mysore State for lending their manuscript copies of the work for collation. My thanks are also due to the Deputy Director of Printing and Stationery, Government Branch Press, Mysore, for getting the work printed in time and in an efficient manner.


MYSORE,
H.DEVEERAPPA,
 
Dated 30-7-1963
Director,
 
Oriental Research Institute
 

 'सुरम्यमासाद्य तु चित्रकूटं
  नदीं च तां माल्यवतीं सुतीर्थाम् ।
 ननन्द हृष्टो मृगपक्षिजुष्टां
  जहौ च दुःखं पुरविप्रवासात् ॥'

(अयो. ५६. ३८)
 

 हन्त ! सकलसहृदयहृदयहारिसन्निवेशविशिष्टं चित्रकूटं आसाद्य बन्धुजनवियोगादिकं सर्वमपि विस्मृत्य प्रियया सह विहरन्तं सानुजं श्रीरामचन्द्रमवलोक्य किञ्चिदिव समाश्वसितं इदानीं अस्माकं मनः ॥

 श्रीमदादिकविना श्रीरामादिभिः सह चित्रकूटं नीता वयमपि दूरत एव पश्यामः []नभस्स्पृशानि पावनानि चित्रकूटशिखराणि । समीपमुपसर्वतामस्माकं-अदृष्टपूर्वाणां वृक्षलतादीनां विचित्राणि पुष्पाणि, नदीं माल्यवतीं आलिङ्ग्य मन्दं मन्दं वहन् वायुः, नाना-पक्षिमृगाणां मधुराणि रुतानि, बहुविधानां कुसुमानां उत्तमः आमोद, रसमयानि द्रोणप्रमाणानि मधूनि-इतीदं सर्वे यतोऽपहरति करणग्रामं, तत एव इतरसर्वविस्मरणं अवश्यं भाव्येव ॥

 फलपुष्पपूर्णदुमलताऽऽच्छादितः हरितमयः पर्वतः, पार्श्वे चलचलायमाना प्रसन्नसलिला नदी, निर्भरं इतस्ततः क्रीडन्तः वानरहरिणभल्लुकप्रभृतयो मृगाः, स्वैरं गभीरंसञ्चरन्तो मत्ता मातङ्गाः, परमधन्यानां महर्षीणां प्रशान्तानि पुण्यानि आश्रमस्थानानि-


इदं सर्वे पश्यतां अस्माकमपि मनः तत्रैव वासं वाञ्छत्येव । परम् न युक्तं उपरोधं कर्तुं विविक्तदेशं अन्विष्यागतवतः श्रीरामस्य, वा वयं तादृशोत्तमप्रकृतयोऽपि । अतः सुखं वसन्तं श्रीराममालोक्य तावतैव निर्वृताः प्रतियास्यामो वयं अयोध्यां पुत्रशोकाभिसन्त वृद्धं दीनं दशरथमभिवीक्षितुम् []

 श्रीमदादिकविवाल्मीकिवदनारविन्दविनिस्सृतायामस्यां इति हासमधुसरिति-अयोध्याकाण्डोऽयं कथादृष्ट्या, वर्णनादृष्ट्या पात्रगुणचित्रणदृष्ट्या, सर्वैश्च प्रकारैः इतरकाण्डानतिशेत इति रसिकजनसम्मतम् ॥

 इदमेवाभिप्रेत्य मङ्खककविरपि 'त्रिभिः काण्डैः आद्यः कविरममविध्यत्' [] इत्याहेति वयं मन्यामहे । सर्वाङ्गसुन्दरीणेऽप्यस्मि आदिकाव्ये अयोध्या-आरण्य-सुन्दरकाण्डाः इतरकाण्डापेक्ष विशिष्टं स्थानं वहन्तीति स्वयं भायादेव रसिकानाम् । अधि परस्ताद्विचारयामो विस्तरशः ॥

 अयमप्यस्त्यत्र विशेषः रामायणप्रधानपात्राणां गुणादि परिचयः अस्मिन्नेव काण्डे उत्तुङ्ग शिखरदीपायते । तद्यथा-

 पश्चिमे वयसि निराशोपहते चेतसि दैवात् पुत्ररत्नानि प्राधन्यो दशरथः । एतादृशस्य सकलसद्गुणसागरे ज्येष्ठे रा प्राणाधिका प्रीतिः सहजैव । इयमेव प्रीतिराजकुलमर्यादामप्युल्लङ्घ्य स्वस्मिन् जीवत्ये स्वपुत्रराज्याभिषेकेच्छायां विचित्रायां पर्यवसानमवाप[] । परन्तु तद्दौर्भाग्यातिशयात् दैवचित्तस्यान्यथास्थितत्वेन न तदिच्छा पूर्णा भूत् ; प्रत्युत प्राणेभ्योऽपि प्रियस्य पुत्रस्य विश्लेषे--तत्रापि दारुवनप्रेषणे-तन्मूलतः परमदारुणे स्वजीवितान्ते च पर्यवसानमवाप एतादृशं दौर्भाग्योपहतं वृद्धं दीनं दशरथनृपं अस्मिन् काण् पश्यामः ॥


दशरथवदेव प्राणप्रियात् पुत्रात् एतावता बहुना कालेनानुभूतस्य सपत्नीसकाशात् प्राप्तस्य अवमाननादेः पर्यवसानं प्रतीक्षते स्म कौसल्या[]। परन्तु तद्विपरीतं एकैकस्य पुत्रस्य विश्लेषं प्राप्य-

 'यदि, पुत्र ! न जायेथा मम शोकाय रावव !
 न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥
 एक एव हि वन्ध्यायाः शोको भवति मानसः ।
 अप्रजाऽस्मीति सन्तापः, न ह्यन्यः, पुत्र ! विद्यते ॥[]

इति-सकललोकश्रेष्ठं पुत्रं प्रसूयापि स्वपुत्रजन्मैव निन्दयन्तीं वन्ध्यात्वमेवाशंस्यतरं मन्यमानां परमदीनां मातरं कौसल्यां, पत्नीकुलादर्शभूतां च तां[] अस्मिन् काण्डेऽवलोकयामः ॥
 स्वसुतनिर्विशेषं रामे प्रीतिमतीं[] स्वस्मै रामाभिषेकवृत्तान्तं प्रथमं निवेदितवत्यै मन्थरायै आभरणं पारितोषिकं दत्तवेतीमपि दैवेन स्वेष्टसाधनाय वञ्चितां, आपामरजनं[] आ च ब्रह्मर्षिकुलं [१०] धिक्कृतां, कृपणां, फलतः कौसल्याप्रतिकोटिभूतां कैकेयीमण्यत्रेक्षामहे ॥
 यादृशं पितृऋणविमोचनं स्वावश्यकर्तव्यं रामो मेने, तदेतत् एतादृशकैकेय्यभावे असंभाव्येवेति नूनं कैकेयी करुणार्द्दैव ॥


वनं प्रस्थितं प्रव्रजितं सपत्नीपुत्रमपि रामं अनुगच्छन्तं स्वसुतं लक्ष्मणं अनुमतवतीं उदारां 'सूर्यस्यापि भवेत् सूर्यः ह्यग्नेरग्निः प्रभोः प्रभुः । दैवतं देवतानां च '[११] इति रामयाथार्थ्यवेदनवर्ती विदुषीं सुमित्रां अन्वर्थाभिधानामत्र पश्यामः ॥

 महाकाव्यमहानायकस्य रामस्य तदनुगुणाः कल्याणगुणाः अस्मिन् काण्डे विकसन्तः सौरभं प्रसारयन्ति सर्वशः । पितृभक्तिः, मातृप्रीतिः, आदर्शपतित्वं, सौभ्रात्रं, मित्रस्नेहः, प्रजावात्सल्यं, सत्यसङ्गरत्वं-इत्यादयो हि गुणाः मूर्तिमाहृत्य प्रकाशन्तेऽत्र ॥
 किं बहुना ! एतन्महाकाव्योपक्रमे उपोद्धातप्रकरणे 'बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः[१२] इत्युक्तगुणानां व्यक्ति सम्बन्धः एतत्काण्डोपक्रम एव पुनःपुनः[१३] प्रतिपाद्यते ॥
 श्रीरामवदेव भरतेनापि जनानां हृदयेषु असाधारणं एकं स्थानं आक्रान्तमेवेति नात्युक्तिः । राज्यार्थे यत्किञ्चिदण्यकृत्यं कर्तुं सन्नद्धता सामान्यतो राजकुमाराणां सहजो गुणः । एवं सति को नाम अवशप्राप्तं राज्यं त्यजेत् ? राज-गृहसम्बन्धिगम्भीरसंस्कारेण साकं इदमालोचयतामेव अस्य त्यागस्य गरिष्ठता ज्ञायेत[१४] । इदमेव जानन् रामः 'न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः' [१५] इति भरतं प्रशशंस ।


संक्षेपतस्तु भरतपात्रं सचमत्कारं परिचाययति एवं भासः-

 'सुचिरेणापि कालेन यशः किञ्चिन्मयाऽऽर्जितम् ।
 अचिरेणैव कालेन भरतेनाद्य सञ्चितम् ॥' [१६]इति ॥

 'न च सीता त्वया हीना न चाहमपि राघव ।
 मुहूर्तमपि जीवावः जलान्मत्स्याविवोद्धतौ ॥'[१७]

इति आत्मानं स्त्रिया सीतया साकं तोलयन् पुरुषसिंहोऽयं लक्ष्मणस्तु विचित्रसमस्यारूप एव सामान्यजनानाम् । स्वयं पत्नीविरहं सोढुमशक्नुवन्तं तया सह वनं प्रस्थितं रामं, स्वयं पत्नीं त्यक्ताऽनुजगाम, तेन चात्मानं 'कृतार्थोऽहं भविष्यामि' [१८]इति मन्यते      स्म चेत्ययमंशः कथ न स्यात् समस्यारूपः सामान्यजनानाम् ?

 स्वप्राणाधिकप्रीत्या मातापितृभ्यां लालिता पालिता च दुहिता कृतविवाहा प्राप्तयौवना च, वत्सलतरौ मातापितरौ, एतावता चिरकालेन परिचितं स्वसंवृद्धिगृहं-सर्वमिदं परित्यज्य सहर्षं अचिरपरिचितेन स्वभर्त्रा सह कथं निर्गच्छति ? नेदं समस्यारूपम् ? आलोचयन्तु सुधियः । अधिकं पश्चात् रामायण-भूमिकायामुपपादयामः ॥

 परन्तु रामस्यानुजेषु त्रिषु सत्सु अयमेव रामानुजपदं स्वासा-धारणं प्रापेतीदमवधेयम् ॥


 सीतापात्रेऽस्मिन् आदिकविः पातिव्रत्यलक्षणं सर्वे पूरयामासेति सर्वविदितं न विशिष्यात्र वक्तव्यम् । परन्तु एतेन साकं स्त्रीप्रकृतेः सहजाः गुणाः-माधुर्यं, मार्दवं, मुग्धता, झटिति उद्वेगपारवश्यं, कथञ्चित् स्वेष्टसाधनाग्रहः, इत्यादयः गुणा अपि चित्र्यन्ते[१९]हृदयङ्गममिति अहो! महर्षेः यथार्थवदनकौशलम् !
 मन्थरापात्रं तु काव्यदृष्ट्याऽत्यल्पमपि कथादृष्ट्या महत्तरं स्थानं वहति । महत्तरं कार्ये मध्ये कस्मिंश्चिद्विनाशयति 'कोऽयम् ? कुतो वाऽऽगतः ?' इति प्रश्नः जनानां हृदये समुन्मिषति

किल? नात्र जिज्ञासा विवक्षिता, अपि तु 'पूजामध्ये भल्लुकप्रवेशवत्' तत्र तस्य प्रवेशे स्वासम्मतिः, जुगुप्सा वा सूच्यते । मन्थरायां एतादृशमेव भावं आविष्करोति 'ज्ञातिदासी यतो जाता'[२०] इति वदन कविवरः ॥  एवं मन्थरायां स्वहृदयगतेन वैरस्येन हास्यरसवर्णनाय[२१] तां उपयुञ्जन् कविवरेण्यः मन्थरां सर्वोपहासपात्रतामपि नयति ॥

 एवमस्मिन् काण्डे कथापात्राणां गुणादिपरिचयवत्, रामायण-कथाया बीजभूताः विचित्राः घटनाः दैवप्राबल्यपरिचायकाः पदे-पदेऽत्र ग्रथितवानादिकविरितीदमपि एतत्काण्डवैशिष्ट्योपोद्वलकं भवति ॥

 यद्यत् आत्मनोऽनुकूलं भावयति नरः, तदेव तस्य प्रतिकूलं वस्तुतो भवतीत्ययमंशः काण्डेऽस्मिन् बहुधा दृश्यते । यथा-

 स्वस्मिन् जीवत्येव स्वपुत्राभिषेकदर्शनानन्दमनुभवितुमिच्छति विचित्रतया दशरथः राजकुलमर्यादामुल्लङ्घ्य ॥

 तत्काले–पूर्वं कैकेयीविवाहकाले स्वेन कृतां तत्पुत्रराज्याभिषेकप्रतिज्ञां[२२] स्मरति दशरथः । अथापि रामे प्रीत्यतिशयेन


तमेवाभिषेचयितुमिच्छति सः । पूर्वप्रतिज्ञाभङ्गेन रामाभिषेकः भरतासान्निध्य एव सुकर इति स भावयति[२३] । अत एव केकय-राजानं अभिषेकोत्सवाय नाह्वयति च[२४]

 परन्तु स्वानुकूलत्वेनावगतं भरतासान्निध्यमेव स्वस्यात्यन्त-प्रातिकूल्ये पर्यवसानमवाप। यदि नाम भरतस्तदा तत्रोपस्थितः स्यात्, तदा कैकेयीवरद्वयनिर्बन्धः, रामप्रव्राजनं, तन्मूलस्व-प्राणान्तविपत्तिः, इत्यादिकं सर्वथाऽसंभव्येव ॥

 एवं भरताभिषेकवरं आत्मनोऽनुकूलं ज्ञातवत्याः कैकेय्याः, स एव जटाचीरादिधारणपूर्वकं भरतस्य नन्दिग्रामे वासहेतुरभूत् ॥

 एवं भ्रातरं प्रत्यावर्तयितुं चित्रकूटं प्रस्थातुमुद्यतो भरतः, यदि स्वकृत्येन भविष्यन्तीं महतीं विपत्तिं जानीयात्, तदा चित्रकूटं न प्रस्थितो भवेत् ॥

 ससैन्येन भरतेन स्ववासस्य परिचितत्वादेव खलु चित्रकूटं परित्याज्यान्यत्र प्रस्थितो राम इति स्पष्टं ज्ञायते [२५] । स्वस्य भरद्वाजा-


श्रमवासे यानि बाधकानि [२६]रामेणोपन्यस्तानि, तानि भरतागमनात् चित्रकूटेऽपि प्राप्तानीति च चित्रकूटं तत्याज रामः । यदि तत्रैव वसेत् रामः तदा सीतापहरणाद्युत्तरानर्थानि न प्राप्येरन् ॥

 एवञ्च भरतकृतः रामप्रतिनिवर्तनप्रयत्नः विपरीतफल एवाभवत् ॥

 एवं श्रीरामः यत् सीताऽनुगमनं स्वपरमानुकूलममन्यत[२७]तदेव पश्चात् पञ्चवट्यां महतेऽनर्थायाभूत् ॥

 एतादृश्यो विचित्रघटना एव रामायणबीजभूताः । एतास्वन्यतमाया अप्यभावे रामायणमेव न स्यात् ॥

 किमधिकेन ! विश्वामित्रयज्ञसंरक्षणकाले सुबाहुवत् मारीचोऽपि यदि हतः स्यात् तदा स्वर्णमृगवञ्चनसीतापहरणादिकमपि न संभव्येव ॥

 'अन्यो ह्यन्यच्चिन्तयति स्वच्छन्दं विदधाम्यहम्' इत्युद्घोषयतो दैवस्य गतिं प्राबल्यं च इदं सर्वमावेदयति ॥

 सङ्क्षेपतस्तु कथने दैवं तु सर्वहितमेकं स्वयं संकल्प्य तदनुगुणमेव प्रतिपदं न्यस्यति । बाह्यतः आकस्मिकतया भासमानेषु तस्य चलनेषु, वस्तुतः नास्त्याकस्मिकता नाम लेशतोऽपि । सर्वमपि पूर्वनिर्णीतक्रममनुसृत्यैव निर्वर्तयति तत् । स्वसंकल्पनिर्वर्तने यं कमपि प्रतिरोधं न सहते, बाह्यतःकष्टकार्पण्यादिकं न गणयति च । स्वेष्टं तु सर्वथा निर्वर्तयत्येव । एतादृशस्य दैवस्य गतौ न कोऽपि विघ्नं वैपरीत्यं वा कर्तुं शक्नोत्यपि ॥


 यस्तु पुरुषः दैवस्य गतिं विज्ञाय तदनुगुणतयाऽऽत्मनोऽपि गतिं परिष्कृत्य दैवमनुवर्तते, तं तत् उत्तमां गतिं नयति । यस्तु अहङ्कारात् अज्ञानाद्वा दैवगतेः विपरीततयाऽऽत्मनो गतिं परिकल्प्य स्वैरं गन्तुमिच्छति, सः बहुविधानर्थेषु पतति, स्वेष्टात् भ्रश्यति, न दैवसम्मतां सद्गतिं च प्राप्नोति, न जन्मसाफल्यमप्यश्नुते ॥

 'अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् |
 विविधाश्च पृथक्चेष्टाः दैवं चैवात्र पञ्चमम् ॥
 शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः ।
 न्याय्यं वा विपरीतं वा पश्चैते तस्य योनयः ॥
 तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
 पश्यत्यतबुद्धित्वान्न स पश्यति दुर्मतिः ॥'

(गीता 18, 14-16)
 

इति खलु केवलस्य चेतनस्य कर्तृत्वं निषेधति शास्त्रम् ।

 'इदमद्य मया लब्धं इमं प्राप्स्ये मनोरथम् ।'
 'ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।
 आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ॥
 यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः । '
 'मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ '
 'अनेकचित्तविभ्रान्ताः मोहजालसमावृताः ।
 प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥' (गी. 16) इति,
 'सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
 मत्प्रसादादवाप्नोति शाश्वतं पद्मव्ययम् ॥
 'अथ चेत् त्वमहंकारात् न श्रोष्यसि विनङ्क्ष्यसि ।'

(गी. 18-58)
 

इति च अहंकारादिना दैवावज्ञया पतनं, दैवाश्रयणेन शाश्वत-पदावाप्तिं च स्पष्टमुपदिशति भगवान् । अतः-

 'दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।'

इतीममेवार्थे शिक्षयन्त्यस्मान् इमा घटनाः । यद्यप्यत्रास्ति बहु विचारणीयं, सर्वे तत् रामायणभूमिकायां प्रतिपादयामः ॥  एतद्व्याख्याकारस्य माधवयोगिनः देशकालादिविषये प्रथम-संपुटप्रस्तावनायामुक्तमर्थं द्रढयत् प्रमाणजातमस्मिन् भागेप्युप-लभ्यत एव । सर्वमाहत्य एकत्र प्रकटीकर्तुकामाः नात्र पृथक् तमंशं प्रस्तवीमहे ॥

 एतत्संपुटसंपादने बालकाण्डसंपादनोपयुक्ता एव मातृकाः आदृताः, ताभिरेव संज्ञाभिः संज्ञिताश्च ॥

 कूडलिजगद्गुरुश्रीशङ्कराचार्यमठीयः नन्दीनागरलिप्यात्मकः तालपत्रकोशस्त्वेकः अनन्तरमुपलब्धः 'ट'संज्ञितः एतत्संपादने आदृतः ॥

 अयोध्याकाण्डस्यातिविस्तृतत्वात् संपुटेऽस्मिन् रामचित्रकूटनिवासपर्यन्तो भागः प्राकाशि । अवशिष्टश्च भागः समनन्तरसंपुढे प्रकाशयिष्यते ।

मैसूरु,
नव्यमङ्गलाभिजनः,
 
३०-७-१९६३.
वरदाचार्यः.
 

श्रीमद्वाल्मीकिरामायणायोध्याकाण्डस्य
विषयानुक्रमणिका


सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 रामाभिषेकचिन्तनम्  ....    .... १
 परिषदनुमोदनम्  ....    .... १४
 दशरथेन रामानुशासनम्  ....    .... २४

श्लोकसङ्ख्या    अवान्तरविषयाः
   
 अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।    ....
 प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥    ....
 कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।    ....
 शक्तः खलु स वै नाथः त्रैलोक्यमपि रक्षितुम् ॥    ....
 इति सञ्चिन्त्य राजासावानयामास पार्थिवान् ।    .... ११
 समागतांस्तु तान् दृष्ट्वा राजा दशरथोऽब्रवीत् ॥    .... १३
   
 रामे राज्यं निवेश्याह विश्रान्तिमभिरोचये ।    .... १५
 भवन्तो मेऽनुमन्यन्तां इदं, किं करवाण्यहम् ॥    .... १७
 इति ब्रुवन्तं राजानं प्रत्यनन्दन् मुदा नृपाः ।    .... १९
 संहृष्टाः प्रशशंसुस्ते दिव्यान् रामगुणान् तदा ॥    .... २१
 सुसंहृष्टोऽभवद्राजा श्रुत्वा निजसुतस्तवम् ।    .... २३
   
 ततो रामाभिषेकायादिदेश नृपसत्तमः ॥    .... २५
 वसिष्ठः परमप्रीतः सर्वं सज्जं तदाऽकरोत् ।    .... २७
 सुमन्त्रमब्रवीद्राजा रामोऽत्रानीयतामिति ॥    .... २९
 आगत्य च ततो रामो ववन्दे चरणौ पितुः ।    .... ३१
 आदिशद्यौवराज्याय रामं दशरथः प्रियम् ॥    .... ३३
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 रामाभिषेकनिश्चयः  ....    .... ३५
 अभिषेकपूर्वाङ्गचर्याचरणम्  ....    .... ४५
 पौरोत्साहः  ....    .... ५०
 मन्थरोपजापः  ....    .... ५५

श्लोखसङ्ख्या    अवान्तरविषयाः
   
 राम ! वृद्धोऽस्मि दीर्घायुर्विश्रान्तिमभिरोचये ।    .... ३५
 अतस्त्वां युवराजानमभिषेक्ष्यामि, पुत्रक !    .... ३७
१०  श्वस्त्वाऽहमभिषेक्ष्यामीत्यादिदेश नराधिपः ।    .... ३९
१८  श्रुत्वा च रामः पितरमभिवाद्याभ्ययाद्गृहम् ।    .... ४१
११  राज्ञो नियोगं रामस्तु कौसल्यायै न्यवेदयत् ।    .... ४३
   
 वसिष्ठमादिशद्राजा तत्तत्कार्यस्य साधने ।    .... ४५
१२  वसिष्टोऽपि तदा राममुपवासाद्यकारयत् ।    .... ४७
२०  श्रुत्वा बभूवुस्तत्सर्वं पौरा हर्षपरिप्लुताः ॥    .... ४९
   
१३  अलञ्चक्रुरयोध्यां ते नानालङ्कारवस्तुभिः ।    .... ५१
 रामाभिष्टवसंयुक्ताः कथाश्चक्रुर्मिथो जनाः ॥    .... ५३
   
१४  दासी काचन कैकेय्याः कुब्जाऽऽसीन्मन्थराभिधा    .... ५५
 रामभिषेकवृत्तान्तं श्रुत्वैवोद्वेगमाप सा ॥    .... ५७
१५  भेदयामास कैकेयीमभिषेकनिरोधने ।    .... ५९
 देवि ! राजा दशरथो रामं राज्येऽभिषेक्ष्यति ॥    .... ६१
१६  संप्राप्तकालं, कैकेयि ! क्षिप्रं कुरु हितं तव ।    .... ६३
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 मन्थरोपदेशः  ....    .... ६५
 रामप्रवासनाध्यवसायः  ....    .... ७८
१०  कैकेय्यनुनयः  ....    .... ९४

श्लोखसङ्ख्या    आवान्तरविषयाः
   
 रामाभिषेक श्रुत्वाऽभूत् कैकेयी भृशहर्षिता ॥    .... ६५
१७  तां पुनर्भेदयामास मन्थरा बहुधा तदा ।    .... ६७
 न चचाल तथाऽप्यस्याः कैकेय्या हृदयं तदा ॥    .... ६९
१८  पुनस्तां भेदयामास भयमुत्पाद्य मन्थरा ।    .... ७१
 किं नु कैकेयि ? संप्राप्तं अनर्थं नावबुध्यसे ।    .... ७३
१९  बालिशे ! भरतं हन्यात् राजा रामो न संशयः ।    .... ७५
 दासीवद्वर्तितव्यं स्यात् कौसल्यायां त्वयाऽपि च ॥    .... ७७
   
२०  शृण्वन्त्याः सकलं वाक्यं चचाल हृदयं शनैः ।    .... ७९
 रामप्रवासनोपायं मन्थरा समुपादिशत् ॥    .... ८१
२१  देवि ! राज्ञा पुरा दत्तं याचस्वाद्य वरद्वयम् ।    .... ८३
 रामप्रवासनं, देवि ! याचस्वाद्येन चैतयोः ॥    .... ८५
२२  अपरेण च याचस्व भरतस्याभिषेचनम् ।    .... ८७
 आत्मानं भरतं चैव रक्षस्व महतो भयात् ॥    .... ८९
२३  एवं विदर्शिताऽगृह्णात् कैकेयी मन्थरावचः ।    .... ९१
 मेदिनीमधिशिश्ये सा दुःखिता कुपिता भृशम् ॥    .... ९३
   १०
२४  ततो विवेश तद्द्वेश्म हृष्टो दशरथः स्वयम् ।    .... ९५
 न्यवेदयत् प्रतीहारी राज्ञे क्रुद्धां तु कैकयीम् ॥    .... ९७
२५  भूमौ शयानां कैकेयीं अपश्यत् तत्र पार्थिवः ।    .... ९९
 अनुनीता च सा राज्ञा वाक्यं दारुणमब्रवीत् ॥    .... १०१
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
११  वरद्वयनिर्बन्धः  ....    .... १०३
१२  दशरथप्रार्थना  ....    .... ११०

श्लोखसङ्ख्या    अवान्तरविषयाः
   ११
२६  राजन् ! स्मरसि किं पूर्वं मह्यं दत्तं वरद्वयम् ।    .... १०३
 तदद्य देहि, राजेन्द्र ! सत्यसन्धो भवान् यदि ॥    .... १०५
२७  प्रथमेन वरेणाद्य भरतो मेऽभिषिच्यताम् ।    .... १०७
 वनं गच्छतु रामोऽथ द्वितीयेन वरेण च ॥    .... १०९
   १२
२८  तच्छ्रुत्वा वचनं घोरं राजाऽभूद्गतचेतनः ।    .... १११
 चिरेण संज्ञां स प्राप्य कैकेयीमब्रवीद्वचः ॥    .... ११३
२९  किमिदं चिन्तितं, पापे ! त्वया परमदारुणम् ।    .... ११५
 पापमाशंससे रामे, देवि ! देवोपमे कथम् ? ॥    .... ११७
३०  इत्येवं विलपन्तं तं कैकेयी पुनरब्रवीत् ।    .... ११९
 विषं पीत्वा मरिष्येऽथ न चेद्दद्या वरद्वयम् ॥    .... १२१
३१  स तस्या व्यवसायं तु दृष्ट्वा दीनोऽब्रवीत् पुनः ।    .... १२३
 कथं शक्ष्यामि मे रामं वनं गच्छेति भाषितुम् ॥    .... १२५
३२  किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ।    .... १२७
 धिक्करिष्यन्ति रथ्यासु मामनार्य इति प्रजाः ॥    .... १२९
३३  राघवे हि वनं प्राप्ते नूनं प्राप्स्ये यमक्षयम् ।    .... १३़़१
 मा ते मे भरतः कुर्यात प्रेतकार्यं गतायुषः ॥    .... १३३
३४  मृते मयि गते रामे विधवा राज्यमावस ।    .... १३५
 एवं वदन्त्या रखना कृतस्ते न पतत्वधः ॥    .... १३७
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
१३  दशरथविलापः  ....    .... १३९
१४  कैकेय्युपालम्भः  ....    .... १४६
१५  रामाह्वानम्  ....    .... १६१
१६  रामागमनम्  ....    .... १७३

श्लोखसङ्ख्या    अवान्तरविषयाः
   १३
३५  स्पृशामि पादावपि ते प्रसीद मयि, कैकयि !    .... १३९
 श्रमेण महता लब्धः कथं पुत्रो विवास्यते ॥    .... १४१
३६  क्रियतां मे दया, भद्रे ! मयाऽयं रचितोऽञ्जलिः ।    .... १४३
 एवं रुदन्तं सा प्राह, राजन् ! देहि वरद्वयम् ॥    .... १४५
   १४
३७  नो चेत् ते पुरतोऽद्यैव परित्यक्ष्यामि जीवितम् ।    .... १४७
 एवमुक्तस्तया राजा स भ्रान्तहृदयोऽभवत् ॥    .... १४९
३८  ज्येष्टं पुत्रं प्रियं रामं द्रष्टुमैच्छत् तदा नृपः ।    .... १५१
 ततः प्रभाते त्वागच्छत् वसिष्ठो मुनिसत्तमः ॥    .... १५३
३९  रामाभिषेकं सन्नह्य राजं स द्रष्टुमाययौ ।    .... १५५
 ततः सूतो यथापूर्वं बोधयामास पार्थिवम् ॥    .... १५७
४०  तदा तमब्रवीद्रामं आनयेहेति कैकयी ।    .... १५९
   १५
 तच्छ्रुत्वा निर्गतः सूतः ददर्श द्वारि भूसुरान् ॥    .... १६१
४१  तेषामागमनं सूतः तदा राज्ञे व्यजिज्ञपत् ।    .... १६३
 राजा त्वाज्ञापयामासानेतुं रामं पुनस्तदा ॥    .... १६५
४२  स राजवचनं श्रुत्वा प्रतस्थे राममन्दिरम् ।    .... १६७
 रामाभिषेकसरंभान् पश्यन् रामगृहं ययौ ।    .... १६९
४३  विवेशावार्यमाणः सः रामस्य भवनं शुभम् ।    .... १७१
   १६
 ससीतालक्ष्मणं रामं सुमन्त्रस्तत्र दृष्टवान् ॥    .... १७३
४४  कृत्वा प्रणामं रामाय राजाज्ञां स न्यवेदयत् ।    .... १७५
 रामः सीतामनुज्ञाप्य निर्ययौ सहलक्ष्मणः ॥    .... १७७
४५  तं राजमार्गे गच्छन्तं दृष्टा मुमुदिरे जनाः ।    .... १७९
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
१७  कैकेय्यन्तःपुरप्रवेशः  ....    ....
१८  वनवासनिदेशः  ....    .... १८६
१९  रामाभ्यनुज्ञा  ....    .... १९६
२०  कौसल्याऽऽक्रन्दनम्  ....    .... २०५

श्लोखसङ्ख्या    अवान्तरविषयाः
   १७
 अपश्यन्नगरं रामः प्रजाभिस्समलङ्कृतम् ॥    .... १८१
४६  शुश्राव विविधा वाचः प्रजानां हर्षसंभृताः ।    .... १८३
 स निवर्त्य जनं रामः कैकेय्याः प्राविशद्गृहम् ॥    .... १८५
   १८
४७  तत्रापश्यन्नृपं रामः शोकभारेण पीडितम् ।    .... १८७
 पप्रच्छ कैकयीं रामः राज्ञः शोकस्य कारणम् ॥    .... १८९
४८  साऽपि तत्त्वं यथावृत्तं कथयामास कैकयी    .... १९१
 वरद्वयप्रदानं च सा प्राह नृपतेस्तदा ॥    .... १९३
४९  रामं सा राजवचनात् वनवासं समादिशत् ।    .... १९५
   १९
 श्रुत्वाऽपि तद्वचो घोरं रामोऽवोचदविक्रियः ॥    .... १९७
५०  आनयाद्यैव भरतं मातर्मातुलमन्दिरात् ।    .... १९९
 दण्डकारण्यमद्यैव त्वहं यामि गतव्यथः ॥    .... २०१
५१  इत्युक्त्वा पितरौ नत्वा रामस्तस्माद्विनिर्ययौ ।    .... २०३
   २०
 निष्क्रान्ते पुरुषव्याघ्रे सर्वे दीनं विचुक्रुशुः ॥    .... २०५
५२  रामो मातरमाप्रष्टुं तद्गृहं सानुजो ययौ ।    .... २०७
 मात्रे स्ववनवासादिवृत्तान्तं सोऽब्रवीत्तदा ॥    .... २०९
५३  श्रुत्वा तद्वचनं घोरं कौसल्या न्यपतद्भुवि ।    .... २११
 वत्स ! जातः कुतो मे त्वं ? इतो वन्ध्यात्वमुत्तमम् ॥    .... २१३
 वत्स ! संवर्धितो मोघं त्वं हि दुर्गतया मया ।    .... २१५
५४  आयसं हृदयं मे यत् श्रुत्वाप्येतन्न दीर्यते ॥    .... २१७
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
२१  कौसल्यासान्त्वनम्  ....    .... २१९
२२  लक्ष्मणप्रतिबोधनम्  ....    .... २३७
२३  लक्ष्मणाक्रोशः  ....    .... २४८

श्लोखसङ्ख्या    अवान्तरविषयाः
   २१
५५  इत्येवं विलपन्तीं तां कौसल्यां लक्ष्मणोऽवदत् ।    .... २१९
 देवि ! नैवानुजानामि धर्मापेतं नृपं त्वहम् ॥    .... २२१
५६  राज्यं दातुं कोऽधिकारो भरतायास्य भूपतेः ।    .... २२३
 कौसल्याप्यनुमेने तद्वचनं लक्ष्मणेरितम् ॥    .... २२५
५७  रामः प्रसादयामास मातरं बहुधा तदा ।    .... २२७
 लक्ष्मणं चापि धर्मात्मा सान्त्वयामास राघवः ॥    .... २२९
५८  धृतिं पुत्रस्य विज्ञाय कौसल्या मूर्छिताऽभवत् ।    .... २३१
 तथाऽवस्थां तु तां दृष्ट्वा रामोऽप्युद्वेजितोऽभवत् ॥    .... २३३
५९  अथापि बोधयामास मातरं धर्ममात्मवान् ।    .... २३५
   २२
 प्रसाद्य मातरं रामो लक्ष्मण त्वेवमब्रवीत् ॥    .... २३७
६०  निगृह्य शोकं, सौमित्रे ! धर्म एव स्थितो भव ।    .... २३९
 परलोकभयात् भीतो निर्भयोऽस्तु पिता मम ॥    .... २४१
६१  मत्प्रवासे त्वहं हेतुं नान्यं दैवात्समर्थये ।    .... २४३
 कश्च दैवेन, सौमित्रे ! योद्धुमुत्सहते पुमान् ॥    .... २४५
६२  अतः, लक्ष्मण ! दुःखं मा कार्षीः लक्ष्म्या विपर्यये ।    .... २४७
   २३
 इति ब्रुवति रामे तु लक्ष्मणः पुनरब्रवीत् ॥    .... २४९
६३  किं नाम कृपणं दैवं, राम ! त्वममिशंससि ।    .... २५१
 विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ॥    .... २५३
६४  वीराः संभवितात्मानो न दैवं पर्युपासते ।    .... २५५
 अहमद्यैव तद्दैवं पौरुषेण निवर्तये ॥    .... २५७
६५  राज्यं च तव रक्षेयं वारयेयं तथा रिपून् ।    .... २५९
 इति ब्रुवन्तं सौमित्रिं सान्त्वयामास राघवः ॥    .... २६१
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
२४  कौसल्यासमाश्वासः  ....    .... २६२
२५  कौसल्यास्वस्त्ययनम्  ....    .... २७०
२६  सीताप्रतिबोधनम्  ....    .... २७७
२७  सीताऽनुगमनप्रार्थना  ....    .... २८६

श्लोखसङ्ख्या    अवान्तरविषयाः
   २४
६६  अथानुगन्तुमिच्छन्तीं कौसल्यां राघवोऽब्रवीत् ।    .... २६३
 सर्वैरपि परित्यक्तो जीविष्यति कथं नृपः ॥    .... २६५
६७  शुश्रूष त्वमिह स्थित्वा भर्तारं भृशदुःखितम् ।    .... २६७
 अन्ततस्त्वनुमेने तं सान्त्विता बहुधा तु सा ॥    .... २६९
   २५
६८  निगृह्य शोकं, रामाय चक्रे स्वस्त्ययनं च सा ।    .... २७१
 देवताः प्रार्थयामास राघवं रक्षितुं वने ॥    .... २७३
६९  आनम्य मूर्ध्नि चाघ्राय मङ्गलान्याशशस सा ।    .... २७५
   २६
 ततः प्रतस्थे सीताया निलयं रघुनन्दनः ॥    .... २७७
७०  दृष्ट्वा सीतां शुचं सोढुं न शशाक रघूद्वहः।    .... २७९
 विवर्णवदनं रामं दृष्ट्वा सीताऽपि विव्यथे ॥    .... २८१
७१  रामोऽप्युवाच तस्यै स्ववनवासं यथाक्रमम् ।    .... २८३
 गच्छाम्यहं, वसेह त्वं सुखेनेत्यवदत्स ताम् ॥    .... २८५
   २७
७२  एवमुक्ता तु वैदेही भर्तारमिदमब्रवीत् ।    .... २८७
 किमिदं भाषसे, राम ! भवानेको हि मे गतिः ॥    .... २८९
७३  स्वर्गेऽपि च न काङ्क्षेऽहं वासं, राम ! त्वया विना ।    .... २९१
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
२८  वनवासदुःखप्रतिबोधनम्  ....    .... २९३
२९  सीतादृढाध्यवसायः  ....    .... २९९
३०  सीतावनानुगमनाभ्यनुज्ञा  ....    .... ३०४
३१  लक्ष्मणवनानुगमनाभ्यनुज्ञा  ....    .... ३१५

श्लोखसङ्ख्या    अवान्तरविषयाः
   २८
 एवं ब्रुवन्तीमपि तां नैच्छन्नेतुं स राघवः ॥    .... २९३
७४  बोधयामास विविधान् वनवासश्रमानसौ ।    .... २९५
१४  कथं सहेत दुःखानि वने सीतेत्यमन्यत ॥    .... २९७
   २९
७५  पुनरश्रुमुखी सीता रामं वचनमब्रवीत् ।    .... २९९
 त्वया युक्ता न लक्ष्येऽहं दुःखानि विविधान्यपि ॥    .... ३०१
७६  त्वया वियुक्ता नेच्छामि जीवितुं क्षणमप्यहम् ।    .... ३०३
   ३०
 कुतो वा त्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥    .... ३०५
७७  एवं सा शोकसन्तप्ता रुरोद जनकात्मजा ।    .... ३०७
 तां परिष्वज्य बाहुभ्यां राघवः पर्यसान्त्वयत् ॥    .... ३०९
७८  ततोऽनुमेने त्वागन्तुं वनं स्वेनैव राघवः ।    .... ३११
१८  सीताऽपि भृशसन्तुष्टा बभूव गमनोत्सुका ।    .... ३१३
   ३१
७९  तदेच्छलक्ष्मणोऽप्येवमनुगन्तुं रघूद्वहम् ।    .... ३१५
 बहुधा प्रार्थयामास रामं रामानुजस्तदा ॥    .... ३१७
८०  अङ्गीचकार सौमित्रेः प्रार्थनां रघुनन्दनः ।    .... ३१९
 आदिदेशाथ सौमित्रिं सुयज्ञानयनाय सः ॥    .... ३२१
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
३२  यात्रादानम्  ....    .... ३२३
३३  पौरवाक्यम्  ....    .... ३३५
३४  दशरथसमाश्वासनम्  ....    .... ३४०
३५  कैकेयीगर्हणम्  ....    .... ३५२

श्लोकसङ्ख्या  अवान्तरविषयाः    
   ३२
८१  समानयत् सुयज्ञं च वासिष्टं लक्ष्मणस्तथा ।    .... ३२३
 तस्मै ददौ तदा रामो धनधान्यादिकं बहु ॥    ....३२५
८२  एवमेवेतरेभ्योऽपि पात्रेभ्यः प्रददौ धनम् ।    .... ३२७
 स्वोपजीविजनेभ्योऽपि ददौ रामो धनं बहु ॥    ....३२९
८३  त्रिजटाख्याय विप्राय गोसहस्रं तदा ददौ ।    .... ३३१
 सर्वान् संमानयामास यथार्हं राघवस्तदा ॥    .... ३३४
   ३३
८४  ततस्तातं ययौ रामः सीतया लक्ष्मणेन च ।    .... ३३५
 स्थ्यायां गच्छततांस्तु पौरा दीना व्यलोकयन् ॥    .... ३३७
८५  कैकेयीं गर्हयामासुः संतप्ता बहुधा जनाः ।    ....३३९
   ३४
 ससीतालक्ष्मणो रामः पितुर्गेहमथाविशत् ॥    ....३४१
८६  तान् दृष्ट्वा नृपतिर्दुःखात् पपात भुवि मूर्छितः ।    .... ३४३
 सान्त्वयामास रामस्तु पितरं धर्मवत्सलः ॥    .... ३४५
८७  लब्धसंज्ञं ततस्तातं रामो वचनमब्रवीत् ।    .... ३४७
 प्रस्थितान्नो वनं, राजन् ! अनुजानीहि मा चिरम् ॥    .... ३४९
८८  हाहाकारस्तदा तत्र दारुणः समजायत ।    .... ३५१
   ३५
 ततः सुमन्त्रः कैकेयीं गर्हयामास दुःखितः ॥    ....३५३
८९  न युक्तं, देवि ! रामस्य गुणिनो विप्रवासनम् ।    .... ३५५
 मा गच्छ मातुस्ते मार्गे साधुलोकविनिन्दिते ॥    .... ३५७
९०  परिवादो हि ते, देवि ! महान् लोके चरिष्यति ।    .... ३४९
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
३६  सिद्धार्थवचनम्  ....    .... ३६०
३७  वसिष्ठाक्रोशः  ....    .... ३६७
३८  दशरथाक्रोशः  ....    .... ३७५
३९  वनगमनाऽऽपृच्छा  ....    .... ३८०

श्लोकसङ्ख्या  अवान्तरविषयाः    
   ३६
 एवमुक्ताऽपि कैकेयी न चचाल स्वनिश्चयात् ॥    ....३६१
९१  भूयो निर्बन्धयामास राजानं क्रोधमूर्छिता ।    ....३६३
 सिद्धार्थेनापि सा प्रोक्ता न चचाल स्वनिश्चयात् ॥    .... ३६५
   ३७
९२  रामस्तु त्वरयामास वनवासाय निश्चितः ।    .... ३३७
 कैकेयीं प्रार्थयामास कुशचीरे च राघवः ॥    .... ३६९
९३  कैकेयी चापि निर्लज्जा तेभ्यश्चीराण्युपाददे ।    ....३७१
 वसिष्टस्तु तदा क्रुद्धो गर्हयामास कैकयीम् ॥    .... ३७३
   ३८
९४  विललाप जनस्सर्वः दृष्ट्वा तान् चीरवाससः ।    ....३७५
 राजानं निन्दयामासुः जना बहुविधं तदा ॥    .... ३७७
९५  कौसल्यां वीक्षयस्वेति रामो राजानमब्रवीत् ।    .... ३७९
   ३९
 सुमन्त्रस्त्वानयामास रथं राजाज्ञया तदा ॥    .... ३८१
९६  कौसल्या प्रशशंसाथ सीतां रामानुगामिनीम् ।    .... ३८३
 सीताऽपि सान्त्वयामास कौसल्यां धीरया गिरा ॥    .... ३८५
९७  आपृच्छन्मातरः सर्वाः रामः संप्रस्थितो वनम् ।    .... ३८७
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
४०  वनप्रस्थानम्  ....    .... ३८९
४१  पौरव्यसनम्  ....    .... ४००
४२  दशरथाक्रन्दः  ....    .... ४०५
४३  कौसल्यापरिदेवनम्  ....    .... ४२३

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ४०
 कृत्वा प्रदक्षिणं तातं प्रतस्थुस्ते त्रयो वनम् ॥    ....३८९
९८  आरुरोह रथं सीता प्रथमं हृष्टमानसा ।    ....३९१
 ततस्तु तं रथं रामोऽप्यारुरोह सलक्ष्मणः ॥    .... ३९३
९९  ततस्सबालवृद्धा सा नगरी मूर्छिताऽभवत् ।    ....३९५
 पौराः सर्वेऽनुजग्मुस्ते रामं संप्रस्थितं वनम् ॥    .... ३९७
१००  स्मरन् हितं तु रामस्य राजा कृच्छ्रान्नयवर्तत ।    .... ३९९
   ४१
 आर्तशब्दो महान् जज्ञे रामे प्रव्रजिते वनम् ॥    .... ४०१
१०१  आहारे वा विहारे वा न कश्चिदकरोन्मनः ।    .... ४०३
   ४२
 राजा तु पुत्रशोकार्तः पपात भुवि मूर्छितः ॥    ....४०५
१०२  तं तु रेणुपरीताङ्गं उत्थाप्यासान्त्वयन् परे ।    .... ४०७
 विलपन् बहुधा राजा प्रविवेश स्वपत्तनम् ॥    ....४०९
१०३  रुदन् दशरथो दीनः कौसल्याया गृहं ययौ ।    .... ४११
   ४३
 कौसल्या पुत्रशोकार्ता विललाप भृशं तदा ॥    ....४१३
१०४  स्मारंस्मारं प्रियं पुत्रं दुःखस्यान्तं ययौ न सा ।    .... ४१५
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
४४  सुमित्राश्वासनम्  ....    .... ४१३
४५  पौरयाचनम्  ....    .... ४२४
४६  पौरमोहनम्  ....    .... ४३३
४७  पौरनिवृत्तिः  ....    .... ४४१

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ४४
 विलपन्तीं तथा तां तु सुमित्रा वाक्यमब्रवीत् ॥    ....४१७
१०५  न शोच्यो रामचन्द्रस्ते धर्मात्मा सत्यसङ्गरः ।    ....४१९
 देवानामपि देवो यः स तु शोच्यः कथं तव ॥    .... ४२१
१०६  इत्यादि तद्वचः श्रुत्वा कौसल्या निर्वृतिं ययौ ।    ....४२३
   ४५
 वनं व्रजन्तं तं रामं अन्वगच्छंस्तु नागराः ॥    .... ४२५
१०७  प्रीत्या तु रामं ते सर्वे प्रत्यागन्तुं ययाचिरे    .... ४२७
 रामस्तु तान् पुरं गन्तुं अवदत् स्निग्धया गिरा ॥    .... ४२९
१०८  एवं पौरैर्वृतो रामः तमसातीरमाययौ ।    .... ४३१
   ४६
 तत्र तां न्यवसन् रात्रिं सर्वे ते तमसातटे ॥    ....४३३
१०९  ऐच्छत् सौमित्रिसीताभ्यां गन्तुं रहसि राघवः ।    .... ४३५
 सज्जीकृत्य रथं शीघ्रं प्रतस्थुस्त रहस्तदा ॥    ....४३७
११०  अतिसन्धाय तान् रामः ताभ्यां दूरं ययौ द्रुतम् ॥    .... ४३९
   ४७
 प्रभावायां तु शर्वर्यां नापश्यन् राघवं जनाः ॥    ....४४१
१०४  निन्दन्तो बहुधाऽऽत्मानः दीनाः प्रत्यागमन् पुरीम् ।    .... ४४३
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
४८  पौरविलापः  ....    .... ४४५
४९  जानपदाकोशः  ....    .... ४५२
५०  गुहसङ्गमः  ....    .... ४५६
५१  लक्ष्मणसन्तापः  ....    .... ४६६

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ४८
 पुरीं प्राप्य भृशार्तास्ते विलेपुर्बहुधा जनाः ॥    ....४४५
११२  चिन्तयन्तः सदा रामं तत्कथा एव शंसिरे ।    ....४४७
 कैकेयीं बहुधा सर्वे ते निनिन्दुः तदाग्रहात् ॥    .... ४४९
११३  तादृशैर्नागरैर्व्याप्ता साऽयोध्या न बभौ शुभा।    ....४५१
   ४९
 रामोऽपि रात्रिशेषेण बहुदूरं समत्ययात् ॥    .... ४५३
११४  पश्यन् ग्रामाननेकान् सः स्वराज्यान्तं समाययौ ।    .... ४५५
   ५०
 अतीत्य कोसलान् रामः दक्षिणाभिमुखो ययौ ॥    ....४५७
११५  एवं गच्छन् स रामस्तु प्राप गङ्गां सरिद्वराम् ।    .... ४३५
 स तत्रस्थेङ्गुदीवृक्षमूले विंश्रान्तिमन्वभूत् ॥    ....४६१
११६  तज्ज्ञात्वा तत्र निवसन् गुहो रामं समागमत् ।    .... ४६३
 तद्रात्रौ राघवः शिश्ये भूमौ तत्रैव सीतया ॥    ....४६५
   ५१
 तद्वीक्ष्य लक्ष्मणः सोढुं नाशकत् भ्रातृसङ्कटम् ।    ....४६७
११७  सर्वं तच्चिन्तयन् नैव प्राप निद्रां स लक्ष्मणः ॥    .... ४६९
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
५२  गङ्गातरणम्  ....    .... ४७१
५३  रामसन्तापः  ....    .... ४५२
५४  भरद्वाजदर्शनम्  ....    .... ५०१

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ५२
११८  ततः प्रातः गुहो नावं गङ्गां तर्तुमुपाहरत् ॥    ....४७१
 सुमन्त्रमवदत् रामः गच्छ शीघ्रं पुरीमिति ॥    ....४७३
११९  एवमुक्तः स रामेण दुःखार्तो रुरुदे चिरम् ।    .... ४८५
 रामस्तु सान्त्वयामास तं सुमन्त्रं नयोक्तिभिः ॥    ....४७७
१२०  स तु रामं परित्यज्य नैच्छत् गन्तुं स्वयं पुरीम् ।    ....४७९
 किन्तु स स्वानुगमनं प्रार्थयामास राघवम् ॥    ....४८१
१२१  रामस्तु हेतुमद्वाक्यैः सुमन्त्रं तं न्यवर्तयत् ।    .... ४८३
 अथ रामो जटाश्चक्रे लक्ष्मणोऽपि वनोचिताः ॥    ....४८५
१२२  ते तु तेरुस्ततो गङ्गां नावा गुहसहायतः ।    .... ४८७
 गङ्गाया दक्षिणं तीरं प्राप्य ते विविशुर्वनम् ॥    ....४८९
१२३  तद्रात्रिं तत्र वृक्षस्य मूले ते न्यवसंस्त्रयः ।    .... ४९१
   ५३
 पितरं दुर्गतं स्मृत्वाऽशोचद्रामस्तदा भृशम् ॥    .... ४९३
१२४  मातरं च स्मरन् रामः मुमोचाश्रूणि दुःखितः ।    .... ४९५
 तं यथार्हवचोभिस्तु सान्त्वयामास लक्ष्मण ॥    .... ४९७
१२५  दृष्ट्वा धैर्यं लक्ष्मणस्य रामः प्राप परां धृतिम् ।    ....४९९
   ५४
 तु प्रातः समुत्थाय भरद्वाजाश्रमं ययुः ॥    ....५०१
१२६  भरद्वाजं महात्मानं ते त्रयोऽप्यभ्यवादयन् ।    .... ५०३
 अतिथीनार्चयत् प्रीत्या भरद्वाजो महातपाः ॥    ....५०५
१२७  चित्रकूटगिरौ वासं ऐच्छत्तेषां महामुनिः ।    .... ५०७
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
५५  यमुनातरणम्  ....    .... ५०९
५६  चित्रकूटनिवासः  ....    .... ५१५

श्लोकसङ्ख्या   अवान्तरविषयाः    
   ५५
 ततः प्रातः प्रतस्थुस्ते चित्रकूटगिरिं प्रति ॥    ....५०९
१२८  संप्राप्य यमुनां ते तु प्लवेन प्रातरन्नदीम् ।    ....५११
 तद्रात्रिं यमुनातीरवने ते न्यवसंस्त्रयः ॥    .... ५१३
   ५६
१२९  प्रस्थिताः प्रातरुत्थाय चित्रकूटगिरिं ययुः    .... ५१५
 चित्रकूटेऽकरोद्रम्यां पर्णशालां तु लक्ष्मणः ॥    .... ५१७
१३०  तत्र ते न्यवसन् हृष्टाः क्रीडन्तः सुसुखं गिरौ ।    .... ५१९





श्रीमद्वाल्मीकिरामायणम्

अमृतकतकव्याख्यासहितम्





अयोध्याकाण्डः १

॥ श्रीः ॥
॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥


श्रीमद्वाल्मीकिरामायणम्
श्रीमन्माधवयोगिविरचितया
अमृतकतकाख्यव्याख्यया युतम्




अयोध्याकाण्डः
प्रथमः सर्गः
[रामाभिषेकचिन्तनम्]

 गच्छता मातुलकुलं भरतेन [२८] तदाऽनघः ।
 शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ १ ॥

अमृतकतकव्याख्या

 एवं प्रथमकाण्डेन रामप्रसूतिसीतावरणान्ताक्षरार्थकमहाषोढाप्रथमपादार्थरामचरितविस्तारो वर्णितः । अथेदानीं द्वितीयकाण्डेन महाषोढाद्वितीयपादप्रथमाद्यक्षरार्थरामाभिषेकप्रतिबन्धादितद्वनवासान्तव्यापारः प्रतिपाद्यते । तत्राद्येन 'ज्येष्ठं श्रेष्ठगुणैर्युक्तं' 'यौवराज्येन संयोक्तुमैच्छत्' इति संक्षेपोपदिष्टा राजाभिषेकार्हगुणाः प्रतिपाद्यन्ते-गच्छतेत्यादि ।


 मातुलकुलं-मातुलकुलीयराज्यं । नित्यशत्रवः-कामादयः, तान् हन्तीति तथा । एतेन सकलसद्गुणसंपूर्तिरशत्रुघ्नस्योपदिष्टा । प्रीत्या-भरते नित्यनिसर्गप्रवृत्तया पुरस्कृतः । एतेन भरतादिनिर्बन्धतो गमनशङ्का वारिता ॥ १ ॥

 स तत्र न्यवसत् भ्रात्रा सह सत्कारसत्कृतः ।
 मातुलेनाश्वपतिना[२९] पुत्रस्नेहेन [३०]लालितः ॥ २ ॥

 स तत्रेति । भरतो मातुलकुल इत्यर्थः । विशिष्टवस्त्राभरण-भोजनादिरूपेण सत्कारेण सत्कृतः । पुत्रादप्यधिकस्स्नेहः-पुत्रस्नेहः ॥

 [३१]तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
 भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ३ ॥

 तर्प्यमाणौ-कृन्नकारत्वात् 'कृत्यचः' इति णत्वम् । कामः-प्रागुक्तविषयविशेषः । स्मरतां-अस्मरतां । दशरथमिति । 'अधीगर्थ' इति षष्ठ्यभावः शेषविवक्षाभावात् ॥ ३ ॥

 राजाऽपि तौ [३२]महातेजाः सस्मार प्रोषितौ सुतौ ।
 उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ४ ॥
 सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।
 स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥ ५ ॥
 विनिर्वृत्ताः-उत्पन्नाः । चत्वार इव बाहव इति अभूतोपमा ॥


 तेषामपि महातेजा रामो रतिकरः पितुः ।
 स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ ६ ॥

 स्वयंभूरित्यादिः [३३]पूर्वसर्गे व्याकृतचरः ॥ ६ ॥

 स हि देवै[३४]रुदीर्णस्य रावणस्य वधार्थिभिः ।
 अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ७ ॥

 गुणवत्तरत्वे हेतुः–स हीत्यादि । हि यस्मात् रामः स्वयम्भूरेव सन् देवप्रार्थनया रावणवधाय मानुषे लोके तदवतारोचितनिजवैराज विष्णूपाधिना जज्ञे-अवतीर्णः अस्मादेव सकलकल्याणगुणकार्त्स्न्यम् ॥

 कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
 [३५]यथा वरेण देवानां अदितिर्वज्रपाणिना ॥ ८ ॥
 स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
 भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥ ९ ॥

 सूनुरिति । कौसल्याया इति शेषः ॥ ९ ॥

 [३६]स तु नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।
 उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १० ॥

 मृदुपूर्वं-मृदूक्तिपूर्वम् ॥ १० ॥


 [३७]कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ।
 न स्मरत्यपकाराणां [३८]शतमप्यात्मवत्तया ॥ ११ ॥
 शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैव सज्जनैः ।
 कथयन्नास्त वै [३९]नित्यमस्त्रयोग्यान्तरेष्वपि ॥ १२ ॥

 शीलं-सुचरितं, ज्ञानं-आत्मानात्मवस्तुतत्त्वज्ञानं । अस्त्रयोग्यान्तरेषु-अस्त्रशस्त्रपरिश्रमयोग्यकालेष्वपि यदन्तरं तत्रापि तत्परिश्रममध्येष्वपि सज्जनैरेव कथयन्नास्ते । अन्यदा कैमुतिकसिद्धं सज्जनैकनित्यसम्भाषणम् ॥ १२ ॥

 बुद्धिमान् मधुराभाषी [४०]पूर्वभाषी प्रियंवदः ।
 वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥ १३ ॥

 मधुरं आभाषितुं शीलमस्त्यस्येति तथा । न च विस्मितः-अप्राप्तगर्वः ॥ १३ ॥

 [४१]नचानृतकथो विद्वान् वृद्धानां [४२]प्रतिपूजकः ।
 अनुरक्तः प्रजाभिश्व प्रजाश्चाप्यनु[४३]रज्यते ॥ १४ ॥

 अनृतस्य कथा-कथनं यस्य स तथा । प्रजाभिरनुरक्तः प्राप्तानुरागः । प्रजाश्च स्वयमपि अनुरज्यते-अनुरञ्जते अनुरञ्जयतीति यावत् । रञ्जेश्यन्युपधालोपः ॥ १४ ॥


 सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
 दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ १५ ॥

 अनुक्रोशः-दया, दुःखिप्राणिषु । ब्राह्मणप्रतिपूजक इत्यादौ याजकादित्वात् षष्ठीसमासः । प्रग्रहवान्-इन्द्रियनिग्रहवान्; 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे' ॥ १५ ॥

 [४४]कुलोचितमतिः क्षात्त्रं धर्मं स्वं बहुमन्यते ।
 [४५]मन्यते परया [४६]कीर्त्या महत्स्वर्गफलं ततः ॥ १६ ॥

 कुलोचितमतिः, अत एव क्षात्रं धर्मं बहुमन्यते । न च केवलमभिमानमात्रं, अपि तु ततः पुरुषार्थसिद्धेरेवेत्याह-मन्यत इत्यादि । क्षत्त्रस्य मुख्यधर्मभूतया प्रजासु पितृवत् कृपया सर्वशत्रु-संहारजकीर्त्या च ततः-तस्मात् क्षत्रियधर्मात् यतो महत्स्वर्गफलं अतो बहुमन्यते । यद्यपि ब्राह्मो धर्म एवापवर्गसाक्षात्साधनत्वेन महान् ; अथापि क्षत्रियस्य स्वधर्म एव बहुमन्तव्यः । 'श्रेयान् स्वधर्मो विगुणः' इत्यादेः ॥ १६ ॥

 [४७]नाश्रेयसि रतो [४८]यश्चन विरुद्धकथारुचिः |
 उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ १७ ॥

 यश्चन-यः कश्चन पुमान् विरुद्धकथारुचिः-धर्मविरुद्ध कथारुचिर्भवति, तस्मिन्नश्रेयसि-अश्रेयस्करे न रतो भवति । वक्तेति । वादजल्पवितण्डादिष्विति शेषः ॥ १७ ॥


 अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
 [४९]लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ॥ १८ ॥

 वपुष्मान् 'विपुलांसो महाबाहुः' इत्याद्युक्तलक्षणवपुर्विशेषवान् । पुरुषाणां-ब्राह्मणादीनां सारं-स्वजातिवर्णाश्रमनित्यधर्मदृढप्रतिष्ठा नरूपं जानातीति तथा । इदमवश्यापेक्षितं राज्ञो निग्रहानुग्रहाय । एवं स एक एव रामो लोके सर्वगुणैः साधुः-भद्र उपपन्नो विनिर्मितः, ब्रह्मणा स्वांशोपादानेन ॥ ॥ १८ ॥

 स तु श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
 बहिश्चर इव प्राणो बभूव [५०]गुणतः प्रियः ॥ १९ ॥

 एवमुक्तरूपैः श्रेष्ठगुणैर्युक्तत्वस्योपदेशस्सकृज्जातः । अतः परमपि तद्युक्तत्वं द्विरुपदिश्यते । एवं त्रिरुपदेशः, 'त्रिषत्या हि देवाः' इति न्यायेन वास्तवत्वबोधनाय । अत एव पौनरुक्त्यमशङ्क्यम् ॥

 [५१]सर्वविद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
 इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥ २० ॥

 सर्वविद्येत्यादि । तत्तद्विद्यापेक्षित- ब्रह्मचर्यव्रतानन्तरमेव स्नातः-कृतसमावर्तनः । अत एव-यथावदित्यादि ॥ २० ॥

 कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।
 [५२]वृद्धैरभिविनीतश्च, द्विजैर्धर्मार्थदर्शिभिः ॥ २१ ॥

 कल्याणः-शुभः-अभिजनः-मातृपितृवंशो यस्य स तथा । दर्शिभिरिति । समेत इति शेषः ॥ २१ ॥


 धर्मकामार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान् ।
 [५३]लौकिके समयाचारे कृतकल्पो विशारदः ॥ २२ ॥

 स्मृतिप्रतिभानाद्याः संक्षेपेण व्याकृतचराः । लौकिके कृतकल्पः-सम्पादितसामर्थ्यः । समयाचारः-धर्मः तत्र विशारदः ॥

 निभृतः संवृताकारो [५४][५५]गुप्तमित्रैः सहायवान् ।
 अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २३ ॥

 निभृतः-विनीतः, 'वश्यः प्रणेयो निभृतविनीतप्रश्रितास्समाः । संवृताकारः—संवृतेङ्गितः। गुप्तैः-आपद्दशारक्षितैः मित्रैः सम्पन्नः-सहायवान् । त्यागसंयमकालविदिति । वित्तादेरिति शेषः ॥ २३ ॥

 दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
 निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २४ ॥

 दृढं यथातथा भक्तिः-भजनं गुर्वादेर्यस्य स तथा । दृढशब्दस्य [५६]प्रियादित्वात् स्त्रीलिङ्गविवक्षायां पुंवद्भावाभावात् रूपं न सिध्यति । निस्तन्द्रिरिति । औणादिकेकारान्ततो स्त्रीप्रत्ययान्तत्वात् ह्रस्वः । सुश्रीसुधीशब्दादिवत् । [५७]स्वीयानां दोषः स्वदोषः ॥ २४ ॥

 शास्त्रज्ञश्च [५८].कृतज्ञश्च पुरुषान्तरकोविदः ।
 यः प्रग्रहानुग्रहयोः यथान्यायं विचक्षणः ॥ २५ ॥


 पुरुषाणामन्तरे-तारतम्यं तद्विवेके कोविदः । यथान्यायं यथोचितं कर्तुं विचक्षणः स तथा ॥ २५ ॥

 [५९]सत्संग्र[६०]हप्रग्रहणे स्थानविन्निग्रहस्य च ।
 आयकर्मण्युपायज्ञः [६१][६२]संदृष्टव्ययकर्मवित् ॥ २६ ॥

 उक्तार्थस्यैव विवरणम्-सदित्यादि । सतां संग्रहपूर्वं संगमन-पूर्वं प्रकर्षेण दृढतया परिग्रहणं तत्कुटुम्बयात्रानिर्वाहादिना रक्षणं, तथा निग्रहस्य च करणे विचक्षण इत्यनुकर्षः । आयकर्मणि-करग्रहणकर्मणि । सन्दृष्टधनानुरोधेन व्ययकर्मकृत्-'यदायान्नाधिको व्ययः' इति धर्मः ॥ २६ ॥

 श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
 अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥ २७ ॥

 व्यामिश्रकेषु–प्राकृतसंस्कृतमिश्रितनाटकादिषु । अर्थधर्मो च संगृह्य तदविरोधेनैव सुखतन्त्रः; 'तन्त्रं प्रधाने सिद्धान्ते' ॥

 वैहारिकाणां शिल्पानां [६३]विज्ञाताऽर्थविभागवित् ।
 आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ २८ ॥

 वैहारिकाणां-क्रीडाप्रयोजनानाम्, 'तदस्य प्रयोजनम्' इति ठक् । शिल्पानि-गीतवादित्रादीनि । भरतशास्त्रप्रसिद्धस्यार्थस्य पदार्थतत्त्वस्य विभागवित्तया भरतशास्त्रचतुर इति यावत् । इदं प्रागुक्त-सुखतन्त्रत्वोपयुक्तविशेषणम् । विनयः-[६४]शिक्षा ॥ २८ ॥


 धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथ[६५]संमतः ।
 अभियाता प्रहर्ता च सेनानयविशारदः ।
 अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ॥ २९ ॥

 अभियाता । परसेनाया इति शेषः । तस्याः प्रहर्ता च । सेनानयः-स्वसेनाव्यूहनादिः ॥ २९ ॥

 [६६]अनसूयो जितक्रोधो न तो न च मत्सरी ।
 [६७]न चावमन्ता [६८]सिद्धानां [६९]न च कालवशानुगः ॥ ३० ॥

 सिद्धाः-देवभेदाः । न कालवशानुग इति । कालनियन्तुः श्रीमदादिगुवंशत्वेन प्राकृतवत्कालपरतन्त्रस्वदेहजरामृतिदुःखादिधर्म- रहितः–स्वायत्तस्वपरिकरसर्वयात्रः, भगवानिवेत्यर्थः ॥ ३० ॥

 एवं श्रेष्ठगुणैर्युक्तः [७०]प्रजानां पार्थिवात्मजः ।
 संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।
 बुद्धया बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ ॥
 तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ।
 गुणैर्विरुरुचे रामो[७१] दीप्तः सूर्य इवांशुभिः ॥ ३२ ॥

 अथ तृतीयपर्यायः-सम्मत इत्यादि । वसुधायाः क्षमादि-गुणैः हेतुभिः तुल्य इति । त्रिषु लोकेषु सम्मत इति योजना ।


तृतीयार्थपञ्चम्याश्रये पाङ्कोऽर्थः । युज्यते च स एव वक्ष्यमाणरीत्यनु रोधात् । कान्ताः-इष्टाः अत एव प्रीतिसञ्जननाश्च पितुः गुणाः तैरुपलक्षित इति शेषः ॥ ३१-३२ ॥

 [७२]तमेवं [७३]वृत्तसंपन्नं अप्रधृष्यपराक्रमम् ।
 लोक[७४]पालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥

 एवमभिषेकप्रयोजकं श्रेष्ठगुणवत्त्वमुपवर्ण्याभिषेकेच्छाप्रयत्नप्रतिपादनम्-तमेवमित्यादि । मेदिनी-भूदेवता, तद्वर्तिप्रजाजातं चेत्यर्थः ॥

 एतैस्तु बहुभिर्युक्तं गुणैरनुपमैस्सुतम् ।
 दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥ ३४ ॥
 अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।
 प्रीतिरेषा [७५]कथं रामो राजा स्यान्मयि जीवति ॥ ३५ ॥

 चिन्तां चक्र इत्यस्यैव प्रपञ्चनं-अथेत्यादि । कथं रामो राजा स्यात् ? तादृशस्य तस्य दर्शनजा एषा प्रीतिः अपि मे कथं स्यादित्येवं चिन्ता बभूवेत्यर्थः ॥ ३५ ॥

 एषा ह्यस्य परा प्रीतिर्हृदि [७६]संपरिवर्तते ।
 कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥


 उक्तचिंताया अनुवादपूर्वं तदौत्कट्यं प्रतिपाद्यते-एषेत्यादि । एतच्छब्दार्थः-कदा नामेत्यादि । कदा द्रक्ष्यामीत्येषा प्रीतिः- प्रीतिसंपत्तिविषयिणी चिन्ता परा-उत्कटा परिवर्तते स्मेति योजना ॥३६॥

 वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।
 मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३७ ॥

 लोके-लोकविषये ॥ ३७ ॥

 यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।
 महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३८ ॥
 महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ।
 अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ॥ ३९ ॥

 अनेन वयसेति । वृद्धशरीरेणेति यावत् । यथा-यथावत् अधितिष्ठन्तमित्यन्वयः। यथास्वर्ग-यथाकालप्राप्तं स्वर्गं अथावाप्नुयामिति चिन्ता बभूवेत्यनुकर्षः ॥ ३९ ॥

 इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः ।
 शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ ४० ॥
 तं तु वीक्ष्य महाराजो युक्तं समुदितैः शुभैः ।
 निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत ॥ ४१ ॥

 एवं चिन्तानन्तरं कर्तव्यनिश्चयो राज्ञः–एतैरित्यादि । प्रागुक्तैरित्यर्थः । शिष्टैः-विशिष्टैः लोके अन्यपार्थिवदुर्लभैः इत्यन्वयः । लोकोत्तरैर्गुणैर्युक्तं वीक्ष्य उक्तगुणानुवादपूर्वं कर्तव्यनिश्चयः-समुदितैरित्यादि । एवं समुदितैः–समस्तैः गुणैर्युक्तं निश्चित्य सचिवैः सार्धं यौवराज्यं दातुं-अभिषेकं कर्तुं अमन्यत-विचारितवानित्यर्थः ॥

 दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ।
 [७७]संचचक्षे च मेधावी शरीरे चात्मनो जराम् ॥ ४२ ॥
 [७८]पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ।
 लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ॥ ४३ ॥
 [७९]आत्मनश्च प्रजानां च [८०]श्रेयसे च प्रियेण च ।
 [८१]प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ॥ ४४ ॥

 अथ भरतशत्रुघ्नौ जनकादयश्चानेतव्या इति कालविळम्बकरान् मन्त्रिणस्त्वरितवान्; अथ त्वराहेतुं च तेभ्यः संचचक्षे-उक्तवानित्युच्यते-दिवीत्यादि । दिव्युत्पातः- उल्कापातादिः । अन्तरिक्षे उत्पाता–महावातदिग्दाहादयः । भूमौ भूकम्पनपर्वतशिरस्फोटादिः,पक्षिमृगशब्दगतिविशेषश्च । एवं उत्पातजं उत्पातसूचकं घोरं रामाभिषेकविघ्नशंकाजनितं [८२]भयं संचचक्षे-आख्यातवान् । नन्विदानीं विघ्ने, कालान्तरे भविष्यतीत्यत्रोच्यते-आत्मन इत्यादि । अहं षष्टिवर्षसहस्रं जीवनादतिजीर्णदेहः, अतः कालान्तरे मज्जीवनं सन्दिग्धम् । घोरोत्पाताः अभिषेकविघ्नसूचका दृश्यन्ते । यदेवमतः-पूर्णेत्यादि । शोकापनुदं । 'तुन्दशोकयोः' इत्यादिना कः, शोकापनुदं


रामस्य संप्रियत्वं-समेताभिषेकप्रीतिकत्वं कर्तव्यामिति । आत्मनः श्रेयसे प्रजानां श्रेयसे च प्रियेण प्राप्तकालेन स्वीयेन च बुबुधे-गुरुर्व्यत्ययात् ; चिन्तयामि । एवमुक्त्वा धर्मात्मा नृपो भक्त्या-रामगतस्नेहेन मन्त्रिणः त्वरितवान् ॥ ४२-४४ ॥

 नानानगरवास्तव्यान् पृथग्जानपदानपि ।
 समानिनाय [८३]मेदिन्याः प्रधानान् पृथिवीपतीन् ॥ ४५ ॥

 त्वरयित्वा च आसन्नान् नानानगरवास्तव्यादीन् समानिनाय-आनाययामास ॥ ४५ ॥

 [८४]तान् वेश्मनानाभरणैर्यथाहं प्रतिपूजितान् ।
 ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ॥ ४६ ॥
 न तु केकयराजानं जनकं वा नराधिपः ।
 त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ४७ ॥

 वेश्मनानाभरणैरिति । तद्दानैः इत्यर्थः । केकयादेरानयनाभावहेतुः -त्वरयेति ॥ ४६-४७ ॥

 अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ।
 ततः प्रविविशुः शेषा राजानो लोकसंमताः ॥ ४८ ॥

 शेषा इति । केकयजनकव्यतिरिक्ता आसन्ना इत्यर्थः ॥ ४८ ॥

 अथ राजवितीर्णेषु विविधेष्वासनेषु च ।
 राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ ४९ ॥

 [८५]नियताः-नियतदेशाधिपत्याः ॥ ४९ ॥


 स लब्धमानैर्विनयान्वितैर्नृपैः
  पुरालयैर्जानपदैश्च मानवैः ।
 उपोपविष्टैर्नृपतिर्वृतो बभौ
  सहस्रचक्षुर्भगवानिवामरैः ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे प्रथमः सर्गः


 उपोपविष्ठटैः–सभायां स्वसमीपोपविष्टैरित्यर्थः । सहस्रचक्षुः-इन्द्रः । नाम (५०) मानः सर्गः ॥ ५० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे प्रथमः सर्गः


द्वितीयः सर्गः
[परिषदनुमोदनम्]

 ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
 हितमुद्धर्षणं चैवमुवाच [८६]प्रथितं वचः॥ १ ॥

 अथ राज्याभिषेकस्य सकलसामन्तोपेतसर्वप्रजार्थत्वात् सर्वानुमतिं संपादयति दशरथः-तत इत्यादि । आमन्त्र्य-अभिमुखीकृत्य । हितं अत एव उद्धर्षणं उत्कटहर्षजनकम् ॥ १ ॥

 दुन्दुभिस्वनकल्पेन गंभीरेणानुनादिना ।
 स्वरेण महता राजा जीमूत इव नादयन् ॥ २ ॥


 राजलक्षणयुक्तेन कान्तेनानुपमेन च ।
 उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ ३ ॥

 दुन्दुभिस्वनेत्यादिकं सन्तोषातियशयमूलम् । अनुनादः प्रतिध्वनिः । नादयन्-दिश इति शेषः । राजलक्षणं-प्राभवान्मितभाषणादिः ॥ ३ ॥

 विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
 पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥ ४॥

 पालितमित्येतद्विदितमिति योजना ॥ ४ ॥

 सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।
 श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ ५ ॥

 श्रेयसा-राज्योचितसुतराजाभिषेकलक्षणेन ॥ ५ ॥

 मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।
प्रजा नित्य[८७]मानद्रेण यथाशक्त्यभिरक्षिताः ॥ ६ ॥

 पूर्वे-मन्वादयः । यथाशक्तीत्यनेन विनयप्रदर्शनम् ॥ ६ ॥

 इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
 पाण्डुरस्यातपत्रस्य छायायां जरितं मया ॥ ७ ॥

 छायायां स्थित्वा इदं शरीरं जरितं-प्रापितजरं कृतमिति योजनार्थः । 'जनीजृृष्' इत्यादिना मितो जरयतेर्निष्ठा ॥ ॥

 प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ।
 जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ८ ॥

 विश्रांतिः–प्रजाचिन्ताराहित्यरूपिणी ॥ ८ ॥


 राजप्रभावजुष्टां हि दुर्वहमिजितेन्द्रियैः ।
 परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ ९ ॥

 राजप्रभावाश्शौर्यादि[८८]सप्तधर्माः, तद्युक्तैरेव जुष्टां-सेवार्हां । वहन्निति; हेतौ शता ॥ ९ ॥

 सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
 सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥ १० ॥

 अनुमान्य-कृतानुमतिकान् कृत्वा । मानयतेर्ण्यन्ताल्ल्यप् ॥ १० ॥

 अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
 पुरंदरसमो वीर्ये रामः परपुरंजयः ॥ ११ ॥

 राज्यार्हतां दर्शयति-अन्वित्यादि । 'अनुर्लक्षणे' इति कर्मप्रवचनीये तद्योगात् मामिति द्वितीया । मद्गुणान् सर्वाननुप्राप्य जात इत्यर्थः । तदेव प्रकाश्यते-पुरन्दरेत्यादि ॥ ११ ॥

 [८९]तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
 [९०]यौवराज्येन योक्ताऽस्मि[९१]प्रीतः पुरुषपुङ्गवम् ॥ १२ ॥

 चन्द्रं पुष्येणेव यौवराज्येन-तत्पदेन योक्ताऽस्मि; लुट् ॥ १२ ॥

 अनुरूपः स [९२]वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
 त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ १३ ॥


 स वै अनुरूपो नाथः, अस्मद्राज्यस्येति शेषः ; न केवलमेतावत्, अपि तु-त्रैलोक्यमपीत्यादि । येनेति । प्रसिद्धेनेति यावत् ॥

 [९३]अनेन श्रेयसा सद्यः [९४]संयोज्यैवमिमां महीम् ।
 गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ १४ ॥

 श्रेयसाऽनेन-ईयसुनि 'प्रशस्यस्य श्रः' इति श्रादेशः, प्रशस्तेनानेन रामेणेत्यर्थः । महीं संयोज्य गतक्लेशः ॥ १४ ॥

 [९५]यदीदं मेऽनुरूपार्थं मया साधु [९६]नियन्त्रितम् ।
 [९७]भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ १५ ॥

 यदीत्यादि । मया यन्नियन्त्रितं-नियमितं मद्विषयकरूपं कार्यं तद्यदि साधु भवतां अनुरूपार्थं-अनुकूलप्रयोजनावहं च तदा भवन्तो मे इदमनुमन्यन्ताम् । कुतोऽस्मदनुमतिर्महाराजस्य तवेत्यतः-कथमित्यादि । [९८]अहं कथं करवाणि ? विना युष्माकमनुमतिमिति शेषः ॥

 यद्यप्येषा मम प्रीतिः, हितमन्यद्विचिन्त्यताम् ।
 अन्या मध्यस्थचिन्ता हि विमर्दास्यधिकोदया ॥ १६ ॥

 ननु त्वदभ्यधिकः कः हिताहितविचारसमर्थः ? इत्यत्राह-यद्यपीत्यादि । एषा चिन्ता यद्यपि मम प्रीतिः-प्रीतिमात्र विजृम्भिता, अथापि वास्तवं अन्यत्-अन्यादृशं हितं अस्ति चेत् तत् विचिन्त्यताम् । ननु कथमभ्यधिकदर्शनशङ्केत्यतः–अन्येत्यादि । मध्यस्थाः-रागरोष-वियुक्ताः तत्त्वचिन्तकाः; तेषां चिन्ता, अन्या तु-अन्यादृश्येव ।


कुत इत्यतः-विमर्देति । पूर्वापरपक्षसङ्घर्षणवत्त्वेन हेतुना अभ्यधिकोदया-अधिकार्थप्रादुर्भाववती ॥ १६ ॥

 इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् [९९]नृपा नृपम् ।
 वृष्टिमन्तं महामेघं [१००]नर्दन्त इव बर्हिणः ॥ १७ ॥

महामेघमिति । दृष्ट्वेति शेषः ॥ १७ ॥

 [१०१]स्निग्धोऽनुनादी संजज्ञे तत्र हर्षसमीरितः ।
 [१०२]जनोद्धुष्टेन सन्नादो मेदिनीं कम्पयन्निव ॥ १८ ॥

 स्निग्धः-हर्षस्वनः सामन्तकृतो जज्ञे आस्थान्याम् । बहिस्तु जनोद्धुष्टेन सन्-सम्भवन्नादः महीं कम्पयन्निव जज्ञे ॥ १८ ॥

 तस्य [१०३]धर्मत उत्पन्नं भावमाज्ञाय सर्वशः ।
 ब्राह्मणा [१०४]बलमुख्याश्च पौरजानपदैः सह ॥ १९ ॥

 धर्मत उत्पन्नं भावं-अभिप्रायं बलं-चतुरङ्गबलं, ब्राह्मणविशेषणत्वे बलं-तपोबलं । चकारान्नृपाश्च, तेषां प्रागुक्तरूपो बलशब्दार्थः ॥ १९ ॥

 समेत्य मन्त्रयित्वा तु [१०५]समतां गतबुद्धयः ।
 ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं [१०६]नृपम् ॥ २० ॥

 गतबुद्ध्य इति गमकत्वात् समासः । ज्ञात्वा-पुनः पुनः पर्यालोच्येत्यर्थः ॥ २० ॥


 अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ! ।
 स राजं युवराजानं अभिषिञ्चस्व पार्थिवम् ॥ २१ ॥

 अनेकेत्यादिपदे बहुव्रीहिः । युवराजानमिति । अनित्यत्वान्न टच् ॥

 [१०७] इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
 गजेन महताऽऽयान्तं रामं छत्रावृताननम् ॥ २२ ॥
 इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
 अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ ॥

 अजानन्निवेति । रामाभिषेकः सर्वसम्मत इति जानन्नेवेति शेषः ॥

 श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
 राजानः ! संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ २४ ॥

 हे राजानः मे वचनं श्रुत्वा तन्निर्बन्धादेव केवलं रामं पतिमिच्छथ ? उत वस्तुतः ? इति मे संशयः । अतः किमिदमिति तत्त्वतो ब्रूत ॥ २४ ॥

 [१०८]कथं नु मयि धर्मेण पृथिवीमनुशासति ।
 भवन्तो द्रष्टुमिच्छन्ति युवराजं [१०९]ममात्मजम् ॥ २५ ॥

 का ते संशयप्रवृत्तिरित्यतः-कथन्वित्यादि । प्रौढा यूयं प्रौढे धर्मवृद्धे मयि चिरपरिचितराजभावाः बालं कथं मयि जीवति राजत्वेन द्रक्ष्यथेत्यर्थः ॥ २५ ॥


 ते तमूचुर्महात्मानं पौरजानपदैः सह ।
 बहवो नृप ! कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ २६ ॥
 गुणान् गुणवतो देव ! देवकल्पस्य धीमतः ।
 प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान् श्रृणु ॥

 देव-राजन्निति यावत् ॥ २७ ॥

 दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।
 [११०]इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ! ॥ २८ ॥
 रामः सत्पुरुषो लोके सत्यधर्म[१११]परायणः ।
 साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ २९ ॥

 रामाद्विनिर्वृत्त इति । रामेणैव प्रतिष्ठापित इत्यर्थः ॥ २९ ॥

 [११२]प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ।
 बुध्या बृहस्पतेस्तुल्यो वीर्ये[११३]साक्षाच्छचीपतेः ॥ ३० ॥

 वसुधायाः इत्याद्याः प्रथमसर्गव्याकृतचराः ॥ ३० ॥

 धर्मज्ञः सत्यसन्धश्च शीलवा[११४]ननसूयकः ।
 क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥
 मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ ३२ ॥

 क्षमेरूदित्वात् पक्षे नेट् । क्षान्तः इति । अक्ङित्यपि दीर्घश्छान्दसः । भव्यः-कुशलः ॥ ३२ ॥


 प्रियवादी च भूतानां सत्यवादी च राघवः ।
 बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३३ ॥
 तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ।
 देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४ ॥
 सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
 गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३५ ॥
 कल्याणाभिजनः साधुरदीनात्मा महामतिः ।
 द्विजै[११५]रभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ॥ ३६ ॥
 यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ।
 गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३७ ॥
 सङ्ग्रामात्पुनरागमम्य कुञ्जरेण रथेन वा ।
 पौरान्[११६] सवयसान् नित्यं कुशलं परिपृच्छति ॥ ३८ ॥

 सवयसानिति । ‘अच्’ इति योगविभागादच् समासान्तः ॥

 पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।
 निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ ३९ ॥
 [११७]शुश्रूषन्ते च वः शिष्याः [११८]कञ्चित्कर्मसु दंशिताः ।
 इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ ४० ॥

 शुश्रूषन्ते च वः शिष्याः इति उपाध्यायान् प्रति प्रश्नः । कर्मसु दंशिता वः शुश्रूषन्ते इति क्षत्रवृद्धान् प्रति प्रश्नः । दंशिताः -कवचिताः भृत्या इति शेषः ॥ ४० ॥


 व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।
 उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४१ ॥
 सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।
 स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ॥ ४२ ॥
 [११९]सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ।
 उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४३ ॥

 विग्रहः-वृथा कलहः ॥ ४३ ॥

 सुभ्रूरायत[१२०]ताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ।
 रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४४ ॥
 प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः ।
 शक्तस्त्रैलोक्यमध्येको भोक्तुं किं नु महीमिमाम् ॥ ४५ ॥
 नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ।
 हन्त्येव [१२१]नियमाद्वध्यानवध्ये न च कुप्यति ॥ ४६ ॥
 युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ।

 यत्र तुष्यतीति। यस्मिन् विषये सन्तोषं तद्गुणतः प्राप्नोतीत्यर्थः ॥

 शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ॥ ४७ ॥
 गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
 तमेवं गुणसंपन्नं रामं सत्यपराक्रमम् ॥ ४८ ॥


 लोकपालोपमं नाथमकामयत मेदिनी ।
 वत्सः श्रेयसि जातस्ते दिष्ट्याऽसौ तव राघव ! ॥ ४९ ॥
 दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ।

 श्रेयसि-श्रेयोनिमित्तं ते वत्सः-पुत्रः संजातः । मरीचिप्रजापतिपुत्रो मारीचः ॥ ५० ॥

 बलमारोग्यमायुश्च रामस्य विदितात्मनः ॥ ५० ॥
 देवासुरमनुष्येषु सगन्धर्वोरगेषु च
 आशंसन्ते जनाः सर्वे राष्ट्रे पुरवरे तथा ॥ ५१ ॥
 आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ।

 देवासुरेत्यादि । देवासुरादिलोकेषु ये देवादयः सन्ति ते च बलाद्याशंसन्त इति योजना ॥ ५२ ॥

 स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ॥ ५२ ॥
 सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ।

 रामस्यार्थ इति । रामस्य बलारोग्यादिप्रयोजनार्थमित्यर्थः ॥  तेषामायाचितं देव ! त्वत्प्रसादात्समृद्ध्यताम् ॥ ५३ ॥  आयाचितं-अभिप्रार्थितं रामाभिषेकविषयं त्वत्प्रसादात् समृद्ध्यतां–समृद्धं संपन्नं भवत्वित्यर्थः ॥ ५४ ॥

 राममिन्दीवरश्यामं सर्वशत्रुनिवर्हणम् ।
 पश्यामो यौवराज्यस्थं तव [१२२]राजोत्तमात्मजम् ॥ ५४ ॥


 तं [१२३]देव देवोपममात्मजं ते
  सर्वस्य लोकस्य हिते निविष्टम् ।
 हिताय नः क्षिप्रमुदारजुष्टं
  मुदाऽभिषेक्तुं वरद ! त्वमर्हसि ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वितीयः सर्गः

 तं, देवेति राज्ञः सम्बुद्धिः । उदारजुष्टं-प्रशस्तगुणैरुपाश्रितं, उदारैर्महद्भिश्च परिगृहीतम् । मर्म (५५) मानः सर्गः ॥ ५५ ॥

इति श्रीमद्रामायणामृतकतकटीकाय अयोध्याकाण्डे द्वितीयः सर्गः


तृतीयः सर्गः
[दशरथेन रामानुशासनम् ]

 तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
 प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥

 एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिः-तेषामित्यादि । अञ्जलिरूपाणि पद्मानि तथा । प्रगृहीतानीति-प्रकर्षेण शिरसि बद्धानि इत्यर्थः । वीक्षणवचनप्रत्यञ्जलिभिर्यथायोगमञ्जलीनां प्रतिग्रहः इति ॥

  [१२४]अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
 यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ २ ॥


 इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् ।
 वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥

 प्रत्यर्चितान् नृपान् कृत्वा अथ ब्राह्मणानिदमब्रवीदिति योजना । तेषामित्यादि । ब्राह्मणेषूपशृण्वस्विति यावत् ॥ ३ ॥

 चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
 यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥
 राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।
 शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥ ५ ॥
 वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ ६ ॥

 जनघोष इति । रामाभिषेकसम्भारसम्भरणश्रवणज इति शेषः । वसिष्ठं इति । वामदेवमिति शेषः ॥ ६ ॥

 अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।
 तदद्य भगवन् ! सर्वमाज्ञापयितुमर्हसि ॥ ७ ॥

 परिच्छदः-परिकरः ॥ ७ ॥

 तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ।
 आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ ८ ॥

 युक्तान् सावधानान्, मन्त्रिण इति शेषः ॥ ८ ॥

 सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ।
 शुक्लमाल्याश्च लाजांश्च पृथक् च मधुसर्पिषी ॥ ९ ॥

 बलीन्–विघ्नशान्तिप्रयोजनबल्यर्थपदार्थान् । पृथक्-पृथक्पा-त्रगृहीते ॥ ९ ॥

 [१२५]अहतानि च वासांसि रथं सर्वायुधान्यपि ।
 चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ १० ॥

 अहतं-सदशं अधृतं नूतनम् ॥ १० ॥

 चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ।
 शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥ ११ ॥

 शातकुम्भानां-सुवर्णनिर्मितानामिति यावत् ॥ ११ ॥

 [१२६]हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ।
 उपस्थापयत प्रातरग्न्यगारं महीपतेः ॥ १२ ॥
 यच्चान्यत्किंचिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ १३ ॥

 यच्चान्यदिति । अनुक्तं लोकसिद्धं गन्धपुष्पादिकमवश्यमेव एष्टव्यमस्ति तदपीत्यर्थः । अग्न्यगारं-अग्निहोत्रगृहम् ॥ १२ ॥

 अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।
 चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ १४ ॥

 अन्तःपुरं-राजवेश्म । घ्राणहारिभिरिति । घ्राणतर्पणौरित्यर्थः ॥

 प्रशस्तमन्नं [१२७]गुणवद्दधिक्षीरोपसेचनम् ।
 द्विजानां [१२८] शत[१२९]साहस्रं यत्प्रकाममलं भवेत् [१३०] ॥ १५ ॥
 सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।
 घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ १६ ॥


 शतसाहस्रं यदिति। अनेकं प्रति यत् प्रागुक्तं प्रशस्तमन्नं प्रकामं-यथेष्टं अलं–पर्याप्तं भवेत् तथा तत् संपाद्य द्विजमुख्यानां 'चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी, द्विजमुख्येभ्यः श्वः प्रभाते सत्कृत्य दीयतां । लाजा इत्यनेन लाजपरिकल्पितलड्डुकोच्यते ॥ १६ ॥

 सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
 [१३१]ब्राह्मणाश्च निमंत्र्यन्तां कल्प्यन्तामासनानि च ।
 आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ १७ ॥

 आमन्त्रयन्तामिति । आमन्त्र्यन्तामिति यावत् ॥ १७ ॥

 सर्वे च [१३२]तालापचरा गणिकाश्च स्वलंकृताः ।
 कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ १८ ॥

 ताळैरपचरन्तीति ताळापचराः, चरिर्भक्षणार्थः, जीवन्तीति ताळापचरा नर्तकाः । कक्ष्यां द्वितीयामिति । अन्तःकक्ष्यायामभिषेकव्यापारप्रवृत्तेस्तत्र च ब्राह्मणैकवास्तव्यत्वादित्याशयः ॥ १९ ॥

 [१३३]देवायतनचैत्येषु सानभक्षाः सदक्षिणाः ।
 उपस्थापयितव्याः स्युः माल्ययोग्याः पृथक्पृथक् ॥ १९ ॥

 चैत्यं-चतुष्पथं, तत्र गणपतिपूजा । अन्नैर्भक्षैश्च सहिताः सान्नभक्षाः, भक्ष्यन्त इति भक्षाः, कर्मणि घञ्। सदक्षिणाः इत्यनेन


विष्ण्वादि[१३४]देवतालये गणपत्यालये च क्रमादन्नभक्षैर्दक्षिणोपेततया ब्राह्मणतर्पणं कर्तव्यमित्युक्तं भवति । माल्यप्रदानयोग्याः- माल्ययोग्याः, कर्मणि घञ्, अर्चनायोगसाधनगन्धाक्षताधूपादिसाधनानीत्यर्थः । पृथक्पृथागति । देवतायतनचैत्ययोरित्यर्थः ॥ १९ ॥

 [१३५]दीर्घासि[१३६]बद्धगोधाश्च संनद्धा मृष्टवाससः ।
 महाराजाङ्कणं सर्वे प्रविशन्तु महोदयम् ॥ २० ॥

 दीर्घाः असयः पट्टसरूपा येषां ते तथा । बद्धं गोधा चर्म यैस्ते तथा । अयं धर्मो धन्विनां ततो द्वंद्वः । अनेन शस्त्रास्त्रद्विप्रकारायुधवन्तो लक्ष्यन्ते । मृष्टवाससः इत्यनेनाभरणाद्यलंकारांतरमपि कल्याणीयमुपलक्षणीयम् । योधा इति विशेष्यम् । महान् उदयः -उद्भवो यस्मिन् तथा[१३७] ॥ २० ॥

 एवं व्यादिश्य तौ विप्रौ क्रियास्तत्र सुनिष्ठितौ ।
 चक्रतुश्चैव यच्छेषं [१३८]पार्थिवाय निवेद्य च ॥ २१ ॥
 कृतमित्येव चाब्रूतां अभिगम्य जगत्पतिम् ।
 यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ २२ ॥

 विप्रौ-वसिष्ठवामदेवौ। क्रिया इति । पुरोहितकर्तव्या इति शेषः । तत्र-नृपवेश्मनि । यच्छेषमिति । दास्यादिपरिचारकान्तर-कर्तव्यक्रियाजातमित्यर्थः । तत् पार्थिवाय -पृथिव्या- लेपनादिप्रयोजनाय निवेद्य अथ जगत्पतिं-राजानं अभिगम्य यथोक्तवचनं-उक्तवचन-मनतिक्रम्य सर्वं कृतमेवेति प्रीत्यादियुक्तौ सन्तौ अब्रूताम् । तत्र


प्रीतिर्मानसी । हर्षस्तदुद्रेकमूलो मुखविकासादिः । शेषं पार्थिवाय निवेद्ये[१३९]त्यन्यः । इदं तु जगत्पतिमभिगम्येत्यनेनान्वितम् । ल्यपः

पूर्वकालार्थत्वात् । अभिगमात् पूर्वं निवेदनायोगात् । जगत्पतिमभिगम्य निवेद्येत्येतावतैव सिद्धेः पार्थिवायेति चानन्वितम् । अपि च राज्ञे शेषं निवेद्येत्येतावतैव सिद्धेः पुनरब्रूतामिति चासंगतम् । तारतम्योचितानुचितानभिज्ञमन्दान् प्रति किञ्चित्पररीतिप्रदर्शनम् । सुधियस्तूभयं पर्यालोच्य स्वयमेव युक्तायुक्तं ज्ञास्यन्ति ॥ २२ ॥

 ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्
 रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ २३ ॥
 स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।
 रामं तत्रानयांचक्रे रथेन रथिनां वरम् ॥ २४ ॥

 [१४०]प्रतिज्ञाय-उक्त्वा ॥ २४ ॥

 अथ तत्र [१४१]सहासीनाः तदा दशरथं नृपम् ।
 प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ २५ ॥
 [१४२]म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः ।
 उपासांचक्रिरे सर्वे तं देवा इव वासवम् ॥ २६ ॥

 अथ तत्रेति । 'प्रासादस्थो ददर्श' इति वक्ष्यमाणत्वादिह तत्रेति प्रासाद इत्यर्थः । तथा सहासीना इति-प्रासाद एव सहासीना इत्यर्थः । प्राच्या इत्यादौ 'द्युप्राक्' इत्यादिना यदादयः शैषिक-


भवार्थाः । म्लेच्छाचार्याः-म्लेच्छप्रभवः । अन्तरशब्दः प्रदेशवाची । प्राच्यादिशैलान्तवासिन इत्यनेन मूलभृतकश्रेणिसुहृद्द्विषदाटविकमितिषड्विधबलोपास्यत्वं सार्वभौमचिह्नमुक्तम् ॥ २६ ॥

 तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ।
 प्रासादस्थो [१४३]रथगतं ददर्शायान्तमात्मजम् ॥ २७ ॥
 गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।
 दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ २८ ॥

 गन्धर्वराजप्रतिमं-यथोक्तदर्शनप्रयोजकदिव्यरूपवत्त्वे ॥ २८ ॥

 [१४४]चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ।
 रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ २९ ॥

 चन्द्रवत्कान्तं-कमनीयमाननं यस्य स तथा । अत एव-अतीव-प्रियदर्शनं । गुणैरिति । कर्मत इति शेषः ॥ २९ ॥

 [१४५]धर्माभितप्ताः पर्जन्यं ह्रादयन्तमिव प्रजाः ।
 न ततर्प समायान्तं पश्यमानो नराधिपः ॥ ३० ॥

 धर्माभितप्ता इति । अवृष्टिखिन्ना इति यावत् ॥ ३० ॥

 [१४६]अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् |
 पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ ३१ ॥


 स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ।
 आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ ३२ ॥
 [१४७]साञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ।
 नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥ ३३ ॥

 साञ्जलिरेव अभिप्रेत्य प्रणतः-कृतसाष्टांगनमस्कारः पश्चात् 'उरस्समं राजन्यः' इत्याद्युपदिश्यमानविशेषवन्दनं चाकरोदित्यर्थः । स्वं नाम श्रावयन्निति । रामवर्मानामाहमस्मीत्येवमात्मना स्वं नाम श्रावयन्निति यावत् ॥ ३३ ॥

 तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ।
 [१४८].गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ ३४ ॥

 अञ्जलौ गृह्येति । तत्प्रदेशे गृहीत्वेति यावत् ॥ ३४ ॥

 तस्मै चाभ्युदितं [१४९]सम्यङ्मणिकाञ्चनभूषितम् ।
 दिदेश राजा रुचिरं रामाय परमासनम् ॥ ३५ ॥

 [१५०]अभ्युदितं-उपस्थापितं । परमं-श्रेष्ठम् ॥ ३५ ॥

 तदासनवरं प्राप्य व्यदीपयत राघवः ।
 स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ ३६ ॥

 प्राप्य तद्व्यदीपयत-द्योतयति स्मेति योजनार्थः । उदय इति । तत्स्थत्वेन प्रतिभासमान इति शेषः ॥ ३६ ॥


 तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत ।
 विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ ३७ ॥

 द्यौ-आकाशः ॥ ३७ ॥

 तं पश्यमानो नृपतिः तुतोष प्रियमात्मजम्
 अलङ्कृतमिवात्मानं आदर्शतलसंस्थितम् ॥ ३८ ॥

 आदर्शतलसंस्थितं आत्मानमिव पश्यमान इत्यनेन रामस्य मुखनासाकरचरणादिसर्वावयवेन च पितृसमरूपत्वमावेदितम् ॥ ३८ ॥

 स तं [१५१][१५२]सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।
 उवाचेदं वचो राजा देवेन्द्रमिवं [१५३]कश्यपः ॥ ३९ ॥
 ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।
 उत्पन्नस्त्वं गुणश्रेष्ठो मम [१५४]रामात्मजः प्रियः ॥ ४० ॥

 तदेव दर्शितम्-सदृशः सुत इति । गुणैः श्रेष्ठो यतः अतो मम प्रियः आत्मजोऽसि ॥ ४० ॥

 यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।
 तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ ४१ ॥

 अपि च-यतस्त्वयेत्यादि । पुष्ययोगेनेति, 'प्रकृत्यादिभ्य उपसङ्ख्यानम्' इति तृतीया, पुष्येण चन्द्रमसो योगः पुष्ययोगः, तदुपलक्षितकाल इत्यर्थः ॥ ४१ ॥


 कामतस्त्वं प्रकृत्यैव [१५५]विनीतो गुणवानसि ।
 गुणवत्यपि तु स्नेहात् पुत्र ! वक्ष्यामि ते हितम् ॥ ४२ ॥

 कामतः-प्रकामं, अत्यर्थमिति यावत् । गुणवति सत्यपि स्नेहात्-स्नेहादेव ॥ ४२ ॥

 भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।
 [१५६]कामक्रोध[१५७]समुत्थानि त्यजेथा व्यसनानि च ॥ ४३ ॥

 भूय इति । विनीत एव सन् पुनश्चाभ्यधिकं विनयमास्थाय व्यसनानि त्यजेथा इति । 'स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थस्य दूषणं चेति राज्ञां व्यसनपञ्चकं' इत्युक्तानि व्यसनानि । तत्रार्थसंदूषणं नाम पित्रादिसञ्चितार्थस्य उक्तव्यसनतो नाशनम् ॥ ४३ ॥

 परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया यथा ।
 अमात्यप्रभृतीः सर्वाः प्रकृतीथानुरञ्जय ॥ ४४ ॥

 परोक्षया-चारमुखतः परोक्षानुभवसिद्धया वृत्त्या-स्वपरराष्ट्रवृत्तान्तविचारेण सह वर्तमानो भव । प्रत्यक्षया-नित्यं यथाकालमास्थानीमास्थाय स्वानुभवसिद्धयथोक्तवृत्तान्तविचारेण सह वर्तमानो भव । अमात्यप्रभृतीः सर्वाः प्रकृतीरिति । अमात्यसेनानीपुरादिरक्षिपौरजानपदसर्वप्रजा इत्यर्थः ॥ ४४ ॥

 कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून् ।
 [१५८]तुष्टानुरक्तप्रकृतिः यः पालयति मेदिनीम् ॥ ४५ ॥


 तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः ।
 तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ॥ ४६ ॥

 कोष्ठागाराणि-अयुतनियुतादिसङ्ख्यधान्यराशिग्राहीणि कोष्ठरूपतया निर्मितान्यगाराणि । तथा आयुधागाराणि-समग्रनिजबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि च तथा । तैस्सह सन्निचयाः निचीयन्ते अस्मिन्निति निचयाः-नवरत्नहेमरजतवस्त्राभरणादिसंपूर्णाः तत्तत्कोशाः तथा । सन्निचया इत्यत्र समित्यव्ययं पूर्तिवाचि द्रष्टव्यम् । तन्त्रेण समितिशोभनवाचि च पूर्वपदम् । तुष्टानुरक्तप्रकृतिः-उक्तनि-चयबलादिति शेषः । तस्य मित्राणीति । सामन्तराजान इति यावत् ॥ ४६ ॥

 तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ।
 त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ ४७ ॥

 तदिति । अभिषेकप्रयोजनं पित्रुपदेशमित्यर्थः ॥ ४७ ॥

 सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।
 व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ ४८ ॥

 प्रियमाख्यान्तीति प्रियाख्याः-'आतोऽनुपसर्गे कः' इति कः ॥

 अथाभिवाद्य राजानं रथमारुह्य राघवः ।
 ययौ स्वं द्युतिमद्वेश्म जनौधैः प्रतिपूजितः ॥ ४९ ॥
 ते चापि पौरा नृपतेर्वचस्तु तत्
  श्रुत्वा तदा लाभमिवेष्टमाशु ।
 नरेन्द्रमामन्त्र्य गृहाणि गत्वा
  देवान् समानर्चुरभिप्रहृष्टाः ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे तृतीयः सर्गः

 लाभमिवेति । स्वस्वपुत्राभ्युदयमिवेति यावत् । अत एव देवान् समानर्चुरिति । स्वाभीष्टाविघ्नायेति शेषः । अमा (५०) मानः सर्गः ॥ ५० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे तृतीयः सर्गः


चतुर्थः सर्गः
[रामाभिषेकनिश्चयः]

 [१५९]गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।
 मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्स निश्चयम् ॥ १ ॥
 श्व एव पुष्यो भविता [१६०]श्वोऽभिषिच्येत मे सुतः ।
 रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २ ॥

 एवं निश्चिताभिषेक उपदिष्टोपदेष्टव्योऽपि वृद्धत्वाद्विस्मृताभिषेकाङ्गपुत्रकर्तव्योपदेशः तदुपदेशाय पुनराहूयोपदिशति-गतेष्वित्यादि । निश्चयश्च कः? कीदृशः ? इत्यतः-अभिषिच्येतेति । कर्मणि विधिलिङ् । निश्चयमिति पूर्वेण सम्बन्धः ॥ २ ॥

 अथान्तर्गृहमाविश्य राजा दशरथस्तदा ।
 सूतमामन्त्रयामास रामं [१६१]पुनरिहानय ॥ ३ ॥

 अन्तर्गृहमाविश्येति। मन्त्रिणामपि विसर्जनानन्तरमिति शेषः ॥


 प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।
 रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ ४ ॥
 द्वास्थैरावेदितं तस्य रामायागमनं पुनः ।
 श्रुत्वैव चापि रामस्तं प्राप्तं शंकान्वितोऽभवत् ॥ ५ ॥

 तस्य पुनरागमनमिति । सुमन्त्रस्यागनमित्यर्थः । शङ्कान्वित इति । राज्ञ आपद्वा ? आहोस्विदभिषेकावेळम्बाय वेति ॥ ५ ॥

 प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ।
 यदागमनकृत्यं ते भूयस्तद्ब्रह्म शेषतः ॥ ६ ॥
 तमुवाच ततस्स्तो राजा त्वां द्रष्टुमिच्छति ।
 श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ ७ ॥

 त्वमेव प्रमाणं-निर्णायकः ; न हि किंकरः स्वामिनं क्वचिन्नियोक्तुर्माष्टे । यदेवमतो राजानं प्रति गमनाय वा इतराय वा-अगमनाय वा मतिं विधेहि स्वेच्छया । [१६२]इतरस्यासर्वनामता ॥ ७ ॥

 इति सूतवचः श्रुत्वा रामोऽथ त्वरयाऽन्वितः ।
 प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥
 तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।
 प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ ९ ॥

 प्रियमिति । [१६३]स्वयमिति शेषः ॥ ९ ॥

 प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः ।
 ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥ १० ॥

 दूरात् प्रणिपातः किं वदिष्यतीति भीत्या ॥ १० ॥


 प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।
 प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ ११ ॥
 राम ! वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ॥
 अन्नवद्भिः क्रतुशतैः तथेष्टं भूरिदक्षिणैः ॥ १२ ॥

 'विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते' इति गीयमानत्वादन्नवदादिविशेषणम् ॥

 जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।
 दत्तमिष्टमधीतं च मया पुरुषसत्तम ! ॥ १३ ॥
 अनुभूतानि चेष्टानि मया वीरसुखान्यपि ।
 [१६४]देवर्षिपितृविप्राणां अनृणोऽस्मि तथाऽऽत्मनः ॥ १४ ॥

 देवर्षिपितृविप्राणामात्मनश्चानृणोऽस्मीति । अत्र सेन्द्रियग्रामोजीव आत्मा । तस्य देहग्रहस्तत्तदुत्थसुखानुभवप्रयोजनः । 'अनिषिद्धसुखत्यागी पशुरेव न संशयः' इति न्यायेन तत्तदुचित सुखसंपादनं जीवात्मनामेव । यथा देवर्षिपितृणान्निजेन्द्रियवत् तदुपकारकत्वेन तदप्रत्युपकारे ऋणम्, एवं जीवस्य च साक्षात् स्वान्तःकरणज्योतिः-


प्रदानोपकारकत्वेन तद्प्रत्युपकारेऽपि ऋणम् । विप्रैरेव जातकर्मादिसर्वसंस्कारसाधनेनाधनाशनात् तदप्रत्युपकारे च ऋणमस्य भवति । ऋष्यृणे विप्रर्णस्यान्तर्भावात् देवर्णे जीवर्णस्यान्तर्भावात् 'जायमानो वै ब्राह्मणः इत्याद्यया श्रुत्या 'ऋणानि त्रीण्यपाकृत्य' इत्यादिस्मृत्या [१६५]वर्णत्रयवादः । तत्र दत्तेन षोडशमहादानान्तदानेन विप्रर्णापाकरणम् । धर्माविरुद्धसुखभोगेन जीवर्णापाकरणञ्च जातमि[१६६]त्युक्तम्-दत्तमित्यनेन, अनुभूतानि इत्यादिना च। शेषः प्रसिद्धः ॥ १३-१४ ॥

 न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।
 अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥

 यद्ब्रूयां तत्कर्तुमर्हसीति । विळम्बं मा कुर्विति यावत् ॥ १५ ॥

 अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।
 अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ! ॥ १६ ॥
 अपि चाद्याशुभान् राम ! स्वप्ने पश्यामि दारुणान् ।
 सनिर्धाता [१६७]दिवोल्का च पततीह महास्वना ॥ १७ ॥

 इतश्चेतश्च कर्तुमर्हसीत्याह-अद्येत्याद्यपिचादिभ्याम् । दिव उल्का दिवोल्का, सन्धिश्छान्दसः । निर्घातः-अशनिरमेधः ॥ १७ ॥

 अवष्टब्धं च मे राम ! नक्षत्रं दारुणैर्ग्रहैः ।
 आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥
 प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।
 राजा हि मृत्युमानोति घोरां वाऽपदमृच्छति ॥ १९ ॥


 तद्यावदेव मे [१६८]चेतो न [१६९]विमुञ्चति राघव ! ।
 तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २० ॥

 नक्षत्रं-जन्मनक्षत्रं । दारुणैः सूर्यादिभिः । तैः अवष्टब्धं-युगपत्पूर्णभावतयाधिष्ठितम् । आवेदयन्ति-तत्फलं चावेदयन्ति-प्रायेण चेत्यादिना । मृत्युः-आपच्च क्रमादुक्तोल्कानक्षत्रफले । मे चेतः–न विमुञ्चतीति-अभिषेकचिन्तां न विमुञ्चति-न विमुखं भवतीति यावत्, तावत्-ततः पूर्वमेव अभिषिञ्चस्व-कृताभिषेकं स्वात्मानं कुरु । कुत एवमभिषेकवैमुख्यप्रसक्तिशङ्केत्यत्राह-चलेत्यादि । सम्भावितसपत्नीवैमात्रेयादिजोपजापस्य च सम्भावितत्वादित्याशयः । अयमेवाशयः प्रकाशयिष्यते-विप्रोषितश्चेत्यादिना ॥ २० ॥

 अद्य चन्द्रोऽभ्युपगतः पुष्पात्पूर्वं [१७०]पुनर्वसू ।
 [१७१]श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥ २१ ॥

 पुष्ययोग श्वो नियतमिति-शुद्धगणितनिश्चितमित्यर्थः । वक्ष्यन्त इति । कालस्तङ् च छान्दसः-वदन्तीति यावत् ॥ २१ ॥

 [१७२]तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।
 श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परंतप ! ॥ २२ ॥

 तत्र पुष्य इति । राजाभिषेक परिगणित नक्षत्र इत्यर्थः । त्वा-त्वां इत्यर्थः ॥ २२ ॥


 [१७३]तस्मात्त्वयाऽद्य [१७४]प्रभृति निशेयं नियतात्मना ।
 सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ ॥

 अद्यप्रभृतीति । प्रदोषकालमारभ्येति यावत् ॥ २३ ॥

 सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
 भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥

 सुहृद्भिरपि रक्षणं किमर्थमपेक्ष्यमित्यत्र-भवन्तीत्यादि । बहुविघ्नानीति बहुव्रीहिः ॥ २४ ॥

 [१७५]विप्रोषितश्च भरतो यावदेव पुरादितः ।
 तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥

 इतः पुरादिति । अस्मात्पुरादित्यर्थः । तावदेवेति । पूर्वमेवेत्यर्थः ॥ २५ ॥

 [१७६]कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
 ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६ ॥
 [१७७]किन्तु चित्तं मनुष्याणां अनित्यमिति मे[१७८] मतिः ।
 [१७९]सतां च धर्मनित्यानां कृतशोभि च राघव ! ॥ २७ ॥


 यद्यपि भरते त्वदभिषेकवैमत्यमसम्भाव्यं, अथापि लोकस्थिति-स्त्वेवमित्याह-कामं खल्वित्यादि । ज्येष्ठस्याभिषेकसुखं न हन्तव्यमित्यनुक्रोशसहितः-घृणासहितः प्रायेण ; अथापि-किन्तु-लोकस्थितौ विशेषोऽस्ति । कथम्?-मनुष्याणां चित्तं तद्गतस्नेहादिकं अनित्यमेव ; सति विकारनिमित्ते विक्रियेतैवेत्यर्थः । उक्त एवार्थः प्रदर्श्यते-सतामित्यादि । सतामपि- [१८०]सत्कुलप्रसूतानामपि-धर्म-नित्यानामपि चित्तं कृतशोभि–येन येन निमित्तेन यद्यत्कृतं रागो द्वेषादिर्वा, तेन तेनैव शोभि सर्वथा, न तु स्वतो नियतकिञ्चित्स्वभावं । तथात्वे सुखदुःखोर्मिमालासंसारा कूपारावस्थानायोगात् । [१८१]कृतशोभीत्यत्र

यद्वा भट्टो बहु जल्पति, तत्र न किञ्चिदपि संगतं पश्यामः ॥ २७ ॥

 इत्युक्तः सोऽभ्यनुज्ञातः श्रोभाविन्याभिषेचने ।
 व्रजेति रामः पितर[१८२]मभिवाद्याभ्ययाद्गृहम् ॥ २८ ॥

 अभिषेचनेऽभ्यनुज्ञातः; इदानीं व्रज' इति चाभ्यनुज्ञातः इत्यनुकर्षः ॥ २८ ॥

 प्रविश्य चात्मनो वेश्मरा[१८३]ज्ञोद्दिष्टेऽ[१८४]भिषेचने ।
 [१८५]तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ ॥ २९ ॥


 राज्ञोद्दिष्टेऽभिषेचने तदपेक्षितराजोपादेष्टसभार्योपवासानुष्ठान-निवेदनाय तत्क्षणादेव मातुरन्तःपुरं ययौ ॥ २९ ॥

 तत्र तां [१८६].प्रवणामेव मातरं क्षौमवासिनीम् ।
 वाग्यतां देवतागारे ददर्शायावतीं श्रियम् ॥ ३० ॥

 प्रवणां-देवताप्रार्थनाञ्जलिवशात् प्रह्वाम् । ददर्शायाचतीमिति छन्दसि दीर्घः । रामाय श्रियं याचतीमिति यावत् ॥ ३० ॥

 [१८७]प्रागेव चागता तत्र सुमित्रा लक्ष्मण[१८८]स्तथा ।
 सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥

 सीता चानायितेति-स्वगमनानन्तरमिति शेषः ॥ ३१॥

 तस्मिन् कालेऽ[१८९]पि कौसल्या तस्थावामीलितेक्षणा ।
 सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन च ॥ ३२ ॥
 श्रुत्वा [१९०]पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।
 प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥

 तस्मिन् कालेऽपीति ।-रामस्य मातृसमीपगमनकालेऽपीत्यर्थः । आमीलितेक्षणा-ध्यानवशात् । पुष्येण-पुष्ये श्वोऽभिषेको मे भविता यथा-यथादिष्टं पितुश्शासनमेवमिति शेषः ॥ ३३ ॥

 तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।
 उवाच वचनं रामो हर्षयंस्तामनिन्दिताम् ॥ ३४ ॥


 अम्ब! पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।
 भविता श्वोऽभिषेकोऽयं यथा मे शासनं पितुः ॥ ३५ ॥

 सीतयाऽप्युपवस्तव्या रजनीयं मया सह ।
 एवमृत्विगुपाध्यायैः सह मामुक्तवान् पिता ॥ ३६ ॥

 एवमिति कथम् ? इत्यतः-सीतयेत्यादि । न केवलं पितुरेवायं नियोगः, अपि तु सर्वनियोक्तृनियोग इत्याह-एवमृत्विगित्यादि ॥ ३६ ॥

 यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने ।
 तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ ३७ ॥

 मङ्गलानि-[१९१]मङ्गलार्हगन्धमाल्याम्बराभरणादीनि ॥ ३७ ॥

 एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम् ।
 हर्षबाष्प[१९२]कलं वाक्यं इदं राममभाषत ॥ ३८ ॥

 हर्षजो बाष्पः,तेन कलं-अव्यक्तमधुरम् ॥ ३८ ॥

 वत्स ! राम ! चिरं जीव हतास्ते परिपन्थिनः ।
 ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ ॥

 हता इति । सन्त्विति शेषः । मे-मम सुमित्रायाश्च ज्ञातीन्-बन्धून् अभिनन्दय ॥ ३९ ॥

 [१९३]कल्याणे [१९४]बत नक्षत्रे मयि जातोऽसि पुत्रक ! ।
 येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥


 कल्याणे नक्षत्र इति । शुभकाल इति यावत् । जात इति । जनित इति यावत् येनेति । बहुगुणशुभकालजन्मप्राबल्येनेति यावत् ॥ ४० ॥

 अमोघं बत मे [१९५]क्षान्तं पुरुषे पुष्करेक्षणे ।
 येयमिक्ष्वाकुराज्यश्रीः पुत्र ! त्वां संश्रयिष्यति ॥ ४१ ॥

 पुष्करेक्षणे पुरुषे यत् क्षान्तं-क्षमाप्रधानं तपोऽनुष्ठितं, तत् अमोघं बत-सफलं जायते किल । बतेति हर्षे ॥ ४१ ॥

 इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।
 प्राञ्जलिं प्रह्णमासीनं अभिवीक्ष्य स्मयन्निव ॥ ४२ ॥

 [१९६]रामः स्वप्रयोजनं लक्ष्मणाय साधारणीकरोति-इत्येवमुक्त इति । इवशब्द इह सर्वत्र एवार्थे ॥ ४२ ॥

 लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धराम् ।
 द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ ४३ ॥

 प्रशाधीति । शाभावस्यासिध्या धित्वम् । अन्तरात्मा-प्राणः ॥

 सौमित्रे ! भुङ्क्ष्व भोगांस्त्वं इष्टान् राज्यफलानि च ।
 जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ ४४ ॥

 भोगाः-विषयभोगाः, राज्यफलं-अर्थो धर्मश्च तच्च प्राप्नुहि । त्वदर्थमिति । न स्वप्रयोजनाय ॥ ४४ ॥


 इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।
 अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्थः सर्गः


 अभ्यनुज्ञाप्येति । [१९७]लक्ष्मणद्वारेति शेषः । जानातेः ज्ञपेर्वा हेतुमण्ण्यन्ताल्लयप् | मघा (४५) मानः सर्गः ॥ ४५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्थः सर्गः


पञ्चमः सर्गः
[अभिषेकपूर्वाङ्गचर्याचरणम् ]

 सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।
 पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ १ ॥
 गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन !
 श्रेयसे राज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥

 अथ उपवासस्य पुरोहितेन संकल्पमन्त्रादिसाध्यत्वात् तदर्थं पुरोहितनियोगः–सन्दिश्येत्यादि । उपवासं काकुत्स्थमिति । ‘गति-बुद्धि' इत्याद्यनुवर्तने, 'हृक्रोरन्यतरस्याम्' इति कर्मत्वं अणौ कर्तुः ॥


 तथेति च स राजानं उक्त्वा वेदविदां वरः ।
 स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥ ३ ॥
 उपवासयितुं रामं [१९८][१९९]मन्त्रवन्मन्त्रकोविदः ।
 ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः ॥ ४ ॥

 स्वयमिति । [२००]रामविषयराजशासनत्वादेव ब्राह्मं-ब्राह्मणवहनार्हम् ॥ ४ ॥

 स रामभवनं प्राप्य [२०१].पाण्डराभ्रघनप्रभम् ।
 तिस्रः कक्ष्या स्थेनैव विवेश मुनिसत्तमः ॥ ५ ॥

 अभ्रे-आकाशे विद्यमानो घनः-अभ्रघनः । एतेन पर्वतस्थ-घनव्यावृत्तिः । ततः पाण्डरशब्देन कर्मधारयः, तस्येव प्रभा यस्य तत् तथा ॥ ५ ॥

 तमागतमृषिं रामस्त्वरन्निव ससंभ्रमम् ।
 मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥ ६ ॥

 त्वरन्निव-त्वरन्नेव । मानयिष्यन्निति । प्रत्युत्थानरूपं सम्मानं करिष्यन् ॥ ६ ॥

 अभ्येत्य त्वरमाणश्च स्थाभ्याशं मनीषिणः ।
 ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ७॥


 स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च ।
 प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥ ८ ॥

 संभाष्याभिप्रसादनं-'सुखमुपविष्टोऽसि वत्स' इत्यादिरूपम् ॥

 प्रसन्नस्ते पिता राम ! यौवराज्यमवाप्स्यसि ।
 उपवासं भवानद्य करोतु सह सीतया ॥ ९ ॥
 प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
 पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ १० ॥
 इत्युक्त्वा स तदा रामं उपवासं यतव्रतम् ।
 [२०२]मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥ ११ ॥

 रामं उपवासमिति प्राग्वत् (श्लो.२) कर्मत्वम् ॥ ११ ॥

 ततो यथावद्रामेण स राज्ञो गुरुरार्चितः ।
 अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ १२ ॥

 राज्ञः-दशरथस्य ॥ १२ ॥

 सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
 सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १३ ॥

 विवेशेति। स्वं वेश्मेति शेषः । तान्-सुहृदः ॥ १३ ॥

 प्रहृष्टनरनारीकं रामवेश्म तदा बभौ ।
 यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १४ ॥


 स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।
 निस्सृत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ १५ ॥

 राजभवनं-मूलराजभवनम् ॥ १५ ॥

  [२०३]बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः ।
 बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥ १६ ॥

 बृन्दबृन्दैः–बृन्दबृन्दतया सहितैः कुतूहलजनैः सम्बाधा बभ्रुवुरिति योजना ॥ १६ ॥

 जनबृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा ।
 बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ १७ ॥

 जनबृन्दरूपाणामूर्मिणां संघर्षपूर्वको यो हर्षस्वनः, तद्वृत इत्यर्थः । एतेन सागरोपमासमर्थनं कृतम् ॥ १७ ॥

 सिक्तसंमृष्टरथ्या च तदहर्वनमालिनी ।
 आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥ १८ ॥

 तदहः-तस्मिन्नहनि । वनमाला-तोरणमाला, व्रीह्यादित्वादिनिः ॥ १८ ॥

 तदा ह्ययोध्यानिलयः सस्त्रीबालाकुला[२०४]जनः ।
 रामाभिषेकमाकांक्षन् [२०५][२०६]आकाङ्क्षन्नुदयं रखेः ॥ १९ ॥

 स्त्रीबालैः सहितः सस्त्रीबालः; सं चासावाकुलश्च सन्तोषात् संभ्रान्तचित्तः तथा । रामाभिषेकमाकांक्षन्, तदर्थमिति शेषः, रवेरुदयमाकांक्षन् अभूत् ॥ १९ ॥


 [२०७]प्रजालङ्कारभूतं च जनस्थानन्दवर्धनम् ।
 उत्सुकोऽभूञ्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ २० ॥

 प्रजानामलङ्काराः भूताः-सिद्धाः यस्मिन् तत्तथा । सर्वतः समुद्भूतप्रजालङ्कारवतीत्यर्थः । द्रष्टुमुत्सुकोऽभूदिति । प्रासादेषु स्थित्वेति शेषः ॥ २० ॥

 एवं तं जनसंबाधं राजमार्गं पुरोहितः ।
 व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥ २१ ॥

 व्यूहन्निति । व्यूहविभाजनं कुर्वन्नित्यर्थः ॥ २१ ॥

 सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।
 समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २२ ॥
 तमागतमभिप्रेक्ष्य हित्वा [२०८]राजाऽऽसनं नृपः ।
 पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ॥ २३ ॥
 तेन चैव तदा तुल्यं सहासीनाः सभासदः ।
 आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ २४ ॥
 गुरुणा त्वभ्यनुज्ञातः मनुजौघं विसृज्य तम् ।
 विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥
 तदग्र्यवेषप्रमदाजनाकुलं
  महेन्द्रवेश्मप्रतिमं निवेशनम् ।
 विदपियश्चारु विवेश पार्थिवः
  शशीव तारागणसंकुलं नभः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चमः सर्गः



 आसनं हित्वेति । प्रत्युत्थायेति यावत् । पप्रच्छेति । अनुष्ठितकृत्यमिति शेषः । तत् कृतमिति । यदाज्ञप्तं तत् कृतमित्यर्थः । तार (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चमः सर्गः


षष्ठः सर्गः
[पौरोत्साहः ]

 गते पुरोहिते रामः स्नातो नियतमानसः ।
 सह पत्न्या विशालाक्ष्या [२०९]नारायण[२१०]मुपागमत् ॥ १ ॥

 अथ आदरात् पुनश्चाभिषेकसामग्रीसन्नाहवर्णनम्-गत इत्यादि । उपागमदिति । ध्यानेनेति शेषः । 'नाविष्णुः पृथिवीपतिः' इति शास्त्रात् विष्णोरेव राज्यायोपासितव्यत्वात् सर्वेषामेषां विष्णूपासना ॥ १ ॥

 प्रगृह्य शिरसा पात्रीं हविषो विधिवत्ततः ।
 [२११]महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥

 शिरसा पात्रीं प्रगृह्येति । नमस्कारपूर्वमिति यावत् । महते दैवतायेति । विराड्रूपाय विष्णव इत्यर्थः ॥ २ ॥

 शेषं च हविषस्तस्य [२१२]प्राश्याशास्यात्मनः प्रियम् ।
 ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥


 वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
 [२१३]श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४ ॥

 आशास्य-संप्रार्थ्य । विष्णोरायतन इति । निजभवनवर्तिनीति शेषः ॥ ४ ॥

 एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।
 अलंकारविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥
 तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।
 पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥ ६ ॥

 सूताः-पौराणिकाः । मागधाः-वंशावलिकीर्तकाः । वन्दिनः-स्तुतिपाठकाः ॥ ६ ॥

 तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।
 [२१४]विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७ ॥

 वाचयामासेति-पुण्याहामति शेषः ॥ ७ ॥

 तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा ।
 अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥

 तूर्यघोषानुनादितः-सञ्जातानुनादः ॥ ८ ॥

 [२१५]कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
 अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥


 ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
 प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ १० ॥

 शोभयितुं-अलङ्कर्तुम् ॥ १० ॥

 शुभ्राभ्रशिखराभेषु देवतायतनेषु च ।
 चतुष्पथेषु रथ्यासु [२१६]चैत्येष्वट्टालकेषु च ॥ ११ ॥
 नानापण्यसमृद्धेषु वणिजामापणेषु च ।
 कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥

 चैत्यं-बुद्धालयः । अट्टालकाः-सावच्छेदानि प्राकारसरांसि ॥

 सभासु चैव सर्वासु [२१७]वृक्षेष्वालक्षितेषु च।
 ध्वजाः समुच्छ्रिताः चित्राः पताकाश्चाभवंस्तदा ॥ १३ ॥

 आलाक्षतेषु वृक्षेष्विति। आरात्तत्तद्गृहद्वारलक्षितेषु नारिकेलपनसादितोरणवृक्षेषु ॥ १३ ॥

 नटनर्तकसंघानां गायकानां च गायताम् ।
 मनःकर्णसुखा वाचः शुश्राव जनता ततः ॥ १४ ॥

 नटयन्तीति नटाः-सूत्रधाराः ॥ १४ ॥


 रामाभिष्टवयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।
 रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥
 बाला अपि क्रीडमानाः गृहद्वारेषु संघश: ।
 रामाभिष्टवसंयुक्ताः चक्रुरेव मिथः कथाः ॥ १६ ॥
 कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।
 राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ १७ ॥
 [२१८]प्रकाशीकरणार्थं च निशागमनशङ्कया ।
 दीपवृक्षांस्तथा [२१९]चक्रुरनुरथ्यासु सर्वशः ॥ १८ ॥

 अभिषेकानन्तरं गजस्कन्धाधिरूढतया अभिषेकालंकारप्रदर्शनार्थं निर्याणात्पूर्वमेव यदि कार्यवशान्निशा आयाति तदा श्रीरामालंकारप्रदर्शनार्थं दीपवृक्षान्-वृक्षवनानाशाखानिर्मितदीपस्तम्भविशेषानित्यर्थः ॥

 अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः ।
 आकांक्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥
 समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च ।
 कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥
 अहो महात्मा राजाऽयं इक्ष्वाकुकुलनन्दनः ।
 ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ २१ ॥


 सर्वे ह्यनुगृहीताः स्मो यन्नो रामो महीपतिः ।
 चिराय भविता गोप्ता [२२०]दृष्टलोकपरावरः ॥ २२ ॥

 दृष्टलोकपरावर इति । भावप्रधाननिर्देशः । तत्तत्पुरुषप्राशस्त्याप्राशस्त्य इत्यर्थः ॥ २२ ॥ यथावगत-

 अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।
 यथा च भातृषु स्निग्धस्तथाऽस्मास्वपि राघवः ॥ २३ ॥
 चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।
 यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥
 एवंविधं कथयतां पौराणां शुश्रुवुः परे ।
 दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २५ ॥

 श्रुतरामाभिषेकवृत्तान्ता जानपदा जना अपि दिग्भ्यः-नानादिग्भ्यः प्राप्ताः ॥ २५ ॥

 ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।
 [२२१]रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २६ ॥

 ते तु रामस्य पुरीं पूरयामासुरिति योजना ॥ २६ ॥

 जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
 पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥ २७ ॥


 [२२२]ततस्तदिन्द्रक्षयसन्निभं पुरं
  दिदृक्षुभिर्जानपदै[२२३]रुपागतैः ।
 समन्ततः सस्वनमाकुलं बभौ
  समुद्रयादोभिरि[२२४]वार्णवोदकम् ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षष्ठः सर्गः


 इन्द्रक्षयः-इन्द्रनिवासः । हरि (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षष्ठः सर्गः




सप्तमः सर्गः
[मन्थरोपजापः]

 [२२५]ज्ञातिदासी [२२६]यतो नित्यं कैकेय्यास्तु सहोषिता ।
 प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥ १ ॥


 अथ देवकार्याय रावणनाशाय देवैरावेशितदुर्मत्याः मन्थराया रामाभिषेकविघ्ने प्रवृत्तिः । वाचः क्रमवर्तित्वात् वाल्मीकि रामाभिषेक-निश्चितदिवसस्य प्रातः स्नानप्रभृतिवृत्तान्तमुपवर्ण्य, पूर्वरात्रिप्रवृत्तराज-भवनवृत्तान्तं वर्णयितुमुपक्रमते-ज्ञातीति । यतो-यस्मात्; मन्थरा

ज्ञातिदासी-रामज्ञातेर्भरतस्य दासी यतश्च कैकेय्या सह नित्यमुषिता; तस्मात्सा रामाभिषेकवचनं श्रुत्वा कोपेन दह्यमाना सती कैकेयीमिंद वचनमब्रवीत् [२२७]इत्यग्रेण (१३ श्लो.) सम्बन्धः । लोकस्थित्या स्वस्वीया- भ्युदयस्यैव (सर्व) इष्टत्वात्, ज्ञातिश्रैष्ठ्यासू यायाश्चानादिसिद्धत्वात्, दुःखेन तद्विघटने प्रवृत्तिः । "कैकेय्याः ज्ञातीनां दासी; यतो जाता-यतः कुतश्चिजाता, तस्या जन्म ज्ञायत इत्यर्थः' इत्यादिकं[२२८] यद्वा भट्टः कथयति । तत्सर्वं रामश्रद्धांजाड्य जमन्थरारोष-मूलप्रलापमात्रम् । प्रासादमित्यादि-यदृच्छयाऽऽरुरोहेति । ज्ञाति-दासीत्यनुकर्षः ॥ १ ॥

 सिक्तराजपथां कृत्स्नां प्रकीर्ण[२२९]कमलोत्पलाम् ।
 अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत ॥ २ ॥

 प्रकीर्णानि कमलान्युत्पलानि च यस्यां सा । तस्मादित्यादि । प्रासादे स्थित्वाऽन्ववैक्षतेत्यर्थः । 'अधिकरणे च ल्यब्लोप उपसंख्यानम्' इति पञ्चमी ॥ २ ॥

 पताकाभि[२३०]र्वरार्हाभिः ध्वजैश्व समलंकृताम् ।
 [२३१]सिक्तां [२३२].चन्दनतोयैश्च शिरस्स्नातजनैर्युताम् ॥ ३ ॥


 वरार्हाभिः-वराः-श्रेष्ठाः अर्हाः-विचित्रवस्त्रपट्टदुकूलादि

क्लृप्तत्वेन पताकार्हास्तथा । न हि श्रेष्ठश्वेतवस्त्रमात्रं पताकार्हम् । शिरसा च स्नाताः जनास्तथा । अभ्यङ्गस्नानवन्त इति यावत् । विशिष्येदं विशेषणम् स्त्रीशूद्रविषयं । त्रैवर्णिकानां शिरस्नानं नित्यसिद्धम् ॥ ३ ॥

 [२३३]माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।
 शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् ॥ ४ ॥

 माल्यमोदकेति । दानप्राप्तैरितिशेषः । शुक्लदेवगृहद्वारामिति । चन्दनोदकोपलेपनेनेति शेषः ॥ ४ ॥

 संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
 प्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥ ५ ॥
 प्रहृष्टमुदितैः पौरै[२३४]रुच्छ्रितध्वजमालिनीम् ।
 अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता ॥६॥

 पौरैरिति । उपलक्षितामितिशेषः ॥ ६ ॥

 सा हर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम् ।
 अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥ ७ ॥

 अविदूर इति। मन्थराधिरूढहर्म्यात्यासन्नहर्म्य इत्यर्थः । धात्रीं- रामस्येति शेषः । तस्या अपि कौसल्यातोऽभ्यधिकपुत्रस्नेहवत्त्वात् हर्षोत्फुल्लनयनामित्यादिविशेषणम् ; हर्षेण विदीर्यमाणेत्यादि (श्लो. १०)विशेषणञ्च ॥ ७ ॥


 [२३५]उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
 राममाता धनं किन्नु जनेभ्यः संप्रयच्छति ॥ ८ ॥

 अर्थपरा नानाविधधनधान्यपदार्थग्रहणतत्परा सती गृहीतं तद्धनं जनेभ्यः किन्नु-कस्मात् प्रयच्छति ॥ ८ ॥

 अतिमात्रप्रहर्षोऽयं [२३६]किं जनस्य च शंस मे ।
 कारयिष्यति किं वाऽपि संप्रहृष्टो महीपतिः ॥ ९ ॥

 संप्रदृष्टो महीपतिः किं वा कारयिष्यतीति । मन्थरायाः रामाभिषेकदिवसात्पूर्वदिवससायंकाल एव कौसल्यादिव्यापारानुभवात् तदा महीपतेरपि हृष्टत्वात् हृष्टमहीपतिदर्शनं[२३७] । किं वेति । देवाद्युत्सवमिति शेषः ॥ ९ ॥

 [२३८][२३९]विदीर्यमाणा हर्षेण धात्री परमया मुदा ।
 आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् ॥ १० ॥
 श्वः पुष्येण जितक्रोधं यौराज्येन [२४०]राघवम् ।
 राजा दशरथो राम[२४१]मभिषेचयिताऽनघम् ॥ ११ ॥

 विदीर्यमाणेति-अन्तर्गतहर्षौत्कट्यात्, देहपोषमुखविकासादिना बहिः प्रसरणाद्विदीर्यमाणेवोपलक्षिता मुदा आचचक्षे ॥ ११ ॥


 धात्रयास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।
 कैलासशिखराकारात् प्रासादादवरोहत ॥ १२ ॥

 अवरोहत । अवारुहदिति यावत् ॥ १२ ॥

 सा दह्यमाना कोपेन मन्थरा पापदर्शिनी ।
 शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ १३ ॥

 पापदर्शिनीति । इनिर्वा णिनिर्वा । शयानामिति-सुखित्वात् प्रभ्वीत्वाच्च ॥ १३ ॥

 उत्तिष्ठ मूढे ! किं शेषे भयं त्वामभिवर्तते ।
 उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥ १४ ॥

 अघौघेन-दुःखसमूहेन । 'अघं दुरितदुःखयोः' ॥ १४ ॥

 [२४२]अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे ।
 चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ १५ ॥

 अनिष्ठ इति । सुखशयनादिलक्षणे तव सुभगाकारे इदानीमनिष्टे-अनुचिते-अनिष्टपर्यवसायिनि सति कथं सौभाग्ये तावके विकत्थसे-व्यर्थवर्णनं करोषि । का मे मत्सौभाग्यविकत्थनस्य प्रसक्तिरित्यत्राह-चलं हीति । तरणावुष्णगे-ग्रीष्मगे सति । नद्याः स्रोत इवेत्यनेन राज्ञस्त्वयीदानीं वैरं स्यात्, तेन त्वत्सौभाग्यं क्षीणप्रायमित्युक्तं भवति । 'निदाघ उष्णोपगम उष्णः' इत्यमरः ॥ १५ ॥


 [२४३]एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
 कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ १६ ॥

 विषादमगमदिति । उक्तरीत्या राजवैरस्यस्फोरणात् ॥ १६ ॥

 कैकेयी त्वब्रवीत् कुब्जां कच्चित्क्षेमं न मन्थरे ।
 [२४४]विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ १७ ॥

 कच्चित् क्षेमं नेति । मह्यामिति शेषः । हि-यस्मात् अस्मत्सम-सुखदुःखां त्वां अद्य भृशदुःखितां लक्षये, अतः क्षेमं न कञ्चिदिति योजना ॥ १७ ॥

 मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् !
 उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ १८ ॥
 सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
 विषादयन्ती प्रोवाच भेदयन्ती च [२४५]राघवम् ॥ १९ ॥

 'तस्या हितैषिणी' इति लोकदृष्ट्या । विषादयन्ती भेदयन्तीति शतृद्वयं हेतौ । राज्याश्रयो ज्ञातिगामित्वानिष्टप्रकाशनेन विषादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविषयकस्नेहमात्रभेदहेतवे चेत्यर्थः ॥ १९ ॥

 अक्षयं सुमहद्देवि ! प्रवृत्तं [२४६]त्वद्विनाशनम् ।
 रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ २० ॥


 सास्म्यगाधे भये मग्ना [२४७]दुःखशोकसमन्विता ।
 दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ॥ २१ ॥

 अक्षयं-क्षयः-[२४८]प्रतीकारः । अशक्यप्रतीकारमिति यावत् । विनाशनं-त्वत्सौभाग्यविनाशकारणं प्रवृत्तमिति । किं तत् इत्यत्राह राममित्यादि । अभिषेक्ष्यति-अतस्तन्निमित्ते भय इति योजना ॥

 तव दुःखेन कैकेयि ! मम दुःखं महद्भवेत् ।
 त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ २२ ॥

 ननु दास्यास्तव कुतो भयमित्यत्राह-तवेत्यादि ॥ २२ ॥

 नराधिपकुले जाता महिषी त्वं महीपतेः ।
 उग्रत्वं राजधर्माणां कथं देवि ! न बुध्यसे ॥ २३ ॥

 अस्तु ! किमिदानीमत्याहितमित्यत्राह-नराधिपेत्यादि । उच्यमानविशेषणद्वयं [२४९]स्वप्राभवाप्रच्युतये यत्नस्त्वया संपाद्य इति स्फोरणाय । ननु राज्ञः शेषस्त्र्युपेक्षया मद्भोगैकसक्तत्वात्- मद्ग्रहैकानिलयत्वा अस्मत्प्राभवस्य अस्मन्नित्यानुरक्तराजप्रसादमूलस्य कुतः प्रच्युतिशङ्केत्यत आह-उग्रत्वामित्यादि । राज्ञः-[२५०]दशरथस्य धर्माः तथा ॥ २३ ॥

 धर्मवादी [२५१]शठो भर्ता श्लक्ष्णवादी च दारुणः ।
 शुद्धभावेन जानीषे तेनैव[२५२]मतिसंन्धिता ॥ २४ ॥


 तदुग्रत्वमेव प्रदर्शयति-धर्मवादीत्यादि । धर्मवादी श्लक्षणवादी च केवलं वाचा; अन्तस्तु शठः दारुण एव । शठः-पापानुष्ठाता । आन्तरकौर्यगोपनाय श्लक्ष्णवादी-सस्मितमृदुमधुरभाषी ।

एतादृशमपि तं; शुद्धभावेन-तथोपलक्षितत्वेन जानीषे । सर्वथा तेन एवं-प्रागुक्तरीत्या अतिसन्धिता-अतिसन्धिर्वञ्चना, तां प्राप्ता ; तारकादित्वादितच् ॥ २४ ॥

 [२५३][२५४]उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।
 अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २५ ॥

 उपस्थितं-कौसल्याया अर्थप्रापणशेषतया [२५५]कर्तव्यप्राप्तकालं । त्वयि सान्त्वं-अनुसरणं अनर्थकं-त्वत्प्रयोजनानुपयुक्तं प्रयुञ्जानो भवति । कौसल्यां-अनिष्टत्वेन प्रकाश्यमानां अर्थेनाद्य योजयिष्यतीति ॥ २५ ॥

 [२५६]अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
 [२५७][२५८]काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ २६ ॥

 त्वत्सान्त्ववत् अन्यदप्युपायान्तरं कौसल्याया अर्थप्रापणायानुष्ठितमित्याह-अपवाह्येति । उद्वास्येत्यर्थः । कालमर्हति काल्यं, तदर्हमिति यत्-उक्तरीत्या अविघ्नतो यथाप्राप्तराज्याभिषेक-कालम् ॥ २६ ॥


 शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
 आशीविष [२५९]इवाङ्केन बाले ! [२६०][२६१]परिहृतस्त्वया ॥ २७ ॥

 शत्रुरित्यादि । पतिप्रवादेन-पतिव्याजेन छन्नः शत्रुः त्वया मात्रेव हितकाम्यया-हितप्रापणेच्छया अङ्केनोपलालितः । न त्वाशीविष इव परिहृतः ॥ २७ ॥

 यथा हि कुर्यात् सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
 राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २८ ॥

 अज्ञानादपरिहारमूलोऽनर्थश्च संप्रवृत्त इदानीमित्याह-यथेत्यादि । प्रत्युपेक्षितः–उपेक्षितपरिहारः यथाकरोति, तथा कृतेति योजना ॥

 पापेना[२६२]नृतसान्त्वेन बाले ! नित्यसुखोचिते !
 रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २९ ॥

 कथं कृतेत्यतः-पापेनेत्यादि । अनुबन्धः-पुत्रादिपरिकरः ॥

 [२६३]संप्राप्तकालं कैकेयि ! क्षिप्रं कुरु हितं तव ।
 त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ ३० ॥

 [२६४]संप्राप्तकालं-संप्राप्तानुष्ठानकालम् । विस्मयकरं दर्शनं यस्याः सा तथा । अवश्यकर्तव्याकरणेनोपेक्षणात् तत्स्वभावदर्शनस्य विस्मयकरत्वं । [२६५]'विस्मयकररूपानुभावे' इत्यर्थस्तु प्रकृतानुपयोगादुपेक्ष्यः ॥


 मन्थराया वचः श्रुत्वा शयनात् सा शुभानना ।
 उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी ॥ ३१ ॥

 एवं दैवहतयां मन्थरया तदनर्थत्वेन प्रकाशिते सति महार्थे कैकेयी महाकुलप्रसूता महाराजमहीषीत्वतः निसर्गकल्याणगुणतः सर्वथार्थभूतं रामाभिषकं महार्थमेव मन्यते स्मेति प्रतिपाद्यते-मन्थराया इत्यादि ।

 अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता ।
 [२६६]एकमाभरणं तस्यै कुभ्जायै प्रददौ शुभम् ॥ ३२ ॥

 विस्मयान्वितेति। अत्यद्भुताभ्युदयो मयाऽद्य श्रुत इति । एकमाभरणं ददाविति। कौसल्यावदेव पुत्राभ्युदयवादित्वादेव तस्याः किमप्याभरणं ददावित्यर्थः ॥ ३२ ॥

 दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
 कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ ३३ ॥
 इदं तु मन्थरे ! मह्यं [२६७]आख्यासि परमं प्रियम् ।
 एतन्मे प्रियमाख्यातं भूयः किं वा करोमि ते ॥ ३४ ॥

 हे मन्थरे ! यदिदमाख्यासि एतत् मे परमं प्रियमेव हि । यदेतन्मे प्रियमाख्यातं अत्र ते भूयो-अभ्यधिकं किं वा प्रीतिदानं करवाणि ॥ ३४ ॥

 रामे वा भरते वाऽहं विशेषं नोपलक्षये ।
 तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ ३५ ॥

 ननु कथं ज्ञातिश्रयः श्रुतिः प्रियं इत्यत्राह-राम इत्यादि । विशेषमिति । पुत्रत्वप्रयुक्तस्त्रेहे विशेषमित्यर्थः ॥ ३५ ॥


 न मे परं किञ्चि[२६८]दितो वरं पुनः
  प्रियं प्रियार्हे ! सुवचं वचोऽमृतम् ।
 तथा ह्यवोचस्त्वमतः प्रियोत्तरं
  वरं परं ते प्रददामि तं वृणु ॥ ३६ ॥

इत्यर्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तमः सर्गः



 न म इत्यादि । हे प्रियार्हे-प्रियदानार्हे ! त्वया पुनः मे यत् प्रियं वरं वच उक्तं, इतः परं अभ्यधिकं किञ्चित्प्रियं त्वया न सुवचम् । हि-यस्मात् तथा तादृशं [२६९]प्रियोत्तरं वचोऽवोचः त्वं, अतोऽस्मादेव कारणात् परं वरं ते प्रददामि तं वृणु । मार्ग (३५) मानः (?) सर्गः ॥ ३६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तमः सर्गः


अष्टमः सर्गः
[मन्थरोपदेशः]

 मन्थरा [२७०]त्वभ्यसूयैनामुत्सृज्याभरणं हि तत् ।
 उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ १ ॥

 अथ-'किन्तु चित्तं मनुष्याणां' इतिन्यायेन (अयो. ४-२७) द्विस्त्रिर्लोकमर्यादावलम्बनेन मन्थरया हितवत् बोधनात् भद्रबुद्धेरपि


कैकेय्याश्चित्तं चलितमित्युच्यते । मन्थरेत्यादि । अभ्यसूय-कण्ड्वादे-रसूयतेर्ल्यप्, यगभाव आर्षः, असूयां कृत्वेत्यर्थः । एनां प्रतीति शेषः । आङः 'सुपांसुलुक्' इत्यादिना पूर्वसवर्णाश्रयणे सति अभ्यसूयेति पाङ्कोऽर्थः। कोपदुःखेति । हितं न शृणोतीति कोपः, अहितमस्या जायत इति दुःखम् ॥ १ ॥

 हर्षं [२७१]किमिदमस्थाने कृतवत्यसि बालिशे !
 शोकसागर[२७२]मध्यस्थं नात्मानमवबुध्यसे ॥ २ ॥

 अस्थाने-अनुचितकाले । बालिशे-अज्ञे ॥ २ ॥

 मनसा [२७३]प्रहसामि त्वां देवि ! दुःखार्दिता सती ।
 यच्छोचितव्ये हृष्टाऽसि प्राप्य त्वं व्यसनं महत् ॥ ३ ॥

 शोचितव्ये हृष्टाऽसीति यत् अतो मनसा त्वां प्रहसामि, उन्मत्तदर्शनेनेव स्वदशापरिहासास्पदभूतासीत्यर्थः ॥ ३ ॥

 शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।
 अरेः सपत्नीपुत्रस्य [२७४]वृद्धिं मृत्योरिवागताम् ॥ ४ ॥

 तदेवाह-शोचामीत्यादि । ते दुर्मतित्वं शोचामि । का हि प्राज्ञा-बुद्धिमती मृत्योर्वृद्धिमिवागतां अरेः सपत्नीपुत्रस्य वृद्धिं प्रहर्षयेत्-उपलालयेत् ॥ ४ ॥

 भरतादेव रामस्य [२७५]राज्यसाधारणाद्भयम् ।
 तद्विचिन्त्य विषण्णाऽस्मि भयं भीताद्धि जायते ॥ ५ ॥


 अथ महद्व्यसनामिति यदुक्तं तद्दर्शयति-भरतादित्यादिना । रामस्य भरताद्भयमस्ति । भीताद्रामाद्भरतस्य च महद्भयमावश्यकम् । यथा सर्पपुरुषव्याघ्रपुरुषादेः । ननु रामस्य भरतात् तस्मादस्य च भयं किंनिमित्तमित्यत्रोक्तम्-राज्यसाधारणादिति । राज्यरूपं यत् साधारणभोग्यं तस्मादेव हेतोरित्यर्थः । आशाया आनन्त्यात्, ममैवास्तु राज्यं, ममैवास्तु राज्यं' इति परस्परजिगीषा भवति । ततोऽन्योन्यस्य भयं भवतीत्यर्थः ॥ ५ ॥

 लक्ष्मणो हि महेष्वासो रामं सर्वात्मना [२७६]गतः ।
 शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ ६ ॥

 ननु भरतादेवेति कथमवधारणमित्यत्राह-लक्ष्मणो हीत्यादि । रामं सर्वात्मना गत इति । मनोवाक्कायिकसर्वव्यापारै रामेणैक्यं गतः । अतो भेदाभावादेव न तयोरन्योन्य[२७७]भीप्रसङ्ग इत्यर्थः । तर्हि शत्रुघ्नाद्वा कुतो न भीतिरित्यत्र रामलक्ष्मणवत् शत्रुघ्नभस्तयोरैक्यात् शत्रुघ्नस्य भरतशेषत्वाच्च न तत्प्रयुक्तप्रातिखिकमीप्रसङ्ग इत्याशयेनाह-शत्रुघ्नश्चापीति ॥ ६ ॥

 प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि !
 राज्यक्रमो विप्रकृष्टस्तयोस्तावद्यवीयसोः ॥ ७ ॥

 भरतादेवेत्यत्र हेत्वन्तरमाह-प्रत्यासन्नेति । प्रत्यासन्नः- समीपभूतो यः क्रमः-उत्पत्तिक्रमः तेनापि हेतुना भरतस्यैव रामात्प्रत्यासन्नं राज्यम् । तयोस्तु विप्रकृष्टो राज्यागमः । कुत इत्यतः-यवीयसोरिति । कनिष्ठत्वादेव तयो राज्यागमो विप्रकृष्ट इत्यर्थः । भरतो लक्ष्मणाज्जयायानिति-पुनर्वस्वादिचतुर्नक्षत्रेषु रामभरतलक्ष्मणशत्रुघ्नानां क्रमाज्जननस्य बालकाण्ड एवोक्तत्वाद्यथोक्तज्यैष्ठ्यकानिष्ट्यनिश्चयः ॥ ७ ॥


 विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।
 भयात् प्रवेपे [२७८]रामस्य चिन्तयन्ती तवात्मजम् ॥ ८ ॥

 उक्तं रामभयमुपसंहारेणाह-विदुष इत्यादि । सर्वशास्त्रवैदुष्यवतः, विशिष्य क्षत्रचारित्रे-मूलादिषड्विधबलसंपादनसन्धिविग्रहादिषट्कर्मप्रयोगरूपे प्राज्ञस्य-यथाकालं प्रयोगसमर्थस्य, उत्साहादिशक्ति-त्रयसमर्थत्वात् प्राप्तकारिणः-षट्कर्मणो द्रागेव करणशीलस्य रामस्य त्वदात्मजं प्रति भाव्यनर्थं चिन्तयन्ती तन्निमित्ताद्भयात् प्रवेपे ॥ ८

 [२७९]सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
 यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ ९ ॥

 एवं पुत्रानर्थं प्रदर्श्य तस्या अप्यनर्थं प्रदर्शियितुं कौसल्यावृद्धि-माह-सुभगेत्यादिभिः ॥ ९ ॥

 प्राप्तां [२८०]वसुमतीं प्रीतिं प्रतीतां हतविद्विषाम् ।
 उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ॥ १० ॥

 रामाद्भरतस्येव कौसल्यातः कैकेय्या अनर्थं दर्शयति-प्राप्तामिति । वसुमतीं, वसुमतीप्राप्तिनिमित्तप्रीतिं च प्राप्तां । हताः विद्विषः-युष्मदादिसपत्नीरूपाः यया सा तथा । उपस्थास्यसि-गत्वा सेविष्यस इत्यर्थः ॥ १० ॥

 [२८१]एवञ्चेत् त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि ।
 पुत्रश्च तव रामस्य [२८२]प्रेष्यत्वं हि गमिष्यति ॥ ११ ॥


 एवञ्चेत्-एवमुपस्थानं तव प्राप्तं चेत् । न केवलं त्वमेका

दासीत्याह-सहेत्यादि ॥ ११ ॥

 [२८३]हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।
 अप्रहृष्टा भविष्यन्ति स्नुषास्ते [२८४]भरतक्षये ॥ १२ ॥


 रामस्य स्त्रिय इति । तत्पार्श्वपतिता इति शेषः । भरतस्य क्षये-प्रभावक्षये । दासभावापत्ताविति यावत् ॥ १२ ॥

 तां दृष्ट्वा [२८५]परमप्रीता ब्रुवन्तीं मन्थरां ततः ।
 रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥ १३ ॥

 एवं दुर्युक्तिपुरस्सरं कृतोपजापाऽपि कैकेयी निसर्गपुण्यस्वभावत्वात् न चचालेत्युच्यते-तामित्यादिना । ब्रुवन्तीमिति । तथोपजापं ब्रुवन्तीमित्यर्थः । [२८६] राम इति शेषः । अत एव देवीति । पुण्यस्वभावेति यावत् ॥ १३ ॥

 [२८७]धर्मज्ञो [२८८]गुणवान् दान्तः कृतज्ञः [२८९]सत्यवाक् शुचिः |
 रामो राज्ञः सुतो ज्येष्ठो यौवराज्यं ततोऽर्हति ॥ १४ ॥

 मन्थरोपजापयुक्तिं प्रतिक्षिपति-धर्मज्ञ इत्यादिभिः । तत इति । यतो धर्मज्ञत्वादिभिः ज्यैष्ठ्यं च तदभिषेकसामग्री तत एवेत्यर्थः ॥ १४ ॥

 'भ्रातॄन् भृत्यांश्च दीर्घायुः' [२९०]पितृवत् पालयिष्यति।
 संतप्यसे कथं कुब्जे ! श्रुत्वा रामाभिषेचनम् ॥ १५ ॥

 एवं रामाभिषेकस्यैव न्याय्यत्वं स्वसम्मतत्वं च प्रदर्श्य स्वपुत्राद्य-नर्थप्रसक्तिशङ्कामपि परिहरति-भ्रातृनित्यादिना । कथामिति । कस्मात् इत्यर्थः । व्यर्थमेवेति यावत् ॥ १५ ॥


 भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।
 पितृपैतामहं राज्य[२९१]मवाप्ता पुरुषर्षभः ॥ १६ ॥

 पितृवत् भ्रातॄनविभागेन परिपालयतो रामस्य पितृवदेव वर्षशतात्परमपि यदा विबिभाजयिषा भवति तदा भरतो राज्यमवाप्ता-प्रपत्स्यत इति ध्रुवम् । अपि शब्दाल्लक्ष्मणशत्रुघ्नयोरपि राज्यप्राप्तिर्ध्रुवेत्यर्थः ॥ १६ ॥

 [२९२]सा त्वमभ्युदये प्राप्ते [२९३]वर्तमाने च मन्थरे !
 भविष्यति च कल्याणे किमर्थं परितप्यसे ॥ १७ ॥

 कल्याण इति । रामाभिषेकलक्षण इत्यर्थः ॥ १७ ॥

 यथा मे भरतो मान्यः तथा भूयोऽपि राघवः ।
 कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् ॥ १८ ॥

 [२९४]मान्य इति । प्रार्थनीयश्रेयस्क इति यावत् । अतिरिक्तं अभ्यधिकम् ॥ १८ ॥

 राज्यं च यदि रामस्य भरतस्यापि तत्तदा ।
 मन्यते हि यथाऽऽत्मानं तथा भ्रातॄंश्च राघवः ॥ १९ ॥
 कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता ।
 दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ २० ॥


 एवं रामाद्भरतस्य राज्यापहारोपजापं परिहृतवर्ती कैकेयीं मन्थरा तृतीयपर्यायेण सर्वथा राज्यभ्रंशो भवितेति भेदयति-कैकेय्या वचनमित्यादिना ॥ २० ॥

 अनर्थदर्शिनी मौर्ख्यात् नात्मानमवबुध्यसे ।
 [२९५]शोकव्यसनविस्तीर्णे [२९६]मज्जन्ती दुःखसागरे ॥ २१ ॥

 अनर्थदर्शिनी । अनर्थस्यैवार्थत्वेन दर्शनशीलेति यावत् । शोकः-इष्टवियोगानिष्टसंप्रयोगजः । व्यसनं तु-अभीष्टानाप्त्यनिष्टापरिहारजम् । शोकव्यसनजलोर्मिभ्यां विस्तीर्णे-व्याप्ते- उक्तोभयसामस्त्यात्मकदुःखसागरे मज्जन्तीमात्मानं मौर्ख्यान्नावबुध्यसे -न जानीषे ॥ २१ ॥

 भविता राघवो राजा राघवस्य च यः सुतः ।
 राजवंशात्तु भरतः कैकेयि ! [२९७]परिहास्यते ॥ २२ ॥

कुत एवं त्रिवारं कथयसीत्यत्राह-भवितेत्यादि । परिहास्यत इति-ओ हाङो ऌट् ॥ २२ ॥

 न हि [२९८]राजसुताः सर्वे राज्ये तिष्ठन्ति भामिनि !
 स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ २३ ॥

 ननु राघवसुतवत् भरततत्सुताः कुतो राज्यं न प्राप्नुयुः ? इत्यत्राह-न हि राजसुतेत्यादि । कुतः सर्वे न तिष्ठन्तीत्यत्राह-स्थाप्य मान इत्यादि । [२९९]अनयः-परस्परपीडालक्षणः ॥ २३ ॥


 तस्मात् ज्येष्ठे हि कैकेयि ! [३००]राज्यतन्त्राणि पार्थिवाः ।
 स्थापयन्त्यनवद्याङ्गि ! गुणवत्स्वितरेषु च ॥ २४ ॥

 यस्मादेवं तस्मात्-राज्यतन्त्राणि-राज्याधिकारादिव्यापारापे-क्षितप्राधान्यानीत्यर्थः । 'तन्त्रं प्रधाने सिद्धान्ते' । इतरेषु-कनीयस्सु ॥ २४ ॥

 असावत्यन्तनिर्भग्नः तव पुत्रो भविष्यति ।
 अनाथवत्सुखेभ्यश्च राजवंशाच्च हास्यते ॥ २५ ॥

 यदेवं अतः-असावित्यादि ॥ २५ ॥

 साऽहं त्वदर्थे संप्राप्ता, त्वं तु मां नावबुध्यसे ।
 सपत्नि[३०१]वृद्धौ यन्मे त्वं प्रदेयं दातुमिच्छसि ॥ २६ ॥
 ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।
 देशान्तरं नाययिता लोकान्तरमथापि वा ॥ २७ ॥

 त्वदर्थ इति । उक्तरीत्या त्वत्पुत्रराज्यभ्रंशे प्राप्ते तत्परिहारकथन-प्रयोजनार्थमित्यर्थः । नावबुध्यस इति । हितार्थमागतामिति शेषः । सपत्न्याः वृद्धिः-सपत्निवृद्धिः । 'ङ्यापोः' इति ह्रस्वः । यत्-यस्मात् प्रदेयं–पारितोषिकं दातुमिच्छसि तस्मात्-ध्रुवमित्यादि । लोकान्तरामति । हनिष्यतीति यावत् ॥ २७ ॥

 [३०२]बाल एव हि मातुल्यं भरतो नायितस्त्वया ।
 [३०३]सन्निकर्षाच्च सौहार्दं जायते [३०४]ह्यवरेष्वपि ॥ २८ ॥


 अथ--दशरथस्य रामे पक्षपातः राज्याभिषेकप्रयोजकः भरता-सन्निधानादेव । तदपि दैवात् त्वया कृतं इत्याह-बाल एवेति । मातुलस्येदं मातुल्यं-मातुलदेशमिति यावत् । बाले तस्मिन् गते, स्थिते वा किं? इत्यत्राह-सन्निकर्षादित्यादि । सन्निकर्षाद्धेतोः अवरेष्वपि सुतेषु पितॄणां स्नेहो जायत इति लोकप्रसिद्धम् । अतो भरते स्थिते रामस्येव भरतस्यापि राजा राज्यं विभज्य दास्यति । दुरदृष्टवशाद्भरत-सन्निकर्षो न संपन्न इति ॥ २८ ॥

 भरतस्याप्यनु[३०५]वशः शत्रुघ्नोऽपि [३०६]समं गतः ।
 लक्ष्मणो हि यथा रामं तथाऽसौ भरतं गतः ॥ २९ ॥

 यदि भरतैकहृदयः शत्रुघ्नोऽत्र तिष्ठेत् तदाऽपि भरतकार्यस्यानपायः ; सोऽपि दैवाद्गत इत्याह-भरतस्यापीति । भरतं गत इति । एकहृदयतयेति शेषः ॥ २९ ॥

 [३०७]श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः ।
 सन्निकर्षादिषीकाभिः मोचितः परमाद्भयात् ॥ ३० ॥

 किञ्चित्सन्निकर्षात् किञ्चिदनर्थनिवृत्तिर्लोके दृष्टेत्याह-श्रूयत इत्यादि । वनजीविभिः-वनवृक्षच्छेदादिव्यापारजीविभिः छेत्तव्यः- प्राप्तछेदनकालः तस्मात्परमाद्भयात् इषीकाभिः-इषीककण्टकबहुगुल्मैः सन्निकर्षात्-परितः परिवारणरूपात् मोचित इति श्रूयते । हीति नित्यान्तःपुरवर्तित्वेन [३०८]श्रवणानुभवकथनम् ॥ ३० ॥


 गोप्ता हि रामं सौमित्रिः लक्ष्मणं चापि राघवः ।
 अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ ३१ ॥
 तस्मान्न लक्ष्मणे रामः पापं किञ्चित् करिष्यति ।
 रामस्तु भरते पापं कुर्यादेव न संशयः ॥ ३२ ॥

 पापमिति । वधमिति यावत् ॥ ३२ ॥

 [३०९]तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।
 एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ ३३ ॥
 [३१०]एवं [३११]च ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।

 रामाभिषेकविघ्नाप्रवृत्तावन्ततो वक्तव्यमाह-तस्मादित्यादि । यस्माद्वधो रामात् प्राप्तः-तस्मात् राजगृहादेव-मातुलगृहादेव वनं गच्छतु-नात्रागत्य म्रियताम् । एतद्धि मह्यं 'अन्ततो वक्तव्यं' इति भृशं रोचते । 'जीवन् भद्राणि पश्यति'–(सुन्द.-१३-४७) इति न्यायेन तवापि पुत्रस्य जीवनानपायतो हितं । एवं च-दुरदृष्टजदुर्मतिवशाभिरुचितं, ते ज्ञातिपक्षस्य श्रेयश्च, अप्रतिहतं भविष्यतीति शेषः ॥ ३३॥


 यदि चेत् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥ ३४ ॥
 [३१२]स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
 समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ ३५ ॥

 ननु भरताभिषेकसाधनेऽपि कथं रामज[३१३]नाशप्रसंगनिवृत्तिरित्यत्र राज्ये सति त्वत्पुत्रस्य प्राबल्यात् स्वयमेव नाशो [३१४]भरताद्भविष्यतीत्याह-यदीति । धर्मादिति । पितृदीयमानत्वरूपादिति यावत् । रामस्य सहजो रिपुरिति । भविष्यतीति शेषः । किं तत इत्यत्राह-समृद्धेत्यादि । समृद्धार्थस्य त्वत्पुत्रस्य वशे स्थितः नष्टार्थो रामः कथं जीविष्यति । स्वयमेव शनैर्नङ्क्ष्यतीत्यर्थः ॥ ३५ ॥

 अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।
 प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ ३६ ॥

 यदेवं अतो रामवृद्धिं निवार्य रक्षणीयस्तव पुत्र इत्याह-अभि-द्रुतमिति । अरण्ये सिंहेनाभिद्रुतं गजयूथपमिव रामेण-राज्यप्राप्तया प्रबलेन प्रच्छाद्यमानं-अभिभूयमानं भरतं तदभिषेकनिरोधेन त्रातुमर्हसि ॥ ३६ ॥

 दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
 राममाता सपत्नी ते कथं वैरं न यातयेत् १ ॥ ३७ ॥


 अन्यथा सर्वथैव प्राप्तानर्थं त्वदात्मानमपि त्रातुमर्हसीत्याह-दर्पादित्यादि । कथं वैरं न यातयेदिति । [३१५]वैरयातनं-वैरशुद्धिंत्वद्दास्यताऽऽपादनेन संपादयेदेवेत्यर्थः ॥ ३७ ॥

 यदा हि रामः पृथिवीमवाप्स्यति
  प्रभूतरत्नाकरशैलपत्तनाम् ।
 तदा गमिष्यस्यशुभं पराभवं
  सहैव दीना भरतेन भामिनि ! ॥ ३८ ॥

 उपसंहरति-यदा हीत्यादि । पराभवं-दास्यरूपम् ॥ ३८ ॥

 [३१६]यदा हि रामः पृथिवीमवाप्स्यति
  ध्रुवं प्रनष्टो भरतो भविष्यति ।
 अतो हि संचिन्तय राज्यमात्मजे
  परस्य चाद्यैव [३१७] विवासकारणम् ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टमः सर्गः

 यतो जोषमवस्थाने सपुत्रायास्तेऽनर्थः, अत एव यथा स्यादात्मजे राज्यं तथा चिन्तय । अपि च 'शत्रुशेषो हि न स्थाप्यः' इति न्यायेन अद्यैव परस्य विवासकारणं च चिन्तय । धीगौ (३९) मानः सर्गः ॥ ३९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डेऽष्टमः सर्गः



नवमः सर्गः
[रामप्रवासनाध्यवसायः]

 एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना ।
 दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ १ ॥

 एवं तृतीयपर्याये-ज्यैष्ठ्यक्रमप्राप्तियुक्तेः भरतराज्यभ्रंशहेतोः उपदेशात्, वैरनिर्यातनरूपस्य स्वदास्यप्राप्तिहेतोश्चोपदेशात्, जन्मप्रभृति मन्थराया अपि निजहितैषित्वाविशयात्, तादृश्या तया त्रिर्वाचा चोपदिश्यमानत्वात्, दीक्षितपशुगृहन्यायेन पुनःपुनः श्रवणे परमस्वस्थस्याप्यभ्यस्यमानार्थे तात्त्विकत्वबुद्धेः लोकस्वाभाव्यात्, अन्ततः स्वकार्याय देवैरेव चित्तक्षोभस्य संपादनाच्च मन्थरावाक्यानुष्ठानमेव हितम्मन्यमाना तन्निर्वाहोपायमनुतिष्ठति । एवमुक्ता त्वित्यादि । क्रोधेन-दास्यप्राप्तिश्रवणजेन ॥ १ ॥

 अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।
 यौवराज्येन भरतं [३१८]क्षिप्रमेवाभिषेचये ॥ २ ॥

 प्रस्थापयामि-प्रस्थापयितुमुधुक्ताऽस्मि । तथा-'अभिषेचय'इत्यपि ॥ २ ॥

 इदं त्विदानीं संपश्य केनोपायेन [३१९]मन्थरे !
 भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ३ ॥

 केवलोत्साहस्याकिञ्चित्करत्वात्तान्निर्वाहोपायं पृच्छति-इदंत्वित्यादि । रामो ज्येष्ठपुत्रः राज्ञोऽतिप्रियश्च । ततस्तस्य विवासनं युष्मदस्मदुत्साहमात्रासाध्यं; अत इहोपायं चिन्तयेत्यर्थः ॥ ३ ॥


 एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
 रामार्थमुप[३२०]हिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥

 रामार्थं-रामाभिषेकरूपप्रयोजनम् ॥ ४ ॥

 हन्तेदानीं प्रवक्ष्यामि कैकेयि ! श्रूयतां च मे ।
 यथा ते भरतो राज्यं पुत्रः प्राप्स्यति [३२१]केवलम् ॥ ५ ॥

 ते पुत्र एव केवलं प्राप्स्यति न तु राम इत्यर्थः ॥ ५ ॥

 किं न स्मरसि कैकेयि ! स्मरन्ती वा निगूहसे ।
 यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥ ६ ॥

 अहं वक्ष्याम्येवोपायं; अपि तु त्वमविज्ञाय पृज्छसि ? ज्ञात्वापि मन्मुखाच्छ्रोतुं गोपयसि वा ? इति पृच्छति-किं नेत्यादि । उच्यमानमात्मार्थमिति। आत्मप्रयोजनं प्रत्युपायामति शेषः ॥ ६ ॥

 मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि !
 श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥ ७ ॥

 भवतु यथा तथा वा । मयोच्यमानं तदुपायतत्त्वं श्रोतुं छन्दः–इच्छा यदि, तदा श्रूयताम् । [३२२]'छन्द इच्छा वेदपद्ये' इति कोशः ॥ ७ ॥

 श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी ।
 किञ्चिदुत्थाय शयनात् [३२३]स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥

 श्रवणे, श्रुतार्थानुष्ठाने चोत्साहो दर्शितः-उत्थायेत्यादिना ॥ ८ ॥


 कथय त्वं [३२४]ममोपायं केनोपायेन मन्थरे !
 भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ९ ॥
 एवमुक्ता तु कैकेय्या मन्थरा पापदर्शिनी ।
 रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥ १० ॥
 [३२५]पुरा [३२६]देवासुरे युद्धे सह राजर्षिभिः पतिः ।
 अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत् ॥ ११ ॥

 देवासुर इति । 'येषां च विरोधः' इत्येकत्वम् । तत्संबन्धिनीति यावत् । दण्डकान् प्रत्यगच्छत् ॥ ११ ॥

 दिशमास्थाय कैकेयि ! दक्षिणां दण्डकान् प्रति ।
 वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १२ ॥

 यत्र-दण्डकेषु, वैजयन्तमिति पुरं ख्यातम् । तत्र तिमिध्वजो नामाभूत् ॥ १२ ॥

 स शम्बर इति ख्यातः शतमायो महासुरः ।
 ददौ शक्रस्य संग्रामं देवसंधै[३२७]रनिर्जितः ॥ १३ ॥

 स एव लोकप्रसिद्धमायावी शम्बरश्च शक्रस्य सङ्ग्रामं ददाविति-शक्रेण प्रतियुद्धमकरोदित्यर्थः ॥ १३ ॥


 तस्मिन् महति संग्रामे पुरुषान् [३२८]क्षतविक्षतान् ।
 रात्रौ प्रसुप्तान् घ्नन्ति स्म [३२९]तरसाऽऽसाद्य राक्षसाः ॥ १४ ॥

 क्षतविक्षतशब्दौ क्रमाद्भावकर्मणोः । औक्षणु [३३०]हिंसायाम् । तस्मान्निष्ठायामिडभावः । विक्षतेः टित्वात् 'अनुदात्तोपदेश-इत्यनुनासिकलोपः । क्षतैः-अस्त्रशस्त्रवधैः विशेषेण विद्धा इत्यर्थः । रात्रौ प्रसुप्तान्-दिवायुद्धश्रान्त्या । तरसा-बलेन ॥ १४ ॥

 तत्राकरोन्महद्युद्धं राजा दशरथस्तदा
 असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ १५ ॥

 तत्रेति । तद्रात्र्यामित्यर्थः । शकलीकृत इति । सर्वाङ्गेषु प्रहृत इत्यर्थः ॥ १५ ॥

 अपवाह्य त्वया देवि ! सङ्ग्रामान्नष्टचेतनः ।
 तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ १६ ॥

 त्वया-सारथ्यं कुर्वाणया सङ्ग्रामादन्यतोऽपवाह्य नष्टचेतनः-मूर्छितः राजा रक्षितः । यत्र रक्ष्यते, तत्रापि पुनः शस्त्रैर्विक्षतः,ततोऽप्यपवाह्य रक्षितः ॥ १६ ॥

 तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने !
 स त्वयोक्तः पतिर्देवि ! यदेच्छेयं तदा वरौ ॥ १७ ॥
 गृह्णीयामिति, तत्तेन तथेत्युक्तं महात्मना ।


 तेन-एवं द्विः प्राणरक्षणेन हेतुना तुष्टेन तेन राज्ञा इत्यर्थः । तत्तेनेति । तत्-त्वदुक्तं वचनम् । तेन-राज्ञेत्यर्थः ॥ १७ ॥

 [३३१][३३२]अनभिज्ञाऽसि तद्देवि ! त्वयैव [३३३]कथिता पुरा ॥ १८ ॥
 अनभिज्ञाऽसि-विस्मृताऽसि । चिरकालवशात् ॥ १८ ॥

 [३३४]तथैषा तव तु स्नेहान्मनसा धार्यते मया ।
 रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥ १९ ॥

 यथा कथिता, तथैषा कथेति योजना । अभिषेकसंभारात् वरबलेन निगृह्य-निरुध्य, अभिषेकं विनिवर्तय ॥ १९ ॥

 तौ च याचस्व भर्तारं भरतस्याभिषेचनम् ।
 [३३५]प्रव्राजनं च रामस्य वर्षाणि तु चतुर्दश ॥ २० ॥

 निवर्तनप्रकारमाह-तौ वरावित्यादि । भर्तारं तौ वरौ याचस्व । याचिर्द्विकर्मकः । तेन दानेऽनुमते, तयोरेकेन भरतस्याभिषेचनं, अपरेण रामस्य प्रव्राजनं च वृणु इति शेषः ॥ २० ॥

 चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् ।
 [३३६]प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥ २१ ॥

 चतुर्दशसङ्ख्या किमर्थेत्यत्राह-चतुर्दशेत्यादि । प्रजानां भाव-गतः-आन्तरगतो यः स्नेहः-त्वत्पुत्रेऽनुरागः तेन हेतुना स्थिरस्तथा ॥


 क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते !
 शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ २२ ॥

 एवमुपायमुपदिश्य तत्प्रवर्तनोपायमप्यह-कोषागारमित्यादि । राज्ञा कलहे यद्गृहं स्त्रियः प्रविशन्ति-तत् क्रोधागारम् । क्रुद्धेव-क्रुद्धैव सती-क्रोधहेतुमस्मदुपदिष्टं तत्सान्त्वनेऽप्यविस्मरन्तीति यावत् । अयमेवार्थो विव्रियते-शेष्वानन्तर्हितायामित्यादिना । अनन्तहितायां-अनास्तृतायाम् ॥ २२ ॥

 मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ।
 रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा ॥ २३ ॥

 जगत्यां-भुवि । शेष्वेति शेषः ॥ २३ ॥

 दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
 त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ २४ ॥

 एवं सति कार्यसिद्धिर्भवत्येवेत्याह-दयितेत्यादि । त्वत्कृते त्वत्प्रीणननिमित्तम् ॥ २४ ॥

 न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् ।
 तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥ २५ ॥
 [३३७]मणिमुक्तासुवर्णानि रत्नानि विविधानि च ।
 दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥ २६ ॥

 'वरदानव्यतिरिक्तानशेषाननुनयान् मा स्वीकुरु' इत्युपदिशति-मणीत्यादि ॥ २६ ॥


 न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
 मन्दस्वभावे ! बुध्यस्व सौभाग्यबलमात्मनः ॥ २७ ॥

 नन्वनुनयानङ्गीकारे मम धिक्कारो भविष्यतीति भयं त्याजयति-मन्देत्यादिना । त्वत्सौभाग्य[३३८]विस्मयं अविस्मृत्य धिक्कारभयं दूरे त्यजेत्यर्थः ॥ २७ ॥

 यौ तौ [३३९][३४०]दैवासुरे युद्धे वरौ दशरथो ददौ ।
 तौ स्मारय महाभागे ! [३४१]सोऽर्थो न [३४२]त्वामतिक्रमेत् ॥

 सर्वानुनये धिक्कृते 'किं मया कर्तव्यम्' इति राजप्रश्ने प्राप्ते कर्तव्यमुत्तरमुपदिशति-यौ तौ इत्यादि । सोऽर्थ इति-वरप्राप्तिरूपोऽर्थ इत्यर्थः । नातिक्रमेदिति । सर्वथा सिद्ध्यत्येव, राज्ञः सत्यप्रतिज्ञत्वादि-त्याशयः ॥ २८ ॥

 यदा तु ते वरं दद्यात् [३४३]स्वयमुत्थाप्य राघवः !
 व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ २९ ॥

 व्यवस्थाप्य-शपथैः आवश्यकप्रदानकं कृत्वा इत्यर्थः ॥ २९ ॥

 रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।
 भरतः क्रियतां राजा पृथिव्याः [३४४]पार्थिवर्षभः ॥ ३० ॥


 चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् ।
 रूढश्च [३४५]कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ ३१ ॥

 [३४६]प्रव्राजनस्य चतुर्दशसंख्यावैशिष्ट्यवरणमात्रेण कार्यासिद्धिर्भवत्येव । सर्वथा प्रव्राजनन्त्वतिघोरतया, अशेषलोकविरुद्धमित्याशयेनाह-चतुर्दश हीत्यादि । यथा महावृक्षः चतुर्दशवर्षं परिपालितः प्ररूढमहाशाखः कृतमूलः, सिद्धदृढमूलावरोहश्च भवति; एवं प्रतिष्ठिताशेषबाह्याभ्यन्तरराज्यपरिकरः [३४७]भवति । अतः परं, शेषं-यावज्जीवं वृक्षवदेव स्वत एवाशक्योन्मूलनश्च भवतीत्यर्थः ॥ ३१ ॥

 रामप्रव्राजनं चैव देवि ! याचस्व तं वरम् ।
 एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ! ॥ ३२ ॥

 यदेवं अतः-रामेत्यादि । चाद्भरताभिषेकः ॥ ३२ ॥

 एवं प्रव्राजितश्चैव [३४८]रामोऽरामो भविष्यति ।
 भरतश्च हतामित्रः [३४९] तव राजा भविष्यति ॥ ३३ ॥

 अराम इति । अप्रियो भविष्यतीत्यर्थः ॥ ३३ ॥

 येन कालेन रामश्च वनात् प्रत्यागमिष्यति ।
 [३५०]अन्तर्बहिश्च पुत्रस्ते [३५१]कृतमूलो भविष्यति ॥ ३४ ॥


 सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।

 अन्तर्बहिरिति । प्रकृतीनामितिशेषः। 'स्नेहः प्रवासाश्रयः' इति न्यायेन प्रजानां तद्गतस्नेहः चिरविप्रयोगतो नश्यतीत्यर्थः । कृतमूलत्वस्यैव विवरणं-संगृहीतेत्यादि । सम्यक् परिपालनेन सङ्गृहीताः-अनुरञ्जिताः मनुष्याः-पौरा जानपदाश्च येन स तथा । तत्र हेतुः-आत्मवानित्यादिः ॥ ३४ ॥

 प्राप्तकालन्तु ते मन्ये राजानं [३५२]वीतसाध्वसा ॥ ३५ ॥
 रामाभिषेक[३५३]संभारान्निगृह्य विनिवर्तय ।

 उपदिष्टमुपदेशं निगमयति-प्राप्तेत्यादि । राजानं प्रति वीतसाध्वसा सती विनिवर्तय इति ! वरबलादिति शेषः ॥ ३५ ॥

 अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥ ३६ ॥
 हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।
 सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ॥ ३७॥
 कैकेयी विस्मयं प्राप्ता परं परमदर्शना ।

 एवं स्थिते कविः स्वदृशाऽऽह-अनर्थमित्यादि । प्रतीता-इण् गतौ । सर्वे गत्यर्था ज्ञानार्थाः । तदुक्तं हिततया प्रतिगृहीतवतीति यावत् । परमदर्शनेत्यन्तविशेषणवती सा कैकेयी मन्थरामिदमब्रवीदिति योजना । [३५४]किशोरी-बालबडबा ॥ २७ ॥


 कुब्जे ! त्वां [३५५]नावजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ॥
 पृथिव्यामसि कुब्जानामुत्तमा [३५६].बुद्धिनिश्चये ।

 अथोपदिष्टकार्यपारप्राप्तये तामेव कुब्जां मानयति-कुब्जेत्या-दिना । नावजानामीत्यत्र हेतुः-श्रेष्ठाभिधायिनीति । कुब्जानां-कुब्जत्वधर्मविशिष्टराज । [३५७]भुजिष्यानां मध्ये । कुब्जत्वादिकिञ्चिद्विकृता एव राजमहिषीणां दास्य इष्टाः; सुरूपासु खलु सापत्न्यस्फूर्तिर्भवति ॥ ३८ ॥

 त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥ ३९ ॥
 नाहं समवबुध्येयं कुब्जे ! राज्ञश्चिकीर्षितम् ।

 त्वमेवेति । न तु दास्यन्तरम् । नावबुध्येयामिति । त्वद्बोधनाभाव इति शेषः ॥ ३९ ॥

 सन्ति दुस्संस्थिताः कुब्जा वक्राः [३५८]परमपापिकाः ॥ ४० ॥
 [३५९]त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।

 स्वां कुब्जां कुब्जत्वांशव्यतिरेकेण सुस्त्रीलक्षणवतीमालक्ष्य स्तौति-सन्तीत्यादि । दुस्संस्थिताः-कुत्सितावयवसन्निवेशाः । त्वद्व्यतिरिक्ता इति शेषः अत एव परमपापिकाः-पापदर्शनाः । कश्मलदर्शना इति यावत् । नैवं त्वमित्याह-स्वामित्यादि । वातेन पद्ममिव केवला [३६०]सन्नता; अथापि प्रियदर्शना ॥ ४० ॥


 उरस्तेऽभिनिविष्टं वै यावत्स्कन्धं समुन्नतं ॥ ४१ ॥
 अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।

 उरः-स्तनयोर्बहिः हृदयादुपरिप्रदेशः । तत् स्थगुनाभिनिविष्टम् । अत एव यावत्स्कन्धात्समुन्नतत्वमुरसः । एतेन पुरःस्थगुमत्कुब्जत्वं प्रतिपादितम् । शातं-कृशं 'शाच्छोरन्यतरस्यां' इति पाक्षिक इत्वाभावः श्यतेः निष्ठायाम् । सुनाभं-शोभना नाभिर्यस्योदरस्य, तत्तथा । 'अच्' इति योगविभागात् अच् । लज्जितमिवेति । [३६१]स्थगोरधस्थाद्वर्तनजया लज्जया लज्जितमिव शातमिति योजना ॥

 परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥ ४२ ॥
 विमलेन्दुसमं वक्त्रं अहो राजसि मन्थरे !
 जघनं तव [३६२][३६३]निर्मृष्टं रशनादामशोभितम् ॥ ४३ ॥
 जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ।

 निर्मृष्टं-शोधितम् । रोमादिकश्मलहीनमितियावत् । [३६४]उपन्यस्त इति । जान्वेरिति शेषः ॥ ४३ ॥

 त्वमायताभ्यां सक्थिभ्यां मन्थरे ! क्षौमवासिनी ॥ ४४ ॥
 अग्रतो मम गच्छन्ती राजहंसीव राजसे ।

 सक्तिभ्यां-पृष्ठफलकाभ्याम् ॥ ४४ ॥

 आसन् याः शम्बरे मायाः सहस्रमसुराधिपे ॥ ४५ ॥
 सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।


 एवं स्थगुव्यतिरिक्तानां स्वत एवादोषत्वमुक्त्वा स्थग्वपि सद्गुण-मूलमित्युत्प्रेक्षया स्तौति-आसन् या इत्यादि । या माया निविष्टा हृदये-तदेव ते हृदयस्थस्थग्वित्युत्तरत्र योजना । अत्र विधेयलिङ्ग-ग्रहस्तदिति सर्वनाम्ना । अन्याः मायाः-लौकिक्यः ॥ ४५ ॥

 तदेव [३६५]स्थगु यद्दीर्घं रथघोणमिवायतम् ॥ ४६ ॥
 मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।

 रथघोणं-रथचक्रपिण्डिका, तद्वदायतं दीर्घं च-यत् स्थगु-मांसावशेषोऽस्ति, अत्र मत्यादिकं वसति ॥ ४६ ॥

 अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे ! हिरण्मयीम् ॥ ४७ ॥
 अभिषिक्ते च भरते रायवे च वनं गते ।

 यदेवं अतः-अत्र त इत्यादि ॥ ४७ ॥

 जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि ! ॥ ४८ ॥
 लब्धार्था च प्रतीता च [३६६]लेपयिष्यामि ते स्थगु ।

 जात्येनेति । उत्तमस्वर्णजातौ भव जात्यम्, दिगादित्वाद्यत् । जाम्बूनदत्वादिप्रशस्तजातिमता सुनिष्टप्तेन सुद्रुतेन सुवर्णेन निर्मितां हिरण्मयीं मालामिति संबन्धः । अपि च ते स्थगु लेपयिष्यामि-जात्येन,चन्दनेनेति शेषः ॥ ४८ ॥

 मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥ ४९ ॥
 कारयिष्यामि ते कुब्जे ! शुभान्याभरणानि च ।
 परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ ५० ॥


 चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना ।
 [३६७]गमिष्यसि गतिं मुख्यां[३६८] [३६९]गर्वयन्ती [३७०]द्विषज्जने ॥ ५१ ॥

 आह्वयमानेनेति । 'स्पर्धायामाङः' इति शानच् । द्विषज्जनविषये मुख्यां गतिं-श्रैष्ठ्यगतिमिति यावत् । गर्वयन्ती । मामकविशेषपरिग्रहजं स्थाने पातितं गर्वं कुर्वन्ती-गर्वशब्दात् तत्करोतीति प्यन्तात् शत्रादि ॥ ५१ ॥

 तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।
 पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ ५२ ॥

 कुब्जायास्तवापि कुब्जाः-दास्य इति यावत् ॥ ५२ ॥

 इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
 शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ ५३ ॥

 वेद्यां-उत्तरवेद्याम् ॥ ५३ ॥

 गतोदके सेतुबन्धो न कल्याणि ! विधीयते ।
 उत्तिष्ठ कुरु कल्याणि ! राजानमनुदर्शय ॥ ५४ ॥

 एवं वृथाजल्पैः कालात्ययो मास्त्विति त्वरयति-गतेत्यादिना । अभिषेके श्वो निर्वृत्ते पश्चाद्वरग्रहादिरभिमतातिरिक्तविषयत्वाद्व्यर्थः । यदेवं, अतः-उत्तिष्ठेत्यादि । [३७१]अनुदर्शयेति । क्रोधागारमिति शेषः ॥ ५४ ॥


 तथा प्रोत्साहिता देवी गत्वा मन्थरया सह ।
 क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ ५५ ॥
 अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।
 अवमुच्य वरार्हाणि शुभान्याभरणानि च ॥ ५६ ॥
 ततो हेमोपमा तत्र कुब्जावाक्यवशं गता ।
 संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ ५७ ॥

 अनेकशतसाहस्रं-बहुमूल्यमिति यावत् । शतमानविंशतिक-"इत्यादिना क्रीतार्थे अण् । "परिमाणान्तस्यासंज्ञा-शाणयोः" इत्युत्तरपदवृद्धिः । [३७२]हेमोपमा-अकल्मषस्वर्णवर्णा ॥ ५७ ॥

 इह वा मां मृतां कुब्जे ! [३७३]नृपायावेदयिष्यसि ।
 वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ ५८ ॥

 कैकेयी स्वकार्यसाधनदार्ढ्यं चाञ्चल्यशङ्काभीतायै मन्थरायै प्रकटयति-इह वेत्यादिना । इह-क्रोधागार एव मदभीष्टासिद्धौ मदुपेक्षकाय नृपाय मां मृतामावेदयिष्यसि । यदि मे सान्त्वनं; तदा राघवे वनं प्राप्ते भरतः क्षितिं प्राप्स्यति । न तु पक्षान्तरमित्यर्थः ॥ ५८ ॥

 न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भोजनैः ।
 एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ५९ ॥


 अथो पुनस्तां महिषीं महीक्षितः
  वचोभिरत्यर्थमहापराक्रमैः
 उवाच कुब्जा भरतस्य मातरं
  हितं वचो [३७४]राममुपेत्य चाहितम् ॥ ६० ॥

 एवं कैकेय्या निश्चयमेव स्थिरीकरोति कुब्जा-अथो पुनरित्यादि ॥ ६० ॥

 प्रपत्स्यते राज्यमिदं हि राघवः
  यदि ध्रुवं त्वं ससुता च तप्यसे ।
 अतो हि कल्याणि ! यतत्व तत्तथा
  यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ ६१ ॥
 [३७५]तथातिविद्धा महिषी तु कुब्जया
  समाहता वागिषुभिर्युहुर्मुहुः ।
 निधाय हस्तौ हृदयेऽतिविस्मिता
  शशंस कुब्जां कुपिता पुनः पुनः ॥ ६२ ॥

 अतिविद्धा-कृतवेधा । अतिविस्मितेति । अतिसक्तो राजा कथं मदनिष्टं करोतीति विस्मयः ॥ ६२ ॥

 [३७६]यमस्य वा मां विषयं गतामितो
 निशाम्य कुब्जे ! प्रतिवेदयिष्यसि ।


 वनं गते वा सुचिराय राघवे
  समृद्धकामो भरतो भविष्यति ॥ ६३ ॥

 निशाम्य-दृष्ट्वा ॥ ६३ ॥

 अहं हि नैवास्तरणानि न स्रजो
  न चन्दनं नाञ्जनपानभोजनम् ।
 न किञ्चिदिच्छामि न चेह जीवितं
  न चेदितो गच्छति राघवो वनम् ॥ ६४ ॥

 अथैतदुक्त्वा वचनं सुदारुणं
  निधाय सर्वाभरणानि भामिनी ।
 असंवृतामास्तरणेन मेदिनीं
  तदाऽधिशिश्ये पतितेव किन्नरी ॥ ६५ ॥

 मेदिनीमधिशिश्य इति । “अधिशीङ्” इत्यादिना कर्मत्वम् ॥

 उदीर्णसंरंभतमोवृतानना
  तथावमुक्तोत्तममाल्यभूषणा ।
 नरेन्द्रपत्नी विमना बभुव सा
  तमोवृता द्यौरिव मग्नतारका ॥ ६६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे नवमः सर्गः

 उदीर्णः-उत्कटः; संरंभः-कोप एव तमः; तेन वृतं-व्याप्तं आननं यस्याः सा तथा । वर्ष (६६) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे नवमः सर्गः


 विदर्शिता यदा देवी कुब्जया पापया भृशम् ।
 तदा शेते स्म सा भूमौ [३७७]दिग्धविद्धेव किन्नरी ॥ १ ॥

 अथ उक्तक्रोधानुवादपूर्वं राज्ञः कैकेयीदर्शनतदनुनयप्रतिपादनम्-विदर्शितेत्यादि । विपरीतं बोधिता । दिग्धा-विषलिप्ता,विद्धा-कृतशस्त्रादिवेधा, दिग्धा चासौ विद्धा च दिग्धविद्धा, मयूरव्यंसकादित्वात्समासः । किन्नरी-कामभोगप्रधानदिव्यरूपदेवजातिविशेषः ॥

 निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी ।
 मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २ ॥

 निश्चित्येत्यादि । सा मन्थरोक्तं कृत्यं सम्यगिति निश्चित्य मन्थरायै वचसा च "त्वदुक्तमेव हितम्" इत्याचचक्ष इत्यर्थः ॥ २ ॥

 सा [३७८]दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।
 नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ॥ ३ ॥
 [३७९]मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।

 अस्यैव प्रपञ्चनं-सा दीनेत्यादि । मार्गं-मन्थरोक्तमार्गं आत्मसुखावहामिति मुहूर्तं मनसा चिन्तयामास । वाचा च तदोवाच । मन्थराया इति शेषः ॥ ३ ॥


 सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥ ४ ॥
 बभूव परमप्रीता [३८०]सिद्धिं प्राप्येव मन्थरा ।

 यदेवमुवाच, अतः सा तन्निशम्य परमप्रीता बभूव । सिद्धिः-रस[३८१]साधनादिसिद्धिः ॥ ४ ॥

 अथ साऽमर्पिता देवी सम्यक्कृत्वा विनिश्चयम् ॥ ५ ॥
 संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे ।

 भ्रुकुटी-क्रोधजो मुखविकारविशेषः ॥ ५ ॥

 ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ ६ ॥
 अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।
 तया तान्यपविद्धानि माल्यान्याभरणानि च ॥ ७ ॥
 अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।

 कैकेय्या अपविद्धानि-उत्सृष्टानि, यान्यपविद्धानि तानीति योजना ॥ ७ ॥

 क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥ ८ ॥
 एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी ।

 गतसत्त्वा-क्षीणबला ॥ ८ ॥

 आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ॥ ९ ॥
 उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ।


 एवं राज्याभिषेकदिवसात् पूर्वरात्रिप्रदोषवर्तिकैकेयीवृत्तान्तमुपवर्ण्य तत्रत्यं राजवृत्तान्तं वर्णयितुमुपक्रमते-आज्ञाप्येत्यादिना ।

अभिषेचनमिति । श्वोऽभिषेचनं यदाज्ञापनीयं–तत्सर्वमिति शेषः । उपस्थानमिति । [३८२]कृतप्रस्थापनमन्त्रिपुरोहितादेः-[३८३]तत्कालं स्वस्वगृहं प्रत्यु[३८४]पस्थापनं गमनं-अनुज्ञाप्य स्वनिवेशनं प्रविवेश ॥ ९ ॥

 अद्य रामाभिषेको वै [३८५]प्रसिद्ध इति जज्ञिवान् ॥ १० ॥
 [३८६]प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी ।

 अद्येति-श्वः सन्निहितो रामाभिषेककालः परामृश्यते । एव रामाभिषेकः प्रसिद्धः-सर्वथा निश्चित इति जज्ञिवान् । अत [३८७]एव निश्चितप्रियार्हां-कैकेयीं प्रति तत्प्रियमाख्यातुं अन्तःपुरं प्रविवेश । [३८८]वशीति स्वस्त्रीव्यतिरिक्तविषये ॥ १० ॥

 स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥ ११ ॥
 [३८९]पाण्डराभ्रमिवा[३९०]काशं राहुमुक्तो निशाकरः ।


 आ समन्तात् काशमानं पाण्डराभ्रं-श्वेताभ्रमिव, राहुमुक्तो निशाकर इव च भासमानम् । अभ्यां सुधाधावल्याह्लादकत्वं ख्यापितम् ॥ ११ ॥

 [३९१]शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम् ॥ १२ ॥
 वादित्ररवसंङ्घुष्टं कुब्जा[३९२]वामनकायुतम् ।

 आयुतं-अत्यन्तसम्पृक्तम् । कुब्जाभिः वामनकैश्च आयुतं तथा ॥ १२ ॥

 लतागृहैश्चित्रगृहैः चंपकाशोकशोभितैः ॥ १३ ॥
 दान्तराजतसौवर्णवेदिकाभिः समायुतम् ।
 [३९३]नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥ १४ ॥
 दान्तराजतसौवर्णैः संवृतं परमासनैः ।
 विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ १५ ॥
 [३९४]उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम् ।

 दन्तादिविकाराः वेदिकास्तथा । नित्यपुष्पादिमत्वं वृक्षाणां-दशरथस्य देवसाह्यकृन्महाराजत्वात्, स्वर्गादेवानतिदिव्यवृक्षत्वात् तदपि संभाव्यं, कृष्णपारिजातानयनवत् ॥ १५ ॥


 तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ १६ ॥
 न ददर्श प्रियां भार्यां कैकेयीं शयनोत्तमे ।
 [३९५]स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥ १७ ॥
 अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।

 कामबलं-काममोहबलं तत्संयुक्तस्तथा । अत एव रत्यर्थमन्विष्य दयितां अपश्यन् पप्रच्छ, विषसाद चेति ॥ १७ ॥

 [३९६]न हि तस्य पुरा देवी तां वेलामत्यवर्तत ॥ १८ ॥
 न च राजा गृहं शून्यं प्रविवेश कदाचन ।

 तां वेलामिति । कामवशात् स्वशयनागमनवेलामिति यावत् ॥

 ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ १९ ॥
 यथापुरमविज्ञाय स्वार्थलिप्सुम[३९७]पण्डिताम् ।

 अपण्डितां कैकेयीं स्वार्थलिप्सुमविज्ञाय, यथापुरं-अनतिक्रमेऽव्ययम्, “अव्ययीभावश्च” इति नपुंसकत्वाद्ध्रस्वत्वम्, यथा-पूर्वं-यथा अदर्शनकाले पृच्छति तथा प्रतीहारीं पृच्छति स्म ।

 प्रतीहारी त्वथोवाच संत्रस्ता सुकृताञ्जलिः ॥ २० ॥
 देव ! देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ।
 प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥ २१ ॥
 विषसाद पुनर्भूयो [३९८]लुलितव्याकुलेन्द्रियः ।


 भूयः-अभ्यधिकं विषसादेति । अदर्शनमात्रेण प्रथमं प्राप्त-विषादस्य क्रोधागारप्रवेशश्रवणाद्विषादाधिक्यम्

। लुलितत्वं चक्षुरादेरिन्द्रियस्य । व्याकुलितत्वमान्तरेन्द्रियस्य । इष्टाया अदर्शनजो विषादश्चक्षुरादेः । चित्तस्य तु, किन्निमित्तजः क्रोध इति [३९९]शोकाकुलितत्वम् ॥ २१ ॥

 तत्र तां पतितां भूमौ शयानामतथोचिताम् ॥ २२ ॥
 प्रतप्त इव दुःखेन सोऽपश्यञ्जगतीपतिः ।

 अतथोचिताम्-तथाशयनानुचितामिति यावत् ॥ २२ ॥

 [४००]स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥
 अपापः पापसङ्कल्पां ददर्श धरणीतले ।
 लतामिव विनिष्कृत्तां पतितां देवतामिव ॥ २४ ॥
 किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।

 विनिष्कृत्तां-छिन्नाम्, सुडार्षः । निर्धूताम्-धूञ् कम्पने, पतितामिति यावत् ॥ २४ ॥

 [४०१]मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥ २५ ॥
 करेणुमिव दिग्धेन विद्धां [४०२]मृगयुना वने ।
 [४०३]महागज इवारण्ये स्नेहात् [४०४]परिममर्श ताम् ॥ २६ ॥
 संवताम्-बद्धाम् । दिग्धेन-विषलिप्तबाणेन ॥ २६ ॥


 [४०५]परिमृश्य च पाणिभ्यां अभिसंत्रस्तचेतनः ।
 कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २७ ॥

 किं वदिष्यति ? किं करिष्यति ? इत्यभिसंत्रस्ता चेतनाधीर्यस्य स तथा ॥ २७ ॥

 न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।
 देवि ! केनाभि[४०६]युक्ताऽसि केन वाऽस्यवमानिता ॥ २८ ॥
 यदिदं मम दुःखाय शेषे कल्याणि ! पांसुषु ।

 क्रोधं-क्रोधकारणम् । आत्मनि-मयि । अभियुक्ता-कृताभि-योगा । [४०७]अभियोगः-पराभवः । अवमानं-निन्दा मम दुःख-संपादनाय शेष इति यदिदमस्ति, अतः केनाभियुक्तेत्यादि योजना ॥ २८ ॥

 भूमौ शेषे किमर्थं त्वं मयि [४०८][४०९]कल्याणचेतसि ॥ २९ ॥
 भूतोपहतचित्तेव मम चित्तप्रमाथिनी ।

 कल्याणचेतसीति । 'अनपकारिणि' इति यावत्। भूतोपहतचित्तेव-ग्रहाभिविष्टेव ॥ २९ ॥

 सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ ३० ॥
 सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि !


 कुशलाः-सर्वव्याधिनिवारणकुशलाः । अभितुष्टाः-मदीय-सत्कारैरिति शेषः । सर्वशः-सर्वप्रकारेण । व्याधिमाचक्ष्वेति । व्याधि-प्रयुक्तं चेच्छयनमिति शेषः ॥ ३० ॥

 [४१०]कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ॥ ३१ ॥

 शयनहेतुपक्षान्तरोपन्यासः-कस्य वेत्यादि ॥ ३१ ॥

 कः प्रियं लभतामद्य को वा सुमहदप्रियम् ।
 [४११]मा रोदीर्मा च कार्षीस्त्वं देवि ! संपरिशोषणम् ॥ ३२॥

 पक्षद्वयनिमित्तोऽपि क्रोधो मास्त्वित्याह-कः प्रियमित्यादि । त्वत्प्रियो दरिद्र इति शेषः । तथा सुमहदप्रियं लभतां-त्वद्विप्रिय-कारीति शेषः । परिशोषणं-कायक्लेशम् ॥ ३२ ॥

 अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् ।
 दरिद्रः को भवेदाढ्यो द्रव्यवान् वाऽप्यकिञ्चनः ॥ ३३ ॥
 अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
 न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ ३४ ॥
 आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।

 आत्मनो जीवितेनापि [४१२]निर्जीवनेनापि हेतुना त्वत्प्रियं व्याहन्तुं नोत्सहे ॥ ३४ ॥


 [४१३]बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ ३५ ॥
 करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।

 आत्मनि-मयि बलं-दुष्करस्यापि सम्पादनसामर्थ्यं शङ्कितुं-न सिध्यति ? वा ? इति शङ्कां कर्तुम् ॥ ३५ ॥

 [४१४]यावदावर्तते चक्रं तावती मे वसुन्धरा ॥ ३६ ॥
 [४१५]प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।

 तदेव सामर्थ्यं दर्शयति-यावदावर्तत इति । चक्रं-भूचक्रम् ॥ ३६ ॥

 वङ्गाङ्गमागधा मत्स्याः समृद्धाः काशिकोसलाः ॥ ३७ ॥
 तत्र जातं बहु द्रव्यं धनधान्यमजाविकम् ।
 ततो वृणीष्व कैकेयि ! यद्यत्त्वं मनसेच्छसि ॥ ३८ ॥
 किमायासेन ते भीरु ! उत्तिष्ठोत्तिष्ठ शोभने ।
 तत्त्वं मे ब्रूहि कैकेयि ! यतस्ते भयमागतम् ॥ ३९ ॥
 तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ।
 तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ॥ ४० ॥
 परिपीडयितुं भूयो भर्तारमुचक्रमे ॥

इत्यर्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे दशमः सर्गः



 समाश्वस्ता-संप्रापितस्वार्थसिद्धिविस्रंभा । भूयः पीडयितुमिति । निजभूशयनादिना पीडितमेव पूर्वम् । नव (४०) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायं अयोध्याकाण्डे दशमः सर्गः



एकादशः सर्गः
[वरद्वयनिर्बन्धः]

 तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
 उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ १॥
 नास्मि विप्रकृता देव ! केनचि[४१६]न्नावमानिता ।
 अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ २ ॥

 अथ 'व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरं" इति मन्थरोपदेशानुष्ठानम् । [४१७]विप्रकृता-अभिभूता । मे कश्चिदभिप्रायः- अभिप्रार्थनीयोऽस्ति त्वदेकसंपाद्यः; तं त्वया कृतं-संपादितं कर्तुं, इच्छामि ॥ २ ॥

 प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ।
 अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ ३ ॥

 यदि त्वं तं कर्तुमिच्छसि, तदा प्रतिज्ञां-अवश्यकर्तव्य-विषयिणीं प्रतिजानीष्व यदि; संप्रश्ने लोट्, अथ-अनन्तरं यन्मयाभिप्रार्थितं तद्व्याहरिष्यामि ॥ ३ ॥


 तामुवाच महाराजः कैकेयीमीषदुत्स्मितः ।
 कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम् ॥ ४ ॥

 उत्स्मित इति । अभिप्रेतकरणमीषतकृत्यमित्याशयेनोत्स्मयः । मूर्धजेषु संगृह्योवाचेति । शिरोऽङ्के कृत्वोवाचेति यावत् ॥ ४ ॥

 [४१८]अवलिप्ते ! न जानासि त्वत्तः प्रियतरो मम ।
 मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ ५ ॥

 अन्यो मनुजो न विद्यत इति न जानासि ? इति योजना ॥ ५ ॥

 तेनाजय्येन मुख्येन राघवेण महात्मना ।
 शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥ ६ ॥

 अजय्येनेति । अशक्यजयेनेत्यर्थः । 'क्षय्यजय्यौ शक्यार्थे 'इति निपातः । ते-तुभ्यम् । शप इति । [४१९]'शप उपालंभे' इत्यात्मनेपदम् । [४२०]जीवनार्हेण-मम जीवनसाधनभूतेन । एतेन परमप्रियत्वं प्रकाशितम् ॥ ६ ॥

 यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।
 तेन रामेण कैकेयि ! शपे ते वचनक्रियाम् ॥ ७ ॥

 तदेव परमप्रियत्वं दर्शयति-यमित्यादि ॥ ७ ॥


 [४२१]आत्मना वाऽऽत्मजैश्वान्यैः वृणे यं मनुजर्षभम् ।
 तेन रामेण कैकेयि ! शपे ते वचनक्रियाम् ॥ ८ ॥

 आत्मना-आत्मसुकृतेन आत्मजैः-तत्सुकृतपरिपाकैः अन्यैः-सर्वप्राणिसुकृतैश्च यं मनुजर्षभं अभिषेकेन भूष्णुं वृणे, तेनेत्यादि । वचनक्रिया वचनानुष्ठानम् ॥ ८ ॥

 भद्रे ! हृदयमध्येतदनुमृश्योद्धरस्व [४२२]मे
 एतत्समीक्ष्य कैकेयि ! ब्रूहि यत्साधु मन्यसे ॥ ९ ॥

 हे भद्रे ! यदेतन्मे हृदयं-अभिप्रायः,सर्वथा त्वद्वचन-क्रियाविषयकं तत् अनुमृश्य-विचार्य, त्वदभीष्टकथनेन मामुद्धरस्व-अस्माद्दुःखादुद्धर । अपि च [४२३]एतन्मदुद्धरणमपि कर्तव्यं ? न वा ? इति च समीक्ष्य-विचार्य, अतः परं यत्साधु मन्यसे तत् ब्रूहि । न हि वैधव्ये ते किञ्चित् सुखमस्ति । अतो मद्दुःखनिवृत्तये त्वदिष्टं ब्रूहि ॥

 बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि ।
 करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ १० ॥

 नात्र सिद्धिशंका कर्तव्येत्याह-बलमित्यादि ॥ १० ॥


 सा तदर्थमना देवी तदभिप्रायमागतम् ।
 निर्माध्यस्थ्यात्प्रहर्षाच्च बभाषे [४२४]दुर्वचं वचः ॥ ११ ॥

 तदर्थमनाः-तस्मिन्-निजाभिमतेऽर्थे मनः-यस्याः सा तथा, तदभिप्रायं-स्वाभिमतार्थसंपादनाभिप्रायं आगतं-प्राप्तं ज्ञात्वा, दुर्वचमपि वचः निर्माध्यस्थ्यात्-स्वपुत्रपक्षपातात् सर्वथा राज्ञः स्ववशत्वदर्शनजात् हर्षाच्च बभाषे ॥ ११ ॥

 तेन वाक्येन संहृष्टा तमभिप्राय[४२५]मात्मनः ।
 व्याजहार महाघोरं अभ्यागतमिवान्तकम् ॥ १२ ॥

 तेन वाक्येनेति । त्रिवाचा रामशपथपूर्वकस्ववचनक्रियाप्रतिज्ञावाक्येन संहृष्टा तं-उत्तररूपमात्मनोऽभिप्रायं; अभ्यागतमन्तकमिव घोरं-राज्ञः प्राणहरं व्याजहार-व्याहर्तुं निश्चितवतीति यावत् ॥

 यथाक्रमेण शपसि वरं मम ददासि च ।
 तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः [४२६]साग्निपुरोगमाः ॥ १३ ॥

 अथ राजप्रतिज्ञायाः, तद्दुष्करघोरार्थविषयतः विपरिवृत्तिशंकया तत्प्रतिज्ञामशेषसाक्षीकरणेन स्थिरीकरोति-यथाक्रमेणेत्यादि । अतिप्रियपुत्रसुकृतादिपरिग्रहक्रमेण शपसि; तत्पूर्वकं वरं मे ददासि च-अभीष्टं दातुं निश्चितवानसि; नात्र संदेहः किल । तदेतत्त्वन्निश्चयं देवादयः शृण्वन्तु ॥ १३ ॥

 चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः ।
 जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥ १४ ॥


 जगत्-परोक्षस्वर्गादिभुवनं, 'विष्टपं भुवनं जगत्', पृथिवी-प्रत्यक्षभुवनदेवता ॥ १४ ॥

 निशाचराणि भूतानि गृहेषु गृहदेवताः ।
 यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ १५ ॥
 सत्यसन्धो महातेजाः धर्मज्ञः सुसमाहितः ।
 वरं मम ददात्येषः तन्मे शृण्वन्तु देवताः ॥ १६ ॥
 इति देवी महेष्वासं परिगृह्याभिशस्य च ।
 ततः परमुवाचेदं वरदं काममोहितम् ॥ १७ ॥

 इति–उक्तप्रकारेण देवी, महेष्वासं-राजानं,पारगृह्य-परिवर्तनात् स्थिरीकृत्य; अभिशस्य-'सत्यसंन्धः' इत्यादिना स्ववचन-कृतिस्थैर्यायैवाभिशस्य च ॥ १७ ॥

 स्मर राजन् ! पुरावृत्तं तस्मिन् [४२७]दैवासुरे रणे ।
 तत्र [४२८]चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥ १८ ॥

 परमुवाचेति किमुवाचेत्यत्राह-स्मरेत्यादि । तत्र च रणे-रात्रियुद्धे, शत्रुः-शंबरः तव [४२९]जीवितमन्तरा-प्राणं विना त्वां [४३०]अच्यावयत्-प्रच्युतवीर्यमकरोत् ॥ १८ ॥

 तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
 [४३१]जाग्रत्या यतमानायाः, ततो मे प्राददा वरौ ॥ १९ ॥


 तत्र चापि जाग्रत्याः-त्वज्जीवनाय यतमानायाः, व्यत्ययात्पञ्चमी, मया हे देव ! त्वं समभिरक्षितोऽसीति यत्-तत एव हेतोः मे-मह्यं द्वौ वरौ प्राददाः ॥ १९ ॥

 तौ तु दत्तौ वरौ देव ! [४३२]निक्षेपौ मृगयाम्यहम् ।
 तवैव पृथिवीपाल ! सकाशे सत्यसङ्गर ! ॥ २० ॥

 त्वया दत्तौ तौ तु मे निक्षेपभूतौ वरौ अद्य उद्धर्तुं मृगयामि-अन्वेषयामि । हे सत्यसङ्गर !॥ २० ॥

 तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
 अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ २१ ॥

 धर्मेण म वरं प्रतिश्रुत्य तद्दास्यासि न चेत् तवैव सकाशे अद्यैव जीवितं प्रहास्यामि ॥ २१ ॥

 [४३३]वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
 [४३४][४३५]प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ २२ ॥

 वागित्यादि । प्रचस्कन्द-स्कन्दिर् गतिशोषणयोः, इह गत्यर्थः । कैकेय्या स्वसुभगत्वनिमित्तकाममोहेन स्ववशे कृतो राजा वाङ्मात्रेण-पूर्वकालीनवरदान प्रतिवचनमात्रेणैव अप्रयासतः सिद्धं पाशं-सत्यपाशं आत्मन इह लोके नाशाय संपन्नं मृग इव प्रचस्कन्द-प्रगतवान् । अन्तर्भावितणित्वाश्रये तु-न्यायत एवं पाशं प्रापितवान् इति पाङ्कोऽर्थः ॥ २२ ॥


 ततः परमुवाचेदं वरदं काममोहितम् ।
 वरौ यौ मे त्वया देव ! तदा दत्तौ महीपते ! ॥ २३ ॥
 तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ।

 तावद्यैव वक्ष्यामि-‘मे-मम दातव्यवराविमौ' इति वक्ष्यामि । तन्मे वरवरणवचः शृणु ॥ २३ ॥

 योऽभिषेकसमारंभो राघवस्योपकल्पितः ॥ २४ ॥
 अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ।

 किन्तदित्यतः-योऽभिषेक इत्यादि । यः कल्पितः अनेनैवेति योजना ॥ २४ ॥

 यो द्वितीयो वरो देव! दत्तः प्रीतेन मे त्वया ॥ २५ ॥
 तदा [४३६]दैवासुरे युद्धे तस्य कालोऽयमागतः ।
 नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥ २६ ॥
 चीराजिनजटाधारी रामो भवतु तापसः ।
 भरतो भजतामद्य यौवराज्य[४३७]मकण्टकम् ॥ २७ ॥

 चीरं-वल्कलम् ॥ २७ ॥

 एष मे परमः कामो दत्तमेव वरं वृणे ।
 अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ २८ ॥

 दत्तमेव वरं वृण इति । न त्वन्यायेन त्वां निर्बध्नामीदानीम् । न ह्युत्तमर्णेनाधमर्णात् (ऋण) ग्रहणं तस्य तत्काले पीडेत्येतावता न दोष इत्याशयः ॥ २८ ॥


 स राजराजो भव सत्यसङ्गरः
  कुलं च शीलं च हि रक्ष जन्म च ।
 परत्र वासे हि वदन्त्यनुत्तमं
  तपोधनाः सत्यवचो हितं नृणाम् ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकादशः सर्गः

 इममेवार्थं स्पष्टमुपदिशति-स राजराज इत्यादि । राजराजः-प्रसिद्धः । स त्वं सत्यसङ्गरो भव । तेनैव हेतुना कुलादिकं रक्ष । सत्यसङ्गरत्वमेव स्वजन्मादिरक्षणसाधनमिति कुत इत्यत्राह-परत्रेत्यादि । धरा (२९) मानः सर्गः ॥ २९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकादशः सर्गः


द्वादशः सर्गः
[दशरथप्रार्थना]

 ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।
 [४३८]चिन्तामभिसमापेद मुहूर्तं प्रतताप च ॥ १ ॥

 अथ सत्यपाशबद्धस्य दशरथस्य घोरशोकः । तत इत्यादि । चिन्तामभिसमापेद इति । श्रुतार्थस्य वास्तवत्वासंभावनया भ्रम इत्येव निश्चित्य 'किंदोषजोऽयं भ्रमः' इति चिन्तां प्राप । मुहूर्तं-


क्षणं; प्रतताप च-भ्रमप्रतीताहिकण्टकाद्यर्थस्य तत्काले किञ्चित्कार्यकारकत्वात्, तत्काले परितापः ॥ १ ॥

 किन्नु मे [४३९]यदि वा स्वप्नः? चित्तमोहोऽपि वा मम ?
 अनु भूतोपसर्गो वा [४४०]मनसो वाऽप्युपद्रवः ॥ २ ॥

 अथापि भ्रमत्वनिश्चयात् त्यक्ततापो भ्रमहेतुभेदानेव चिन्तयति-[४४१]किन्नु म इत्यादि । स्वप्नार्थस्य प्रत्यक्षार्थापेक्षया सर्वार्थासमर्थत्वात् भ्रमत्वम् । अथवा [४४२]जाग्रत्यपि दुरदृष्टजः चित्तमोहः-वैचित्यं तत्त्वज्ञानासामर्थ्यम् । अनु-पश्चात् । अथवा उपसर्गाणामनेकार्थत्वात् अथवार्थः, अथवा [४४३] भूतोपसर्गः-महाग्रहजचित्तवैवश्यं वा । अथवा मनस उपद्रवः आधिव्याधिजनितोपप्लवो वा । [४४४]अन्यः-अनुभूतोपसर्गः-सुषुप्तिः इत्याह । बत !-सुषुप्तौ कुतो विचारप्रसङ्गः । एवमादौ बह्वसङ्गतं ब्रूते। तत्सर्वमस्मदुच्यमानव्याख्यानतः सुमतिसुबोधम् ॥ २ ॥

 [४४५]इति संचिन्त्य तद्राजा नाध्यगच्छत्तदाऽसुखम् ।
 प्रतिलभ्य [४४६]ततः संज्ञां कैकेयवाक्यताडितः ॥ ३ ॥


 व्यथितो विक्लबश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ।
 असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ॥ ४ ॥
 मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।
 अहो धिगिति सामर्षः वाचमुक्त्वा नराधिपः ॥ ५ ॥
 मोहमापेदिवान् भूयः शोकोपहतचेतनः ।
 चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ॥ ६ ॥
 कैकेयीमब्रवीत् क्रुद्धः निर्दहन्निव [४४७]चेतसा ।

 इति-एवंप्रकारतः तत्-श्रुतार्थं संचिन्त्य नाध्यगच्छत् [४४८]तदन्यतरत्वं । [४४९]अतस्तदा वास्तवत्वज्ञानात्, असुखं-परममूर्छाकरं-महद्दुःखं चाध्यगच्छत् । ततः संज्ञां-स्मृतिं प्रतिलभ्य कैकेयी-वाक्यस्मरणताडितः उच्यमानविशेषणकः-'अहो धिक्' इत्युक्त्वा भूयः शोकमापेदिवान्-इति योजना । विक्लवः-दीनः । मण्डल इति । विषस्तम्भनयन्त्रमण्डल इत्यर्थः । चेतसा निर्दहान्निवेत्यनेन [४५०]व्याघ्री-मृगवत् चक्षुरादिना कोपप्रकाशस्याशक्यता द्योत्यते ॥ ३-६ ॥

 नृशंसे ! दुष्टचारित्रे ! कुलस्यास्य विनाशिनि ! ॥ ७ ॥
 किं कृतं तव रामेण पापे ! पायं मयाऽपि वा ।

 किं पापं-अनिष्टं कृतमिति योजना ॥ ७ ॥


 [४५१][४५२]यदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥ ८ ॥
 तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ।

 यदा-यस्मात् ते-तव विषये जननीतुल्यां वृत्तिमावहति; [४५३]तस्मात् अनर्थचिन्तार्हस्य तस्यैवानर्थाय किंनिमित्तं इह-इदानीं उद्यता ॥ ८ ॥

 त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता ॥ ९ ॥
 [४५४]अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ।

 अयं स्वयंकृतानर्थमूल एवेत्याह-त्वमित्यादि । अविज्ञानादिति इष्टसाधनत्वभ्रान्त्येत्यर्थः ॥ ९ ॥

 [४५५]जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ १० ॥
 अपराधं कमुद्दिश्य त्यक्ष्यामष्टिमहं सुतम् ।

 यदा-यस्मात् । उद्दिश्य-व्याजीकृत्य । न त्वेव त्यजेयमित्यनुकर्षः ॥ १० ॥

 कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम् ॥ ११ ॥
 जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम् ।
 परा भवति मे प्रीतिः दृष्ट्वा तनयमग्रजम् ॥ १२ ॥
 अपश्यतस्तु मे रामं नष्टा भवति चेतना ।


 तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ॥ १३ ॥
 न तु रामं विना देहे तिष्टेत्तु मम जीवितम् ।
 तदलं त्यज्यतामेष निश्रयः पापनिश्चये ॥ १४ ॥
 अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।
 किमिदं चिन्तितं पापे ! त्वया परमदारुणम् ॥ १५ ॥

 तदलमिति । यस्मात् मद्विनाशे ते वैषव्यप्राप्तिः तस्मादित्याशयः । चरणावपीति । त्वत्प्रीत्यर्थमिति शेषः ॥ १५ ॥

 [४५६]अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये ।
 अस्तु, यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ १६ ॥
 [४५७]स च ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।
 त्वया ते प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ १७ ॥
 तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम् ।
 आविष्टाऽसि गृहे शून्ये सा त्वं परवशं गता ॥ १८ ॥

 अथेत्यादि । अथेति प्रश्ने । भरतोऽभिषिच्यतां-रामो विवास्यतामित्युक्ते, राजा भरतं प्रत्यभिषेकादिरूपं प्रियं वदिष्यति न वेति भरतविषयकप्रियाप्रियविषये मां जिज्ञाससे-परीक्षसेऽथ? अथापि रामो विवास्यतामिति नैतद्युक्तं वक्तुम् । कुतः? यत्-यस्मात्


त्वया पूर्वं-पूर्वकाले श्रीमान् धर्मज्येष्ठः स च-स एव मे ज्येष्ठसुतः, अनन्तरं भरत इति यत् परमप्रियत्वमुक्तं, तस्यैवेदानीं विवासनवादे ते व्याघातप्रसङ्गः । अपि च रामविषये प्रियवादिन्या त्वया यत् ज्येष्ठसुतत्वादिकमुक्तं तत्सर्वं मच्चित्तानुवर्तनेन मम सेवार्थमेव केवलं, ते तत्कथितं-[४५८]भावे निष्ठा–कथनम् ; वस्तुतस्तु सर्वथा रामविरसैवेत्यवगम्यसे । यत्-यस्मात् इदानीं, तत्-रामाभिषेचनं श्रुत्वा शोकसन्तप्ता सती विना वरमशक्याभिषेकनिर्वर्तनं मामपि निर्बन्धेन निवारयन्ती भृशं तापयसि, अतः केवलं मद्वञ्चनार्थस्ते राघवसाधुवाद इति इदानीं जानीम इत्यर्थः । एवं जिज्ञासया एवं

बादायोगे तात्त्विकत्वे च रामाभिषेकनिवारणस्य (च) स्वस्थचित्ताया अयुक्तत्वात् प्रायेण ग्रहाविष्टैवेत्याह-[४५९]आविष्ठैवेत्यादि ॥ १८ ॥

 [४६०]इक्ष्वाकूणां कुले देवि ! संप्राप्तः सुमहानयम् ।
 अनयो नयसंपन्ने यत्र ते विकृता मतिः ॥ १९ ॥
 न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम ।
 अकरोस्त्वं विशालाक्षि ! तेन न श्रद्दधामि ते ॥ २० ॥


 कुत आविष्टतामूल एवंवाद इत्यत्र, अस्मदुक्तरामाभिषेक-वारणहेतोरेवेत्याह–इक्ष्वाक्कूणामित्यादि । यत्र-यस्मिन् नयसंपन्ने रामे ते यतो विकृता मतिरुत्पन्ना । इतश्च तन्मूलो महानयमनयः-ज्येष्ठे गुणवति ज्येष्ठाभिषेकनिवृत्तिरूपोऽनयः संपाद्यते तस्मादेव ते न श्रद्दधामीति । इदानीं क्रियमाणं विप्रियादिकमपि वास्तवामति न श्रद्दधामीति शेषः ॥ २० ॥

 ननु [४६१]ते राघवस्तुल्यः भरतेन महात्मना ।
 [४६२]बहुशो हि स्म बाले ! त्वं कथाः कथयसे मम ॥ २१ ॥

 तदेव समर्थयते-नन्वित्यादि । आमन्त्रणे ननुशब्दः । कथयसे स्मेति योजना ॥ २१ ॥

 तस्य धर्मात्मनो देवि ! वने वासं यशस्विनः ।
 कथं रोचयसे भीरु ! नव वर्षाणि पञ्च च ॥ २२ ॥

 तस्येति-तथाप्रियस्येत्यर्थः ॥ २२ ॥ अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः । कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २३ ॥ रोचयस्यभिरामस्य रामस्य शुभलोचने ! तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २४ ॥ रामोऽपि भरताद्भूयः तव शुश्रूषते सदा । विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २५ ।। तव शुश्रूषमाणस्येति । 'न लोक' इति षष्ठीनिषेधाभाव आर्षः । तथा 'तव शुश्रूषते' इति षष्ठ्यपि आर्षी ॥ २४-२५ ॥


 शुश्रूषां [४६३]गौरवं चैव प्रमाणं वचनक्रियाम् ।
 कस्ते भूयस्तरां कुर्यात् अन्यत्र मनुजर्षभात् ॥ २६ ॥

 प्रमाणं-प्रतिपत्तिः । वचनक्रिया-उक्तकरणम् ॥ २६ ॥

 बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् ।
 [४६४]परिवादोऽपवादो वा राघवे नोपपद्यते ॥ २७ ॥

 बहूनां स्त्रीसहस्राणां मध्ये एकयापि कृतः परिवादः, तथोपजीविनां च मध्ये एकेनापि कृतोऽपवादः-अपयशः राघवे नोपपद्यते ॥

 सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।
 गृह्णाति मनुजव्याघ्रः [४६५]प्रियैर्विषयवासिनः ॥ २८ ॥

 कुतो अन्यत्र नोपपद्यत इत्यत्राह-सान्त्वयन्नित्यादि ॥

 सत्येन लोकान् जयति दीनान् दानेन राघवः ।
 गुरून् शुश्रूषया [४६६]वीरो धनुषा युधि शात्रवान् ॥ २९ ॥

 दानं-पारलौकिकम् । त्यागः-प्रीत्यर्थः ऐहिकप्रयोजनः ॥

 सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ।
 विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ ३० ॥
 तस्मिन्नार्जवसंपन्ने देवि ! देवोपमे कथम् ।
 पापमाशंससे रामे महर्षिसमतेजसि ॥ ३१ ॥


 [४६७]न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।
 स कथं त्वत्कृते रामं वक्ष्यामि [४६८]प्रियमप्रियम् ॥ ३२ ॥

 अप्रियं वाक्यमिति-[४६९] रामकर्तृकं रामविषयकं वेति शेषः । कुत एवमित्यत आह-प्रियवादिन इति । त्वत्कृते-त्वद्वचनक्रियासंपादनार्थम् । अप्रियं वक्ष्यामीति । निर्निमित्तामति शेषः ॥ ३२ ॥

 क्षमा यस्मिन् तपस्त्यागः सत्यं धर्मः कृतज्ञता ।
 [४७०]अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ ३३ ॥
 मम वृद्धस्य कैकेयि ! [४७१]गतान्तस्य तपस्विनः ।
 दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४ ॥

 गतान्तस्येति । संप्राप्तचरमकालस्येत्यर्थः । तपस्विनः-एवं शोचनीयावस्थस्य ॥ ३४ ॥

 पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते ।
 तत्सर्वं तव दास्यामि मा च [४७२]त्वां मन्युराविशेत् ॥ ३५ ॥
 अञ्जलिं कुर्मि कैकेयि ! पादौ चापि स्पृशामि ते ।
 शरणं भव रामस्य [४७३]माऽधर्मो मामिह स्पृशेत् ॥ ३६ ॥


 कुर्मि-करोमि, उत्वविकरणप्रत्ययलोपावार्षौ । शरणं-रक्षिका भव । इह-रामाभिषेके अधर्मो मां मा पृशेत् । त्वदनुमत्येति शेषः ॥ ३६ ॥

 इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् ।
 घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ ३७ ॥
 पारं शोकार्णवस्याशु प्रार्थयन्तं [४७४]पुनःपुनः ।
 प्रत्युवाचाथ कैकयी रौद्रा रौद्रतरं वचः ॥ ३८ ॥
 यदि दत्त्वा वरौ राजन् ! पुनः प्रत्यनुतप्यसे ।
 धार्मिकत्वं कथं वीर ! पृथिव्यां [४७५]कथयिष्यसि ॥ ३९ ॥

 अनुतप्यस इति । निर्वर्तनाशक्त्येति शेषः ॥ ३९ ॥

 यदा समेता बहवः त्वया राजर्षयः सह ।
 [४७६]कथयिष्यन्ति धर्मज्ञ ! तत्र किं प्रतिवक्ष्यसि ॥ ४० ॥

 यदा पृथिव्यां राजर्षयस्त्वया सह समेता भवन्ति, तदा तत्समाजे त्वं त्वदीयं धार्मिकत्वं कथयिष्यसि; ते च मद्विषयवरदानादिप्रसङ्गं यदा कथयिष्यन्ति, तदा तान् प्रति किं प्रतिवक्ष्यसि ? धर्मज्ञेति व्यङ्योक्तिः ॥ ४० ॥

 यस्याः [४७७]प्रसादे जीवामि या च मामभ्यपालयत् ।
 तस्याः [४७८]कृता मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ ४१ ॥


 न किमपि प्रतिवचनं शक्यमित्याह-यस्या इत्यादि ।

प्रसादे-शम्बरमायानिवर्तनलक्षणानुग्रहे सति ॥ पश्चात्–या च प्रच्यावितवीर्यं मामभ्यपालयच्च, तस्याः कैकेय्याः मया मिथ्या कृता-मिथ्याप्रतिज्ञा कृता-इति वक्ष्यसि किम्? नैवं शक्यवादं किलेति शेषः ॥ ४१ ॥

 [४७९]किल्बिषत्वं [४८०]नरेन्द्राणां करिष्यसि नराधिप !
 यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ ४२ ॥

 किल्बिषत्वमिति । मत्वर्थीयाजन्ताद्भावप्रत्ययः, किल्बिषवत्त्वमिति यावत् । नरेन्द्राणामिति । त्वद्वंश्यानामिति शेषः । तवासत्यसंगरत्वे प्राणादिभिरपि पालितसत्यानां त्वद्वंश्यानां अपयशः त्वया संपाद्यत इति ॥ ४२ ॥

 शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ ।
 अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ ४३ ॥

 सत्यपरिपालनशेषतया दुष्करस्यापि प्रतिश्रुतस्य परिपालनं दर्शयति-शैब्य इत्यादि । त्वद्वंश्यः शैब्यः सत्यपरिपालनशेषतया दत्ताभयकपोतरक्षणार्थं तन्मांसार्थिने श्येनाय स्वमांसमेव प्रतिनिधित्वेन ददौ ; न तु कपोतमिति [४८१]श्येनकपोतीये आख्याने श्रूयते । तथाहि-इन्द्राग्नी श्येनकपोतरूपौ भूत्वा शैब्यौदार्यजिज्ञासया भक्षक-भक्ष्यभावापन्नौ शैब्यसमीपमागतौ । तत्र कपोतोऽभयार्थी शैब्याङ्कं


प्रविवेश । तस्मै च सोऽभयं ददौ । ततः श्येनेन 'मद्भक्षणं दैवविहितं त्यज' इत्युक्ते 'नाहं त्यजेयं, अपि तु तत्प्रतिनिधिमांसमेव ददामि'-इत्युक्ते 'तर्हि त्वन्मांसमेव मे प्रयच्छ, नान्यत्' इत्युक्ते स्वमांसमपि[४८२] सर्वं दत्तवानिति कथा । तथा अलर्कश्च राजर्षिः ब्राह्मणायान्धाय वरं प्रतिश्रुत्य, [४८३]राजचक्षुषा स्वचक्षु प्रतिसन्धाने पृष्टे, स्वचक्षुषी च दत्तवान् ॥ ४३ ॥

 सागरः समयं कृत्वा न वेलामतिवर्तते ।
 समयं माऽनृतं कार्षीः पूर्ववृत्तमनुस्मरन् ॥ ४४ ॥

 सागरः-समुद्रः देवैः प्रार्थितो वेलानतिलङ्घनाय तत् तेभ्यः प्रतिश्रुत्य न वेलामद्याप्यतिवर्तते । अत्र सागरस्य स्ववंश्यखातत्वेन स्ववंश्यत्वाभिमानादुपन्यासः । यदेवं अतः-समयमित्यादि । पूर्ववृत्तं-शैब्यादिवृत्तम् ॥ ४४ ॥

 स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च ।
 सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ! ॥ ४५ ॥
 [४८४]भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम् ।
 यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ ४६॥

 सिद्धान्तमाह-भवत्वित्यादि । व्यतिक्रमो नास्तीति-अकरणमित्यर्थः ॥ ४६ ॥


 अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः |
 पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥

 विपक्षे बाधकमाह-अहं हीत्यादि ॥ ४७ ॥

 एकाहमपि पश्येयं यद्यहं राममातरम् ।
 अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥

 अञ्जलिं प्रतिगृह्णन्तीमिति । राजमातृत्वेन सर्वलोकानामिति शेषः ॥ ४८ ॥

 [४८५] भरतेनात्मना चाहं शपे ते मनुजाधिप !
 यथा नान्येन तुष्येयं ऋते रामविवासनात् ॥ ४९ ॥
 एतावदुक्त्वा वचनं कैकेयी विरराम ह ।
 विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥
 श्रुत्वा तु राजा कैकेया वाक्यं [४८६]परमशोभनम् ।
 रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ ५१ ॥
 नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः ।
 प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥

 प्रैक्षतेति । क्रोधादिति शेषः ॥ ५२ ॥

 तां हि वज्रसमां वाचमाकर्ण्य हृदयच्छिदम् ।
 दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ ५३ ॥


 स देव्या व्यवसायं च [४८७]घोरं च शपथं कृतम् ।
 ध्यात्वा रामेति निःश्वस्य छिन्नस्तरुरिवापतत् ॥ ५४ ॥

 निःश्वस्येति । अशक्यप्रतिक्रियत्वादिति भावः ॥ ५४ ॥

 नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽऽतुरः ।
 हृततेजा यथा सर्पों बभूव जगतीपतिः ॥ ५५ ॥

 विपरीत इति । त्रिदोषजप्रकृतिवैपरीत्य इत्यर्थः । हृततेजा इति । मन्त्रेणेति शेषः ॥ ५५ ॥

 दीनयाऽऽतुरया वाचा इति होवाच कैकयीम् ।
 अनर्थमिममर्थाभं केन त्वमुपदर्शिता ॥ ५६ ॥
 भूतोपहतचित्तेव ब्रुवन्ती मां न लजसे ।

 न लज्जस इति । पत्युः समक्षमेताहव्यवहारो लोकविगर्हित न इति लज्जारहितेति यावत् ॥ ५६ ॥

 [४८८]शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ ५७ ॥
 [४८९]बालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ।

 शीलस्य पतिपत्नीप्रयुक्तस्वचरित्रस्य विशेषेण असनं- निरसनम् इदानीं क्रियमाणम् पुरा नाभिजानामि-दुश्शीलेति न जानामि ; अपि तु सुशीलामेव जानामि । यदेवं पूर्वं ज्ञातं तत् इदानीमेव,


 अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
 पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥

 विपक्षे बाधकमाह-अहं हीत्यादि ॥ ४७ ॥

 एकाहमपि पश्येयं यद्यहं राममातरम् |
 अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥

 अञ्जलिं प्रतिगृह्णन्तीमिति । राजमातृत्वेन स सर्वलोकानामिति शेषः ॥ ४८ ॥

 [४९०] भरतेनात्मना चाहं शपे ते मनुजाधिप !
 यथा नान्येन तुष्येयं ऋते रामविवासनात् ॥ ४९ ॥
 एतावदुक्त्वा वचनं कैकेयी विरराम ह
 विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥
 श्रुत्वा तु राजा कैकेया वाक्यं [४९१]परमशोभनम् ।
 रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ ५१ ॥
 नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः ।
 प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥

 प्रैक्षतेति । क्रोधादिति शेषः ॥ ५२ ॥

 तां हि वज्रसमां वाचमाकर्ण्य हृदयच्छिदम् ।
 दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ ५३ ॥


 स देव्या व्यवसायं च [४९२] घोरं च शपथं कृतम् ।
 ध्यात्वा रामेति निःश्वस्य छिन्नस्तरुरिवापतत् ॥ ५४ ॥

 निःश्वस्येति । अशक्यप्रतिक्रियत्वादिति भावः ॥ ५४ ॥

 नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽऽतुरः ।
 हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ ५५ ॥

 विपरीत इति । त्रिदोषजप्रकृतिवैपरीत्य इत्यर्थः । हृततेजा इति । मन्त्रेणेति शेषः ॥ ५५ ॥

 दीनयाऽऽतुरया वाचा इति होवाच कैकयीम् ।
 अनर्थमिममर्थाभं केन त्वमुपदर्शिता ॥ ५६ ॥
 भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ।

 न लज्जस इति । पत्युः समक्षमेतादृग्व्यवहारो लोकविगर्हित इति लज्जारहितेति यावत् ॥ ५६ ॥

 [४९३]शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ ५७ ॥
 [४९४]बालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ।

 शीलस्य पतिपत्नीप्रयुक्तस्वचरित्रस्य विशेषेण असनं-निरसनम् इदानीं क्रियमाणम् पुरा नाभिजानामि-दुश्शीलेति न जानामि ; अपि तु सुशीलामेव जानामि । यदेवं पूर्वं ज्ञातं तत् इदानीमेव,


विपरीतवत्, स्वार्थे वतिः, बहुश इह विपरीत लक्षये;

कार्यवशेनेति शेषः ॥ ५७ ॥

 कुतो वा ते भयं जातं या त्वमेवंविधं नरम् ॥ ५८ ॥
 राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।

 भयं जातमिति । रामादिति शेषः ॥ ५८ ॥

 विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ ५९ ॥
 यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ।

 एतेन-निर्धूतपतिपत्नीभावलक्षणेन भावेन उपलक्षिता त्वं अतो विरम । यदि भर्तुः, लोकस्य, भरतस्य च प्रियं कार्यं-कर्तव्यं इच्छसि । अपि वा त्वं एतेन–अशक्यार्थवरणद्वारकेण [४९५]अनृतेन-ममानृतसंपादन-कर्मणा सर्वानर्थमूलेन उपलक्षिता त्वं ततो वा विरम, यदि भर्तुः लोकस्य भरतस्य च प्रियं कार्यं-कर्तव्यमिच्छसि । अत्र यद्वा भट्टो बहु जल्पति । तत्र न किञ्चिदपि सङ्गतं पश्यामः । पतञ्जलिवत् प्रौढ-पक्षान्तरोपन्यास एव तु विपश्चित्प्रेयान् ॥ ५९ ॥

 नृशंसे ! पापसंकल्पे ! क्षुद्रे ! दुष्कृतकारिणि ! ॥ ६० ॥
 किन्नु [४९६]दुःखमलीकं वा मयि रामे च पश्यासे ?

 अलीकं-अपराधः ॥ ६० ॥

 न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ॥ ६१ ॥
 रामादपि हि तं मन्ये [४९७]धर्मतो बलवत्तरम् ।


 व्यर्थं चेदं मत्कर्शनमित्याह-न कथञ्चिदित्यादि । ऋते रामाद्राज्यं नावसेदित्यनेन यथाभागशः चतुर्णामेव राज्यमनुमन्यस्व, यद्वा भरतस्याभिषेकं, रामस्य केवलं वृद्धस्य मम समीपेऽवस्थानं बाऽनुमन्यस्व, नान्यथा त्वत्प्रयोजनं इत्युपदेशः । नावसेदित्यत्र हेतुः-रामादित्यादि । [४९८]'ही' ति पदं ॥ ६१ ॥

 [४९९]कथं [५००]द्रक्ष्यामि रामस्य, वनं गच्छेति भाषिते ॥ ६२ ॥
 मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ।

 उपप्लुतः-राहुग्रस्तः ॥ ६२ ॥

 तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ ६३ ॥
 कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ।

 सुकृतां-सम्यक् प्रवर्तिताम् । तत्र हेतुः-सुहृद्भिः सह निश्चितामिति । बुद्धिं-रामाभिषेकविषयिणीम् । [५०१]अपावृत्तां-पराभूताम् ॥ ६३ ॥

 किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ।
 [५०२]बालो बतायमैक्ष्वाकः चिरं राज्यमकारयत् ।
 यदा तु बहवो वृद्धाः गुणवन्तो बहुश्रुताः ॥ ६५ ॥


 [५०३]परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ।

 बालः बत-अज्ञः अयमैक्ष्वाकः चिरं राज्यमकारयत् इति यत् [५०४]तद्दैवगत्या घुणाक्षरन्यायेन इत्येव वदिष्यन्तीति शेषः । परिप्रक्ष्यन्ति काकुत्स्थमिति । क्व राम इति प्रातरिति च शेषः ॥ ६४-६५ ॥

 कैकेय्या क्लिश्यमानेन [५०५]पुत्रः प्रव्राजितो मया ॥ ६६ ॥
 यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।

 सत्यपरिपालनवशात् प्रव्राजित इति ब्रूहीत्यत्र-लोकस्तद्वास्तवं न प्रतिगृह्णाति, किन्तु कामहतस्त्रीवचसा प्रव्राजितवानित्येव वदिष्यतीत्याह-कैकेय्येत्यादि । क्लिश्यमानेनेति । प्रव्राजनवरवरणेनेति शेषः । यदि सत्यं ब्रवीमीति । [५०६]यद्यपि सत्यमेव ब्रवीमि अथापि तदसत्यमेव भविष्यति ; लोकस्तु तुन [५०७]श्रद्दध्यादित्यर्थः ॥ ६६ ॥

 किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ ६७ ॥
 किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ।

 किं मामित्यादि । हे राजन् ! मया मत्पुत्रेण वा किं तेऽपराद्धम् इति यदा वक्ष्यति तदा एनां प्रति निरुत्तरमेवेत्यर्थः । किञ्चकिन्विति यावत् ॥ ६७ ॥

 [५०८]यदा यदा च कौसल्या दासीवच्च सखीव च ॥ ६८ ॥
 भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।


 [५०९]दासीवदिति-अभिमतान्नपानसंपादने;

सखीवदिति-क्रीडायाम् ; भार्यावदिति-अग्निहोत्रादिधर्मानुष्ठाने; भगिनीवदिति-ज्ञानयोगानुष्ठाने; मातृवदिति-तत्त्वकथने । उपतिष्ठते-सेवते ॥ ६८ ॥

 सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ॥ ६९ ॥
 न मया सत्कृता देवी सत्कारार्हा कृते तव ।

 [५१०] अस्मत्प्रियः-कामः यस्याः सा तथा । प्रियः पुत्रः यस्याः सा तथा । उक्तस्वभावैः सततं विशेषसत्कारार्हापि, त्वत्कृते-तव वैमनस्यपरिहाराय न सत्कृता ॥ ६९ ॥

 इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ॥ ७० ॥
 अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ।

 इदानीं-रामविवासने सति । यत् मया, त्वयि सुकृतं- शोभनं कर्म, शुश्रूषालक्षणं कृतं तत् अपथ्यव्यञ्जनोपेतं सद्भुक्तं अन्नं यथा आतुरं-रुग्णं तपति-अन्तर्भावितणिः, तापयति तथा तापयतीति शेषः ॥ ७० ॥

 [५११]विप्रकारं च रामस्य संप्रयाणं वनस्य च ॥ ७१ ॥


 सुमित्राऽवेक्ष्य वै भीता कथं मे विश्वसिष्यति ।

 रामस्य च विप्रकारं-विरोधं त्वन्निमित्तं, वनस्य संप्रयाणं च सुमित्रावेक्ष्य रामस्यैवैवंदशत्वे मत्पुत्रस्य का गतिः? इति भीता सती कथं मे वचनं-'त्वं सपुत्रा सुखेन तिष्ठ' इत्यादिवचनं विश्वसिष्यति-न कथमपि ॥ ७९ ॥

 कृपणं बत! वैदेही श्रोष्यति द्वयमप्रियम् ॥ ७२ ॥
 [५१२]मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ।

 श्रोष्यतीति यत् तत् कृपणं-कष्टं बतेति योजना ॥ ७२ ॥

 वैदेही बत ! मे[५१३] प्राणान् शोचन्ती क्षपयिष्यति ॥ ७३ ॥
 हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ।

 तदेव सीताकार्पण्यं प्रदर्श्यते-वैदेहीत्यादि । मे-मम [५१४]रामविवासनादिव्यापारेणं शोचन्ती प्राणान् क्षपयिष्यति ॥ ७३ ॥

 न हि राममहं दृष्ट्वा [५१५]प्रविशन्तं महावने ॥ ७४ ॥
 चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ।

 सीताया इव ममापि प्राणक्षपणं प्राप्तमित्याह-न हीत्यादि ।

 [५१६]सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ७५ ॥

 सा नूनमिति | सा-त्वं ; नूनं-ध्रुवमित्यर्थः ॥ ७५ ॥


 [५१७]सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् ।
 रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ ७६ ॥

 सतीं असतीमिति । पतिमारकत्वेन सर्वथाऽसतीम् । विषसंपन्नां रूपिणीं-दृष्टिप्रियाम् ॥ ७६ ॥

 [५१८]अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती [५१९]स्म भाषसे ।
 गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः ॥ ७७ ॥

 सान्त्वैः-इष्टवचनैः । गीतशब्देन-गीतध्वनिना ॥ ७७ ॥

 अनार्य इति मामार्याः पुत्र [५२०]विक्रायकं ध्रुवम् ।
 [५२१]विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ ७८ ॥

 अनार्यः-पापी इति रथ्यासु विकरिष्यन्तीति । वदिष्यन्तीति यावत् । तत्र हेतुः-पुत्रविक्रायकमिति । ण्वुलि वृद्धावायादेशः । पुत्रेण मूल्येन स्त्रीसुखं क्रीतवानित्यर्थः ॥ ७८ ॥

 अहो [५२२]दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव ।
 दुःखमेवंविधं प्राप्तं पुराकृत[५२३]मिवाशुभम् ॥ ७९ ॥

 यत्र-एतादृशे विषयेऽपि तव वाचः क्षमे यतः अतः पुराकृतमशुभमेव, एवंविधदुःखं दुःखपरिणामं सत्प्राप्तम् ॥ ७९ ॥


 चिरं खलु [५२४]मया पापे ! त्वं पापेनाभिरक्षिता ।
 अज्ञानादुपसंपन्ना रज्जुरुद्बन्धिनी यथा ॥ ८० ॥
 रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ।
 बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ ८१ ॥

 बाल इवेति योजना ॥ ८१ ॥

 मया [५२५]ह्यपितृकः पुत्रः स महात्मा दुरात्मना ।
 तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति ॥ ८२ ॥

 मयेत्यादि । हि-यस्मात् मया या दुरात्मना महात्मा पुत्रः अपितृकः–पितृप्रयुक्तराज्यरहितः कृतः, तस्मात् तं-तादृशं तु मामेवायं लोको नूनमाक्रोष्टुमर्हति । आक्रोशो-निन्दा ॥ ८२ ॥

 बालिशो बत कामात्मा राजा दशरथो भृशम् ।
 स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ ८३ ॥

 तस्या एव प्रकारः–बालिश इत्यादि । प्रस्थापयिष्यति, प्रस्थापयति, प्रातिष्ठिपदिति त्रिकाले च निन्दा द्रष्टव्या ॥ ८३ ॥

 [५२६]व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकार्शितः ।
 भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ ८४ ॥

 उपकर्शितः-प्रापितकार्यः । कृच्छ्रं-जटाद्युपेततया वने तपः-क्लेशम् ॥ ८४ ॥

 नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।
 [५२७]स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८५ ॥


 नालमित्यादि । प्रव्रजेत्युक्तोऽसौ 'प्रव्रजामि' इत्येतदन्यत् द्वितीयं वचनं वक्तुं नालम् अहमिव धर्मयन्त्रितत्वात् । अतो

न तु-[५२८]"हन्त त्वयाहमिमं यजा इति-स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ" इत्यादिप्रसिद्धरोहितादिराजकुमारवत् पितृवचनलङ्घनं करिष्यतीत्यर्थः ॥ ८५ ॥

 यदि मे राघवः कुर्यात् वनं गच्छेति भाषिते ।
 प्रतिकूलं प्रियं मे स्यात् न तु वत्सः करिष्यति ॥ ८६ ॥
 राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ।
 मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ ८७ ॥

 ततश्च किमित्यत्राह-राघव इत्यादि । अक्षमणीयं-दुस्सह-वृत्तम् ॥ ८७ ॥


 मृते मयि गते रामे वनं मनुजपुङ्गवे ।
 [५२९]इष्टो मम जनः शेषः [५३०]किं पापं प्रतिपत्स्यते ॥ ८८ ॥

 किं पापं-कीदृशं दुःखम् । मनोवागगोचरमिति यावत् ॥

 [५३१] [५३२] कौसल्या मां च रामं च पुत्रौ च यदि [५३३]हास्यति ।
 दुःखान्यसहती देवी मामेवानुमरिष्यति ॥ ८९ ॥

 तदेव दुःखं दर्शयति-कौसल्येत्यादिना । पुत्रौ चेति । लक्ष्मणशत्रुघ्नाविति यावत् । कौसल्या मां रामं च यदा हास्यति तदा दुःखान्यसहती मामेवानुमरिष्यति, देवी सुमित्रा च; लक्ष्मणस्य रामनियतसहगमनात्, इतरस्य च दैवादद्य भरतेन सह गतत्वाच्च, ताभ्यां मया च रहिता सा मामेवानुमरिष्यति ॥ ८९ ॥

 कौसल्यां च सुमित्रां च मां च पुत्रैः त्रिभिस्सह ।
 प्रक्षिप्य [५३४]नरके सा त्वं कैकेयि ! सुखिता भव ॥ ९० ॥

 एवञ्च सति-कौसल्यामित्यादि ॥ १० ॥


 मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः ।
 इक्ष्वाकुकुल[५३५]मक्षोभ्यमाकुलं पालायिष्यसि ॥ ९१ ॥

 मया रामेणेत्यादिः व्यङ्ग्योक्तिः ॥ ९१ ॥

 प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ।
 [५३६]मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ ९२ ॥

 रामप्रव्राजनस्य भरतानुमतौ स तु मे शत्रुरेवेत्याशयेनाह- -मा कार्षीत्प्रेतकृत्यमिति ॥ ९२ ॥

 मृते मयि गते रामे वनं पुरुषपुङ्गवे ।
 सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ९३ ॥
 त्वं राजपुत्रि ! '[५३७]दैवेन [५३८]न्यवसेर्मम वेश्मनि ।
 अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ।
 सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ ९४ ॥

 राजा पुत्रो यस्याः सा राजपुत्री, तस्याः सम्बुद्धेः । 'सूतोग्रे' इत्यादिना पुत्रार्थपुत्रट्प्रातिपदिकान्तत्वेन दीर्घः । इयमपि व्यङ्ग्योक्तिः । दैवेन मामकदुरदृष्टवशात् मम वेश्मनि न्यवसेर्यदि,'अट्' आर्षः, तदा लोके-अप्रत्यक्षोऽपयशः अकीर्तिः परिभवः-महाजन-समक्षं धिक्कारः अवज्ञा-अवमतिः-क्षुद्रत्वेन प्रतिपत्तिः । पापकृतः-महापापकृतः ॥ ९४ ॥


 कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः ।
 पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ ९५ ॥
 यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ।
 अहंपूर्वाः पचन्ति स्म [५३९]प्रशस्तं पानभोजनम् ॥ ९६ ॥

 सूदाः-पाचकाः ॥ ९६ ॥

 स कथं नु कषायाणि तिक्तानि कटुकानि च ।
 भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति ॥ ९७ ॥
 महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः ।
 काषायपरिधानस्तु कथं रामो भविष्यति ॥ ९८ ॥
 [५४०]कस्यैतद्दारुणं वाक्यं एवंविध[५४१]मचिन्तितम् ।
 रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ ९९ ॥

 रामस्यारण्यगमनं,भरतस्याभिषेचनमित्येवंविधमचिन्तितमेतद्दारुणं वाक्यं-वाक्यश्रवणं, कस्य-कीदृशस्य मम दुष्कर्मणः-फलम् ॥ ९९ ॥

 धिगस्तु योषितो नाम शठाः स्वार्थपराः सदा ।
 [५४२]न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ १०० ॥

 धिगस्त्विति । एवंक्रूरवचना इति शेषः । तमेव विशेषमभिप्रेत्याह-न ब्रवीमीत्यादि । १०० ॥


 अनर्थभावेऽर्थपरे ! नृशंसे !
  ममानुतापाय निविष्टभावे !
 किमप्रियं पश्यसि [५४३]मानिमित्तं
  हितानुकारिण्यथ वापि रामे ॥ १०१ ॥

 स्वपरानर्थसाधने भावो यस्याः सा तथा । निविष्टो-निवेशितो दुर्भावो यस्याः सा तथा । मानिमित्तमिति । मन्निमित्तमिति यावत् ॥ १०१ ॥

 [५४४]परित्यजेयुः पितरोऽपि पुत्रान्
  भार्याः पतींश्चापि [५४५]कृतानुरागान् ।
 कृत्स्नं हि सर्वं कुपितं जगत्स्यात्
  दृष्ट्वैव रामं व्यसने निमग्नम् ॥ १०२ ॥

 कृतानुरागशब्दः पुत्रपतिभार्याणां त्यागानौचित्यहेतुः यथोचितविपरिणामः पुत्रादिषु योज्यः । कृतानुरागान्-पुत्रान् त्यजेयुः किं? 'च' 'अपि' शब्दात् पतयश्च कृतानुरागा भार्यास्त्यजेयुः किं ? इति योज्यम् । कृत्स्नं रामप्रवाससाधकं त्वद्व्यापारं दृष्ट्वा-रामं च तद्बशाद्व्यसने निमग्नं दृष्ट्वा सर्वं जगत् त्वां[५४६] प्रत्येव कुपितं स्यात् ॥१०२ ॥

 अहं पुनर्देषकुमाररूपं
  अलंकृतं तं सुतमात्रजन्तम् |
 नन्दामि [५४७]पश्यन्नपि दर्शनेन
  भवामि दृष्ट्वा च पुनर्युवेव ॥ १०३ ॥


 अन्ततः स्वस्य रामं विना जीवनव्यतिरेकं दर्शयिष्यन्

तदन्वये स्वजीवनान्वयं दर्शयति-अहमित्यादि । आव्रजन्तं पश्यन्नहं दर्शनेन[५४८] तस्य दूरदर्शनेनापि नन्दामि । आगतं अन्ति के दृष्ट्वा चिरवृद्धोऽहं पुनर्युवेव भवामि- युववदतिहृष्टपुष्टान्तर्बहिःपरिकरो भवामि ॥ १०३ ॥

 [५४९]विना [५५०]हि सूर्येण भवेत् [५५१]प्रवृत्तिः
  अवर्षता वज्रधरेण वाऽपि ।
 रामं तु गच्छन्तमितः समीक्ष्य
  जीवेन्न कश्चित्त्विति चेतना मे ॥ १०४ ॥

 हिशब्दो यद्यप्यर्थे । सूर्येण विना यद्यपि प्रवृत्तिः स्यात्, तथा वज्रधरेणावर्षतापि जीवनमपि यद्यपि स्यात्; अथापि राममितो गच्छन्तं वीक्ष्य न कश्चिदप्यनुभूतरामस्वभावो लोको जीवेदिति तु मे चेतना-धीः । लोकस्यैवैवंदशत्वे मदजीवनं कैमुतिकसिद्धम् ॥ १०४ ॥

 विनाशकामामहिताममित्रां
  आवासयं मृत्युमिवात्मनस्त्वाम् ।
 चिरं बताङ्केन भृताऽसि सर्पी
  महाविषा तेन हतोऽस्मि मोहात् ॥ १०५ ॥


 सर्पी-जातिलक्षणो ङीष् । मोहादङ्केन भृताऽसि इति*

योजना । तेन अङ्कभरणेन हेतुना ॥ १०५ ॥

 मया च रामेण च लक्ष्मणेन
  प्रशास्तु हीनो भरतस्त्वया सह ।
 पुरं च राष्ट्रं च महीं सपर्वतां
  [५५२]ममाहितानां च [५५३]भवाभिहर्षिणी ॥ १०६ ॥

 नृशंसवृत्ते ! [५५४]व्यसनप्रहारिणि !
  प्रसह्य वाक्यं यदिहाद्य भाषसे ।
 न नाम ते केन सुखात्पतन्त्यधः
  विशीर्यमाणा [५५५]दशनाः सहस्रधा ॥ १०७ ॥

 इह-देशे अद्य-काले प्रसह्य-पतिपत्नीभावं तिरस्कृत्य क्रूरं वावयं भाषसे यत्, अतोऽवश्यप्राप्तविशरणाः दन्ताः केन नाम हेतुना ते मुखाद्विशीर्यमाणा न पतन्तीति न जान इति शेषः ॥

 न किञ्चिदाहाहितमप्रियं वचो
  न वेत्ति रामः परुषाणि भाषितुम् ।
 कथं नु रामे ह्यभिरामवादिनि
  ब्रवीषि दोषान् [५५६]गुणनित्यसम्मते ॥ १०८ ॥


 [५५७]प्रताम्य वा प्रज्वल वा प्रणश्य वा
  सहस्रशो वा [५५८]स्फुटिता महीं व्रज ।
 न ते करिष्यामि वचस्सुदारुणं
  समाहितं केकयराजपांसने ! ॥ १०९ ॥

 महीं व्रज-अथापि न ते वचः करिष्यामि । आकाशखण्डन-वदशक्यार्थत्वादित्याशयः ॥ १०९ ॥

 क्षुरोपमां नित्य[५५९]मसत्प्रियंवदां
  प्रदुष्टभावां स्वकुलोपघातिनीम् ।
 [५६०]जीवितुं त्वां विषहे [५६१][५६२]मनोऽरमां
  दिधक्षमाणां हृदयं सबन्धनम् ॥ ११० ॥

 असत्प्रियंवदां-मिथ्याप्रियवादिनीम् । तदेव प्रकटीकरोति-प्रदुष्टभावामिति । मनसस्त्वरमा-मनोऽरमा । हृदय सबन्धनमिति। सप्राणं मन इति यावत्, 'प्राणबन्धनं हि सौम्य मनः' इति श्रुतेः, प्राणबन्धनसहितमिति भावः । त्वां जीवितुं न विषहे । एतादृशी स्त्री नश्यत्वित्येवाशास इति यावत् ॥ ११० ॥

 न जीवितं मेऽस्ति कुतः पुनः सुखं
 विनाऽऽत्मजेना[५६३]त्मवतः कुतो रतिः ।


 ममाहितं देवि ! न कर्तुमर्हसि

  स्पृशामि पादावपि ते प्रसीद मे ॥ १११ ॥  कुतो रतिरिति-त्वया सहेति शेषः । यदेवं अतो-ममेत्यादि ॥

 स भूमिपालो विलपन्ननाथवत्
  स्त्रिया गृहीतो हृदयेऽतिमात्रया ।
 पपात देव्याश्चरणौ प्रसारितौ
  उभावसंप्राप्य, यथातुरस्तथा ॥ ११२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वादशः सर्गः


 स्त्रिया—स्त्रीमूलव्यथया । देव्याः प्रसारितौ चरणावित्यनेन, पत्यौ राजनि चाधमर्णदासदृष्टिरित द्योत्यते । असंप्राप्य पपातत्यनेन पस्पृक्षोरपि चित्तमूर्छाजनितवैवश्यं द्योतितम् । आखुकाय (११२ १/२) मानः सर्गः ॥ ११२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वादशः सर्गः


त्रयोदशः सर्गः
[दशरथविलापः]

 [५६४]अतदर्हं महाराजं शयानमतथोचितम् ।
 ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १ ॥

 अथ सत्यपाशबद्धत्वेन 'न ते करिष्यामि वचः' इति दृढं वक्तुमशक्नुवन्, पुनरपि प्रसादयति-अतदर्हमित्यादि । अतदर्हं-स्त्रीप्रणामानर्हं । अतथोचितं-भूशयनानर्हम् ॥ १॥


 [५६५]अनर्थरूपाऽसिद्धार्था ह्यभीता [५६६]भयदर्शिनी ।
 पुनराकारयामास तमेव वरमङ्गना ॥ २ ॥

 अनर्थरूपेति । कुलस्येति शेषः । भयदर्शिनीति । राज्ञ इति शेषः । तमेव वरं आकारयामास-दातव्यत्वेन ग्राहयामास ॥ २ ॥

 त्वं [५६७][५६८] कथ्यसे महाराज ! सत्यवादी दृढव्रतः ।
 मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ ३ ॥

 तदेवोच्यते-कथ्यस इत्यादि । [५६९]विधारयितुमिति-ऋणत्वेनेति शेषः ॥ ३ ॥

 एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।
 प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥ ४ ॥
 मृते मयि गते रामे वनं मनुजपुङ्गवे ।
 हन्तानार्ये ! ममामित्रे ! सकामा [५७०]सुखिनी भव ॥ ५ ॥
 [५७१]स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम् ।
 प्रत्यादेशादभिहितं धारयिष्ये कथं बत ! ॥ ६ ॥


 इह रामप्रवासनदुःखमृतस्य मृत्वा स्वर्गेऽपि सौख्यं नास्ति । अतस्त्वदिष्टं कृत्वा मरणापेक्षया रामाभिषेचनमेव मे हितमित्याशयेनाह-स्वर्ग इत्यादि । त्वद्वचनं कृत्वा मृत्वा मयि स्वर्गं गते स्वर्गेऽपि दैवतैः रामस्य कुशलं पृष्टोऽहं 'प्रत्याख्यातवानस्मि रामं' इति कथं प्रत्युत्तरं

वदिष्ये । अथ प्रत्यादेशात्-त्वदिष्टसंपादनाय रामप्रत्यादेशाद्धेतोः देवैर्यदभिहितं भविष्यति-'किं मूढ ! ज्येष्ठं श्रेष्ठगुणैर्युक्तं कथं प्रत्याख्यातवानसि' इति तदेतदभिहितं कथं देवसभायां धारयिष्ये, बत ! अतस्तदप्रत्याख्यानमेव वरमिति मन्य इत्याशयः ॥ ६ ॥

 कैकेय्याः प्रियकामेन रामः प्रव्राजितो [५७२]मया ।
 यदि सत्यं ब्रवीम्येतत् [५७३]तदसत्यं भविष्यति ॥ ७ ॥

 ननु 'सत्यवशात्प्रत्यादिष्टवान्' इत्युत्तरं ब्रूहीत्यत्राह-कैकेय्या इत्यादि ।[५७४]गतार्थम् ॥ ७॥

 अपुत्रेण मया पुत्रः श्रमेण महता महान् ।
 रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ ८ ॥
 शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः ।
 कथं कमलपत्राक्षो मया रामो विवास्यते ॥ ९ ॥
 कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।
 अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ १० ॥


 सुखानामुचितस्यैव दुःखैरनुचितस्य च ।
 दुःखं नामानुपश्वेयं कथं रामस्य धीमतः ॥ ११ ॥

 दुःखैरनुचितस्येति । षष्ठ्यर्थे तृतीया ॥ ११ ॥

 यदि दुःखमकृत्वाऽद्य मम संक्रमणं भवेत् ।
 [५७५]अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ १२ ॥

 सर्वथा रामस्य दुःखाकरणमेव स्वहितमित्याह-यदीत्यादि । अदुःखार्हस्य रामस्य अद्य दुःखमकृत्वा इह सुखितस्य मम कालान्तरे स्वर्गस्य संक्रमणं भवेद्यदि तदा स्वर्गेऽपि सुखमाप्नुयाम् । तस्या वरं एतद्व्यतिरिक्ताकिञ्चिदर्थेन कृतार्थीकर्तव्यम् । अस्यादानेऽप्यशक्यार्थत्वाद्दोषो न भविष्यतीत्याशयः ॥ १२ ॥

 नृशंसे ! पापसंकल्पे ! रामं सत्यपराक्रमम् ।
 [५७६]किं विप्रियेण कैकेयि ! प्रियं योजयसे मम ॥ १३ ॥
 अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।
 तथा विलपतस्तस्य परिभ्रमितचेतसः ॥ १४ ॥
 अस्तमभ्यागमत्सूर्यो रजनी चाभ्यवर्तत ।
 [५७७]सा त्रियामा तथाऽऽर्तस्य चन्द्रमण्डलमण्डिता ॥ १५ ॥
 राज्ञो विलपमानस्य न व्यभासत शर्वरी ।


 अस्तमित्यादि । यदा राज्ञः स्वनिवेशप्रवेशकालात्पूर्वं सूर्योऽस्तमभ्यागमत् रजनीचाभ्यवर्तत, सा त्रियामा-रजनी विलपमानस्य राज्ञो न व्यभासत । विलापनेनैव रात्रिकालो व्यतीत इत्यर्थः ।[५७८]अथ सा शर्वरी व्यभासत विभाता च इत्यावृत्त्य योजना ॥ १५ ॥

 तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ॥ १६ ॥
 विललापार्तवद्दुःखं गगनासक्तलोचनः ।

 आर्तवत्-स्वार्थे वतिरित्युक्तम्[५७९] ॥ १६ ॥

 [५८०]न प्रभातं [५८१]त्वयेच्छामि निशे नक्षत्रभूषिते ! ॥ १७ ॥
 क्रियतां मे दया भद्रे ! मयाऽयं रचितोऽञ्जलिः ।

 अथ दुःखवशाद्रात्र्या अव्युष्टिं प्रार्थयते-न प्रभातमित्यादि । भावे निष्ठा । त्वया प्रभातमिति । त्वत्कर्तृकप्रभातमिति यावत् । मे-मह्यम् ॥ १७ ॥

 [५८२]अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥ १८ ॥


 नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ।

 अथवा गम्यतां शीघ्रमिति । रात्रिरिति शेषः । स्त्रीदर्शनं रात्रावेव भवति । तदत्यये प्रजा आयान्ति राज्ञः सकाशम् । अतोऽस्यास्तु दर्शनपरिहारो भविष्यतीत्याशयः ॥ १८ ॥

 एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ॥ १९ ॥
 प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ।
 साधु[५८३]वृत्तस्य दीनस्य [५८४] त्वद्गतस्य गतायुषः ॥ २० ॥
 प्रसादः क्रियतां भद्रे ! देवि ! राज्ञो विशेषतः ।

 त्वद्गतस्येति । सत्यवशात् त्वद्वशगस्येत्यर्थः ॥ २० ॥

 [५८५]शून्येन खलु सुश्रोणि ! मयेदं [५८६]समुदाहृतम् ॥ २१ ॥
 कुरु साधुप्रसादं मे बाले ! सहृदया ह्यसि ।

 शून्येनेति । प्रणष्टसर्वाहंभावेनेति यावत् ॥ २१ ॥

 प्रसीद देवि ! [५८७]रामो मे त्वद्दत्तं राज्यमव्ययम् ॥ २२ ॥
 लभतामसितापाङ्गे ! यशः पर[५८८]मवाप्स्यसि ।

 तदेव दर्शयन्नाह-त्वद्दत्तमिति । त्वया वरबलाद्गृहीतमेव राज्यं मत्प्रीत्यर्थं रामाय देहीत्यर्थः ॥ २२ ॥


 मम रामस्य लोकस्य गुरूणां भरतस्य च ॥ २३ ॥
 प्रियमेतद्गुरुश्रोणि ! कुरु चारुमुखेक्षणे !

 गुर्वी श्रोणिः यस्याः सा तथा ॥ २३ ॥

 विशुद्धभावस्य हि दुष्टभावा
  [५८९]ताम्रेक्षणास्याश्रुकलस्य राज्ञः ।
 श्रुत्वा विचित्रं करुणं विलापं
  भर्तुर्नृशंसा न चकार वाक्यम् ॥ २४ ॥

 अश्रुकलः-अश्रुपूर्णः कलिः-कामधेनुः ॥ २४ ॥

 ततः स राजा [५९०]पुनरेव मूर्छितः
  [५९१][५९२]प्रियामदुष्टां प्रतिकूलभाषिणीम् ।
 समीक्ष्य पुत्रस्य विवासनं प्रति
  क्षितौ विसंज्ञो निपपात दुःखितः ॥ २५ ॥

 ततस्स इत्यादि । तद्रात्रेः प्राक् नित्यमदुष्टां-पतिव्रतां, तत्काले दैवात्प्रतिकूलभाषिणी तां समीक्ष्य पुत्रस्य विवासनं प्रतिक्रियमाणं [५९३]तद्वचनं च वीक्ष्य चिरपरिचितप्रेमत्वात् तां धिक्कर्तुं, अतिप्रयासलब्धमुगुण[५९४]पुत्रत्वात्तं च त्यक्तुमशक्लान् कर्तव्यमूढो मूर्छितः क्षितौ निस्संज्ञः पपात ॥ २५ ॥


 इतीव राज्ञो व्यथितस्य सा निशा
  जगाम घोरं श्वसतो मनस्विनः ।
 विबोध्यमानः प्रतिबोधनं तदा
  निवारयामास स राजसत्तमः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोदशः सर्गः


 श्वसत इति । दीर्घमुष्णं विनिश्वसत इति यावत् । विबोध्यमानः-सूतभागधवन्दिभिर्वादित्रोपतैरिति शेषः । प्रतिबोधनं निवारयामासेति । तादृग्व्यवहारस्य दुःखानहत्वादेव । अचिर (२६१/२) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयोदशः सर्गः



चतुर्दशः सर्गः
[कैकेय्युपालम्भः]

 पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।
 [५९५]विवेष्टमानमुद्वीक्ष्य[५९६] सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥

 अथैवंदशेऽपि राजनि केकेयी मान्नमित्ततो राजा वा म्रियतां, तन्निमित्ततोऽहं वा म्रिये इति सर्वथा निश्चिनोति । पुत्रेति ॥ १ ॥


 पापं [५९७]कृत्वेव किमिदं मम संश्रुत्य संश्रवम् ।
 शेष क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥

 मम संश्रवं-वरदानप्रतिज्ञां संश्रुत्य-अङ्गीकृत्य तदकरणरूपं पापं कृत्वेव-कृत्वैव सन्नः-अवसन्नः क्षितितले शेष इति किमिदं-न किमपि प्रयोजनम् । अतः स्थित्यां- सत्यपरिपालनमर्यादायां स्थातुं त्वमर्हसि । न त्वन्यायतः सत्यपरिपालने प्राणसंशयो युक्त इति भावः ॥ २ ॥

 आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।
 सत्यं संश्रुत्य हि मया त्वं च धर्मे प्रचोदितः ॥ ३ ॥

 सत्यपरिपालने प्राणसंशये जाते प्राणादपि सत्यमेव रक्षणीयमिति सदृष्टान्तमाह-सत्यं संश्रुत्येत्यादि । गतार्थम् ॥ ३ ॥

 संश्रुत्य शैव्यः श्येनाय स्वां तनुं जगतीपतिः ।
 प्रदाय पक्षिणे राजन् ! जगाम गतिमुत्तमाम् ॥ ४ ॥
 तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।
 [५९८]याचमाने स्वके नेत्रे [५९९]उद्धृत्याविमना ददौ ॥ ५ ॥
 सरितां तु पतिः स्वल्पां मर्यादां [६००][६०१]सत्यमन्वितः ।
 सत्यानुरोधात्समयं वेलां स्वां नातिवर्तते ॥ ६ ॥

 सरितां पतिः सत्यमनु-सत्यमनुवाप्य सूक्ष्मां सत्यस्य मर्यादां इतः प्राप्तस्सन् सत्यानुरोधात्-सत्यपरिपालनहेतोरेव स्वां वेलां-तीरं[६०२] स्वं समयं-प्रतिज्ञां च नातिवर्तते ॥ ६ ॥


 [६०३]सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
 सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ ७ ॥
 सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ।
 स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ! ॥ ८ ॥

 एकपदं-एकवाक्यत्वलक्षणं सत्यमेव ब्रह्म । सत्यमेवावलम्ब्य परं पदं प्राप्यते । यदेवं अतस्सत्यमेवानुवर्तस्व ॥ ८ ॥

 [६०४][६०५]स धर्मस्याभिकामार्थं मम चैवाभिचोदनात् ।
 प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९ ॥

 परमं कर्तव्यं सिद्धान्तन्यायोपेतमाह-स धर्मस्थेत्यादि । स त्वं त्वल्लोकसिद्धिप्रयोजनकस्य धर्मस्यैव, अभिकामार्थं-पालनार्थं क्रियमाणान्ममाभिचोदनात्-नियोगात् सुतं रामं प्रव्राजय। एवं त्वामहं खलु त्रिर्ब्रवीमि । अतो नाहमस्मात्स्ववरग्रहात्सर्वथा निवर्तय इति शेषः ॥

 समयं च [६०६]ममार्येमं यदि त्वं न करिष्यसि ।
 अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १० ॥

 विपक्षे स्त्रीवधदोषश्चाधिकस्ते पतिष्यतीत्याह-समयं चेत्यादि । परित्यक्ता–उपेक्षिता, त्वयेति शेषः ॥ १० ॥

 एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
 नाशकत् पाशमुन्मोक्तुं [६०७]बलिरिन्द्रकृतं यथा ॥ ११ ॥


 एवं-न्यायोपेततयेति यावत् । पाशं-सत्यपाशबंधनम् ।

उन्मोक्तुं-उन्मोचयितुम् । बलिः इन्द्रकृतं-उपेन्द्रवामनकृतं पदत्रयप्रति-श्रवरूपं पाशं यथा मोक्तुं नाशकत् तद्वदित्यर्थः ॥ ११ ॥

 उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् ।
 स धुर्यो वै परिस्पन्दन् [६०८]युगचक्रान्तरं [६०९]यथा ॥ १२ ॥

 सः-दशरथः युगचक्रान्तरं प्राप्य परिस्पन्दन्-तिर्यक्परि- स्पन्दमानो धुर्यः, हेतौ शतृ, अत एवोद्भ्रान्तहृदयत्वादिधर्मको यथा भवति तद्वदित्यर्थः ॥ १२ ॥

 [६१०]विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ।
 कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥

 संस्तभ्येति । विह्वलं चित्तमिति शेषः ॥ १३ ॥

 यस्ते मन्त्रकृतः पाणिरग्नौ पापे ! मया धृतः ।
 तं त्यजाभि स्वज चैव तव पुत्रं सह त्वया ॥ १४ ॥

 अथानिष्टाया अनिष्टपुत्रस्य च त्याग एव न्यायतो धर्मतश्च कर्तव्य इति मन्वान आह-यस्त इत्यादि । हे पापे ! अग्नौ -अग्नि-सन्निधौ यस्ते पाणिः मन्त्रकृतः- "गृभ्णामि ते" इति मन्त्रकृतभरणो मया मृतश्च तं त्यजामि; स्वजं तमपि तव पुत्रं त्वया सह त्यजामि । हेतुः प्रागेवोक्तः ॥ १४ ॥


 प्रभाता रजनी देवि ! सूर्यस्योदयनं प्रति ।
 [६११][६१२]अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ १५ ॥

 अथ दीर्घरजुभ्रमितकन्तुकवन्महता यत्नेन प्रवर्तितकार्यो मयाऽशक्यानवारण इत्याशयेनाह-प्रभातेत्यादि । उदयनं प्रतीति-उदयं प्रतिलभ्येति यावत् ॥ १५ ॥

 [६१३] रामाभिषेकसंभारैस्तदर्थमुपकल्पितैः ।
 रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६ ॥

 तदर्थं-अभिषेकार्थं उपकल्पितै रामाभिषेकसंभारै रामस्याभिषेकं प्रति गुरुजनो मां त्वरयिष्यति ध्रुवम् । ततो रामः कृताभिषेकः कारयितव्यः; कुर्वन् गुरुजनानुरोधो मया कर्तव्यः, तस्यापि न्यायप्राप्तत्वात् इत्यर्थः । एवं सति [६१४]रुष्टया त्वया मत्सलिलक्रिया न कर्तव्येत्याह-मृतस्येत्यादि ॥ १६ ॥


 सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया ।
 [६१५] व्याहन्तास्यशुभाचारे ! यदि रामाभिषेचनम् ॥ १७ ॥
 न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं [६१६]तथामुखम् ।
 हतहर्षं तथानन्दं [६१७]पुनर्जनमवाङ्मुखम् ॥ १८ ॥

 व्याहन्तासीति लुण्मध्यमः । व्याहन्त्री यदि तदा त्वद्वचनमनुतिष्ठन्नहं तदा पूर्वं तथामुखं दृष्ट्वाऽद्यावाङ्मुखं तं द्रष्टुमशक्तोऽस्मि ॥ १८ ॥

 तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
 प्रभाता शर्वरी [६१८]पुण्या चन्द्रनक्षत्रशालिनी ॥ १९ ॥

 तथा ब्रुवत इति । मशक्यानुष्ठानतया ब्रुवत इत्यर्थः ॥ १९ ॥

 ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
 उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥ २० ॥


 किमिदं भाषसे राजन् ! [६१९] ! रुजोपमम् ।
 आनाययितु[६२०]माक्लिष्टं पुत्रं राममिहार्हसि ॥ २१ ॥

 अथ यथाऽतिकृच्छ्रनिर्यातनीयमधमर्णं अतिनिष्ठुरपरमनिर्घृणोत्तर्णस्तु वदति तथा बलादेव स्वमृणं निर्यात्य गच्छत्याह-किमित्यादि । अङ्गेत्यामन्त्रणे । रुजा-शूलः । अङ्ग राजन्-हे राजन् ! मम शूलतोदनोपमं इदं-अशक्यतावाक्यं किं भाषसे-व्यर्थमेव भाषसे । अतः-आनाययितुमित्यादि ॥ २१ ॥

 स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
 निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २२ ॥
 [६२१]तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
 राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत् ॥ २३ ॥
 [६२२]धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना ।
 ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ॥

 यस्याप्यस्ति शिक्षणसमये प्रतोदः-राजाऽप्युक्तदृष्टान्तवदेव त्वया करणीयः । तत्कुर्वित्येवान्तत आह-धर्मेत्यादि । द्रष्टुमिच्छामि । गमनात्पूर्वमिति शेषः ॥ २४ ॥

 ततः [६२३]प्रभातां रजनीमुदिते च दिवाकरे ।
 पुण्ये नक्षत्रयोगे च मुहूर्ते च [६२४]समागते ॥ २५ ॥


 वसिष्ठो गुणसंपन्नः शिष्यैः परिवृतस्तदा ।
 उपगृह्याशु संभारान् प्रविवेश पुरोत्तमम् ॥ २६ ॥

 पुरोत्तमं प्रविवेशेति । सरय्वां कृतप्राभातिक इति शेषः ॥ २६ ॥

 [६२५]सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।
 संहृष्टमनुजोपेतां समृद्ध[६२६]विपणापणाम् ॥ २७ ॥

 समृद्धविपणाः-समृद्धक्रेयपदार्थवन्तः आपणाः यस्यां सा तथा ॥ २७ ॥

 महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्
 चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् ॥ २८ ॥

 समुत्सुकां-समुत्सुकप्रजायुक्ताम् ॥ २८ ॥

 तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ।
 ददर्शान्तःपुरं[६२७] श्रीमान्नानाध्वजगणायुतम् ॥ २९ ॥
 पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।
 [६२८]यज्ञविद्भिः सुसंपूर्णं [६२९]सदस्यैः परमद्विजैः ॥ ३० ॥
 तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ।
 वसिष्ठः परमप्रीतः [६३०]परमर्षिर्विवेश च ॥ ३१ ॥


 स त्वपश्य[६३१]द्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
 द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ ३२ ॥

 विनिष्क्रान्तमिति । अन्तःपुरादिति शेषः । द्वारे-अन्तःपुरद्वारे । अपश्यदिति योजना ॥ ३२ ॥

 तमुवाच महातेजाः सूतपुत्रं विशारदम् ।
 [६३२]वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ ३३ ॥
 इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ।
 औदुम्बरं भद्रपीठं अभिषेकार्थ[६३३]माहृतम् ॥ ३४ ॥

 सागरेभ्य इति । आहृतोदकपूर्णा इति शेषः । काञ्चनाः-स्वर्णनिर्मिताः । औदुम्बरं भद्रपीठमिति । "औदुम्बर्यासन्दी, तस्यै प्रादेशमात्राः पादाः स्युः" इति राजाभिषेकबह्वचब्राह्मणप्रसिद्धा एवमादिपदार्थाः ॥ ३४ ॥

 सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ।
 [६३४]क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ ३५ ॥
 अष्टौ च कन्या रुचिरा मत्तश्र वरवारणः ।
 चतुरश्रो रथः श्रीमान्निस्त्रिंशो धनुरुत्तमम् ॥ ३६ ॥

 निस्त्रिंशः-खड्गः ॥ ३६ ॥


 वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ।
 श्वेते च वालव्यजने भृङ्गारश्व हिरण्मयः ॥ ३७ ॥

 नरसंयुक्तं वाहनं शिबिकादि । भृङ्गारः-कनकालुका ॥ ३७ ॥

 हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः ।
 [६३५]केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ ३८ ॥

 चतुर्दष्ट्रंत्वादेव हरिश्रेष्ठत्वम् ॥ ३८ ॥

 सिंहासनं व्याघ्रतनुः [६३६]समिधश्च हुताशनः ।
 सर्ववादित्रसंघश्च वेश्याश्चालंकृताः स्त्रियः ॥ ३९ ॥

 [६३७]व्याघ्रतनुः-साङ्गव्याघ्रचर्म ॥ ३९ ॥

 आचार्या ब्राह्मणा गावः पुण्याश्व मृगपक्षिणः ।
 पौरजानपदश्रेष्टा [६३८]नैगमाश्च गणैः सह ॥ ४० ॥

 नैगमाः-वणिजः । गणैः-स्वस्वीयैः ॥ ४० ॥

 एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ।
 अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ ४१ ॥
 त्वरयस्व महाराजं [६३९]यथा समुदितेऽहनि ।
 [६४०]पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ ४२ ॥

 यथासमुदिते-यथोचितं संप्राप्ते ॥ ४२ ॥


 इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ।
 स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ ४३ ॥
 तं तु पूर्वोदितं वृद्धं द्वारस्था राज[६४१]सम्मतम् ।
 न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ ४४ ॥

 पूर्वोदितं-पूर्वमेव राज्ञा कस्मिन्नप्यवसरे अकर्तव्यनिरोधतया उदितं-कृताज्ञम् । एवमाज्ञाप्रदाने हेतुः-वृद्धमिति । वयसा तपसा मन्त्रादिना च वृद्धमित्यर्थः ॥ ४४ ॥

 स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ।
 वाग्भिः परम[६४२]तुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ ४५ ॥

 एवमनुरोधतः स्त्र्यगारस्य समीपं गत्वा तत्समीपे स्थितः स सुमन्त्रो राज्ञस्तामवस्थां-यथोक्तरूपामतिधोरां अजज्ञिवान्-अज्ञातवान् । "वस्वेकाजात्" इति घसेरिट् । अत एव यथापूर्वं स्तोतुमुपचक्रमे ॥ ४५ ॥

 ततः सूतो [६४३]यथापूर्वं पार्थिवस्य निवेशने ।
 सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ ४६ ॥
 यथा नन्दति तेजस्वी सागरो भास्करोदये ।
 प्रीतः प्रीतेन मनसा [६४४]तथाऽऽनन्दघनस्ततः ॥ ४७ ॥

 सगरो यथा भास्करोदयकाले प्रत्यूर्मिप्रतिफलितसूर्यतेजसा तेजस्वीभूत्वा नन्दति-तथा प्रीतेन मनसा प्रतिफलितसूर्यस्थानीयेन प्रीतः, तत एव हेतोरानन्दघनः-आनन्दपूर्ण[६४५]स्सन् नन्द-नन्दय ।


नन्द, आनन्दघन इति च तत्राभिप्रायतः पदच्छेदः । [६४६]न्यस्तु-

'भास्करोदये-चन्द्रोदये' इत्याह-तत्तु प्रसिद्धिविरोधात् तेजस्वी इति विशेषणाच्चोपेक्ष्यम् ॥ ४७ ॥

 इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः ।
 [६४७]सोऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ ४८ ॥

 अस्यां तु वेलायामिति । उदयवेलायामित्यर्थः ॥ ४८ ॥

 वेदाः साङ्गाश्च विद्याश्च यथा ह्यात्मभुवं प्रभुम् ।
 ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ ४९ ॥

 ब्रह्माणं बोधयन्तीति । “ब्रह्मा त्वं राजन् ब्रह्माऽसि सवितासि सत्यसवः” इत्यादि “सत्यराजान्" इत्यन्तैर्मगवदहरादौ सवित्रादि-सृष्टये वेदादिभिः भगवत्स्तुतिः ॥ ४९ ॥

 आदित्यः सह चन्द्रेण यथा [६४८]भूतधरां शुभाम् ।
 बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ ५० ॥

 बोधयत्यद्य पृथिवीमिति। उदयास्तमयाभ्यामिति शेषः ॥ ५० ॥


 उत्तिष्ठाशु महाराज ! कृतकौतुकमङ्गलः ।
 विराजमानो वपुषा मेरोरिव दिवाकरः ॥ ५१ ॥

 कृतकौतुकमङ्गलः-कृतोत्सवार्थमङ्गलानुष्ठानः । [६४९]विचित्रवस्त्राभरणादिपरिग्रहरूपं मङ्गलानुष्ठानम्, "कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः" अत एव वपुषा विराजमानस्त्वं मेरोर्दिवाकर इव उत्तिष्ठेति योजना ॥ ५१ ॥

 [६५०]सोमसूर्यौ च काकुत्स्थ ! शिववैश्रवणावपि ।
 वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ ५२ ॥
 गता भगवती रात्रिः [६५१]कृतं कृत्यमिदं तव ।
 [६५२]बुध्यस्व नृपशार्दूल ! कुरु कार्यमनन्तरम् ॥ ५३ ॥

 कृतमिति । यत्कृत्यं कर्तव्यं रामाभिषेकायास्मदादिभिः तदिदं सर्वं कृतम् ॥ ५३ ॥

 [६५३]उदतिष्ठत रामस्य समग्र[६५४]मभिपेचनम् ।
 पौरजानपदश्चापि नैगमश्च कृताञ्जलिः ॥ ५४ ॥

 तदेव दर्शयति-उदतिष्ठतेत्यादि । उदतिष्ठत-उत्थितं संपन्नमभूदित्यर्थः । नैगमः-वणिम्वर्गः ॥ ५४ ॥

 [६५५]अयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ।
 क्षिप्रमाज्ञाप्यतां राजन् ! राघवस्याभिषेचनम् ॥ ५५ ॥


 यथा ह्यपालाः पशवो यथा सेना ह्यनायका ।
 यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ ५६ ॥
 एवं हि भविता राष्ट्रं [६५६]यत्र राजा न दृश्यते ।

 भवितेति लुट् । अतः शीघ्रं सन्निधेहीति शेषः ॥ ५६ ॥

 इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ॥ ५७ ॥
 अभ्यकीर्यत शोकेन भूय एव महीपतिः ।

 सान्त्वपूर्वम् अर्थवदिव-अर्थवदेव च ॥ ५७ ॥

 ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ॥ ५८ ॥
 शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ।

 शोकरक्तेति । शोकजरोदनरक्तेति यावत् ॥ ५८ ॥

 वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ ५९ ॥

 भूयो निकृन्तसीति । कैकेयीवाक्यैः कृत्तमर्माणं पुनरभ्यधिकं स्तुतिवाक्यैर्निकृन्तसि । अनुचितकाले प्रयुज्यमानत्वादिति शेषः ॥ ५९ ॥

 सुमन्त्रः [६५७]करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
 प्रगृहीताञ्जलिः किश्चित्तस्मादेशादपाक्रमत् ॥ ६० ॥

 अपाक्रमदिति । भीत इति शेषः ॥ ६० ॥


 यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ।
 तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ ६१ ॥

 दैन्यं-सत्यपाशबन्धजं कैकेयीविषयकम् । मन्त्रज्ञा-स्वकार्ये वक्तव्यविचारज्ञा ॥ ६१ ॥

 सुमन्त्र ! राजा रजनीं [६५८][६५९]रामहर्षसमुत्सुकः ।
 प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् ॥ ६२ ॥

 अत एव मिथ्यामप्याह-रामहर्षेति । रामाभिषेकहर्षेति यावत् ॥

 तद्गच्छ त्वरितं सूत ! राजपुत्रं यशस्विनम् ।
 [६६०]राममानय, भद्रं ते, नात्र कार्या विचारणा ॥ ६३ ॥
 स मन्यमानः कल्याणं हृदयेन ननन्द च ।
 निर्जगाम च संप्रीत्या त्वरितो [६६१]राजशासनात् ॥ ६४ ॥

 स मन्यमानः कल्याणमिति । 'नात्र कार्या विचारणा' इति मायाविन्या तयोक्तत्वेन विश्वासात् ॥ ६४ ॥

 सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।
 व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ ६५ ॥


 इति सूतो मतिं कृत्वा हर्षेण महता वृतः ।
 निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ ६६ ॥
 सागरहृदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात् ।
 निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ ६७ ॥

 सागरान्तर्वर्तिह्रदस्तथा-इदं तु पुरान्तर्वर्तित्वादन्तःपुरस्य ॥

 ततः पुरस्तात्सहसा विनिर्गतो
  महीपतीन् द्वारगतान् विलोकयन् ।
 ददर्श पौरान् विविधान् महाधनान्
  उपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ ६८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्दशः सर्गः


 सार (६८) मानः सर्गः (?) ॥ ६८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्दशः सर्गः


अथ पञ्चदशस्सर्गः
[ रामाह्वानम् ]

 ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः ।
 [६६२]उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ १ ॥

 अथ राजस्त्रिया राज्ञा च गुप्तहृदयतया प्रवर्त्यमानस्य सुमंत्रस्य यथापूर्वं वृत्तिः–ते त्वित्यादि । [६६३]उष्य-उषित्वा । [६६४]उपस्थानमिति ।


"कृत्यलुटो बहुलम्" इति अर्हार्थे ल्युट् । उपस्थानार्हं त्वां उपतस्थुरित्यर्थः ॥ १ ॥

 अमात्या बलमुख्याश्च मुख्या ये [६६५]निगमस्य च ।
 राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥ २ ॥
 उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि ।
 लग्ने कर्कटके प्राप्ते [६६६]जन्म रामस्य च स्थिते ॥ ३ ॥
 अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ।
 काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् ॥ ४ ॥
 रथश्व सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ।
 गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम् ॥ ५ ॥
 याश्चान्याः सरितः पुण्याः हृदाः कूपाः सरांसि च ।
 प्राग्वाहाश्चोर्ध्ववाहाश्च [६६७]तिर्यग्वाहाश्च क्षीरिणः ॥ ६ ॥

 [६६८]प्राग्वाहा इत्यादि । नद्य इति शेषः । पर्वतघट्टनोपाधि- नोर्ध्वप्रवाहवत्प्रदेशवत्य ऊर्ध्ववाहाः । तिर्यग्वाहाः-दक्षिणोत्तरप्रवाहदेशवत्यः । [६६९]क्षीरिणः-क्षीरपूर्णाः ॥ ६ ॥

 ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ।
 क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ ७ ॥


 [६७०]अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः ।
 [६७१]सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥ ८ ॥
 पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।
 चन्द्रांशुविकचप्रख्यं पाण्डरं रत्नभूषितम् ॥ ९ ॥
 सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।
 चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम् ॥ १० ॥
 सज्जं द्युतिकरं श्रीम[६७२]दभिषेकपुरस्कृतम् ।

 अभिषेकपुरस्कृतमिति । प्रक्षालितमिति यावत् ॥ १० ॥

 [६७३]पाण्डुरश्च वृषस्सज्जः पाण्डुरोऽश्वञ्च संस्थितः ॥ ११ ॥
 वादित्राणि च सर्वाणि वन्दिनश्च तथाऽपरे ।
 इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥ १२ ॥
 तथाजातीयमादाय राजपुत्राभिषेचनम् ।
 ते राजवचनात्तत्र समवेता महीपतिम् ॥ १३ ॥
 अपश्यन्तोऽब्रुवन्, को नु राज्ञो नः प्रतिवेदयेत् ।
 न पश्यामश्च राजानमुदितश्च दिवाकरः ॥ १४ ॥
 यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।

 राजपुत्राभिषेचनं-तत्साधनमादाय समवेतास्ते ब्राह्मणादयो महीपतिमपश्यन्तोऽब्रुवन् । किमब्रुवन्नित्यत्राह-को न्वित्यादि । सज्जः-सज्जपरिकर इति यावत् ॥ १४ ॥


 इति तेषु ब्रुवाणेषु [६७४]सर्वास्तांश्च महीपतीन् ॥ १५ ॥
 अब्रवीत्तानिदं वाक्यं सुमन्त्रो राजसत्कृतः ।
 [६७५]रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम् ॥ १६ ॥

 प्रस्थितो ह्यहमिति । आनेतुमिति शेषः ॥ १६ ॥

 पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः ।
 [६७६]अहं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥ १७ ॥
 राज्ञः संप्रति बुद्धस्य चानागमनकारणम् ।
 इत्युक्त्वाऽन्तःपुरद्वारमाजगाम [६७७]पुराणवित् ॥ १८ ॥

 अथाप्यहं व्याधुट्य प्रविश्यायुष्मतां युष्माकं वचनाद्राज्ञः सुखं पृच्छामि । सर्वे समेत्य राज्ञः सुखं कच्चिदिति पृच्छन्तीति विज्ञापयामीत्यर्थः । व्याघुट्यापि विज्ञापनहेतुः पूज्या इत्यादि । अपि च यत्संप्रति-उदयसमये सर्वथा बुद्धस्याप्यनागमनं- बहिर्निर्गमाभावकारणं तत्पृच्छामि इत्युक्तान्तःपुरद्वारं जगाम । पुराणवित्-चिरकालकथाभिज्ञः-चिरवृद्ध इति यावत् ॥ १८ ॥

 [६७८]सदाऽसक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।
 तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः ॥ १९ ॥


  •  असक्तं-अनिरोधम् । तुष्टावेति । वक्ष्यमाणरीत्येति शेषः । वेश्म प्रविश्य वंशं तुष्टावेति योजना ॥ १९ ॥

 [६७९]शयनीयं नरेन्द्रस्य तदाऽऽसाद्य व्यतिष्ठत ।
 सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ॥ २० ॥

 शयनीयमप्यासाद्य व्यतिष्ठत । ननु कथं तल्पपर्यन्तगमनमित्यत्राह-सोऽत्यासाद्येत्यादि । [६८०]तिरस्करणिं- यवनिकामात्रं अन्तरा कृत्वा-व्यवधानं कृत्वा अत्यासाद्य-अतिसमीपमागत्य तुष्टावेति योजना । [६८१]पुनश्च स्तवो राजविज्ञापनस्य स्तुतिपूर्वकतयैव प्रवृत्तेः सूतनिसर्गधर्मत्वात् ॥ २० ॥

 आशीर्भिर्गुणयुक्ताभिः अभितुष्टाव राघवम् ।
 सोमसूर्यौ च काकुत्स्थ ! शिववैश्रवणावपि ॥ २१ ॥
 [६८२]वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ।
 गता भगवती [६८३]रात्रिः कृतं कृत्यमिदं तव ॥ २२ ॥
 बुध्यस्व नरशार्दूल ! कुरु कार्यमनन्तरम् ।
 ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ! ॥ २३ ॥
 दर्शनं [६८४]प्रतिकांक्षन्ते प्रतिबुध्यस्व राघव !
 स्तुवन्तं तं तदा सूतं सुमंत्रं मन्त्रकोविदम् ॥ २४ ॥


 [६८५]प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ।

 प्रतिबुध्येति । यवनिकान्तर्हितमपि स्तोत्रध्वनिनेति शेषः ॥

 राममानय सूतेति यदस्यभिहितोऽ[६८६]नया |
 [६८७]किंकारणमिदं येन ममाज्ञा प्रतिहन्यते ॥ २५ ॥

 इदमब्रवीदिति किमब्रवीदित्यत्राह-राममित्यादि । हे सूत राममानयेत्यनया कैकेय्या अभिहितोऽसीति यत् तस्यैवाप्रतिषिद्धमनुमतमिति न्यायेन मदाज्ञात्वात्, सेयं ममाज्ञा प्रतिहन्यते-नानुष्ठीयत इतीदं किंकारण-किंकारणकमित्यर्थः ॥ २५ ॥

 न चैव संप्रसुप्तोऽहमानयेहाशु राघवम् ॥ २६ ॥
 इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।

 न च निद्रापरवशस्य राज्ञ इदमनुमतं न वेति संशयितव्यं त्वयेत्याह-न चैवेत्यादि । यदेवमतः 'आशु राघवमिहानय' इत्येवंराजा पुनश्च तत्रैव-कैकेयीविनियुक्तकार्य एव अन्वशात्-अनुशास्ति स्म । शासेः "तिप्यनस्तेः" इति सकारस्य दकारे 'हल्ङ्याब्भ्यः'-इत्यादिना सुलोपः ॥ २६ ॥


 स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥ २७ ॥
 निर्जगाम नृपावासात् मन्यमानः प्रियं [६८८]महत् ।

 प्रियं मन्यमान इति हार्दाभिप्रायापरिज्ञानात् ॥ २७ ॥  [६८९]प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ॥ २८ ॥  हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।

 राजमार्गं विलोकयन्निति सम्बन्धः ॥ २८ ॥

 स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥ २९ ॥   अभिषेचनसंयुक्तास्सर्वलोकस्य [६९०]हृष्टवत् ।  रामाधिकरणाः-रामविषयिणीः । अभिषेचनेति । तत्प्रसङ्गेति यावत् । हृष्टवत्-हृष्टो भूत्वा ॥ २९ ॥

 ततो ददर्श रुचिरं कैलाससदृशप्रभम् ॥ ३० ॥
 रामवेश्म सुमंत्रस्तु शक्रवेश्मसमप्रभम् ।
 [६९१]महाकपाटपिहितं वितर्दिशतशोभितम् ॥ ३१ ॥

 वितर्दिः-वेदिका ॥ ३१॥


 काञ्चनप्रतिमै[६९२]काग्रं मणिविद्रुमतोरणम् ।
 [६९३]शारदाभ्रघनप्रख्यं दीप्तं मेरुहोपमम् ॥ ३२ ॥

 काञ्चनप्रतिमाभिः एकाभिः-मुख्याभिः अग्रं-समग्रम् । [६९४]शारदाभ्रघनः व्याकृतचरः ॥ ३२ ॥

 मणिभिर्वर[६९५]माल्यानां सुमहद्भिरलंकृतम्
 मुक्तामणिभिराकीर्ण चन्दनागरुधूपितम् ॥ ३३ ॥
 गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा ।

 वरमाल्यानां-स्वर्णपुष्पमाल्यानामन्तरालवर्तिभिः सुमहद्भिः- महादीप्तिमद्भिः मणिभिरलंकृतम् । दार्दुरं, दर्दुरो मलयसन्निकृष्टश्चन्दनगिरिः ॥ ३३ ॥

 सारसैश्च मयूरैश्च विनदाद्भिर्विराजितम् ॥ ३४ ॥
 सुकृतेहामृगाकीर्ण सूत्कीर्णं भक्तिभिस्तदा ।

 सुकृतैः-सुष्ठुनिर्मितैः ईहामृगैः-वृकैः,"कोकस्त्वीहामृगो वृकः । भक्तयः-वर्धकिनां सूक्ष्मं चित्रशिल्पम् ॥ ३४ ॥

 मनश्चक्षुश्च भूतानामादद[६९६]त्तिग्मतेजसा ॥ ३५ ॥
 [६९७]चन्द्रभास्करसंकाशं कुबेरभवनोपमम् ।
 महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥ ३६॥


 मेरुशृङ्गसमं सूतो रामवेश्म [६९८]ददर्श ह ।
 [६९९]उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः ॥ ३७ ॥
 उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।
 [७००]रामाभिषेकसुमुखैरुन्मुखैस्समलंकृतम् ॥ ३८ ॥
 महामेघसमप्रख्यमुदग्रं सुविराजितम् ।
 नानारत्नसमाकीर्णं [७०१][७०२]कुब्जकैरपि चावृतम् ॥ ३९ ॥

 उपादाय-उपदा इति शेषः । उदग्रं-प्रशस्तम् ॥ ३९ ॥

 स वाजियुक्तेन रथेन सारथिः
  समाकुलं [७०३]राजकुलं विलोकयन् ।
 [७०४]वरूथिना [७०५]राजगृहाभिपातिना
  [७०६]पुरस्य सर्वस्य मनांसि रञ्जयन् ॥ ४० ॥

 राजकुलं-राजमार्गं । रथगुप्तिर्वरूथः, तद्वता ॥ ४० ॥

 ततः समासाद्य महाधनं महत्
  प्रहृष्टरोमा स बभूव सारथिः ।
 मृगैर्मयूरैश्च समाकुलो[७०७]ल्बणं
  गृहं वरार्हस्य शचीपतेरिव ॥ ४१ ॥

 महत् धनं यस्मिन् तत्-महाधनम् । समाकुलैः-इतस्ततः प्रसृतैः उल्बणं । वरार्हस्य-उत्तमवस्त्वर्हस्य ॥ ४१ ॥


 स तत्र कैलासनिभाः स्वलंकृताः
  प्रविश्य कक्ष्याः त्रिदशालयोपमाः ।
 प्रियान्नरान् राममते स्थितान् बहून्
  अपोह्य शुद्धान्तमुपस्थितो रथी ॥ ४२ ॥
 स तत्र शुश्राव च हर्षयुक्ताः
  [७०८]रामाभिषेकार्थकृतां जनानाम् ।
 नरेन्द्रमनोरभिमङ्गलार्थाः
  सर्वस्य लोकस्य गिरः प्रहृष्टाः ॥ ४३ ॥

 रामाभिषेकप्रयोजनं कर्म कुर्वन्तीति रामाभिषेकार्थकृतः -तेषां गिरः शुश्रावेति योजना । अभितो मङ्गलप्रतिपादनमर्थो यासां गिरांतास्तथा । सर्वलोकस्य च गिरः शुश्राव ॥ ४३ ॥

 महेन्द्रसद्मप्रतिमं च वेश्म
  रामस्य रम्यं मृगपक्षिजुष्टम् ।
 ददर्श मेरोरिव शृङ्गमुच्चं
  विभ्राजमानं प्रभया सुमंत्रः ॥ ४४ ॥
 उपस्थितैरञ्जलिकारिभिश्च
  सोपायनैर्जानपदैजनैश्च ।
 कोट्या परार्धेश्च विमुक्तयानैः
  समाकुलं द्वारपथं ददर्श ॥ ४५ ॥

 कोट्या-तत्संख्यया । परार्धैः-तत्संख्यया, सर्वान्ता संख्या परार्धः, उपलक्षितैर्जनैस्समाकुलं । अनेनातिसंमर्दो दर्शितः ॥४५॥


 ततो [७०९]महामेघमहीधराभं
  [७१०]प्रभिन्नमत्यङ्कुशमप्रसह्यम् ।
 रामौपवाह्यं रुचिरं ददर्श
  शत्रुञ्जयं नागमुदग्रकायम् ॥ ४६ ॥
 स्वलङ्कृतान् साश्वरथान् सकुञ्जरान्
  अमात्यमुख्यांश्च ददर्श वल्लभान् ।
 व्यपोह्य सूतान् सहितान् समन्ततः
  समृद्धमन्तःपुरमाविवेश ह ॥ ४७ ॥

वल्लभान्-राज्ञ इति यावत् । सहितान्-व्याप्तान् ॥ ४७ ॥

 [७११]तदेन्द्रकूटाचलमेघसन्निभं
  महाविमानोपमवेश्मसंयुतम् ।
 अवार्यमाणः प्रविवेश सारथिः
  प्रभूतरत्नं मकरो यथार्णवम् ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चदशः सर्गः


 [७१२]इन्द्रकूटस्य-इन्द्रगृहस्य अचलमेघस्य-स्थिरमहामेघस्य च सन्निभं तत्तथा । महाविमानानां उत्तमवेश्मनां संघोऽस्यास्तीति तथा । “विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि” । देव (४८) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकाया अयोध्याकाण्डे पञ्चदशः सर्गः



षोडशः सर्गः
[रामागमनम्]

 स तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।
 [७१३][७१४]प्रविविक्तां ततः कक्ष्यां आससाद पुराणवित् ॥ १ ॥

 अथ रामस्य राजभवनोपस्थानम् । स तदित्यादि ॥ १ ॥

 [७१५][७१६]प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।
 अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २ ॥

प्रासकार्मुकानि बिभ्रतीति प्रासकार्मुकबिभ्रतः, तैस्तथा । द्विर्वचनं छान्दसम् । मृष्टकुण्डलैः-सूत्तेजितसमप्रकर्णाभरणैः ॥ २ ॥

 तत्र [७१७]काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् ।
 ददर्श विष्ठितान् द्वारि [७१८]स्त्र्यध्यक्षान्सुसमाहितान् ॥ ३ ॥
 ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।
 सहसोत्पतितास्सर्वे स्वासनेभ्यस्ससंभ्रमाः ॥ ४ ॥
 तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः ।
 क्षिप्रमाख्यात रामाय सुमंत्रो द्वारि [७१९]तिष्ठति ॥ ५ ॥

 प्रकर्षेण दक्षिणः-समर्थस्तथा ॥ ५ ॥

 ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः ।
 सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ६ ॥


 प्रतिवेदितमाज्ञाय सूत[७२०]मभ्यन्तरं पितुः ।
 तत्रैवानाययामास [७२१]राघवः [७२२]प्रियकाम्यया ॥७॥

 प्रतिवेदितं द्वारपालैर्विज्ञापितं सूतं पितुरभ्यन्तरं-अन्तरङ्गं आज्ञाय-ज्ञात्वा । तत्रैव-सीतया सहावस्थितिस्थल एवेत्यर्थः ॥ ७ ॥

 तं वैश्रवणसंकाशमुपविष्टं स्वलङ्कृतम्
 ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ ॥
 वराहरुधिरामेण शुचिना च सुगन्धिना।
 अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ ९ ॥

 वराहरुधिरबदतिरक्तमित्यर्थः ॥ ९ ॥

 [७२३]स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।
 उपेतं सीतया भूयः [७२४]चित्रया शशिनं यथा ॥ १० ॥
 तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।
 ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ ॥

 विनीतवत्-विनीतस्सन् ॥ ११ ॥

 प्राञ्जलिस्तु सुखं पृष्ट्वा [७२५]विहारशयनासने ।
 राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२ ॥


 कौसल्यासुप्रजा राम ! पिता त्वां द्रष्टुमिच्छति ।
 महिष्या सह कैकेय्या, गम्यतां तत्र मा चिरम् ॥ १३ ॥

 कौसल्यासुप्रजारामेति कौसल्यासुप्रजादेवेति च [७२६]गतवत् ॥ १३ ॥

 एवमुक्तस्तु संहृष्टो नरसिह्मो महाद्युतिः ।
 ततस्संमानयामास सीतामिदमुवाच ह ॥ १४ ॥
 देवि ! देवश्च [७२७]देवी च समागम्य मदन्तरे ।
 मंत्रयेते ध्रुवं किञ्चि[७२८]दभिषेचनसंहितम् ॥ १५ ॥

 देवश्च देवी च-मातापितराविति यावत् । मदन्तरे-मदर्थे,अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये", अभिषेचनसंहितं-अभिषेचनोपयुक्तं किञ्चिद्विचारोपेतं ध्रुवं मन्त्रयेते-विचारं कुर्वाते ॥१५॥

 लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।
 संचोदयति राजानं [७२९]मदर्थमसितेक्षणा ॥ १६ ॥


 अथ महिष्या सहेत्युक्तत्वादुन्नयनार्हमर्थमुन्नयति-लक्षयित्वेत्यादि । वृद्धेन मयाऽविलम्बेन रामाभिषेकः कार्यः" इति राज्ञोऽभिप्रायमालक्ष्य सुदक्षिणा-समर्था अत एव राज्ञः प्रियकामा सती भरतासन्निधौ रामाभिषेकस्त्वत्सम्मतो न वा" इति प्रष्टारं पितरं सुदक्षिणात्वाद्राजानं मदर्थं प्रतिमदभिषेकं प्रति संचोदयति । भरतः अभिषेकोत्सवमनन्तरं श्रोष्यति । तत्र चिन्ता न कर्तव्या । शीघ्रमभिषेकः कार्यतामिति चोदयतीति मन्य इत्यर्थः ॥ १६ ॥

 सा प्रहृष्टा[७३०] महाराजं हितकामानुवर्तिनी ।
 जननी चार्थकामा मे केकयाधिपतेस्सुता ॥ १७ ॥

हितकामानुवर्तिनी-स्वस्या राजसौमुख्यादिप्रयोजनार्थतयैवानुवर्तनशीला । तथा जननी च । मे अर्थकामा-मदर्थसिद्ध्यपेक्षिणी ॥१७॥

 दिष्टया खलु महाराजो महिष्या प्रियया सह ।
 सुमंत्रं प्राहिणोदूतमर्थकाम[७३१]करं मम ॥ १८ ॥

 कुत एवं निश्चय इत्यत्राह-दिष्ट्या खल्वित्यादि । ममार्थकरं सुमंत्रं प्राहिणोदिति यत् अतो मत्प्रयोजनार्थं प्राहिणोदित्यर्थः ॥ १८ ॥

 यादृशी परिषत्तत्र तादृशो दूत आगतः ।
 ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १९ ॥


 स एव हेतुर्विव्रियते-यादृशीत्यादिना । तत्र-राजान्तः पुरे यादृशी-मदर्थैकप्रयोजना परिषत्तादृशः - मदर्थैकप्रयोजनो दूत आगत इति यतः अस्मादेव निश्चय इत्यर्थः ॥ १९ ॥

 हन्त ! शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ।
 सह त्वं परिवारेण सुखमास्व रमस्व च ॥ २० ॥
 [७३२]पतिसंमानिता सीता भर्तारमसितेक्षणा ।
 आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥

 अभिदध्युषी–ध्यायतेः क्वसौ आर्षत्वात् 'वस्वेकाच्' इति इड-भावे सत्यपीटि वा 'उगितश्च' इति ङीपि भत्वात्' वसोः संप्रसारणम्' इति संप्रसारणे निर्निमित्तेटोऽपि लोपे षत्वे च रूपम् । अभिध्यातवतीति यावत् ॥ २१ ॥

 [७३३]राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।
 कर्तुमर्हसि ते राजा वासवस्येव लोककृत् ॥ २२ ॥
 दीक्षितं व्रतसंपन्नं वराजिनधरं शुचिम् ।
 कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २३ ॥
 पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः ।
 वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २४ ॥

 अथ सीताया मङ्गलानुष्ठानमिदानीम् । राज्यं-राज्यसिद्धिंप्रति द्विजातिभिजुष्टमभिषेचनं-यौवराज्याभिषेचनं कर्तुमर्हति । कालान्तरे राजसूयार्हमहाराज्याभिषचनमपि करोतु, वासवस्य श्रीमदादिगुरुर्भगवानिव । ततो राजसूययागे दीक्षितत्वादिधर्मकं त्वां भजामि ; भजिष्य इत्यर्थः ॥ २२-२४ ॥


 अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ।
 निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥

 कृतकौतुकमङ्गलः-कृतोत्सवमङ्गलानुष्ठानः ॥ २५ ॥

 पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ।
 लक्ष्मणं द्वारि सोऽपश्यत् [७३४]प्रह्वाञ्जलिपुटं स्थितम् ॥ २६ ॥
 अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः ।
 स सर्वानार्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥

 अर्थिन इति । रामदर्शनार्थिन इति यावत् ॥ २७ ॥

 ततः पावकसंकाशमारुरोह रथोत्तमम् ।
 वैय्याघ्रं पुरुषव्याघ्रो[७३५] राजतं राजनन्दनः ॥ २८ ॥

 वैय्याघ्रं-व्याघ्रचर्मपरिवृतम् । 'द्वैपवैय्याघ्रादनञ्' ॥ २८ ॥

 मेघनाद[७३६] मसम्बाधं मणिहेमविभूषितम् ।
 मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २९ ॥

 मेघस्येव नादो यस्य रथस्य स तथा ॥ २९ ॥

 करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ।
 हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ ३० ॥


 प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ।

 करेणुशिशुकल्पैरित्यनेन हृष्टपुष्टोन्नतमहाबलवत्त्वं सूच्यते ॥ ३०॥

 [७३७]स पर्जन्य इवाकाशे स्वनवा[७३८]नभिनादयन् ॥ ३१ ॥
 निकेतान्निर्ययौ श्रीमान् [७३९]महेन्द्रादिव चन्द्रमाः ।

 आकाशे स्वनवान्-नादवान् पर्जन्य इव मेघस्थानीयरथस्वनेन दिशो नादयन्निकेतनान्निर्ययौ ॥ ३१ ॥

 [७४०]छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ ३२ ॥
 जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ।
 ततो हलहलाशब्दस्तुमुलस्समजायत ॥ ३३ ॥
 [७४१]तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ।

 हलहलेल्यनुकारः । तस्येति । तस्मिन्निष्क्रममाण इति यावत् ॥ ३३ ॥

 ततो [७४२]हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥ ३४ ॥
 अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः ।
 अग्रतश्चास्य सन्नद्धाश्चन्दनागरुभूषिताः ॥ ३५ ॥
 खड्गचापधराश्शूरा जग्मुराशंसवो जनाः ।

 आशंसव इति । श्रेय इति शेषः ॥ ३५ ॥


 ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥ ३६॥
 सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि ।
 हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः ॥ ३७॥
 कीर्यमाणः सुपुष्पोधैर्ययौ स्त्रीभिररिन्दमः ।
 रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ ३८ ॥
 वचोभिरग्रयैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।

 ववन्दिर इति। [७४३]वन्दिरिह स्तुत्यर्थः, आशीर्वादमकुर्वन्नित्यर्थः॥

 नूनं [७४४] नन्दति ते माता कौसल्यामातृनन्दन ! ॥ ३९ ॥
 पश्यन्ती [७४५]सिद्धयात्रं त्वां पित्र्यं राज्य[७४६]मवस्थितम् ।

 स एव प्रदर्श्यते--नूनमित्यादिना । नन्दति-नन्दत्विति यावत् । सिद्धयात्रं-सिद्धकार्ययात्रम् । अत एव पित्र्यं राज्यमवस्थितं-अधितिष्ठन्तम् ॥ ३९ ॥

 सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तनीं वराम् ॥ ४० ॥
 अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।

 हि ताः इति पदच्छेदः ॥ ४० ॥

 तया सुचरितं देव्या पुरा नूनं महत्तपः ॥ ४१ ॥
 रोहिणीव शशाङ्केन रामसंयोगमाप या ।

 सुचरितं -स्वनुष्ठितम् ॥ ४१ ॥


इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥ ४२ ॥
शुश्राव [७४७]राजमार्गस्थः प्रिया वाच उदाहृताः ।
[७४८][७४९] आत्मसंपूजनैः शृण्वन् ययौ रामो महापथम् ॥ ४३ ॥
 स राघवस्तत्र कथाप्रपञ्चान्
  शुश्राव लोकस्य समागतस्य ।
 [७५०]आत्माधिकारा विविधाश्च वाचः
  प्रहृष्टरूपस्य पुरे जनस्य ॥ ४४ ॥
 [७५१]एष श्रियं गच्छति राघवोऽद्य
  राजप्रसादाद्विपुलां गमिष्यन् ।
 एते वयं सर्वसमृद्धकामाः
  येषामयं नो भविता प्रशास्ता ॥ ४५ ॥
 लाभो जनस्यास्य यदेष सर्वं
  प्रपत्स्यते राज्यमिदं चिराय ।
 न ह्यप्रियं किञ्चन जातु कश्चित्
  पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ ४६ ॥
 स घोषवद्भिश्च हयैर्मतङ्गजैः
  पुरस्सरैः स्वस्तिकसूतमागधैः ।
 महीयमानः प्रवरश्च वादकैः
  अभिष्टुतो वैश्रवणो यथा ययौ ॥ ४७ ॥


 करेणुमातङ्गरथाश्वसंकुलं
  महाजनौघप्रतिपूर्णचत्वरम् ।
 प्रभूतरत्नं बहुपण्यसञ्चयं
  ददर्श रामो रुचिरं महापथम् ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षोडशस्सर्गः


 मनुजाधिपेऽस्मिन् सतीति शेषः । [७५२]राम (५२) मानः सर्गः ॥ ४८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षोडशस्सर्गः



सप्तदशः सर्गः
[कैकेय्यन्तःपुरप्रवेशः]

 स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः ।
 [७५३]पताकाध्वजसंपन्नं महार्हागरुधूपितम् ॥ १ ॥
 अपश्यन्नगरं श्रीमान्नानाजनसमन्वितम् ।

 अथ रामस्य राजसमीपगमनम् । स राम इत्यादि ॥ १ ॥

 स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् ॥
 राजमार्गं ययौ रामो [७५४]मध्येनागरुधूपितम् ॥ २ ॥


 अभ्रसंकाशैः-पाण्डरमेघसदृशैः । मध्येन-उभयवीथीमध्य-प्रदेशेन । प्रकृत्यादित्वात् तृतीया ॥ २ ॥

 चन्दनानां च मुख्यानामगरूणां च संचयैः !
 उत्तमानां च गन्धानां [७५५]क्षौमकौशाम्बरस्य च ॥ ३ ॥
 [७५६][७५७]आविद्धाभिश्व मुक्ताभिरुत्तमैः स्फाटिकैरपि ।
 शोभमान[७५८]मसंबाधैस्तं राजपथमुत्तमम् ॥ ४ ॥

 कौशाम्बरं-कौशेयम् । आविद्धाभिः-मालायै कृतरंध्राभिः । [७५९]असंबाधैः-विविच्यस्थापितैः ॥ ४ ॥

 संवृतं विविधैः [७६०]पण्यैः भक्ष्यैरुच्चावचैरपि ।
 ददर्श तं राजपथं दिवि देव[७६१]पथं यथा ॥ ५ ॥

 पण्यादिभिः संवृतं-व्याप्तम् ॥ ५ ॥

 दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः ।
 नानामाल्योपगंधैश्च सदाभ्यचिंतसत्पथम् ॥ ६ ॥

 उपगन्धः-वः-हरिचन्दनादिः ॥ ६ ॥

 अशीर्वादान् बहून् शृण्वन् सुहृद्धिसमुदीरितान् ।
 यथार्हं वाऽपि संपूज्य सर्वानेव नरान् ययौ ॥ ७ ॥

 यथार्ह वा-यथार्हमेव । ईक्षणभ्रूक्षेपवचनाञ्जलिभिर्यथोचितमित्यर्थः ॥ ७ ॥


 पितामहैराचरितं तथैवप्रपितामहैः ।
 अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ ८ ॥

 आचंरितं-अनुष्ठितम् । अभिषिक्तोऽनुपालयेति वृद्धानां वादः ॥

 [यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ।
 [७६२]ततस्सुखतरं सर्वे रामे वत्स्याम राजनि ॥]
 [७६३]अर्थैरलं हि[७६४] भुक्तैर्नः परमार्थैरलं च नः ।
 यथा पश्येम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ ९ ॥

 अर्थैरित्यादि । रामं राज्ये प्रतिष्ठितं-अभिषिक्तं राजमार्गे निर्यान्तं पश्येम यथा-साक्षात्कुर्मो यदि-एतत्सुखलाभो यदि; अर्थैर्हि प्रसिद्धैः ऐहिकविषयैर्भुक्तैः तद्भोगजसुखैर्नोऽस्माकं अलं, तथा परमैः-श्रेष्ठैः स्वर्गाद्यर्थैः तत्सुखैश्च नः-अस्माकं अलं-मा स्तु ॥ ९ ॥

 ततो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति ।
 [७६५]यथाऽभिषेको रामस्य राज्येनामिततेजसः ॥ १० ॥

 कथमेवमित्यत्र-ततो हीत्यादि । भूमानन्दब्रह्मरामसाक्षात्कारजसुखादित्यर्थः। प्रियतरं–प्रेमातिशयास्पदं अन्यन्न किञ्चित्सुखं भविष्यति । [७६६]यथा ह्यमिततेजसो रामस्य राज्येन -राज्यप्राप्तिहेतवे अभिषेकः [७६७]तथा राज्ये प्रतिष्ठितमित्यादिपूर्वेणान्वयः ॥ १० ॥

 एताश्चान्याश्च सुहृदां [७६८]उदासीनः कथाः शुभाः ।
 [७६९]आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् ॥ ११ ॥


 उदासीनश्शृण्वन्निति । स्तुतिजातहर्षाविकाररहित इति यावत् ।

अनुत्तमं यथातथोच्यमाना आत्मसंपूजनीर्वाचः शृण्वन्निति योजना ॥११॥

 न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।
 नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥ १२ ॥

 अतिक्रान्तेऽपीति । दृष्टिपथमिति शेषः ॥ १२ ॥

 यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
 निन्दितः [७७०]स वसेल्लोके [७७१]स्वात्माऽप्येनं विगर्हते ॥ १३ ॥

 यश्च रामं स्वदेशस्थं न पश्येत्, यं च स्वदेशस्थमत एव रामोऽपि न पश्यति सोऽसावपरोक्षब्रह्मरामानुभवादृष्टहीन इहामुत्र च लोके सर्वलोकैर्निन्दितो वसेत् । अप्रयासेन भगवदपरोक्षीकृतिमात्रेण मुक्तिसंपादनादृष्टाभावान्नास्य कदाऽपि संसारोत्तार इत्यर्थः । अत एवास्यात्मा-अन्तर्यामी भगवानादिगुरुर्ब्रह्माप्येनं विगर्हते-पापिष्ठोऽयं मन्मूर्तिमपि साक्षात्कृत्य न जन्मोद्धृतवानिति ॥ १३ ॥

 सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ।
 चतुर्णां हि[७७२] वयस्स्थानां तेन ते तमनुव्रताः ॥ १४ ॥

 दयामिति । मुक्तिपर्यन्तानुग्रहमित्यर्थः ॥ १४ ॥


 चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च ।
 [७७३]प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ १५ ॥

 प्रदक्षिणं परिहरन्निति । चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्नित्यर्थः ॥ १५ ॥

 स राजकुलमासाद्य मेघसंघोपमैः शुभैः ।
 [प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥
 आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः ।]
 [७७४]वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ १६ ॥

 वर्धमानगृहैः-क्रीडागृहैः । परिष्कृतैरुपेतं तत्पितुर्वेश्मेति योजना ॥ १६ ॥

 [तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ।
 राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥
 स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ।
 पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।]
 स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।
 [७७५]सन्निवर्त्य जनं सर्वं [७७६]शुद्धान्तं पुनरभ्यगात् ॥ १७ ॥

 स सर्वा इति । उक्तपञ्चकक्ष्या इत्यर्थः ॥ १७ ॥


 ततः प्रविष्टे-पितुरन्तिकं तदा
  जनस्स सर्वो मुदिते नृपात्मजे ।
 प्रतीक्षते तस्य पुनर्विनिर्गमं
  यथोदयं चन्द्रमसः सरित्पतिः ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तदशः सर्गः



 अन्तिके प्रविष्ट इति । अन्तिकदेशे प्रविश्य स्थित इत्यर्थः । [७७७]दया (१८) मानः सर्गः ॥ १८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तदशः सर्गः



अष्टादशः सर्गः
[वनवासनिदेशः]

 [७७८]स ददर्शासने रामो [७७९]निषण्णं पितरं शुभे ।
 कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ १ ॥

 अथ प्रविष्टरामस्य पितृवैमुख्यशोकहेतुप्रश्ने कैकेय्योत्तरकथनम् । स ददर्शेत्यादि । परिशुष्यता मुखेनोपलक्षितम् ॥ १ ॥


 स पितुश्चरणौ पूर्वमभिवाद्य [७८०]विनीतवत् ।
 ततो ववन्दे चरणौ कैकेय्यास्सुसमाहितः ॥ २ ॥

 विनीतवत्-विनीत [७८१]एव ॥ २ ॥

 रामेत्युक्त्वा तु वचनं वाष्पपर्याकुलेक्षणः ।
 शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ ३ ॥

 भाषितुं न शशाकेति । रामेत्यक्षरद्वयोच्चारणाभ्यधिकमिति शेषः ॥ ३ ॥

 तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।
 रामोऽपि [७८२]भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ ४ ॥

 अपूर्वं-इतः प्राक् अदृष्टपूर्वम् । भयावहं-विपत्तिशङ्का-जननद्वारणेति शेषः । पन्नगं पदा स्पृष्ट्येव रामोऽपि स्वापराधशंकया भयमापन्नः ॥ ४ ॥

 इन्द्रियैरप्रष्टैस्तं [७८३]क्लेशसंतापकर्शितम् ।
 निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५ ॥
 ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।
 उपप्लुतमिवादित्यमुक्तानृतमृषि यथा ॥ ६ ॥

 अप्रहृष्टैः-खिन्नैरिन्द्रियैरुपलाक्षतं । क्लेशात्-मनःक्लेशात् । व्यथितं-खिन्नं आकुलं-संभ्रान्तं चेतो यस्य स तथा । ऊर्मिमालास्यास्तीति तथा, व्रीह्यादित्वादिनिः । अक्षोभ्यमपि स्वतो निमित्त-


विशेषवशात्क्षुभ्यन्तं सागरमिव स्थितम् । उपप्लुतं-केतुग्रस्तम् । उक्तं-अनृतं येन स तथा ; तद्वन्निस्तेजस्कमित्यर्थः । दृष्ट्वा भयमापन्न इत्यनुषङ्गः ॥

 अचिन्त्यकल्पं हि पितुः तं शोकमुपधारयन् ।
 बभूव संरब्धतरः [७८४]समुद्र इव पर्वणि ॥ ७ ॥

 पितुस्तं शोकमचिन्त्यकल्पं-अत्यन्तासंभाव्यं उपधारयन्- चिन्तयन् । समुद्रः पर्वणीव संरब्धतरः-अतिशयेन क्षुभितः बभूव । यद्यपि समुद्रस्य पर्वाणि चन्द्रोदये हर्षात्क्षोभ इति प्रसिद्धि; अथापि इह क्षोभमात्रे दृष्टान्तः ॥ ७ ॥

 चिन्तयामास च तदा रामः पितृहिते रतः ।
 किं स्विदद्यैव नृपतिः न मां प्रत्यभिनन्दति ॥ ८ ॥

 किं स्वित्-किन्नु ॥ ८ ॥

 अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।
 तस्य मामद्य संप्रेक्ष्य [७८५]किमायासः प्रवर्तते ॥ ९ ॥

 अद्यैवत्येवकारव्यवच्छेद्यमुच्यते-अन्यदेत्यादि । तस्येति । तादृशस्य मद्दर्शने नित्यप्रीतिमत इत्यर्थः ॥ ९ ॥

 स दीन इव शोकार्तो विषण्णवदनद्युतिः ।
 कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १० ॥

 दीन इव-दीन एव । विषण्णवदनद्युतिः[७८६] किं स्विदित्यनुकर्षः ॥


 कच्चिन्मया नापराद्धमज्ञानात् येन मे पिता ।
 कुपितः, तन्ममाचक्ष्व, त्वमेवैनं प्रसादय ॥ ११ ॥

 प्रसादयेति । मत्कृतापराधशान्त्या इति शेषः ॥ ११ ॥

 [७८७]अप्रसन्नमनाः किन्नु सदा मां प्रति वत्सलः ।
 [७८८]विवर्णवदनो दीनो न हि मामभिभाषते ॥ १२ ॥
 शारीरो मानसो वाऽपि कच्चिदेनं न बाधते ।
 सन्तापो वाऽभितापो वा दुर्लभं हि सदा सुखम् ॥ १३ ॥

 शारीरः-शरीव्याधिजः संतापः । मानसः-आधिजोऽभितापः । न बाधते कच्चित् । कुतस्तत्प्रसंग इत्यतः-दुर्लभमित्यादि । मानुष-तनोः पापपुण्यारब्धत्वादित्याशयः ॥ १३ ॥

 कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने ।
 शत्रुघ्ने वा महासत्त्वे [७८९] मातॄणां वा ममाशुभम् ॥ १४ ॥

 [७९०]अतोषयन्महाराजमकुर्वन्वा पितुर्वचः ।
 मुहूर्तमपि नेच्छेयं [७९१]जीवितुं कुपिते नृपे ॥ १५ ॥

 मातॄणां वेति । विषय इति शेषः । अतोषयन्न कञ्चिदित्यनुकर्षः ॥ १४-१५ ॥


 [७९२]यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः ।
 कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ १६ ॥

 यतोमूलमिति । अलुगार्षः । यो नरः इहात्मनः प्रादुर्भावं-शरीरप्ररिग्रहं यन्मूलं-यत्कारणकं पश्येत्-जानीयात् सोऽसौ विवेकी उक्तहेतोरेव प्रत्यक्षे दैवते सिद्धे सति तस्मिन् पितरि आनुकूल्ये कथं न वर्तेत ॥ १६ ॥

 कञ्चित्ते[७९३] परुषं किञ्चिदभिमानात्पिता मम ।
 उक्तो भवत्या [७९४]रोषेण यत्रास्य [७९५]लुलितं मनः ॥ १७ ॥

 ते-तव रोषेण-कोपेन अभिमानात्-गर्वेण वा मम पिता परुष-मुक्तो न कच्चित् । यत्र-येनास्य मनो लुलितम् ॥ १७ ॥

 एतदाचक्ष्व मे देवि ! तत्त्वेन परिपृच्छतः ।
 किं निमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥
 एवमुक्ता तु कैकेयी राघवेण महात्मना ।
 उवाचेदं [७९६]सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १९ ॥

 सुनिर्लज्जा-पत्युरेवं क्लेशकरणलज्जारहिता । धृष्टं-प्रत्यक्षतो'वनं गच्छ' इतिस्ववचनविषय[७९७]कालुष्यापेतं यथा तथा । आत्महितं-स्वपुत्राभिषेकविषयकम् ॥ १९ ॥


 न राजा कुपितो राम ! व्यसनं नास्य किञ्चन ।
 किञ्चिन्मनोगतं त्वस्य [७९८] त्वद्भयान्नाभिभाषते ॥ २० ॥

 मनोगतमति । त्वदप्रियकरमिति शेषः ॥ २० ॥

 प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते ।
 तदवश्यं त्वया कार्यं यदनेनाऽऽश्रुतं [७९९]मयि ॥ २१ ॥

 तदेव प्रदश्येते-प्रियमित्यादि । तदवश्यमिति । तदनेन मयि-मद्विषये आश्रुतं, तदप्रियमपि ते त्वयाऽवश्यं कार्यं; यदि पितृसुखसंपिपादयिषेति शेषः ॥ २१ ॥

 एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।
 स पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ २२ ॥

 किं तदित्यपेक्षायामाह-एष इत्यादि । स पश्चादिति । प्रतिश्रुतवरदानकाल इति यावत् ॥ २२ ॥

 अतिसृज्य [८००]ददानीति वरं मम विशांपतिः ।
 स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ २३ ॥

 गतजले सेतुं बन्धितुमिच्छतीति । दानस्य पूर्वमेव वृत्तत्वात्तत्प्रयुक्तव्यवहारपरिहारचिन्ताऽस्य व्यर्थेत्यर्थः ॥ २३ ॥

 [८०१]धर्ममूलमिदं राम ! विदितं च सतामपि ।
 तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥


 सतां विदितमिति । 'क्तस्य च वर्तमाने' इति षष्ठी ।

'मतिबुद्धि' इत्यादिना वर्तमाने क्तः । त्वत्कृते-मन्निमित्त- त्वत्प्रयोजनान्तरायवशात् मयि कुपितो राजा कोपदोषेण तत्सत्यं यथा न त्यजेत्तथा कुर्विति भावः ॥ २४ ॥

 '[८०२]यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम् ।
 करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ २५ ॥

 तदर्थं राजा शुभं वा यदि वाशुभं वक्ष्यते तत्सर्वं त्वं यदि करिष्यसि ततोऽहं सर्वं पुनः-विशिष्य आख्यास्यामीति । मत्प्रदत्तवरनिमित्तः क्लेश इति सामान्यत उक्तमेव ॥ २५ ॥

 [८०३]यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।
 ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २६ ॥

 राज्ञा-राजानुमत्या मया यदभिहितं, तत् त्वयि यदि न विपत्स्यते–न व्यर्थं भविष्यति ततोऽहमेवाभिध्यास्यामि । वक्तुं राजैवेत्यत्राह-न हीत्यादि । त्वदप्रियत्वात्त्वन्मुखमवलोक्येति शेषः ॥ २६ ॥

 एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्
 उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ २७ ॥


 एवं रामेणाप्युक्तकरणव्यवस्थायां पृष्टायां रामोऽपि [८०४]दशरथवद्वक्तव्यघोरापरिज्ञानात् 'यदि शक्यं तदा करोमि' इत्यनुक्त्वा सर्वथैव करिष्य इति प्रतिजानीते-एतत्त्वित्यादि ॥ २७ ॥

 अहो धिङ्नार्हसि देवि ! वक्तुं मामीदृशं वचः ।
 अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥ २८ ॥

 ईदृशमिति । 'यदि करोषि' इत्यकरणशङ्कावचनमित्यर्थः ॥

 भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे ।
 नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २९ ॥

 गुरुणा-इहामुत्र हितोपदेष्ट्रा ॥ २९ ॥

 तद्ब्रूहि वचनं देवि ! राज्ञो यदभिकांक्षितम् ।
 करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ ३० ॥

 प्रतिजाने चेति । सर्वथा कृतसुकृतादिसाक्षितयेति शेषः । तदेव स्थिरीक्रियते-रामो द्विर्नाभिभाषत इति । प्रतिज्ञातार्थविषये द्विः-प्रतिज्ञाप्रयोजनं सकृदुक्तत्वात् तस्य पश्चादनिष्टताद्युगधितो द्वितीयवारं तदभावविषयं न ब्रवीति । उक्तमुक्तमेव, न सर्वथा तद्वैपरीत्यप्रसङ्ग इत्यर्थः ॥ ३० ॥

 तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।
 उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ ३१ ॥


 पुरा दैवासुरे [८०५]युद्धे पित्रा ते मम, राघव !
 रक्षितेन वरौ दत्तौ [८०६]विशल्येन [८०७]महारणे ॥ ३२ ॥

 [८०८]विशल्येन-पश्चाच्छल्यापाकरणपूर्वकं रक्षितेन ॥ ३२ ॥

 [८०९]तत्र मे याचितो राजा भरतस्याभिषेचनम् ।
 गमनं दण्डकारण्ये तव चाद्यैव, राघव ! ॥ ३३ ॥

 तत्र म इति । मम तयोर्वरयोः एकेनेति शेषः । अद्यैव-एतत्क्षण एवेत्यर्थः ॥ ३३ ॥

 यदि सत्यप्रतिज्ञं त्वं पितरं [८१०]कर्तुमिच्छसि ।
 आत्मानं च, नरश्रेष्ठ ! मम वाक्यमिदं शृणु ॥ ३४ ॥

 आत्मानं चेति । त्वयाऽपि मदुक्तकृतेः सशपथं प्रतिज्ञातत्वादित्याशयः ॥ ३४ ॥

 [८११]अनुदेशे पितुस्तिष्ठ [८१२]यथानेन प्रतिश्रुतम् ।
 त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ ३५ ॥

 यथा तेन दशरथेन वरद्वयं प्रतिश्रुतं तस्मिन् पितुरनुदेशे-नियोगसंपादने तिष्ठ-व्यवस्थितो भव । अतः-त्वयेत्यादि ॥ ३५ ॥

 [८१३]भरतश्चाभिषिच्येत यदेतदभिषेचनम् ।
 त्वदर्थे विहितं राज्ञा तेन सर्वेण, राघव ! ॥ ३६॥


 सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ।
 अभिषेकमिदं त्यक्त्वा [८१४]जटाचीरधरो भव ॥ ३७ ॥
 भरतः कोसल[८१५]पतेः प्रशास्तु वसुधामिमाम् ।
 नानारत्नसमाकीर्णां सवाजिरथ[८१६]कुञ्जराम् ॥ ३८ ॥
 [८१७]एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः ।
 शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ ३९ ॥
 एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन !
 सत्येन महता, राम ! तारयस्व नरेश्वरम् ॥ ४० ॥

 सत्येन-सत्यपरिपालनेन ॥ ४० ॥

 [८१८]इतीव तस्यां परुषं वदन्त्यां
  न चैव रामः प्रविवेश [८१९]शोकम् ।
 प्रविव्यथे चापि महानुभावः
  राजा तु पुत्रव्यसनाभितप्तः ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टादशः सर्गः


 इति-इत्येवं । राजा तु-राजैव । पुत्रव्यसनं-भाविवियोगव्यसनम् । कवि (४१) मानः सर्गः ॥ ४१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टादशः सर्गः



एकोनविंशः सर्गः

[रामाभ्यनुज्ञा]

 तदप्रियममित्रघ्नो वचनं मरणोपमम्
 श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ १ ॥

 एवं वनवासनियोजितस्य भगवतो ब्रह्मणो रामस्याभिषेकाविशेषं वनवासस्य च परमसन्तोषतया प्रवृत्तिः । तदप्रियमित्यादि । मरणोपमं लोकदृशा ॥ १ ॥

 एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ।
 [८२०]जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २ ॥

 'द्विर्नाभिभाषते' इत्युक्तत्वात् 'एवमस्तु' इत्येव केवलमाह ॥

 इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।
 नाभिनन्दति दुर्धर्षो यथापूर्वमरिन्दमः ॥ ३ ॥
 मन्युर्न च त्वया कार्यो देवि ! ब्रूमि तवाग्रतः ।
 यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ ४ ॥

 [८२१]मन्युर्न च त्वया कार्येति । यतो नाभिनन्दतीति शेषः । ब्रूमि-ब्रवीमीति यावत् ॥ ४ ॥


 हितेन गुरुाण पित्रा कृतज्ञेन नृपेण च ।
 नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ ५ ॥

 कृतज्ञेनेति । त्वत्कृतमापत्त्राणं जानातीति तथा । विस्रब्धः-निर्विशङ्कः । किं न कुर्यां-सर्वमपि कुर्यामेव ॥ ५॥

 अलीकं मानसं त्वेकं हृदयं दहतीव मे ।
 स्वयं यन्नाह मां राजा [८२२]भरतस्याभिषेचनम् ॥ ६ ॥

 किन्त्विदं मानसं-मनसि वर्तमानं अलीकं दुःखं हृदयं दहतीव । इदमिति किमित्यतः-स्वयमित्यादि ॥ ६ ॥

 अहं हि [८२३]सीतां राज्यं च प्राणानिष्टान् धनानि च ।
 हृष्टो भ्रात्रे स्वयं दद्यां [८२४]भरताय प्रचोदितः ॥ ७ ॥

 कथं संकोचेनायमर्थो राज्ञा शक्यवादः ? इत्यत्राह-अहं हीत्यादि । प्रचोदित इति । भरतस्नेहात्, त्वत्स्नेहेन वा; न केवलं पित्रेति शेषः ॥

 [८२५]किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।
 तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ८ ॥


 प्रतिज्ञामनुपालयन्निति हेतौ शता। तव प्रियकामार्थं प्रतिज्ञानुपालनाद्धेतोश्च प्रचोदितकरणे किंपुनः-कुतः संकोचप्रसङ्ग

इत्यर्थः ॥ ८ ॥

 तदाश्वासय [८२६]ह्रीमन्तं किन्विदं यन्महीपतिः ।
 वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ ९ ॥

 मद्विषयकनियोगसंकोचेन जगतीपतिर्वसुधासक्तनयनो मन्दमश्रूणि मुञ्चतीति यदिदं किंनु-किमर्थम् ? मा स्तु। ह्रीमन्तं लज्जाविष्टं त्वमाश्वासय ॥ ९ ॥

 गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।
 भरतं मातुलकुलादद्यैव नृपशासनात् ॥ १० ॥

 कथमाश्वासयाम्यनिवृत्तस्वकार्येत्यत्राह-गच्छन्त्वित्यादि ॥१०॥

 दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः ।
 [८२७]अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ११ ॥

 अविचार्येति । उपाधिचिन्तामकृत्वैवेत्यर्थः ॥ ११ ॥

 सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।
 प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ १२ ॥

 प्रस्थानं-वनप्रस्थानम् ॥ १२ ॥

 एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।
 भरतं मातुलकुलादुपावर्तयितुं नराः ॥ १३ ॥


 [८२८]तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।
 राम ! तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ १४ ॥

 तवेत्यादि । उत्सुकस्य गमनोत्सुकस्य तव गमनविलम्बमहमिदानीं न क्षमं मन्ये-अनुचितं मन्ये ॥ १४ ॥

 व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ।
 [८२९]नैतत्किञ्चिन्नरश्रेष्ठ ! [८३०]मन्युरेषोऽपनीयताम् ॥ १५ ॥

 कुत इत्यत्र हेतुमाह-व्रीडेत्यादि । यतः स्वसत्यस्य पारप्राप्त्यदर्शनजव्रीडान्वितः तस्मादेव यच्च किञ्चिदपि त्वां प्रति नाभिभाषते ; एतदनभिभाषणमुद्दिश्य नान्यत्किञ्चित्कारणं त्वया चिन्त्यम् । यदेवं-अतो हे नरश्रेष्ठ । राज्ञ एष मन्युः-दैन्यं त्वदविलम्बगमनेनापनीयताम् ॥ १५ ॥

 यावत्त्वं न वनं यातः पुरादस्मादतित्वरन् ।
 पिता तावन्न ते राम ! स्नास्यते मोक्ष्यतेऽपि वा ॥ १६ ॥

इतश्च न युक्तो विलम्ब इत्याह-यावदित्यादि । भोक्ष्यतेऽपिवेति । मत्प्रतिबन्धाद्दरिद्राधमर्णवदिति भावः ॥ १६ ॥

 [८३१]धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः ।
 मूर्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ १७ ॥
 रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
 कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ १८ ॥

 वनं गन्तुं कृतत्वरः अभूदिति शेषः ॥ १८ ॥


 तदप्रियमनार्याया वचनं दारुणोदयम् ।
 श्रुत्वा [८३२]गतव्यथो रामः कैकेयीं [८३३]चेदमब्रवीत् ॥ १९ ॥

 [८३४]दारुणोदयं-क्रौर्योत्तरम् ॥ १९ ॥

 [८३५]नाहमर्थपरो देवि ! लोकमावस्तुमुत्सहे ।
 विद्धि मामृषिभिस्तुल्यं [८३६]केवलं धर्ममास्थितम् ॥ २० ॥

 लोकमावस्तुमिति । इहलोके वस्तुं, "उपान्वध्याङ्' इत्याधारस्य कर्मत्वम् ॥ २० ॥

 यदत्र भवतः किञ्चिच्छक्यं कर्तुं प्रियं मया ।
 प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ २१ ॥

 अत्रभवतः पूज्यस्य पितुः यत् किञ्चित्प्रियं तत् सर्वथा कृतमेवेति विद्धीति शेषः ॥ २१ ॥

 न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।
 यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ २२ ॥

 तथा निश्चये हेतुमाह-न हीत्यादि । शुश्रूषा-पादसंवाहनादि लक्षणा । वचनक्रिया-शिष्टेष्टकरणम् ॥ २२ ॥


 अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् ।
 वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ २३ ॥

 अत्रभवता-पूज्येन पित्रा साक्षादनुक्तोऽपि 'अप्रतिषिद्धमनुमतम् । इति न्यायेन भवत्या वचनादेव केवलमहं वने वत्स्यामि ॥ २३ ॥

 न नूनं मयि[८३७] कैकेयि ! [८३८]किञ्चिदाशंससे गुणम् ।
 यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ २४ ॥

 नूनमिति । मम नियोगे पितुरतिप्रियमातृत्वादेवेश्वरतरा सती भरतराज्यं प्रति यत्-यस्मात् राजानमवोचस्त्वम् अतो मयि गुणं-आर्जवौदार्यादिगुणं किञ्चिदपि नाशंससे-न विचारितवती नूनम् ॥ २४ ॥

 [८३९]यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।
 अतोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ २५ ॥

 अतः-अनन्तरम् अद्यैव दिने । दण्डकानां-तदाख्य- जनपदानाम् [८४०]


 भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
 तथा भवत्या कर्तव्यं [८४१]स हि धर्मः सनातनः ॥ २६ ॥

 स हीति । पितृशुश्रूषारूप इत्यर्थः ॥ २६ ॥

 रामस्य तु वचः श्रुत्वा भृशं दुःखहतः पिता ।
 शोकादशक्नुवन् बाष्पं प्ररुरोद [८४२]महास्वनम् ॥ २७ ॥
 वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा ।
 कैकेय्याश्चाप्यनार्याया निष्पपात महाधुतिः ॥ २८ ॥

 अनार्याया अपीति । स्वयं तद्दोषमगणयन्निति शेषः ॥ २८ ॥

 स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।
 निष्क्रम्यान्तःपुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥ २९ ॥
 तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।
 [८४३] लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ ३० ॥

 बाष्पपरिपूर्णाक्ष इति समीपे स्थित्वाऽवगत सर्ववृत्तान्तत्वात् ॥

 आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।
 [८४४]शनैर्जगाम [८४५]सावेक्षो दृष्टिं तत्राविचालयन् ॥ ३१ ॥

 आभिषेचनिकं-अभिषेकप्रयोजनम् । भाण्डं-उपकरणजातम्, तयुक्ताभिषेकशालामित्यर्थः । प्रदक्षिणं कृत्वेति । संभृतगङ्गादिपुण्य-


तीर्थकत्वेन सन्निधिविशिष्टदेवताकत्वेन च तत्करणम् । तत्र-अभिषेकं-शालायां अविचालयन्–अप्रवर्तयन्, अपि तु [८४६]सावेक्षः-अवाङ्मुखेक्षण-सहितः; तल्लिप्साभावादेवभावः ॥ ३१ ॥

 न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।
 [८४७]लोककान्तस्य कान्तत्वं शीतरश्मेरिव[८४८]क्षपा ॥ ३२ ॥

 लक्ष्मीमिति । सहजामिति शेषः । शीतरश्मेः कान्तत्वं क्षपेवेति । क्षपा हि सर्वसौरमहातेजोविनाशिनी ॥ ३२ ॥

 न वनं गन्तुकामस्य [८४९][८५०]गच्छतश्च वसुंधराम् ।
 सर्वलोकातिगस्येव दृश्यते चित्तविक्रिया ॥ ३३ ॥

 वसुंधरां गच्छतः-प्राप्नुवतः । सर्वलोकातिगस्येवेति । शुद्धब्रह्मतत्त्वजीवन्मुक्त परमहंसस्येवेत्यर्थः ॥ ३३ ॥

 प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।
 विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ ३४ ॥

 छत्रादिप्रतिषेधः स्वप्रतिज्ञाविरोधात् ॥ ३४ ॥

 धारयन्मनसा [८५१]दुःखमिन्द्रियाणि निगृह्य च ।
 प्रविवेशात्मवान् वेश्म मातुरनियशंसिवान् ॥ ३५ ॥


 मनसा दुःखं धारयन्निति । स्वासक्तप्राणिशोकस्मरणजदुःखमित्यर्थः; न तु तस्य स्वीयं किञ्चिद्दुःखं । तदेव दर्शितं-आत्मवानिति । साक्षात्कृतनित्यनिर्दुःखस्वतत्त्व इति यावत् । अप्रियशंसिवान्-अप्रियं शंसिप्यन्, भविष्यति क्वसुरार्षः ॥ ३५ ॥

 सर्वोऽप्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।
 नालक्षयत रामस्य [८५२]किञ्चिदाकारमानने ॥ ३६ ॥

 अभिजनः-अभितो वर्तमानो जनः तथा । श्रीमानिति । इदानीं रामाभिषेकप्रसंगात् भृतालंकारशोभावान् । आकारमिति । विकृताकारामिति यावत् ॥ ३६ ॥

 उचितं च महाबाहुर्न जहौ हर्षमात्मनः ।
 शारदः समुदीर्णांशुश्चन्द्रस्तेज [८५३]इवात्मजम् ॥ ३७ ॥

 उचितमिति। सहजसत्त्वगुणोचितमित्यर्थः। आत्मस्वरूपतया जातं-आत्मजम् ॥ ३७ ॥

 वाचा मधुरया रामः सर्वं सम्मानयन् जनम् ।
 मातुस्समीपं [८५४]धीरात्मा प्रविवेश महायशाः ॥ ३८ ॥
 तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।
 सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥ ३९ ॥


 प्रविश्य वेश्मातिभृशं [८५५]मुदाऽन्वितं
 समीक्ष्य तां चार्थविपत्तिमागताम् ।
 न चैव रामोऽत्र जगाम विक्रियां
 [८५६]सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनविंशः सर्गः


 अर्थविपत्तिं-अर्थभ्रंशं समीक्ष्य विक्रियां न जगाम । अपि तु सुहृज्जनस्य आत्मविपत्तिशङ्कया-प्राणविपत्तिशङ्कया [८५७]चिन्तां जगामेति शेषः । नव (४०) मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनविंशः सर्गः


विंशः सर्गः
[कौसल्याऽऽक्रन्दनम् ]

 तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।
 आर्तशब्दो महान् जज्ञे [८५८]स्त्रीणामन्तःपुरे तदा ॥ १ ॥

 अथ रामेण मातुर्वृत्तान्तनिवेदनम् । तस्मिन्नित्यादि ॥ १ ॥


 कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च ।
 [८५९]गतिर्यः शरणं चासीत्, स [८६०]रामोऽद्य प्रवत्स्यति ॥ २ ॥

 अचोदित इति । अचोदितोऽपि कर्तेति शेषः ॥ २ ॥

 कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा ।
 तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ ३ ॥
 न क्रुध्यत्यभिशप्तोऽपि [८६१]क्रोधनीयानि वर्जयन् ।
 कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥ ४ ॥

 अभिशप्तः-कृतवाक्पारुष्यः । क्रोधनीयानि-क्रोधार्हाणि च अनुकम्पया वर्जयन्-तद्विषयक्रोधमकुर्वन् ॥ ४ ॥

 अबुद्धिर्बत ! नो राजा [८६२]जीवलोकं चरत्ययम् ।
 यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ ५ ॥

 जीवलोकं चरति-सर्वप्रजाजातं यावत् ॥ ५ ॥ भक्षयति-नाशयतीति

 इति सर्वा [८६३]महिष्यस्ता विवत्सा इव धेनवः ।
 पतिमाचुक्रुशुश्चैव सस्वनं चापि चुक्रुशुः ॥ ६ ॥

 आचुकुशुः निनिन्दुः । चुक्रुशुः-क्रन्दन्ति स्म ॥ ६ ॥


 स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः ।
 पुत्रशोकाभिसंतप्तः श्रुत्वा [८६४]व्यालीयतासने ॥ ७ ॥

 आसन एव व्यालीयत-विलीनोऽभूत् ; देहमवकुण्ठ्यावाङ्मुख उपविष्टोऽभूदित्यर्थः ॥ ७ ॥

 रामस्तु भृश[८६५]मायस्तो [८६६]निस्वनन्निव कुञ्जरः ।
 जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ ८ ॥

 आयस्तः-स्वजनदुःखतः प्राप्तखेदः कुञ्जर इव [८६७]निस्वनन् ॥

 सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।
 उपविष्टं गृहद्वारि [८६८]तिष्ठतश्चापरान् बहून् ॥ ९ ॥

 पुरुषं-द्वाराध्यक्षम् ॥ ९ ॥

 दृष्ट्वैव तु तदा रामं ते सर्वे [८६९]समुपस्थिताः ।
 [८७०]जयेन जयतां श्रेष्ठ वर्धयन्ति स्म राघवम् ॥ १० ॥

 जयेन-'विजयी भव' इति विजयशब्देनेत्यर्थः ॥ १० ॥

 प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।
 ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाऽभिसत्कृतान् ॥ ११ ॥

 राज्ञा अभिसत्कृतास्तथा ॥ ११ ॥


 प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः ।
 स्त्रियो[८७१]बालाश्च वृद्धाश्र [८७२]द्वाररक्षणतत्पराः ॥ १२ ॥
 वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।
 न्यवेदयन्त त्वरितं राममातुः [८७३]प्रियं तदा ॥ १३ ॥

 वर्धयित्वेति । जयशब्देनेति शेषः ॥ १३ ॥

 कौसल्याऽपि तदा देवी[८७४] रात्रिं स्थित्वा समाहिता ।
 प्रभाते चाकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥ १४ ॥
 सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।
 [८७५][८७६]अग्निहोत्रं जुहोति स्म मन्त्रवत्कृतमङ्गला ॥ १५ ॥
 प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ।
 ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ १६ ॥

 अग्निहोत्रं जुहोति स्मेति । ज्येष्ठपत्नीत्वादृत्विङ्मुखेनेति शेषः । तदेवोक्तं–हावयन्तीमिति ॥ १६ ॥

 देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् ।
 दध्यक्षतं घृतं चैत्र मोदकान् हविषस्तथा ॥ १७ ॥




 लाजान् माल्यानि शुक्लानि पायसं [८७७]कृसरं तथा ।
 समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ १८ ॥
 तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् ।
 तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम् ॥ १९ ॥
 सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।
 [८७८]अभिचक्राम संहृष्टा किशोरं बडवा यथा ॥

 किशोरः-अश्वपोतः ॥ २० ॥

 [८७९]स मातर[८८०]मभिक्रान्तामभिसंगृह्य राघवः ।
 परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ॥ २१ ॥

 अभिसंगृह्य नमस्कृत्य ॥ २१ ॥

 तमुवाच दुराधर्षं राघवं सुतमात्मनः ।
 कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२ ॥
 वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।
 प्राप्नुह्यायुश्च कीर्तिं च धर्मं [८८१]चोपहितं कुले ॥ २३ ॥

 कुले-कुलविषये ॥ २३ ॥

 [८८२]सत्यप्रतिज्ञं पितरं राजानं [८८३]पश्य राघव ।
 अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४ ॥


 राजानं पश्येति । गत्वेति शेषः । रामस्य राजनिवेशगमनादि-व्यापारानभिज्ञानात्कौसल्यायाः राजदर्शननियोजनादि ॥ २४ ॥

 [८८४]दत्तमासनमालभ्य [८८५]भोजने तु निमन्त्रितः ।
 मातरं राघवः [८८६]किञ्चि[८८७]द्व्रीलात् प्राञ्जलिरब्रवीत् ॥ २५ ॥

 आसनं दत्वा[८८८] अत्रोपविश्य भुक्त्वा राजानं द्रष्टुं गच्छ इति भोजने-तद्धेतवे निमन्त्रितो राघवः केवलमासनमालभ्य-स्पृष्ट्वैव -केवलं; नोपविष्टो भूत्वा किञ्चिद्व्रीलात् किञ्चिदवाङ्मुख इति शेषः ॥ २५ ॥  स स्वभावविनीतश्च गौरवाच्च तदाऽऽनतः ।  प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २६ ॥  गौरवात्-मातृत्वप्रयुक्त गौरवाच्च । प्रस्थितः-निश्चितप्रस्थानः । आप्रष्टुं-अभ्यनुज्ञां कारयितुमुपचक्रमे ॥ २६ ॥

 देवि ! नूनं न जानीषे महद्भयमुपस्थितम् ।
 इदं च तव दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २७ ॥

 इदं च भयं युष्मदादीनां त्रयाणामेव विशिष्य दुःखाय ; न मम दुःखलेशोऽपीत्यर्थः ॥ २७ ॥

 गमिष्ये दण्डकारण्यं किमनेनासनेन मे ।
 विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २८ ॥

 विष्टरः-तपस्विनामासनविशेषः । वामावर्तपञ्चविंशतिदर्भनिर्मितः । ' पञ्चाशद्भिर्भवेद्ब्राह्मस्तदर्धेन तु विष्टरः' इति स्मृतिः ॥ २८ ॥


 चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
 [८८९]कन्दमूलफलैर्जीवन् [८९०]हित्वा मुनिवदामिषम् ॥ २९ ॥

 हित्वा मुनिवदामिषमिति । एतेन-विशिष्टसंस्कारसंस्कृतमांसोपेतभोजने निमन्त्रणं मातृकृतमपि प्रत्याख्यातम् । मुनिवदित्युक्तत्वादेव श्राद्धाय मांसग्रहो न विरुद्धः-'इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना' इति वक्ष्यमाणः ॥ २९ ॥

 भरताय महाराजो यौवराज्यं प्रयच्छति ।
 मां पुनर्दण्डकारण्यं विवासयति तापसम् ॥ ३० ॥
 स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।
 आसेवमानो [८९१]वन्यानि फलमूलैश्च वर्तयन् ॥ ३१ ॥
 सा निकृत्तेव सालस्य यष्टिः परशुना [८९२]वने ।
 पपात सहसा देवी देवतेव दिवश्चयुता ॥ ३२ ॥

 यष्टिः-शाखा ॥ ३२ ॥

 तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
 रामस्तूत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥


 उपावृत्योत्थितां दीनां वडवामिव वाहिताम् ।
 पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ ३४ ॥

 वाहितां-पूर्वं प्रापितवाहनव्यापारां पश्चाच्छ्रमातिवहनहेतवे लुठनाय विसृष्टां अत एवोपावृत्त्य-लुठित्वोत्थिताम् ॥ ३४ ॥

 सा राघवमुपासीन[८९३]मसुखार्ता सुखोचिता ।
 उवाच पुरुषव्याघ्र[८९४] मुपशृण्वति लक्ष्मणे ॥ ३५ ॥

 असुखेन-दुःखेन आर्ता-खिन्ना ॥ ३५ ॥

 [८९५],यदि पुत्र न जायेथा मम शोकाय राघव ! ।
 न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६ ॥

 अप्रजाः-वन्ध्येत्येतस्मात् भूयः-अभ्यधिकं दुःखं न पश्येयमिष्टपुत्रवियोगजम् ॥ ३६ ॥


 एक एव हि वन्ध्यायाः शोको भवति मानसः ।
 अप्रजाऽस्मीति संतापो न ह्यन्यः पुत्र ! विद्यते ॥ ३७ ॥

 अप्रजास्त्वदुःखमेतदपेक्षया सुसहमित्याह-एक इत्यादि । मानसशोकस्याभिनयः-अप्रजाऽस्मीति । सन्धिश्छान्दसः । अन्यः-इष्टपुत्रवियोगजः ॥ ३७ ॥

 न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे
 [८९६]अपि पुत्रे तु पश्येयमिति रामास्थितं मया ॥ ३८ ॥

 स्वस्याः सदा दुःखित्वमिति शोचति-न दृष्टेत्यादि । पत्युः पौरुषं-अनुरागकृतो रञ्जनविशेषः, तस्मिन् सति यत्-प्राप्यं कल्याणं-प्रशस्तवस्त्राभरणादिजसौभाग्याधिक्यं, तथा सुखं वा पतिसंभोगजं मया न दृष्टपूर्वम् । अथाऽपि पुत्रेऽपि चोत्पन्ने तदुभयं पश्येयमिति मया आस्थितम्-एवं प्रत्याशया स्थितवती ॥ ३८ ॥

 [८९७]सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।
 अहं श्रोष्ये सपत्नीनां [८९८]अवराणां वरा सती ॥ ३९ ॥

 साऽहं अवराणां-सुमित्रादीनां सर्वासां कनिष्ठराजस्त्रीणां स्वद्बलादिदानीं वरा सती, पुनश्च त्वद्वियोगे तव मुखमपश्यन्ती, हृदयच्छिदां-हृदयावहारिकाणां सपत्नीनां बहून्यमनोज्ञानि वाक्यानि एवं जीर्णाऽपि श्रोष्ये ॥ ३९ ॥


 अतो दुःखतरं किन्नु प्रमदानां भविष्यति ? ।
 मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ ४० ॥

 अतो दुःखतरं-सपत्नीधिक्कारवाक्यश्रवणजात्परं दुःखं स्त्रियो नास्ति । मम तु तादृशशोकमूलविलापो यादृशः तादृश एव वाचामगोचरोऽनन्तक एव ॥ ४० ॥

 त्वयि सन्निहितेऽप्येवमहमासं [८९९]निराकृता ।
 किं पुनः प्रोषिते तात ! ध्रुवं मरणमेव मे ॥ ४१ ॥

 एवं त्वयि सन्निहितेऽप्यहं सपत्नीभिर्निराकृता । त्वयि विप्रोषिते किं पुनः ! अतो मे मरणमेव ध्रुवं-प्राप्तम् ॥ ४१ ॥

 अत्यन्तं निगृहीताऽस्मि भर्तुर्नित्य[९००][९०१]मसंमता ।
 परिवारेण कैकेय्याः समा वाऽप्यथवाऽवरा ॥ ४२ ॥

 ध्रुवमित्यत्र हेतुमाह-अत्यन्तमित्यादि । परिवारेण-दासीजनेन समा वा-अथवा अवरा-ततोऽपि निकृष्टा वा स्याम् ॥ ४२ ॥

 यो हि मां सेवते कश्चिदथवाऽप्यनुवर्तते ।
 [९०२]कैकेय्याः पुत्रमन्वीक्ष्य [९०३]स जनो [९०४]नाभिभाषते ॥ ४३ ॥


 अपि च त्वयि प्रोषिते [९०५]भरते राजनि तं कैकेय्याः पुत्रमन्वीक्ष्य,यो हीदानीं मां सेवते कश्चित् अथवाप्यनुवर्तते मदिष्टं, स सर्वोऽपि जनो मां नाभिभाषते-नाभिभाषेतापि, सेवादिस्तु दूरे ॥ ४३ ॥

 नित्यक्रोधतया तस्याः कथं नु [९०६]खरवादिनम् ।
 कैकेय्या वदनं द्रष्टुं, पुत्र ! शक्ष्यामि दुर्गता ॥ ४४ ॥

 अपि च मद्विषये तस्या नित्यक्रोधतया खरवादिनं-'स्वमोः' इति [९०७]लुगभाव आर्षः, परुषवदनशीलं वदनं कथं नु द्रष्टुं शक्ष्यामि ? दुर्गता-दुर्दशापन्ना ॥ ४४ ॥

 [९०८]दश सप्त च वर्षाणि जातस्य तव राघव!
 [९०९]अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ ४५ ॥


 जातस्येति । द्वितीयजन्मनेति शेषः ।

'अतीतानि' इति पूर्वेण सम्बन्धः । अतः परं तव यथाप्राप्तेन यौवराज्येन दुःखपरिक्षयं प्रकाङ्क्षन्त्या मया तस्या वदनं कथं नु द्रष्टुं शक्यमित्यनुकर्षः ॥ ४५ ॥

 [९१०]तदक्षयं महदुःखं नोत्सहे सहितुं चिरात् ।
 विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव ! ॥ ४६ ॥

 दुःखमिति । त्वद्विप्रयोगजमिति शेषः ॥ ४६ ॥

 अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।
 कृपणा वर्तयिष्यामि कथं [९११]कृपणजीविका ॥ ४७ ॥

 कृपणजीविका-शोच्यजीवना ॥ ४७ ॥

 उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः ।
 [९१२][९१३]दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४८ ॥

 दुःखं यथातथा मोघं-व्यर्थं संवर्धितोऽसि । यदि-विप्रवत्स्यसीति शेषः ॥ ४८ ॥

 स्थिरं तु हृदयं मन्ये [९१४]ममेदं यत्र दीर्यते ।
 प्रावृषीव महानद्याः स्पृष्टं कुलं नवाम्भसा ॥ ४९ ॥

 न दीर्यत इति यदिति । त्वद्विप्रयोगश्रवणेऽपीति शेषः ॥ ४९ ॥


 ममैव नूनं मरणं न विद्यते
  न चावकाशोऽस्ति यमक्षयेऽपि वा ।
 यदन्तकोऽद्यैव न मां जिहीर्षति
  [९१५]प्रसह्य सिंहो रुदतीं मृगीमिव ॥ ५० ॥

 ममैवेत्यादि । लौकिकातिवृद्धोक्तिजातिरियम् ॥ ५० ॥

 स्थिरं हि नूनं हृदयं ममायसं
  [९१६]न भिद्यते यद्भुवि नो विदीर्यते ।
 [९१७] अनेन दुःखेन च देहमर्पितं
  ध्रुवं ह्यकाले मरणं न विद्यते ॥ ५१ ॥

 अयसा निर्मितं-आयसम् । अनेन च दुःखेनार्पितमपि देहं ; 'देहः क्लीबपुंसोः' ; हि यस्मात् न विदीर्यते; अतोऽकाले-ईश्वर-कल्पितकालव्यतिरिक्त काले मरणं न विद्यते, न लभ्यते च; लाभार्थक विदेर्यत् ; तन्त्राभिप्रायत उभयम् ॥ ५१ ॥

 इदं [९१८]तु दुःखं यदनर्थकानि मे
  व्रतानि दानानि च संयमाश्च हि ।
 तपश्च तप्तं यदपत्य[९१९]कारणात्
  सुनिष्फलं बीजमिवोप्तमूषरे ॥ ५२ ॥

 यत् व्रतादीनि-अनर्थकानि जातानि, तदिदं तु महद्दुःखम् । आनर्थक्ये दृष्टान्तः-ऊषरे उप्तं, अत एव सुनिष्फलं बीजामिवेति ॥


 [९२०]यदि ह्यकाले मरणं स्वयेच्छया
  लभेत कश्चिद्गुरुदुःखकर्शितः
 गताऽहमद्यैव परेतसंसदं
  विना त्वया धेनुरिवात्मजेन वै ॥ ५३ ॥

 यदीत्यादि । गुरुदुःखकर्शितः कश्चिदपि स्वेच्छया अकाले-उक्तार्थः, [९२१] मरणं लभेत यदि ; तदा ह्यहमद्यैव त्वया विनाभूता परेतसंसद-यमसभां गता स्यां, तत्तु न लभ्यत इति शेषः ॥ ५३

 अथापि किं जीवितमद्य मे वृथा
  त्वया विना चन्द्रनिभाननप्रभ ! |
 अनुव्रजिष्यामि वनं त्वयैव गौः
  सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४ ॥

 अथापि किं जीवितं-कुत्सितं जीवितं वृथा व्यर्थम् । अतः- अनुव्रजिष्यामीत्यादि । अनुकाङ्क्षया-स्नेहेन ॥ ५४ ॥

 भृशमसुखममर्षिता तदा
  बहु विललाप समीक्ष्य राघवम् ।
 व्यसनमुपनिशाम्य सा महत्
  [९२२]सुतमिव बद्धमवेक्ष्य किन्नरी ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे विंशः सर्गः



 भृशं असुखं-दुःखं अमर्षिता-असहमाना राघवं समीक्ष्य तदा बहु विललाप । अपि च भावि महद्व्यसनं च रामवियोगमूलं

सपतत्न्यादिसंपादनीयमुपमिशाम्य-पर्यालोच्य च सत्यपाशबद्धं राघवं सुतमवेक्ष्य किन्नरीव-यथोक्तनिमित्तवती किन्नरीव विललाप । [९२३]अधर्ममानः (५९१/२) सर्गः ॥ ५५ ॥

इति श्रीमद्रामायणामृतककटीकायां अयोध्याकाण्डे विंशः सर्गः


एकविंशः सर्गः
[कौसल्यासान्त्वनम्]

 तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।
 उवाच[९२४] लक्ष्मणोऽदीनः [९२५]तत्कालसदृशं वचः ॥ १ ॥

 एवं कौसल्याप्रलापे, लक्ष्मणेन चारातिनिरासे प्रतिज्ञातेऽपि भगवतो रामस्य सत्यस्थैर्यप्रतिपादनम् । तथा त्वित्यादि । तत्काल सदृशं-रामविप्रयोगहेतुककौसल्यादुःखप्रवृत्तिकालोचितम् ॥ १ ॥

 न रोचते ममाप्येतत्, आर्ये ! यद्राघवो वनम् ।
 त्यक्त्वा राज्याश्रयं गच्छेत् [९२६]स्त्रिया वाक्यवशं गतः ॥ २ ॥


 गच्छेदिति यत् तन्ममापि न रोचते । 'आर्ये' इति कौसल्या-सम्बोधनम् ॥ २ ॥

 विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।
 नृपः किमिव न ब्रूयात् चोद्यमानः समन्मथः ॥ ३ ॥

 ननु राजचोदिते वनवासे [९२७]कथमिह स्थातुं शक्यमित्यत्राह-विपरीत इत्यादि । विपरीतः–प्राप्तप्रकृतिवैपरीत्यः । तत्र हेतुः- वृद्ध इत्यादि । चोद्यमान इति । स्त्रियेति शेषः । किमिव न ब्रूयात्-अनुचितशतमपि ब्रूयादेव । अतो न श्रद्धार्हमिति शेषः ॥ ३॥

 नास्यापराधं पश्यामि [९२८]नापि दोषस्तथाविधः ।
 येन [९२९]निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ ४ ॥

 ननु कथं राजदोषप्रयुक्तता विवासनस्य; रामदोषप्रयुक्तता वा कस्मान्न स्यादित्यत्राह-नास्येत्यादि । रामस्येत्यर्थः । अपराधं- पितृविषयकं । तथाविधो दोष इति । असमञ्जदेरिवान्यविषयको या विवासनहेतुरपराध इत्यर्थः ॥ ४ ॥

 [९३०][९३१]अहं हनिष्ये पितरं वृद्धं कामवशं गतम् ।
 स्त्रिया युक्तं च निर्लज्जं धर्मायुक्तं नृपं तथा ॥ ५ ॥

 अहं हनिष्य इति । अन्यायेन प्रवृत्ताभिषेकविघ्नं करिष्यति चेदिति शेषः । अत्र हेतुः-धर्मायुक्तमिति ॥ ५ ॥


 [९३२]न तं [९३३]पश्यामि तल्लोके परोक्षमपि यो नरः !
 [९३४]स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ६ ॥

 अस्तु राघवस्याप्यधर्म इत्यत्राह-न तमित्यादि । तल्लोके-तत्समक्षं-राघवसमक्षं तस्य परोक्षमपि वा यो नरः-स्वमित्रः-सुतराम-मित्रोऽपि, महापातकादिदोषवशान्निरस्तोऽपि अस्य-रामस्य दोषं समुदाहरेत्-तं न पश्यामि ॥ ६ ॥

 देवकल्पमृजुं दान्तं [९३५]रिपूणामपि [९३६]वत्सलम् ।
 अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ ७ ॥

 यदेवं-अतः देवकल्पमित्यादि । रिपूणामपि-कैकेय्यादीनामपि विषये वत्सलं-स्निग्धं । धर्मं-[९३७]धर्मविग्रहम् ॥ ७ ॥

 तदिदं वचनं राज्ञः [९३८]पुनर्बाल्यमुपेयुषः ।
 पुत्रः को हृदये कुर्यात् [९३९]राजवृत्तमनुस्मरन् ॥ ८ ॥


 बाल्यं-बालभावं-अविमृश्यकारित्वं । राजवृत्तं- प्राचीनराजधर्मं । अनुस्मरन्-पर्यालोचयन् ॥ ८ ॥

यावदेव न जानाति कश्चिदर्थमिमं नरः ।
तावदेव मया सार्धं आत्मस्थं कुरु [९४०]शासनम् ॥ ९ ॥

 इममर्थं-रामविवासनवृत्तान्तं । तावत्-ततःपूर्वमेव । शासनं-यथाप्राप्ताभिषेक पूर्वकं राज्यानुपालनापेक्षितराजनियोगम् । आत्मस्थं कुरुत्वदाज्ञामेव राज्ये प्रवर्तय ॥ ९ ॥

 मया पार्श्वे सधनुषा[९४१]तव गुप्तस्य राघव ! ।
 कः[९४२] समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ १० ॥

 कथमेवं शक्यमित्यत्राह-मयेत्यादि । अधिकं त्वदाज्ञामतिलङ्घ्याभ्याधिकं कर्तुमित्यर्थः ॥ १० ॥ कर्तुमित्यर्थः ।

 निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ ।
 करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ ११ ॥

 विप्रिय इति । तव विपक्षंभाव इत्यर्थः ॥ ११ ॥

 भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति ।
 सर्वानेतान् वधिष्यामि, मृदुर्हि परिभूयते ॥ १२ ॥

 मृदुर्हि परिभूयत इति । अतो मार्दवं न युक्तं तदनुचितकाल इति शेषः ॥ १२ ॥


 प्रोत्साहितोऽयं कैकेय्या [९४३]स दुष्टो यदि नः पिता ।
 [९४४]अमित्रभूतो[९४५]निस्सङ्गं [९४६]बध्यतां वध्यतामपि ॥ १३ ॥

 अशक्यार्थश्च भरताय राज्यदानं राज्ञः इत्याह-प्रोत्साहित इत्यादि ॥ १३ ॥

 गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
 उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ १४ ॥
 [९४७]बलमेष किमाश्रित्य हेतुं वा, पुरुषर्षभ ! ।
 दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ १५ ॥

 स्थितमिदं तवेति । ज्येष्ठत्वाद्गुणोत्तरत्वाच्चेति शेषः ॥ १५ ॥

 त्वया चैव मया चैव [९४८]दत्वा वैरमनुत्तमम् ।
 काऽस्य शक्तिः श्रियं दातुं भरतायारिशासन ! ॥ १६ ॥

 कैकेय्या प्रोत्साहितोऽप्ययं राजा आवाभ्यां वैरं कृत्वा भरताय राज्यं कथं दद्यात् ? तथा राज्याश्रयमपि च दातुं काऽस्य शक्तिः ? न कापि ॥ १६ ॥

 अनुरक्तोऽस्मि भावेन भ्रातरं, देवि ! तत्त्वतः ।
 सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १७ ॥


 ज्ञातित्वाविशेषात् त्वं वाऽस्मिन्विषये कथं विश्वसनीयः ? इति

शङ्काभासमपनयति कौसल्यायाः-अनुरक्त इत्यादि । भावः- आन्तरः अभिप्रायः ॥ १७ ॥

 दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति ।
 प्रविष्टं तत्र मां, देवि ! त्वं पूर्वमवधारय ॥ १८ ॥
 हरामि वीर्यादुःखं ते तमः सूर्य इवोदितः ।
 देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ १९ ॥
 [९४९]हनिष्ये पितरं वृद्धं कैकेय्यासक्त[९५०][९५१]मुन्नतम् ।
 कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ॥ २० ॥

 कैकेय्यामासक्तः तं, अत एव हेतोरुन्नतं- बालवत्कामो[९५२]उन्नतचित्तम्, वस्तुतो वृद्धभावेन गर्हितम् । बाल्यादिर्व्याकृतपूर्वः ॥२०॥

 एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
 उवाच रामं कौसल्या रुदती शोकलालसा ॥ २१ ॥
 भ्रातुस्ते वदतः पुत्र ! लक्ष्मणस्य श्रुतं त्वया ? ।
 यदत्रानन्तरं [९५३]तत्त्वं कुरुष्व [९५४]यदि रोचते ॥ २२ ॥

 श्रुतमिति । अभिवदनमिति शेषः । यदत्रानन्तरमिति । कार्यमिति शेषः ॥ २२ ॥


 [९५५][९५६]न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् ।
 विहाय शोकसंतप्तां गन्तुमर्हसि मामितः ॥ २३ ॥

 अधर्म्यं सपत्न्याः–कैकेय्या वचः श्रुत्वा मां विहाय वनं गन्तुं नार्हसि ॥ २३ ॥

 धर्मज्ञ ! यदि धर्मिष्ठो धर्मं चरितुमिच्छसि ।
 [९५७]शुश्रूष मामिहस्थस्त्वं चर धर्म[९५८]मनुत्तमम् ॥ २४ ॥

 [९५९]शुश्रूष-शुश्रूषणं कुरु ॥ २४ ॥

 शुश्रूषुर्जननीं [९६०]पुत्रः स्वगृहे नियतो वसन् ।
 परेण [९६१]महता युक्तः काश्यपस्त्रिदिवं गतः ॥ २५ ॥

 महतेति । धर्मेणेति शेषः । त्रिदिवं गत इत्यनेन इह लोके पूर्वं मातृशुश्रूषाबलेन प्राजापत्यपदं प्राप्तवानित्यवगन्तव्यम् ॥ २५ ॥

 यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् ।
 त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ २६ ॥

 गौरवेणाहमपि पूज्येति । 'पितुश्शतगुणं माता गौरवेणातिरिच्यते' इत्यादिस्मृतेरित्याशयः ॥ २६ ॥

 त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा
 त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २७॥


 त्वद्वियोगात्परं मे जीवितादिना न किञ्चित्कार्यं न किञ्चित्प्रयोजनमित्यर्थः । यदेवं अतः-त्वयेत्यादि ॥ २७ ॥

 यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
 अहं [९६२] प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ २८ ॥
 ततस्त्वं प्राप्स्यसे, पुत्र ! निरयं लोकविश्रुतम् ।
 [९६३]ब्रह्महत्यामित्राधर्मात् समुद्रः सरितां पतिः ॥ २९ ॥

 तत इति । मातुः प्राणान्तशोकसंपादनादित्यर्थः । सरितां पतिः समुद्रः कस्मिंश्चित्कल्पे मातृदुःखजननरूपाधर्माद्ब्रह्महत्यां-ब्राह्मणकृत्यां प्राप्य नरकादीनि प्राप्तवान् इति किञ्चित्पुराण-प्रसिद्धिः ॥ २९ ॥

 विलपन्तीं तथा दीनां कौसल्यां जननीं ततः ।
 उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ ३० ॥


 नास्ति शक्तिः [९६४]पितुर्वाक्यं समतिक्रमितुं मम ।
 प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ३१ ॥

 पितुर्वाक्यं समतिक्रमितुं शक्तिर्नास्तीति । त्वद्वचनस्य च कर्तव्यत्वेऽपि पितृवचनस्य प्रथमतः प्राप्तत्वेन प्राबल्यात्, युगपदनुष्ठानासंभवाच्च प्रथमं पितृवचनं कर्तव्यम् ॥ ३१ ॥

 ऋषिणा च पितुर्वाक्यं कुर्वता [९६५]व्रतचारिणा ।
 गौर्हता जानता धर्मं कण्डुनापि [९६६]विपश्चिता ॥ ३२ ॥

 अपि च पितृवाक्यगौरवेण गोवधो मातृवधोऽपि पूर्वैर्महात्मभिः कृतः । मया तु पितृवाक्यकरणतो दुःखमात्रं मातुरिति कुतः पितृवचसोऽकरणमित्याशयेनाह-[९६७]ऋषिणेति ॥ ३२ ॥

 अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः ।
 [९६८]खनद्भिस्सागरैर्भूमिमवाप्तस्सुमहान् वधः ॥ ३३ ॥

 वधोऽवाप्त इत्यनेन-प्राणानपि त्यक्त्वा पितृवाक्यं परिपालनीयम्; किमु कियत्कालवनवासमात्रेणेत्याशयः सूचितः ॥ ३३ ॥

 [९६९]जामदग्न्येन रामेण रेणुका जननी स्वयम् ।
 कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ ३४ ॥


 परशुना स्वयं कृतेति । स्वहस्तेनैव छिन्नेत्यर्थः । अरण्ये-तपोवने । एवमादौ एवमेव पाङ्क्तं प्राचीनपाठं पश्यामः । अन्यस्तु परशुधारेणेत्याद्यशुद्धं पठित्वा तत्समर्थने प्रयतते ॥ ३४ ॥

 एतैरन्यैश्च बहुभिः, [९७०]देवि ! देवसमैः कृतम् ।
 पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ ३५ ॥

 अक्लीबं-कातर्यरहितम् ॥ ३५ ॥

 न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।
 एतैरपि कृतं, देवि ! ये मया तव कीर्तिताः ॥ ३६ ॥
 [९७१]नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये ।
 [९७२]पूर्वैरय[९७३]मभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३७ ॥

 अपूर्वं-पूर्वानाचरितम्, नूतनमित्यर्थः । प्रतिकूलं-पूर्वाचारविरुद्धम् । उक्तार्थस्यैवान्वयमुखेन प्रतिपादनं-पूर्वैरित्यादि ॥ ३७ ॥

 तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।
 पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३८ ॥

 कार्यं-कर्तव्यत्वेन प्राप्तमेव क्रियते, नान्यथा-अकृत्यं न क्रियत इत्यर्थः । न हीयत इति। मात्रादिकिञ्चिद्दुः खोत्पादनादिति शेषः ॥३८॥


 तामेवमुक्त्वा जननीं लक्ष्मणं [९७४]पुनरब्रवीत् ।
 वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठस्सर्वधनुष्मताम् ॥ ३९ ॥
 तव लक्ष्मण ! जानामि मयि स्नेहमनुत्तमम्
 विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ ४० ॥
 [९७५]मम मातुर्महद्दुःखमतुलं, शुभलक्षण !
 [९७६]अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ ४१ ॥

 मम मातुर्महद्दुःखमपि जानाम्येव । अथापि मया तु सत्यस्य शमस्य चाभिप्रायं-रहस्यं ज्ञात्वा युष्मद्दुःखहेतुत्वेऽपि सत्ये प्रवर्ते । युष्माभिस्तु सत्यादे रहस्यमविज्ञाय खिद्यत इति शेषः ॥ ४१ ॥

 धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
 धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ ४२ ॥

 धर्मसंश्रितामिति । प्रतिश्रुतसत्यपरिपालनरूपं इत्यर्थः ॥ ४२ ॥

 संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।
 न कर्तव्यं वृथा, वीर ! धर्ममाश्रित्य तिष्ठता ॥ ४३ ॥

 वृथा न कर्तव्यं न मोघीकर्तव्यमित्यर्थः ॥ ४३ ॥

 सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।
 [९७७]पितुर्हि वचनाद्वीर ! कैकेय्याऽहं प्रचोदितः ॥ ४४ ॥


 तदेनां विसृजानार्यां [९७८]क्षत्रधर्माश्रितां मतिम् ।
 धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ ४५ ॥

 अनार्यां-अशुभाम् । एनां मतिं-पितरमपि हत्वा राज्यं कुर्यामित्यादिलक्षणाम् ॥ ४५ ॥

 तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः ।
 उवाच भूयः कौसल्यां प्राञ्जलिः शिरसाऽऽनतः ॥ ४६ ॥
 अनुमन्यस्व मां देवि ! गमिष्यन्तमितो वनम् ।
 शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ ४७ ॥

 शापिताऽसि मम प्राणैरिति । गमननिरोघं मा कुर्विति शेषः॥४७॥

 [९७९]तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम् ।
 [९८०]ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ४८ ॥

 हित्वेति । भूमौ पतितः पुनर्भूमिं हित्वेत्यर्थः ॥ ४८ ॥

 शोकः संधार्यतां मातः ! हृदये साधु, मा शुचः ।
 वनवासादिहैष्यामि [९८१]पुनः कृत्वा पितुर्वचः ॥ ४९ ॥
 त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
 पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ ५० ॥


 अम्ब ! संहृत्य [९८२]संभारान् दुःखं हृदि निगृह्य च ।
 वनवासकृता बुद्धिर्मम धर्म्याऽनु[९८३]वर्त्यताम् ॥ ५१ ॥

 संभारान्-अभिषेकसंभारान् ॥ ५१ ॥

 एतद्वचस्तस्य निशम्य माता
  सुधर्म्य[९८४]मव्यग्रमविक्लवं च ।
 [९८५]मृतेव संज्ञां प्रतिलभ्य देवी
  समीक्ष्य रामं पुनरित्युवाच ॥ ५२ ॥

 मृतेव-मृतवन्मूर्छितेति यावत् ॥ ५२ ॥

 यथैव ते, पुत्र ! पिता, तथाऽहं
  गुरुः [९८६]स्वधर्मेण सुहृत्तया च ।
 न त्वाऽनुजानामि, न मां विहाय
  सुदुःखितामर्हसि गन्तुमेवम् ॥ ५३ ॥

 सुहृत्तया-तलन्तोऽयम् ॥ ५३ ॥

 किं जीवितेनेह विना त्वया मे
  लोकेन वा किं [९८७]सुधयाऽमृतेन
 श्रेयो मुहूर्तं तव सन्निधानं
  ममेह कृत्स्नादपि [९८८]जीवलोकात् ॥ ५४ ॥


 अमृतेन-अमृतत्त्वसाधनेन । जीवलोकादिति । नित्यसन्निहितादपीति शेषः ॥ ५४ ॥

 [९८९]नरैरिवोल्काभिरपोह्यमानो
  महागजोऽध्वा[९९०]नमनुप्रविष्टः ।
 भूयः प्रजज्वाल विलापमेनं
  निशम्य रामः करुणं जनन्याः ॥ ५५ ॥

 नरैः-गजग्राहिभिः रात्रावुल्काभिरपोह्यमानो महागजः अध्वानमभिप्रविष्टो भूत्वा भीत्या यथा बृंहितेन प्रज्वलति-प्रवर्धते एवं तस्या विलापशब्दादभ्यधिकं प्रजज्वाल ॥ ५५ ॥

 स मातरं चैव विसंज्ञकल्पां
  आर्तं च सौमित्रिमभिप्रतप्तम् ।
 धर्मे स्थितो धर्म्यमुवाच वाक्यं
  यथा स एवार्हति तत्र वक्तुम् ॥ ५६ ॥

 रामस्य धर्मनिष्ठावैभवं वाल्मीकिः श्लाघते-यथेत्यादि । तत्र-तथाविधघोरदशायां स यथा धर्मं वक्ति-तथा तादृग्दशायां धर्मं वक्तुं पुनश्च स एव धर्मविग्रहोऽनन्तकल्याणगुणगणो भगवान् ब्रह्मा राम एवार्हति ॥ ५६ ॥


 अहं हि ते [९९१]लक्ष्मण ! नित्यमेव
  जानामि भक्तिं च पराक्रमं च ।
 मम त्वभिप्रायमसंनिरीक्ष्य
  मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥ ५७ ॥

 [९९२]ब्रह्मस्वभावत्वादेव भगवतः क्षत्रव्यापारो न रोचते; अत एव क्षत्राश्रितां मतिं [९९३]त्यजेत्युपदिशति । श्रुतविश्वामित्रकथत्वाच्च । मम त्वभिप्रायमिति । धर्मैकनित्यप्रतिष्ठत्वरूपमित्यर्थः । अभ्यर्दसिखेदयसि । एवं [९९४]सुदुःखं मा कुरु ॥ ५७ ॥

 धर्मार्थ[९९५]कामान् किल, तात ! [९९६]लोके
  [९९७]समीक्षितान् धर्मफलोदयेषु ।
 ते तत्र सर्वे स्युरसंशयं मे
  भार्येव वश्याऽभिमता [९९८]सुपुत्रा ॥ ५८ ॥

 अथ धर्मानुष्ठाने सति सन्देहविषये निर्णयं वक्तुं सन्देहस्थलेऽनुष्ठानप्रकारं तावदाह-धर्मेत्यादि । हे ! तात ! लोके खलु धर्म-फलोदयेषु-विद्यैश्वर्यानन्दादिलक्षणशुभफलप्रादुर्भावादिलक्षण कार्येषु यथा


धमार्थकामानेव समीक्षितान्-सम्यङ्निश्चितहेतून् वदन्ति । ये चेमे त्रय-श्शुभफलहेतव उक्ताः, ते सर्वे यत्र स्युः-यस्मिन् पुरुषेऽविरोधेन संभवन्ति तत्र-तस्मिन् पुरुषे सर्वाणि च स्युः -धर्मादित्रयप्राप्यसर्वशुभफलानि चासंशयं हेतुपौष्कल्यात्प्रादुर्भवेयुरिति मे निश्चयः । अथैकाश्रय-

तयानेकशुभप्रादुर्भावे दृष्टान्तः-भार्येत्यादि । यथैकैत्र भार्या पुरुष- वशंवदत्वरूपवश्यत्वधर्मेणौपासनदेवपूजादिगृहस्थधर्मसाधनं भवति, अभिमतात्वेन सौख्यसंपादनसाधनं भवति, [९९९]सुपुत्रात्वेन पितृलोकसंपादनसाधनं च भवति तद्वदित्यर्थः ॥ ५८ ॥

 [१०००]यस्मिंस्तु सर्वे स्युरसन्निविष्टाः
  धर्मो यतः स्यात्तदुपक्रमेत ।
 द्वेष्यो भवत्यर्थपरो हि लोके,
  [१००१]कामार्थता [१००२]खल्वपि न प्रशस्ता ॥ ५९ ॥

 भवत्वेवं ; यत्राविरोधेनोक्तहेतुत्रयप्रवृत्तिः तत्रास्तु यथायोगानुष्ठानं; यत्र तु विरोधस्तत्र किं कर्तव्यमित्यत्राह-यस्मिन्नित्यादि । यस्मिन्-पुरुषे सर्वे-धर्मादिशुभहेतवः असन्निविष्टाः -अशक्यानुष्ठानतोऽसन्निहिताः स हि पुरुषः यतः-येन साधनेन धर्मः स्यात् तदेव साधनमादाय धर्म-


मेवोपक्रमेत, न तु धर्मविरुद्धमर्थं कामं वा । कुत एवमित्यत्राह-द्वेष्य इत्यादि । हि-यस्मात्, अर्थपरो लोके द्वेष्यो भवति, यथा-अस्मास्वेव । इह लोके कामार्थता-कामप्रयोजनता धर्मविरुद्धा न प्रशस्ता-गर्हिता राज्ञ इव ॥ ५९ ॥

 गुरुश्च राजा च पिता च वृद्धः
  क्रोधात्प्रहर्षाद्यदि वाऽपि [१००३]कामात् ।
 यद्व्यादिशेत् [१००४]कार्यमवेक्ष्य धर्मं
  कस्तं न कुर्यादनृशंसवृत्तिः ॥ ६० ॥

 यदेवं-अतः-गुरुश्चेत्यादि । धर्ममवेक्ष्य-सत्यपरिपालनरूपं धर्ममवेक्ष्य यत् कार्यमादिशेत् ॥ ६० ॥

 स वै न शक्नोमि पितुः प्रतिज्ञा-
  मिमामकर्तुं सकलां यथावत् ।
 स ह्यावयोस्तात ! [१००५]गुरुर्नियोगे
  [१००६]देव्याश्च भर्ता [१००७]स गतिः स धर्मः ॥ ६१ ॥

 यथावत्कृतामिमां प्रतिज्ञां सकलां-संपूर्णां कर्तुम् । नियोग इति । प्रभुरिति शेषः । अत एव स गतिः । तद्वचनक्रियैव धर्मः ॥ ६१


 [१००८]तस्मिन् पुनर्जीवति धर्मराजे
  विशेषतः स्वे पथि वर्तमाने ।
 देवी मया सार्धमितोऽभिगच्छेत्
  कथंस्विदन्या [१००९]विधवेव नारी ॥ ६२ ॥

 विशेषतः स्वे पथि-इष्टं पुत्रं परित्यज्यापि सत्यं रक्षणीय-मित्येवंलक्षणे सत्यमार्ग इत्यर्थः । अन्येत्यस्यैव विवरणम्-विधवेति ॥

 सा माऽनुमन्यस्व वनं व्रजन्तं
  कुरुष्व [१०१०]नः स्वस्त्ययनानि, देवि !
 यथा समाप्ते पुनराव्रजेयं
  यथा हि सत्येन पुनर्ययातिः ॥ ६३ ॥

 मा-मामिति यावत् ॥ ६३ ॥

 यशो ह्यहं केवलराज्यकारणात्
  न पृष्ठतः कर्तुमलं महोदयम् ।
 [१०११]अदीर्घकाले न तु, देवि ! जीविते
  वृणेऽवरामद्य महीमधर्मतः ॥ ६४ ॥


 यशो ह्यहमति । प्राप्तमपि राज्यं त्यक्त्वा पितृवाक्यपरिपालनं कृतवानित्येवं रूपम् । देवि ! मानुषे जीविते अदीर्घकाले-अल्पकालतया निश्चिते सति कथं जीवनार्थं अवरां-अवरप्रयोजनभूतां महीं अधर्मतः-परमपुरुषार्थत्यागेन वृणे ॥ ६४ ॥

 प्रसादयन्नरवृषभः स्वमातरं
  पराक्रमाज्जिगमिषुरेव दण्डकान् ।
 अथानुजं भृशमनुशास्य दर्शनं
  चकार तां [१०१२]हृदि जननीं प्रदक्षिणम् ॥ ६५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकविंशः सर्गः


 दर्शनं-धर्मरहस्यज्ञानम् । तां जननीं प्रदक्षिणं कृत्वा हृदि गन्तुं मनश्चकार इत्यर्थः । गति (६३) (?) मानः सर्गः ॥ ६५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकविंशः सर्गः



द्वाविंशस्सर्गः
[लक्ष्मणप्रतिबोधनम्]

 अथ तं व्यथया दीनं सविशेषं-[१०१३]सविशेषममर्षितम् ।
 [१०१४]सरोषमिव नागेन्द्रं रोषविष्फारितेक्षणम् ॥ १ ॥


 आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
 उवाचेदं स धैर्येण धारयन् [१०१५]सत्त्वमात्मवान् ॥ २ ॥

 अथ भगवान् रामः सौमित्रेः कैकेयीविषयकरोषमुपशमयति-अथेत्यादि । सविशेष-रामेष्टजनान्तरापेक्षयति शेषः । अमर्षितं प्राप्तासहनम् । विष्फारितं-विस्तारितम् । सत्त्वं-सर्वविषयकं स्वबलं । धैर्येण धारयन्-प्रकटयन् ॥ २ ॥

 निगृह्य रोषं शोकं च [१०१६]धैर्यमाश्रित्य केवलम् ।
 अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ ३ ॥
 सौमित्रे ! योऽभिषेकार्थे मम संभारसंभ्रमः ।
 [१०१७]अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः ॥ ४ ॥

 किमुवाचेत्यत्राह-निगृह्येत्यादि । रोषं-पित्रादिवधहेतुभूतम् । अवमानं-वनप्रवासरूपावमानम् । निरस्येति । शत्रुभिर्निजदौर्बल्यकृतत्वाभावादित्याशयः । उत्तमं हर्षं गृहीत्वेति । सत्यपरिपालनेन पितुः पुण्यलोकसिद्धिजं हर्षमित्यर्थः तं गृहीत्वा तत्सिद्ध्यर्थमेव हे सौमित्रे ! ममाभिषेकार्थं-तत्प्रयोजनमुद्दिश्य यः संभारसंभ्रमो वर्तते सः संभारसंभ्रमः-त्वरा अभिषेकनिवृत्यर्थेऽस्तु । सा त्वरा वनवासपरिकरसंपादनाय तवास्तु ॥ ४ ॥


 उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे ।
 सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ॥ ५ ॥

 यदेवं-अतः उपक्लृप्तमित्यादि । निरत्ययं-निरपायम् । सत्यपरिपालनोपयुक्तं कार्यं वल्कलाद्यानयनरूपं कुर्वित्यर्थः ॥ ५ ॥

 [१०१८]यस्या मदभिषेकार्थे मानसं परितप्यते ।
 माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ॥ ६ ॥

 अपि च यस्याः मदभिषेकार्थे-अर्थशब्दो निवृत्तिवचन इह, "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु”, यस्या मदभिषेकनिवृत्तिनिमित्तं मानसं परितप्यते, सा मे माता यथा चेत्सशङ्का न स्यात्तथा कुरु । 'पितृवाक्यपरिपालनं रामकर्तव्यम् । अल्पकालसाध्यत्वाच्च तस्य तद्विषये त्वया न विषक्तव्यम् । अनुमन्यस्व[१०१९]' इत्येवमादिवचनेनेति शेषः ॥ ६ ॥

 तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे ।
 मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ ७ ॥

 कुत एवमित्यत्राह--तस्या इत्यादि । तस्या मनसि प्रतिसंजातं शङ्कामयं दुःखं मुहूर्तमप्युपेक्षितुं नोत्सहे ॥ ७ ॥


 न बुद्धिपूर्वं नाबुद्धं [१०२०]समारब्धं कदाचन ।
 मातॄणां वा पितुर्वाऽहं [१०२१]कृतकल्पं च विप्रियम् ॥ ८ ॥

 कथमसहनमित्यत्रेतः प्रागेवं निर्णीतव्यवहारत्वादेवेत्याह-न बुद्धीत्यादि । मातॄणां, पितुर्वा बुद्धिपूर्वं विप्रियं-विप्रियकरं कर्म कदाचन-कदापि न समारब्धं-नारब्धवानस्मि । तथा अबुद्धं- अबुद्धिपूर्वकमपि तन्न समारब्धम् । अपि च तत् कृतकल्पमपीति न । एवं पाङ्क्ते पाठेऽर्थे च स्थिते 'स्मरामीह' इति [१०२२]'कृतमल्पं च विप्रियम्' इति च पाठं योजनाशक्त्याऽ[१०२३]चीक्लृपत् परः ॥ ८ ॥

 [१०२४]सत्यः सत्यभिसन्धश्च नित्यं सत्यपराक्रमः ।
 परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ ९ ॥

 सत्यः-सत्यवचनस्वभाववान् । निर्भयोऽस्त्विति । तत्कृतसत्यपरिपालनादेव ॥ ९ ॥

 [१०२५]तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते ।
 सत्यं नेति मनस्तापः, तस्य तापस्तपेच्च माम् ॥ १० ॥

 विपक्षे बाधकमाह-तस्यापीत्यादि । हि-यस्मात् । अस्मिन्नभिषेककर्मण्यप्रतिसंहृते तस्य-पितुः सत्यं न संवृत्तमभूत् इति कृत्वा


मनस्तापो भवेत् । तस्य च मनस्तापो मामपि तपेत्-तापयेत्-पितृहितमकुर्वतो मम जन्म किमिति ॥ १० ॥

 अभिषेकविधानं तु तस्मात्संहृत्य, लक्ष्मण !
 [१०२६]अन्वगेवाहमिच्छामि वनं गन्तुमितः [१०२७]पुरः ॥ ११ ॥

 यदेवमतः-अभिषेकेत्यादि । अन्वगेव-अभिषेकनिर्वर्तनानन्तरमेव । इतः पुरः-पूर्शब्दात्पञ्चमी ॥ ११ ॥

 मम प्रव्राजनाद्य कृतकृत्या नृपात्मजा ।
 सुतं भरतमव्यग्र[१०२८]मभिषेचयतां ततः ॥ १२ ॥

 अव्यग्रं स्वस्थबुद्धितया अभिषेचयतां-अभिषेकं कारयताम् ॥ १२ ॥

 मयि चीराजिनधरे जटामण्डलधारिणि ।
 गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ १३ ॥

 गतेऽरण्यामिति । गत एवेति यावत् ॥ १३ ॥


 [१०२९]बुद्धिः [१०३०]प्रणीता येनेयं मनश्च सुसमाहितम् ।
 तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम् ॥ १४ ॥

 तथा पितरमपि क्लेशयितुं नार्हामीत्याह-बुद्धिरित्यादि । येनेयं बुद्धिः-वनप्रव्रजनबुद्धिः उत्पादिता, यत्र मनश्च मामकं सुसमाहितं-सत्यपरिपालनशेषतया पूर्वप्रवृत्तत्वेन सुतरामव्याकुलतया उक्तकृतौ स्थापितञ्च तं तु संक्लेष्टुं नार्हामि । यदेवमतः-प्रब्रजिष्याम्येव । मा चिरं-विलम्बो मा स्त्वित्यर्थः ॥ १४ ॥

 [१०३१]कृतान्तस्त्वेव, सौमित्रे ! द्रष्टव्यो मत्प्रवासने ।
 राज्यस्य च वितीर्णस्य पुनरेव निवर्तनं ॥ १५ ॥

 एवं प्रवासं निश्चित्य तत्र कैकेयीनिमित्तत्वशङ्कया तस्यां क्रोध-निवृत्तय आह-कृतान्त इत्यादि । प्राचीनं दुरदृष्टमेव [१०३२]प्राप्ताप्राप्तराज्यवनाप्राप्तिप्राप्तिकारणं, नान्यदित्यर्थः । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु" ॥ १५ ॥


 [१०३३]कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम [१०३४]पीडने ।
 यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ १६ ॥

 कृतान्तस्त्वेवेत्यवधार्यांशमाह-कैकेय्या इत्यादि ॥ १६ ॥

 जानासि हि यथा, सौम्य ! न मातृषु ममान्तरम् ।
 [१०३५]भूतपूर्वो विशेषो वा तस्या मयि सुतेऽपि वा ॥ १७ ॥

 हे सौम्य ! मम तु मातृषु अन्तरं न-प्रतिपत्तिभेदो नं । तथा तस्याः कैकेय्या अपि तत एव सुते भरते मय्यपि वा विशेषो न भूतपूर्वः-नानुभूत इतीममर्थं च जानासि किल । अतो दैवकृतो भावभेद इति निश्चिन्विति शेषः ॥ १७ ॥

 सोऽभिषेकनिवृत्यर्थैः प्रवासार्थैश्च दुर्वचैः ।
 [१०३६]उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात् समर्थये ॥ १८ ॥

 अयमेव निश्चय इत्याह-स इत्यादि । सोऽहमभिषेकनिवृत्ति-प्रयोजनैः प्रवासप्रयोजनैश्च दुर्वचैरुयैर्वाक्यैः तस्या एवं प्रवर्तने दैवादन्यन्न किञ्चिदपि कारणमस्ति इत्यहं समर्थये ॥ १८ ॥

 कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।
 ब्रूयात् सा प्राकृतेव स्त्री [१०३७][१०३८]मत्पीड्यं भर्तृसन्निधौ ॥ १९ ॥


 सर्वथैव दैवमेव तस्या भावभेदहेतुरित्याह-कथमित्यादि । प्रकृतिसंपन्ना-परमसत्त्वप्रकृतिसंपन्ना राजपुत्री-महाकुलप्रसूता तथागुणा-एतत्क्षणात्प्रागनुभूततादृक्परमकल्याणगुणा भर्तृसन्निधौ च कथं कुर्यादिति । यदि न दैवहतेति शेषः ॥ १९ ॥

 यदचिन्त्यं तु तदैवं [१०३९][१०४०]भूतेषु न विहन्यते ।
 व्यक्तं मयि च तस्यां च पतितो हि [१०४१]विपर्ययः ॥ २० ॥

 इह विषये न केवलं तस्या एव दैववशगत्वम् ; ममापीत्याह-यदित्यादि । यद्दैवं प्रारब्धादृष्टरूपमस्ति तदचिन्त्यं-अचिन्त्यफलदान-समर्थम्, तत् भूतेषु-संसारिषु न क्वापि विहन्यते-अशक्यविहनन-स्वफलदानं भवति । अतो [१०४२]व्यक्तं-स्पष्टं मयि तस्यां च हि दैववशाद्विपर्ययः-यथाप्राप्तवैपरीत्यं-कनिष्ठराज्यज्येष्ठवनवासादिरूपं प्राप्तं, नान्यत इत्यर्थः ॥ २० ॥

 कश्च दैवेन, सौमित्र ! योद्धुमुत्सहते पुमान् ।
 [१०४३]न यस्य ग्रहणं किञ्चित् कर्मणोऽ[१०४४]न्यत्र दृश्यते ॥ २१ ॥

 ननु कथं दैवस्य प्राबल्यम् ? किञ्च तत्सत्वे मानमित्यत्राह-कश्चेत्यादि । यदि प्राचीनं दुरदृष्टं सुज्ञानं तदा तेनापि योद्धुं शक्यम् ;


तन्निरासोऽपि सुकरः,तन्नास्तीत्याह-न यस्येत्यादि । यस्य-अदृष्टस्य ग्रहणं-ज्ञानमेव न समस्ति, तेन दैवेन कः पुमान् योद्धुमुत्सहते । तर्हि निष्प्रमाणत्वाद्दैवमेव नास्तीति वा किं न स्यादित्यत्राह–कर्मणोऽन्यत्रेति ।

अचिन्त्यहेतुसुखदुःखफलरूपकार्यवशादेव तदस्तित्वं त्वनुमेयम् । अतो न निष्प्रमाणतेत्यर्थः ॥ २१ ॥

 [१०४५]सुखदुःखे भयक्रोधौ लाभालाभौ [१०४६]भवाभवौ ।
 [१०४७]यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ॥ २२ ॥

 अतो दैवमेव प्रबलं, पौरुषं तु काकतालीयमेवेत्याशयेनाह-सुखेत्यादि । भवाभवौ-बन्धमोक्षौ । यच्च किञ्चित्तथाभूतं-अचिन्त्यकारणकं कार्यमस्ति तत्सर्वं दैवस्य ननु कर्म-कार्यम् ॥ २२ ॥

 ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
 उत्सृज्य नियमांस्तीव्रान् [१०४८]भ्रश्यन्ते [१०४९]काममन्युभिः ॥ २३॥

 दैवप्राबल्यमेव द्रढयति-ऋषय इत्यादि । विश्वामित्रादय इति यावत् । मन्युः क्रोधः । अभिभूयन्त इति शेषः ॥ २३ ॥

 असंकल्पितमेवेह यदकस्मात्प्रवर्तते ।
 [१०५०].निवर्त्या[१०५१]रंभमारब्धं ननु दैवस्य कर्म तत् ॥ २४ ॥


 इदानीं प्रारब्धस्य लक्षणमप्याह-असंकल्पितमित्यादि ।

अचिन्तितसुखदुःखप्रापकं प्रारब्धमित्यर्थः । लक्षणान्तरं- निवर्तेत्यादि । येन पुरुषानभिमतारंभमारब्धं तदेव दैवस्य– प्रारब्धस्य कर्म-कृत्यम् । पुमिच्छाविघातकत्वे सति तदनिष्टावहत्वं प्रारब्धत्वमित्यर्थः ॥ २४ ॥

 [१०५२]एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।
 व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ २५ ॥

 उपदिष्टं बुद्धियोगं सफलमुपसंहरति–एतयेत्यादि । बुद्ध्या-बुद्धियोगेन आत्मानं-अन्तःकरणं आत्मना-आत्मीयबुद्धियोगबलात् ॥

 तस्मादपरि[१०५३]तप्यस्व त्वमप्यनुविधाय माम् ।
 [१०५४]प्रतिसंहर च क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ २६ ॥

 अपरितप्यस्व-परितापं मा कुरु । [१०५५]मयूरव्यंसकादित्वात्समासः । त्वमपि मामनुविधाय-अनुकुर्वन् आभिषेचनिकीं-तत्प्रयोजनिकां क्रियां-अलङ्कारादिकर्म क्षिप्रं प्रतिसंहर ॥ २६ ॥

 एभिरेव घंटैः सर्वैः अभिषेचनसंभृतैः ।
 ममं, लक्ष्मण ! तापस्ये व्रतस्नानं भविष्यति ॥ २७ ॥

 तापस्ये-तापसव्रतसंकल्पे यत् व्रतसंकल्पापेक्षितं स्नानं-व्रत-स्नानमस्ति तदेभिर्भर्विष्यतीति योजना ॥ २७ ॥


 अथवा किं ममैतेन [१०५६]राज्यद्रव्यमतेन तु ।
 उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ २८ ॥

 राज्येति । राज्याभिषेकसाधनद्रव्यत्वेन मतं-अभिक्लृप्तं तथा । स्वयं-स्वहस्तेनेति यावत् । व्रतादेशं करिष्यतीति । व्रतसंकल्पसाधकं भविष्यतीत्यर्थः ॥ २८ ॥

 मा च, लक्ष्मण ! सन्तापं कार्षीर्लक्ष्म्या विपर्यये ।
 राज्यं वा वनवासो वा [१०५७]वनवासो महोदयः ॥ २९ ॥

 राज्यं वनवासो वा ममास्तु, 'नाहमर्थपरः' इत्यादि 'ऋषिभिस्तुल्यं केवलं धर्ममास्थितं' इत्युक्तत्वात् । राज्यं वा यथावत्पालनेन धर्मसाधनमस्तु; वनवासो वाऽस्तु तपस्साधनम् । तयोरस्यास्ति विशेष इत्याह-वनवासो महोदय इति । प्रजाकृत्यचिन्ताविक्षेपराहित्येन सतततपःप्रवृत्तिसाधनत्वात्, विशिष्य पितृवाक्यपरिपालन विशेषप्रयोजनवत्त्वाच्च महोदयः-महाभ्युदयसाधनम् ॥ २९ ॥

 न लक्ष्मणास्मिन् खलु कर्मविघ्ने
  माता यवीयस्यतिशङ्कनीया ।
 दैवाभिपन्ना हि वदत्यनिष्टं
  जानासि दैवं च तथाप्रभावम् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वाविंशस्सर्गः



 उपदेशपरमप्रयोजनं निगमयति-न लक्ष्मणेति । यवीयसी माता नातिशङ्कनीयेति कुत इत्यत्राह-दैवाभिपन्नेति । प्रारब्धग्रस्तेति यावत् । अनिष्टं वदन्ती दृश्यते। त्वं च दैवं तथाप्रभावं-अस्मदुपदेशेन जानासि किल । अतो नातिशङ्कनीयेति । अंग (३०) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वाविंशः सर्गः


त्रयोविंशः सर्गः
[लक्ष्मणाक्रोशः]

 इति ब्रुवति रामे तु [१०५८][१०५९]लक्ष्मणोऽधश्शिरा इव ।
 [१०६०]ध्यात्वा मध्यं [१०६१]जगामाशु सहसा [१०६२][१०६३]दुःखहर्षयोः ॥ १ ॥

 एवं शुद्धसत्त्वभावतो भगवता दैवावलम्बनेन परमार्थदृशा समाहितो लक्ष्मणो रजोन्मिश्रसत्त्वप्रधानतः दैवात्पौरुषं प्रबलमिति मन्यमानः पौरुषमवलम्ब्य दैवं प्रतिक्षेपणीयमिति ब्रूते । कृष्णावतारे बलदेववत्-रामावतारे लक्ष्मणश्शब्दब्रह्मशेषावतारः । अत उक्तप्रकृतित्वं लक्ष्मणस्य । तत्र मायाशक्तिप्रधानावतारं शुद्धं ब्रह्म भगवान् कुलगुरुः कृष्णः, सुस्थिरपेशीशक्तिप्रधानावतारं ब्रह्म सुशुद्धतरं ब्रह्म भगवान्राम इति विशेषः । इतीत्यादि । अधश्शिरा इति । उक्तार्थाङ्गीकारमूलमध-


शिशरस्त्वम् । [१०६४]दुःखहर्षयोः-दुःखसुखयोः मनसा मध्यं जगामेव । अतिलौकिकपौरुषनिधिनापि रामेण दैवप्राबल्यपरमसिद्धान्तावष्टंभेनोपदिष्ट-बुद्धियोगो यदा मनसा स्मृतो भवति तदा सुखं प्राप्नोति, यदा तु

प्रकृतिवशतो विस्मृत्य पौरुषप्राबल्यं स्मरति तदा श्रीनिवृत्त्यादिकमसहमानः क्रोधात्मकं दुःखं प्राप्नोति । इवशब्दान्माध्यस्थ्यं अपरमार्थं, स्वप्रकृत्यनुकूलव्यापार एव प्रबल इति प्रदर्श्यते । तथा हि गीयते–'सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि' इति ॥ १ ॥

 [१०६५]तथा तु बध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः ।
 निशश्वास महासर्पो [१०६६]बिलस्थ इव रोषितः ॥ २ ॥

 अथ प्रकृतिप्राबल्यात्प्रकृतिप्रयुक्तव्यापारमेव प्राप्तवानिति प्रदर्श्यते-तथा त्वित्यादि । तथा भयङ्करामित्यर्थः । बिलशब्देन पातुर्बिलमेव द्रष्टव्यम्। अन्यबिलस्थस्य परमसुखित्वेन निग्रहाभावेन रोषाद्यप्रसंगात् ॥ २ ॥

 तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा ।
 बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥

 प्रतिमुखतया वीक्षितुमशक्यं-दुष्प्रतिवीक्षम् । मुखस्य सदृशमिति । मुखस्य दुर्दर्शत्वेन सदृशमिति यावत् ॥ ३ ॥

 [१०६७]अग्रहस्तं विधून्वंस्तु [१०६८] । हस्ती हस्तमिवात्मनः ।


 तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ ४ ॥
 अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ।

 अग्रं हस्तस्याग्रहस्तं, एकदेशसमासः पूर्वपरादिव्यतिरिक्तस्थलेऽपि क्वचिद्भवति-सायमह्नस्सायाह्ने-सायाहनीतिवत् । आत्मनोऽग्रहस्तं विधून्वन्नित्यनेन रामेण क्षमापणाय लक्ष्मणहस्तो गृहीत इति शेष इत्यपि वक्तुं शक्यं, तथा प्रस्तावात् । तिर्यगित्यादिनाप्यतिक्रोधमूर्छन-प्रदर्शनम् । अग्राक्ष्णा-कटाक्षेण तिर्यग्वीक्षमाणः ॥ ४ ॥

 अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् ॥ ५ ॥
 [१०६९]धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ।

 अस्थान इत्यादि । धर्मदोषः-धर्मविरोधः, तत्प्रसङ्गेन-तत्परिहारशेषतया वनवासः कार्यः । लोकस्य प्राप्तातिशङ्कापरिहारहेतवे च । रामोऽपि पितृवचो नाकार्षीत्, कः खलु लोकेऽन्यः पितृवचः प्रमाणी-करिष्यतीति लोकनाशप्रसङ्गपरिहारार्थमित्यर्थः । तथा हि जगौ- 'यद्यदाचरति' इत्यादि 'उपहन्यामिमाः प्रजाः' इत्यन्तम् । उक्तहेतोः, वै-प्रसिद्धः सुमहानयं संभ्रमः-वनगमनत्वरात्मा यस्य ते जातः सोऽयमस्थाने अयुक्तः-भ्रान्तिमूल एवेत्यर्थः ॥ ५ ॥

 [१०७०]कथं ह्येतदसं[१०७१]भ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ ६ ॥
 यथा दैवमशौण्डीरं [१०७२]शौण्डीरः क्षत्रियर्षभः ।


 तथात्वमेव प्रतिपाद्यते-कथं हीत्यादि । अशौण्डीरं-असमर्थं-अकिञ्चित्करमेव दैवमिति किञ्चिद्वस्तु प्रबलमिति यथा त्वं वदसि एवं शौण्डीरः-दैवमपि निराकर्तुं समर्थः त्वद्विधः क्षत्रियर्षभो यद्यसंभ्रान्तः स्यात्तदासौ कथमेतद्वक्तुमर्हति ? न कथमपि ॥ ६ ॥

 किन्नाम कृपणं दैवमशक्तमभिशंससि ॥ ७ ॥

 अतः कृपणं-असमर्थैकपरिग्राह्यं अतश्शोच्यं-दीनं पौरुषसन्निधौ मन्दबलं, अत एवाशक्तं-पौरुषमतिक्रम्य कार्यासमर्थप्राक्कृतवत्किं नामाभिशंससि-अभिष्टौषि ॥ ७ ॥

 पापयोस्ते कथं नाम तयोश्शङ्का न विद्यते ।

 एवं देवावलम्बनवादं प्रतिक्षिप्य धर्मदोषप्रसङ्गं परिहरति-पापयोरित्यादि । पापात्मनोस्तयोः-कैकेयीदशरथयोर्विषये ते कथं नाम शङ्का-पापात्मत्वशङ्का न विद्यते ॥

 सन्ति [१०७३]धर्मोपधासक्ता धर्मात्मन् ! किं न बुध्यसे ॥ ८ ॥
 [१०७४]तयोस्सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः ।

 ननु कथं धर्मावलम्बनव्यवहारयोस्तयोः पापशङ्काप्रवृत्तिरित्यत्राह-सन्तीत्यादि । हे धर्मात्मन् लोके धर्मोपधासक्ताः-धर्मव्याजपराः बहिः, अन्तः प्रच्छन्नपापजनास्सन्तीत्येतन्न बुध्यसे किम् ? अस्ति लोके,


प्रकृते तथात्वं कथमित्यत्राह-तयोरित्यादि । सुचरितं त्वां त्वदर्थं च शाठ्यात्-मृषाक्लृप्तधर्मव्यवहारात् परिजिहीर्षतोः-निरासिसिष्वो-स्तयोरप्युक्तहेतोर्धर्मकञ्चुकत्वमेव ॥ ८ ॥

 [१०७५]यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ! ॥ ९ ॥
 तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ।

 एवन्त्वस्य प्रयोजकश्शाठ्यहेतुरसिद्ध एवेत्याशंक्य तमर्थापत्त्या साधयति-यदीत्यादि । हे राम ! यद्येवं न व्यवसितं-त्वदर्थप्रच्या-वनमेव येनकेनचिच्छाठ्येन चिकीर्षितं यदि न स्यात्, वरप्रसङ्गश्च यदि सत्यः स्यात् तदा तु हि-यस्मात् प्रागेव-पूर्वकाल एव प्रकृतः-[१०७६]प्रवृत्तप्रसङ्गः स वरः राज्ञो मनसि विपरिवर्तमानो युष्मदभिषेकप्रसङ्गात्प्रागेव दत्तश्च स्यात् । 'अस्यै वरद्वयं दत्तं, इदमवश्यं निर्यातनीयम्; अन्यथा लोकचित्तस्यार्थपरस्यातिचलत्वादाभिषेकविघ्न एतद्वारा भविष्यति' इति निश्चित्य त्वदर्थविघ्नव्यतिरिक्तेनैव केनचिदर्थेन पूर्वमेव [१०७७]निर्यातयेत् । तत्तु न कृतम् । अत उभावपि त्वदर्थप्रच्यावने हृदयशठावित्यर्थः । अत्र यद्यपि परिहारोऽस्ति-वृद्धत्वाद्राज्ञा विस्मृतो वरप्रसङ्गः । तया तु गूढहृदयत्वाद्यावत्स्वाभिमतकालं गुप्तमित्यादिकं-अथापि रुष्टेन तत्सर्वं न परिहर्तव्यमित्युपेक्षितम् ॥ ९ ॥


 लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ॥ १० ॥
 नोत्सहे सहितुं, वीर ! तत्र [१०७८] मे क्षन्तुमर्हसि ।

 यदेवमतो–लोकेत्यादि । ज्येष्ठे श्रेष्ठगुणे जाग्रति कनिष्ठविषयत्वाल्लोकविद्विष्टत्वम् । प्रत्यक्षविरुद्धं शास्त्रविरुद्धं चेत्यर्थः । लोक्यत अनेन तत्त्वमिति लोकः शास्त्रं च । एवञ्च स्वपक्षे लक्ष्मणेन युक्तिरुपदिष्टा वेदितव्या । तत्र मे-तद्विषयकं मम प्रतिवचनापराधमित्यर्थः ॥ १० ॥

 येनेयमागता द्वैधं तव बुद्धिर्महामते ॥ ११ ॥
 सोऽपि धर्मो मम द्वेष्यो [१०७९]यत्प्रसङ्गाद्विमुह्यसि ।

 तदेव प्रतिवचनं वक्ति-येनेत्यादि । यस्य पितृवचनस्य प्रसङ्गात्-धर्मत्वप्रसङ्गान्मुह्यसि, येन च तद्धर्मत्वमोहेनेयं तव बुद्धिः द्वैधं-द्विप्रकारं राज्यग्रहत्तत्त्यागलक्षणद्विप्रकारं गता, "द्वित्र्योश्च धमुञ्' इति प्रकारार्थे धमुञ्, स हि धर्मो मम द्वेष्यः-[१०८०]धर्माभासत्वादनङ्गीकार्य इत्यर्थः ॥ ११ ॥

 कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ॥ १२ ॥
 करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् !

 [१०८१]आभासत्वमेव प्रतिपादयति-कथमित्यादि । कर्मणा-अचिन्त्य-वैभवस्वक्रियाशक्त्या कर्तुमकर्तुमन्यथाकर्तुं च शक्तः-समर्थस्त्वं कैकेयी-वशवर्तिनः पितुर्वाक्यमुक्तहेतोरेवाधर्मिष्ठं विगर्हितं च कथं करिष्यसि ॥


 [१०८२]यस्त्वयं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते ॥ १३ ॥
 [१०८३]जायते तत्र मे दुःखं [१०८४]धर्मसङ्गश्च गर्हितः ।

 एवमधर्मे प्रस्पष्टेऽपि तव धर्मबुद्धिर्न जातेति मे दुःखमित्याह-य इत्यादि । यस्त्वयं भेदः-अभिषेक[१०८५]विघटनात्मा उक्तरीत्या किल्बिषात्-मृषावरप्रकल्पनादेव कृतः, एवमपि सर्वथैव तत्त्वत्वेऽपि त्वयैवं न गृह्यत इति यत् तत्र-अत्र मे दुःखं जायते । एवं तत्त्वग्रहा-भावादेव जायमानो गर्हितो धर्मसङ्गश्च-धर्मत्वबुद्धिश्च मम दुःखाय जायते ॥ १३ ॥

 मनसाऽपि कथं कामं [१०८६]कुर्यात्त्वां कामवृत्तयोः ॥ १४ ॥
 तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ।

 पुनश्च दोषस्य दोषत्वेनाग्रहमेव शोचति-मनसाऽपीत्यादि । त्वां विना, केवलदैष्टिकसाधुं विनेत्यर्थः, कामवृत्तयोस्तयोर्वचः परिपालनं मनसाऽपि कथं कुर्यात् ? मनसाऽपि नाशास्ते, अनुष्ठानं तु दूर इत्यर्थः ॥

 यद्यपि प्रतिपत्तिस्ते दैवी चापि तयो[१०८७]मर्तम् ॥ १५ ॥
 तथाप्युपेक्षणीयं ते न मे तदपि रोचते ।

 इदानीं वरप्रसङ्गस्य वास्तवत्वमङ्गीकृत्याप्याह–यद्यपीत्यादि । तयोः पित्रोः प्रतिपत्तिः-स्वपुत्राभिषेकत्ववनवासविषयकवरग्रहगोचरा पितुश्च तदनुमतिगोचरा बुद्धिः दैवी-देवकृता इति ते मता, अथापि तदनुवर्तनं ते उपेक्षणीयं-उपेक्षार्हं,'अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु' इत्यादिस्मृतेर्मुख्योदाहरणत्वात् । एवमुपेक्षणीयमपि नोपेक्षस इति यत्तदपि मे न रोचते ॥ १५ ॥


 [१०८८]विक्लबो वीर्यहीनो यः स दैवमनुवर्तते ॥ १६ ॥
 वीरास्संभावितात्मानो न दैवं पर्युपासते ।

 इदानीं त्वादृशस्य दैवावलम्बनवादो न युक्त इत्याह-विक्लब इत्यादि । संभावितात्मानः-सर्वलोकोपश्लाघनीययशोवीर्यादिमन्त इति यावत् ॥ १६ ॥

 न दैवेन विपन्नार्थः पुरुषस्सोऽवसीदति ।
 दैवं पुरुषकारेण यस्समर्थः प्रबाधितुम् ॥ १७ ॥

 विपन्नार्थः-हतप्रयोजनः ॥ १७ ॥

 द्रक्ष्यन्ति त्वद्य देवस्य पौरुषं पुरुषस्य च ॥ १८ ॥
 दैवमानुषयोरद्य व्यक्तिर्व्यक्ता भविष्यति ।

 ननु दैवबाधकत्वं कस्यचिदपि पुरुषस्य न समस्ति, येनाहं दैष्टिकमवलम्बय इत्यत्राह-द्रक्ष्यन्तीत्यादि । दैवमानुषयोर्व्यक्तिः-प्रबलदुर्बलविवेकः व्यक्ता भविष्यति । अद्य मत्पौरुषेणैवेति शेषः ॥

 अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ॥ १९ ॥
 [१०८९]देवि ! दैवहतं तेऽद्य दृष्टं राज्याभिषेचनम् ।

 तदेवाह-अद्येति । हे देवि-कौसल्ये ! यथा राज्याभिषेचनं दैवहतं दृष्टं जनैस्त एव जना अद्य दैवं च मत्पौरुषहतं द्रक्ष्यन्ति ॥


 अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ॥ २० ॥
 प्रधावितमहं दैवं पौरुषेण निवर्तये ।

 अत्यङ्कुशं-अतिक्रमिताङ्कुशव्यापारं उद्दामं-[१०९०]उत्कृष्टदामबन्धं, अत एव प्रधावितं-दुर्निवारस्वच्छन्दगमनं गजमिव दैवमपि पौरुषेण पुरुषगतज्ञानबलादिसामर्थ्येन निवर्तये-निरोधयामि ॥ २० ॥

 लोकपालास्समस्ता ये नाद्य रामाभिषेचनम् ॥ २१ ॥
 न च कृत्स्नास्त्रयो लोका विहन्युः किंपुनः पिता ।

 दैवनिवर्तनं स्वपौरुषस्येषत्करमित्याह-लोकेत्यादि ॥ २१ ॥

 यैर्विवासस्तवारण्ये मिथो, राजन् ! समर्थितः ॥ २२ ॥
 अरण्ये ते विवत्स्यन्ति चतुर्दशसमास्तथा ।

 राजन्नित्यनेन स्वपौरुषेण राजत्वस्य सिद्धवत्कृत्यवादः ॥ २२ ॥

 अहं तदाशां छेत्स्यामि पितुस्तस्याश्च, या तव ॥ २३ ॥
 अभिषेकविघातेन पुत्रराज्याय वर्तते ।

 पुत्रराज्याय-पुत्रराज्यप्रापणार्थम् ॥ २३ ॥

 [१०९१]त्वद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ॥ २४ ॥
 प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ।

 त्वद्बलेन-त्वत्पक्षभूतेन मया विरुद्धाय-कृतविरोधाय ममोग्रं पौरुषं यथा दुःखाय प्रभविष्यति, तथा तस्य दैवबलं तन्निराससमर्थं न स्यात् ॥ २४ ॥


 ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्य मनन्तरम् ॥ २५ ॥
 [१०९२]आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ।

 अथ वनवासस्योचितं कालं स्वयमेवाह-ऊर्ध्वमित्यादि । अस्यैव विवरणं—–वर्षसहस्रान्त इति । [१०९३]पालनं-पाल्यं, भावे घञ्, स्वार्थे यत्, प्रजापालनानन्तरमिति यावत्, तत्कृत्वा यथाप्राप्तकालं त्वयि वनवासं गते सति ततःपरं आर्यस्य भवतः पुत्राः प्रजा[१०९४]पाल्यं करिष्यन्ति ॥ २५ ॥

 पूर्वराजर्षिवृत्त्या हि वनवासो [१०९५]विधीयते ॥ २६ ॥
 प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ।

 स्वोक्तवनवासोऽशेषसम्मत इत्याह-पूर्वेत्यादि । पुत्रवत्प्रजानां परिपालननिमित्तं प्रजाः पुत्रेषु निक्षिप्य पश्चाद्धि वनवासः पूर्वराजर्षिवृत्त्या-आचारेण [१०९६]विधीयते ॥ २६ ॥

 [१०९७]स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ॥ २७ ॥
 नैवमिच्छसि, धर्मात्मन् ! [१०९८]राज्यकामत्वमात्मनि ।
 प्रतिजाने च ते, वीर ! मा भूवं वीरलोकभाक् ॥ २८ ॥
 राज्यं च तव रक्षेयं अहं वेलेव सागरम् ।


 अनेकाग्रे-कामवशादुक्तवानप्रस्थधर्मानुष्ठानैकाग्र्यरहिते राजनि स धर्मो ज्येष्ठराज्याभिषेकपूर्ववनवासधर्मो न चेत्, हे धर्मात्मन् ! राज्यबिभ्रमशङ्कयैव-कुलदूषणकरकनिष्ठराज्यकरणरूपविपर्ययप्रसङ्गादेव-

तत्परिहारार्थमेव केवलं-आत्मनि राज्यकामत्वं- राज्यरूपभोग्यसम्बन्ध-वत्त्वमिच्छसि–अङ्गीकरोषि चेत्, तावन्मात्रमेव त्वया संपाद्यं प्रजारक्षणक्लेशो न त्वयाऽनुभवितव्यः, वेला सागरमिव तव राज्यमहं रक्षेयं ;अन्यथाऽहं वीरलोकभाक् मा भूवमिति प्रतिजाने च । अत्र यद्वा भट्टः इतस्ततः कुड्येन शिरस्ताडयति । तत्र न किञ्चिदपि सङ्गतं पश्यामः ॥

 [१०९९]मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतोऽभव ॥ २९ ॥

 यदेवं अतः-मङ्गलैः-अभिषेकसाधनैः अभिषिञ्चस्वात्मानम् । तत्र त्वं-तत्रैवाभिषेकव्यापारे व्यापृतः-व्यापृतचित्तो भव ॥ २९ ॥

 अहमेको महीपालानलं वारयितुं बलात् ।

 भवत्प्रतिबन्धनिरासेऽहं तिष्ठामीत्याह-अहमित्यादि । अलं-समर्थोऽस्मि ॥

 न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ॥ ३० ॥
 [११००]नासिराबन्धनार्थाय न शराः [११०१].स्तम्भहेतवः ।
 अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम् ॥ ३१ ॥


 त्वदिष्टाचरणप्रयोजनकमेव मम बाहुवीर्यादिकमित्याह-[११०२]न म इत्यादि । असिः-खड्गः । आबन्धनार्थाय-आराद्बध्यत इत्याबन्धनमलङ्कारः । स्तम्भः–काष्ठादिकिञ्चित्पदार्थस्याधःपतनस्तम्भनम्,

तस्य हेतवस्तथा ॥ ३१ ॥

 न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम[११०३]

 न चेत्यादि । यश्शत्रुर्मम मतः-मद्बाहुबलानुरूपो मतः स्यात्-न च तादृशं पश्यामि । तत्प्राप्तिमहमत्यर्थं कामये ॥

 असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ॥ ३२ ॥
 प्रगृहीतेन [११०४]वै शत्रुं वज्रिणं वा न कल्पये ।

 विद्युच्चलितेति । निष्ठायाः परनिपातः आहिताग्न्यादित्वात्, चलितविद्युत्समानतेजस्केनेति यावत् । प्रगृहीतेन तेनानेन खड्गेन छेदनानुरूपं वज्रिणमपि न कल्पये-न कमपि संभावयामीत्यर्थः ॥

 खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्वरा च मे ॥ ३३ ॥
 [११०५]हस्त्यश्व[११०६]नरहस्तोरुशिरोभिर्भविता मही ।

 हस्त्यादीनां क्रमाद्धस्तादिभिः सम्बन्धः । भवितेति लुट् ॥


 खड्गधाराहता मेऽद्य दीप्यमाना [११०७]इवाद्रयः ॥ ३४ ॥
 पतिष्यन्ति [११०८]द्विधा भूमौ मेघा इव सविद्युतः ।

 खड्गधारया हताः-छिन्नाः रक्तधारया दीप्यमानाः अत एव सविद्युतो मेघा इव स्थिता-हस्त्यादयो भूमौ द्विधा पतिष्यन्ति । सम्यक्कृत्तत्वादित्यर्थः ॥ ३४ ॥

 [११०९]बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ॥ ३५ ॥
 कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ।

 बद्धगोधाङ्गुलित्राणादिधर्मके मयि स्थिते सति मत्पुरतः पुरुषाणां मध्ये कथं पुरुषमानी-प्रतिभटपुरुषमानी स्यात् । न कथमपि समस्ति । सर्वथैवास्मदपेक्षया [१११०]सर्वप्रतिभटस्य दुर्लभस्वादित्यर्थः ॥ ३५ ॥

 [११११]बहुभिश्चै[१११२]कमर्त्यस्य नैकेन च बहुञ्जनान् ॥ ३६॥
 विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु ।

 बहुभिरित्यादि । एकमर्त्यस्य-एकमनुष्यस्य संहारो बहुभिर्बाणैर्न क्रियते ; अपि त्वेकेनैव बाणेन बहुञ्जनान् संहरामि । एवं प्रकारेण मदीयान् बाणान् नृवाजिगजमर्मसु विनियोक्ष्यामि ॥ ३६ ॥

 अद्य मेऽस्त्र[१११३]प्रभावस्य प्रभावः [१११४]प्रतरिष्यति ॥ ३७॥
 राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो !


 अध मेऽस्त्रप्रभावस्य-अस्त्रसामर्थस्य प्रभावः-महिमा, हे प्रभो ! तव प्रभुत्वं कर्तुं-संपादयितुं त्वदन्यस्य अप्रभुतामपि संपादयितुं राज्ञः प्रभुतां प्रतरिष्यति प्लावयिष्यति-नाशयिष्यतीति यावत् ॥ ३७ ॥

 [१११५]अद्य चन्दनसारस्य केयूरामोक्षणस्य च ॥ ३८ ॥
 वसूनां च विमोक्षस्य सुहृदां पालनस्य च ।
 अनुरूपाविमौ बाहू, राम ! कर्म करिष्यतः ॥ ३९ ॥
 अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ।

 चन्दनसारस्येति । कल्याणप्रयोजनचन्दनसारानुलेपनस्येत्यर्थः । अनुरुपौ-अर्हौ । हे राम ! तेऽभिषेचन(क)विघ्नस्य कर्तॄणां-निवारणविषये कर्म करिष्यतः ॥ ३९ ॥

 ब्रवीहि कोऽद्यैव मया वियुज्यतां
  तवासुहृत्प्राणयशस्सुहृज्जनैः ।
 यथा तवेयं वसुधा वशे भवेत्
  तथैव मां शाधि तवास्मि किङ्करः ॥ ३९ ॥

 ब्रवीहीति । 'सेर्ह्यपिच्च' 'बहुलं छन्दसि' इति पित्वस्य च विद्यमानत्वात् 'ब्रुव ईट्' इतीट् ॥ ३१ ॥

 [१११६][१११७]विसृज्य बाष्पं परिमृज्य चक्षुषी
  स लक्ष्मणं राघववंश[१११८]वर्धनः ।
 उवाच [१११९]पित्रोर्वचने व्यवस्थितं
  निबोध मामेष हि, सौम्य ! सत्पथः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोविंशः सर्गः



 एवं लक्ष्मणसंरम्भमुक्ता-भगवता 'नायमेतस्य कालः' इत्युपदिश्यत इत्याह-विसृज्येत्यादि । अन्तर्भावितणिः । बाष्पं विसर्जयित्वा-लक्ष्मणस्य चक्षुषी परिमृज्येति यावत्। पित्रोर्वचने व्यवस्थितं-प्रतिष्ठितं मां निबोध । हे सौम्य ! एष हि सत्पथः-समीचीनः पन्थाः । 'जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता' इति न्यायादित्याशयः । नव (४०) मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयोविंशः सर्गः


चतुर्विंशः सर्गः

[कौसल्यासमाश्वासः]

 तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने ।
 कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ १ ॥

 एवं धर्म्यं राघवस्य निश्चयं दृष्ट्वा 'धर्मो जयति नाधर्मः' इति मत्यालम्बनेन कौसल्याया रामप्रवासानुमतिः । तं समीक्ष्येत्यादि । निर्देशः-निवेश इति यावत् ॥ १ ॥

 अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।
 मयि जातो दशरथात् कथ [११२०]मुञ्छेन वर्तयेत् ॥ २ ॥

 वर्तयेत्-जीवेत् । भवानिति शेषः[११२१] ॥ २ ॥


 यस्य भृत्याश्च [११२२]दासाश्च मृष्टान्यन्नानि भुञ्जते ।
 कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३ ॥

 भृत्याः-मन्त्रिमुख्याः-भर्तुं योग्याः । दासाः-भुजिष्याः ॥

 [११२३]क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् ।
 गुणवान् दयितो [११२४]राज्ञा राघवो यद्विवास्यते ॥ ४ ॥

 विवास्यत इति यत् तच्च कः श्रद्दधेत्-इत्यन्वयः । परमार्थतो विवासं श्रुत्वा-श्रवणं प्राप्य तु कस्य वा भयं न भवेत्-स्वस्त्रीपुत्रादिस्नेहशैथिल्यस्मृतिशङ्काजनितम् ॥ ४ ॥

 नूनं तु बलवान् लोके कृतान्तस्सर्वमादिशन् ।
 लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ ५ ॥

 सर्वमादिशन्-सर्वं दुःखं प्रयच्छन् । लोके-कर्मलेोके । यत्रयस्मात् ॥ ५ ॥

 अयं तु मामात्मभवः तवादर्शनमारुतः ।
 [११२५]विलांपदुःखसमिधः रुदिताश्रुहुताहुतिः ॥ ६ ॥
 चिन्ताबाष्पमहाधूमस्तवा[११२६]गमनचिन्तजः ।
 कर्शयित्वा भृशं, पुत्र ! निश्वासायाससंभवः ॥ ७ ॥
 त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।
 प्रधक्ष्यति यथा कक्षं [११२७]चित्रभानुर्हिमात्यये ॥ ८ ॥


 शोकाग्निः प्रधक्ष्यतीति वक्ष्यति । तस्यामिसमाधिमाह-अयं तु मामित्यादि । आत्मभवः-स्वमनसस्सम्भूतः । विलापदुःखैः समिधः-समिन्धनं यस्य स तथा, 'घञर्थे कविधानं' इति कः ।

रुदिताश्रूण्येव हुताः-कृतहोमाः आहुतयो यस्य स तथा । 'अन्येषामपि दृश्यते' इति दीर्घः श्रमेण । तवागमनचिन्ताजनितनिश्वासरूपेणायासेन-प्रयासेन पुनःपुनस्सन्धुक्षणरूपेण संभवः-वृद्धिर्यस्य स तथा ॥ ८ ॥

 कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति ।
 अहं त्वाऽनुगमिष्यामि, पुत्र ! यत्र गमिष्यसि ॥ ९ ॥
 यथानिगदितं मात्रा तद्वाक्यं पुरुषर्षभः ।
 श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १० ॥

 यथानिगदितं-येन प्रकारेण निगदितं तथा तद्वाक्यं श्रुत्वा-आत्मानुगमनं श्रुत्वेति यावत् ॥ १० ॥

 कैकेय्या वञ्चितो राजा, मयि चारण्यमाश्रिते ।
 भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११ ॥

 वञ्चित इति । परित्यक्त इति यावत् । न वर्तयिष्यति-न जीविष्यतीति यावत् ॥ ११ ॥

 भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः ।
 स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः ॥ १२ ॥

[११२८]केवलं नृशंसः-क्रौर्यमात्रम् । न तेनेहामुत्र च सुखमित्यर्थः । मनसाऽपि न कर्तव्यः-न चिन्तनीय इति यावत् । तत्र हेतुः-विगर्हित इति ॥ १२ ॥


 यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः ।
 शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातनः ॥ १३ ॥

 यदेवमतः–यावदित्यादि ॥ १३ ॥

 एवमुक्ता तु रामेण कौसल्या शुभदर्शन ।
 तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १४ ॥
 एवमुक्तस्तु वचनं रामो धर्मभृतां वरः ।
 भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १५ ॥

 एवं वचनमुक्तः–भर्तृशुश्रूषाङ्गीकारवचनमुक्तः, कर्मणि निष्ठा ॥ १५ ॥

 मया चैव भवत्या च कर्तव्यं वचनं पितुः ।
 [११२९]राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १६ ॥

 उभाभ्यामवश्यकर्तव्यमित्यत्र क्रमाद्धेतुः-भर्ता गुरुरितिभर्ता-भरणकर्ता ।[११३०] ॥ १६ ॥

 [११३१]इदानीं तु महारण्ये विहृत्य नव पञ्च च ।
 वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १७ ॥
 एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ।
 उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १८ ॥

 पितृशुश्रूषणानन्तरं त्वच्छुश्रूषणमपि करोमीत्याह-इदानीमित्यादि । विहृत्येत्यनेन वनवासो मृगयावत्क्रीडैव मे इति दर्शितम् ॥


 आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।
 [११३२]नय मामपि काकुत्स्थ ! वनं वन्यां मृगीमिव ॥ १९ ॥

 यदि ते गमने बुद्धिः कृता पितुरपेक्षया । अङ्गीकृतवनवासापि सपत्नीदुःखस्मरणात् पुनश्च रामानुगमनमभिलषति–आसामित्यादि । वन्यां-वने भवाम् ॥ १९ ॥

 तां तथा रुदतीं रामोऽ[११३३]रुदन् वचनमब्रवीत् ।
 जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च ॥ २० ॥
 भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ।

 अरुदन्-रुदन्तीमपि तां दृष्ट्वा स्वयमरुदन्नित्यर्थः । [११३४]रोदने तु कातर्यप्राकट्यतो मे मातुः पुनरप्यनुगमनप्रत्याशाप्रसङ्ग इति भावः ॥  [११३५]न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता ॥ २१ ॥

 धीमतेति । सनाथा इति शेषः ॥ २१ ॥

 भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।
 भवतीमनुवर्तेत स हि धर्मरतस्सदा ॥ २२ ॥

 अथ सपत्नीमध्यवासो दुष्कर इति यदुक्तं तत्र परिहारमाह-भरत इत्यादि । भवतीमनुवर्तेतेति । अतः कैकेयीकोपोऽकिश्चित्कर इत्याशयः ॥ २२ ॥


 यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।
 श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ २३ ॥
 [११३६]दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ।
 राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ २४ ॥

 एनं-राजानम् ॥ २४ ॥

 व्रतोपवासनिरता या नारी परमोत्तमा ।
 भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ॥ २५ ॥
 भर्तृशुश्रूषया नारी लभते [११३७]स्वर्गमुत्तमम् ।

 द्विजमात्रस्य गायत्रीवत् स्त्रिया भर्तृशुश्रूषणस्यैव नित्यत्वात् [११३८]नित्याकृतिजप्रत्यवायानर्थमनित्यकृतिस्साङ्गापि परिहर्तुं न शक्नोतीत्याहव्रतेत्यादि ॥ २५ ॥

 अथ या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ २६ ॥
 शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।
 एष धर्मः [११३९]स्त्रिया नित्यो [११४०]लोके वेदे श्रुतः स्मृतः ॥ २७॥

 अथ नित्यानुष्ठाने सत्यनित्याकरणे न तु लोकक्षय इत्याह- अथ येत्यादि । निर्नमस्कारा-भर्तृव्यतिरिक्तस्य यस्य कस्यापि नमस्काराद्युपचाररहितापि-विशिष्य कुलदैवतब्रह्मादिदेवपूजारहिता च, अथापि भर्तृशुश्रूषां कुर्वीत यदि न तस्या उक्तानित्या करणेन काचित्क्षतिः । अत एष एव स्त्रिया नित्यः श्रुतः-श्रुतिभिः स्मृतः-स्मृतिभिश्चेत्यर्थः ॥


 [११४१]अग्निकार्येषु च सदा सुमनोभिश्च देवताः ।
 पूज्यास्ते मत्कृते, देवि ! ब्राह्मणाश्चैव सुव्रताः ॥ २८ ॥

 तर्हि कर्मान्तरं न कर्तव्यम् ? इत्यत्र तदपि कर्तव्यमेव, ऐहिकाभ्युदयार्थमित्याह–अग्नीत्यादि । सदा तत्परा भवेति शेषः ॥ २८ ॥

 एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी ।
 नियता नियताहारा भर्तुशुश्रूषणे रता ॥ २९ ॥
 प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।
 यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ ३० ॥

 काममिति । ऐहिकविषयजसुखमिति यावत् । तस्य पुत्र-मात्रासाध्यत्वादाहयदीत्यादि ॥ ३० ॥

 एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।
 कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ ३१ ॥
 गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक !
 विनिवर्तयितुं वीर ! नूनं [११४२]कालो कालः-इष्ट-वियोगादिजनकः-ति. दुरत्ययः ॥ ३२ ॥

 सुकृतां-सुष्टु कृतनिश्चयाम् । कालः-कालनिमित्तकेष्टवियोगादिरित्यर्थः ॥ ३२ ॥

 गच्छ, पुत्र ! त्वमेकाग्रो भद्रं तेऽस्तु सदा, विभो !
 पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ॥ ३३ ॥


 प्रत्यागते महाभागे कृतार्थे चरितव्रते ।
 [११४३]पितुरानृण्यतां प्राप्ते [११४४]त्वयि लप्स्ये परं सुखम् ॥ ३४ ॥
 कृतान्तस्य गतिः, पुत्र! दुर्विभाव्या सदा भुवि ।
 यत्त्वा सञ्चोदयति मे वच आच्छिद्य, राघव ! ॥ ३५ ॥

 मे वच आच्छिद्य-निराकृत्य स्वा-स्वां सञ्चोदयति यत्-वनायेति शेषः, अतो दुर्विभाव्या ॥ ३५ ॥

 गच्छेदानीं, महाबाहो ! क्षेमेण पुनरागतः ।
 नन्दयिष्यसि मां, पुत्र ! साम्ना [११४५]शुक्लेन चारुणा ॥ ३६ ॥

 शुक्लेन-निर्मलेन-नीरागदोषेण । चारुणा-मनोहरेण । साम्नासान्त्ववचनेन ॥ ३६ ॥

 [११४६]अपीदानीं स कालः स्याद्वनात्प्रत्यागतं पुनः ।
 यत्त्वां, पुत्रक! पश्येयं जटावल्कलधारिणम् ॥ ३७ ॥

 तथा हि रामं वनवास निश्चितं
  समक्ष्य देवी परमेण चेतसा ।
 उवाच रामं शुभलक्षणं वचः
  बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्विशः सर्गः



 स्वस्त्ययनं-मङ्गलमभिकांक्षितुं शीलमस्त्यस्या इति तथा । दल (३८) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्विंशः सर्गः


पञ्चविंशः सर्गः

[कौसल्यास्वस्त्ययनम्]

 साऽपनीय [११४७]समायासमुपस्पृश्य जलं [११४८] शुचिः ।
 चकार माता रामस्य मङ्गळानि मनस्विनी ॥ १ ॥

 'स्वस्त्ययनाभिकाङ्क्षिणी बभूव' इत्युक्तम् । तामेव कांक्षां कौसल्या पूरयति-साऽपनीयेत्यादि । समायासः-शोकः । मङ्गलानि-मङ्गलवचनानि ॥ १ ॥

 [११४९] शक्यसे वारयितुं गच्छेदानीं, रघूत्तम !
 शीघ्रं च विनिवर्तस्व वर्तस्व च सतां [११५०]क्रमे ॥ २ ॥

 क्रम्यत इति क्रमः-मार्गः ॥ २ ॥

 यं पालयसि धर्म त्वं [११५१]प्रीत्या च नियमेन च ।
 स वै, राघवशार्दूल ! धर्मस्त्वामभिरक्षतु ॥ ३ ॥
 येभ्यः प्रणमसे, पुत्र ! [११५२] [११५३]चैत्येष्वायतनेषु च ।
 ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ४ ॥

 ते चेति । देवा इति शेषः ॥ ४ ॥


 यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ।
 तानि त्वामभिरक्षन्तु गुणैस्समुदितं सदा ॥ ५ ॥
 पितृशुश्रूषया, पुत्र ! मातृशुश्रूषया तथा ।
 सत्येन च, महाबाहो ! चिरं जीवाभिरक्षितः ॥ ६ ॥
 समित्कुशपवित्राणि वेद्यचायतनानि च ।
 स्थण्डिलानि [११५४]विचित्राणि शैला वृक्षाः क्षुपा हृदाः ॥ ७ ॥
 पतङ्गाः पन्नगास्सिंहाः त्वां रक्षन्तु, नरोत्तम !

 समित्कुशादौ तदधिष्ठात्र्यो देवता उपलक्ष्यन्ते । क्षुपाः-ह्रस्वशाखास्तरवः ॥ ७ ॥

 स्वस्ति साध्याश्च [११५५]विश्वे च मरुतश्च महर्षयः ।
 स्वस्ति[११५६] धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥ ८ ॥

 स्वस्ति–कुर्वन्त्वित्यग्रेण सम्बन्धः । धाता-आधार[११५७]धर्मप्रधानो भगवान्विराड्विष्णुः । विधाता- स्रष्टा, स एव सर्गविधायकः प्राजापत्यात्मा । [११५८]पूषा भगोऽर्यमेति रेवत्यादिनक्षत्राधिष्ठातृदेवताः ॥८॥

 लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ।
 ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः ॥ ९ ॥
 दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ।
 [११५९]स्मृतिधृतिश्च धर्मश्च पातुं त्वां, पुत्र ! सर्वतः ॥ १० ॥

 स्मृतिधृती-ध्यानसमाधिलक्षणयोगौ ॥ १० ॥


 स्कन्दश्च भगवान् देवः [११६०]सोमश्च सबृहस्पतिः ।
 सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ ११ ॥
 याश्चापि सर्वतः सिद्धाः दिशश्च सदिमीश्वराः ।
 स्तुता मया वने तस्मिन् पान्तु त्वां, पुत्र ! नित्यशः ॥ १२ ॥
 शैलास्सर्वे समुद्राश्च राजा वरुण एव च ।
 द्यौरन्तरिक्षं पृथिवी [११६१]नद्यस्सर्वास्तथैव च ॥ १३ ॥
 नक्षत्राणि च सर्वाणि ग्रहाश्च [११६२]सहदेवताः ।
 अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ॥ १४ ॥

 ग्रहाः-कुजादयः । [११६३]सहदेवताः-तत्तदधिदेवतासहिताः ॥ १४ ॥

 [११६४]ऋतवश्चैव षट् पुण्या मासास्संवत्सरास्तथा ।
 कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ १५ ॥
 ऋतवश्चैवेत्यादौ पुनः ऋत्वाद्यधिदेवताग्रहणमिति न दोषः ॥
 महावने विचरतो मुनिवेषस्य धीमतः ।
 तवादित्याश्च दैत्याच भवन्तु सुखदास्सदा ॥ १६ ॥
 राक्षसानां पिशाचानां [११६५]रौद्राणां क्रूरकर्मणाम् ।
 [११६६]क्रव्यादानां च सर्वेषां मा भूत्, पुत्रक ! ते भयम् ॥ १७॥

 सर्वेषामिति । सर्वेभ्य इति यावत् ॥ १७ ॥


 प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ।
 सरीसृपाश्च कीटाश्च मा भूवन्[११६७] [११६८]भवने तव ॥ १८ ॥

 प्लवगाः-वानराः । दंशाः-वनमक्षिकाः । तव भवने-गृहे । मा भूवन् मा स्तु ॥ १८ ॥

 महाद्विपाञ्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ।
 महिषाः शुङ्गिणो रौद्रा न ते द्रुह्यन्तु, पुत्रक ! ॥ १९ ॥

 ऋक्षाः-भल्लूकाः । न ते द्रुह्यन्तु, 'क्रुवद्रुह' इत्यादिना चतुर्थी ॥

 नृमांसभोजना रौद्रा ये चान्ये [११६९] सत्त्वजातयः ।
 मा च त्वां हिंसिषुः पुत्र ! मया संपूजितास्त्विह ॥ २० ॥
 [११७०]आगमास्ते शिवास्सन्तु सिध्यन्तु च पराक्रमाः ।
 [११७१]सर्वसंपत्तयो, राम ! स्वस्तिमान् गच्छ, पुत्रक ! ॥ २१ ॥

 गम्यन्त इति गमाः । आगमाः-सर्वे मार्गा इत्यर्थः । सर्वसम्पतयः-वनवासापेक्षिताः फलमूलादयः । सन्त्विति शेषः ॥ २१ ॥

 स्वस्ति [११७२]ते त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ।
 सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥ २२ ॥
 [११७३]गुरुस्सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ।
 पान्तु त्वामर्चिताः, राम ! दण्डकारण्यवासिनम् ॥ २३ ॥


 पृथिव्यां भवाः पार्थिवाः । देवेभ्यस्सकाशाते स्वस्त्यस्त्विति योजना। ये च ते परिपन्थिनः तेभ्यः सोमादयः पान्तु ॥ २३ ॥

 अग्निर्वायुस्तथा धूमो मन्त्रावर्षिमुखच्च्युताः ।
 उपस्पर्शनकाले तु पान्तु त्वां, रघुनन्दन ! ॥ २४ ॥

 ऋषिमुखाच्च्युताः-निर्गताः, त्वया गृहीताश्चेति शेषः ॥ २४ ॥

 सर्वलोकप्रभुर्ब्रह्मा [११७४] भूतभर्ता तथर्षयः ।
 ये च शेषास्सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥ २५ ॥
 इति माल्यैस्सुरगणान् गन्धैश्चापि यशस्विनी ।
 स्तुतिभिश्चा [११७५]नुकूलाभिरानर्चायतलोचना ॥ २६ ॥
 ज्वलनं [११७६]समुपादाय ब्राह्मणेन महात्मना ।
 हावयामास विधिना राममङ्गलकारणात् ॥ २७ ॥
 घृतं श्वेतानि माल्यानि [११७७]समिधः श्वेतसर्षपान् ।
 उपसंपादयामास कौसल्या परमाङ्गना ॥ २८ ॥

 उपसंपादयामासेति । होमायेति शेषः ॥ २८ ॥

 उपाध्यायः स विधिना हुत्वा शान्ति मनामयम् ।
 हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ २९ ॥

 अनामयं-आरोग्यं, उद्दिश्येति शेषः । बाह्य-होमस्थानाद्बहिर्भवम् ॥ २९ ॥

 मधु दध्यक्षघृतैः [११७८]स्वस्तिवाच्यं द्विजांस्ततः ।
 वाचयामास रामस्य वनेस्वस्त्ययनक्रियाम् ॥ ३० ॥


 मध्वित्यादि । स्वस्तिवाच्यं-स्वस्तिवाचनमुद्दिश्य । द्विजान्

मध्वादिभिरुपलक्षितान् कृत्वा रामस्य वने स्वस्त्यस्त्वित्येवं वनेस्वस्त्ययनक्रियां वाचयामास-प्रार्थयामासेति कर्तरि लिट् ॥ ३० ॥

 ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ।
 दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ ३१ ॥
 यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
 वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ३२ ॥
 यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा ।
 अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ ३३ ॥
 अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
 अदितिर्मङ्गलं प्रादात् तत्त भवतु मङ्गलम् ॥ ३४ ॥
 श्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
 यदासीन्मङ्गलं, राम ! तत्ते भवतु मङ्गलम् ॥ ३५ ॥
 ऋतवस्सागरा द्वीपा वेदा लोका दिशश्र ते
 मङ्गलानि, महाबाहो ! दिशन्तु [११७९] [११८०]शुभमङ्गलाः ॥ ३६ ॥
 इति पुत्रस्य [११८१] शेषाश्च कृत्वा शिरसि भामिनी ।
 गन्धैश्चापि समालभ्य राममायतलोचना ॥ ३७ ॥

 शेषा इत्यक्षतानाम । समालभ्य-'समालम्भो विलेपनम्' ॥

 [११८२]ओषधिं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।
 चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ ३८ ॥


 विशल्यकरणीं अन्वर्थनामिकां सिद्धार्था-दृष्टप्रत्ययिकां ओषधिं-मूलिकां गुलिकीकृत्य शुभां रक्षां चकार । तां मन्त्रैरभिमन्त्र्य अजाप च ॥ ३८ ॥

  [११८३] [११८४] उवाचाभिप्रहृष्टेव सा दुःखवशवर्तिनी ।
 वाङ्मात्रेण न भावेन वाचासंसज्जमानया ॥ ३९ ॥

 अभिप्रहृष्टेवेति । प्रस्थानस्य कार्यवशादेव केवलमनुमन्तव्यता । हर्षापारमार्थ्याद्योती इवशब्दः । तदेव प्रदर्श्यते-वाङ्मात्रेणेत्यादि । असंसज्जमानया-आन्तरखेद्गद्गदयेति यावत् ॥ ३९ ॥

 [११८५]आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।
 अवदत् पुत्र[११८६].मिष्टार्थो गच्छ, राम ! यथासुखम् ॥ ४० ॥
 अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।
 पश्यामि त्वां सुखं, वत्स ! सुस्थितं राजवर्त्मनि ॥ ४१ ॥
 प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना ।
 द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥
 भद्रासनगतं, राम ! वनवासादिहागतम् ।
 द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ ४३ ॥
 मङ्गलैरुपसंपन्नो वनवासादिहागतः ।
 वध्वा मम च नित्यं त्वं कामान् [११८७]संवर्ध याहि, भो ! ॥ ४४ ॥

 मङ्गलैः-राजोचितवस्त्राभरणादिभिः । वध्वाः-सीतायाः । संवर्धं-वर्धयेति यावत् । याहि-गच्छ। भो इति निपातरूपमामन्त्रणार्थकम् ॥ ४४ ॥


 मयार्चिता [११८८]देवगणाः शिवादयो
  महर्षयो भूतमहासुरोरगाः ।
 अभिप्रयातस्य वनं चिराय ते
  हितानि [११८९]काङ्क्षन्तु दिशश्च, राघव ! ॥ ४५ ॥
 इतीव चाश्रुप्रतिपूर्णलोचना
  समाप्य च स्वस्त्ययनं यथाविधि ।
 प्रदक्षिणं चैव चकार राघवं
  पुनःपुनश्चापि [११९०]निरीक्ष्य सस्वजे ॥ ४६ ॥
 तथा तु देव्या स कृतप्रदक्षिणः
  निपीड्य मातुश्चरणौ पुनः पुनः ।
 जगाम सीतानिलयं महायशाः
  स राघवः प्रज्वलितः [११९१]स्वया श्रिया ॥ ४७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चविंशः सर्गः


 प्रदक्षिणं चकारेति। रक्षार्थमेव तत् पुत्रस्य । देव्याः-मातुश्चरणौ पुनःपुनर्निपीड्य-अभिवाद्य । तव (४६) (?) मानः सर्गः ॥ ४७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चविंशस्सर्गः


षड्विंशस्सर्गः

[ सीताप्रतिबोधनम् ]

 अभिवाद्य च कौसल्यां राम[११९२]स्संप्रस्थितो वनम् ।
 कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥


 एवं मातरमनुमान्य सीतामध्यनुमानयितुं रामस्य प्रवृत्तिः । अभिवाद्येत्यादि । अतिशयेन धर्मवत् धर्मिष्ठं विन्मतोर्लुक्–इष्ठनादौ परतः ॥ १ ॥

 विराजयन् राजसुतो राजमार्गं नरैर्वृतम् ।
 हृदयान्याममन्थेव जनस्य गुणवत्तथा ॥ २ ॥

 आममन्थ-मन्थनं कृतवानिव ॥ २ ॥

 वैदेही चापि तत्सर्वं न शुश्राव [११९३]तपस्विनी ।
 तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥

 तत्सर्वं-राजवृत्तान्तम् । तदेव यौवराज्याभिषेचनं तस्याश्च हृदि स्थितमभूदिति शेषः ॥ ३ ॥

 देवकार्यं स्वयं कृत्वा [११९४]कृतज्ञा हृष्टचेतना ।
 अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ ४ ॥

 देवकार्यं-देवपूजाम् ॥ ४ ॥

 प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।
 प्रहृष्टजनसंपूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ ५ ॥
 अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।
 अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६॥


 शोकसन्तप्तत्वादिधर्मकं पतिं दृष्ट्वा वेपमाना सती तं पतिमपश्यत् ॥ ६ ॥

 तां दृष्ट्वा हि स धर्मात्मा न शशाक मनोगतम् ।
 तं शोकं राघवस्सोढुं ततो [११९५] विवृततां गतः ॥ ७ ॥

 सोढुमिति । गूढतयेति शेषः । ततः-तत एव हेतोः विवृततां-विवृताभिप्रायकतां गतः ॥ ७ ॥

 [११९६] विवर्णवदनं दृष्ट्वा तं प्रस्विन्न [११९७]ममर्षणम् ।
 आह दुःखाभिसन्तप्ता किमिदानीमिदं, प्रभो ! ॥ ८ ॥

 प्रस्विन्नं-तं प्राप्तदुःखजस्वेदम् ॥ ८ ॥

 अद्य बार्हस्पतः [११९८]श्रीमान् युक्तः पुष्योऽनुराघव !
 प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ ९॥

 बार्हस्पतः-बृहस्पतिदेवताकः । दित्यदित्यादिभ्यो ण्यलुक्छान्दसः । युक्तः-चन्द्रमसेति शेषः । युक्त इति तु प्रोच्यत इत्यन्वयः । केनेति । अद्य पुष्य, अद्याभिषेको रामस्येति द्विजैः उक्ते दुःखं केन-सन्तोषं विहायेत्यर्थः ॥ ९ ॥


 न ते शतशलाकेन जलफेननिभेन च ।
 आवृतं वदनं [११९९]वल्गु छत्रेणापि विराजते ॥ १० ॥

 शतं शलाका यस्मिन् छत्रे तत्तथा; छत्रेणावृतं सन्न विराजते इति योजना ॥ १० ॥

 व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।
 चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ११ ॥

 शतपत्रं-पद्मं तत्सदृशेक्षणं तवाननम् ॥ ११ ॥

 वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां, नरर्षभ !
 स्तुवन्तो नात्र दृश्यन्ते मङ्गलैस्वतमागधाः ॥ १२ ॥

 वन्द्यादयो मुहुर्व्याकृतचराः ॥ १२ ॥

 न ते [१२००]क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।
 मूर्ध्नि [१२०१]मूर्धावसिक्तस्य [१२०२]दधति स्म विधानतः ॥ १३ ॥

 क्षौद्रं च दधि चेति । तीर्थोदकामश्रितमिति शेषः । मूर्धावसिक्तस्य-शिरस्स्नातस्य ॥ १३ ॥

 न त्वां प्रकृतयस्सर्वाः श्रेणीमुख्याश्च [१२०३]भूषिताः ।
 अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १४ ॥

 श्रेणीमुख्याः-परिषन्मुख्याः ॥ १४ ॥

 चतुर्भिवेंगसंपन्यैः काञ्चनभूषणैः ।
 मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १५ ॥


 न हस्ती चाग्रतः [१२०४]श्रीमान् तव लक्ष्मणपूजितः ।
 प्रयाणे लक्ष्यते, वीर ! [१२०५] कृष्णमेघगिरिप्रभः ॥ १६ ॥

 पुष्यरथः-केवलं लीलागमनादिप्रयोजनः युद्धानर्हो रथः । तस्याग्रतो निर्गमनं राज्ञो निर्जिगमिषोः प्रथमं भवति । तस्मिन् सत्यामिच्छायामारोहति । नो चेत्केवलमग्रे गच्छति । तथा हस्त्यादिश्च । कृष्णमेघप्रभो गिरिप्रभश्च तथा ॥ १५-१६ ॥

 न च काञ्चनचित्रं ते पश्यामि, प्रियदर्शन !
 [१२०६]भद्रासनं पुरस्कृत्य [१२०७]यान्तं, वीर ! [१२०८]पुरस्सरम् ॥ १७ ॥

 वीरेति सम्बुद्धिः ॥ १७ ॥

 अभिषेको [१२०९]यदा सज्जः किमिदानीऽमिदं तव ।
 अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १८ ॥

 अभिषेको यदा-यस्मात् सज्जः तथापीदानीं तवेदं किं-उक्तलक्षणवैपरीत्यमित्यर्थः । उक्तगजान्तराजचिह्नाभावानुवादः स्ववेश्मसमीपे तेषामननुभवात् ॥ १८ ॥


 इतीव [१२१०] विलपन्तीं तां प्रोवाच रघुनन्दनः ।
 सीते ! [१२११]तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ १९ ॥

 विलपन्ती दुःखेन भाषमाणाम् ॥ १९ ॥

  [१२१२]कुले महतित्यादिकथनं संभूते ! धर्मज्ञे ! धर्मचारिणि !
 शृणु, जानकि ! [१२१३] येनेदं क्रमेणाद्यागतं मम ॥ २० ॥

 कुले महतीत्यादिकथनं अव्यग्रतया प्रत्राजनकारणप्रश्नोत्तरसिद्धिशेषतया । येन क्रमेणेदमिति । प्रव्राजनमिति यावत् । क्रमः-हेतुः ॥ २० ॥

 राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च ।
 कैकेय्यै मम मात्रे तु पुरा दत्तौ [१२१४]महावरौ ॥ २१ ॥
 तयाऽद्य मम सज्जेऽस्मिन् अभिषेके नृपोद्यते ।
 प्रचोदितस्स समयो धर्मेण प्रतिनिर्जितः ॥ २२ ॥

 नृपेणोद्यते-प्रस्ताविते, तस्मिन्नमिषेके सज्जे सति तथा अद्य स समयः–प्राचीनो वरसङ्केतः प्रचोदितः-प्रवर्तितः । तेन तु राजा धर्मेण-धर्ममार्गेणैव प्रतिनिर्जितः ॥ २२ ॥

 चतुर्दश हि वर्षाणि वस्तव्यं दण्डके [१२१५]मया ।
 पित्रा मे भरतश्चापि यौवराज्ये [१२१६]नियोजितः ॥ २३ ॥
 सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ।


 अस्तु, प्रकृते किमित्यत आह-चतुर्दशेत्यादि । वरनिर्जितेन पित्रा मद्व-नवासवरपरिपालनशेषतया पितृनियोगेन मया दण्डके वस्तव्यम् । भरतश्चापि द्वितीयवरपरिपालनशेषतया यौवराज्ये नियोजितः ॥ २३ ॥

 [१२१७]भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ २४ ॥

 अथ सीताया गृहावस्थापनधिया वक्तव्यबुद्धिमुपदिशति-भरतस्येत्यादि । न कथ्यः-न श्लाघनीयः ॥ २४ ॥

 [१२१८]ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।
 तस्मान्न ते गुणाः [१२१९]कथ्या भरतस्याग्रतो मम ॥ २५ ॥

 ते प्रसिद्धा मम गुणाः । भरतस्याग्रत इति । 'ज्येष्ठो भ्राता पितृसमः' इति न्यायेन यदा कदाचित्त्वां मातृबुध्या नमस्कर्तुमागच्छति तदेति शेषः ॥ २५ ॥

 [१२२०]अहं ते नानुकर्तव्यो विशेषेण कदाचन ।
 [१२२१]अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २६ ॥

 अहं-अस्मत्स्वरूपं ते त्वया विशेषेण-विशिष्य कदाचन-कदापि नानुकर्तव्यः-नानुकरणीयः-नानुस्मरणीयः । भरतस्याग्रत


 इत्यनुकर्षः। कुत एवमित्यत्राह-अनुकूलतयेत्यादि । अत्र 'नापि तेन  तु भर्तव्या' इति सर्वात्मना पाठो नाशितः प्राचीनः परेण [१२२२] ॥ २६ ॥

 तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् ।
  [१२२३]स प्रसाद्यस्त्वया, सीते! नृपतिश्च विशेषतः ॥ २७ ॥

 ननु तदनुकूलाचरणं किमर्थमित्यत्राह–तस्मा इत्यादि । नृपतिः- दशरथः ॥ २७ ॥

 अहं चापि प्रतिज्ञां तां गुरोस्समनुपालयन् ।
 वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ २८ ॥
 याते च मयि, कल्याणि ! वनं मुनिनिषेवितम् ।
 व्रतोपवासपरया भवितव्यं, तवानघे ! ॥ २९ ॥

 याते-गते ॥ २९ ॥

 काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।
 वन्दितव्यो दशरथः पिता मम जनेश्वरः ॥ ३० ॥

 काल्यं-सर्वस्मिन्नप्युषसि । अत्यन्तसंयोगे द्वितीया ॥ ३० ॥

 माता च मम कौसल्या वृद्धा सन्तापकर्शिता ।
 [१२२४]धर्ममेवाग्रतः कृत्वा त्वत्तस्सम्मानमर्हति ॥ ३१ ॥

 त्वत्तस्सम्मानमर्हतीत्यत्र हेतुः–धर्ममेवाग्रतः कृत्वेति । यतः प्रवृत्ताऽस्मद्व(च)ननियोजन इति शेषः ॥ ३१ ॥


 वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः ।
 स्नेहप्रणय [१२२५]संभोगैः समा हि मम मातरः ॥ ३२ ॥

 स्नेहः-मातृत्वप्रयुक्तसन्तोषः । प्रणयः-अनुनयः-सेवा । संभोगः-अन्नपानादिविशेषप्रदानम् ॥ ३२ ॥

 भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।
 [१२२६]प्रिये ! भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३३ ॥

 भ्रात्रा पुत्रेण च क्रमात्समानभावास्पदौ-तथा द्रष्टव्यौ । त्वयेति शेषः 'प्रिये' इति सम्बुद्धिः ॥ ३३ ॥

 विप्रियं न च कर्तव्यं भरतस्य कदाचन ।
 स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ ३४ ॥
 आराधिता हि शीलेन प्रयत्नैचोपसेविताः ।
 [१२२७]राजानस्संप्रसीदन्ति प्रकुष्यन्ति विपर्यये ॥ ३५ ॥

 विपर्यये-शीलादिविपर्यये ॥ ३५ ॥

 औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः
 समर्थान् संप्रगृह्णन्ति जनानपि जनाधिपाः ॥ ३६ ॥

 जनानिति-प्राकृतान् रक्तस्पर्शरहितानिति यावत् ॥ ३६ ॥

 सा त्वं वसेह, कल्याणि ! राज्ञस्समनुवर्तिनी ।
 भरतस्य, रता धर्मे सत्यव्रतपरायणा ॥ ३७ ॥


 अहं गमिष्यामि महावनं, प्रिये !
  त्वया हि वस्तव्यमिहैव, भामिनि !
 यथा [१२२८]व्यलीकं कुरुषे न कस्यचित्
  तथा त्वया कार्यमिदं वचो मम ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षड्विंशः सर्गः


 यथा कस्य चिदपि मन्नियोगस्य व्यलीकं-'व्यलीकं त्वप्रियेऽनृते न कुरुषे-तथेदमपि वचः अमोघं कुरु-अत्रास्वेति यावत् । दल (३८) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्गामायणामृतकतकटीकायां अयोध्याकाण्डे षड्विंशः सर्गः


सप्तविंशस्सर्गः

[सीतानुगमनप्रार्थना]

 एवमुक्ता तु वैदेही [१२२९]प्रियार्हा प्रियवादिनी ।
 प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ १ ॥


 एवं रामेण गृहवासे नियुक्ते वनवास एव मम च पत्यनुव्रजननिजनित्यधर्मतो न्यायप्राप्त इति सीताऽऽह-एवमित्यादि । प्रणयादेव स्नेहबलादेव संक्रुद्धा–कथं मत्पृथक्स्थितिमादिशतीत्यमर्षवती ॥ १ ॥

 किमिदं भाषसे, राम ! वाक्यं [१२३०]लघुतया ध्रुवम् ।
 त्वया यत्परिहास्यं मे श्रुत्वा, नरवरात्मज ! ॥ २ ॥

 स एवामर्षः प्रदर्श्यते--किमिदमित्यादि । लघुतया मयि च लघुभावेन त्वयि च क्षुद्रपुरुषभावावलम्बनेन च किमिदं भाषसे ! हे नरवरोत्तम ! त्वया यद्भाषितं तच्छ्रुत्वा मे ध्रुवं परिहास्यं-परिहासास्पदं जायते ॥ २ ॥

 [१२३१]वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां, नृप !
 अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम् ॥ ३ ॥
 आर्यपुत्र ! पिता माता भ्राता पुत्रस्तथा स्नुषा ।
 स्वानि पुण्यानि भुञ्जाना एवं स्वं भाग्यमुपासते ॥ ४ ॥
 भर्तुर्भाग्यं तु भार्यैका प्राप्नोति, पुरुषर्षभ !
 [१२३२]अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ ५ ॥

 कुत एवमित्यत्राह—आर्येत्यादि । तस्य तस्य प्राणिनः पित्रादयः स्वानि-स्वस्वानुष्ठितानि पुण्यानि भुञ्जानाः-उपभुञ्जानाः


तद्वशप्राप्तं स्वं स्वं भाग्यं-पुण्यफलं सौख्यं उपासते-प्राप्नुवन्ति, इदमपुण्यस्य चोपलक्षणम्, न तु स्वकृतपापपुण्यफलं स्वपित्रादयः । भार्या एकैव तु तस्य तस्य भर्तुर्भाग्यं-पुण्यफलमन्यच्च भर्त्रा सह प्राप्नोति । नान्यस्तस्य पित्रादिः । पित्रादेस्तेन सह कर्मसहत्वाभावात् । यदेवं कर्मतत्फलभोगसहत्वं स्त्रियास्सिद्धं शास्त्रतः, अत एवाहमपि वने वस्तव्यमिति युष्मत्पितृमातृकृतादेशेन युष्मद्विषयकेनापि अर्थादादिष्टवनवासैवेत्यर्थः ॥ ३-५ ॥

 न पिता नात्मजो नात्मा न माता न सखीजनः ।
 इह प्रेत्य च नारीणां पतिरेको गतिस्सदा ॥ ६ ॥

 यदेवं अतः-न पितेत्यादि । इह लोके प्रेत्य परलोके च नारीणां न पित्रादिर्गतिः । अपि तु पतिरेक एव सदा गतिः ॥ ६ ॥

 यदि त्वं प्रस्थितो दुर्ग [१२३३]वनमद्यैव, राघव !
 अग्रतस्ते गमिष्यामि मृद्नन्ती [१२३४]कुशकण्टकान् ॥ ७ ॥

 अतः-यदि त्वमित्यादि । मृद्नन्ती-मृदक्षोदे-मर्दयन्ती ।एतेन पद्भ्यामेव निस्सन्देहं गमिष्यामीत्युक्तं भवति । अतः कथमिदं वनवासदुःखं सहिष्यत इति न चिन्तनीयमिति भावः ॥ ७ ॥

 [१२३५][१२३६]रोषामर्षौ परित्यज्य [१२३७][१२३८]भुक्तशेषमिवोदकम् ।
 नय मां, वीर! विस्रब्धः [१२३९]पापं मयि न विद्यते ॥ ८ ॥


 स्त्री सती कथं 'वनं गमिष्यामि' इति ब्रूत इत्यमर्षं, तथा मद्वचनमुल्लघ्य वक्तीति रोषं च त्यक्त्वा विस्रब्धः-निश्शङ्कः मां नय । तत्र हेतुगर्भं विशेषणं-वीरेति। त्यागप्रयोजकं पापं च मयि न विद्यते ।

नीतयापि मया सुखमेव । अत्रोभयत्र दृष्टान्तः-भुक्तशेषमुदकामिवेति । दुष्प्रापपानीयकान्तारयायिना पीतशेषं कमण्डलूनिष्ठं यथोदकं अपापं अवश्यनेयमात्मोपकार्येव केवलं तद्वदित्यर्थः ॥ ८ ॥

 [१२४०][१२४१]प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा ।
 सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ ९ ॥

 अवर्जनीयनित्यसम्बन्धत्वादपि नाहं परित्याज्येत्याह-प्रासादेत्यादि । प्रासादाग्रैः स्थितिमता, विमानैर्यानवता, योगबलात्केवलं वैहायसगतेन—मत्वर्थीयाजन्तः-गतिमता, तथा सर्वावस्थागतेनापि भत्री भर्तुः पादच्छायेव सह स्त्री सर्वावस्थागता भवतीति विशिष्यते विधीयते श्रुतिस्मृतिभिः ॥ ९ ॥

 [१२४२]अनुशिष्टाऽस्मि मात्रा च [१२४३]विविधाश्रयम् ।
 नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया ॥ १० ॥

 गुरूपदेशेनापि मेऽयमर्थस्सिद्ध इत्याह-मात्रेत्यादि । विविधाश्रयं-नानावस्थभर्तृनित्याश्रयं अनुशिष्टाऽस्मि । अतो मया यथावर्तितव्यं भर्तरि तद्विषये संप्रति न किञ्चिद्वक्तव्या उपदेष्टव्या ॥ १० ॥


 अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् ।
 नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ॥ ११ ॥

 यदेवं अतः-अहमित्यादि । गमिष्यामीति । तद्गमनमन्विति शेषः ॥ ११ ॥

 सुखं वने निवत्स्यामि यथैव भवने पितुः ।
 अचिन्तयन्ती [१२४४]त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ॥

 त्रीन् लोकानचिन्तयन्तीति । तत्स्थसर्वसंसारिशुभाशुभदुश्चिन्ताप्रसङ्गरहितेति यावत् । पतिव्रतं-पतिहिताचरणलक्षणवतप्रयोजनकमेव व्यापारं चिन्तयन्ती ॥ १२ ॥

 शुश्रूषमाणा ते नित्यं नियता [१२४५] ब्रह्मचारिणी ।
 सह रंस्ये त्वया, वीर ! वनेषु मधुगन्धिषु ॥ १३ ॥

 ब्रह्मचारिणी-वने वासादेव कामभोगासक्तिरहिता सती ॥ १३ ॥

 त्वं हि कर्तुं वने शक्तः, राम ! संपरिपालनम् ।
 अन्यस्यापि जनस्येह किं पुनर्मम [१२४६]मानद ! ॥ १४ ॥

 अन्यस्यापीति । त्वदेकशरण जनान्तरस्यापीत्यर्थः ॥ १४ ॥

 सह त्वया गमिष्यामि वनमद्य न संशयः ।
 नाहं शक्या, महाभाग ! निवर्तयितुमुद्यता ॥ १५ ॥

 निवर्तयितुं न शक्येति । न्यायप्राप्तानुगमनत्वादित्याशयः ॥


 फलमूलाशना नित्यं भविष्यामि न संशयः ।
 [१२४७]न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ १६ ॥

 न ते दुःखं करिष्यामीति । अन्नपानविशेषसंपादनेनेति शेषः ॥

 इच्छामि सरितः शैलान् पल्वलानि वनानि च ।
 द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ १७ ॥
 हंस [१२४८]कारण्डवाकीर्णाः पद्मिनीस्साधुपुष्पिताः ।
 इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ १८ ॥

 'मद्गुः कारण्डवः प्लवः' ॥ १८ ॥

 अभिषेकं करिष्यामि तासु [१२४९]नित्यं यतव्रता ।
 'सह त्वया, विशालाक्ष ! रंस्ये परमनन्दिनी ॥ १९ ॥
 [१२५०]एवं वर्ष[१२५१]सहस्राणां शतं वाऽहं त्वया सह ।
 व्यतिक्रमं न वेत्स्यामि [१२५२]स्वर्गोऽपि न हि मे मतः ॥ २० ॥

 त्वया सह वर्तमाना तस्य वर्षशतस्य व्यतिक्रमं-गमनं न वेत्स्यामि-न स्मरामि । स्वर्गौऽपि न मे मत इति । त्वद्वियुक्ताया इति शेषः ॥ २० ॥

 स्वर्गेऽपि च विना वासो भविता यदि, राघव !
 त्वया [१२५३]मम, नरव्याघ्र ! नाहं तदपि रोचये ॥ २१ ॥

 तदेव विव्रियते—स्वर्गेऽपीत्यादि ॥ २१ ॥


 अहं गमिष्यामि वनं सुदुर्गमं
  [१२५४]मृगायुतं वानरवारणैश्च
 वने निवत्स्यामि यथा पितुर्गृहे
  तवैव पादावुपगृह्य [१२५५]संयता ॥ २२ ॥

 मृगैरायुतं तथा ॥ २२ ॥

 अनन्यभावामनुरक्तचेतसं
  त्वया वियुक्तां मरणाय निश्चिताम् ।
 नयस्व मां साधु कुरुष्व याचनां
  न ते मयाऽतो गुरुता भविष्यति ॥ २३ ॥

 याचनां-मामिकां वनानुगमनयाच्ञां साधु कुरुष्व-चरितार्थं संपादय । मया क्रियमाणात् अतः-मदनुगमनाद्धेतोः गुरुता-भारः न भविष्यति ॥ २३ ॥

 तथा ब्रुवाणामपि धर्मवत्सलो
  न च स्म सीतां नृवरो निनीषति ।
 उवाच चैनां बहु [१२५६]सन्निवर्तने
  वने निवासस्य च दुःखतां प्रति ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तविंशस्सर्गः



 तथेति । न्यायावलम्बनेनेति यावत् । न निनीषति स्म । अत एव चास्या निवर्तनप्रयोजननिमित्तं वने निवासस्य दुःखतां-दुःखत्वज्ञापनं प्रति सत्-संभवत् बहुहेतुजातमुवाच । वीर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतरुटीकायां अयोध्याकाण्डे सप्तविंशः सर्गः


अष्टाविंशस्सर्गः

[वनवासदुःखप्रतिबोधनम्]

 एवं ब्रुवन्तीं सीतां तु [१२५७]धर्मज्ञो धर्मवत्सलः ।
 न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ १ ॥

 निवर्तनाय बहुदुःखोपाचिमाहेत्युक्तं तदेव प्रपञ्चयते एवमित्यादि ॥ १ ॥

 सान्त्वयित्वा पुनस्तां तु वाष्पदूषितलोचनाम् ।
  [१२५८]निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ २ ॥
 सीते! महाकुलीनाऽसि धर्मे च निरता सदा ।
 इहाचर स्वधर्मं त्वं [१२५९]मा [१२६०]यथामनसस्सुखम् ॥ ३ ॥

 महाकुलीनत्वादिवादः स्ववाक्यपरिग्रहप्रयोजनः । स्वधर्मं स्वकुलधर्मं इहैव स्थित्वा यथा मनसः सुखं भवति-स्वशक्त्यनुसारेणेति यावत् मा-मदागमनमुद्दिश्याचर । यथा मनसस्सुखं माच-


 रेति शिक्षात्मनापि सुशकयोजनोऽयं ग्रन्थः । अथापि 'नास्मि संप्रति वक्तव्या' इति सीतयोक्तत्वाच्छिक्षार्थ उपेक्ष्यते ॥ ३

 सीते! यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले !
 वने दोषा हि बहवो [१२६१]वदतस्तान्निबोध मे ॥ ४ ॥

 तानिति । दोषानिति यावत् ॥ ४ ॥

 सीते! विमुच्यतामेषा वनवासकृता मतिः ।
 बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ५ ॥

 कान्तारं-दुर्गमं वनं हि-यस्मात् बहुदोषामित्यभिधीयते ॥ ५ ॥

 हितबुध्या खलु वचो मयैतदभिधीयते ।
 सदा[१२६२] सुखं न जानामि दुःखमेव सदा वनम् ॥ ६ ॥

 हितबुध्याऽभिधीयत इति । न तु त्वद्भरणादिप्रयासोपाधिनेत्यर्थः । सदा-सर्वकालेऽपि सुखं नास्तीति जानामि-निश्चिनोमि ॥

 [१२६३]गिरिनिर्झरसंभूता गिरि[१२६४]निर्दरवासिनाम् ।
 सिंहानां निनदा [१२६५]दुःखाः श्रोतुं दुःखमतो वनम् ॥ ७ ॥

 [१२६६]निर्झरशब्दो गिरिनिर्झरगिरिदरीवाचकः । गिरिनिर्दरसम्भूताः- गिरिनिर्झरसंभूताः निनदाः तथा गिरिनिर्दवासिनां-गिरिदरीवासिनां निनदाश्च श्रोतुं दुःखं यतः अतो वनं वनवासः दुःखमेव ॥ ७ ॥


 [१२६७]क्रीडमानाश्च विस्रब्धा मत्ताश्शून्ये महामृगाः ।
 दृष्ट्वा समभिवर्तन्ते, सीते ! दुःखमतो वनम् ॥ ८ ॥

 विस्रब्धाः–निश्शङ्का इति यावत् । शून्ये निर्मानुषे । दृष्ट्वा त्वां समभिवर्तन्ते-अभिमुखमागच्छन्ति ॥ ८ ॥

 सग्रहास्सरितश्चैव पङ्कवत्यश्च दुस्तराः ।
 मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ ९ ॥

 गजैरपि दुस्तरा इति योजना ॥ ९ ॥

 लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः
 निरपाश्च [१२६८]सुदुःखाश्च मार्गा दुःखमतो वनम् ॥ १० ॥

 कृकवाकुः-वनकुक्कुटः । निरपाः-निर्गतोदकाः, ‘ऋक्पू: इत्यादिना अप् समासान्तः ॥ १० ॥

 सुप्यते पर्णशय्यासु [१२६९]स्वयं भग्नासु भूतले ।
 रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ ११ ॥

 स्वयं भग्नासु-स्वयं पतितशीर्णपर्णकृतास्त्रित्यर्थः । श्रमखिन्नेन--वह्निसमित्कुशपुष्पफलाद्या- हरणश्रमखिन्नेन मया उक्तशय्यायां सुप्यते । आगते त्वयापि तत्र स्वपितव्यम् । अतः-दुःखत्यादि ॥ ११ ॥

 अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना ।
 फलैर्वृक्षावपतितैः, सीते! दुःखमतो वनम् ॥ १२ ॥


 वृक्षावपतितैः-वृक्षात्स्वयमेव पतितैः फलैरेव केवलं सन्तोषः कर्तव्यः ॥ १२ ॥

 उपवासश्च कर्तव्यो यथाप्राणेन, मैथिलि !
 [१२७०]जटाभारश्च कर्तव्यो वल्कलाम्बर[१२७१]धारिणा ॥ १३ ॥

 यथाप्राणेन-यथावलानुसारेण ॥ १३ ॥

 [१२७२]देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् ।
 प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ १४ ॥

 कार्यस्त्रिरभिषेकश्च [१२७३]काले काले च नित्यशः ।
 चरतां नियमेनैव तस्माद्दुःखतरं वनम् ॥ १५ ॥

 नियमेनैव चरतामिति । कालक्षेपं कुर्वतामित्यर्थः ॥ १५ ॥

 [१२७४]उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।
 आर्षेण विधिना वेद्यां, बाले ! दुःखमतो वनम् ॥ १६ ॥

 आर्षेण विधिनेति । न तु पौरजानपदपदार्थोपेतविधिनेत्यर्थः ॥

 [१२७५]यथालब्धेन सन्तोषः कर्तव्यस्तेन, मैथिलि !
 यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ॥ १७ ॥

 तेनेति । वन्यपदार्थेनेति यावत् ॥ १७ ॥


 [१२७६]अतीव वातास्तिमिरं बुभुक्षा चास्ति नित्यशः ।
 भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ १८ ॥

 तिमिरमिति । रात्रिष्विति शेषः ॥ १८ ॥

 सरीसृपाश्च बहवो बहुरूपाश्च, भामिनि !
 चरन्ति पथि ते दर्षात्ततो दुःखतरं वनम् ॥ १९ ॥
 नदीनिलयना[१२७७]स्सर्पा नदीकुटिलगामिनः ।
 तिष्ठन्त्यावृत्त्य पन्थानं ततो दुःखतरं वनम् ॥ २० ॥

 नदीवत्कुटिलगामिनस्तथा ॥ २० ॥

 पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैस्सह ।
 बाधन्ते नित्यं, अबले । सर्वं दुःखमतो वनम् ॥ २१ ॥

 पतङ्गाः-शलभाः ॥ २१ ॥

 द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च, भामिनि !
 वने [१२७८]व्याकुलशाखाग्राः तेन दुःखतरं वनम् ॥ २२ ॥

 व्याकुलशाखाः व्याकुलाग्राश्च तथा । उभयं क्रमात् द्रुमकुशविशेषणम् ॥ २२ ॥

 कायक्लेशाश्च बहवो भयानि विविधानि च ।
 अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ २३ ॥


 [१२७९]क्रोधलोभौ विमोक्तव्यो कर्तव्या तपसे मतिः ।
 न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ २४ ॥

 भेतव्ये-भेतव्यविषये । प्रागुक्तसर्पादिपदार्थविषय इत्यर्थः ॥ २४ ॥

 तदलं ते वनं गत्वा क्षमं न हि वनं तव ।
 विमृशन्निह पश्यामि बहुदोषमतो वनम् ॥ २५ ॥

 वनं मत्वाऽलमिति । 'अलं खल्वोः' इति प्रतिषेधार्थालमुपपदे क्त्वा । वनं न गन्तव्यमित्यर्थः ॥ २५ ॥

 वनं तु नेतुं न कृता मतिर्यदा
  बभूव रामेण तदा महात्मना ।
 न तस्य सीता वचनं चकार तत्
  ततोऽब्रवीद्राममिदं सुदुःखिता ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टाविंशः सर्गः


 तद्वचनं न चकार । वनाननुगमननियोगं नाङ्गीचकार, तत एव हेतोरिदमब्रवीत् । तरु (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टाविंशस्सर्गः



एकोनत्रिंशस्सर्गः

[सीतादृढाध्यवसाय]

 एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
 प्रसक्ताश्रुमुखी [१२८०]मन्दमिदं वचनमब्रवीत् ॥ १ ॥

 इदमब्रवीदित्युक्तम् । तदेव प्रदर्श्यते–एतत्त्वित्यादि ॥ १ ॥

 ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
 गुणा इत्येव [१२८१]विद्धि तव स्नेह[१२८२]पुरस्कृता ॥ २ ॥

 तव स्नेहपुरस्कृता-पुरस्कृतत्वादेव-त्वदनुगृहीतत्वादेव हेतोः गुणा इत्येव विद्धीति ॥ २ ॥

 मृगास्सिंहा गजाश्चैव शार्दूलाश्शरमास्तथा ।
 पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ ३ ॥
 अदृष्टपूर्वरूपत्वात् सर्वे ते [१२८३]तव, राघव !
 रूपं दृष्ट्वाऽपसर्पेयुः [१२८४]भये सर्वे हि बिभ्यति ॥ ४ ॥

 एतदेव प्रदर्शयति–मृगा इत्यादि । सृमरः-गवयः- सृमरैः अदृष्टपूर्वं तावकं रूपं येषां ते तथा तेषां भावस्तत्त्वं, तस्मादित्यर्थः । भये-भयहेतौ सति ॥ ४ ॥

 त्वया च सह गन्तव्यं मया [१२८५]गुरुजनाज्ञया ।
 त्वद्वियोगेन मे, राम ! त्यक्तव्यमिह जीवितम् ॥ ५ ॥

 त्वद्वियोगेन हेतुना ॥ ५ ॥


 न च मां त्वत्समीपस्थामपि [१२८६] शक्नोति, राघव !
 सुराणामीश्वर[१२८७]श्शक्रः प्रधर्षयितुमोजसा ॥ ६ ॥
 पतिहीना तु या नारी सा न शक्ष्यति जीवितुम् ।
 काममेवंविधं, राम ! त्वया मम [१२८८] [१२८९]विदर्शितम् ॥ ७ ॥

 पतिहीनेति । प्रचलभर्तृहीनेति यावत् । न शक्ष्यतीति । उक्तरूपवन इति शेषः । कामं विदर्शितं भवता । अथापि त्वद्धर्तृकाया न भीतिलेश इति शेषः ॥ ७ ॥

 अथवाऽपि, महाप्राज्ञ ! ब्राह्मणानां [१२९०]मुखाच्छ्रुतम् ।
 पुरा पितृगृहे, [१२९१]सत्यं वस्तव्यं किल [१२९२]मे वने ॥ ८ ॥

 अथवा किमनेन सुखदुःखविचारेण । मम तु वनवासप्राप्तिर्ब्रह्मलिखितेत्याह–अथवेत्यादि । पुरा पितृगृहे निवसन्त्या मया ब्राह्मणानां मुखात् 'त्वया किल वने वस्तव्यम्' इति श्रुतम् ॥ ८ ॥

 [१२९३]लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाऽहं वचनं पुरा ।
 वनवासकृतोत्साहा नित्यमेव, महाचल ! ॥ ९ ॥

 कथमेवं निश्चयसंभव इत्यत्राह-लक्षणिभ्य इति । लक्षणज्ञानमस्त्येषामिति इनिः, सामुद्रिकलक्षणविद्भ्य इत्यर्थः ॥ ९ ॥


 [१२९४]आदेशो वनवासस्य प्राप्तव्यस्स मया किल ।
 सा त्वया सह [१२९५]तत्राहं यास्यामि, प्रिय ! नान्यथा ॥ १० ॥

 सः वनवासस्यादेशः ब्राह्मणोक्तः मया प्राप्तव्यः किल । ललाटलिपेरशक्यपरिमार्जनत्वादित्याशयः । सा-तथाऽऽदेशवत्यहं । तत्र-तस्मादेव हेतोस्त्वया सह यास्यामि । नान्यथा ॥ १० ॥

 कृतादेशा भविष्यामि गमिष्यामि सह त्वया ।
 कालश्चायं समुत्पन्नः सत्यवाग्भवतु [१२९६]द्विजः ॥ ११ ॥

 एवं सति कृतादेशा-कृतब्राह्मणनियोगा भविष्यामि । अतस्त्वया सह गमिष्यामि । समुत्पन्न इति । वनवासस्येति शेषः ॥ ११ ॥

 वनवासे हि जानामि दुःखानि बहुधा किल ।
 प्राप्यन्ते नियतं, वीर ! पुरुषैरकृतात्मभिः ॥ १२ ॥

 वनवासे हि बहुधा दुःखानि किल सन्तीति जानाम्येव । अथापि तद्दुःखमकृतात्मभिः-अजितेन्द्रियैर्विषयलोलुपैरेव प्राप्यते । न त्वादृङ्मादृग्जनेनेत्यर्थः ॥ १२ ॥

 कन्यया च पितुर्गेहे वनवासः श्रुतो मया ।
 [१२९७]भिक्षिण्या[१२९८]स्साधुवृत्ताया मम मातु[१२९९]रिहाग्रतः ॥ १३ ॥


 न केवलं ब्राह्मणमुखीद्वनवासश्रवणं, अपि तु तापसीमुखादपीत्याह-कन्ययेत्यादि । गेह इति । स्थितवत्येति शेषः । भिक्षिणी- ब्रीह्यादित्वादिनिः, तापसीति यावत् ॥ १३ ॥

 प्रसादितश्च वै पूर्वं त्वं वै बहु[१३००]विधं, प्रभो !
 गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ १४ ॥

 वनवासस्य गमनं प्रति प्रसादित इति योजना ॥ १४ ॥

  [१३०१]कृतक्षणाऽहं, भद्रं ते, गमनं प्रति, राघव !
 वनवासस्य शूरस्य चर्या हि मम रोचते ॥ १५ ॥

 कृतक्षणा-कृतानुमतिका । वने वासो यस्य स तथा । चर्याशुश्रूषा ॥ १५ ॥

 शुद्धात्मन् ! [१३०२]प्रेमभावाद्धि भविष्यामि विकल्मषा ।
 भर्तारमनुगच्छन्ती भर्ता हि [१३०३]मम दैवतम् ॥ १६ ॥

 [१३०४]प्रेत्यभावेऽपि [१३०५]कल्याणसङ्गमो मे सह त्वया ।  अनुगच्छन्ती विकल्मषा भविष्यामीति योजना । प्रेत्यभावेमृत्वा शरीरान्तरपरिग्रहेऽपि हि यस्मात् त्वया कल्याणसङ्गमः-दिव्यसुखहेतुस्सङ्गमस्सिद्धः-अत इह नित्यसङ्गमः कैमुतिकसिद्ध इत्यर्थः ॥


 श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ १७ ॥
 इह लोके च पितृभिः या स्त्री यस्य, महामते !
 [१३०६] अद्भिर्दत्ता [१३०७] स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ १८ ॥

 कुतः प्रेत्य च सङ्गमसिद्धिरित्यत्राह-श्रुतिरित्यादि । ब्राह्मणानां मुखात् पुण्या खिल[१३०८]किल श्रुतिः यत् उक्तार्थप्रतिपादिका श्रूयते अत इत्यर्थः । का सेत्यतस्तां श्रुतिं पठति इहेत्यादि । पद्यसिद्धये वाल्मीकिना महामत इति पदं प्रयुक्तम् । श्रुतिस्वरूपं तु तदतिरिक्तं यजुर्मन्त्ररूपम्–इह लोके च पितृभिर्यास्त्री यस्याद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सेति ॥ १८ ॥

 एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।
 नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥ १९ ॥

 एवमिति। श्रुतिस्मृतिन्यायतो नित्यसम्बन्धे सिद्धे सतीत्यर्थः । इह-इदानीमिति यावत् ॥ १९ ॥

 भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।
 नेतुमर्हसि, काकुत्स्थ ! समानसुखदुःखिनीम् ॥ २० ॥

 सुखदुःखयोरिति । तत्साधनानुष्ठानयोरित्यर्थः । अत एव समानसुखदुःखिनीम् ॥ २० ॥

 यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि ।
 विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात् ॥ २१ ॥


 एवं बहुविधं तं सा याचते गमनं प्रति ।
 नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २२ ॥

 नयनाननुमतौ हेतुः-विजनमिति । श्वश्रूननान्हमुखरक्षकजनरहितमिति यावत् ॥ २२ ॥

 एवमुक्ता तु सा चिन्तां मैथिली समुपागता ।
 स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ २३ ॥

 गां-भुवम् ॥ २३ ॥

 चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् ।
 [१३०९]ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्णसान्त्वयत् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनत्रिंशस्सर्गः


 वर (२४) मानः सगेः ।। २२-२४ ॥

इति श्रीमद्रामायणामृतकतकटकीयां अयोध्याकाण्डे एकोनत्रिंशस्तर्गः

त्रिंशस्सर्गः

[सीतावनानुगमनाभ्यनुज्ञा]

 सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा ।
 वनवास[१३१०]निमित्तार्थं भर्तारमिदमब्रवीत् ॥ १ ॥

 एवं न्यायतः प्रतिपाद्यमानानुगमनस्याननुमविौर्बल्य मूलेतिमर्मोक्त्या प्रतिबुद्धानुव्रजनदार्ढ्यो भगवाननुव्रजनं अनुमन्यते सीतायाः ।


सान्त्वमानेत्यादि । वनवासानीमित्तार्थमिति । वनवासनिमित्तानुमतिसिद्ध्यर्थमित्यर्थः । [१३११]अन्यस्तु 'वनवासनिमित्ताय' इति पठति । स पाठो नास्माभिर्दृश्यते ॥ १

 [१३१२]सा [१३१३]तमुत्तमसंविग्ना सीता विपुलवक्षसम् ।
 [१३१४]प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २ ॥

 उत्तमसंविना-अतिमी तेति यावत् । प्रणयात्-स्नेहात् । अभिमानात्-अत्यन्तमिष्टभर्तृत्वेन रहः सुखदुःखकोपप्रीत्यादिप्रयुक्तवचनाई इत्याभिमानात् । परिचिक्षेप-परिक्षेपवचनं कृतवती ॥ २ ॥

[१३१५]किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ।
राम! जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ ३ ॥

 किन्तदित्यतः–किन्त्वेत्यादि । हे राम! त्वा-त्वां पुरुषविग्रहं-(वेष) विग्रहमात्रेण पुरुष, क्रियायां तु स्त्रियमेव सन्तं जामातरं प्राप्य किममन्यत-तत्त्वं न ज्ञातवानित्यर्थः । यदि जानाति मां तुभ्यं न प्रयच्छेदित्याक्षेपशेषः ॥ ३ ॥

 [१३१६]अनृतं बत! लोकोऽयमज्ञानाद्यद्धि वक्ष्यति ।
 तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ ४ ॥


 अयं लोकः अज्ञानात्-उक्तरीत्या दुर्निरूपत्वत्स्वरूपापरिज्ञानाद्धेतोर्यत् वक्ष्यति-वदति तध्द्यनृतं बत ! किं वदतीत्यतः- तेज इति । रामे परं-सर्वोत्तरं स्वं तेजः परिगृह्य तपति सति दिवाकरे तेजो-नास्तीव-नास्त्येव । दिवाकरतेजः रामतेजस्सदृशं न भवतीति यद्वदति तदनृतमित्यर्थः ॥ ४ ॥

 [१३१७]किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।
 यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ ५ ॥

 किं हि कृत्वेति । मनसि किं विचार्येत्यर्थः ॥ ५ ॥

 द्युमत्सेनसुतं [१३१८]वीर ! सत्यवन्तमनुव्रताम् ।
 सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ६ ॥

 द्युमत्सेन इति कश्चित् ; तस्य सुतं सत्यवान्नामकमनुव्रतां सावित्रीं-तस्य पत्नीमिव मां विद्धि । अयमर्थस्सावित्र्युपाख्यानेऽग्रे स्पष्टीभविष्यति ॥ ६ ॥

 न त्वहं [१३१९]मनसाऽप्यन्यं द्रष्टाऽस्मि त्वदृतेऽनघ !
 त्वया, राघव ! गच्छेयं यथाऽन्या कुलपांसिनी ॥ ७ ॥

 न त्वित्यादि ! यथा कुलपांसिनी अन्यं पश्यति एवमहं त्वदृतेऽन्यं न द्रष्टाऽस्मि, लुट् । अतः ते तन्निमित्तमीत्यभावात्त्वया सह गच्छयेम् ॥ ७ ॥


 स्वयं तु भार्यां [१३२०] कौमारीं चिरमध्युषितां सतीम् ।
 शैलूष इव मां, राम ! परेभ्यो दातुमिच्छसि ॥ ८ ॥

 पुनर्मर्मवचनान्तरं-स्वयन्त्वित्यादि । कौमारीं-युवतीमिति यावत् । परेभ्यः-अन्येभ्यो दातुमिच्छसि यथा शैलूषः । तस्य हि जायाजीवित्वात्सधर्मोऽस्ति, 'शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः' इति ॥

 [१३२१]यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे ।
 तस्य त्वं भव वश्यश्च[१३२२] विधेयश्च सदाऽनघ ! ॥ ९ ॥

 कुत एवं प्रसङ्ग इत्यत्राह—यस्येत्यादि । पथ्यञ्चरां इष्टानुवर्तिनीं मामात्थ । रात्रिंचर इतिवत्कृत्पूर्वपदमात्रस्य मुं छान्दसः । यस्य चार्थे-यत्प्रयोजननिमित्तमवरुध्यसे-अवरुद्धस्वप्रयोजनो भवसि सत्वमेव तस्य वश्यश्च भव । अत एव विधेयश्च भव । वश्यः-इष्टानुवर्ती । विधेयः-नियोज्यः । नाहं तदिष्टानुवर्तिनी तद्विधेया चेह वसामीत्यर्थः ॥

 स मामनादाय वनं न त्वं प्रस्थातुमर्हसि
 तपो वा यदि वारण्यं वर्गो वा मे सह त्वया ॥ १० ॥
 न च मे भविता तत्र कश्चित्पथि परिश्रमः
 [१३२३]पृष्ठतस्तव गच्छन्त्या विहारशयने[१३२४]ष्विव ॥ ११ ॥

 विहारशयनेष्विव पथि परिश्रमो नेति योजना ॥ ११ ॥


 कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ।
  [१३२५] तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२ ॥

 तुलैः, [१३२६]अजिनविशेषैः शीतमृदुस्पर्शवद्भिस्समास्तथा ॥ १२ ॥

 महावातसमुद्धूतं यन्मा[१३२७]मवकरिष्यति ।
 रजो, रमण ! तन्मन्ये पारार्ध्यमिव चन्दनम् ॥ १३ ॥
 शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा ।
 [१३२८]कुथास्तरणयुक्तेषु किं स्यात्सुखतरं ततः ॥ १४ ॥

 यदा शिश्य इति । त्वया सहति शेषः । कुथाः- चित्रकम्बलविशेषाः। [१३२९]आस्तरणं-कटादितल्पं मञ्चः ॥ १४ ॥

 पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।
 दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ १५ ॥
 न मातुर्न पितुस्तत्र मरिष्यामि न वेश्मनः ।
 आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १६ ॥

 न मातुरित्यादौ 'अधीगर्थ...' इति कर्मणि षष्ठी । आर्तवानितत्तदृतौ भवानि ॥ १६ ॥

 न च तत्र गतः किश्चिद्द्रष्टुमर्हसि विप्रियम् ।
 [१३३०] [१३३१]मत्कृते न च ते शोको न भविष्यामि [१३३२]दुर्भरा ॥ १७ ॥


 यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।
 इति जानन् परां प्रीतिं गच्छ, राम ! मया सह ॥ १८ ॥
 अथ मामव [१३३३]मव्यग्रां वनं नैव नयिष्यसे ।
 विषमद्यैव पास्यामि [१३३४]मा वशं द्विषतां गमम् ॥ १९ ॥

 कैकेयीवन्मथितसिद्धान्तमाह–अथेत्यादि । प्रश्नेऽथशब्दः । द्विषतां वशं मा गमम् । भरतादयो द्विषन्तः ॥ १९ ॥

 पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ।
 उज्झितायास्त्वया, नाथ ! तदैव मरणं [१३३५]वरम् ॥ २० ॥

 पश्चादपीति । किञ्चित्कालानन्तरमपीत्यर्थः । यदेवमतः- तदैव-त्वद्वियोगकाल एवेत्यर्थः ॥ २० ॥

 इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे ।
 किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ २१ ॥
 इति सा केसन्तप्ता विलप्य करुणं बहु ।
 चुक्रोश पात [१३३६]मायस्ता भृशमालिङ्ग्य सस्वरम् ॥ २२ ॥

 सस्वरं-सशब्दमिति यावत् ॥ २२ ॥

 सा विद्धा बहुभिर्वाक्यैर्दिग्धौरिव गजाङ्गना ।
 चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २३ ॥

 दिग्धैः-विषलिप्तबाणैः । सन्नियतं-सम्यनिरुद्धम् ॥ २३ ॥

 तस्याः स्फटिकसङ्काशं वारि सन्तापसंभवम् ।
 नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २४ ॥


 [१३३७] [१३३८]तच्चैवामलचन्द्राभं मुखमायतलोचनम् ।
 पर्यशुष्यत [१३३९].बाष्पेण जलोद्धृतामिवाम्बुजम् ॥ २५ ॥

 जलादुद्धृतं-विलूय गृहीतमिति यावत् ॥ २५ ॥

 तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् ।
 उवाच वचनं रामः परिविश्वासयंस्तदा ॥ २६ ॥

 परिविश्वासयन्-श्वसप्राणने, उज्जीवयन् ॥ २६ ॥

 न, देवि! तव [१३४०]दुःखेन स्वर्गमप्यभिरोचये ।
 न हि मेऽस्ति भयं किञ्चित् [१३४१]स्वयंभोरिव सर्वतः ॥ २७ ॥

 तव दुःखेनेति । तब वियोगदुःखेन, प्राप्यमिति शेषः । स्वयंभोर्भगवतो ब्रह्मणः सर्वतो भयाभावः स्वव्यतिरिक्ततत्त्ववस्त्वन्तराभावेन 'द्वितीयाद्वै भयम्' इति श्रुतेः । अत्र तु सर्वतो भयाभावमात्रे दृष्टान्तः । अत्र निर्भयत्वं पूर्णबलप्रयुक्तम् ॥ २७ ॥

 तव सर्वमभिप्रायमविज्ञाय, शुभानने !
 वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २८ ॥

 सर्वं-समग्रं आन्तरं अभिप्रायमविज्ञाय तत एव हेतोस्तव वनवासं न रोचये-नाङ्गीकृतवान् । इतः प्राक् इति शेषः ॥ २८ ॥


 [१३४२]यत्सृष्टाऽसि मया सार्धं वनवासाय, मैथिलि !
 न विहातुं मया शक्या [१३४३]कीर्तिरात्मवता यथा ॥ २९ ॥

 यत् सृष्टाऽसि [१३४४]निश्चिताऽसि । इदानीमिति शेषः ॥ २९ ॥

 धर्मस्तु, गजनासोरु ! सद्भिराचरितः पुरा
 तं चाहमनुवर्तिष्ये यथा सूर्यं सुवर्चला ॥ ३० ॥

 सर्वात्मना सहृदयायास्ते सह नयनं धर्मश्चेत्याह–धर्म इत्यादि । तं च-पूर्वाचरितधर्ममित्यर्थः । त्वञ्च यथा सूर्यं सुवर्चलाऽन्ववर्तत तथा मामनुवर्तस्व ॥ ३० ॥

 न खल्वहं न गच्छेयं वनं, जनकनन्दिनि !
 वचनं तन्नयति मां पितुस्सत्योपबृंहितम् ॥ ३१ ॥

 मम तु गमनं निश्चितमेवेत्याह-न खल्वित्यादि । न गच्छेयमिति न खलु ; गच्छेयमेव सर्वथेत्यर्थः । कुत इत्यतः-वचनमित्यादि ॥

 एष धर्मश्च, सुश्रोणि पितुर्मातुश्च वश्यता ।
 [१३४५]अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ ३२ ॥

 एष इत्येतच्छब्दार्थः पितुर्मातुश्च वश्यतेति । वश्यता-इष्टानुवर्तिता ॥ ३२ ॥

 [१३४६]अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।
 स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ ३३ ॥

 अस्वाधीनमिति अप्रत्यक्षत्वादेव । प्रकारैः-भावनामात्र-साध्याराधनप्रकारैः ॥ ३३ ॥


 [१३४७] [१३४८]यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि ।
 नान्यदस्ति, शुभापाङ्गे ! तेनेदमभिराध्यते ॥ ३४ ॥

 यत्र त्रयमिति । पितृमातृगुरुरूपामति यावत् ॥ ३४ ॥

 न सत्यं दान मानौ वा न यज्ञाश्चाप्तदक्षिणाः ।
 तथा बलकराः, सीते ! यथा सेवा पितुर्हिता ॥ ३५ ॥

 बलकराः-परलोकबलकरा इति यावत् । हिता-हितावहा पितुस्सेवा यथा न तथेति व्यतिरेके ॥ ३५ ॥

 स्वर्गो धनं वा धान्यं वा विद्याः पुत्रास्सुखानि च ।
 [१३४९]गुरुवृत्त्यनुरोधेन न किश्चिदपि दुर्लभम् ॥ ३६ ॥

 गुरुवृत्तिः-गुरूचितवृत्तिः ॥ ३६॥

 देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा'[१३५०]परान् ।
 प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ ३७ ॥

 गवां लोकाः-गोलोकाः ॥ ३७ ॥

  [१३५१]स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः ।
 तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः ॥ ३८ ॥

 मा-मामिति यावत् ॥ ३८ ॥


 [१३५२]मम सन्ना मतिः, सीते ! नेतुं त्वां दण्डकावनम् ।
 वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ ३९ ॥

 नेतुं मतिस्सन्नेति । त्वद्भावापरिज्ञानादिति शेषः । सुनिश्चितासुनिश्चितेति ज्ञाता । इदानीमिति शेषः ॥ ३९ ॥

 सा हि [१३५३]दिष्ट्या नवद्याङ्गि ! वनाय, मदिरेक्षणे !
 अनुगच्छस्व मां, भीरु ! सहधर्मचरी भव ॥ ४० ॥

 दिष्ट्या वनाय-वनं गन्तुं निश्चिता सा त्वमनुगच्छस्व ॥ ४० ॥

 सर्वथा सदृशं, सीते ! मम स्वस्य कुलस्य च ।
 [१३५४]व्यवसाय [१३५५]मनुक्रान्ता, कान्ते ! त्वमतिशोभनम् ॥ ४१ ॥

 व्यवसायं–निश्चयं । अनुक्रान्ता--अनुप्राप्ता ॥ ४१ ॥

 आरभस्व, शुभश्रोणि ! [१३५६]वनवासक्षमाः क्रियाः ।
 नेदानीं त्वदृते, सीते ! स्वर्गोऽपि मम रोचते ॥ ४२ ॥

 इदानीमिति । एवं दृढनिश्चये सतीत्यर्थः ॥ ४२ ॥

 ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् ।
 देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ॥ ४३ ॥

 रत्नानि-उत्तमवस्तूनि । भिक्षुकाः-तापसादयः । भोजनमाशंसमानेभ्यः-प्रार्थयमानेभ्य इत्यर्थः ॥ ४३ ॥


 भूषणानि महार्हाणि वरवस्त्राणि यानि च ।
 रमणीयाश्च ये केचित् क्रीडार्थाचाप्युपस्कराः ॥ ४४ ॥

 [१३५७]उपस्कराः-परिकराः ॥ ४४ ॥

 शयनीयानि यानानि मम चान्यानि यानि च ।
 देहि स्वभृत्य [१३५८]वर्गस्य [१३५९]ब्राह्मणानामनन्तरम् ॥ ४५ ॥
 अनुकूलं तु सा भर्तुर्ज्ञात्वाऽऽगमनमात्मनः ।
 [१३६०]क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिंशस्सर्गः


 आत्मनः आगमनं-अनुगमनमिति यावत् । ऋताभि (४६) मानः सर्गः ॥ ४६ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे त्रिंशस्सर्गः



एकत्रिंशस्सर्गः

[लक्ष्मणवनानुगमनाभ्यनुज्ञा]

 एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः ।
 बाष्पपर्याकुलमुखः शोकं सोडुमशक्रुवन् ॥ १ ॥
 स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः ।
 सीतामुवा[१३६१] चातियशां राघवं च [१३६२]महाव्रतम् ॥ २ ॥

 एवं [१३६३]दृढनिश्चितससीतरामगमनलक्ष्मणकृतानुगमनप्रार्थनेन रामेण लक्ष्मणानुगमनानुमतिः एवमित्यादि । उक्तप्रकार सीतारामसंवाद श्रुत्वेति-तत्र हेतुः-लक्ष्मणः पूर्वमागत इति । संवादप्रवृत्तेः पूर्वमेव रामेण सह मातृगृहमागत इत्यर्थः । अतियशां-उत्कृष्ट-कीर्तिमतीं । महाव्रतं-वनवासलक्षणमहाव्रतकृत-निश्चयमित्यर्थः ॥ २ ॥

 [१३६४]यदि गन्तुं कृता बुद्धिः वनं मृगगजायुतम् ।
 अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३ ॥

 गन्तुं बुद्धिः कृता यदीति । युवाभ्यामिति शेषः । अहन्त्वेति । हे प्रजावति ! त्वां, हे राम ! त्वां चेत्यर्थः । वनमनुगमिष्यामि-वनं गन्तारौ युवामनुगमिष्यामि । अपि च गमनकाले अग्रत एव धनुर्धरो गमिष्यामि ॥ ३ ॥


 मया समेतोऽरण्यानि [१३६५]रम्याणि विचरिष्यसि ।
 पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ ४ ॥

 समेतः समेतेति च परिणामः ॥ ४ ॥

 [१३६६]न देवलोकाक्रमणं नामरत्वमहं वृणे ।
 ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ॥ ५ ॥

 आक्रमण-आरोहः ॥ ५ ॥

 एवं ब्रुवाणस्सौमित्रिर्वनवासाय निश्चितः ।
 रामेण बहुभिस्सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ ६ ॥

 अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।
 किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ ७ ॥

 पूर्वमेव भवताऽनुज्ञात इति । 'तस्मादपरितापस्सन् त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनकीं क्रियाम्' (अयो.२३, २६) [१३६७]इत्यनुशासनादित्यर्थः ॥ ७ ॥

 यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।
 एतदिच्छामि विज्ञातुं संशयो हि ममानघ ! ॥ ८ ॥

 एतदिच्छामीति । एतत्-मत्प्रतिषेधप्रयोजनमित्यर्थः । संशयो हीति । पूर्वं किमभिप्रायतोऽनुमतिः ? इदानीं किमभिप्रायेण प्रतिषेधः ? इति सन्देहो जायत इत्यर्थः ॥ ८ ॥


 ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।
 स्थित [१३६८]प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ ९ ॥

 अग्रतस्स्थितं-प्राग्गामिनं-निश्चितवनप्रथमगमनं-तत्रानुमतिं याचमानम् ॥ ९॥

 स्त्रिग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः ।
 प्रियः प्राणसमो वश्यो [१३६९] व.भ्राता चासि सखा च मे ॥ १० ॥

 वश्यविधेयौ मुहुर्व्याकृतौ ॥ १० ॥

 मयाऽद्य सह, सौमित्रे ! त्वयि गच्छति तद्वनम् ।
 को [१३७०]भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११ ॥

 को भरिष्यतीति । एवञ्च मातृपरिरक्षणार्थमेव प्रतिषिध्यसे । पूर्वन्तु आभिषेचनिकालंकारप्रतिसंहारविषये मदनुविधानं मदिष्टत्वादुक्तम् । न तु वनानुगमने मदनुविधानमनुशिष्टमित्युक्तं भवति ॥ ११॥

 अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव
 स काम[१३७१]पाशपर्यस्तो महातेजा महीपतिः ॥ १२ ॥

कामैः–इष्टान्नपानादिरूपैः। ननु वास्ते रक्षकः इत्यत्राह स कामपाशेत्यादि ॥ १२ ॥

 सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेस्सुता ।
 दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥
 न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।
 भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ १४ ॥


 तर्हि भरतो वा पुत्रत्वाद्रक्षिष्यतीत्यत्राह--न स्मरिष्यतीत्यादि । तत्र हेतुः-राज्यमासाद्य कैकेय्यां-तन्नियोगे सपत्नीतिरस्कारविषयके पर्यवस्थितः-प्रतिष्ठितः ॥ १४ ॥

 तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।
 सौमित्रे ! भर कौसल्यां उक्तमर्थमिमं चर ॥ १५ ॥

 तर्हि मया वा रक्षणं कथं शक्यमित्यत्राह—राजानुग्रहणेनेति । दशरथानुग्रहबलादित्यर्थः ॥ १५ ॥

 [१३७२] एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता ।
 धर्मज्ञगुरुपूजायां धर्मश्राप्यतुलो महान् ॥ १६ ॥

 एवं मयि चेति । मदाज्ञया मातृशुश्रूषणेनापीत्यर्थः ॥ १६ ॥

 एवं कुरुष्व, सौमित्रे ! मत्कृते, रघुनन्दन !
 अस्माभिर्विग्रहीणाया मातुनः- अस्माकं मातुः[१३७३]र्नो न भवेत्सुखम् ॥ १७ ॥

 विप्रहीणा-वियुक्ता 'उपसर्गाद्वहुलम्' इति बहुलग्रहणाण्णत्वम् । 'प्रहीणो ग्रामः' इत्यादौ प्रयोगः प्रसिद्धः ॥ १७ ॥

 एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।
 प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ १८ ॥
 तवैव तेजसा, वीर ! भरतः पूजयिष्यति ।
 कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ १९ ॥

 अथ मातृरक्षायां भरत एवास्त इत्याह--भरतः पूजयिष्यतीति । तत्र रामोक्तानुपपत्तिं परिहरति-तवैव तेजसेति । अप्रमेयबलवैभव-


राममात्रुपेक्षायां ममानर्थो महान् भवितेति मत्वा सम्यक् पूजयिष्यतीत्यर्थः ॥ १९ ॥

 [१३७४]यदि दुष्टो न रक्षेत भरतो राज्य [१३७५]मुत्तमम् ।
 प्राप्य दुर्मनसा, वीर ! गर्वेण च विशेषतः ॥ २० ॥
 तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः ।
 तत्पक्ष्यानपि तान् सर्वास्त्रैलोक्यमपि, [१३७६]किन्नु सा ॥ २१ ॥
 कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
 यस्यास्सहस्रं ग्रामाणां संप्राप्त [१३७७]मुपजीविनाम् ॥ २२ ॥

 तदेव कालान्तरीय तस्य भयं प्रदर्शयति-यदीत्यादि । त्रैलोक्यमपीति । तत्पक्ष्यं वधिष्यामीत्यनुकर्षः । वध हिंसायामिति प्रकृत्यन्तरम् । इदानीं स्वात्मभरणे-स्वसंरक्षणे कौसल्यायाः कस्याप्यपेक्षा नास्तीति दर्शयति-किन्वित्यादि । या कौसल्या सहस्रं मद्विधानपि बिभृयात्, सा स्वात्मानं बिभृयादिति किन्नु-किमु । कुतस्तस्या एवं शक्तिरित्यत्राह-यस्या इत्यादि । यस्याः [१३७८] [१३७९]उपजीविनां ग्रामाणां सहस्रं प्राप्तमभूत् ॥ २२ ॥

 तदात्मभरणे चैव मम मातुस्तथैव च ।
 पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ २३ ॥

 यदेवं अतः-तदित्यादि ॥ २३ ॥


 कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।
 कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥ २४ ॥

 यदेवं अतो मामनुचरं कुरुष्व-स्वानुमतिं देहीति यावत् । इह-मत्सेवानुमतौ वैधर्म्यं-वैपरीत्यसाधकं न विद्यते । त्वदुक्तहेतोरन्यथा सिद्धत्वस्य दर्शितत्वादित्याशयः । अर्थः प्रकल्पत इति । फलमूला-द्याहरणरूपप्रयोजनमपि स्वप्रयासं विना ते प्रसिध्यति । अहं-अहं च तेन कृतार्थो भवामि । अत उभयहितं मदनुगमनमित्यर्थः ॥ २४ ॥

 धनुरादाय सशरं खनित्रपिटकाधरः ।
 "अग्रतस्ते गमिष्यामि पन्थानं [१३८०]तव दर्शयन् ॥ २५ ॥

 तदेव प्रयोजनं दर्शयति-धनुरादायेत्यादि । श्वापदादिरक्षाप्रयोजनो धनुग्रहः ॥ २५ ॥

 आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
 वन्यानि यानि चान्यानि [१३८१] [१३८२]स्वाहाराणि तपस्विनाम् ॥

 तपस्विनां स्वाहाराणीति । स्वभूतान्याहाराणि, सुष्ठन्याहाराणि च ॥ २६ ॥

 भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
 अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ २७ ॥

 स्वपतश्च करिष्यामीत्यनेन रात्रौ निर्निद्रत्वं प्रकाश्यते ॥ २७ ॥

 रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
 [१३८३]व्रजापृच्छस्व, सौमित्रे ! सर्वमेव सुहृज्जनम् ॥ २८ ॥


 [१३८४]ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।
 जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २९ ॥
 अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ ।
 आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥
 सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।
 स त्वमायुधमादाय क्षिप्रमात्रज, लक्ष्मण ! ॥ ३१ ॥

 अनेनेति । स्वपतश्च करिष्यामीत्यन्तवाक्येनेत्यर्थः । व्रज-अनुव्रजेत यावत् । आपृच्छस्व-अनुजानीहि । ये च राज्ञ इति । सुहृज्जनं तं चापृच्छस्वेत्यनुकर्षः । अनन्तरं जनकस्य महायज्ञे महात्मा वरुणः स्वयमेवागत्य रौद्रदर्शने-भयङ्करदर्शने ये धनुषी आवयोर्ददौ ; तथाऽभेद्यकवचादिकं च यत्प्रत्येकमावयोर्ददौ ; तत्सर्वमाचार्यसद्मनि तत्पूजार्थमाचार्यं सत्कृत्य निहितं-निक्षिप्तम् । एवमनुवादादेव धनुरादिदानं तत्र सिद्धम् । आयुधमिति जात्या ॥ २८-३१ ॥

 स सुहृजनमामन्त्र्य वनवासाय निश्चितः ।
 इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२ ॥

 स इति । लक्ष्मण इति यावत् ॥ ३२ ॥


 तद्दिव्यं [१३८५]रघुशार्दूलः सत्कृतं माल्यभूषितम् ।
 रामाय दर्शयामास सौमित्रिस्सर्वमायुधम् ॥ ३३ ॥
 तमुवाचात्मवान् रामः [१३८६]प्रीत्या लक्ष्मणमागतम् ।
 काले त्वमागतः, सौम्य ! काङ्क्षिते मम, लक्ष्मण ! ॥
 अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।
 ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह, परन्तप ! ॥ ३५ ॥

 मम कांक्षिते-मदभीष्टप्रयोजनसंपादननिमित्तम् । काले-उचितकाले । आगतः ॥ ३४-३५ ॥

 वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।
 तेषामपि च मे भूयस्सर्वेषाञ्चोपजीविनाम् ॥ ३६ ॥

 वसन्तीति । इह-मत्समीपे । गुरुषु दृढं भक्तयोपेताः । एतेन पूर्णविद्यतया दानपात्रत्वं द्योतितम् ॥ ३६॥

 वसिष्ठपुत्रं तु सुयज्ञमार्यं
  त्वमानयाशु प्रवरं द्विजानाम् ।
 अभिप्रयास्यामि वनं समस्तान्
  अभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ ३७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकत्रिंशः सर्गः


 वसिष्ठपुत्रं तु सुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथस्य वसिष्ठपौरोहित्यं तत्पुत्रस्य तत्पुत्र इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः । [१३८७]अस्यैव गृहे आयुधस्थापनञ्च । सर्ग (३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकत्रिंशः सर्गः

द्वात्रिंशस्सर्गः

[यात्रादानम्]

 ततश्शासन [१३८८][१३८९]माज्ञाय भ्रातुः [१३९०]शुभकरं प्रियम् ।
 गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १ ॥

 एवं निश्चितसभ्रातृस्त्रीकवनगमनस्य रामस्य यात्रादानम् । तत इत्यादि ॥ १ ॥

 तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ।
 सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ २ ॥

 अग्न्यागारं-अग्निहोत्रगृहम् । हे सखे ! रामस्य वेश्माभ्यागच्छ । दुष्करकारिणो रामस्य कृत्यं च पश्य ॥ २ ॥


 [१३९१]ततस्सन्ध्यामुपास्यांशु गत्वा सौमित्रिणा सह ।
 जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ ३ ॥
 तमागतं वेदविदं प्राञ्जलिस्सीतया सह ।
 सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ ४ ॥

 अर्चितममिमिवेति । होमकाल इति शेषः ॥ ४ ॥

 जातरूपमयैर्मुख्यैः । [१३९२]अङ्गदैः कुण्डलैः शुभैः ।
 सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ ५ ॥

 सहेमसूत्रैर्मणिभिरिति । 'स्वर्णसूत्रस्यूतमुक्तादिरत्नमालाभिरित्यर्थः ॥ ५ ॥

 अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
 सुयज्ञं च तदोवाच रामस्सीताप्रचोदितः ॥ ६ ॥

 सीताप्रचोदित इति । सीतया सुयज्ञपत्न्यै दिव्याभरणदानाय सखीत्वात्प्रचोदित इत्यर्थः ॥ ६ ॥

 हारं च हेमसूत्रं च भार्यायै, सौम्य ! [१३९३]हारय ।
 रशनां चाधुना सीता दातुमिच्छति ते, [१३९४]सखे ! ॥ ७ ॥

 हेमसूत्रमप्युरो भूषणविशेषः ॥ ७ ॥


 अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
 प्रयच्छति, सखे ! तुभ्यं भार्यायै गच्छती वनम् ॥ ८॥

 गच्छतीति नुमभावञ्छान्दसः ॥ ८ ॥

 पर्यङ्कमग्रथास्तरणं नानारत्नविभूषितम् ।
 तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ ९ ॥

 त्वयीति । त्वद्गृह इत्यर्थः ॥ ९ ॥

 नागः शत्रुञ्जयो नाम मातुलो यं ददौ मम ।
 [१३९५][१३९६]निष्कसहस्रेण ददामि, द्विजपुङ्गव ! ॥ १० ॥

 शत्रुञ्जयो नाम प्रसिद्धं यं गजं मातुलो मम ददौ तं गजं ते ददामीति । तथा राममुद्राङ्कितानां निष्काणां सहस्रं च ददामि ॥ १०॥

 इत्युक्तः स हि रामेण सुयज्ञः [१३९७]प्रत्यगृह्णत ।
 या रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ ११ ॥

 प्रत्यगृह्णतेति। अगृह्णीतेति यावत् ॥ ११ ॥

 अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः ।
 सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ १२ ॥

 ब्रह्मा त्रिदशेश्वरमिवेति । नियोक्तृनियोज्ययोः [१३९८]परमावरप्रभुत्वे दृष्टान्तः ॥ १२ ॥


 [१३९९] [१४००]आगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।
 अर्चयाहूय, सौमित्रे ! रत्नैस्सस्यमिवाम्बुभिः ॥ १३ ॥
 तर्पयस्व, महाबाहो ! गोसहस्रैश्च, मानद !
 सुवर्णै रजतेश्चैव मणिभिश्च महाधनैः ॥ १४ ॥

 कौशिकः-विश्वामित्रः । आहूयार्चय । अनन्तरं रत्नैस्तर्पयस्व ॥ १३-१४ ॥

 कौसल्यां च य आशीर्भिः भक्तः पर्युपतिष्ठति ।"
 आचार्य[१४०१] स्तैत्तरीयाणामभिरूपश्च वेदवित् ॥ १५ ॥
 तस्य यानं च दासीश्च, सौमित्रे ! संप्रदापय ।
 कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ १६ ॥

 तैत्तरीयाणामाचार्य इति । तित्तिरिमहर्षिः कौसल्यायाः प्रत्येकपुरोहितः । अभिरूपः-श्लाघनीयगुणः ॥ १५-१६ ॥

 सूत [१४०२]श्चित्ररथश्चार्यः सचिवस्सुचिरोषितः ।
 तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥ १७ ॥
 पशुकामिश्च सर्वाभिर्गवां दशशतेन च ।

 सुचिरोषितः–चिरकालवृद्धः सु' सुमन्त्रवत् । पशुकाः-अजाव्यादयो यज्ञपशवः ॥ १७ ॥

 [१४०३]ये चेमे कठकालापा बहवो दण्डमाणवाः ॥ १८ ॥


 नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति [१४०४] किञ्चन ।
 अलसाः स्वादु[१४०५]कामाश्च महतां चापि सम्मताः ॥ १९ ॥
 तेषामशीतियानानि रत्नपूर्णानि दापय ।
 शालिवाहसहस्रं च द्वे च ते [१४०६]भद्रकांस्तथा ॥ २० ॥
 व्यञ्जनार्थं च, सौमित्रे ! गोसहस्रमुपाकुरु ।

 कठेन प्रोक्तमधीते, अण्, तस्य 'कठचरकाल्लुक्' इति लुक् । कलापिना प्रोक्तं, कलापिनोऽण् । कठं कालापमधीयते-'तदधीते' इत्यण् । 'प्रोक्ताल्लुक्' इति लुक् । ये चेमे कठकालापाः-तदध्ये-तारो दण्डमाणवाः-दण्डप्रधाना माणवाः-उपकुर्वाणब्रह्मचारिण इति यावत् । अन्यादति--व्रतोपवासादिकमिति यावत्-'आहिताग्निरनड्वाश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम्' इति स्मृतेः । अन्यन्न कुर्वन्तीत्यत्र हेतुः-नित्यस्वाध्यायशीलत्वादिति । अत एव व्रतान्तरानुष्ठाने अलसाः । स्वादुकामाश्चेति । ब्रह्मचारिणो भिक्षार्थित्वतः स्वाद्वन्नकामाः । तर्हि कथमेवंविधा दानीया इत्यत्रोक्तं-महतां चापि सम्मता इति । 'तप एवतत्तप्यते । तपो हि स्वाध्यायः' इति श्रुतेः नित्यतपस्वित्वेन महात्मनामपि सम्मताः । रत्नपूर्णानि-धनपूर्णानि । अशीतियानानीति । अशीत्युष्ट्राणीति यावत् । शालीन् वहन्त इति शालिवाहाः-बलीवर्दाः ।


तेषां सहस्रैः सह भद्रकान्-धान्यविशेषान्-चणकमुद्रादिरूपान् व्यञ्जनार्हान् दापयेत्यनुकर्षः । गवां सहस्रमुपाकुरु-उपसे चनार्थं कुर्वित्यर्थः ॥ २० ॥

 [१४०७][१४०८]मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ॥ २१ ॥

 तेषां सहस्रं, सौमित्रे ! प्रत्येकं संप्रदापय ।

 मेखलीनां ब्रह्मचारिणामिति यावत् । समुपस्थित इति । विवाहार्थमिति शेषः ॥ २१ ॥

 [१४०९] अम्बा [१४१०]यथा नो नन्देच्च कौसल्या मम दक्षिणा ॥
 तथा द्विजातींस्तान् सर्वान् लक्ष्मणार्चय सर्वशः ।

 नः-अस्माकं अम्बा यथा चेत् स्वश्रिब्रह्मचारिबर्गस्य विवाहार्थभिक्षाप्रदानेन नन्देत् तथा दापय । दक्षिणा-समर्था ॥ २२ ॥

 ततः पुरुषशार्दूलस्तद्धनं लक्ष्मणः स्वयम् ॥ २३ ॥
 यथोक्तं ब्राह्मणेन्द्राणां[१४११] अददाद्धनदो यथा ।

 तद्धनमिति । यथोक्तविभागकमित्यर्थः ॥ २३ ॥

 अथाब्रवी[१४१२]द्वाष्प कलांस्तिष्ठतश्चोपजीविनः ॥ २४ ॥
 संप्रदाय बहुद्रव्यं एकैकस्योपजीवनम् ।

 बाष्प[१४१३]कलाः-बाष्पगद्गदाः । उपजीवनं-जीवनसाधनम् ॥ २४ ॥


 लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ॥ २५ ॥

अशून्यं कार्यमेकैकं यावदागमनं मम ।

 अशून्यं कार्यमिति । यथापूर्वं युष्माभिरत्रोपविश्य रक्षणीयमित्यर्थः ॥ २५ ॥

 [१४१४]इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ॥ २६ ॥
 उवाचेदं धनाध्यक्षं धन[१४१५] मानीयतामिति ।
 ततोऽस्य धनमाजहुः [१४१६]सर्वमेवोपजीविनः ॥ २७ ॥
 स राशिस्सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ।
 ततस्स पुरुषव्याघ्रस्तद्धनं सहलक्षणः ॥ २८ ॥

 द्विजेभ्यो वालवृद्धेभ्यः [१४१७] कृपणेभ्यां ह्यदापयत् ।
 कृपणेभ्यो ह्यदापयदिति । भूरिदानरूपतयेति शेषः ॥ २८ ॥

 तत्रासीत्[१४१८] पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ॥ २९ ॥
  [१४१९][१४२०]उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ।

तत्रेति । तस्मिन् काले देशे चेत्यर्थः । फालं-हलावयवविशेषः-। कुद्दालं-कन्दखननसाधनविशेषः-लाङ्गलं-हलं । वानप्रस्थत्वादिदं साधनं कन्दादिसंपादनार्थं । उञ्छनं-व्रीह्यर्थम् ॥ २९ ॥


 तं वृद्धं तरुणी भार्या बालानादाय दारकान् ॥ ३० ॥
 अब्रवीद्ब्राह्मणं वाक्यं[१४२१][१४२२] दारिद्य्रेणाभिपीडिता ।

 दारकाः-पुत्राः ॥ ३० ॥

 अपास्य फालं कुद्दालं कुरुष्व वचनं मम ॥ ३१ ॥
 रामं दर्शय धर्मज्ञं यदि [१४२३] किञ्चिदवाप्स्यसे ।

 दर्शयेति । सभार्यापुत्रमात्मानमिति शेषः । 'गतिबुद्धि' इत्यादिना द्विकर्मकत्वम् । यदि दर्शयसि तदा सर्वथा किञ्चिदवाप्स्यसे ॥

 स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ॥ ३२ ॥
 स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ।

 दुश्छदां-अतिजीर्णत्वाच्छादयितुमशक्यां । यत्र रामनिवेशनं-यस्मिन् पथ्याश्रिते रामनिवेशनं प्राप्यते तादृशं पन्थानमास्थाय प्रातिष्ठत ॥ ३२ ॥

 [१४२४][१४२५]भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि ॥ ३३ ॥
 आपञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् ।

 दीप्त्या-ब्रह्मवर्चसेन ॥ ३३ ॥

 स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ॥ ३४ ॥
 निर्धनो बहुपुत्रोऽसि, राजपुत्र ! महायशाः !
  [१४२६]उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ ३५ ॥
 मां प्रत्यवेक्षस्वेति । मयि कृपां कुर्वित्यर्थः ॥ ३५ ॥


 तमुवाच ततो रामः परिहास[१४२७]समन्वितम् ।
 [१४२८] गवां सहस्र[१४२९]मप्येकं न च विश्राणितं मया ॥ ३६ ॥
 परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ।

 परिहाससमन्वितं-लीलास्मितसमन्वितं । क्रीडाप्रयोजनव्यवहारविशेषसमन्वितं चेत्यर्थः । मया तु गवामेकं सहस्रमपि विश्राणितं न ! नञ् स्वरे । तर्हि इह स्थित्वा दण्डेन यावद्दूरं परिक्षिपसि-परिगृह्णासि तावद्देशवर्तिनीः गाः अवाप्स्यस इति । ब्राह्मणस्य गोश्रद्धाप्रवृत्तिकौतुकदर्शनार्थं भगवद्वचनम् ॥ ३६ ॥

  [१४३०]स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ॥ ३७ ॥
 आविध्य दण्डं चिक्षेप सर्वप्राणेन [१४३१]वेगतः ।

 कट्यां परिवेष्ट्य संभ्रान्तः-त्वरितस्सन् । सर्वप्राणेन--सर्वबलेन ॥ ३७ ॥

 स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्चयुतः ॥ ३८ ॥
 गोव्रजे बहुसाहस्रे [१४३२] पपातो[१४३३]क्षाणसन्निधौ ।

 स दण्डः सरयूपारं-सरयूतीरं तीर्त्वा-प्राप्य बहुसाहस्रे गोव्रजे उक्षाणसन्निधौ-वृषसन्निधाविति यावत् । आनङ् छान्दसः ॥ ३८ ॥


 तं परिष्वज्य धर्मात्मा आ तस्मात्सरयूतटात् ॥ ३९ ॥
 आनयामास ता गोपैः [१४३४]त्रिजटायाश्रमं प्रति ।

 आ तस्मात्सरयूतटात्, आङ् मर्यादा । अथवा ब्राह्मणस्तृप्तो भवत्वि[१४३५]त्यभिविधावित्येवास्तु । ताः-गाः आनयामास । [१४३६]तास्त्रिजटाश्रमं प्रति नाययामासेति च शेषः ॥ ३९ ॥

 उवाच च ततो रामस्तं गार्ग्यमभि[१४३७] सान्त्वयन् ॥ ४० ॥

 मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ ४१ ॥

 परिहासो ह्ययमिति । दण्डपरिक्षेपवचनरूपोऽयं विनोदार्थ एवेत्यर्थः ॥ ४१ ॥

 इदं हि तेजस्तव यद्दुरत्ययं
  तदेव जिज्ञासितुमिच्छता मया ।
 इमं भवानर्थमभि प्रचोदितः
  वृणीष्व किश्चेदपरं [१४३८]व्यवस्यसि ॥ ४२ ॥

 अयमितीदंशब्दार्थमुक्तरूपं भगवान् दर्शयति इदं हीत्यादि । सेजः-अतिदूरपरिक्षेपणशक्तिं, वृद्धस्यापि सत इत्यर्थः, अर्थमभि-अर्थमुद्दिश्य इदं-विक्षेपणं प्रवोदितोऽमि अपरमपि-गोभ्योऽन्यमपि चरितुं व्यवस्वसि चेद्वृणीष्व ॥ ४२ ॥


 ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा
  धनं [१४३९]यदन्यन्मम विप्रकारणात् ।
 भवत्सु सम्यक्प्रतिपादनेन तत्
  मयार्जितं प्रीतियशस्करं भवेत् ॥ ४३ ॥

 इदं वचनमुपचारमात्रमिति न मन्तव्यमित्याह-ब्रवीमीत्यादि । यन्त्रणा-इतोऽभ्यधिकवरवरणसङ्कोच इत्यर्थः । कथमेवमित्यतः-धनमित्यादि । अन्यदिति । दत्तावशिष्टजीवाजीवधनमित्यर्थः । विप्रकारणात्-विप्रप्रयोजनसंपादनार्थमित्यर्थः । कथं विप्रप्रयोजनकत्वं धनस्येत्यतः-भवत्स्वित्यादि । भवत्सु-विप्रेषु सम्यक्–यथाशास्त्रं प्रतिपादनेन हेतुना मयार्जितं तद्धनं मे प्रीतियशस्करं भवेत्, न तु किञ्चिद्भूमिनिक्षिप्तेन ॥ ४३ ॥

 ततस्सभार्यस्त्रिजटो महामुनिः
  गवामनीकं प्रतिगृह्य [१४४०] मोदितः ।
 यशोबलप्रीतिसुखोप [१४४१]वृक्षणीः
  तदाशिषः प्रत्यवदन्महात्मनः ॥ ४४ ॥

 तदाशिषः-तस्य रामस्याशिषः[१४४२] ॥ ४४ ॥

 स चापि रामः प्रतिपूर्णपौरुषः
  महाधनं धर्मबलैरुपार्जितम् ।
 नियोजयामास सुहृज्जने चिरात्
  [१४४३]यथार्हसंमानवचः प्रचोदितः ॥ ४५ ॥


 चिरात् यथार्हसंमानवचीभिः सुहृज्जनैः प्रचोदितः-प्रचोदित-प्रीतिदानव्यापारः ॥ ४५ ॥

 द्विजः सुहृद्भृत्यजनोऽथवा तदा
  दरिद्रभिक्षाचरणश्च [१४४४]यो भवेत् ।
 न तत्र कश्चिन्न बभूव तर्पितः
  यथार्हसंमाननदान [१४४५]संभ्रमैः ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वात्रिंशः सर्गः


 भिक्षां चरतीति वा सरूपविधिना 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् । दरिद्रस्सन् भिक्षा चरणस्तथा । सुप्सुपेति समासः ।[१४४६]चर्व (४६) मानः सर्गः ॥ ४६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वात्रिंशस्सर्गः


त्रयस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्]

 दत्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु
 जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ॥

 एवं कृतयात्रादानस्य पित्रनुमतये पितृसमीपगमनं गत्वेत्यादि ।


 ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे
 मालादामभिराबद्धे सीतया सीतया [१४४७]समलङ्कृते ॥ २ ॥

 ततो गृहीत इति । यथास्वमिति शेषः । तयोरायुधे तदायुधे ॥

 ततः प्रासादहर्म्याणि विमानशिखराणि च ।
 अधिरुह्य जनः श्रीमान् [१४४८]उदासीनो व्यलोकयत् ॥ ३ ॥

 सप्तभूमिकः प्रासादो विमानम् । द्वित्रिभूमिकाः-केवलप्रासादाः। हर्म्यं-बद्धगृहोपरिप्रदेशः । अधिरुह्य जन इति । अधिरुह्य स्थितो यो जनः–तं जनं श्रीमानुदासीनो भूत्वा-अरिरक्षयिषितत्वेन नीरागद्वेषतो व्यलोकयत्-पश्यति स्म ॥ ३ ॥

 न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ।
 आरुह्य तस्मात् [१४४९] प्रासादाद्दीनाः पश्यन्ति राघवम् ॥ ४ ॥

 तस्मादिति । बहुजनाकुलत्वेन रथ्यायां गन्तुमशक्यत्वादेवेत्यर्थः । प्रासादमारुह्य प्रासादात्-प्रासादारोहणरूपोपायादेव पश्यति स्म । अभिषेकदर्शनाभावतो विपरीतवेषदर्शनतश्च दीनाः ॥ ४ ॥

  [१४५०]पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा ।
 [१४५१]ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ ५ ॥
 यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
 तमेकं सीतया सार्धं अनुयाति स्म लक्ष्मणः ॥ ६॥


 ऐश्वर्यस्य रसज्ञः सन् [१४५२] [१४५३] कामिनां चैव कामदः ।
 नेच्छत्येवानृतं कर्तुं [१४५४]वचनं धर्मगौरवात् ॥ ७ ॥

 रसज्ञ इति । परिग्रहसुखज्ञ इति यावत् । वचनं-पितृवचनम् ॥

 या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।
 तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ ८ ॥

 अद्येति । प्रयाणानुमत्यर्थदर्शनसमय इत्यर्थः ॥ ८ ॥

 अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् ।
 वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ ९ ॥
 अद्य नूनं दशरथ[१४५५] स्सत्त्वमाविश्य भाषते ।
 न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ १० ॥
 निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् ।
 किं पुनर्यस्य लोकोऽयं जितो [१४५६] वृत्तेन केवलम् ॥ ११ ॥
 आनृशंस्यमनुक्रोशः श्रुतं शीलं [१४५७]दमश्शमः ।
 राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥

 अनुक्रोशः-दया ॥ १२ ॥


 तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।
 औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ १३ ॥

 औदकानि-उदकजीवनानि ॥ १३ ॥

 पीड्या पीडितं सर्वं जगदस्य जगत्पतेः ।
 मूलस्येवोपघातेन वृक्षः पुष्प[१४५८].फलोपगः ॥ १४ ॥

 पुष्पफलैः उपगः-उपगमो यस्य ॥ १४ ॥

 मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः ।
 पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥ १५ ॥
 ते लक्ष्मण इव क्षिप्रं [१४५९]सपत्नयस्सहबांधवाः ।
 गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥

 सयत्नय इति । सपत्नीका इति यावत् । येनेति । मार्गेणेति शेषः । राघवः-रघुकुलजः ॥ १६ ॥

 उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
 एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७ ॥

 [१४६०]एकदुःखसुखाः-समानसुखदुःखा इति यावत् ॥ १७ ॥

  [१४६१]समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।
 उपात्तधनधान्यानि [१४६२]हृत [१४६३]साराणि सर्वशः ॥ १८ ॥

 समुद्धृतनिधानत्वादिधर्मकानि वेश्मानि प्रतिपद्यतामित्यन्वयः ॥


 रजसाऽभ्यवकीर्णानि परित्यक्तानि देवतैः ।
 [१४६४]मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥ १९ ॥

 उद्विलैः-उत्सृष्टबिलैः ॥ १९ ॥

 अपेतोदकधूमानि हीनसंमार्जनानि च ।
 प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च ॥ २० ॥
 दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ।
 अस्मत्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ २१ ॥

 दुष्कालः-राजिकदैविकक्षोभकालः ॥ २१ ॥

 वनं नगरमेवास्तु येन गच्छति राघवः ।
 अस्माभिश्व परित्यक्तं पुरं संपद्यतां वनम् ॥ २२ ॥
 बिलानि दंष्ट्रिगस्सर्वे सानूनि मृगपक्षिणः ।
 त्यजन्त्वस्मद्भयाद्गीता गजास्सिह्मा वनान्यपि ॥ २३ ॥
 [१४६५]अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ।

 दंष्ट्रिणः-सर्पाः । सानूनि-पर्वतप्रस्थाः । अस्मत्यक्तमिति । पुरमिति शेषः। सेव्यमानं-अस्माभिराश्रियमाणं । वनमिति शेषः ॥

 [१४६६]तृणमांस [१४६७]फलादानं देशं व्यालमृगद्विजम् ॥ २४ ॥
 प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः ।
 राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥ २५ ॥


 तृणादीनामादानं येभ्यो वनदेशेभ्यस्तथा । व्यालादयश्च येषु तथा ॥ २५ ॥

 इत्येवं विविधा वाचो नानाजनसमीरिताः ।
 शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ २६ ॥

 न विचक्रे-विकारं न प्राप ॥ २६ ॥

 स तु वेश्म [१४६८]पितुर्दूरात् कैलासशिखरप्रभम् ।
 अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २७ ॥
 विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
 ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २८ ॥

 [१४६९]प्रतीक्षमाणोऽपि जनं तदाऽऽर्तं
  अनार्तरूपः प्रहसन्निवाथ ।
 जगाम रामः पितरं दिदृक्षुः
  पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २९ ॥

 आर्तं-खिन्नम् ॥ २९ ॥

 तत्पूर्वमैक्ष्वाकसुतो महात्मा
  रामो गमिष्यन् वनमार्तरूपम् ।
 व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं
  पितुर्महात्मा प्रतिहारणार्थम् ॥ ३० ॥

 तत्पूर्वं-तदारभ्येति यावत् । आर्तरूपं-दुःखरूपं । पितुः प्रतिहारणार्थं-निवेदनार्थं सुमन्त्रं प्रेक्ष्य तत्प्रतीक्षां कृत्वा व्यतिष्ठत ॥


 पितुर्निदेशेन तु धर्मवत्सलो
  वनप्रवेशे कृतबुद्धिनिश्रयः ।
 स राघवः प्रेक्ष्य सुमंत्रमब्रवीत्
  निवेदयस्वागमनं नृपाय मे ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः


 कलि (३१) मानः सर्गः ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायं अयोध्याकाण्डे त्रयस्त्रिंशस्सर्गः


चतुस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्]

 ततः कमलपत्राक्षः श्यामो [१४७०]निरुदरो महान् ।
 उवाच रामस्तं सूतं [१४७१]पितुराख्याहि मामिति ॥ १ ॥

 अथ सभार्यस्य सभ्रातृकस्य रामस्य वनवासानुमतिप्रार्थनम् । तत इत्यादि । श्यामः-श्यामवर्णो युवाऽपि ॥ १ ॥

 स रामप्रेषितः क्षिप्रं सन्तापकलुषे[१४७२]न्द्रियः ।
 प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ २ ॥
 उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् ।
 तटाकमिव निस्तोयमपश्यञ्जगतीपतिम् ॥ ३ ॥


 आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् ।
 राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ ४ ॥

 राममेवानु-उद्दिश्य ॥ ४ ॥

 तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा ।
 भयविक्लवया वाचा मन्दया [१४७३] श्लक्ष्णमब्रवीत् ॥ ५ ॥

 वर्धयित्वा-संपूज्य । भयविक्लवयेति । रामो वनप्रयाणोद्युक्त इतीदं परमानिष्टं कथं राज्ञे वदिष्यामीति भयेन विक्लवा-कातरा तया ॥

 अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ।
 ब्राह्मण्येभ्यो धनं दत्वा सर्वञ्चैवोपजीविनाम् ॥ ६ ॥

 सर्वं धनं दत्त्वेत्यनेन सर्वथैव तिष्ठासाभावो द्योत्यते ॥ ६ ॥

 स त्वां पश्यतु, भद्रं ते, रामस्सत्यपराक्रमः ।
 सर्वान् सुहृद आपृच्छय त्वां हीदानीं दिदृक्षते ॥ ७ ॥
 [१४७४]गमिष्यन्तं महारण्यं तं पश्य, जगतीपते !
 वृतं राजगुणैस्सर्वैरादित्यमिव रश्मिभिः ॥ ८ ॥
 [१४७५]सत्यवादी धर्मात्मा गांभीर्यात्सागरोपमः ।
 आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ ९ ॥

 सः सत्यवादी दशरथः ॥ ९ ॥

  [१४७६]सुमंत्रानय मे दारान् ये केचिदिह मामकाः ।
 दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ॥ १० ॥


 सुमंत्रेत्यादि । हे सुमंत्र ! इह-मद्वेश्मनि ये केचिन्मामका दाराः-स्त्रियस्सन्ति तान्सर्वान्दारानिहानय ॥ १० ॥

 सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।
 [१४७७]आर्याः ! ह्वयति [१४७८]वो राजाऽऽगम्यतां तत्र मा चिरम् ॥

 अतीत्य-अतिवेगेन प्राप्येत्यर्थः । आगम्यतामिति पदम् ॥

 एवमुक्ताः स्त्रियस्सर्वाः सुमंत्रेण नृपाज्ञया ।
 प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ १२ ॥

 प्रचक्रमुः-गच्छन्ति स्म । तद्भवनं-तस्य राज्ञो भवनम् ॥ १२ ॥

 अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।
 कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ १३ ॥

 अर्धं सप्तशतस्येत्येकदेशिसमासः । ताम्रलोचना इति । रामप्रयाणश्रुतिजदुःखरोदनादिति शेषः । कौसल्यां परिवार्येत्यनेन प्राग्लक्ष्मणोक्तं सर्वधारणसमर्थसर्वप्रभ्वीत्वं द्योतितम् ॥ १३ ॥

 आगतेषु च दारेषु समवेक्ष्य महीपतिः ।
 उवाच राजा तं सूतं सुमंत्रानयं मे सुतम् ॥ १४ ॥
 स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।
 जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ १५ ॥
 स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् ।
 उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥ १६ ॥

 उत्पपातेत्येतदालिङ्गनार्थम् ॥ १६ ॥


 सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपति;
 तमप्राप्यैव दुःखार्तः पपात भुवि मूर्छितः ॥ १७ ॥

 तमप्राप्पैवेति । आलिलिङ्गिषितपुत्रमसंप्राप्य मध्येमार्गं दुःखमूर्छितः पपात ॥ १७ ॥

 तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महायशाः ।
 विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १८ ॥

 तं पतितं नृपतिं रामःक्षिप्रमभ्यपतत्-अभ्यागतवान् । विसंज्ञमिथ-विसंज्ञमेव ॥ १८ ॥

 [१४७९]स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।
 हा हा रामेति सहसा भूषणध्वनिमिश्रितः ॥ १९ ॥

 भूषणध्वनिमिश्रित इति । उरश्शिरस्ताडनादिप्रचलत्प्रभ्रश्यद्भूषणध्वनिभिर्मिश्रितस्तथा ॥ १९ ॥

 तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।
 पर्यङ्के सीतया सार्धं[१४८०]रुदन्तः समवेशयन् ॥ २० ॥

 सीतया सार्धं तं बाहुभ्यां परिष्वज्य पर्यङ्के समावेशयन् ॥ २० ॥

 अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् ।
 उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ २१ ॥


 आपृच्छे त्वां, महाराज ! सर्वेषामीश्वरोऽसि नः ।
 प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ २२ ॥

 कुशलेन मां पश्येति । सौम्येन चक्षुषा मामनुगृहाणेत्यर्थः ॥ २२ ॥

 लक्ष्मणं चानुजानीहि सीता [१४८१]चान्वेति मां वनम् ।
 [१४८२]कारणैर्बद्दुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ २३ ॥

 ननु लक्ष्मणसीतयोः कुतो वनवासकष्टप्राप्तिः ; न ह्यसौ वरनिर्बन्धप्राप्त इत्यतः–कारणैरित्यादि । हेतुभिरित्यर्थः । तथ्यैः-परमार्थतयोपन्यस्यमानैः । नेच्छत इति । इह स्थातुमिति शेषः ॥ २३ ॥

 अनुजानीहि सर्वान्नः शोकमुत्सृज्य, मानद !
 लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ २४ ॥
 प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।
 उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ २५ ॥

 वनवासायानुज्ञां प्रतीक्षमाणं-अनुमतिं प्रार्थयमानम् ॥ २५ ॥

 अहं, राघव ! कैकेय्या वरदानेन [१४८३]मोहितः ।
 अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २६ ॥

 हे राघव ! अहं कैकेय्या वरदानेन हेतुना मोहितः-निरुतरतया शोकपरवशो जातः ; अतो राज्यव्यापारानर्हः । अतो मां निगृह्य-निरुध्य राज्यशासनं कृत्वा अयोध्यायां त्वमेव स्वभुजवैभवेन राजा भव । प्रवृत्तमभिषेकं समापयेति यावत् ॥ २६ ॥


 एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।
 प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २७ ॥

 भवान् वर्ष[१४८४]सहस्राय पृथिव्याः, नृपते ! पतिः ।
 अहं त्वरण्ये वत्स्यामि [१४८५]न मे [१४८६]कार्यं त्वयाऽनृतम् ॥ २८ ॥

 वर्षसहस्राय पतिर्भव-इतः परमप्यनेककालं पतिर्भवेत्यर्थः । न मे कार्यं त्वयाऽनृतमिति । त्वया दत्तं यत् वरद्वयं तन्मे-मया अनृतं-असत्यं न कार्यं-कर्तुं न योग्यं । तव नरकपातप्रसङ्गादित्याशयः ॥

 नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।
 पुनः पादौ ग्रहीष्यामि [१४८७]प्रतिज्ञान्ते, नराधिप ! ॥ २९ ॥

 यदेवमतो–नवेत्यादि । हे नराधिप ! पुनरागम्य ते पादौ ग्रहीष्यामीति । प्रतिज्ञान्ते सतीति योजना ॥ २९ ॥

 रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः ।
 कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ ३० ॥

 चोद्यमान इति । अद्यैव गमनमनुमन्यस्वेति कैकेय्या मिथः-रहसि चोद्यमान इत्यर्थः ॥ ३० ॥

 श्रेयसे वृद्धये, तात ! पुनरागमनाय च ।
 [१४८८]गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ ३१ ॥


 श्रेयसे-परलोकहिताय वृद्धये-इहलोकाभ्युदयाय च । रिष्टं-पापं-दुःखं च अरिष्टं-स्वस्स्ययनं अस्तु ते । अव्यग्रस्सन् अकुतोभयं पन्थानं गच्छस्व ॥ ३१ ॥

 न हि सत्यात्मनः, तात ! धर्माभिमनसस्तव ।
 विनिवर्तयितुं बुद्धिः शक्यते, रघुनन्दन ! ॥ ३२ ॥

 सत्यात्मनः-सत्यप्रतिष्ठितस्वभावस्य । अत एव धर्माभिमनसः-धर्मसंपादनाभिगतमनस्कस्य ॥ ३२ ॥

 अद्य त्विदानीं रजनी, पुत्र ! मा गच्छ सर्वथा ।
 एकाहदर्शनेनापि [१४८९]साधु तावच्चराम्यहम् ॥ ३३ ॥

 प्रातरेव कैकेय्या प्रस्थापितस्य मात्राद्यनुनययात्रादानादिना आसायं व्यापृतस्य सायं राजानुमत्यर्थमागतस्य राज्ञा प्रवृत्तरजनीसहवासः प्रार्थ्यते-अद्येत्यादि । अद्य-अस्मिन् दिवसे इदानीं संप्रवृत्तां रजनीं इह वस, सर्वथा मा गच्छ । किमर्थमित्यतः-एकाहेत्यादि । चरामि-वर्ते-भोक्ष्यामि च ॥ ३३ ॥

 मातरं मां च संपश्यन् वसेमामद्य शर्वरीं ।
 तर्पितः सर्वकामैस्त्वं श्वः [१४९०]काले साधयिष्यसि ॥ ३४ ॥

 साधयिष्यसि-गमिष्यसि ॥ ३४ ॥

 दुष्करं क्रियते, पुत्र ! सर्वथा, राघव ! त्वया ।
 मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ ३५ ॥

 मत्प्रियार्थं—मम परलोकसौख्यार्थमित्यर्थः ॥ ३५ ॥


 न चैतन्मे प्रियं, पुत्र ! शपे सत्येन, राघव !
 छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ॥ ३६ ॥

 तदेव दर्शयति–न चैतदित्यादि । इहेति शेषः । चलित इत्यादि । भ्रंशितत्वदाभिषेकमनोरथ इत्यर्थः ॥ ३६ ॥

 वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ।
 अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ ३७॥
 न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठस्सुतो मम ।
 अपानृतकथं, पुत्र ! पितरं कर्तुमिच्छसि ॥ ३८ ॥

 या तु वञ्चना मे-मत्सकाशात् लब्धा वनप्रस्थानलक्षणा । वृत्तसादिन्या-कुलोचितचरितनाशिन्या चोदितोऽपि सन् पितरं मां अपानृतकथं-अपगतानृतकथनं कर्तुमिच्छसि-इति यत्–नैतदाश्चर्यं । यत्-यस्मात् त्वं ज्येष्ठः ज्येष्ठगुणः प्रथमस्सुतश्चासि तस्मात्तथा ॥ ३८ ॥

 अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।
 लक्ष्मणेन सह भ्रात्रा [१४९१]दीनो वचनमब्रवीत् ॥ ३९ ॥

 आर्तस्य भाषितं श्रुत्वेति । 'एकाहदर्शनेनापि' इत्यायुक्तरूपं श्रुत्वेत्यर्थः । दीन इति । एकरात्रमपि पितृसुखाय-कैकेय्या अद्यैव गच्छेति नियोगात्-स्थातुमशक्यमभूदिति प्राप्तशोक इत्यर्थः ॥ ३९ ॥

 प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
 अपक्रमणमेवातः [१४९२]सर्वकामैरहं वृणे ॥ ४० ॥

 प्राप्स्यामीत्यादि । अद्य-अस्मिन्नेव दिवसे प्रयाणे सति यान्गुणान्-अद्यैव गच्छेति नियोगे अद्यैव गच्छामीत्याश्रुतपरिपालनजान्


गुणान्-धर्मान् श्वः प्रस्थाने सति कः प्रदास्यति । [१४९३]प्रत्युत केवल- मसत्यदोष एवावशिष्यते । अतोऽद्यैवापक्रमणं-- इतो गमनं सर्वकामैः- सर्वात्मना उत्कटप्रवृत्तजिगमिषया वृणे ॥ ४० ॥

 इयं सराष्ट्रा सजना धनधान्यसमाकुला ।
 मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ४१ ॥
 वनवासकृता बुद्धिर्न च मेऽद्य [१४९४]विलीष्यति ।

 तस्मात् मया विसृष्टा वसुधा भरताय प्रदीयतां, अद्यैव मत्सन्नि-धाविति शेषः । अद्य वनवासकृतेति । अद्यैव वनवासे निश्चिता मे बुद्धिः न विलीष्यति । अतः श्वो गमिष्यसीति मा ब्रूहीत्यर्थः ॥ ४१ ॥

 [१४९५]यस्तुष्टेन वरो दत्तः कैकेय्यै, वरद ! त्वया ॥ ४२ ॥
 दीयतां निखिलेनैव सत्यस्त्वं भव, पार्थिव !

 निखिलेनैवेति । अद्यैव मद्वनप्रस्थापनेनेति शेषः । तदा किल निखिलेन-सर्वात्मना सत्यः-सत्यप्रतिज्ञः भविष्यसि । अतोऽद्यैव मां वनं प्रस्थाप्य त्वं सत्यो भव ॥ ४२ ॥

 अहं निदेशं भवतो यथोक्तमनुपालयन् ॥ ४३ ॥
 चतुर्दशसमा वत्स्ये वने वनचरैः सह ।
 मा विमर्शो वसुमती भरताय प्रदीयताम् ॥ ४४ ॥
 न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् ।

 विमर्शः--भरताय दानविचारः मा स्तु । कथमेवमित्यतः-न हीत्यादि । आत्मनि सुखं-स्वसौख्यमित्यर्थः ॥ ४४ ॥


 यथानिदेशं कर्तुं वै तवैव, रघुनन्दन ! ॥ ४५ ॥
 अपगच्छतु ते दुःखं मा भूर्वाष्पपरिप्लुतः ।
 न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितांपतिः ॥ ४६ ॥
 नैवाहं राज्यमिच्छामि न सुखं न च [१४९६]मैथिलीम् ।
 नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ॥ ४७ ॥
 त्वामहं सत्यमिच्छामि नानृतं, पुरुषर्षभ !
 प्रत्यक्षं तव सत्येन सुकृतेन च [१४९७]ते शपे ॥ ४८ ॥

 प्रत्यक्षं तवेति । तव सन्निधावित्यर्थः ॥ ४८ ॥

 न च शक्यं मया, तात ! स्थातुं क्षणमपि, प्रभो !
 [१४९८]स शोकं धारयस्वैनं, न हि मेऽस्ति विपर्ययः ॥ ४९ ॥

 क्षणमपीति। इह पुर इति शेषः । विपर्ययः-विपरीतानुष्ठानं-इहाद्य स्थितिरूपम् ॥ ४९ ॥

  [१४९९]अर्थितो ह्यस्मि केकैय्या वनं गच्छेति, राघव !
 मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ५० ॥

 वनं गच्छेति । अद्यैवेति शेषः ॥ ५० ॥

 मा चोत्कण्ठां कृथाः, देव ! वने रंस्यामहे वयम् ।
 प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ ५१ ॥

 उत्कण्ठा-शोकातुरतया स्मरणम् । रंस्यामह इति सीतासौमित्रिसम्बन्धात् ॥ ५१ ॥


 पिता हि दैवतं, तात ! देवतानामपि स्मृतम् ।
 [१५००]तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ ५२ ॥
 चतुर्दशसु वर्षेषु गतेषु, नरसत्तम !
 पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥ ५३ ॥

 विमुच्यतामिति । इदानीमिति शेषः ॥ ५३ ॥

 येन संस्तंभनीयोऽयं सर्वो बाष्पकलो जनः ।
 स त्वं, पुरुषशार्दूल ! किमर्थं विक्रियां गतः ॥ ५४ ॥

 येनेति । त्वयेत्यर्थः ॥ ५४ ॥

 पुरं च राष्ट्रं च मही [१५०१] च केवला
 मया विसृष्टा भरताय दीयताम् ।
 अहं निदेशं भवतोऽनुपालयन्
 वनं गमिष्यामि [१५०२]चिराय सेवितुम् ॥ ५५ ॥

 केवला-कृत्स्नेति यावत् ॥ ५५ ॥

 मया विसृष्टा भरतो महीमिमां
 सशैलपण्डां सपुरां सकाननाम् ।
 [१५०३][१५०४]शिवां सुसीमामनुशास्तु केवलं
 त्वया यदुक्तं, नृपते ! तथाऽस्तु तत् ॥ ५६ ॥

 त्वया यदुक्तमिति । कैकेयीमिति यावत् ॥ ५६ ॥


 न मे तथा, पार्थिव [१५०५]धीयते मनः
  महत्सु कामेषु न चात्मनः प्रिये ।
 यथा निदेशे तव शिष्टसंमते
  व्यपैतु दुःखं तव मत्कृतेऽनघ ! ॥ ५७ ॥
 तदद्य नैवानघ ! राज्यमव्ययं
  न सर्वकामान्न सुखं न मैथिलीम् ।
 [१५०६]जीवितं त्वामनृतेन योजयन्
  वृणीय सत्यं व्रतमस्तु ते तथा ॥ ५८ ॥
 फलानि मूलानि च भक्षयन् वने
  गिरींश्च पश्यन् सरितः सरांसि च ।
 वनं प्रविश्यैव विचित्रपादपं
  सुखीभविष्यामि तवास्तु निर्वृतिः ॥ ५९ ॥
 [१५०७]एवं स राजा व्यसनाभिपन्नः
  [१५०८] [१५०९]शोकेन दुःखेन च ताम्यमानः ।
 आलिङ्गय पुत्रं सुविनष्टसंज्ञः
  [१५१०]मोहं गतो नैव [१५११]चिचेष्ट किश्चित् ॥ ६० ॥
 देव्यस्ततो संरुरुदुस्समेताः
  [१५१२]तां वर्जयित्वा नरदेवपत्नीम् ।
 रुदन् सुमन्त्रोऽपि जगाम मुर्छां
  हाहाकृतं तत्र बभूव सर्वम् ॥ ६१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुस्त्रिंशसर्गः



 हाहाशब्दस्य कृतं-करणं यस्मिन् तत्तथा । कृत (६१) मानः सर्गः ॥ ६१ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे चतुत्रिंशस्सर्गः


पञ्चत्रिंशस्सर्गः

[कैकेयीगर्हणम्]

 ततो निर्धूय सहसा शिरो निश्वस्य चासकृत् ।
 पाणिं पाणौ विनिष्षिष्य दन्तान् कटकटाप्य च ॥ १ ॥

 एवं सपरिकरस्य राज्ञः परमशोके प्राप्ते सुमन्त्रो महदन्याय्यमिति कैकेयीं प्रत्याह-तत इत्यादि । शिरो निर्धूयेत्यादि कोपविकाराभिनयः । कटकटाप्येति । कटकटशब्दात्तत्करोतीति ण्यन्ताल्ल्यप् ॥ १ ॥

 लोचने कोपसंरक्ते [१५१३]वर्णं पूर्वोचितं जहत् ।
 कोपाभिभूतस्सहसा सन्तापमशुभं गतः ॥ २ ॥

 लोचने कोपसंरक्ते कृत्वेति शेषः ॥ २ ॥

 मनस्समीक्षमाणश्च सूतो दशरथस्य सः ।
 कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ ३ ॥

 मनस्समीक्षमाणः-कैकेयीविषये स्नेहाभावं जानन् ॥ ३ ॥

 वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव [१५१४]चाशुगैः ।
 कैकेय्यास्सर्व[१५१५]मर्माणि सुमन्त्रः प्रत्यभाषत ॥ ४ ॥


 यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् ।
 भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ॥ ५ ॥
 न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते ।

 यस्यास्तवेति । यया त्वयेत्यर्थः । अतिशयेन कर्तुमशक्य अकार्यतमम् । इह-संसारे ॥ ५ ॥

 पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ ६ ॥
 यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् ।
 महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ॥ ७ ॥

 अन्ततः-सर्वान्ते-त्वत्कृत्य साध्यफलविचार इत्यर्थः । मचलमिव दुष्प्रकम्प्यं सन्तापयसि । राजानमिति शेषः ॥ ७ ॥

 मा वमंस्था दशरथं भर्तारं [१५१६]वरदं पतिम् ।
 भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ ८ ॥
 [१५१७]यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।
 इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि ॥ ९ ॥

 यथावय इति । वयःक्रममनतिक्रम्येति यावत् । लोपयितुमिच्छसीति । अनादिप्रवृत्तधर्मन्यायमिति शेषः ॥ ९ ॥

 राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।
 वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ १० ॥


 न च ते विषये [१५१८]कश्चिद्ब्राह्मणो वस्तुमर्हति ।
  [१५१९]तादृशं त्वममर्यादें अद्य कर्म चिकीर्षसि ॥ ११ ॥

 तादृशमिति । ब्राह्मणवासानर्हमिति यावत् । अमर्यादं-अति-क्रमितज्येष्ठराज्यादिव्यवहारम् ॥ ११ ॥

 आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।
 आचरन्त्या न[१५२०]विदृता सद्यो भवति मेदिनी ॥ १२ ॥

 आश्चर्यमित्यादि । यस्यास्ते ईदृशममर्यादमतिघोरं वृत्तं-चरित्रमस्ति इदमाश्चर्यमिति पश्यामि । लोक एतादृशस्याननुभूताश्रुतपूर्वत्वा-दत्याश्चर्यमेव पश्यामि । अपि चैवंविधं घोरमाचरन्त्या त्वया हेतुभूतया मही सद्यो न विद्यता-विदीर्णेतीदमप्याश्चर्यम् । एतादृश महाऽन्याये मह्या तथा किल भाव्यम् ॥ १२ ॥

 [१५२१]महाब्रह्मर्षि [१५२२]सृष्टा वा ज्वलन्तो भीमदर्शनाः ।
  [१५२३]धिक् त्वां दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥

 अपि च वसिष्ठादिमहाब्रह्मर्षिसृष्टाः-निर्मिताः ज्वलन्तो भीमदर्शनाः दण्डाः- कृत्यालक्षणाः रामप्रव्राजने स्थितां-कृतनिश्चयां त्वां न हिंसन्तीति यत्, अतो धिग्ब्राह्मण्यमिति शेषः ॥ १३ ॥


 [१५२४]आम्रं छित्वा कुठारेण निम्बं [१५२५]परिहरेत्तु [१५२६]यः ।
 यश्चैनं पयसा सिञ्चन्नैवास्य मधुरो भवेत् ॥ १४ ॥

 अथान्यापदेशेन राजानमनुक्रोशति-आम्रमित्यादि । परिहरेदिति । निम्बोपरोधमिति शेषः । एनं-निम्बम् । नैवास्येति । एवं निम्बस्य दोहलं कुर्वतोऽपि पुरुषस्य प्रीतये न मधुरो भवेत्-मधुररसो भवेत् । अतो वृथा श्रमोऽयं कैकेय्यनुवर्तन राज्ञ इत्याशयः ॥ १४ ॥

 [१५२७][१५२८]आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च ।
 न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ १५ ॥

 एवं कोपवचनान्युक्त्वा मर्मवचनमप्याह-आभिजात्यमित्यादि । ते मातुराभिजात्यं-प्रशस्त मातापितृजन्मोचितव्यवहारवत्त्वरूपं यथा, तथैव ते आभिजात्यमपीति । कारणानुसारेण हि कार्यम् । तदेव दर्शयति–न हीत्यादि । निम्बात् क्षौद्रं न स्रवेदिति वचो लोके निगदितं-लोकप्रसिद्धमेव किलेत्यर्थः ॥ १५ ॥

 तव मातुरसद्ग्राहं विद्म पूर्वं यथाश्रुतम् ।

 ननु का मे मातुराभिजात्यक्षतिरित्यत्राह-तवेत्यादि । असद्ग्राहं-घोरपापकर्माभिनिवेशम् । पूर्वं यथा-येन प्रकारेण श्रुतं तथा तत् संप्रति विद्मः, 'विदो लटो वा' इति मादेशः ॥

 पितुस्ते वरदः [१५२९]कश्चित् ददौ वरमनुत्तमम् ॥ १६ ॥
 सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः ।
 तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ १७ ॥


 वेदनं कीदृशमित्यतस्तत्प्रतिपादयति-पितुरित्यादि । वरदः-कश्चिदृषिरिति यावत् । अनुत्तमं वरं-अव्यक्तवाग[१५३०]वर्ण्यसर्वभूतरुतपर-स्परबोधनीयार्थज्ञानविषयकं । तस्मात् उक्तलक्षणवरदानबलादेव । स वसुधाधिपः सर्वभूतरुतं-तत्प्रतिपाद्यभावजातं संजज्ञे-जानीते स्म ।

तिर्यग्गतानामिति । तिर्यक्स्रोतोगतपशुपक्ष्यादीनामित्यर्थः ॥ १७ ॥

 ततो [१५३१]जृम्भस्य शयने विरुताद्भूरिवर्चसः ।
 पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥ १८ ॥

 ततः-तत एव हेतोः कदाचिच्छयने शयानो राजा जृम्भस्य-तदाख्यस्य पक्षिणो विरुतान् श्रुत्वा मूरिवर्चसस्ते पितुस्तस्य पक्षिणो भावः-अभिप्रायः विदितः-अवगतः अतः तत्र-शयने शयान एव बहुधाऽहसत्-भावपरिज्ञानजसन्तोषेण द्विस्त्रिरहसत् ॥ १८ ॥

 तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।
  [१५३२]वरं [१५३३]ते, नृपते ! सौम्य ! जिज्ञासामीति चाब्रवीत् ॥ १९ ॥

 अथ तत्र शयने शयाना ते जननी क्रुद्धाऽभवत्-मामयं परिहसतीति । अथ राज्ञा तु, हासस्त्वद्विषयको न भवति, कश्चन वरोऽस्ति, तेन मे भूतान्तरभावज्ञानसामर्थ्यमस्ति, अतस्तज्ज्ञानादहासिषमित्युक्ते, हे नृपते ! तं वरं जिज्ञासामि । कीदृशोऽसौ । केन प्रोक्तमिति जिज्ञासामीत्यब्रवीत् ॥ १९ ॥

 नृपश्चोवाच तां देवीं, देवि ! शंसामि ते यदि ।
 ततो मे मरणं सद्यो भविष्यति न संशयः ॥ २० ॥


 एवमुक्तो नृपश्च तां प्रत्युवाच-हे देवि ! यदि ते शंसामि बरस्वरूप तत्प्रदातारं च, ततो मे अनन्तरमेव सद्यो मरणं भविष्यति ॥

 माता ते पितरं, देवि ! पुनः केकयमब्रवीत् ।
 शंस मे जीव वा मा वा न मामपहसिष्यसि ॥ २१ ॥

 एवमुक्ते ते माताऽऽह-त्वं जीव वा म्रियस्व वा । सर्वथा शंस । तस्मिन्नवगमे मां नापहसिष्यतीति ज्ञास्य इति[१५३४] ॥ २१ ॥

 प्रियया च तथोक्तः स केकयः पृथिवीपतिः ।
 [१५३५] तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥ २२ ॥

 एवं तयोक्तस्ते पिता, यः स्वस्य वरदः, तस्मै महर्षये तमर्थं--तदुक्तकथननिर्बन्धं तत्त्वतः कथयामास ॥ २२ ॥

 [१५३६]ततः स वरदस्साधू राजानं प्रत्यभाषत ।
 [१५३७]म्रियतां ध्वंसतां वेयं मा [१५३८]कृथास्त्वं, महीपते ! ॥ २३ ॥

 ततः साधुस्स वरदः राजानं प्रत्यभाषत-म्रियतामियम् ! ध्वंसतां-प्रच्युतस्वाधिपत्या वा भवतु । तस्या वचो मा कृथा इति

 स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः
 मातरं ते निरस्याशु विजहार कुबेरवत् ॥ २४ ॥


 अथ स तस्य वचः श्रुत्वाऽऽगतः पश्चात् वचनाय निर्बध्नन्तीं, भद्रे ! त्वमितो गच्छेति ते मातरं निरस्य-परित्यज्य-[१५३९]निर्वास्य कुबेरवद्विजहार ॥ २४ ॥

 तथा त्वमपि राजानं दुर्जनाचरिते पथि ।
 असद्ग्राहमिमं मोहात् कुरुषे, पापदर्शिनि ! ॥ २५ ॥

प्रकृते यथोक्तमर्थमुपनयति-तथेत्यादि ॥ २५ ॥

 सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा ।
 पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥ २६ ॥

 मात्रीयासद्ग्राहस्य न्यायप्राप्तत्वमस्या दर्शयति-सत्य इत्यादि । मा-मामिति यावत् । समनुजायन्ते-पितृस्वभावं समनुकुर्वाणा जायन्त इत्यर्थः ॥ २६ ॥

 [१५४०]नैवं भव गृहाणेदं यदाह वसुधाधिपः ।
 भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ २७ ॥

 नैवं भवेति । मातृवदसद्ग्रहाभिनिवेशिनी मा भव । जनस्यास्येति । अस्मदादेरित्यर्थः । गतिर्भवेति । शरणं भवेति यावत् ॥ २७ ॥

 मा त्वं प्रोत्साहिता पापैः देवराजसमप्रभम् ।
 भर्तारं लोकभर्तारं [१५४१]असद्धर्ममुपादधाः ॥ २८ ॥

 भर्तारं प्रति असद्धर्मं-मिथ्यावलृप्तधर्ममेवोपादधाः-उपाधिं कृतवत्यसि ॥ २८ ॥


 [१५४२]न हि मिथ्याप्रतिज्ञातं करिष्यति तवानघः ।
 श्रीमान् दशरथो राजा, देवि! राजीवलोचनः ॥ २९ ॥

 मिथ्याप्रतिज्ञातमिति । लीलयैव केवलमुक्तमित्यर्थः । अतो राजीवलोचनो राजा न करिष्यति ॥ २९ ॥

 ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।
 रक्षिता जीवलोकस्य, देवि ! रामोऽभिषिच्यताम् ॥ ३० ॥

 अतो ज्येष्ठत्वादिगुणको रामोऽभिषिच्यताम् । अभिषेकानुमतिस्त्वया क्रियतामित्यर्थः ॥ ३० ॥

 परिवादो हि ते, देवि ! महान् लोके चरिष्यति ।
 यदि रामो वनं याति विहाय पितरं नृपम् ॥ ३१ ॥

 विपक्षे बाधमाह-परिवाद इत्यादि । चरिष्यति । प्रचरिष्यतीति यावत् ॥ ३१ ॥

 [१५४३]स राज्यं राघवः पातु भव त्वं विगतज्वरा ।
 [१५४४]न हि ते राघवादन्यः क्षमः पुरवरे [१५४५]वसन् ॥ ३२ ॥


 यदेवमतः-स राघवो राज्यं पातु, त्वं च विगतज्वरा भव । राघवात्-रामादन्यः इह पुरे वसन् भवेद्यदि तदा ते न हि क्षमः-न युक्तः ॥ ३२ ॥

 रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।
 प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ ३३ ॥

 यदेवमतः-राम इत्यादि । पूर्ववृत्तमिति । पुत्रं राज्ये प्रतिष्ठाप्य वनं प्रतिष्ठमानानां पूर्वराजर्षीणां वृत्तमनुस्मरन्नित्यर्थः ॥ ३३ ॥

 इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं [१५४६]राजसंसदि ।
 सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥ ३४ ॥
 नैव सा क्षुभ्यते देवी न च स्म परिदूयते ।
 न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः


 न परिदूयत इति । दूङ् खेदे । मार्ग (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चत्रिशस्सर्गः


षट्त्रिंशः सर्गः

[सिद्धार्थवचनम्]

 [१५४७]ततस्सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।
 सबाष्पमतिनिश्वस्य [१५४८]जगादेदं पुनर्वचः ॥ १ ॥


 एवं सुमन्त्रेण मिथ्याप्रतिज्ञाश्रयणेन रामाभिषेकस्यैव स्थापने राजा तु स्वकृतस्य वास्तवत्वमवगच्छन् राम[१५४९]

प्रवासं निश्चित्य रामस्य वनवास एव सुखवासोपायमादिशति-तत इत्यादि । प्रतिज्ञयेति । वास्तव्येति यावत् ॥ १ ॥

 सूत ! रत्नसुसंपूर्णा [१५५०][१५५१]चतुर्विधबला चमूः ।
 राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २ ॥

 चतुर्विधबला-रथादिचतुर्विधबलवती चमूः-सेना प्रतिविधीयतां- नियुज्यतामिति यावत् ॥ २ ॥

 रूपाजीवाश्च [१५५२]शालिन्यो वणिजश्व महाधनाः ।
 शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ ३ ॥

 शालिन्य इति । रूपशालिन्य इत्यर्थः । सम्यक् प्रवर्तिताः ॥ ३ ॥

 ये[१५५३] चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।
 तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥
 आयुधानि च [१५५४]नागराश्शकटानि च ।
 अनुगच्छन्तु काकुत्स्थं व्याघाश्चारण्य[१५५५]गोचराः ॥ ५ ॥

 नागराः–नगरैकप्राप्याः पदार्थविशेषाः विचित्रवस्त्राभरणचन्दनादयः ॥ ५ ॥


 निघ्नन् मृगान् कुञ्जरांश्च पिवंश्चारण्यकं मधु ।
 नदीश्च विविधाः पश्यन् न [१५५६]राज्यस्य स्मरिष्यति ॥ ६ ॥

 न राज्यस्येति । न राज्यसुखं स्मरिष्यतीत्यर्थः ॥ ६ ॥

 धान्यकोशश्च यः कश्चित् धनकोशश्च मामकः ।
 तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७ ॥
 यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।
 ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ ॥
  [१५५७]भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
 सर्वकामैस्सह श्रीमान् रामस्संसाध्यतामिति'इति [१५५८] ॥ ९ ॥

 संसाध्यतां-प्रस्थाव्यतामिति यावत् ॥ ९ ॥

 एवं ब्रुवति काकुत्स्थे [१५५९]कैकेय्या भयमागतम् ।
 मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ १० ॥
 सा [१५६०] विषण्णा च संत्रस्ता [१५६१]मुखेन परिशुष्यता ।
 राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥
 राज्यं [१५६२]गतधनं, साधो ! पीतमण्डां सुरामिव ।
 निराखाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १२ ॥

 मण्डः- सुरान्तर्गतसारांशः ॥ १२ ॥

 कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।
 राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ ॥


 वहन्तं किं तुदसि मां नियुज्य धुरि [१५६३] [१५६४]माऽहिते !
 [१५६५]अनायें ! कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ १४ ॥

 वहन्तमिति । दासबत् त्वया भरताभिषेके रामविवासने च नियुज्य नियुक्तधुरञ्च वहन्तमपि मां किं तुदसि-व्यथयसि ? हे अनायें ! इदानीमारब्धं सर्वसौभाग्योपेततयाऽस्मत्प्र-स्थापनं किमिति नोपारुधः ? पूर्वं-रामवनवासप्रार्थनकाल एव सर्वं त्यक्त्वा केवलं यात्विति किमिति न प्रार्थितम् ? अत एतन्निरोधे तव सामर्थ्यं' नास्तीत्यर्थः ॥ १४ ॥

 तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना ।
 कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ १५ ॥

 द्विगुणं क्रुद्धेति । प्रकारान्तरेण मत्प्रयोजनं नाशयतीति ॥

 तवैव वंशे सगरो ज्येष्ठपुत्र [१५६६]मुपारुधत् ।
 असमञ्ज इति ख्यातं, तथाऽयं गन्तुमर्हति ॥ १६ ॥

 अवृतस्यापि दृष्टान्तावष्टम्भेनार्थसिद्धं वनप्रस्थानस्य कैवल्यमित्याशयेनाह- तवैवेत्यादि ॥ १६ ॥

 एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।
 व्रीडितश्व जनः सर्वः सा च तं [१५६७]नावबुध्यत ॥ १७ ॥


 एवमुक्त इति । असमञ्जवद्गमनेऽभिहित इति यावत् । स्वप्रतिश्रुतार्थातिरिक्तस्य दुराशया प्रलापतो राज्ञो धिक्कृतिः । तं-- कृतधिक्कारमित्यर्थः ॥ १७ ॥

 तत्र [१५६८]महामात्रः सिद्धार्थो नाम नामतः ।
 शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १८ ॥

 अथासमञ्जवत् प्रस्थापनं त्वद्दुराशा[१५६९]मात्रत एव केवलम् । नात्र तदवतारप्रसङ्ग इति सिद्धार्थाख्यो मन्त्रिवृद्ध आह-तत्रेत्यादि ।

 महामात्रः-प्रधानः ॥ १८ ॥

 असमञ्जो गृहीत्वा हि क्रीडतः पथि दारकान् ।
 सरय्वाः प्रक्षिपन्नप्सु [१५७०]रमते तेन दुर्मतिः ॥ १९ ॥
 तं दृष्ट्वा नागरास्सर्वे क्रुद्धा राजानमब्रुवन् ।
 असमञ्जं वृणीष्वैकमस्मान् वा, राष्ट्रवर्धन ! ॥ २० ॥
 तानुवाच ततो राजा किन्निमित्तमिदं भयम् ॥
 ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ २१ ॥
 क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्त[१५७१]चेतनः ।
 सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते ॥ २२ ॥
 स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ।
 तं तत्त्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २३ ॥

 तं पुत्रं तत्याज हीति योजना ॥ २३ ॥


 तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।
 यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता ॥ २४ ॥

 अन्वशात्-अनुशिष्टवान् ॥ २४ ॥

 [१५७२] फालपिटकं गृह्य गिरि [१५७३]दुर्गाण्यलोकयन् ।
 [१५७४] सर्वा दिशस्त्वनुचरन् [१५७५]अतिष्ठत् पापकर्मकृत् ॥ २५ ॥
 इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः ।

 गिरिदुर्गाण्यलोकयन्-गिरिदुर्गाणि परिभ्रममाणः कन्दादिकमलोकयन् सर्वा दिशश्च कन्दाद्यर्थमनुचरन् अतिष्ठत्-यावज्जीवं पितुराज्ञया निजापराधात् ॥ २५ ॥

 रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥

 प्रकृते कुत एतत्प्रसङ्ग इत्याह-रामः किमित्यादि ॥ २६ ॥

 न हि कञ्चन पश्यामो [१५७६]राघवस्यागुणं वयम् ।
 दुर्लभो ह्यस्य निरयः, शशाङ्कस्येव कल्मपम् ॥
 अथवा, देवि ! दोषं त्वं कञ्चित्पश्यसि राघवे ।
 तमद्य ब्रूहि तत्वेन [१५७७]तदा रामो [१५७८]विवास्यते ॥ २८ ॥


 अगुणं-दोषम् । दुर्लभः-अप्रापणीय एव, अस्य निरयः- वनवासदुःखम् ।अथवा शशाङ्कस्यापि कल्मषमिव राघवे यदि किञ्चिद्दोषं पश्यसि तदद्य ब्रूहि । तदा असमञ्जवत् त्यागो भविष्यतीति शेषः ॥ २८ ॥

 [१५७९]अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च ।
 निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ २९ ॥
 तदलं, देवि ! रामस्य श्रिया विहतया त्वया ।
 लोकतोऽपि हि ते रक्ष्यः परिवादश्शुभानने ॥ ३० ॥

 त्वया विहतया रामस्य श्रिया ते न किञ्चित् । तदलं वृथा श्रमेण । हि-यस्मात् लोकतः प्राप्तः परिवादश्च रक्ष्यः-परिहार्यः । ततोऽप्यलम् ॥ ३० ॥

 श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।
 शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥

 एतद्वचो नेच्छसि, [१५८०]पापवृत्ते !
  हितं न [१५८१]जानासि ममात्मनो वा ।
 [१५८२]आस्थाय मार्गं कृपणं कुचेष्टा
  चेष्टा हि ते साधुपथादपेता ॥ ३२ ॥

 एतद्वच इति । सिद्धार्थवच इत्यर्थः । मम हितं न जानासि, आत्मनः-तवापि हितं न जानासि । कृपणं मार्गमास्थाय येयं कुचेष्टा कृता सेयं चेष्टा साधुपथादपेता हि ॥ ३२ ॥


 [१५८३]अनुव्रजिष्याम्यहमद्य रामं
  राज्यं परित्यज्य सुखं धनं च ।
  [१५८४]सदैव राज्ञा भरतेन च त्वं
  यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्त्रिशस्सर्गः


 लीला (३३) मानस्सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षट्त्रिंशस्सर्गः


सप्तत्रिंशस्सर्गः

[वसिष्ठाक्रोशः]

 [१५८५]महामात्रवचः श्रुत्वा रामो दशरथं तदा ।
 अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १ ॥

 एवं सह विभूत्या वनवासे मन्त्रिवृद्धेन समर्थिते रामस्तु शुद्धभावत्वात् जटावल्कलधारिणा वस्तव्यमित्युक्त्या अर्थात् भोगपरि-करत्यागो वृत एव, प्रयोजनञ्च ततो मम नास्तीति मन्यमानस्सन् राजोपदिष्टभोगपरिकरं प्रत्याख्याति-महामात्रेत्यान्दे ॥ १ ॥

 व्यक्तभोगस्य मे, राजन् ! वने वन्येन जीवतः ।
 किं कार्य[१५८६]मनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २ ॥


 त्यक्तभोगस्येति । जटावल्कलधारिणाऽवश्यवस्तव्यत्वेन राजभोगत्यागस्यावश्यप्राप्तत्वादित्याशयः । अनुयात्रेण-अनुयात्रावता। बलादिनेत्यर्थः ॥ २ ॥

 यो हि दत्त्वा द्विपश्रेष्ठं [१५८७]कक्ष्यायां कुरुते मनः ।
 रञ्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ ३ ॥

 असङ्गतश्चायमनुयात्राप्रस्थापनवाद इत्याह-यो हीत्यादि । कक्ष्यायां-पर्यङ्कबन्धनरजौ ॥ ३ ॥

 तथा मम, सतां श्रेष्ठ ! किं ध्वजिन्या, जगत्पते !
 सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ ४ ॥

 तथा ममेति । उक्तदृष्टान्तवत् राज्यमेव त्यजतः राज्यावयवेन कक्ष्याकल्पेन ध्वजिन्यादिना किम् ? न किमपि प्रयोजनमित्यर्थः । यदेवं–अतस्सर्वाण्येव भरतायैवानुजानामि, मातुः प्रीतये । अतश्चीरादीन्वनोपयुक्तपदार्थानेवानयन्तु । भवन्त इति शेषः ॥ ४ ॥

 खनित्रपिटके चोभे [१५८८]समानयत गच्छत ।
 चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ५ ॥
 [१५८९]अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् ।
 उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ ६ ॥

 एवमुक्ते तत्साहसेऽपि कैकेय्येव प्रावर्तत-अथेत्यादि । चीरे इति । अन्तरीयोत्तरीयरूपे ॥ ६ ॥


 स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
 सूक्ष्मवस्त्रमवक्षिप्य सुनिवस्त्राण्यवस्त ह ॥ ७ ॥

 अवक्षिप्य-परित्यज्य । मुनिवस्त्राणि-चीराणि । अवस्त-वस आच्छादने, अस्माल्लङ् ॥ ७ ॥

 लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ।
 तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ ८ ॥
 अथात्मपरिधानार्थं सीता कौशेयवासिनी ।
 संप्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ ९ ॥

 अथ सीता आत्मनः-स्वस्या अपि परिधानार्थं प्राप्तं चीरं समीक्ष्य त्रस्ताऽभूत् । पृषती-मृगी ॥ ९ ॥

 सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः ।
 [१५९०]कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा ॥ १० ॥
 अश्रुसंपूर्णनेत्रा च धर्मज्ञा [१५९१]धर्मदर्शिनी ।
 गन्धर्वरराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ११ ॥

 [१५९२]व्यपत्रपमाणेव-लज्जमानेव कैकेय्यास्सकाशात् प्रगृह्य ॥ ११ ॥

 कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ।
 इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ १२ ॥

 इति ह्यकुशला-चीरबन्धनाऽसमर्था ; अपरिचयात् ॥ १२ ॥


 कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना ।
 तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ १३ ॥
 तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः ।
 चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ १४ ॥

 कौशेयस्योपरीति । तस्याः कौशेयपरित्यागादेः प्रसक्त्यभावात् ॥

 रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् ।
 अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ १५ ॥
 ऊचुश्च [१५९३]परमायत्ता रामं ज्वलितचेतसम् ।
 वत्स ![१५९४]नैवं नियुक्तेयं वनवासे मनस्विनी ॥ १६ ॥

 परमायत्ताः-परमखिन्नाः, यती प्रयत्ने णौ, यत्तः खेदोपस्करयोः ॥ १६ ॥

 पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ।
 [१५९५][१५९६]तावद्दर्शनमस्या नः सफलं भवतु, प्रभो ! ॥ १७ ॥

 अस्या नस्सफलमिति । अस्या दर्शनेन नः-अस्माकं जीवितं सफलं भवतु । अत इयमिह तिष्ठत्वित्यग्रेण सम्बन्धः ॥ १७ ॥

 लक्ष्मणेन सहायेन वनं गच्छस्व, पुत्रक!
 नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ १८ ॥


 कुरु नो याचनां, पुत्र ! सीता तिष्ठतु भामिनी ।
 धर्मनित्यस्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ १९ ॥
 तासामेवंविधा वाचः शृण्वन् दशरथात्मजः ।
 बबन्धैव तदा चीरं [१५९७]सीतया तुल्यशीलया ॥ २० ॥

 तासामेवंविधा वाचः शृण्वन्नपि तुल्यशीलया सीतया अनङ्गीकृतनगरस्थितिकया प्रेरितस्सन् तदा चीरं बबन्धैव ॥ २० ॥

 चीरे गृहीते तु तया [१५९८]समीक्ष्य नृपतेर्गुरुः ।
 निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमत्रवीत् ॥ २१ ॥
 [१५९९]अतिवृत्ते ! सुदुर्मेधे ! कैकेयि! कुलपांसनि !
 वञ्चयित्वा तु राजानं [१६००][१६०१]न प्रमाणेऽवतिष्ठसे ॥ २२ ॥

 अतिवृत्ते-अतिमर्यादे । प्रमाणे यावद्धृतं तावत्प्रमाणे नावतिष्ठसे ॥ २२ ॥

 न गन्तव्यं वनं देव्या सीतया, शीलवर्जिते !
 [१६०२]अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ २३ ॥

 कुत इत्यतः-न गन्तव्यमित्यादि । त्वद्वरानन्तर्भावादित्याशयः । यदेवमतः-अनुष्ठास्यतीत्यादि । प्रकृतमासनं-सिह्मासनं । अनुष्ठास्यतिराज्यं करिष्यति । यावद्रामागमनमित्यर्थः ॥ २३ ॥

 आत्मा हि दारास्सर्वेषां दारसंग्रहवर्तिनाम् ।
 आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ २४ ॥


 कथं स्त्रिया राज्याधिष्ठानमित्यतः-आत्मेत्यादि । दारसंग्रहवर्तिनां गृहस्थाश्रमनिष्ठानामित्यर्थः । अतो रामस्येयमात्मेति कृत्वा तस्य मेदिनीं ज्यैष्ठ्यादुभयविधात् प्राप्तां पालयिष्यति। 'अर्धो वा एष आत्मनो यत् पत्नी' इति श्रुतेरात्मत्वं चाविवादम् ॥ २४ ॥

 [१६०३]अथ यास्यति वैदेही वनं रामेण सङ्गता ।
 [१६०४]अत्रैनमनुयास्यामः पुरं चेदं गमिष्यति ॥ २५ ॥

 अथ यास्यति । त्वन्निर्नबर्धादिति शेषः । वयमिति । अस्मदाद्या ब्राह्मणा इत्यर्थः । अत्रेति । यत्र रामः अत्रैनमनुयास्याम इत्यर्थः ॥ २५ ॥

 [१६०५]अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।
 सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २६ ॥

 अन्तपालाः-शुद्धान्तरक्षकाः । अभ्यन्तरभृत्यवर्गा इत्यर्थः । सहोपजीव्यं-उपजीव्यं जीवाजीवधनं-तत्सहितं तथा । सपरिच्छदं-दासीदासशकटादिपरिकरयुक्तम् ॥ २६ ॥

 [१६०६]भरतश्च सशत्रुघ्नः चीरवासा वनेचरः ।
 वने वसन्तं काकुत्स्थ[१६०७]मनुयास्यति पूर्वजम् ॥ २७ ॥

 भरतश्च पूर्वजमनुयास्यतीति । तत्स्वभावस्त्वस्माभिर्ज्ञायत इति शेषः ॥ २७ ॥


 ततः शून्यां गतजनां वसुधां [१६०८] पादपैस्सह ।
 त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ २८ ॥

 पादपैस्सहेत्यनेन अटवीभूतामिति द्योत्यते ॥ २८ ॥

 न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ।
 तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ २९ ॥
 [१६०९]ह्यदत्तां महीं पित्रा भरतः शास्तु [१६१०]मर्हति ।
 त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ ३० ॥

 अपि च सर्वथैव ते भरतराज्यप्रयासो व्यर्थ इत्युच्यते-न हीत्यादि । पित्रा अदत्तामिति । रामाय न्यायेन ससन्तोषं पित्रा दत्तेति सर्वेषां नः प्रत्यक्षम् । तत्तु केवलं त्वया प्रतिबद्धम् । त्वयि वा पितृनाशिकायां अतः परं पुत्रवद्वस्तुं नार्हति-इत्यनुकर्षः । कुत एवमित्यतः–यदीत्यादि। यदि महीपतेर्जातः-यद्यसतीसुतो न स्यादित्यर्थः 'पितॄन् समनुजायन्ते नराः' इति खल्लु न्याय इत्याशयः । भरतस्य च देहग्रहो दशरथमहायागमूल इत्यविवादात् ॥ ३० ॥

 यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि ।
 पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ ३१ ॥

 सर्वथाऽसौ पितृवंशे तत्प्राधान्येन स्थितस्सन् चरित्रज्ञपितृपितामह परंपराप्राप्तस्वकुलोचिताचारज्ञस्सन् अन्यथा न करिष्यति । ज्येष्ठे जाग्रति स्वयं राज्यं न करिष्यतीत्यर्थः ॥ ३१ ॥


 तत्त्वया पुत्रगर्धिन्या[१६११]पुत्रस्य कृतमप्रियम् ।
 [१६१२]लोको न हि स विद्येत यो न राममनुव्रतः ॥ ३२ ॥

 पुत्रगर्धिन्या-पुत्रराज्याभिलाषवत्या । यो रामं नानुव्रतः स लोकः-प्राणी दैवहतां त्वां विना न विद्येत-न संभवेत् ॥ ३२ ॥

 द्रक्ष्यस्यद्यैव, कैकेयि ! पशुव्यालमृगद्विजान् ।
 गच्छतस्सह रामेण [१६१३]पादपांश्च तदुन्मुखान् ॥ ३३ ॥

 किमिह प्रमाणमित्यत्र प्रत्यक्षमेवेत्युच्यते - द्रक्ष्यस्यद्यैवेत्यादि । पादपांश्च तदुन्मुखान्, किमु मनुष्यानिति शेषः ॥ ३३ ॥

 अथोत्तमान्याभरणानि, देवि !
  देहि स्नुषायै व्यपनीय चीरम् ।
 [१६१४]न चीरमस्याः प्रविधीयतेति
  न्यवारयत्तद्वसनं वसिष्ठः ॥ ३४ ॥

 एवं सर्वज्ञत्वाद्भगवान् वसिष्ठः भाव्यर्थजातमनुगृह्य प्रकृतानुष्ठेय-मुपदिशति-अथोत्तमानीत्यादि । यथोचितानि उत्तमानि च तथा ॥

 एकस्य रामस्य वने निवासः
  त्वया वृतः, केकयराजपुत्रि !
 विभूषितेयं प्रतिकर्मनित्या
  वसत्वरण्ये सह राघवेण ॥ ३५ ॥


 'चीरं न प्रविधीयते' इत्युक्तमेवार्थं बोधयति एकस्येत्यादि । प्रतिकर्म-प्रसाधनव्यापारः स नित्यो यस्यास्सा तथा । अत एव विभूषिता सतीयं रामेण सहारण्ये स्वभर्तृशुश्रूषाप्रयुक्ता सती वसतु ॥ ३५ ॥

 यानैश्च मुख्यैः परिचारकैश्च
  सुसंवृता गच्छतु राजपुत्री ।
 वस्त्रैश्च सर्वैस्सहितैर्विधानैः
  नेयं वृता ते वरसंप्रदाने ॥ ३६ ॥

 तस्मिंस्तथा जल्पति विप्रमुख्ये
  गुरौ नृपस्याप्रतिमप्रभावे ।
 नैव स्म सीता विनिवृत्तभावा
  प्रियस्य भर्तुः [१६१५]प्रतिकारकामा ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तत्रिंशस्सर्गः


 एवं गुरौ जल्पत्यपि पियस्य भर्तुः प्रतिकारकामा प्रतिच्छन्दा-कारसम्पादनकामा सती चीरपरिग्रहाद्विनिवृत्तभावा नैव स्म-नैवाऽभूत् । स्थाली (३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तत्रिंशरसर्गः


अष्टात्रिंशस्सर्गः

[दशरथाक्रोशः]

 तस्यां चीरं वसानायां नाथवत्यां [१६१६]अनाथवत् ।
 प्रचुक्रोश जनस्सर्वो [१६१७]धिक् त्वां दशरथं त्विति ॥ १ ॥


 एवं भर्त्रनुरोधेन चीरग्रहं सीताया गुरुवचोबलात् राजा वारयतितस्यामित्यादि । दशरथं धिगिति जनश्चुक्रोशेति । तद्वरानन्तर्गतानिष्टां-शमपि अनिवारयन् तूष्णीं तिष्ठतीति जनाक्रोशः ॥ १ ॥

 [१६१८]तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।
 [१६१९]स निःश्वस्योष्णमैक्ष्वाकः तां भार्यामिदमब्रवीत् ॥ २ ॥
 सुकुमारी च बाला च सततं च सुखोचिता ।
 नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ ३ ॥

 एवं श्रुतजनाक्रोशो वारयितुमुपक्रमते–सुकुमारीत्यादि ॥ ३ ॥

 इयं हि [१६२०]कस्यापकरोति किञ्चित्
  तपस्विनी राजवरस्य पुत्री ।
 या चीरमासाद्य [१६२१]जनस्य मध्ये
  जाता[१६२२]विसंज्ञा श्रमणीव काचित् ॥ ४ ॥

 विसंज्ञा-अपरिचिताशक्यार्थानुष्ठानप्रसङ्गतः घूर्णितचिता । श्रमणी-भिक्षुकी-तापसी ॥ ४ ॥

 चीराण्यपास्यात् जनकस्य कन्या
  नेयं प्रतिज्ञा मम दत्तपूर्वा ।
 xथासुखं गच्छतु राजपुत्री
  वनं समग्रा सह सर्वरत्नैः ॥ ५ ॥


 चीराण्यपास्यात्-त्यजतु । तत्र हेतुमाह-नेयमित्यादि । सीतापि चीरवासिनी वनं यात्विति त्वया प्रतिज्ञाते सा प्रतिज्ञा [१६२३]मम-मया न दत्तपूर्वा, नानुमतपूर्वा यतः तस्मादेव यथासुखं गच्छतु ॥ ५ ॥

 अजीवनार्हेण मया नृशंसा
  कृता प्रतिज्ञा [१६२४]क्रियते न तावत् ॥
 [१६२५] त्वया हि बाल्यात् प्रतिपन्नमेतत्
  [१६२६] तन्मा दहेद्वेणुमिवात्मपुष्पम् ॥ ६ ॥

 अजीवनार्हेणेति । गले पादुकान्यायेन प्राप्तप्रियपुत्रवनवासानुमतिकेन-जीवनक्षमदशारहितेन मया या नृशंसा-अतिक्रूरा राम[१६२७]विवास-विषयिणी प्रतिज्ञा कृता, सा तावत् क्रियते न ? नञ् स्वरे, तावच्छब्दो वाक्यालंकारे, क्रियत एव किलेत्यर्थः अतो यदेतदभ्यधिकं सीता वीरग्रहणमपि प्रतिपद्यसे तदेव त्वया बाल्यात्-अज्ञाना-देव प्रतिपन्नम् । नात्र ते सामर्थ्यम् । तत्-तस्मात् वेणुमात्मपुष्पमिव त्वत्कृतातिप्रवृत्तिस्त्वां मा दहेत्-मा नाशयतु । असाध्यव्यापाराद्विरमेत्यर्थः ॥ ६ ॥

 [१६२८]रामेण यदि ते, पापे ! किञ्चित्कृतमशोभनम् ।
 अपकारः क इह ते वैदेह्या दर्शितोऽधमे ! ॥ ७ ॥

 क इहेति । चीरग्रहणपूर्वकवनवासप्रयोजनक इति दर्शितः-सम्पादितः ॥ ७ ॥


 मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी ।
 अपकारं कमिव ते करोति जनकात्मजा ॥ ८ ॥
 ननु पर्याप्त[१६२९]मेतत्ते, पापे ! रामविवासनम् ।
 किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ ९ ॥

 भूयः पातकैरिति । अभ्यधिकं पुनरप्यनुष्ठीयमानैरित्यर्थः ॥ ९ ॥

 [१६३०]प्रतिज्ञाता मया तावत् त्वयोक्तं, देवि ! शृण्वता ।
 [१६३१]रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ १० ॥

 प्रतिज्ञातेत्यादि । अभिषेकाय मया कृतनिश्चयं पश्चात् तत्प्रतिबन्धे सति इहागतं रामं प्रति यदब्रवीः 'जटादिधरो वनं गच्छ इति–तावदेव त्वयोक्तं शृण्वता मया तावदेव प्रतिज्ञाता-तथाऽस्त्वित्यनुमतेत्यर्थः ॥ १० ॥

 [१६३२]न त्वेतत् समतिक्रम्य निरयं गन्तु[१६३३]मर्हसि ।
 [१६३४]मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ ११ ॥

 एतत्समतिक्रम्य-मत्प्रदत्तरामवनवासमप्यतिक्रम्य-अधिक-प्रवृत्त्या त्वं निरयं गन्तुं नार्हसि । कोऽसौ मदतिक्रम इत्यतः-मैथिलीमित्यादि । या त्वं हि-यस्मान्मैथिलीमपि चीरवासिनीमीक्षसे-चीरदानपूर्वकमपेक्षसे, अतोऽयमतिक्रमः । अतस्तन्मा कुरु । नात्र मयाऽनुमन्तव्यनिर्बन्ध इति शेषः ॥ ११ ॥


 एवं ब्रुवन्तं पितरं रामस्संप्रस्थितो वनम् ।
 अवाक्छिरसमासीनं इदं वचनमब्रवीत् ॥ १२ ॥

 एवं ब्रुवन्तमिति । सीता यथासुखं गच्छत्विति ब्रुवन्तम् । संप्रस्थित इति । एवंवादात् सीतया सह वनाय कृतानुमतिकः तया सह संप्रस्थितः-समुद्युक्तप्रस्थान इत्यर्थः ॥ १२ ॥

 इयं, धार्मिक ! कौसल्या मम माता यशस्विनी ।
 वृद्धा चाक्षुद्रशीला च [१६३५] न च त्वां, देव ! गर्हते ॥ १३ ॥

 न च गर्हत इति । पिता ते सत्यव्रतो भवत्वित्येव तदनुशासनादिति शेषः ॥ १३ ॥

 मया विहीनां, वरद ! प्रपन्नां शोकसागरम् ।
 [१६३६]अदृष्टपूर्वव्यसनां भूयस्सम्मन्तुमर्हसि ॥ १४ ॥

 भूयस्सम्मन्तुमिति । प्रधानपत्नीत्वेन सर्वतस्त्वथा पुरस्क्रियमाणाऽपि अतोऽप्यधिकं सम्मानं कर्तुमर्हसि मत्प्रार्थनया ॥ १४ ॥

 इमां, महेन्द्रोपम ! [१६३७]जातगर्धिनी
  तथा विधातुं जननीं ममार्हसि ।
 यथा वनस्थे माय शोककर्शिता
  न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ १५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टात्रिंशः सर्गः


 [१६३८] मयि-मत्समीपे । जातगर्धिनीं-जातो मत्पुनदर्शने गर्धः-अभिलाषः यस्याऽस्तीति सा तथा । न्यस्य-त्यक्त्वा। माया (१५) मानः सर्गः ॥ १५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टात्रिंशस्सर्गः


एकोनचत्वारिंशस्सर्गः

[वनगमनाऽऽपृच्छा]

 रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् ।
 समीक्षय सह भार्याभिः राजा [१६३९]विगतचेतनः ॥ १ ॥

 अथानुमतसभ्रातृ मार्यवन गमनस्य रामस्य यावत्स्वजनपदं रथेन राज्ञा प्रस्थापनम्-रामस्येत्यादि ॥ १ ॥

 नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।
 न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २ ॥

 न प्रत्यवेक्षतेति । प्रत्यवेक्षितुं नाशक्नोत्तद्धोरमित्यर्थः ॥ २ ॥

 स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ।
 विललाप महाबाहू राममेवानुचिन्तयन् ॥ ३ ॥
 मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः ।
 प्राणिनो हिंसिता वाऽपि [१६४०]तस्मादिदमुपस्थितम् ॥ ४ ॥

 विवत्सा इति । धेनव इति शेषः ॥ ४ ॥


 न त्वेवानागते काले देहात्त्यजति जीवितम् ।
 कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ ५ ॥

 कैकेय्या क्लिश्यमानस्यापि मम यतो मृत्युर्न विद्यते-तत्प्राप्तिर्न [१६४१]विद्यते अतः काले अनागते देहाज्जीवितं नैव च्यवति ॥ ५ ॥

 योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् ।
 विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ ६॥

 आच्छाद्यते अनेनेति आच्छादः, तापसानामाच्छादो यस्य स तथा । एवंभूतमात्मजं योऽहं पश्यामि तस्य मे मृत्युर्न विद्यत इति पूर्वेणान्वयः ॥ ६ ॥

 एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः ।
 स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ ७ ॥

 क्लिश्यते जन इति । कैकेयीव्यतिरिक्तस्सर्वोऽपि जन इत्यर्थः । इमां निकृतिमिति । वरलक्षणशाट्यमित्यर्थः । 'कुसृतिर्निकृतिश्शाक्यम्' ॥ ७ ॥

 एवमुक्त्वा तु वचनं बाष्पेण [१६४२]पिहितेन्द्रियः ।
 रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः ॥ ८ ॥
 संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।
 [१६४३] नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥
 औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।
 प्रापयैनं महाभागं इतो जनपदात् [१६४४]परम् ॥ १० ॥


 औपवाह्यं-उपवहनमात्रोपयुक्तं-युद्धानर्हमित्यर्थः । युक्त्वा-योजयित्वा । परमिति । दक्षिणमिति शेषः ॥ १० ॥

 [१६४५]एवं मन्ये गुणवतां गुणानां फलमुच्यते ।
 पित्रा मात्रा च यत्साधुः वीरो निर्वास्यते वनम् ॥ ११ ॥

 एवमित्यादि । साधुर्वीरो रामः पित्रा मात्रा च वनं निर्वास्यत इति यत् एवमेव-गुणवतां गुणानां फलमेवमेवोच्यते शास्त्रेणेति मन्ये इति दुःखातिशयादुक्तिः ॥ ११ ॥

 राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ।
 योजयित्वाऽऽययौ तत्र रथमश्वैरलङ्कृतम् ॥ १२ ॥

 योजयित्वा आययौ इति पदम् ॥ १२ ॥

 तं रथं राजपुत्राय सूतः कनकभूषितम् ।
 आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥

 रथमाचचक्ष इति । रथ उपस्थित इत्युक्तवानित्यर्थः ॥ १३ ॥

 राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये ।
 उवाच देश[१६४६]कालज्ञो निश्चितं सर्वतः [१६४७]शुचिः ॥ १४ ॥

 अस्मिन् समये राजा वित्तसञ्चये व्यापृतं-धनाध्यक्षं सत्वरमाहूय निश्चितं वच उवाच । सर्वतः शुचिरिति । इहामुत्रानृण इत्यर्थः ॥ १४ ॥

 वासांसि च [१६४८]महार्हाणि भूषणानि महान्ति च ।
 [१६४९]वर्षाण्येतानि संख्याय वैदेह्या क्षिप्रमानय ॥ १५ ॥


 एतानि वर्षाणीति । चतुर्दशवर्षाणीति यावत् ॥ १५ ॥

 नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।
 प्रायच्छत्सर्वमाहृत्य सीतायै [१६५०]क्षिप्रमेव तत् ॥ १६ ॥

 प्रायच्छदिति । कोशाध्यक्ष इति शेषः ॥ १६ ॥

 सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
 भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥

 सुजातानि गात्राणीति योजना ॥ १७ ॥

 व्यराजयत वैदेही वेश्म तत्सुविभूषिता ।
 उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥ १८ ॥

 उद्यत इति षष्ठी । काले-प्रातःकाले । प्रमेव स्थितां तामिति योजना[१६५१] ॥ १८ ॥

 तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।
  [१६५२][१६५३]अत्याचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ १९ ॥

 अत्याचरन्तीं-शुश्रूषमाणां । भर्तारमिति शेषः ॥ १९ ॥

 असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः ।
 भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ २० ॥

 असत्यः-कुलटाः प्रियैस्सततं सत्कृता अपि विनिपातगतं-कृच्छ्रगतं तं भर्तारं शुश्रूषितुं नानुमन्यन्ते ॥ २० ॥


 एष स्वभावो नारीणां अनुभूय पुरा सुखम् ।
 अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ २१ ॥

 एष त्वसतीनां नारीणां स्वभावः । ता इमाः पुरा-पूर्वं सुखमनुभूय पश्चादस्य भर्तुरल्पामप्यपदं-दारिद्र्यरोगादिलक्षणां प्राप्य-दृष्ट्वा तं दुष्यन्ति दूषयन्ति इति यावत् । न केवलमेतावत्, प्रजहत्यपि, 'अदभ्यस्तात्' इति झस्य अदादेशः ॥ २१ ॥

 [१६५४]असत्यशीला विकृता [१६५५]दुर्गा अहृदयास्सदा ।
  [१६५६]असत्यः पापसङ्कल्पाः क्षण[१६५७]मात्रविरागिणः ॥ २२ ॥

 असत्यशीलाः-असत्यवचनशीलाः विकृताः-विकारोपेते-क्षणादिव्यापाराः । दुर्गाः-दुष्टाभिसरणगमनवत्यः । स्वभर्तरि सदा अहृदयाः-विरसाः । असत्यः-कुलटाः । पापे-परपुरुषनानाविध-प्रसङ्गलक्षणे सङ्कल्पः-मानसव्यापारः यासां तास्तथा सङ्कल्पः कर्म मानसम्' । क्षणमात्रविरागिणः–क्षणमात्रविरागिण्यः-अल्पनिमित्ततः क्षणमात्रवैरस्याः-अविश्वसनीयस्नेहा इति यावत् ॥ २२ ॥

 न कुलं न कृतं [१६५८]विद्या न दत्तं नापि [१६५९][१६६०]सङ्ग्रहः ।
 स्त्रीणां गृह्णाति हृदयं अनित्यहृदया हि ताः ॥ २३ ॥

 कुलं-प्रशस्तकुलजन्म । कृतं-उपकारः । विद्या-सद्गुरूपदिष्टधर्मविद्या । दत्तं-वस्त्रादिदानम् । सङ्ग्रहः-संग्रहणम्, न्यायतः


स्वीकारः । सर्वमप्येतत् स्त्रीणामसतीनां हृदयं [१६६१]गृह्णाति-तत्पाप-प्रवृत्तिं न प्रतिबध्नाति । 'कामातुराणां न भयं न लज्जा' इति कृत्वा कुलाद्युचितकृत्यं पृष्ठे कृत्वा कुलाद्यनुचितलोकगर्हितकृत्ये मोहात् प्रवर्तन्त इत्यर्थः । कुत एवमित्यतः -अनित्यहृदया हि ता इति । अव्यवस्थितचित्ता इत्यर्थः ॥ २३ ॥

 साध्वीनां [१६६२]हि स्थितानां तु शीले सत्ये श्रुते [१६६३]स्थिते ।
 स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ २४ ॥

 एवं कैकेय्यादिवन्न वर्तितव्यमित्युपदिश्य कौसल्यादिवद्वर्तितव्य-मित्युपदिशति–साध्वीनामित्यादि । पतिव्रतानामिति यावत् । अत एव शीले-स्वकुलोचितचरित्रे, श्रुते-गुरुजनोपदेशे, स्थिते-भावे निष्ठा, स्वकुलोचितमर्यादावस्थाने स्थितानां स्त्रीणां परमपवित्राणां-परम- पुण्यसाधनानां मध्ये परमं-परमसुकृतसाघनं पतिरेक एव । अतोऽसौ स्त्रियाः सर्वसाधनेभ्यो विशिष्यते ॥ २४ ॥

 स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम ।
 तव दैवतमस्त्वेषः निर्धनः सधनोऽपि वा ॥ २५ ॥

 यदेवं अतः–स इत्यादि । २५ ॥

 विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।
 कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे[१६६४]मुखस्थिता ॥ २६ ॥

 अभिमुखतया स्थिता-अभिमुखस्थिता ॥ २६ ॥


 करिष्ये सर्वमेवाहं आर्या यदनुशास्ति माम् ।
 अभिज्ञाऽस्मि यथा भर्तुः वर्तितव्यं श्रुतं च मे ॥ २७ ॥

 यथा भर्तुरिति । विषय इति शेषः । श्रुतं च म इति । मन्मातापितृभ्यां चेति शेषः ॥ २७ ॥

 न मामसञ्जनेनार्या [१६६५]समानयितुमर्हति ।
 धर्माद्विचलितुं नाहं अलं चन्द्रादिव प्रभा ॥ २८ ॥

 असज्जनेन समानयितुं-समं विचारयितुम् । नाहमलमिति । असमर्थति यावत् ॥ २८ ॥

 नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः ।
 नापतिस्सुखमेधेत या स्यादपि शतात्मजा ॥ २९ ॥

 अतन्त्री-तत्रीरहिता वीणा, 'सिरा तन्त्री' । शतात्मजेति बहुव्रीहिः ॥ २९ ॥

 मितं ददाति हि पिता मितं माता मितं सुतः ।
 अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ ३० ॥

 अमितस्येति । ऐहिकामुष्मिकसकलसुखप्रद इत्यर्थः ॥ ३० ॥

 साऽहमेवंगता [१६६६]श्रेष्ठाश्रुतधर्म [१६६७]परा वरा ।
 आर्ये ! किमवमन्येऽहं, स्त्रीणां भर्ता हि दैवतम् ॥ ३१ ॥


 एवंगतेति । सर्वतस्सर्वदा सर्वलोकपरमसुखहेतुर्भर्ता परमपूज्य इति सम्यगवगतवतीत्यर्थः । श्रेष्ठाभ्यः-पूज्याभ्यः श्वश्रूमातृप्रमुखाभ्यः श्रुतः धर्मः-स्त्रीधर्मः परोऽपि यया सा तथा । किमवमन्य इति । स्वधर्मापरिज्ञाने किलावमतिप्रसङ्गः । ज्ञातस्वधर्मा कस्मादवमन्ये ; न कस्मादपीत्यर्थः ॥ ३१ ॥

 सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् ।
 शुद्धसत्त्वा मुमोचाश्रु सहसा [१६६८]दुःखहर्षजम् ॥ ३२ ॥
 तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्ये[१६६९]ऽतिसत्कृताम् ।
 रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ३३ ॥

 सत्कृतामिति । कैकेयीव्यतिरिक्तसर्वमातृभिरिति शेषः ॥ ३३ ॥

 अम्ब ! मा दुःखिता [१६७०]भूस्त्वं पश्य त्वं पितरं मम ।
 क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३४ ॥

 वनवासस्येति । वनवासकालस्येत्यर्थः ॥ ३४ ॥

 सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च
 [१६७१]सा [१६७२]समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्धृतम् ॥ ३५ ॥

 सुप्ताया इति । सुप्ताया इव नव वर्षाणि पञ्च च चतुर्दशघटिका-वद्गमिष्यन्ति । चक्षुषी निमील्य स्वस्वकालदुःखमविगणय्य तिष्ठेत्यर्थः । सा त्वं समग्रं-समग्रश्रेयस्कं भ्रातृमार्यासमग्रं, पुनरिव सुहृद्धृतम् ॥ ३५॥


 [१६७३]एतावदभिनीतार्थं उक्त्वा स जननीं वचः ।
 त्रयश्शतशतार्धाश्च ददर्शा[१६७४]वेक्ष्य मातरः ॥ ३६ ॥

 अभिनीतार्थं-निर्णीतार्थं । अवेक्ष्य ददर्शेति । प्रत्येकं विविच्यावेक्ष्य ददर्श स्नेहवशात् । मातरमिति विपरिणामः । तथा [१६७५] मातरश्चापि तं ददृशुरिति विपरिणामः ॥ ३६ ॥

 ताश्चापि स तथैवार्ता मातृृर्दशरथात्मजः ।
 धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३७ ॥

 अथ स दशरथात्मज इदं वाक्यं निजगाद । मातृृः प्रतीति शेषः ॥ ३७ ॥

 [१६७६]संवासात्परुषं किञ्चित् अज्ञानाद्वापि यत्कृतम् ।
 तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ ३८ ॥

 संवासः-सहवासः ॥ ३८ ॥

 वचनं राघवस्यैतत् [१६७७]धर्मयुक्तं [१६७८]समाहितम् ।
 शुश्रुवुस्ताः स्त्रियस्सर्वाः शोकोपहतचेतसः ॥ ३९ ॥
 जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः ।
 मानवेन्द्रस्य भार्याणां एवं वदति राघवे ॥ ४० ॥


 [१६७९]मुरजपणवमेधघोषवत्
  दशरथवेश्म बभ्रुव यत्पुरा ।
 [१६८०]विलपितपरिदेवनाकुलं
  व्यसनगतं तदभूत्सुदुःखितम् ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः


 मुरजपणवा एव मेघाः, तेषां घोषः अस्त्यस्येति तथा । कवि (४१) मानः सर्गः ॥ ४१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः


चत्वारिंशस्सर्गः

[वनप्रस्थानम्]

 अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ।
 [१६८१]उपसंगृह्य राजानं चक्रुदींनाः प्रदक्षिणम् ॥ १ ॥

 एवं कृतसर्वानुमतिकस्य निर्याणम्–अथेत्यादि । दीना[१६८२].इति राज्ञो दुःखदर्शनात् ॥ १ ॥


 तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
 राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २ ॥

 तं चेति । उपसंग्रहपूर्वं कृतप्रदक्षिणं राजानमित्यर्थः । शोकसम्मूढत्वं प्राग्वन्मातृदुःखदर्शनादेव ॥ २ ॥

 अन्वक्षं लक्ष्मणो भ्रातुः [१६८३] कौसल्यामभ्यवादयत् ।
 अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥

 अन्वक्षं-अनुगं-अनुपदम् । लक्ष्मणः रामेण कौसल्याभि [१६८४] वादनात्पश्चात् भ्रातुर्जननीं कौसल्यां अभ्यवादयत् ॥ ३ ॥

 तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।
 हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ ४ ॥
 [१६८५]सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ।
 रामे [१६८६]प्रमादं मा कार्षीः, पुत्र ! भ्रातरि गच्छति ॥ ५ ॥

 सृष्ट इति । अत्रत्ये सुहृज्जने स्वनुरक्तोऽपि मया त्वं वनवासाय सृष्टः-अनुमतः । स त्वं रामे-रामसेवायां प्रमादं-अनवधानं मा कार्षीः ॥ ५ ॥


 व्यसनी वा दरिद्रो वा गतिरेष तवाऽनघ !
 एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥
 इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ।
 [१६८७]दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ ७ ॥

 इदं हि-ज्येष्ठानुवर्तनरूपं । क्षत्रकुलोचितधर्मान्तरमप्याहदानमित्यादि । मृधेषु-युद्धेषु ॥ ७ ॥

 लक्ष्मणं त्वेवमुक्त्वा सा [१६८८]संसिद्धिं प्रियराघवम् ।
  [१६८९]सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥

 संसिद्धिं-समीचीना भगवद्ब्रह्मरामसेवामयी सिद्धिर्यस्य स तथा । प्रियो राघवो यस्य स तथा । तं-लक्ष्मणम् ॥ ८ ॥

 [१६९०]रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
 [१६९१]अयोध्यामटवीं विद्धि गच्छ, तात ! यथासुखम् ॥ ९ ॥
 ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् ।
 विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ १० ॥


 रथमारोह, भद्रं ते, राजपुत्र ! महायशः !
 [१६९२]क्षिप्रं त्वां प्रापयिष्यामि यत्र मां, राम ! वक्ष्यसि ॥ ११ ॥

 यत्र मामिति । यद्देशप्रापणे म[१६९३]वक्ष्यसि-नियोक्ष्यसि तं देशं त्वां क्षिप्रं प्रापयिष्यामि । नेह रजन्यां वस्तव्यमिति शेषः ॥ ११ ॥

 चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।
 तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ १२ ॥

 कुत इत्यतः–चतुर्दशेत्यादि । यानि चतुर्दशवर्षाणि त्वया वने वस्तव्यानि, तान्यद्यैवोपक्रमितव्यानीति देव्या कैकेय्या तथा चोदितोऽसि 'अद्यैव गच्छ' इति ॥ १२ ॥

 तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा ।
 आरुरोह वरारोहा कृत्वाऽलङ्कारमात्मनः ॥ १३ ॥
 वनवासं हि संख्याय वासांस्याभरणानि च ।
 भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १४ ॥
 तथैवायुधजातानि भ्रातृभ्यां कवचानि च ।
 रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ १५ ॥
 अथो ज्वलनसङ्काशं चामीकरविभूषितम् ।
 तमारुरुहतुस्तूर्णां भ्रातरौ रामलक्ष्मणौ ॥ १६ ॥

 'कृत्वाऽलंकारमात्मनः' इत्युक्तम् ; तत्पाधनसंपत्तिः प्रागेव प्राप्तेति स्मार्यते-वनवासं हीत्यादि । श्वशुरो यानि ददौ तानि, आयुषजातादीनि च रथोपस्थे प्रतिन्यस्य-प्रतिष्ठाप्य आरुरुहतुः ॥ १६ ॥


 सीतातृतीयानारूढान् दृष्ट्वा [१६९४][१६९५]धृष्टमचोदयत् ।
 सुमंत्र[१६९६]स्सम्मतानश्वान् वायुवेगसमान् जवे ॥ १७ ॥

 सम्मतान्-सम्मतसर्वलक्षणान् ॥ १७ ॥

 प्रयाते तु महारण्यं चिररात्राय राघवे ।
 बभूव नगरे मूर्छा बलमूर्छा जनस्य च ॥ १८ ॥

 चिररात्रायेत्यव्ययम्, 'सत् फट् कत् चिररात्राय' इति चादौ पठ्यमानत्वात्, चिरपर्यायः, चिरं[१६९७]-उक्तरूपविलम्बपूर्वं राघवेऽरण्यं प्रयाते तु सति नगरे विद्यमानस्य जनस्य मूर्छा बभूव ; 'मूर्छा मोहसमुच्छ्रयोः' । रात्रौ निर्गच्छतोऽपि रामस्य निर्गमनज्ञानं बभूव । तत एव बलस्य-चतुरङ्गबलस्य च मूर्छा-सम्भ्रमो बभूव ॥ १८ ॥

 तत्समाकुलसंभ्रान्तं मत्त[१६९८]संकुपितद्विपम् ।
 हयशिञ्जित निर्घोषं पुरमासीन्महास्वनम् ॥ १९ ॥

 अस्यैव प्रपञ्चः-तदित्यादि । तत्-पुरं [१६९९]समाकुलसंभ्रान्तं-समाकुलं-इतिकर्तव्यतामूढं संभ्रान्तं-रामानुगमनत्वरायुक्तम् । मत्ताः अत एव संकुपिताः द्विपाः यस्मिन् तत्तथा । हयानां पर्याकुलप्राणिभूषणशब्दानां च निर्घोषः-ध्वनिर्यास्मिन् तत्तथा । 'भूषणानां तु शिञ्जितम्' ॥ १९ ॥


 ततस्सबालवृद्धा सा पुरी परमपीडिता
 राममेवाभिदुद्राव[१७००]घर्मार्ता सलिलं यथा ॥ २० ॥

 परमपीडितेति । रामवियोगदुःखेनेति शेषः ॥ २० ॥

 पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः ।
 बाष्पपूर्णमुखास्सर्वे तमूचुर्भृशनिस्वनाः ॥ २१ ॥

 तमिति । सुमन्त्रमिति यावत् ॥ २१ ॥

 संयच्छ वाजिनां रश्मीन्, सूत ! याहि शनैश्शनैः ।
 मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ २२ ॥
 आयसं हृदयं नूनं राममातुरसंशयम् ।
 [१७०१][१७०२]यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २३ ॥

 देवगर्भः-देवनिधिः भगवान् हिरण्यगर्भः । तदंशत्वादेव तत्प्रतिमः, अनन्तकल्याणगुणैकतानस्वभावः ॥ २३ ॥

 कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।
 न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २४ ॥

 मेरुमर्कप्रभा यथेति । नित्यं तत्प्रदक्षिणसञ्चारादेव ॥ २४ ॥

 अहो ! लक्ष्मण ! सिद्धार्थः सततं प्रियवादिनम् ।
 भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ २५ ॥

 यस्त्वं भ्रातरं परिचरिष्यसि, स त्वं अहो सिद्धार्थः-कृतार्थः ॥


 महत्येषा हि ते[१७०३]सिद्धिः एष चाभ्युदयो महान् ।
 एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २६ ॥

 तदेव प्रतिपाद्यते-महतीत्यादि ॥ २६ ॥

एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ।
 नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ २७ ॥
 अथ राजा वृतस्त्रीभिः दीनाभिर्दीनचेतनः ।
 निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ २८ ॥
 शुश्रुवे चाग्रतस्त्रीणां[१७०४]रुदन्तीनां महास्वनः ।
 यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २९ ॥
 पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाऽभवत् ।
 परिपूर्णः शशी काले ग्रहणोपप्लुतो यथा ॥ ३० ॥

 सन्नः-खिन्नः ॥ ३० ॥

 स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।
 सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ ३१ ॥
 रामो याहीति सूतं तं तिष्ठेति स जनस्तदा ।
 उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ ३२ ॥

 सूतं तमिति । आहेति शेषः । उभयं नाशकदिति । तथा च नातिमन्दं नातिवेगं वाहयति स्मेति यावत् ॥ ३२ ॥

 निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
 पतितै[१७०५]रभ्यवहितं प्रशशाम महीरजः ॥ ३३ ॥

 [१७०६]अभ्यवहितं-अवसिक्तमिति यावत् ॥ ३३ ॥


 [१७०७]रुदिताश्रुपरि[१७०८]द्यूनं हाहाकृतमचेतनम् ।
 प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥ ३४ ॥

 रुदिताश्रुपरिद्यूनं-[१७०९]विजिगीषाशून्यं, 'दिवोऽविजिगीषायां' इति निष्ठातस्य नत्वम् ॥ ३४ ॥

 सुस्राव[१७१०]नयनैस्त्रीणां अस्त्रमायाससम्भवम् ।
 मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ ३५ ॥

 नयनैरिति । प्रमुक्तमिति शेषः । अस्रं-अश्रु । आयासः-खेदः । मीनानां परस्परसंक्षोभेन चलितैः-चलितेभ्यः पङ्कजेभ्यः सलिलमिवेत्यभूतोपमा । कादाचित्कवर्षवशसम्भृतोदकपद्मसम्भवात् सिद्धोपमा वा ॥ ३५ ॥

 दृष्ट्वा तु नृपतिः श्रीमान् [१७११]एकचित्तगतं पुरम् ।
 निपपातैव दुःखेन हतमूल इव द्रुमः ॥ ३६ ॥

 एकचित्ततां गतं तथा । स्वेनेति शेषः ॥ ३६॥

 ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।
 नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३७ ॥


 हा रामेति जनाः केचित् [१७१२]राममातेति चापरे ।
 [१७१३]अन्तः[१७१४]पुरसमृद्धं च क्रोशन्तः पर्यदेवयन् ॥ ३८ ॥

 क्रोशन्त इति । उच्चैश्शब्देन सहेत्यर्थः ॥ ३८ ॥

 अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् ।
  [१७१५]राजानं मातरं चैव ददर्शानुगतौ पथि ॥ ३९ ॥
 स बद्ध इव पाशेन किशोरो मातरं यथा ।
 धर्मपाशेन [१७१६]संयुक्तः प्रकाशं नाभ्युदैक्षत ॥ ४० ॥

 किशोरः-अश्वपोतः । प्रकाशं नाभ्युदैक्षतेति । सङ्कुचितदर्शन व्यापारोऽभूदित्यर्थः । तत्र हेतुः-धर्मेत्यादि ॥ ४० ॥

 [१७१७]पदातिनौ च यानार्हौ अदुःखार्हौ सुखोचितौ ।
 दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम् ॥ ४१ ॥
 न हि तत् पुरुषव्याघ्रः [१७१८]दुःखजं दर्शनं पितुः ।
 मातुश्च सहितुं शक्तः तोत्रार्दित इव द्विपः ॥ ४२ ॥

 सहितुमिति । 'तीषसह-'इति पक्षे इट् । तोत्रं-प्रतोदः ॥ ४२ ॥


 [१७१९]प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।
 बद्धवत्सा यथा धेनू राममाताऽभ्यधावत ॥ ४३ ॥

 प्रत्यगारं । वत्सावस्थितिमद्गृहमुद्दिश्येत्यर्थः ॥ ४३ ॥

 तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ।
 क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ॥ ४४ ॥
 रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् ।
 असकृत् प्रैक्षत तदा नृत्यन्तीमिव मातरम् ॥ ४५ ॥

 रामलक्ष्मणसीतार्थमिति । तद्वियोगशोकवशादित्यर्थः । स्रवन्तीमिति । मुञ्चन्तीमिति यावत् । नृत्यन्तीमिवेति । तद्वदितस्ततः परिभ्रमन्तीमिति यावत् ॥ ४५ ॥

 तिष्ठेति राजा चुक्रोश याहि याहीति राघवः ।
 सुमन्त्रस्य बभूवात्मा [१७२०]चक्रयोरिव चान्तरा ॥ ४६ ॥

 परस्परविरुद्धव्यापारमध्यगत्वे दृष्टान्तः–वक्रयोरित्यादि । युयुत्सुसेनयोरित्यर्थः । अन्तरा-मध्यप्रदेशः ॥ ४६ ॥

 [१७२१]नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि ।
 चिरं दुःखस्य पापिष्ठं इति रामस्तमब्रवीत् ॥ ४७ ॥


 उपालब्धोऽपीति । पुनर्गमनानन्तरं राज्ञा कृतोपालम्भोऽपीत्यर्थः । दुःखस्य हेतुभूतं पापं चिरं-विलम्बो मा भूत् । अत उपालब्धोऽपि नाश्रौषमित्येव वक्ष्यसि । ततः शीघ्रं गच्छेति तमब्रवीत् ॥ ४७ ॥

 स रामस्य वचः[१७२२]कुर्वन् अनुज्ञाप्य [१७२३]च तं जनम् ।
 व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ॥ ४८ ॥

 तं जनमनुज्ञाप्येति । अनुव्रजत्पौरजनं रामेण कृतानुज्ञं कृत्वा स्वतो व्रजतोऽपि हयान् पुनश्च शीघ्रं-शीघ्रगमनार्थं चोदयामास ॥

 न्यवर्तत [१७२४]राज्ञा रामं कृत्वा प्रदक्षिणम् ।
 मनसाऽप्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ ४९ ॥

 राज्ञा । सहेति शेषः । रामं प्रदक्षिणं कृत्वेति । मनसेति शेषः । न्यवर्ततेति । देहमात्रेणेति शेषः । अपि तु मनसा अश्रुवेगैश्च न्यवर्तत । मानुषं-मानुषसमूहः, जनसमूह इत्यर्थः, 'तस्य समूहः' इति मानुषशब्दात् अण् ॥ ४९ ॥

 यमिच्छेत् पुन[१७२५]रायान्तं नैनं दूरमनुव्रजेत् ।
 इत्यमात्या महाराजं ऊचुर्दशरथं वचः ॥ ५० ॥

 अथ उत्कटदिदृक्षस्य च राज्ञः प्रकृतीनां हितवचनान्निवृत्तिरित्युच्यते-यमित्यादि ॥ ५० ॥


 तेषां वचः सर्व[१७२६]गुणोपपन्नं
  प्रखिन्नगात्रः प्रविषण्णरूपः ।
 निशम्य राजा कृपणः सभार्यः
  व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चत्वारिंशस्सर्गः


 व्यवस्थितः–स्थितवानित्यर्थः । [१७२७]आशा (५०) मानः सर्गः ॥ ५१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चत्वारिंशस्सर्गः


एकचत्वारिंशस्सर्गः

[पौरव्यसनम्]

 तस्मिंस्तु पुरुषव्याघ्रे [१७२८].विनिर्याते कृताञ्जलौ ।
 आर्तशब्दोऽथ संजज्ञे स्त्रीणामन्तःपुरे महान् ॥ १ ॥

 अथ रामवनप्रयाणनिमित्तः सर्वप्रजाशोकः । तस्मिंस्त्वित्यादि ।

 अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
 यो गतिश्शरणं चासीत् स नाथः क्व नु गच्छति ॥ २ ॥

 तपस्विनः शोच्यस्येति यावत् । यो गतिः-सकलसुखावाप्तिहेतुः । शरणं-सर्वापत्राता ॥ २ ॥


 न क्रुध्यत्य [१७२९]भिशप्तोऽपि क्रोधनीयानि वर्जयन् ।
 क्रुद्धान् प्रसादयन् सर्वान् समदुःखः [१७३०] क्वचिद्गतः ॥ ३॥

 क्रोधनीयानि-क्रोधकारणानि । क्वचिदिति क्व नु गच्छतीति शेषः ।

 कौसल्यायां महातेजाः यथा मातरि वर्तते ।
 तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥ ४ ॥
 कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् ।
 परित्राता जनस्यास्य [१७३१]जगतः क्व नु गच्छति ॥ ५ ॥
 अहो निचेतनो राजा जीवलोकस्य [१७३२][१७३३]संप्रियम् ।
 धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ ६ ॥

 प्रवत्स्यतीति । प्रवासयतीति यावत् ॥ ६ ॥

 इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
 रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ ७ ॥
 स तमन्तःपुरे घोरं आर्तशब्दं महीपतिः ।
 पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः ॥ ८ ॥
 [१७३४]नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत ।
 व्यसृजन् कबलान् नागाः गावो वत्सान्न पाययन् ॥ ९ ॥


 नाग्निहोत्राण्यहूयन्त अग्निहोत्रिभिः, रामविरहदुःखादिति शेषः । सूर्यश्चान्तरधीयतेति । अकाले दुर्दिनमभूदित्यर्थः । व्यसृजन्त्यक्तवन्तः । नागाः–गजाः । एवमादिकं सर्वं रामस्याशेषजाग्रत्प्रपञ्चोपादानश्रीहिरण्यगर्भावतारतया रामस्य सर्वात्मनामात्मभूतत्वात् तस्य दुःखे सर्वस्यापि दुःखं, सुखे सर्वस्यापि सुखं इतीह रामायणे सर्वतः प्रतिपाद्यमानं वास्तवमेवेत्यभिध्येयम् । न [१७३५]पाययन्-ना[१७३६]पाययन्निति यावत् ॥ ९ ॥

 [१७३७]त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।
 दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ १० ॥

 लोहिताङ्गः-अङ्गारकः । सोममभ्येत्येति । रात्रौ सोमासक्तिं प्राप्य दारुणा व्यवस्थिताः । क्रूरार्चिरादिना दारुणत्वम् ॥ १० ॥

 नक्षत्राणि गतार्चीषि ग्रहाश्च गततेजसः ।
 विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे ॥ ११ ॥

 ग्रहाश्चेति । शनिशुक्रादयः । विशाखाः-विमार्गस्थाः । सधूमाः-धूमोपेताश्च ॥ ११ ॥


 कालिकानिलवेगेन महो[१७३८]दधिमिवोद्धृतम् ।
 रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ १२ ॥

 कालिका-मेघपङ्क्तिः । अनिलवेगेनोद्धतं महोदधिं बभारेवेत्यध्याहारः॥ १२ ॥

 दिशः पर्याकुलास्सर्वाः तिमिरेणेव सवृताः ।
 न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥ १३ ॥
 अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत् ।
 आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ १४ ॥

 अकस्मादिति । प्रसिद्धदैन्यहेतुकिञ्चित्कारणान्तराभावेऽपीत्यर्थः ॥

 [१७३९]शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् ।
 अयोध्यायां जनस्सर्वः [१७४०]शुशोच जगतीपतिम् ॥ १५ ॥

 रामवियोगजशोकेन पर्यायतः सन्तप्तः-पुनःपुनः तप्तस्तथा ॥

 बाष्पपर्याकुलमुखः राजमार्गगतो जनः ।
 न हृष्टो लक्ष्यते कश्चित् सर्वः शोकपरायणः ॥ १६ ॥
 न वाति पवनः शीतः न शशी सौम्यदर्शनः ।
 न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ १७ ॥
 [१७४१]अनर्थिनस्सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ।
 सर्वे सर्वं परित्यज्य राममेवा[१७४२]नुचिन्तयन् ॥ १८ ॥


 अनर्थिनः सुता इति । मातापित्रोरिति शेषः । स्त्रीणां भर्तार इति । अनर्थिन इत्यनुकर्षः । भ्रातर इति । भ्रात्रन्तरामेति शेषः । अनुचिन्तयन्-अन्वचिन्तयन्नित्यर्थः ॥ १८ ॥

 ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः ।
 शोकभारेण चाक्रान्ताः [१७४३]शयनं [१७४४]न जहुस्तदा ॥ १९ ॥

 ततस्त्वयोध्या रहिता महात्मना
  पुरन्दरेणेव मही सपर्वता ।
 चचाल घोरं भयशोकपीडिता
  सनागयोधाश्वगणा ननाद च ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकचत्वारिंशः सर्गः


 पुरन्दरेण रहिता सपर्वता मही चचालेति । पुरन्दरस्य त्रिलोकीपतित्वात् समेरुसर्वभूचक्राधिष्ठातृत्वं सिद्धम् । अतस्तद्राहित्ये पालकाभावात् भूमेश्चलनं सिद्धमिति दृष्टान्तत्वम् । ननादेति । दुःखाच्चक्रन्देत्यर्थः । अरि (२०) मानः सर्गः ॥ २० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकचत्वारिंशः सर्गः



द्विचत्वारिंशस्सर्गः

[दशरथाक्रन्दः]

 यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।
 नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी ॥ १ ॥

 अथ दशरथस्य रामपथप्रतीक्षादिजदुःखवर्णनम्–यावदित्यादि । [१७४५] निर्यतः-निर्गच्छत इति षष्ठी । रजोरूपं[१७४६]रथधूलीस्वरूपम् ॥ १ ॥

 [१७४७]यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।
 [१७४८]तावद्य्ववर्धतेवास्य धरण्यां पुत्रदर्शने ॥ २ ॥

 यावत् प्रियं पुत्रं पश्यतीति । रथधूलीदर्शनद्वारेति शेषः । तावत् पुत्रदर्शने-तन्निमित्तं धरण्यां-भुवि अस्य देहो व्यवर्धतेव-विशेषेणाभि-वृद्धम् । उत्थाय स्थित एवाभूदित्यर्थः ॥ २ ॥

 न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।
 तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले ॥ ३ ॥

 रथरजसोऽप्यदर्शने तच्छरीरं पतितमभूदित्युच्यते-न पश्यतीत्यादि ॥ ३ ॥

 [१७४९]तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना ।
 वामं चास्यान्वगात् पार्श्वं कैकेयी [१७५०]भरतप्रिया ॥ ४ ॥


 तस्येत्यादि । पतितं तमुद्धृत्य तस्य दक्षिणं बाहुं गृहीत्वा कौसल्याऽन्वगात्-स्वपुरं प्रति गम्यमानमन्वगादित्यर्थः । कैकेयी त्वस्य वामं पार्श्वमेव केवलमन्वगात् । तथात्वं तु राज्ञोऽस्यां परमवैरस्यात् तत्स्पर्शासहनादेव ॥

 तां नयेन च संपन्नो धर्मेण विनयेन च ।
 उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५ ॥
 कैकेयि ! [१७५१]मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ।
 न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ६ ॥

 तदेवाह-कैकेयि मा ममाङ्गानि स्प्राक्षीरिति । बान्धवीति । अण्णन्तत्वात् ङीप् ॥ ६ ॥

 ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।
 केवलार्थपरां हि त्वां त्यक्तधर्मा त्यजाम्यहम् ॥ ७ ॥
 अगृह्णां यच्च ते पाणिं अग्निं पर्यणयं च यत् ।

 न केवलमैहिकव्यवहारस्य त्यागः, अपि तु पारलौकिकस्यापीत्याह-अगृह्णामित्यादि । यच्च ते पाणिमगृह्णां यच्च त्वामग्निं पर्यणयं च-अग्निहोत्रसम्बन्धमकार्षं तदप्यतः परं त्यक्ष्यामि ॥ ७ ॥

 अनुजानामि तत्सर्वं अस्मिन् लोके परत्र च ॥ ८ ॥
 भरतश्चेत् प्रतीतः स्यात् राज्यं प्राप्येदमव्ययम् ।
 [१७५२]यन्मे स दद्यात् पित्रर्थं मामतद्दत्तमागमत् ॥ ९ ॥


 नन्वस्तु वा मम त्यागः; मदुपजीविनो मत्पुत्रादेः कथं त्यागः? इत्यत्र, रामवत् पित्रनुवर्तनधर्माविरोधे सति नायं त्यज्यत इत्याह-अनुजानामीत्यादि । भरतो यद । त्वया प्रापितं राज्यं प्राप्य प्रतीतः स्यात्, तदा पित्रर्थं-अनादिस्वकुलधर्मपरिपालनाय गुणवज्ज्येष्ठ-पुत्राभिसिसृक्षुपितृप्रीतिसंपादनाय स मे पुनर्दद्यात्-त्यजेत् तदा मां अतद्दतं-तत्कृत-दानव्यवहाररहितं सत् राज्यमागमत्-प्राप्नुयाच्चेत्-प्राप्तं चेत्-पुनश्च मम राज्यं न्यायतः प्राप्तञ्चेदिति यावत्, तदा स्वकुलधर्मज्येष्ठाभिषेकधर्म-साधकत्वे सुपुत्रत्वात्तमिह लोके-ऐहिकव्यवहारे विहारशय्यासनभोजनादिव्यवहारे परत्र च-पारलौकिके पिण्डोदकादिव्यवहारे चानुजानाम्येवेत्यर्थः[१७५३] ॥ ९ ॥

 अथ रेणुसमुध्वस्तं [१७५४]तमुत्थाप्य नराधिपम् ।
 न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १० ॥

 रेणुसमुध्वस्तम्–आहिताग्न्यादिः, समुध्वस्तरेणुं सम्मार्जितपांसुम् ॥ १० ॥


 हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाऽग्निमिव पाणिना ।
 अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य [१७५५]तापसम् ॥ ११ ॥

 [१७५६]निवृत्त्यैव निवृत्यैव सीदतो रथवर्त्मसु ।
 राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२ ॥

 रथवर्त्मसु सीदत इति । रामस्थमार्गदर्शने क्लिश्यत इत्यर्थः ॥ १२॥

 विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् ।
 [१७५७] नगरान्तमनुप्राप्तं बुध्वा [१७५८]पुत्रमथाब्रवीत् ॥ १३ ॥

 आत्मानं नगरान्तं-नगरसमीपपर्यन्तं अनुप्राप्तं बुध्वा अथाब्रवीत् ॥ १३ ॥

 वाहनानां च मुख्यानां वहतां तं ममात्मजम् ।
 पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ १४ ॥

 किमब्रवीदित्यतः वाहनानामित्यादि ॥ १४ ॥

 यः [१७५९]सुखेनोपधानेषु शेते चन्दनरूषितः ।
 वीज्यमानो [१७६०]महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ १५ ॥

 स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।
 काष्ठं वा यदि वाऽश्मानं उपधाय शयिष्यते ॥ १६ ॥

 महार्हाभिः-परमालङ्कारपरमरूपवदुत्तमस्त्रीभिरित्यर्थः ॥ १६ ॥

 उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः ।
 विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभः ॥ १७ ॥


 प्रस्रवणात्-गिरिप्रस्थादिप्रदेशात् । करेणूनामृषभ इवेति । गजयूथप इवेति यावत् ॥ १७ ॥

 द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
 [१७६१]राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ १८ ॥
 सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।
 कण्टका[१७६२]क्रमणक्लान्ता वनमद्य गमिष्यति ॥ १९ ॥

 सुखस्य सदोचिता तथा । कण्टकेष्वाक्रपणं-पदविक्षेपस्तथा ॥

 अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
 श्वापदानर्दितं श्रुत्वा गंभीरं रोमहर्षणम् ॥ २० ॥

 आनर्दितं-शब्दम् ॥ २० ॥

 सकामा भव, कैकेयि ! विधवा राज्यमावस ।
 न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २१ ॥

 सकाम । भवेति । एवं सीतादेरनपकारिप्राणिनो दुःखं कृत्वेति शेषः । विधवा राज्यमावस इति । कुत एवंवाद इत्यतः-न हीत्यादि ।

 इत्येवं विलपन् राजा जनौघेनाभिसंवृतः ।
 [१७६३]अपस्नात इवारिष्टं प्रविवेश [१७६४]पुरोत्तमम् ॥ २२ ॥


 'अपस्नातो मृतस्नातः' । अरिष्टं सूतिकागृहम्', तद्वत्कश्मलम् ॥ २२ ॥

 शून्यचत्वरवेश्मान्तां [१७६५]संवृतापण[१७६६] वेदिकाम् ।
 क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ २३ ॥

 तदेव प्रदर्श्यते––शून्येत्यादि । शून्यानि-सम्मार्जनादिसंस्काररहितानि । चत्वरं-चतुष्पथम् । वेश्मनां अन्ताः-मध्यप्रदेशाः पर्यन्तप्रदेशाश्च । आपणानां वेदिकाः-आपणवेदिकाः । क्लान्ताः, दुर्बलाः, दुःखार्ताश्च यस्यां सा तथा । नात्याकीर्णः-अत्यन्तं प्राणिसम्मर्दरहितः महापथः यस्याम् ॥ २३ ॥

 तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।
 विलपन् प्राविशत् राजा गृहं सूर्य इवाम्बुदम् ॥ २४ ॥
 [१७६७]महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
 रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २५ ॥

 सुपर्णेन हृतोरगं महाह्रदमिति कुलालादिगृहवत् निर्भयप्रवेशमात्रे दृष्टान्तः ॥ २५ ॥

 अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः ।
 उवाच मृदु [१७६८]मन्दार्तं वचनं दीनमस्वरम् ॥ २६ ॥

 गद्गदः शब्दः, यस्य स तथा । मन्दं च तत् आर्तं च तथा । दीनं-शोच्यम् । अस्वरं-शुद्धकण्ठध्वनिरहितम् ॥ २६ ॥


 कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ।
 न ह्यन्यत्र ममाश्वासः हृदयस्य भविष्यति ॥ २७ ॥

 नयन्त्विति । शिबिकावाहका इति शेषः । अन्यत्रेति । तद्व्यतिरिक्तस्त्रीगृह इत्यर्थः । आश्वासः-चित्तखेदापगमः ॥ २७ ॥

 इति ब्रुवन्तं राजानं अनयन् द्वारदर्शिनः ।
 कौसल्याया गृहं यत्र [१७६९] न्यवेश्यत विनीतवत् ॥ २८ ॥

 द्वारदर्शिनः-वेत्रिणः । विनीतवत्-विनीतास्सन्तः कौसल्याया गृहमनयन् ॥ २८ ॥

 [१७७०]ततस्तत्र निविष्टस्य कौसल्याया निवेशनम् ।
 अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २९ ॥

 तत्र तैर्न्यवेश्य ततस्तत्र निविष्टस्य राज्ञः कौसल्याया निवेशनं,अन्ततस्तस्याश्शयनमधिरुह्यापि मनः लुलितं-कलुषितमेव बभूव ॥ २९ ॥

 पुत्रद्वयविहीनं च सुषयाऽपि विवर्जितम् ।
 अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ ३० ॥
 तच्च दृष्ट्वा महाराजः भुजमुद्यम्य वीर्यवान् ।
 उच्चैःस्वरेण चुक्रोश [१७७१] हा हा राम ! जहासि [१७७२]माम् ॥ ३१ ॥
 [१७७३]सुखिता बत [१७७४]तं कालं जीविष्यन्ति नरोत्तमाः ।
 परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ ३२ ॥


 सुखिता इत्यादि । ये पुनरागतं रामं परिष्वजन्तः-परिष्वजमाना द्रक्ष्यन्ति, ये नरोत्तमाः तं कालं-तावत्कालपर्यन्तं जीविष्यन्ति ते किल सुखिता भविष्यन्ति ; नाहं जीर्णो बत ! ॥ ३२ ॥

 अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।
 अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ ३३ ॥

 अथ-रामं रजन्यां प्रस्थाप्य पुनः रजन्यां स्वगृहप्रवेशानन्तरमित्यर्थः । रात्र्यां आत्मनः कालरात्र्यां-संहारराज्यामिव प्रपन्नायाम् ॥

 [१७७५]त्वा पश्यामि, कौसल्ये ! साधु[१७७६]मा पाणिना स्पृश ।
 [१७७७]रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ ३४ ॥

 हे कौसल्ये त्वा-त्वां न पश्यामि-न वीक्षये । अतो मा-मां त्वदासत्तिपरिज्ञानाय पाणिना स्पृश । कुत एवमित्यतः-राममित्यादि । दृष्टेः दर्शनशक्तेः रामविषये समनस्काया विलीनत्वात्, इहत्यपदार्थो मदक्ष्णोर्न स्फुरतीत्यर्थः ॥ ३४ ॥

 तं राममेवानुविचिन्तयन्तं
  समीक्ष्य देवी शयने नरेन्द्रम् ।
 उपोपविश्याधिकमार्तरूपा
   [१७७८]विनिश्वसन्ती विललाप कृच्छ्रम् ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विचत्वारिंशस्सर्गः


 मृग (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विचत्वारिंशस्सर्गः



त्रिचत्वारिंशस्सर्गः

[कौसल्यापरिदेवनम्]

 ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।
 कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ १ ॥

 अथ कौसल्याया अनुक्रोशः-तत इत्यादि ॥ १ ॥

 राघवे, नरशार्दूल ! विषमुप्त्वा [१७७९]विषमुप्त्वा [१७८०]विजिह्मगा !
 विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २ ॥

 विषं उप्त्वा-निक्षिप्य विजिह्मगा-कुटिलचरिता निर्मुक्तामुक्तकञ्चुकी पन्नगी-सर्पपुत्री ॥ २ ॥

 विवास्य रामं सुभगा लब्धकामा समाहिता ।
 त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ ३ ॥
 अथास्मिन्नगरे रामः चरन् भैक्षं गृहे वसेत् ।
  [१७८१]कामकारो वरं दातुं अपि दासं ममात्मजम् ॥ ४ ॥

 भवतु भरतराज्यवरणम् ; अथापि इहैव नगरे रामो भैक्षं चरन् गृहे वसन् भूयादिति यदि वृतं भवेत् तदा तद्वरं दातुं, मम च कामकार एव-इष्टाचरणमेव । यथाकथञ्चिद्भवदानृण्यस्य ममापेक्षितत्वात् । इदानी-मेववरणेऽपि ममात्मजं प्रति न मे शोकः । तदपि न कृतम् । ममाति-त्रासनार्थमिति शेषः ॥ ४ ॥


 पातयित्वा तु कैकेय्या रामं [१७८२]स्थानाद्यथेष्टतः ।
 [१७८३]प्रविद्धो रक्षसां भागः [१७८४]पर्वणीवाहिताग्निना ॥ ५ ॥

 रामं स्थानात्-स्वगृहावस्थानात् यथेष्टतः-स्वेच्छानुसारेण पातयित्वा-प्रभ्रश्य पर्वण्याहिताग्निना इष्टो रक्षसां भाग इव प्रविद्धः-निरस्तः ॥ ५ ॥

 गजराजगतिवरः महाबाहुर्धनुर्धरः ।
 वनमाविशते नूनं सभार्यस्सह लक्ष्मणः ॥ ६ ॥
 वने त्वदृष्टदुःखानां [१७८५]कैकेय्यनुमते त्वया ।
 त्यक्तानां वनवासाय [१७८६]काऽन्याऽवस्था भविष्यति ॥ ७ ॥

 कैकेय्यनुमते-कैकेयीवरानुमतिनिमित्तम् ॥ ७ ॥

 ते रत्नहीनास्तरुणाः फलकाले विवासिताः ।
 कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ ८ ॥

 रत्नद्दीनाः–उत्तमवस्तुहीनाः । तरुणी च तरुणौ च तरुणाः, 'पुमान् स्त्रिया' इत्येकशेषः । फलकाले-युवावस्थत्वेन राजभोगानुभवकाले ॥ ८ ॥

 अपीदानीं स कालः स्यात् मम शोकक्षयः शिवः ।
 सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९ ॥


 शोकस्य क्षयः यस्मिन् स काल इति योजना । यत्-यस्मात्-तादृशकालावगमात् ॥ ९ ॥

 [१७८७][१७८८]सुप्त्वेवोपस्थितौ वीरौ कदाऽयोध्यां गमिष्यतः ।
 यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ १० ॥
 कदा प्रेक्ष्य नरव्याघ्रौ अरण्यात् पुनरागतौ ।
 भविष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ ११ ॥
 कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।
 पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ १२ ॥
 कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।
 लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ १३ ॥
 प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ ।
 उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ १४ ॥
 [१७८९]कदा सुमनसः कन्याद्विजातीनां फलानि च ।
 [१७९०]प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ १५ ॥

 कन्याश्च द्विजातयश्च ; द्वन्द्वः । तत्र कन्यानां सुमनसः-पुष्पाणि, द्विजातीनां फलानीति विवेकः । प्रदिशन्तः-प्रगृह्णन्तः हृष्टा भूत्वा पुरीं प्रदक्षिणं करिष्यन्ति, पौरजनोत्सवायेति शेषः ॥ १५ ॥


 कदा परिणतो बुद्ध्या वयसा [१७९१]चामरप्रभः ।
 अभ्युपैष्यति[१७९२]धर्मज्ञः [१७९३][१७९४]सुवर्ष इव लालयन् ॥ १६ ॥

 बुद्ध्या वयसा च परिणत इति । अतःपरमपि चतुर्दशवर्षाणा- मदगमिष्यमाणत्वात् । सुवर्षः-समीचीनकालजलवर्षः । लालयन्निति । जनानिति शेषः ॥ १६ ॥

 निस्संशयं मया मन्ये पुरा, वीर ! कदर्यया ।
 पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः ॥ १७ ॥

 पातुं कामः येषां ते पातुकामाः, तेषु । 'लुप्येदवश्यमः कृत्येऽन्त्यं काममनसोस्तुमः' इति मकारलोपः । वत्सलापुत्रवत्सला ॥ १७ ॥

 साऽहं गौरिव सिह्मेन विवत्सा वत्सला कृता ।
 कैकेय्या, पुरुषव्याघ्र ! बालवत्सेव गौवलात् ॥ १८ ॥

 साऽहं गौः सिह्मेनेव विवत्सा कृता । उक्तपातकेनेति शेषः ॥

 न हि तावद्भुणैर्जुष्टं सर्वशास्त्रविशारदम् ।
 एकपुत्रा विना पुत्रं अहं जीवितुमुत्सहे ॥ १९ ॥

 एवं कैकेय्या बालवत्सा गौरिव बलाद्विवत्सा कृताऽहं न जीवितुमुत्सह इति योजना ॥ १९ ॥

 न हि मे जीविते किञ्चित् सामर्थ्यमिह [१७९५]कल्प्यते ।
 अपश्यन्त्याः प्रियं पुत्रं [१७९६]लक्ष्मणं च महाबलम् ॥ २० ॥


 अयं हि मां [१७९७]दीपयते [१७९८]समुत्थितः
  तनूजशोकप्रभवो हुताशनः ।
 महीमिमां [१७९९][१८००]रश्मिभिरुत्तम प्रभो !
  यथा निदाघे भगवान् दिवाकरः ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः


 उत्तम प्रभो इति द्विपदं, एकपदं वा । कारु (२१) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः


चतुश्चत्वारिंशस्सर्गः

[सुमित्राश्वासनम्]

 विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
 इदं [१८०१]धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १ ॥

 अथ सीतायाः त्रिजटेव, सुमित्रा कौसल्याशोकमपनयति-विलपन्तीमित्यादि ॥ १ ॥

 तवार्ये ! सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः ।
 किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २ ॥

 कृपणं यथा तथा रुदितेन वा किम् ? अयुक्तमेवेत्यर्थः । तत्र हेतुः—सद्गुणैर्युक्त इति ॥ २ ॥


 [१८०२]यस्तवार्ये ! गतः पुत्रः त्यक्त्वा राज्यं महाबलः।
 साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ ३ ॥

 सद्गुणयुक्तस्य न क्वाप्यपाय इति प्रतिपादयति-यस्तवेत्यादि । साधु-सुष्ठु ॥ ३ ॥

 शिष्टैराचरिते सम्यक् [१८०३][१८०४]शश्वत्प्राप्यफलोदये ।
 रामो धर्मे स्थितः श्रेष्ठः न स शोच्यः कदाचन ॥ ४ ॥

 शश्वत्प्राप्यः शुभफलस्य-सुखस्य उदयः यस्मिन् स तथा ॥ ४ ॥

 वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः ।
 [१८०५]दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥

 सुसहायसंपत्तेश्च न शोच्य इत्याह-वर्तत इत्यादि। उत्तमां वृत्तिमिति। पितृतुल्यप्रतिपत्त्या शुश्रूषाव्यापारं इत्यर्थः ॥ ५ ॥

 अरण्यवासे यद्दुःखं [१८०६]जानती वै सुखोचिता ।
 अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६ ॥

 अरण्यवासे यद्दुःखमस्ति, तज्जानती भर्तुस्तदपनयनार्थं वैदेह्यप्यनुगच्छति । अतो न दुःखप्रसङ्ग इति शेषः ॥ ६॥

 कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ।
 [१८०७]दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः ॥ ७ ॥


 कीर्तिभूतां-कीर्त्यात्मना सम्भूतां पताकां-ध्वजं लोके-त्रैलोक्येऽपि यः प्रभू रामः भ्रामयति-नित्यं प्रवर्तयति, दमादिपरस्सोऽसौ तवात्मजः, किं न प्राप्तः-कस्य श्रेयसे न योग्यः ? अतो वनेऽपि तस्य श्रेयः-प्राप्तिरेवेति न शोचनीयता तस्य ॥ ७ ॥

 [१८०८]व्यक्तं रामस्य विज्ञाय [१८०९]शौचं माहात्म्यमुत्तमम् ।
 न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥ ८ ॥

 तदेव प्रदर्श्यते-व्यक्तमित्यादि ॥ ८ ॥

 शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः ।
 राघवं शीतयुक्तोष्णः सेविष्यति सुखोऽनिलः ॥ ९ ॥

 शीतयुक्तोष्ण इति । सुखस्पर्श इति यावत् । अत एव सुखः-अदुःखकरः ॥ ९ ॥

 शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।
 रश्मिभिः संस्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥ १० ॥

 चन्द्रमाः इति पदम् ॥ १० ॥

 ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।
 दानवेन्द्रं हतं दृष्ट्वा [१८१०]तिमिध्वजसुतं रणे ॥ ११ ॥


 ब्रह्मा–ब्रह्मवत् सृष्टिकर्ता विश्वामित्रः । तिमिध्वजसुतः-सुबाहुः ॥ ११ ॥

 स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
 असंत्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यति ॥ १२ ॥
 [१८११]यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः ।
 [१८१२]कथने पृथिवी तस्य शासने स्थातुमर्हति ॥ १३ ॥

 तस्य रामस्य कथने यः प्रवृत्तः, तस्य च शासने पृथिवी स्थातुमर्हति । तत् कुतस्तस्य कुत्रापि भीप्रसङ्ग इति शेषः ॥ १३ ॥

 या श्रीः शौर्यं च रामस्य या च कल्याणसत्वता[१८१३]
 निवृत्तारण्यवासः सः क्षिप्रं राज्यमवाप्स्यति ॥ १४ ॥

 स यदा निवृत्तवनवासो भवति तदा श्र्यादिः पुनस्तं क्षिप्रमवाप्स्यतीति योजना ॥ १४ ॥

 सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ।
 श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः [१८१४]क्षमाक्षमा ॥

 सूर्यस्यापि सूर्य इत्यादिकं तथास्वभावब्रह्मावतारत्वात् वास्तवम् । प्रभोः-इन्द्रादेश्च प्रभुः ॥ १५ ॥


 दैवतं [१८१५] दैवतानां च भूतानां भूतसत्तमः ।
 तस्य के ह्यगुणाः, देवि ! राष्ट्रे वाऽप्यथवा पुरे ॥ १६ ॥
 पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
 क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७ ॥
 [१८१६]दुःखजं विसृजन्त्यश्रु निष्क्रामन्तमुदीक्ष्य यम् ।
 अयोध्यायां जनास्सर्वे शोकवेगसमाहताः ॥ १८ ॥

 दुःखजमित्यादिना कालान्तरेऽपि राज्यार्हता जनानुरागप्रदर्शनेन प्रकाश्यते ॥ १८ ॥

 कुशचीरधरं [१८१७]देवं गच्छन्तमपराजितम् ।
 सीतेवानुगता लक्ष्मीः तस्य किं नाम दुर्लभम् ॥ १९ ॥

 सीतेवेति । सीतात्मना लक्ष्मीरेवानुगतेत्यर्थः ॥ १९ ॥

 [१८१८]धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।
 लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ २० ॥

 धनुः गृह्णन्तीति धनुर्ग्रहाः-शूराः, तेषां वरः श्रेष्ठः ॥ २० ॥

 निवृत्तवनवासं तं द्रष्टाऽसि पुनरागतम् ।
 जहि शोकं च मोहं च, देवि ! सत्यं ब्रवीमि ते ॥ २१ ॥

 द्रष्टाऽसि–इति लुट् ॥ २१ ॥

 शिरसा चरणावेतौ [१८१९]वन्दमानमनिन्दिते !
 पुनर्द्रक्ष्यसि, कल्याणि ! पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥


 पुनः प्रविष्टं दृष्ट्वा तं अभिषिक्तं महाश्रियम् ।
 समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥ २३ ॥
 मा शोकः,देवि ! दुःखं वा न रामे दृश्यते [१८२०]शिवम् ।
 क्षिप्रं द्रक्ष्यसि पुत्रं [१८२१]तं ससीतं सहलक्ष्मणम् ॥ २४ ॥

 रामे-रामविषये दुःखादिकं मास्तु । कुत इत्यतः-शिवं भद्रमेव तत्र दृश्यते, वनेऽपीति शेषः ॥ २४ ॥

 [१८२२][१८२३]त्वयाऽशेषो जनश्चैव समावास्यो यदाऽनघे !
 किमिदानी[१८२४]मिमं, देवि ! करोषि हृदि विक्लवम् ॥ २५ ॥

 हे अनघे ! यदा-यस्मात् त्वया स्वामिन्या अशेषोऽयं त्वत्परिवारजनः समाश्वास्यः, सा त्वं किमिदानीं विक्लबं करोषि ॥ २५ ॥

 नार्हा त्वं शोचितुं, देवि ! यस्यास्ते राघवः सुतः ।
 न हि [१८२५]रामात् परो लोके विद्यते सत्पथे स्थितः ॥ २६ ॥
 अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।
 मुदाऽश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव [१८२६]वार्षिकी ॥ २७ ॥

 मेघस्य लेखा-रेखा तथा ॥ २७ ॥

 पुत्रस्ते वरदः क्षिप्रं अयोध्यां पुनरागतः ।
 पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २८ ॥


 अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् ।
 मुदाऽस्त्रैः [१८२७]प्रोक्षसे पुत्रं मेघराजिरिवाचलम् ॥ २९ ॥

 मेघराजिरिति सजलत्वांशे दृष्टान्तः ॥ २९ ॥

 आश्वासयन्ती विविधैश्च वाक्यैः
  वाक्योपचारे कुशलाऽनवद्या ।
 रामस्य तां मातरमेवमुक्त्वा
  देवी सुमित्रा विरराम रामा ॥ ३० ॥

 वाक्योपचारे-वाक्यरचनायां । रामा-स्त्री ॥ ३० ॥

 निशम्य तल्लक्ष्मणमातृवाक्यं
  रामस्य मातुर्नरदेवपत्न्याः ।
 सद्यश्शरीरे विननाश शोकः
  शरद्गतो मेघ इवाल्पतोयः ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः


 योगौ (३१) मानः सर्गः ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः



पञ्चचत्वारिंशः सर्गः

[पौरयाचनम्]

 [१८२८] अनुरक्ता महात्मानं रामं सत्यपराक्रमम् ।
 अनुजग्मुः [१८२९]प्रयान्तं तं वनवासाय मानवाः ॥ १ ॥

 एवं निवर्तितमातापितृवृत्तान्ते स्थिते, पुरमुत्सृज्य दूरमनुगच्छत्स्निग्घपौर-निवर्तनं सर्गाभ्याम् । अन्वित्यादि । वनवासाय प्रयान्तमिति योजना ॥ १ ॥

 [१८३०] निवर्तितेऽपि च बलात् [१८३१]सुहृद्वर्गे च राजनि ।
 नैव ते सन्न्यवर्तन्त रामस्यनुगता रथम् ॥ २ ॥

 नैव त इति । ते अनुरक्ताः-परमभक्ता इत्यर्थः ॥ २ ॥

 अयोध्यानिलयानां हि पुरुषाणां महायशाः ।
 बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः ॥ ३ ॥
 स याच्यमानः काकुत्स्थः [१८३२] स्वाभिः प्रकृतिभिस्तदा ।
 कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥

 याच्यमान इति । प्रतिनिवृत्तिमिति शेषः । प्रकृतिभिरिति । परमानुरक्तभक्तप्रजामिरित्यर्थः ॥ ४ ॥

 अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ।
 उवाच रामः [१८३३]सस्नेहं ताः प्रजाः [१८३४]स्वाः प्रजा इव ॥ ५ ॥


 या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।
 मत्प्रियार्थं विशेषेण भरते सा [१८३५]निवेश्यताम् ॥ ६ ॥

 अयोध्यानिवासिनामिति । युष्माकमिति शेषः ॥ ६ ॥

 स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः ।
 करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ ७ ॥

 प्रियाणि-इहलोकसुखानि । हितानि-परलोकहितानि वर्णाश्रम-व्यवस्थापरिपालनादिलक्षणानि ॥ ७ ॥

 ज्ञानवृद्धो वयोबालः मृदुर्वीर्यगुणान्वितः ।
 अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥

 वयसा बालोऽपि ज्ञानादिना वृद्धः । मृदुरपि वीर्यगुणान्वितः ॥

 स हि राजगुणैर्युक्तो युवराजः समीक्षितः ।
 अपि चापि [१८३६]मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ ९ ॥

 समीक्षितः-निश्चितः। अतश्च स एव युवराज इत्युच्यते । अपि चेत्यादि । अस्मादपि हेतोरित्यर्थः । मया पितृशिष्टेन, युष्माभिरपि भर्त्रनुशिष्टैः । भर्तृशासनं-राजनियोगः ॥ ९ ॥

 [१८३७]न सन्तप्येद्यथा चासौ वनवासं गते मयि ।
 महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥

 न सन्तप्येदित्यादि । तथा कार्य इति । अनुकूलाचरणेन सदा समाश्वासनीय इत्यर्थः ॥ १० ॥


 यथा यथा दाशरथिः [१८३८]धर्ममेवास्थितो भवेत् ।
 तथा तथा प्रकृतयः रामं [१८३९]पतिमकारयन् ॥ ११ ॥

 यथा यथा धर्ममेवास्थितो भवेत्-धर्ममेव परिगृह्णाति पुनःपुन-रुच्यमानोऽपि, तथा तथा भरतयौवराज्यं प्रति उच्यमाना अपि राममेव चित्ते पतिमकारयन्-स्वीकृतवन्तः, चतुर्दशसमानन्तरमपि वा भवानेवास्माकं राजा भवत्विति प्रार्थितवन्त इत्यर्थः ॥ ११ ॥

 बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।
 चकर्षेव [१८४०]गुणैर्वद्धं जनं पुरनिवासिनम् ॥ १२ ॥

 एवं बाष्पेण पिहितं-पिहितचक्षुषं गुणैः रज्जुभिरिव स्वगुणैर्बद्धं पुरवासिनं जनं चकर्षेव । [१८४१]तथा च कथञ्चित्तेषां प्रतिनिवृत्तिरभूदित्युक्तं भवति ॥ १२ ॥

 ते द्विजाः त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।
 वयःप्रकम्पशिरसः दूरादूचुरिदं वचः ॥ १३ ॥

 अथ तपस्साधनप्रियब्राह्मणानां रामेण सह वनविवासाय प्रवृत्तिः-ते द्विजा इत्यादि । ते पौराः ब्राह्मणाः । तेषां त्रिप्रकारवृद्धत्वं प्रतिपाद्यते-ज्ञानेनेत्यादि । ओजः-तपोबलम् । वयसा-वयःपरि-पाकेन-वार्धक्येन प्रकम्पं-प्रचलत्-दौर्बल्यादितस्ततो भुग्नं शिरो येषां ते तथा । एवमतिवृद्धत्वादेव आरादनुधावनाशक्त्या दूरादिदमूचुः ॥


 वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः !
 निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ १४ ॥

 किमूचुरित्यतः-वहन्त इत्यादि । रथेन प्रापयन्तः जात्याः-उत्तमजातिजाः भर्तरि-रामविषये हिता भवत, वनं न नयतेति यावत् ॥ १४ ॥

 कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः ।
 यूयं तस्मान्निवर्तध्वं याचनां [१८४२]प्रतिवेदिताः ॥ १५ ॥

 एवं क्रोशनेऽपि तेषां वेगगमनदुःखादाहुः-कर्णवन्तीत्यादि । विशेषेण यूयं कर्णवन्त इत्यनुकर्षः । तस्मात् बधिरवन्न गन्तव्यं ; अपि तु याचनामस्मदीयां प्रतिवेदिताः-ज्ञातवन्तो निवर्तध्वम् ॥ १५ ॥

 धर्मतस्स विशुद्धात्मा वीरः शुभदृढव्रतः ।
 उपवाह्यस्तु [१८४३]वो भर्ता नापवाह्यः पुराद्वनम् ॥ १६ ॥

 उपवाह्यः-पुरसमीपं प्राप्यः । न तु पुरात् दूरमपवाह्यः-अपनीय प्रापणीयः ॥ १६ ॥

 एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् ।
 अवेक्ष्य सहसा रामः रथादवततार [१८४४]ह ॥ १७ ॥
 [१८४५]पद्भ्यामेव [१८४६]जगामाथ ससीतस्सहलक्ष्मणः ।
 सन्निकृष्टपदन्यासः रामो वनपरायणः ॥ १८ ॥


 पद्भ्यामेव द्विजानामनुसङ्गमार्थं सन्निकृष्टपदन्यासो भूत्वा परायण एव शनैश्शनैर्जगाम, न तु निवृत्तः, नापि स्थित इत्यर्थः ॥ १८ ॥

 द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः ।
 न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १९ ॥

 रथेन परिमोक्तुमिति । रथवेगावलम्बनेन निवर्तयितुमित्यर्थः ॥

 गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तचेतसः ।
 ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ २० ॥

 गच्छन्तमेवेति । न स्थितं, न निवृत्तं वेत्यर्थः ॥ २० ॥

 ब्राह्मण्यं [१८४७][१८४८]सर्वमेतत् त्वां ब्रह्मण्यमधिगच्छति ।
 द्विजस्कन्धाधिरूढास्त्वां अग्नयोऽप्यनुयान्त्यमी ॥ २१ ॥

 ब्राह्मण्यं-ब्रह्मसम्बन्धिसकलतन्त्रमन्त्रज्ञानयोगानुष्ठानरूपं अस्मदीयं कर्म, ब्राह्मणादित्वात् कर्मणि ण्यञ् । [१८४९]द्विजस्कन्धाधिरूढा इति । पात्रारणिभरणद्वारेणेति शेषः ॥ २१ ॥

 वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ।
 पृष्ठतोऽनु[१८५०]प्रयातानि मेघानिव जलात्यये ॥ २२ ॥

 वाजपेयसमुत्थानि नः छत्राणीति । 'तस्माद्वाजपेययाजी न कञ्चन प्रत्यवरोहति' इति श्रुतेः वाजपेययाजिनो राजवच्छत्रादिसम्बन्धात् । जलात्यये मेघानिवेति । शरदि मेघा इव पाण्डुराणीत्यर्थः ॥ २२ ॥


 अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते ।
 एभिः छायां करिष्यामः [१८५१]स्वच्छत्रैर्वाजपेयिकैः ॥ २३ ॥

 अनवाप्तातपत्रस्येति । अप्राप्तश्वेतच्छत्रस्येत्यर्थः । वाजपेययागप्राप्तानि-वाजपेयिकानि ॥ २३ ॥

 या हि नः सततं बुद्धिः वेदमन्त्रानुसारिणी ।
 त्वत्कृता सा कृता, वत्स ! वनवासानुसारिणी ॥ २४ ॥

 वेदमन्त्रानुसारिणी-तदभ्यासानुसरणशीला । त्वत्कृते मन्त्राभ्यासादि परित्यज्य वनवासोन्मुखीकृतेत्यर्थः ॥ २४ ॥

 [१८५२][१८५३]हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम् ।
 [१८५४]वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २५ ॥

 स्वेषां वनवासे अनुपपत्त्यभाव इत्याहुः-हृदयेष्वित्यादि । नः अस्माकं परं धनं ये वेदाः अस्माकं हृदय एवावतिष्ठन्ते-अनुसन्धीयमाना वर्तन्ते, चारित्रं-पातिव्रत्यं, तद्रक्षिता दाराश्च ॥ २५ ॥

 न पुनर्निश्चयः कार्यः [१८५५]त्वत्कृते सुकृता मतिः ।
 त्वयि धर्मव्यपेक्षे तु किं [१८५६]स्याद्धर्ममपेक्षितुम् ॥ २६ ॥


 एवं त्वत्कृते-त्वदनुयाननिमित्तं मतिः सुकृता-सुष्ठु निश्चिता, न पुनरतः परमस्माभिर्निश्चयः कार्यः । अथाप्यस्माकं सर्वेषां सुखार्थं निवर्तस्वेति प्रार्थयन्ते–त्वयीत्यादि । धर्मव्यपेक्षे-धर्मे नित्यापेक्षासहिते त्वयि इदानीं धर्ममपेक्षितुं नः-अस्माकं चापेक्षितुं मतिः स्यात् किम् ? अस्ति किम् ? ॥ २६ ॥

 [१८५७]याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः ।
 [१८५८]शिरोभिः, निभृताचार ! महीपतनपांसुलैः ॥ २७ ॥

 तदस्माभिः हंसशुक्लशिरोरुहैः-पलितकेशैः नः शिरोभिः साष्टाङ्ग-नमस्काराय महीपतनपांसुलैः देहैश्च याचितः निवर्तस्व । निभृताचारः-निश्चलधर्मानुष्ठानः । ननु कथं ब्राह्मणैः क्षत्रियस्य रामस्य नमस्कारः?-इदानीमस्माभिर्वा कथं नमस्कारः ? रामायणश्रवणतो रामे कुलदैवत-बुद्ध्या क्षत्रियमातृत्वबुद्धेर्निवृत्तत्वादिति चेत्-तर्ह्यपरोक्षानुभूयमान-ब्रह्मस्वभावसर्वप्रियत्वानवधिककल्याणगुणैकतानत्वलोकनाथभगवद्ब्रह्मैकसाध्यपुण्यलोकदानादिव्यापारैः अपरोक्षानुभूतप्राजापत्योपनीतब्रह्मतेजो- मूलपरिगृहीतलीलाविग्रहत्वतः स्ववगमब्रह्मत्वादेव ॥ २७ ॥

 बहूनां वितता यज्ञा द्विजानां य इहागताः ।
 [१८५९]तेषां समाप्तिरायत्ता तव, वत्स ! [१८६०] निवर्तते ॥ २८ ॥

 बहूनामित्यादि । ये द्विजा इहागताः तेषां बहूनां बहवो यज्ञा इह काले वितताः-प्रवृत्ताः ; तेषां समाप्तिः तवायत्ता-त्वदधीना । सा तु


त्वन्निवृत्त्यभावे निवर्तते-समाप्तिर्न भविष्यति मध्ये विघ्नो भवति, अतो निवर्तस्वेत्यर्थः ॥ २८ ॥

 [१८६१]भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च ।
 [१८६२]याचमानेषु, [१८६३]राम ! त्वं भक्ति भक्तेषु दर्शय ॥ २९ ॥

 न केवलमस्मत्प्रार्थना ; अपि तु सर्वभूतप्रार्थनापीत्याहुः-भक्ति-मन्तीत्यादि । जङ्गमाजङ्गमानि सर्वाण्यपि भूतानि भक्तिमन्ति । भक्तिः-स्नेहः । तथा सर्वेषां स्नेहकारणं प्रागेवोक्तम् । त्वन्निवृत्तिं याचमानेषु भक्तेषु त्वमपि भक्तिं-स्नेहं प्रदर्शय, निवृत्त्येति शेषः ॥ २९ ॥

 [१८६४]अनुगन्तुमशक्तास्त्वां मूलै[१८६५]रुन्नतवेगिनः ।
 उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ ३० ॥

 मूलैः-अवाक्शिरोभिः, स्थावरत्वादनुगन्तुमशक्ताः-सेवितुमशक्ताः वायुवेगेनोपाधिना उन्नतवेगिनः उन्नताः-उच्छ्रिताः पादपाः विक्रोशन्तीव-वायुवेगजशाखाचलनशब्दैरिति शेषः ॥ ३० ॥

 निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः ।
 पक्षिणोऽपि प्रयाचन्ते सर्वभूतानु[१८६६]कम्पिनम् ॥ ३१ ॥

 निर्गताः चेष्टादयो येषां ते तथा । वृक्षरूपे एकस्मिन्नेव स्थाने विष्ठिताः । न तु भुवमवरोहन्ति आहारायापीत्यर्थः । प्रयाचन्त इति । निवृत्तिमिति शेषः ॥ ३१ ॥


 [१८६७]एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।
 ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३२ ॥

 निवर्तने-निवर्तननिमित्तं विक्रोशतां तेषामनुग्रहाय राघवं वारयन्तीव-मार्गे तिर्थक्प्रवाहत्वाद्वारयन्तीव स्थिता तमसा ददृशे ॥ ३२ ॥

 ततः सुमन्त्रोऽपि स्थाद्विमुच्य
  श्रान्तान् हयान् संपरिवर्त्य शीघ्रम् ।
 पीतोदकांस्तोयपरिप्लुताङ्गान्
  अचारयद्वै तमसाऽविदूरे ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः


 श्रान्तान्-आसायं रथवहनेन । संपरिवर्त्य- [१८६८]कृतश्रमानुत्पत्तिहेतुपरिवर्तनात् कृतविलुण्ठनान्विधायेत्यर्थः तोयपरितामान्-स्नापितानिति यावत् । तमसाया अविदूरे अचारयत्-भक्षितोलपानकरोत् । गंगा (३३) मानः सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः



षट्चत्वारिंशः सर्गः

[पौरमोहनम्]

 ततस्तु तमसातीरं रम्यमाश्रित्य राघवः ।
 सीतामुद्वीक्ष्य सौमित्रिं इदं वचनमब्रवीत् ॥ १ ॥

 अथ अशक्यनिवर्तनान् एतान् अतिसन्धाय राघवस्य निर्गमः-तत इत्यादि ॥ १ ॥

 [१८६९]इयमद्य निशा पूर्वा, सौमित्रे ! ग्रहिता [१८७०]वनम् ।
 वनवासस्य, भद्रं ते, स नोत्कण्ठितुमर्हसि ॥ २ ॥

 हे सौमित्रे ! वनवासस्य--वनवासकालस्य सम्बन्धिनी अद्य प्रवृत्ता इयं निशा वनं-वनवासं प्रति पूर्वा प्रहिता-हि गतौ, प्राप्ता, वनवासकालः एतन्निशामारभ्य गणनीय इत्यर्थः । पूर्वनिशायाः पुरसम्बन्धस्य विद्यमानत्वात् न सा चतुर्दशसमावनवासकालेऽन्तर्भवतीत्यर्थः । स त्वं नोत्कण्ठितुं–अद्यप्रभृति पुरौत्सुक्यस्मरणं कर्तुं नार्हसि ॥

 पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः ।
 यथानिलयमायद्भिः निलीनानि मृगद्विजैः ॥ ३ ॥


 यथानिलयं-यथायोगं स्वस्वनिलयमायद्भिः-आगच्छद्भिः मृग-द्विजैर्निलीनानि-अन्तर्निलीनतया व्याप्तानि, अत एव शून्यानि, रुदन्तीव-खिन्नानीव चारण्यानि वर्तन्ते ; तानि पश्य ॥ ३ ॥

 अद्यायोध्या तु नगरी राजधानी पितुर्मम ।
 सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः ॥ ४ ॥

 स्त्रीपुंसैस्साहिता सस्त्रीपुंसा, 'अचतुर....' इत्यादिना निपातः ॥ ४ ॥

 [१८७१]अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः ।
 त्वां च मां च, नरव्याघ्र ! शत्रुघ्नभरतौ तथा ॥ ५ ॥
 पितरं चानुशोचामि मातरं च यशस्विनीम् ।
 [१८७२]अपि [१८७३]वान्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ ६ ॥

 अभीक्ष्णशः रुदन्तौ तौ पितरौ, रोदनवशादन्धौ भविष्यतः ॥ ६ ॥

 भरतः खलु धर्मात्मा पितरं मातरं च मे ।
 धर्मार्थकामसहितैः वाक्यैराश्वासयिष्यति ॥ ७ ॥

 अथापि तदनुशोचने काचन प्रत्याशापीत्याह-भरतः खल्वित्यादि ॥ ७ ॥


 भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः ।
 नानुशोचामि पितरं मातरं चापि, लक्ष्मण ! ॥ ८ ॥
 [१८७४]त्वया कार्यं, नरव्याघ्र ! मामनुव्रजता कृतम् ।
 अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ ९ ॥

 मामनुव्रजता त्वया तु यत् कार्यं-कर्तव्यं तत् कृतमेव । मयि वनं प्रयाते मदनुव्रजनस्यैव त्वत्सौभ्रात्रोचितकर्तव्यत्वात् । अतः परं हि मम वैदेह्या रक्षणार्थे सहायता अन्वेष्टव्या । अतस्तस्यै एतन्निशामारभ्य सदा सुखान्नपानादिकं सम्पादयेति शेषः ॥ ९ ॥

 अद्भिरेव तु, सौमित्रे ! [१८७५]वत्स्याम्यद्य निशामिमाम् ।
 [१८७६]एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ १० ॥

 अहन्तु अद्येमां निशामद्भिरेव कृतप्राणरक्षो वत्स्यामि; वनवासवृतप्रथमसङ्कल्पाङ्गत्वेनेति शेषः । तमेवाभिप्रायं दर्शयति एतद्धीत्यादि ॥ १० ॥

 एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः ।
 [१८७७]अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ ११ ॥
 सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते ।
 प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः ॥ १२ ॥


 प्रभूतः यवसः-घासः येषां ते तथा तथा । प्रत्यनन्तरः-प्रत्यासन्नो बभूव ॥ १२ ॥

 उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपास्थिताम् !
 रामस्य [१८७८]शयनं चक्रे सूतः सौमित्रिणा सह ॥ १३ ॥

 शयनं-शयनस्थलं, चक्रे-शर्करापांसूत्क्षेपणादिद्वारेण ॥ १३ ॥

 तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् ।
 रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ॥ १४ ॥
 सभार्यं संप्रसुप्तं तं [१८७९] भ्रातरं वीक्ष्य लक्ष्मणः ।
 कथयामास सूताय रामस्य विविधान् गुणान् ॥ १५ ॥

 गुणान् कथयामासेति । जागरणप्रयोजनशेषतयेति शेषः ॥ १५ ॥

 [१८८०]जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः ।
 सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ १६ ॥

 तां रात्रिमिति । अत्यन्तसंयोगे द्वितीया । उदितो रविरिति । अरुणोदयकालो जात इत्यर्थः ॥ १६ ॥

 गोकुलाकुलतीरायास्तमसाया विदूरतः [१८८१]विदूरतः ।
 अवसत्तत्र तां रात्रिं रामः प्रकृतिभिस्सह ॥ १७ ॥

 गोकुलैराकुलं तीरं यस्यास्सा तथा । विदूर इति । द्विजगणसंवेशदेशापेक्षयाऽतिविप्रकृष्टस्थले, अतिसन्धाय गमनसौकर्यार्थमितिशेषः ॥ १७ ॥


 उत्थाय तु महातेजाः प्रकृतीस्ता निशम्य च ।
 अब्रवीत् भ्रातरं रामः लक्ष्मणं पुण्यलक्षणम् ॥ १८ ॥

 निशम्य-अवलोक्य । निद्राणानिति शेषः ॥ १८ ॥

 अस्मद्व्यपेक्षान्, सौमित्रे ! [१८८२]निर्व्यपेक्षान् गृहेष्वपि ।
 वृक्षमूलेषु संसुप्तान् पश्य, लक्ष्मण ! सांप्रतम् ॥ १९ ॥

 अस्मद्व्यपेक्षान्-अस्मास्वेव विशेषेण अपेक्षावतः,अत एव गृहेषु निर्व्यपेक्षान् ॥ १९ ॥

 [१८८३]यथैते नियमं पौराः कुर्वन्त्यस्मभिवर्तने ।
 [१८८४]अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्रयम् ॥ २० ॥

 यथेत्यादि ।[१८८५]यथा वयमनिवृत्तौ नियमं कुर्मः, तथैते अस्मन्निवर्तने नियमं कुर्वन्ति (स्म) । अत एवेमे प्राणानप्यसिष्यन्तित्यक्ष्यन्ति, न तु निवर्तननिश्चयं त्यक्ष्यन्ति ॥ २० ॥

 यावदेव तु संसुप्तास्तावदेव वयं लघु ।
 रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ २१ ॥

 यदेवं अतः–यावदित्यादि ॥ २१ ॥


 [१८८६]अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः ।
 स्वपेयुरनुरक्ता मां वृक्ष [१८८७]मूलानि संश्रिताः ॥ २२ ॥

 अतो भूयोऽपि स्वपेयुरिति । पूर्वदिने अन्नपानाद्यभावात्, पूर्वरात्रे च शोक[१८८८]वशेन जागरणाच्चेत्याशयः ॥ २२ ॥

 [१८८९]पौरा ह्यत्मकृतादुःखात् विप्रमोक्ष्या नृपात्मजैः ।
 न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २३ ॥

 आत्मकृतात्-आत्मनिमित्तात् । आत्मनेति । आत्मनिमित्तेनेति यावत् ॥ २३ ॥

 अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् ।
 रोचते मे [१८९०]तथा, प्राज्ञ ! क्षिप्रमारुह्यतामिति ॥ २४ ॥

 आरुह्यतामिति । रथ इति शेषः ॥ २४ ॥

 अथ रामोऽब्रवीत् [१८९१]श्रीमान् सुमन्त्रं युज्यतां रथः ।
 गमिष्यामि ततोऽरण्यं गच्छ शीघ्र[१८९२]मितः, प्रभो ! ॥ २५ ॥

 तत इति । रथसंयोजनानन्तरं तेन रथेनेत्यर्थः । शीघ्रं गच्छेति । रथसंयोजनायेति शेषः । प्रभो-समर्थ ॥ २५ ॥

 सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः ।
 योजयित्वाऽथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ २६ ॥


 अयं युक्तः, महाबाहो ! रथस्ते, रथिनां वर !
 [१८९३]त्वमारोहस्व, भद्रं ते, ससीतस्सहलक्ष्मणः ॥ २७ ॥

 आरोहस्वेति । आरोहेति यावत् ॥ २७ ॥

 तं स्यन्दनमधिष्ठाय राघवस्सपरिच्छदः ।
 शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ॥ २८ ॥

 परिच्छदः-धनुः कवचादिलक्षणः । आकुलाः-निबिडाः आवर्ताः यस्यास्सा तथा । अतरदिति पदम् ॥ २८ ॥

 स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।
 [१८९४]प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २९ ॥

 भयदर्शिनामध्यभयं-भीतिप्रसङ्गरहितं महामार्गमित्यर्थः ॥ २९ ॥

 [१८९५] मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः ।
 उदङ्मुखः प्रयाहि त्वं [१८९६]रथमास्थाय, सारथे ! ॥ ३० ॥

 त्वं रथमास्थायेति । त्वमेव, न तु वयम् । मोहनार्थं-जनमोहाय ॥ ३० ॥


 मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः ।
 यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ ३१ ॥

 तदेवाह-मुहूर्तमित्यादि । रथं पुनरिति । इहेति शेषः । न विद्युः-न जानीयुः ॥ ३१ ॥

 रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।
 प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ ३२ ॥

 तथा चक्र इति । उदङ्मुखतया गत्वा प्रतिनिवृत्तः-मार्गान्तरेणागत इति यावत् । एवमुदङ्मुखरथमार्गदर्शने रामः पुरं प्रति निवृत्तवानिति पौराणां भ्रमः सिध्यति ॥ ३२ ॥

 तौ संप्रयुक्तं तु रथं समास्थितौ
  तदा ससीतौ रघुवंशवर्धनौ ।
 प्रचोदयामास ततस्तुरङ्गमान्
  स सारथिर्येन पथा तपोवनम् ॥ ३३ ॥

 समास्थितौ-समास्थितावभूतामिति योजना । तपोवनमिति । येन पथा प्राप्यते, दाक्षिणमिति शेषः ॥ ३३ ॥

 ततः समास्थाय रथं महारथः
  ससारथिर्दाशरथिर्वनं ययौ ।
 [१८९७]उदङ्मुखं तं तु रथं चकार
  प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्चत्वारिंशस्सर्गः


 सारथिसहितः ससारथिः । प्रयाणेति । प्रयाणापेक्षितशुभनिमित्तानुभवार्थं, तं रथं उदङ्मुखं-उदङ्मुखतयाऽवस्थापितं समीक्ष्य पश्चादधिरुह्य दक्षिणाभिमुखो ययावित्यर्थः । गर्भ (३४) मानः सर्गः ॥ ३४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षट्चत्वारिंशस्सर्गः


सप्तचत्वारिंशस्सर्गः

[पौरनिवृत्तिः]

 प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।
 शोकोपहतनिश्रेष्टा बभूवु[१८९८]र्हतचेतसः ॥ १ ॥

 अथ एवमतिसंहितपौरजनप्रतिनिवृत्तिः -प्रभातायामित्यादि । शोकेन उपहताः, अत एव निश्चेष्टाश्च तथा ॥ १ ॥

 शोकजाश्रुपरिद्यूनाः वीक्षमाणास्ततस्ततः ।
 [१८९९]आलोकमपि रामस्य न पश्यन्ति[१९००]स्म दुःखिताः ॥ २ ॥

 आलोकमपीति । आलोक्यत इत्यालोकः-आलोकसाधनमपि-रामरथादि[१९०१]दर्शनमपीत्यर्थः ॥ २ ॥

 ते[१९०२]विषादार्तवदना रहितास्तेन धीमता ।
 कृपणाः करुणा वाचो वदन्ति स्म [१९०३]मनस्विनः ॥ ३ ॥


 धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः ।
 नाद्य [१९०४]पश्यामहे रामं पृथुरस्कं महाभुजम् ॥ ४ ॥

 पश्यामह इति । पश्याम इति यावत् ॥ ४ ॥

 कथं रामो महाबाहुः स तथाऽवितथक्रियः ।
 भक्तं जनमभित्यज्य प्रवासं [१९०५]तापसो गतः ॥ ५ ॥

 तथा-प्रसिद्धा अवितथा-अमोघा क्रिया यस्य स तथा ॥ ५ ॥

 यो नस्सदा पालयति पिता पुत्रानिवौरसान् ।
 कथं रघूणां स [१९०६]श्रेष्ठः त्यक्त्वा नो विपिनं गतः ॥ ६ ॥
 [१९०७]इहैव निधनं यामो महाप्रस्थानमेव वा
 रामेण रहितानां [१९०८]हि किमर्थं जीवितं [१९०९]हि नः ॥ ७ ॥
 [१९१०]सन्ति शुष्कानि काष्ठानि प्रभूतानि महान्ति च
 तैः प्रज्वालय चितां सर्वे प्रविशामोऽथ पावकम् ॥ ८ ॥
 [१९११]किं वक्ष्यामो महाबाहुः अनसूयः प्रियंवदः ।
 नीतः स राघवोऽस्माभिः इति वक्तुं कथं क्षमम् ॥ ९ ॥


 स राघवोऽस्मान्न नीतः-न नीतवानित्यस्माभिः कथं वक्तुं क्षमम्? न कथमपि । अस्माकं सर्वेषां निद्रानाशितचित्तत्वात् 'मा स्वपन्तं बोधयेत्' इति शास्त्रस्य च सत्वात् स तूष्णीं गतः । अतो न तस्मिन् कोऽप्यपचार इत्यर्थः ॥ ९ ॥

 सा नूनं नगरी दर्दाना दृष्ट्वाऽस्मान् राघवं विना ।
 भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥ १० ॥

 वयोऽधिकाः-वृद्धाः ॥ १० ॥

 निर्यातास्तेन वीरेण सह नित्यं [१९१२] जितात्मना ।
 विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ ११ ॥
 इतीव बहुधा वाचः बाहुमुद्यम्य ते जनाः ।
 विलपन्ति स्म दुःखार्ताः विवत्सा इव धेनवः ॥ १२ ॥
 ततो मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः ।
 [१९१३]मार्गनाशाद्विषादेन महता समभिताः ॥ १३ ॥

 मार्गानुसारेणेति । अतिसन्धानप्रवर्तितमार्गानुसारेणेत्यर्थः । किञ्चित् क्षणं-किञ्चित्कालम् । मार्गादर्शनादिति । वञ्चनया मार्गान्तरेण प्रवृत्त्यावृत्तत्वादेव ॥ १३ ॥

 [१९१४]रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ।
 [१९१५]किमिदं किं कारष्यामः दैवनपहता इति ॥ १४ ॥


 ततो यथागतेनैव मार्गेण क्लान्तचेतसः ।
 अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ १५ ॥

 व्यथिताः सज्जनाः यस्यां सा तथा । सत्पदविशेषणेन कैकेयी-पार्श्वासज्जनव्यावृत्तिः ॥ १५ ॥

 आलोक्य नगरीं तां च [१९१६]क्षयव्याकुलमानसाः ।
 [१९१७]अवर्तयन्त तेऽश्रूणि नयनैश्शोकपीडितैः ॥ १६ ॥

 क्षयः-हर्षक्षयः ॥ १६ ॥

 एषा रामेण नगरी रहिता नातिशोभते ।
 आपगा गरुडेनेव ह्नदादुद्धृतपन्नगा ॥ १७ ॥

 आपगेत्यादि गतम्[१९१८] ॥ १७ ॥

 चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।
 अपश्यन्निहतानन्दं नगरं ते विचेतसः ॥ १८ ॥

 ते तानि वेश्मानि महाधनानि
  दुःखेन दुःखोपहता विशन्तः ।
 नैव प्रजज्ञुः स्वजनं जनं वा
  निरीक्षमाणाः प्रविनष्टहर्षाः ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तचत्वारिंशस्सर्गः ।


 स्वजनं जनं वेति। अन्यजनं वेत्यर्थः । धैर्य (१९) मानः सर्गः ॥ १९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तचत्वारिंशस्सर्गः



अष्टचत्वारिंशस्सर्गः

[पौरविलापः]

 [१९१९]तेषामेवं विषण्णानां पीडितानामतीव च ।
 बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ १ ॥

 अथ प्रतिनिवृत्तपौरजनस्य पुरे स्थित्वा शोचनम्-तेषामित्यादि । मुमूर्षया-मर्तुमिच्छयोपलक्षितानाम् ॥ १ ॥

 अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।
 उद्गतानीव सत्त्वानि बभूवु[१९२०]रमनस्विनाम् ॥ २ ॥

 सत्त्वानि-अन्तःकरणानि । उद्गतानि-उत्क्रान्तानीव बभूवुः, मृततुल्यतयाऽवस्थिता इत्यर्थः । अमनस्विनां-दुर्मनस्कानां-खिन्नानामिति यावत् ॥ २ ॥

 स्वं स्वं निलयमागम्य पुत्रदारैस्समावृताः ।
 अश्रूणि मुमुचुस्सर्वे बाप्पेण पिहिताननाः ॥ ३ ॥
 न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् ।
 न चाशोभन्त [१९२१]पण्यानि नापचन् गृहमेधिनः ॥ ४ ॥

 न चामोदन्निति । नामोदन्तेति यावत् । न प्रसारयन्-न प्रासारयन् इति यावत् । अत एव पण्यानि नाशोभन्त-न दृष्टानीत्यर्थः ॥ ४ ॥

 [१९२२]नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् ।
 पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ ५ ॥


 गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।
 व्यगर्हयन्त दुःखार्ता वाग्भिः तोत्रैरिव द्विपान् ॥ ६ ॥

 व्यगर्हयन्तेति । राममप्रतिनिवर्त्य किमर्थमागता यूयमित्येवमात्मना । तोत्रैरिति पदम् ॥ ६ ॥

 [१९२३]किन्नु तेषां [१९२४]गृहे कार्यं किं दारैः किं धनेन वा ।
 पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ ७ ॥

 रामं विसृज्य आगतानां तेषां युष्माकं गृहे किं नु कार्यम् ? व्यर्थमेवागतमित्यर्थः । ये न पश्यन्तीति । ये भवन्तो न पश्यन्तीत्यर्थः । एवमन्तं स्त्रीणां गर्हावचनं, विसृज्य राममागता इति कोपजम् ॥ ७ ॥

 एकः सत्पुरुषो लोके लक्ष्मणः [१९२५]सह सीतया ।
 योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥ ८ ॥

 अतः परं सामान्यतः शोकः-एक इत्यादि ॥ ८ ॥

 आपगाः कृतपुण्यास्तः पद्मिन्यश्च सरांसि च ।
 [१९२६]येषु [१९२७]स्नास्यति काकुत्स्थः विगाह्य सलिलं शुचि ॥ ९ ॥
 [१९२८]शोभयिष्यन्ति काकुत्स्थं अटव्यो रम्यकाननाः ।
 आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ १० ॥


 अटव्य इति । वनप्रदेशा इत्यर्थः । अनूपः-कच्छः ॥ १० ॥

 काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति ।
 प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ ११ ॥

 अनर्चितुं न शक्ष्यन्ति-अर्चितुं शक्ष्यन्त्येवेत्यर्थः ॥ ११ ॥

 विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ।
 [१९२९]राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥ १२ ॥

 तदेव प्रदर्श्यते-विचित्रेत्यादि । विचित्रैः कुसुमैः-विकसितपुष्पैः आपीडाः-शेखरा येषां ते तथा । बह्वीः मञ्जरीः-मुकुलितपुष्पस्तबकान् धर्तुं शीलमस्त्येषामिति, छान्दसो ह्रस्वः । नगाः-वृक्षाः । राघवं दर्शयिष्यन्तीति । तथा च पुष्पाञ्जलिरूपमर्चनं कर्तुं शक्नुवन्त्ये-वेत्युक्तं भवति ॥ १२ ॥

 अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
 दर्शयिष्यन्त्यनुक्रोशात् गिरयो राममागतम् ॥ १३ ॥

 पूजान्तरेऽपि सामर्थ्यं प्रदर्श्यते-अकाले चापीत्यादि । गिरयो दर्शयिष्यन्तीति । स्वकवृक्षद्वारेणेति शेषः ॥ १३ ॥

 प्रस्त्रविष्यन्ति तोयानि विमलानि महीधराः ।
 विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ॥ १४ ॥
 पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ।
 यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ १५ ॥

 यत्र राम इति । वसतीति शेषः ॥ १५ ॥


 स हि शूरो महाबाहुः पुत्रो दशरथस्य च ।
 [१९३०]पुरा भवति [१९३१]नोऽदूरात् अनुगच्छाम राघवम् ॥ १६ ॥

 राघवः नः-अस्माकं अदूराद्भवति पुरा; 'यावत्पुरा-' इति लट्; आसन्नो भविष्यति किम् ? आसन्नं यं राममनुगच्छाम, प्रार्थने लोट् ॥ १६ ॥

 पादच्छाया [१९३२]सुखा भर्तुः तादृशस्य महात्मनः ।
 स हि नाथो जनस्यास्य [१९३३]स गतिस्स परायणम् ॥ १७ ॥

 महात्मनस्तस्य पादच्छाया-छायेति अनुग्रहहेतुभूता सेवा लक्ष्यते, श्रीरामचन्द्रपादमेवैव नस्सुखा-परमसुखसाधनभूता गतिः-शरणम् । परायणं-शाश्वतप्रतिष्ठा ॥ १७ ॥

 वयं परिचरिष्यामः सीतां, यूयं तु राघवम् ।
 इति पौरस्त्रियो भर्तॄन् दुःखार्ता[१९३४]स्तत्तदब्रुवन् ॥ १८ ॥

 वयमिति । स्त्रिय इत्यर्थः । यूयं पुरुषाः ॥ १८ ॥

 युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ।
 सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ १९ ॥
 [१९३५]को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च ।
 संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ २० ॥


 अनेन वासेन को नु संप्रीयेतेति योजना । अप्रतीतेन-असुखेन । सशोकस्मरण-उत्कण्ठा, सोत्कण्ठतया कृतः सोत्कण्ठितः, तादृशः जनः यस्मिन्नयोध्यावासे स तथा । हृतचेतसा-चित्तनाशकेन ॥ २० ॥

 कैकेय्या यदि चेत् राज्यं स्यादधर्म्यमनाथवत् ।
 न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ २१ ॥

 अधर्म्यं-धर्मापेतम् ॥ २१ ॥

 यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
 कं सा [१९३६]परिहरेदन्यं कैकेयी कुलपांसनी ॥ २२ ॥

 पुत्रश्चेति । राम इत्यर्थः । परिहरेत्-रक्षेत् ॥ २२ ॥

 कैकेय्या न वयं राज्ये [१९३७]भृतका निवसेमहि ।
 [१९३८]जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ २३ ॥

 जीवन्त्याः कैकेय्या राज्ये तस्या भृतकाः-भृत्यभूताः जीवन्त्यस्सत्यः न निवसेमहि, न वसेमेति यावत् । इममर्थं प्रति पुत्रैरपि शपामहे, शप उपालंभे ॥ २३ ॥

 या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।
 कस्तां प्राप्य सुखं जीवेत् अधर्म्यां दुष्टचारिणीम् ॥ २४ ॥

 तां आधर्म्यां-धर्मापेताम् ॥ २४ ॥


 उपद्रुतमिदं सर्वं [१९३९]अनालम्बमनायकम् ।
 कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥ २५ ॥

 कृते-निमित्तम् ॥ २५ ॥

 न हि [१९४०]प्रव्रजिते रामे जीविष्यति महीपतिः ।
 मृते दशरथे व्यक्तं [१९४१]विलापस्तदनन्तरम् ॥ २६ ॥
 ते विषं पिवतालोड्य क्षीणपुण्याः सुदुर्गताः ।
 राघवं वाऽनुगच्छध्वं अश्रुतिं वापि गच्छत ॥ २७ ॥

 ते यूयं पुरुषा इत्यर्थः । [१९४२]सस्त्रीका इति शेषः । अश्रुतिं वापि गच्छत–यस्मिन् देशे प्राप्ते युष्मद्वृत्तान्तश्रवणमपि न भवति, तादृशं दूरदेशं वा गच्छतेत्यर्थः ॥ २७ ॥

 मिथ्याप्रव्रजितो रामः [१९४३]सभार्यः सहलक्ष्मणः ।
 भरते [१९४४]सन्निविष्टास्मः सौनिके पशवो यथा ॥ २८ ॥

 मिथ्याप्रव्रजितः-मिथ्यावरकल्पनया प्रव्रजितोऽभूत् रामः । ततः कैकेयीवरागे भरते राजनि सति, सौनिके-सूना-पशुविशसनस्थानं, तत्र भवः सौनिकः, तत्समीपे पशवो यथा निश्चितप्राणपीडास्तिष्ठन्ति तद्वत्सन्निविष्टास्म, लुट्, अगुणश्छान्दसः ; स्म इति वा पदम् । विषपानादिव्यापारान्यतमाश्रयण इहावस्थानपरिहाराभाव इति शेषः ॥ २८ ॥


 पूर्णचन्द्राननः श्यामः गूढजत्रुररिन्दमः ।
 आजानुबाहुः पद्माक्षः रामो लक्ष्मणपूर्वजः ॥ २९ ॥
 [१९४५]पूर्वाभिभाषी [१९४६]मधुरः सत्यवादी महाबलः ।
 सौम्यश्च सर्वलोकस्य चन्द्रवत् प्रियदर्शनः ॥ ३० ॥
 नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
 शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ ३१ ॥
 तास्तथा विलपन्त्यस्तु नगरे नागराः स्त्रियः ।
 चुक्रुशुः[१९४७] दुःखसन्तप्ताः [१९४८]मृत्योरिव [१९४९]भयागमे ॥ ३२ ॥
 इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ।
 जगामास्तं दिनकरः रजनी चाभ्यवर्तत ॥ ३३ ॥
 नष्टज्वलन [१९५०]संपाता [१९५१]शान्ताध्ययनसत्कथा ।
 तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ ३४ ॥

 नष्टः ज्वलनानां संपातः-होमाय सङ्गमः यस्यां सा तथा । शान्तानि अध्ययनानि सत्कथाः-पुण्यकथाश्च यस्यां सा तथा ॥ ३४ ॥

 उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
 अयोध्या नगरी चासीत् नष्टतारमिवाम्बरम् ॥ ३५ ॥

 निराश्रयेति । रामाश्रयराहित्यात् निराश्रया ॥ ३५ ॥

 [१९५२]तथा स्त्रियो रामनिमित्तमातुराः
  यथा सुते भ्रातरि वा विवासिते ।


 विलप्य दीना रुरुदुर्विचेतसः
  [१९५३][१९५४]सुतैर्हि तासामधिको हि सोऽभवत् ॥ ३६ ॥

 स विलापस्तासां सुतैः-सुतवियोगहेतुकैरप्यधिकोऽभूत् ॥ ३६ ॥

 प्रशान्तगीतोत्सवनृत्तवादना
  विभ्रष्टहर्षा पिहितापणोदया ।
 [१९५५]तदा ह्ययोध्या नगरी बभूव सा
  महार्णवः [१९५६]संक्षपितोदको यथा ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः


 छाग(३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अष्टचत्वारिंशः सर्गः


एकोनपश्चाशः सर्गः

[जानपदाक्रोशः]

 रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।
 जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ १ ॥

 एवं पौरव्यापारमुपवर्ण्य यथाप्राप्तरामवनप्रयाणदर्शनम् । रामोऽपीत्यादि । तेनैव रात्रिशेषेणेति । यद्रात्रिशेषे द्विजाः सुप्ताः अति-संहिताः, तद्रात्रिशेषेणैवेत्यर्थः । महत् अन्तरं- [१९५७]अवकाशं जगाम-अतिवाहितवानिति यावत् ॥ १ ॥


 तथैव गच्छतस्तस्य व्यपायाद्रजनी शुभा ।
 उपास्य स शिवां सन्ध्यां [१९५८]विषयान्तं व्यगाहत ॥ २ ॥
 ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च ।
 [१९५९]पश्यन्नतिययौ शीघ्रं [१९६०]शरैरिव हयोत्तमैः ॥ ३ ॥

 शरैरिवेति [१९६१]शरवेगैरिवोपलक्षितैरित्यर्थः ॥ ३ ॥

 [१९६२]शृण्वन् वाचो मनुष्याणां[१९६३]ग्रामसंवासवासिनाम् ।
 राजानं धिक् दशरथं कामस्य वशमास्थितम् ॥ ४ ॥

 ग्रामरूपः संवासः-ग्रामसंवासः ॥ ४ ॥

 हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ।
 तीक्ष्णा संभिन्नमर्यादा [१९६४]तीक्ष्णकर्मणि वर्तते ॥ ५ ॥
 या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।
 [१९६५]वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ ६ ॥

 ईदृशमिति । कल्याणगुणैकतानमित्यर्थः ॥ ६ ॥

 अहो दशरथो राजा निस्स्नेहः स्वसुतं प्रियम् ।
 प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ ७ ॥
 एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।
 शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥ ८ ॥

 अतिययौ-अतिक्रम्यागच्छत् ॥ ८ ॥


 ततो वेदश्रुतिं नाम [१९६६]शिववारिवहां नदीम् ।
 उत्तीर्याभिमुखः प्रायात् अगस्त्याध्युषितां दिशम् ॥ ९ ॥

 शिवानि वारीणि यस्यास्सा-शिववारिः ॥ ९ ॥

 गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् ।
 गोमतीं गोयुतानूपां अतरत् सागरंगमाम् ॥ १० ॥

 गोभिर्युताः आनूपाः-कच्छाः यस्यां सा तथा । सागरं-गमामिति । 'गमेः सुप्युपसंख्यानं' इति खचि रूपम् ॥ १० ॥

 गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।
 मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ ११ ॥

 स्यन्दिकां-स्यन्दिकाख्याम् ॥ ११ ॥

 स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।
 स्फीतां राष्ट्रावृतां रामः वैदेहीमन्वदर्शयत् ॥ १२ ॥

 स महीमिति । अतीतस्यन्दिकानदीकः स रामः महीं-स्यन्दिकासीमाक-कोसलदेशं राष्ट्रावृतां-अवान्तरजनपदावृतां, वैदेही-मन्वदर्शयत्-एतत्सीमाकोऽयं कोसलदेशो मनुना-अस्मद्वंशकूटस्थेन अस्मद्वंश्यायेक्ष्वाकवे दत्त इति स्वदेशसीमाप्रदर्शनपूर्वकं कथयामासेत्यर्थः । यद्यपीक्ष्वाकुप्रमुखाः सार्वभौमाः, तथापि तेषां स्वजन्मभूमिस्व देशस्वराजधानीत्वाद्यभिमानास्पदत्वं अयोध्यादेशस्यैव । तर्हि सार्व-भौमत्वं कथम् ? ततद्देशसिह्मासनपीठाधिष्ठातृमकुटवर्धनमहाराज- परिपालनीयस्वशासनत्वं, सर्वतः करग्राहित्वमेव च । न तु कालीवत् तत्तद्देशराजपीठं अबलमस्तीति कृत्वा विनाशयन्ति, अपि प्रतिष्ठाप-


यन्त्येव । तथा ह्युक्तम्-'राजवंशान् शतगुणान् स्थापयिष्यति राघवः' इति ॥ १२ ॥

 सूत ! इत्येव चाभाष्य सारथिं तमभक्षिणशः ।
 हंसमत्तस्वरः श्रीमान् उवाच पुरुषोत्तमः ॥ १३ ॥
 कदाऽहं पुनरागम्य सरय्वाः पुष्पिते वने ।
 मृगयां पर्यटिष्यामि मात्रा पित्रा च सम्मतः ॥ १४ ॥

 पुनरागम्येति । अतिवाहितं स्वदेशमिति शेषः ॥ १४ ॥

 राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगयां वने ।
 काले वृतां तां मनुजैः धन्विनामभिकाङ्क्षिताम् ॥ १५ ॥

 कदा मृगयां पर्यटिष्यामीति कथमिदं व्यसनमिच्छसीत्यत्राह-राजर्षीणामित्यादि । काले-मृगयोचितग्रीष्मादिकाले धन्विभिर्मनुजैः वृतां-तैरभिकाङ्क्षितां वने मृगयां राजर्षीणामपि अस्मिन् लोके रत्यर्थं हि स्मरन्तीति शेषः । इयमेव स्मृतिः-हिशब्देन प्रसिद्धिवाचिना द्योत्यते । तर्हि 'स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम्' इत्युक्तलक्षणव्यसननिषेधः कथम् ? तदा-भीक्ष्ण्यप्रवृत्तेरेव प्रजाचिन्तादिवैमुख्यकारिण्या निषेधः, न तूक्तव्यसन मात्रस्य, 'तस्याः सभाया मध्ये देवनमुद्धृत्यावोक्ष्याक्षान्निवेपेत्' इत्यादितो द्यूतादेश्शास्त्रेण स्वकृत्याविरोधिनोऽव्यसनस्य लीलार्थमनुमतत्वात् ॥

 नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने ।
 रतिर्होषाऽतुला लोके राजर्षिगणसम्मता ॥ १६ ॥

 तदेवाह-नात्यर्थमित्यादि । एषा-कदाचित् मृगया यथाकालप्रवृत्तिः राजर्षिगणसम्मता अतुला रतिः-क्रीडा । अस्या अध्यनुमतिः 'गजादयो न हन्तव्याः मृगयायां' इत्यादिना शास्त्रेण । सामान्यतो मृगयाऽनुमता ॥ १६ ॥

 स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा ।
 तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः


 तं तमर्थमभिप्रेत्य-विषयीकृत्य उदीरयन् तमध्वानमतिययौ । तर्क (१६) मानः सर्गः (१) ॥ १७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनपञ्चाशः सर्गः


पञ्चाशः सर्गः

[गुहसङ्गमः]

 विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः ।
 अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥

 एवं स्वदेशातिवाहनानन्तरं जन्मभूमिप्रयुक्तस्नेहस्वपुरदेवतामापृच्छ्य शनैर्गङ्गाप्राप्तिपूर्वकं गुहसम्बन्धः । विशालानित्यादि । कोसलानिति । अतीत्येति शेषः ॥ १ ॥

 [१९६७]आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते !
 दैवतानि च यानि त्वां [१९६८]पालितानि वसन्ति च ॥ २ ॥
 निवृत्तवनवासस्त्वां अनृणो जगतीपतेः ।
 पुनद्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ ३ ॥

 हे पुरिश्रेष्ठे-अयोध्याधिदेवते इति यावत् । यानि च दैवतानि त्वया पालितानि त्वयि वसन्ति शिवविष्ण्वादीनि, तानि त्वां च पुनर्द्रक्ष्यामीत्यन्वयः ॥ ३ ॥


 ततो रुधिरताम्राक्षः भुजमुद्यम्य दक्षिणम् ।
 अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ ४ ॥

 जानपदं-जनपदे भवं जानपदम्, स्वदर्शनार्थं तत्रागतमिति शेषः ॥ ४ ॥

 अनुक्रोशो दया चैव यथार्हं मायि वः कृतः ।
 [१९६९]चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ ५ ॥

 यथार्हं मयि कृतः यः अनुक्रोशः-अनुतापः दया च अतिपापीयः तदिदं सर्वं वः चिरं दुःखस्य संपन्नं बत ! किं कुर्म इदानीम् ? गम्यतामर्थ-सिद्धये-प्रकृतार्थसिद्धये, साधयाम इति शेषः ॥ ५ ॥

 तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ।
 विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित् क्वचित् ॥ ६॥

 त इति । एवं रामेण विसर्जिता इत्यर्थः ॥ ६ ॥

 तथा विलपतां तेषां [१९७०]अतृप्तानां च राघवः ।
 अचक्षुर्विषयं प्रायात् यथाऽर्कः क्षणदामुखे ॥ ७ ॥

 अतृप्तानामिति । दर्शनतृप्तिरहितानामित्यर्थः । क्षणदामुलेखे-सायंकाले ॥ ७ ॥

 ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
 अकुतश्चिद्भयान् [१९७१]रम्यांश्चैत्ययूपसमावृतान् ॥ ८ ॥

 एवं कोसलजनपदप्रजानिवर्तनानन्तरं वैभववर्णनपूर्वकं तदतिवाहः प्रदर्श्यते-ततो धान्येत्यादि । दानशीला नरा येषु ते तथा । चैत्ये-ग्रामाद्वहिःप्रदेशे प्रतिष्ठापितैः यूपैः समावृतास्तथा ॥ ८ ॥


 उद्यानाम्रवणोपेतान् संपन्नसलिलाशयान् ।
 तुष्टपुष्टजनाकीर्णान् [१९७२]गोकुलाकुलसेवितान् ॥ ९ ॥

 [१९७३]गोकुलैः आकुलतया-निबिडतया सेवितास्तथा ॥ ९ ॥

  [१९७४][१९७५]रक्षणीयान् नरेन्द्राणां ब्रह्मघोषानुनादितान् ।
 रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥ १० ॥

 रक्षणीयान् नरेन्द्राणामिति । 'कृत्यानां कर्तरि वा' इति षष्ठी, नरेन्द्ररित्यर्थः ॥ १० ॥

 [१९७६]मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् ।
 राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः ॥ ११ ॥

 राज्यं मध्येन ययौ-मध्यगत्यवलम्बनेन ययौ, स्वदेशस्वजनानु-नयाशङ्काभावात् शनैर्देशसौभाग्यं पश्यन् अगमदित्यर्थः ॥ ११ ॥

 तत्र त्रिपथगां दिव्यां [१९७७]शिवतोयामशैवलाम् ।
 ददर्श राघवो गङ्गां [१९७८]पुण्यामृषिनिषेविताम् ॥ १२ ॥

 तत्रेति । अयोध्याराज्याद्दक्षिणराज्य इत्यर्थः ॥ १२ ॥

 आश्रमैरविदूरस्थैः श्रीमद्भिस्समलङ्कृताम् ।
 कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोहृदां शिवाम् ॥ १३ ॥

 काले क्रीडाकाल इति यावत् । सेविताः अम्भःपूर्णहृदा यस्यां सा तथा ॥ १३ ॥


 देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।
 [१९७९]नागगन्धर्वपत्नीभिः सेवितां [१९८०]सततं [१९८१]शिवाम् ॥ १४ ॥

 नागपत्न्यः, गन्धर्वपत्न्यश्च तथा ॥ १४ ॥

 देवाक्रीड[१९८२]शतोपेतां देवोद्यान[१९८३]युतां नदीम् ।
 देवार्थमाकाश[१९८४]गतां विख्यातां देवपद्मिनीम् ॥ १५ ॥

 देवानामाक्रीडैः-क्रीडापर्वतशतैः हिमवदादावुभयतीरवर्तिभिः उपेतां । प्राग्वदेव-देवोद्यानयुतां । देवार्थं-देवानां स्नानपानादिप्रयोजनाय तत्प्रार्थनया आकाशगतां । तत्र प्रदेशे देवपाद्मिनीं-देवः-भगवान् हिरण्यगर्भः, तदीयं पद्मं -स्वर्णपद्मं, तदर्थं तद्वतीमित्यर्थः ॥ १५ ॥

 [१९८५]जलाघाताट्टगृहासोग्रां फेननिर्मलहासिनीम् ।
 क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् मुक्तामणिः ॥ १६ ॥

 शिलादिपतनस्थले योऽयं जलाघातः सशब्दः-तद्रूपेणाट्टहासेन उग्रां ; सशब्दः शूरादिक्रियमाणः हासः-अट्टहासः । फनरूपः निर्मलः हासः मन्दस्मितरूपः अस्या अस्तीति तथा । एवमादिस्त्रीसमाधिवर्णनं प्रवाहरूपिण्या अपि गङ्गायाः ॥ १६ ॥

 क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् ।
 क्वचित् गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ १७ ॥

 स्तिमिता-निश्चला गम्भीरा-अगाधा च तथा । गम्भीरनिर्घोषो मृदङ्गादेवि, भैरवनिस्वनस्त्वशन्यादेरिव ॥ १७ ॥


 [१९८६] देवसङ्घाप्लुजलां निर्मलोत्पलशोभिताम्
 [१९८७]क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ १८ ॥

 आभोगपुलिनां-विशालसैकताम् । वालुका-सिकता ॥ १८ ॥

 हंससारसङ्घुष्टां चक्रवाकोपकूजिताम् ।
 सदा मत्तैश्च विहगैः अभिपन्नामनिन्दिताम् ॥ १९ ॥
 [१९८८]क्वचित्तीररुहैवृक्षैः मालाभिरुपशोभिताम् ।
 क्वचित् फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ॥ २० ॥
 क्वचित् कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ।

 कुड्मलैः कुमुदषण्डैरिति योजना ॥ २० ॥

 नानापुष्परजोध्वस्तां समदामिव च क्वचित् ॥ २१ ॥

 नानापुष्परजसां ध्वस्तः-ध्वंसः, भावे निष्ठा, यस्यां सा तथा । अतस्तादृशगुणवर्ती समदां-मदसहितां प्रमदामिव स्थिताम् ॥ २१ ॥

 व्यपेत[१९८९]जलसङ्घातां मणिनिर्मलदर्शनाम् ।

 व्यपेतजलसङ्घातां-उत्तीरप्रवाहरहितामिति यावत् । मणिः-मुक्तामणिः ॥

 दिशागजैर्वनगजैः मत्तैश्च वरवारणैः ॥ २२ ॥
 [१९९०] [१९९१]देवौपवाद्यैश्च मुहुः सन्नादितवनान्तराम् ।

 वरवारणैः-उत्तमगजैः । देवाः-राजानः तेषामौपवाद्यैः-[१९९२]पौर-गजैरिति यावत् ॥


 प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ २३ ॥
 [१९९३]फलमूलैः किसलयैः वृतां गुल्मैः द्विजैस्तथा ।

 फलमूलैः किसलयैः-तदात्मकैरेव भूषणैः-अलङ्कारैः भूषिताम् ॥

 शिशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् ॥ २४ ॥
 [१९९४]विष्णुपादच्युतां दिव्यां अपापां पापनाशिनीम् ।

 'शिशुमारस्त्वम्बुकपिः' ॥ २४ ॥

 तां शङ्करजटाजूटात् भ्रष्टां [१९९५]सागरतेजसा ॥ २५ ॥
 समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् ।
 आससाद महाबाहुः [१९९६]शृङ्गवेरपुरं प्रति ॥ २६ ॥

 शृङ्गबेरपुरं प्रतीति। प्रस्थितामिति शेषः ॥ २६ ॥

 तामूर्मिकलिलावर्ता अन्ववेक्ष्य महारथः ।
 सुमन्त्रमब्रवीत् सूतं इहैवाद्य वसामहे ॥ २७ ॥

 ऊर्मिभिः कलिलाः-संपृक्ताः आवर्ताः यस्यां सा तथा ॥ २७॥

 अविदूरादयं नद्याः बहुपुष्पप्रवालवान् ।
 सुमहान् इङ्गुदीवृक्षः वसामोऽत्रैव, सारथे ! ॥ २८ ॥

 नद्या अविदूराद्धेतोः बहुपुष्पप्रचालवान् । 'इङ्गुदी तापसतरुः xxxxxxx(?)॥ २८ ॥


 द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् ।
 देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ २९ ॥
 लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् ।
 उक्त्त्वा तमिङ्गुदीवृक्षं तत्रोपययतुर्हयैः ॥ ३० ॥

 तं इङ्गुदीवृिक्षं तत्र-गङ्गातीरे प्रतिष्ठितमुद्दिश्य प्रवर्तितैर्हयैः ययतुः ॥

 रामोऽभीयाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः ।
 रथादवातरत्तस्मात् सभार्यः सहलक्ष्मणः ॥ ३१ ॥
 सुमन्त्रोऽप्यवतीर्यास्मात् मोचयित्वा हयोत्तमान् ।
 वृक्षमूलगतं रामं उपतस्थे कृताञ्जलिः ॥ ३२ ॥
 तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।
 निषादजात्यो बलवान् स्थपतिथेति विश्रुतः ॥ ३३ ॥

 आत्मसमः-प्राणसमः । निषादजातौ भवः-निषादजात्यः, दिगादित्वात् यत् । बलवान्-प्राणीयबलवान्, चतुरङ्गबलवांश्च । तदेतदुच्यते-स्थपतिरिति । स्थपतिः-अधिपतिः-निषादबलाधिपतिः । 'स्थपतिः पुनः । स्थापत्येऽधिपतौ तक्ष्णि' इति वैजयन्ती । एवञ्चास्य महाप्रभुत्वात् मूलभृतकादिषड्विधबलसङ्ग्रहस्य च राजधर्मत्वात् अस्य गुहस्य चाटविकमहाबलवत्त्वात् एतद्दशायामेव तेनाटविकबलेन चातिप्रयोजनत्वात् सख्यं-स्नेहो युक्त एव । ततश्च 'हीनप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्' इत्युपपातकपरिगणनं ब्राह्मणविषयम् ॥ ३३ ॥

 स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।
 वृद्धैः परिवृतोऽमात्यैः ज्ञातिभिश्चाप्युपागतः ॥ ३४ ॥

 विषयं-स्वदेशम् ॥ ३४ ॥

 ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।
 सह सौमित्रिणा रामः समागच्छत् गुहेन सः ॥ ३५ ॥

 समागच्छत्-सङ्गतोऽभूत् ॥ ३५ ॥

 तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् ।
 यथाऽयोध्या तथेदं ते, राम ! किं करवाणि ते भावः ॥ ३६ ॥
 ईदृशं हि, महाबाहो ! कः प्राप्स्यत्यतिथिं प्रियम् ।

 इदमिति । अस्मत्पुरमिति यावत् ॥ ३६ ॥

 ततो गुणवदन्नाद्यं उपादाय पृथग्विधम् ॥ ३७ ॥
 अर्ध्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ।

 अन्नं च तत् आद्यं च, ऋहलोर्ण्यत् ॥ ३७ ॥

 स्वागतं ते, महाबाहो ! तवेयमखिला मही ॥ ३८ ॥
 वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः ।
 भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ॥ ३९ ॥

 शयनानि च मुख्यानि वाजिनां खादनं च ते ।

 वाजिनां खादनं-अश्वघास इति यावत् ॥ ३९ ॥

 गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ह ॥ ४० ॥
 अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।
 पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ॥ ४१ ॥

 पद्भ्यामभिगमात्-स्वपुरादारभ्य स्वावासेङ्गुदीवृक्षपर्यन्तं महाप्रभुरपि सन् यतः पद्भ्यामभिगतोऽसि, यतश्च 'तवेयमस्विला मही 'इत्यादिना स्नेहं च दर्शयसि, तेन हेतुना वयं सर्वथा त्वयाऽर्चिता एवेति प्रत्यभाषतेत्यन्वयः ॥ ४१ ॥

 भुजाभ्यां [१९९७]साधु [१९९८]पीनाभ्यां पीडयन् वाक्यमब्रवीत् ॥
 दिष्ट्या त्वां, गुह ! पश्यामि ह्यरोगं सह बान्धवैः ।
 अपि ते कुशलं राष्ट्रे मित्रेषु च [१९९९]वनेषु च ॥ ४३ ॥

 वनेषु च ते कुशलं इति प्रश्नः तस्याटविकत्वात् ॥ ४३ ॥

 [२०००]यत्त्विदं भवता किश्चित् प्रीत्या समुपकल्पितम् ।
 सर्वं तदनुजानामि [२००१]न हि वर्ते प्रतिग्रहे ॥ ४४ ॥
 कुशचीराजिनधरं फलमूलाशिनं च माम् ।
 विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ ४५ ॥

 धर्मे प्रणिहितमिति । पितृवाक्यपरिपालनलक्षणे धर्मे सावधानम् ॥

 अश्वानां खादनेनाहं अर्थी नान्येन केन चित् ।
 एतावताऽत्रभवता भविष्यामि सुपूजितः ॥ ४६ ॥
 एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।
 एतैस्सु [२००२]विहितैरश्वैः भविष्याम्यहमर्चितः ॥ ४७ ॥

 एते हीति । अश्वा इति यावत् ॥ ४७ ॥

 [२००३]अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् ।
 गुहस्तत्रैव पुरुषान् त्वरितं दीयतामिति ॥ ४८ ॥


 प्रतिपानमिति । कबलदानानन्तरं राजौपवाह्यजात्याश्वानां यत् क्षीरादिकं प्रतिपाय्यते तत् प्रतिपानम् । दीयतामिति । आदिदेशेति शेषः ॥ ४८ ॥

 ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् ।
 जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ ४९ ॥
 तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
 सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ ५० ॥
 गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्
 अन्वजाग्रत् ततो रामं अग्रमत्तो धनुर्धरः ॥ ५१ ॥

 अन्वजाग्रदिति शब्दः छान्दसः,अजाग इति यावत् ॥ ५१ ॥

 तथा शयानस्य ततो[२००४] ऽस्य धीमतः
  यशस्विनो दाशरथेर्महात्मनः ।
 अदृष्टदुःखस्य सुखोचितस्य सा
  [२००५]तदा व्यतीयाय चिरेण शर्वरी ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चाशः सर्गः


 चिरेणेति । मूशय्यावासनाभावतो निद्रानागमाच्चिरत्वप्रतिभासः । राम (५२) मानः सर्गः ॥ ५२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चाशः सर्गः



एकपञ्चाशः सर्गः

[लक्ष्मणसन्तापः]

 तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् ।
 गुहः सन्तापसन्तप्तः राघवं वाक्यमब्रवीत् ॥ १ ॥

 एवं रामे शयाने तद्रक्षायै जाग्रल्लक्ष्मणगुहसंवादः । तमित्यादि । भ्रातुरर्थाय-भ्रातृरक्षणार्थमित्यर्थः । राघवं-रघुकुलजम् ॥ १ ॥

 इयं, तात ! सुखा शम्या त्वदर्थमुपकल्पिता ।
 प्रत्याश्वसिहि साध्वस्यां, राजपुत्र ! यथासुखम् ॥ २ ॥

 प्रत्याश्वसिहि, श्वसेर्हौ रुधादिभ्यः सार्वधातुक इट्-प्रत्याश्वस्तः-विश्रान्तो भवेत्यर्थः ॥ २ ॥

 उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ।
 गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य, वयं निशाम् ॥ ३ ॥

 अयं जन इति । आटविकोऽहमित्यर्थः ॥ ३ ॥

 न हि रामात् [२००६]प्रियतरो ममास्ति भुवि कश्चन ।
 ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥
 अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः ।
 धर्मावाप्तिं च विपुलां अर्थावाप्तिं च केवलाम् ॥ ५ ॥

 आशंसे-प्रार्थये । अस्य प्रसादादेव केवलमिति योजना ॥ ५ ॥

 सोऽहं प्रियतमं रामं शयानं सह सीतयां ।
 रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिस्सह ॥ ६ ॥


 न मेऽविदितं किश्चित् [२००७]वनेऽस्मिन्निरतः सदा ।
 चतुरङ्गंह्यपि बलं सुमहत् प्रसहेमहि ॥ ७ ॥

 निरतः-नित्यप्रतिष्ठः । प्रसहेमहीति । परकीयमिति शेषः ॥

 लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वया [२००८]ऽनघ !
 [२००९] नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ ८ ॥

 न वयं अत्र-देशे भीताः । अपि तु धर्ममेवानुपश्यता त्वया रक्ष्यमाणा भवामः-त्वद्धर्मपरिपालनाय त्वद्रक्षणामधानुजानीम इत्यर्थः ॥

 कथं दाशरथौ भूमौ शयाने सह सीतया ।
 शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ ९ ॥

 जीवितं वेति । विशिष्टभोजनादिना सुखजीवनमित्यर्थः ॥ ९ ॥

 यो न देवासुरैस्सर्वैः शक्यः प्रसहितुं युधि ।
 तं पश्य [२०१०]सुखसंविष्टं तृणेषु सह सीतया ॥ १० ॥

 प्रसहितुं । 'तिष्ठसह....' इति पाक्षिक इट् ॥ १० ॥

 [२०११]यो मन्त्रतपसा लब्धो विविधैश्च [२०१२]परिश्रमैः ।
 एको दशरथ[२०१३]स्येष्टः पुत्रः सदृशलक्षणः ॥ ११ ॥

 मन्त्रतपसा-गायत्र्यादिमहामन्त्रानुष्ठानं, कृच्छ्रादिलक्षणं तपश्च तथा । एकः-मुख्यः । सदृशः लक्षणः यस्य स तथा ॥ ११ ॥


 अस्मिन् [२०१४]प्रव्रजिते, राजा न चिरं वर्तयिष्यति ।
 विधवा मेदिनी नूनं [२०१५]क्षिप्रमेव भविष्यति ॥ १२ ॥

 धवः-पतिः ॥ १२ ॥

 विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
 निर्घोषोपरतं [२०१६]चातो मन्ये[२०१७]राजानेवेशनम् ॥ १३ ॥

 विनद्येत्यादि । श्रमेणोपरता भविष्यन्ति-एवं विनद्योपरतस्त्रीकं रामनिवेशनं चिरमनुभूताशनिघोषं सत् पश्चात् उपरतनिर्घोषमिव भविष्यतीति मन्ये ॥ १३ ॥

 कौसल्या चैव राजा च तथैव जननी मम ।
 [२०१८]नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ १४ ॥

 जीवन्तीति नाशंसे-वर्तमानसामीप्ये भविष्यति लट् न जीविष्यन्तीत्येवावगच्छामि । यदि वा जीविष्यन्ति तदा इमामेव शर्वरी जीविष्यन्ति ; नाभ्यधिकम्, अन्नपानाद्यस्वीकारात् परमदुःख-परितापाच ॥ १४ ॥

 जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।
 तद्दुःखं, [२०१९]यत्तु कौसल्या वीरसूर्विनशिष्यति ॥ १५ ॥

 जीवेदपीति । एतद्रात्र्या परमपीति शेषः । मे मातैव जीविष्यति शत्रुघ्नस्यान्ववेक्षया । कौसल्या विनशिष्यति पुत्रान्तरविहीनत्वात् इति यत् तदेव मे दुःखम् ॥ १५ ॥


 अनुरक्तजनाकीर्णा [२०२०]सुखा लोकप्रियावहा ।
 राजव्यसन[२०२१]संसृष्टा सा पुरी विनशिष्यति ॥ १६ ॥

 राजव्यसनं-राजनाशः ॥ १६ ॥

 कथं पुत्रं महात्मानं [२०२२]ज्येष्ठं प्रियमपश्यतः ।
 शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ १७ ॥
 विनष्टे नृपतौ पश्चात् कौसल्या विनशिष्यति ।
 अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥ १८ ॥
 [२०२३]अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।
 राज्ये रामयनिक्षिप्य पिता मे विनशिष्यति ॥ १९ ॥

 मनोरथं-रामराज्याभिषेकरूपं अनवाप्य अतिक्रान्तमतिक्रान्तं-नष्टं नष्टमिति क्रोशन्, 'आबाधे च' इति द्विर्वचनम्,आबाधो मनोदुःखम्, राज्ये रामं पुनरागतमनिक्षिप्यैव मे पिता विनाशष्यति ॥ १९ ॥

 सिद्धार्थाः पितरं वृत्तं तस्मिन् कालेऽभ्युपस्थिते ।
 प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति [२०२४]भूमिपम् ॥ २० ॥

 सिद्धार्था इति । भाग्यवन्तस्तस्मिन् काले सर्वेषु प्रेत कार्येषु सन्निहिता भूत्वा संस्करिष्यन्ति, अस्माकं तु तदपि न लभ्यते । सिद्धार्थाः-प्राप्तराज्यप्रयोजना भरततत्पक्ष्या इत्यर्थः ॥ २० ॥


 [२०२५] रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्
 [२०२६]हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् ॥ २१ ॥
 रथाश्वगजसम्बाधां तूर्यनादविनादिताम् ।
 सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् ॥ २२ ॥
 आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् ।
 सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २३ ॥

 त एते अनन्तरं यथापूर्वं सुमङ्गलां राजधानीं विचरिष्यन्ति ॥

 अपि जीवेद्दशरथो वनवासात् पुनर्वयम् ।
 प्रत्यागम्य महात्मानं अपि [२०२७]पश्येम सुव्रतम् ॥ २४ ॥
 [२०२८]अपि सत्यप्रतिज्ञेन सार्धं [२०२९]कुशलिना वयम् ।
  [२०३०]निवृत्तवनवासेऽस्मिन् अयोध्यां प्रविशेमहि ॥ २५ ॥
 परिदेवयमानस्य दुःखार्तस्य महात्मनः ।
  [२०३१]तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २६ ॥

 तिष्ठत इति । एवं परिदेवनं कृत्वा अवस्थितस्येत्यर्थः ॥ २६ ॥

 तथा तु सत्यं ब्रुवति प्रजाहिते
  नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः ।
 मुमोच बाष्पं व्यसनाभिपीडितः
  ज्वरातुरो नाग इव व्यथातुरः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकपञ्चाशः सर्गः



 गुरुसौहृदात्-रामविषयगुरुसौहार्दात् ; तथा सत्यं-वास्तवं ब्रुवति सति गुहोऽपि रामे गुरुसौहृदात्-महास्नेहात् व्यसनाभिपीडितो बाष्पं मुमोच । ज्वरातुरः, अत एव व्यथातुरः, नागः-गजः । सार-(२७) मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकपञ्चाशः सर्गः


द्विपञ्चाशः सर्गः

[गङ्गातरणम्]

 प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
 उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ १ ॥

 अथ सुमन्त्रगुहविसर्जनपूर्वकं गङ्गातरणं-प्रभातायामित्यादि ।

 भास्करोदयकालोऽयं गता भगवती निशा ।
 [२०३२]असौ [२०३३]तु कृष्णो विहगः कोकिलस्तात ! क्रूजति ॥ २ ॥
 बर्हिणानां च निर्घोषः श्रूयते नदतां वने
 [२०३४]तराम जाह्नवीं, सौम्य ! शीघ्रगां सागरङ्गमाम् ॥ ३ ॥
 विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ।
 गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ ४ ॥

 विज्ञाय-श्रुत्वेति यावत् ॥ ४ ॥


 स तु रामस्य वचनं निशम्य प्रतिगृह्य च ।
 स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ ५ ॥

 स त्विति । लक्ष्मणेन कृतामन्त्रणो गुह इत्यर्थः । रामस्य वचनं निशम्येति । तराम जाह्नवीं इत्युक्तरूपम् ॥ ५ ॥

 अस्यवाहनसंयुक्तां कर्णग्राहवतीं शुभाम् ।
 सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ ६ ॥

 [२०३५]अस्यवाहनेति । अस्य (जलं) निरस्य नावं वाहयति-तीरं प्रापयतीति अस्यवाहनम्, मयूरव्यंसकादित्वात् समासः, अरित्रमिति यावत् तत्संयुक्तां तथा । कर्णग्राहः-कर्णधारः, नाविक इति यावत् । सुखेन प्रतारः- प्रतारणं यया सा तथा । दृढां-दृढसन्धिबन्धाम् । [२०३६]तीर्थे-अवतारमार्गे ॥ ६ ॥

 तं निशम्य गुहादेशं गुहामात्यगणो महान् ।
 उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ ७ ॥

 उपोह्य-वहेर्ल्यपि स्थानिवत्वात् कित्वात् संप्रसारणम्, समीपं प्रापय्येत्यर्थः ॥ ७ ॥

 ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।
 उपस्थितेयं नौः, देव ! भूयः किं करवाणि ते ॥ ८ ॥
 तवामरसुतप्रख्य ! तर्तुं सागरगां नदीम् ।
 नौरियं, पुरुषव्याघ्र ! [२०३७]तां त्वमारोह, सुव्रत ! ॥ ९ ॥

 तर्तुमिति। ‘श्रयुकः किति' इति नेट् ॥ ९ ॥


 अथोवाच महातेजाः रामो गुहमिदं वचः ।
 [२०३८]कृतकामोऽसि भवता शीघ्रमारोप्यतामिति ॥ १० ॥

 [२०३९] आरोग्यतामिति । वयमिति शेषः ॥ १० ॥

 ततः कलापान् सन्नह्य खड्गौ वध्वा च धन्विनौ ।
 [२०४०]जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ११ ॥

 तत इति । एवं तस्यारोपणनियोगानन्तरम् । जग्मतुर्येन वै गङ्गामिति । येनावतारेण लोका गङ्गां तरन्ति, तेन तर्तुं तत्स्थनौसमीपं[२०४१]खड्गादिकलापनिक्षेपणाय जग्मतुरित्यर्थः ॥ ११ ॥

 राममेवं तु धर्मज्ञं उपगम्य विनीतवत् ।
 किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ १२ ॥

 ततोऽब्रवीद्दाशरथिः सुमन्त्रं
  स्पृशन् करेणोत्तमदक्षिणेन ।
 सुमन्त्र ! शीघ्रं पुनरेव याहि
  राज्ञः सकाशे भव चाप्रमत्तः ॥ १३ ॥

 उत्तमश्चासौ दक्षिणश्च तथा ; स्पर्शादिव्यापारे स एव किलोत्तमः,'सन्महत्...' इत्यादिना समासः ॥ १३ ॥

 निवर्तस्वेत्युवाचैनं एतावद्धि कृतं मम ।
 [२०४२]रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ १४ ॥


 एवं निवृत्तौ प्रयोजनमुक्त्वा इह प्रयोजनाभावात् सावधारणा निवृत्तिः पुनः प्रतिपाद्यते अनुगमनप्रत्याशानिवृत्तये-निवर्तस्वेत्यादि । एतावत्पर्यन्तं हि राजाज्ञया यानेन गमनं कृतम् । अतः परं यानं विहाय पद्ध्यामेव तु गमिष्यामः, अतो ममेह त्वया प्रयोजनं नास्ति ; अतः सर्वथा निवर्तस्वैवेत्युवाच ॥ १४ ॥

 आत्मानं त्वभ्यनुज्ञातं अवेक्ष्यार्तः स सारथिः ।
 सुमन्त्रः पुरुषव्याघ्रं ऐक्ष्वाकमिदमब्रवीत् ॥ १५ ॥

 अभ्यनुज्ञातमिति । प्रतिनिवृत्त्यै इति शेषः ॥ १५ ॥

 [२०४३]नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् ।
 तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ १६ ॥

 अथ सुमन्त्रस्तु तवैव तावद्वनवासो न्यायप्राप्तः, तदा त्वयैवाहं वत्स्यामीत्याशयेनाह-नातिक्रान्तमित्यादि । सभ्रातृभार्यस्य तव प्राकृतवत्-क्षुद्रप्राणिवत् वने योऽयं वासः, तदिदं इह-लोके केनचित् पुरुषेण अस्मदादिना राजकीयेन जानपदेन वा नातिक्रान्तं-अत्यन्तं चित्ते न स्वीकृतं, सर्वासम्मतमेवेति यावत् ॥ १६ ॥

 न मन्ये ब्रह्मचर्येऽस्ति [२०४४]स्वधिते वा फलोदयः ।
 मार्दवार्जवयोर्वापि त्वाञ्चेव्द्यसनमागतम् ॥ १७ ॥

 अपि वा-तावकयोर्मार्दवार्जवयोर्वशात् त्वाञ्चेदिदं व्यसनंवनवासदु:खं आगतं प्राप्तं, अथापि पुनः तत्र च यद्ब्रह्मचर्यं-अध


श्शय्यादिलक्षणं,स्वधिते-शेधि धृतौ, स्वेन धते-स्वेनानुष्ठीयमानेऽस्मिन् ब्रह्मचर्ये वा वृथा क्लेशत्वात् क्लेशफलोदयो नास्तीति मन्ये । न हि किल ब्रह्मचर्यमपि वरनिर्बन्धप्राप्तम् ॥ १७ ॥

 [२०४५] [२०४६]सह, राघव ! वैदेह्या भ्रात्रा चैव वने वसन् ।
 त्वं गतिं प्राप्स्यसे, वीर ! त्रीन् लोकांस्तु जयन्निव ॥ १८ ॥

 अस्तु वा सर्वज्ञस्य ते यथारुचि व्यवहारः ; नाहं त्वन्नियमनशक्तः। हे राघव ! वैदेह्या भ्रात्रा च सहैव वने वसन् त्रीन् लोकांस्तु जयन्निव–स्वपितृसत्यपरिपालनेन जयन्नेव भूत्वा परां गतिं--परमापवर्ग-ब्रह्मलोकं च प्राप्स्यसे, नात्र सन्देहः ॥ १८ ॥

 वयं खलु हताः, [२०४७]राम ! [२०४८]ये त्वयाऽप्युपवञ्चिताः ।
 कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ १९ ॥

 वयं खलु त्वया उपवञ्चिताः-त्यक्ताः हताः ॥ १९ ॥

 इति ब्रुवन्नात्मसमः सुमन्त्रः सारथिस्तदा ।
 [२०४९]दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम् ॥ २० ॥

 आत्मसमः-प्राणसम इति यावत् । दूरगतं दृष्ट्वेति । [२०५०]दूरदेशावस्थानवन्तं निश्चित्य तत्समीपे दुःखार्तः चिरं रुरोद ॥ २० ॥


 ततस्तु विगते बाष्पे सूत [२०५१]स्पृष्टोदकं शुचिम् ।
 रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ २१ ॥

 स्पृष्टोदकं-आचान्तम् ॥ २१ ॥

 इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।
 यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ २२ ॥

 सुहृत्-आपदि व्यसनापनोदकः । यदेवं अतः-यथेत्यादि ।

 शोकोपहतचेताश्च वृद्धश्च जगतीपतिः ।
 [२०५२]कामभारावसन्नश्च तस्मादेतत् ब्रवीमित ॥ २३ ॥

 कामभारेण-प्रारब्धवशजेनाधर्म्येण अवसन्नस्तथा । तस्मात्-उक्तहेतोरेव । एतत्-वक्ष्यमाणम् ॥ २३ ॥

 यद्यदाज्ञापयेत् किश्चित् स महात्मा महीपतिः ।
 कैकेय्याः प्रिय[२०५३]कामार्थे कार्यं तदविकाङ्क्षया ॥ २४ ॥

 कैकेय्याः प्रियकामार्थेऽपि यद्यदाज्ञापयति तदप्यविकांक्षया-सादरमविशङ्कतयाऽनुष्ठेयम् ॥ २४ ॥

 एतदर्थं हि राज्यानि प्रशासति [२०५४]नरेश्वराः
 यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २५ ॥

 एतच्छब्दार्थः-यदेषामित्यादि । प्रशासतीत्यभ्यस्तत्वादादेशः । सर्वकृत्येष्विति । कामात् क्रोधात् प्रवृत्तेष्वित्यर्थः ॥ २५ ॥


 यद्यत्तु स महाराजः नालीकमधिगच्छति ।
 न च ताम्यति [२०५५]दुःखेन, सुमन्त्र ! कुरु तत्तथा ॥ २६ ॥

 यद्यत्-अनुशिष्य अलीकं तदनिवृत्तिदुःखम् ॥ २६ ॥

 अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ।
 ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २७ ॥

 मम हेतोरभिवाद्य-मत्प्रतिनिधितया मन्नमस्कारं कृत्वेत्यर्थः ॥

 नैवाहमनुशोचामि लक्ष्मणो [२०५६]न च मैथिली ।
 अयोध्यायाश्चयुताश्चेति वने वत्स्यामहेति [२०५७] च ॥ २८ ॥

 इदंशब्दार्थः-नैवाहमित्यादि । अयोध्यायाः च्युता वयं इति कृत्वा वने वत्स्यामह इति चेति । छान्दसः सन्धिः ॥ २८ ॥

 चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः ।
 लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २९ ॥

 पुनःपुनः-अभीक्ष्णम् ॥ २९ ॥

 [२०५८]एवमुक्त्वा तु राजानं मातरं च, सुमन्त्र ! मे ।
 अन्याश्च देवीः सहिताः कैकेयी च पुनःपुनः ॥ ३० ॥
 आरोग्यं ब्रूहि, कौसल्यां अथ पादाभिवन्दनम् ।
 सीताया[२०५९] मम[२०६०]चार्यस्य वचनाल्लक्ष्मणस्य च ॥ ३१ ॥

 सहिता इति । मन्मात्रा इति शेषः। कैकेयीं च आरोग्यं-अनामयं ब्रूहि । नेयं व्यङ्गयोक्तिः, अपि तु दैवहतेयं मातेत्यनुतापादेव । अथ


नाम्ना मातरमाचार्यदारांश्चेत्येके' इति स्मरणात् स्वमातुः पादाभिवन्दन-मादिशति–कौसल्यामित्यादि । प्रतीति शेषः । आर्यस्य त्वत्पूज्यस्य मम वचनात् सीताया मम लक्ष्मणस्य च पादाभिवादनं ब्रूया इत्यन्वयः ॥ ३१ ॥

 ब्रूयाश्च हि [२०६१]महाराजं, भरतं क्षिप्रमानय ।
 आगतश्चापि भरतः स्थाप्यो [२०६२]नृपमते पदे ॥ ३२ ॥

 महाराजं-तत्पदार्हं । नृपमते-दशरथानुमते ॥ ३२ ॥

 भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ।
 अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति[२०६३]॥ ३३ ॥
 भरतश्चापि वक्तव्यः यथा राजनि वर्तसे ।
 तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ ३४ ॥

 वक्तव्य इति । किं वक्तव्य इत्यतः-यथेत्यादि । अविशेषत इति । स्वमातृकैकेय्यविशेषत इत्यर्थः ॥ ३४ ॥

 [२०६४]यथा च तव कैकेयी सुमित्रा च विशेषतः ।
 तथैव देवी कौसल्या तव [२०६५]मम माता विशेषतः ॥ ३५ ॥

 तदेव प्रदर्श्यते-यथेत्यादि ॥ ३५ ॥


 तातस्य प्रियकामेन यौवराज्यं [२०६६]मपेक्षता ।
 लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥ ३६॥

 अपेक्षता-अङ्गीकुर्वता। नित्यदा-छान्दसो दाप्रत्ययः ॥ ३६ ॥

 निवर्त्यमानो रामेण सुमन्त्रः [२०६७] शोककर्शितः ।
 तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ ३७ ॥
 यदहं नोपचारेण [२०६८]ब्रूयां स्नेहादविक्लवः !
 भक्तिमानिति तत्तावत् वाक्यं त्वं क्षन्तुमर्हसि ॥ ३८ ॥

 उपचारः-स्वामिभृत्यभावोचितसत्कारः । यत् ब्रूयां त्वद्वचनात् परमपि, तत् क्षन्तुमर्हसि, प्रत्युत्तरं वदतीति न क्रोद्धव्यमित्यर्थः ॥ ३८ ॥

 कथं च त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ।
 तव, [२०६९]तात ! वियोगेन पुत्रशोकाकुलामिव ॥ ३९ ॥

 किं ब्रवीषीत्यतः कथमित्यादि । तव वियोगेनेत्यन्वयः । [२०७०] तात-स्वामिन् इति यावत् । पुत्रवियोगजः शोकः-पुत्रशोकः, तेनेवा-कुलामिति । च शब्दः पूर्वान्तर्भावेण योज्यः ॥ ३९ ॥

 सराममपि तावन्मे रथं दृष्ट्वा तदा [२०७१]जनः ।
 विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ४० ॥

 मे रथमिति। मत्प्रवर्त्यं रथमित्यर्थः ॥ ४० ॥

 दैन्यं हि नगरी गच्छेत् दृष्ट्वा शून्यामिमं रथम् ।
 सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ ४१ ॥

 हतवीरं-हतरथिनमित्यर्थः ॥ ४१ ॥


 दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।
 चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥

 अग्रतः-पुरतः । नूनं निराहाराः कृता इति । त्वद्वियोगदुःखेनेति शेषः ॥ ४२ ॥

 दृष्टं तद्धि त्वया, राम ! यादृशं त्वत्प्रवासने ।
 प्रजानां सङ्कुलं वृत्तं त्वच्छोकाक्रान्तचेतसाम् ॥ ४३ ॥
 आर्तनादो हि यः पौरैः मुक्तस्त्वद्विप्रवासने
 [२०७२]सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ ४४ ॥
 [२०७३]अहं [२०७४]किञ्चापि वक्ष्यामि देवीं, तव सुतो मया ।
 नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥ ४५ ॥
 असत्यमपि, नैवाहं ब्रूयां वचनमीदृशम् ।
 कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ४६ ॥

 अथ वने स्थितिर्नानुशोचनीयेति यत् वनस्थितेर्निवेदनीयत्वमुक्तं तदतिघोरं मया अशक्यकरणम् । अतः प्रकारान्तरमेव असत्यमपि ब्रूयामित्याह-अहमित्यादि । किञ्च अहं देवीं-तव मातरं प्रति अहमेवमपि वक्ष्यामि । कथम् ? तवासौ सुतो मया मातुलकुलं कोसलदेशस्थं नीतः, न तु वनम् ; अतो मा सन्तापं कृथा इत्यसत्यमपीदृशं वचन-


मेवाहं ब्रूयाम् । सत्यमपीदं वननयनवचनं कथमेवाहमप्रियं ब्रूयाम्, 'सत्यं ब्रूयात् प्रियंं ब्रूयात् न ब्रूयात् सत्यमप्रियम्' इति स्मरणादित्याशयः ।[२०७५]अन्यस्तु-अतः किमपि वक्तुं न शक्नोमीति सिद्धं-इति महता यत्नेनायोजयदिव ॥ ४६ ॥

 मम तावन्नियोगस्थाः त्वद्बन्धुजनवाहिनः ।
 कथं रथं त्वया हीनं [२०७६][२०७७]प्रवक्ष्यन्ति हयोत्तमाः ॥ ४७ ॥

 त्वद्बन्धुजनेति। [२०७८]त्वां त्वद्बन्धुजनं सीतासौमित्रिरूपं वहनशीला । इत्यर्थः । प्रवक्ष्यन्तीति । वहेः लृटि स्ये हस्य ढत्वकत्वादिना रूपम् ॥

 तन्न शक्ष्याम्यहं गन्तुं अयोध्यां [२०७९]त्वदृतेऽनघ !
 वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ ४८ ॥
 यदि मे याचमानस्य त्यागमेव करिष्यसि ।
 सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥ ४९ ॥

 त्यक्तमात्रः-तत्क्षण एवेत्यर्थः ॥ ४९ ॥

 भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।
 रथेन [२०८०]प्रतिबाधिष्ये तानि [२०८१]सत्त्वानि, राघव ! ॥ ५० ॥

 भविष्यन्ति-सम्भावितानि । रथेन प्रतिबाधिष्य इति । रथेन साधनेन अहमेव रथी भूत्वा प्रतिबाधिष्ये-निवर्तयिष्यामि । न केवलमहं सूतः, मन्त्रिप्रधानः किल ॥ ५० ॥


 [२०८२]त्वत्कृते [२०८३]न मयाऽवाप्तं रथचर्याकृतं सुखम् ।
 आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ ५१ ॥

 सोऽहं त्वत्कृते-त्वन्निमित्ततया मया अद्य सारथित्वं विहाय केवलरथचर्याकृतं सूतकृत्यसाध्यं सुखमवाप्तम् । अतः परं त्वत्कृतेनैव-त्वन्निमित्तेनैव हेतुना वनवासकृतं महत् सुखं राज्यचिन्ता दुःखाभावादाशंसे, सर्वोऽपि राज्यभारो ममैव किल मन्त्रिमुख्यस्य । एवमादौ [२०८४]यद्वाभट्टो बहुजल्पति ; न किञ्चिदपि तत्सङ्गतं पश्यामः ॥ ५१ ॥

 प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ।
 प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः ॥ ५२ ॥

 प्रत्यनन्तरः-प्रत्यासन्नः-अनुकूलः भव, ममारण्यप्रत्यासत्तावित्यर्थः ॥ ५२ ॥

 इमे चापि हयाः, वीर ! यदि ते वनवासिनः ।
 परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ५३ ॥
 तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।
 अयोध्यां देवलोकं वा सर्वथा [२०८५]प्रजहाम्यहम् ॥ ५४ ॥
 न हि शक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना ।
 राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ ५५ ॥


 वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।
 यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ५६ ॥

 वनवासे-तत्काले । क्षयं प्राप्त इति । समाप्त इति यावत् । वहेयमिति यत्, एष मे मनोरथ इति योजना ॥ ५६ ॥

 चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।
 क्षणभूतानि यास्यन्ति शतसंख्याऽन्यतोऽन्यथा ॥ ५७ ॥

 शतसंख्यान्यतोऽन्यथेति । अन्यतः-त्वद्वियुक्ततया अवस्थितिपक्षे यथा क्षणमात्रमेव शतसंख्यानि-तावत्प्रमाणवर्षभूतानि भवन्ति अतिदुःखोपाधेः, तद्वत् त्वत्सेवासुखोपाधेः चतुर्दशवर्षाणि क्षणमात्राणि भविष्यन्तीत्यर्थः ॥ ५७ ॥

 [२०८६]भृत्यवत्सल ! तिष्ठन्तं भर्तृपुत्रगते पथि ।
 भक्तं भृत्यं स्थितं [२०८७]स्थित्यां [२०८८]न मां त्वं हातुमर्हसि ॥ ५८ ॥

 भर्तृपुत्रगते-राजपुत्राश्रिते पथि यथा भृत्येन स्थातव्यं, तथा त्वद्विषये तिष्ठन्तं तथा । स्थित्यां स्थितमिति । मन्त्रिणा राजनि राजकार्ये च यथा स्थातव्यं तस्यामेव स्थित्यां सदा स्थितं कदाप्यपराधरहितमिति यावत् ॥ ५८ ॥

 एवं बहुविधं दीनं याचमानं पुनःपुनः ।
 रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ५९ ॥
 जानामि परमां भक्तिं मयि ते, भर्तृवत्सल !
 शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ ६० ॥


 नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।
 कैकेयी प्रत्ययं गच्छेत् इति रामो वनं गतः ॥ ६१ ॥

 रामो वनं गत इति प्रत्ययमिति योजना ॥ ६१ ॥

 [२०८९]परितुष्टा हि मा देवी वनवासं गते मयि ।
 राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ ६२ ॥
 एष मे प्रथमः कल्पः यदम्बा मे यवीयसी ।
 भरतारक्षितं [२०९०]स्फीतं पुत्रराज्यमवाप्नुयात् ॥ ६३ ॥

 अतिशङ्का-अन्यथाशङ्का । यवीयसी नातिशङ्केतेति यत् एष मे प्रथमः कल्पः-मुख्यं प्रयोजनमिति यावत् । भरतेन आरक्षितं-अत्यर्थं रक्षितं, पुत्रराज्यं-तज्जसुखमवाप्नुयादितीदं चान्यत् प्रयोजनमिति शेषः ॥ ६३ ॥

 मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।
 सन्दिष्टश्चासि यानर्थान् तांस्तान् ब्रूयास्तथा तथा ॥ ६४ ॥
 इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः ।
 गुहं वचन [२०९१]मक्लीबो रामो हेतुमदब्रवीत् ॥ ६५ ॥
 नेदानीं, गुह ! योग्योऽयं वासो मे सजने वने ।
 [२०९२]अवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः ॥ ६६ ॥


 सजने वने वासो मे न योग्यः इत्युक्त्या, इहैव वने वस्तव्यं इति गुहेन प्रार्थितमिति गम्यतो[२०९३] । आश्रम इति । जानपदजनरहित इति शेषः । तद्गतो विधिरिति । तादृगवस्थानगतः सङ्कल्प इत्यर्थः ॥ ६६ ॥

 सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम् ।
 हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥ ६७ ॥
 जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ।

 सोऽहं-एवसङ्कल्पवानहं वन्याहाराधश्शय्यादिनियमं गृहीत्वा, तपस्विजनभूषणं जटाः, सीताया लक्ष्मणस्य चानुमत्या कृत्वा गमिष्यामि । तदर्थं न्यग्रोधक्षीरमानय । सीताया हितकाम इत्यन्यः[२०९४]। किं हितं जटाधारणेन सीताया इति न विदुः । अनुमतिस्त्वपेक्षिता, यस्याः जटादर्शने सन्यासकल्पतः परमदुःखं स्यात् ॥ ६७ ॥

 तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुदाहरत् ॥ ६८ ॥
 लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोजटाः
 दीर्घबाहुर्नरव्याघ्रः [२०९५]जटिलत्वमधारयत् ॥ ६९ ॥

 लक्ष्मणस्याकरोदिति । तेनापि स्ववदेवावस्थानस्य सङ्कल्पितत्वात् ॥ ६९ ॥

 तौ तदा चीरवसनौ जटामण्डलधारिणौ ।
 अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ७० ॥


 [२०९६]ततो वैखानसं मार्गं [२०९७]आस्थितः सहलक्ष्मणः ।
 व्रतमादिष्टवान् रामः [२०९८]सहायं गुहमब्रवीत् ॥ ७१ ॥

 वैखानसाः-फलमूलाशिनो वानप्रस्था ऋषयः । व्रतं आदिष्टवान्-अङ्गीकृतवान् । सहायं-उक्तरूपगङ्गातरणादिक्कत्यसहायभूतम् ॥ ७१ ॥

 अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ।
 भवेथाः, गुह ! राज्यं ते दुरारक्षतमं मतम् ॥ ७२ ॥

 दुःखेन आरक्षा रक्षणं यस्य तत्तथा अतिशयेन दुरारक्षं दुरारक्षतमम् ॥ ७२ ॥

 ततस्तं [२०९९]समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ।
 जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ७३ ॥
 स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ।
 तितीर्षुः शीघ्रगां गङ्गां इदं [२१००]लक्ष्मणमब्रवीत् ॥ ७४ ॥
 आरोह त्वं, नरव्याघ्र ! स्थितां नावमिमां शनैः ।
 सीताञ्चारोपयान्वक्षं परिगृह्य [२१०१]मनस्विनीम् ॥ ७५ ॥
 स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ।
 आरोप्य मैथिलीं पूर्वं आरुरोहा [२१०२]त्मवांस्ततः ॥ ७६ ॥


 अप्रतिकूलयन्-अनुकूलयन्निति यावत् ॥ ७६ ॥

 अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।
 ततो निषादाधिपतिः गुहो [२१०३]ज्ञातीनचोदयत् ॥ ७७ ॥

 राघवोऽपि महातेजा नावमारुह्य तां ततः ।
 [२१०४]ब्रह्मवत क्षत्रवच्चैव जजाप हितमात्मनः ॥ ७८ ॥

 आरुह्येति पदम्। ब्रह्मवत् क्षत्रवादेति । ब्रह्मक्षत्रदेवताकं नावारोह-मंन्त्र आत्मनो हितमुद्दिश्य जजाप तथा मन्त्रस्तु 'अमूषु वाजिनां' इति वर्गे 'सुत्रामाणम्' इत्यादिः । तत्र हि 'एष ह वा अरिष्टनेमिः पृतनाजित्' इत्यादिब्राह्मणे ब्रह्मक्षत्रदेवताकत्वं स्पष्टं प्रतिपाद्यते । एष इत्यपरोक्षनिर्देशात् ब्रह्ममण्डलस्थो भगवान् ब्रह्मास्पदः। पृतनाजित्पदेन तस्यैव अभिजिदात्मना क्षत्रधर्मप्रधानस्य चोपदेशः ॥ ७८ ॥

 आचम्य च यथाशास्त्रं नदीं तां सह सीतया ।
 [२१०५]प्राणमत् प्रीतिसंहृष्टः लक्ष्मणश्रामितप्रभः ॥ ७९ ॥
 अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् ।
 आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ ८० ॥
 ततस्तै[२१०६]श्चोदिता सा नौः कर्णधारसमाहिता ।
 शुभस्फ्यवेगाभिहता [२१०७]शीघ्रं सलिलमत्यगात् ॥ ८१ ॥

 कर्णधारेण-नाविकेन समाहिता-सज्जीकृता । स्फ्याकारत्वात् स्फ्यं-अरित्रं, तेन वेगादभिहता-प्रणुन्ना ॥ ८१ ॥


 मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।
 वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ८२ ॥

 अथ गङ्गाया महादेवतात्वात् स्त्रीदेवतात्वाच्च सीतायाः प्रार्थनम्-वैदेही प्राञ्जलिरित्यादि ॥ ८२ ॥

 पुत्रो दशरथस्यायं महाराजस्य धीमतः ।
 निदेशं[२१०८]पारयित्वेमं, गङ्गे, त्वदभिरक्षितः ॥ ८३ ॥
 चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ।
 भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ८४ ।।
 ततस्त्वां, देवि ! सुभगे ! क्षेमेण पुनरागता ।
 यक्ष्ये प्रमुदिता, गङ्गे ! सर्वकाम [२१०९]समृद्धिनी ॥ ८५ ॥
 सर्वकामसमृद्धिनीति । व्रीह्यादित्वादिनिः ॥ ८५ ॥
 त्वं हि त्रिपथगा, देवि ! ब्रह्मलोकं [२११०]समीक्षसे ।
 भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे ॥ ८६ ॥

 ब्रह्मलोकं समीक्षस इति । अक्षू व्याप्तिसङ्घातयोः, श्नौ च तङ् छान्दसम्, व्याप्ता भवसि । तत् श्रीमदादिगुरुनाथकमण्डलुनित्यप्रतिष्ठत्वेनेति व्याप्तिः । तथात्वं-"आदावादिपितामहस्य नियम-व्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्"[२१११]इत्यादि पाठकाः पौराणिकाश्च जानन्ति ॥ ८६ ॥

 तत् त्वां, देवि ! नमस्यामि प्रशंसामि च, शोभने !
 प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ ८७ ॥

 प्रशंसामि-स्तौमि । शिवेन-क्षेमेण सह ॥ ८७ ॥


 गवां शतसहस्रं च वस्त्राण्यन्नं च[२११२]पेशलम्
 ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ ८८ ॥
 सुराघटसहस्रेण [२११३] मांसभूतौदनेन च ।
 यक्ष्ये त्वां [२११४]प्रयता, देवि ! पुरीं पुनरुपागता ॥ ८९ ॥

 यक्ष्य इति । महाबलिप्रदानेनेति शेषः ॥ ८९ ॥

 यानि त्वत्तीरवासीनि दैवतानि वसन्ति च ।
 तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ ९० ॥

 तीर्थानि-प्रयागादीनि । आयतनानि-काश्यादीनि ॥ १० ॥

 पुनरेव महाबाहुः मया भ्रात्रा च सङ्गतः ।
 अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ! ॥ ९१ ॥
 तथा संभाषमाणा सा सीता गङ्गामनिन्दिता ।
 दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ ९२ ॥
 तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।
 प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ॥ ९३ ॥
 अथाब्रवीत् महाबाहुः [२११५]सुमित्रानन्दवर्धनम् ।
 भव संरक्षणार्थाय सजने विजनेऽपि वा ॥ ९४ ॥

 भवेति । सावधान इति शेषः । संरक्षणार्थायेति । सीताया इति शेषः ॥ ९४ ॥


 अवश्यं रक्षणं कार्यं [२११६]अदृष्टे विजने वने ।
 [२११७]अग्रतो गच्छ, सौमित्रे ! सीता त्वामनुगच्छतु ॥ १५ ॥

 अदृष्ट इति । इतः प्राक् सीतयेति शेषः । यदेवं अतः- अग्रत इत्यादि । एवं कार्यवशात् स्त्रयनुजयोः अग्रतो गमनमदोषः ॥

 पृष्ठतोऽ[२११८]नुगमिष्यामि त्वाञ्च सीतां च पालयन् ।
 [२११९]न्योन्यस्येह [२१२०]नो रक्षा कर्तव्या, पुरुषर्षभ ! ॥ ९६ ॥

 न हि तावदतिक्रन्ता सुकरा काचन क्रिया ।

 नः-अस्माकं अन्योन्यस्य रक्षा कर्तव्या । छत्रिन्यायेन रक्ष्याया अपि रक्षकान्तः प्रवेशः-न इति । अन्ततः सीतया च स्वपातिव्रत्यमाहिम्ना स्वेतरयो रक्षणं भवति । कथमेवमतियत्न इत्यतः-न हीत्यादि । काचन क्रिया-अपायरक्षणलक्षणा अतिक्रान्तकाला चेत् सुकरा न हि । प्रहृतं प्रहृतमेवेति किं रक्षणीयम् ॥ ९६ ॥

 अद्य दुःखं तु वैदही वनवासस्य वेत्स्यति ॥ ९७ ॥
 प्रणष्टजनसम्बाधं [२१२१]क्षेत्रारामविवर्जितम् ।
 विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ ९८ ॥

 क्षेत्रं-शाल्यादिक्षेत्रम् । विषमं-निम्नोन्नतम् । प्रपतन्त्यस्मिन्निति प्रपातः-गतः ॥ ९८ ॥


 श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः ।
 अनन्तरं च सीतायाः राघवो रघुनन्दनः ॥ ९९ ॥

 गतं तु गङ्गाऽपरपारमाशु
  रामं सुमन्त्रः [२१२२][२१२३]प्रततं निरीक्ष्य ।
 अध्वप्रकर्षात् विनिवृत्तदृष्टिः
  मुमोच बाष्पं व्यथितस्तपस्वी ॥ १०० ॥

 अध्वनः प्रकर्षः-आधिक्यं-अतिदूरमिति यावत् । विनिवृत्तदृष्टिः-विनिवृत्तचक्षुर्व्यापारः ॥ १०० ॥

 स लोकपालप्रतिम[२१२४]प्रभाववान्
  तीर्त्वा महात्मा वरदो महानदीम् ।
 ततः समृद्धान् [२१२५]शुभसस्यमालिनः
  क्रमेण [२१२६]वत्सान् मुदितानुपागमत् ॥ १०१ ॥

 वत्सान्-वत्सदेशान् । अन्तर्वेदिदेशो वत्सदेशः ॥ १०१ ॥

 [२१२७]तौ तत्र हत्वा चतुरो महामृगान्
  वराहमृश्यं पृषतं महारुरुम् ।
 आदाय मेध्यं त्वरितं बुभुक्षितौ
  वासाय काले ययतुर्वनस्पतिम् ॥ १०२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विपञ्चाशः सर्गः



 चतुर्णां परिगणनं-वराहमित्यादि । ऋश्यः-कृष्णसारः xxxxxx । पृषतः–बिन्दुयुक्तः xxxxxx । रुरुः-xxxxxx ।बुभुक्षितौ तेषां मेध्यं मांसं त्वरितमादायेति । बुभुक्षावशात् केवलमग्नितापमात्रं कृत्वा स्वीकृत्येत्यर्थः । उक्ताहारस्य वन्याहारान्तर्गतत्वात् ग्रहः । अत्र द्विवचनात् रामलक्ष्मणौ गृहीतौ । इदमुपलक्षणं सीताया अप्याहार-परिग्रहे । 'देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्' इति शास्त्रात् देवतादिपूजाशेषतया हत्वा निवेद्याभ्यवहृतवन्ताविति अदोषः । न ह्यनयोर्ब्राह्मणवत् मृगहननेऽतिदोषः ; मृगयाधर्मकत्वादेव । काले-सायंकाल इत्यर्थः । अनय (१००) मानः सर्गः (१) ॥ १०२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विपञ्चाशः सर्गः


त्रिपञ्चाशः सर्गः

[रामसन्तापः]

 स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् ।
 रामो रमयतां श्रेष्ठः इति होवाच लक्ष्मणम् ॥ १ ॥

 अथ सायमावासवृक्षस्थले ततः प्राक् जनसमक्षं धैर्यघृतशोकं तु विजने बहिः स्फोरयति रामश्चापि । स तमित्यादि । रमयतां-प्रजारमणं कुर्वताम् ॥ १ ॥

 अद्येयं प्रथमा रात्रिः याताऽऽजनपदाद्वहिः ।
 या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २ ॥

 [२१२८]याता, आ, जनपदादिति पदम् । अस्मज्जनपदाद्बहिर्देशे अद्य येयं रात्रिरायाता केवलवनवासरात्रिषु प्रथमा, या चेयं सुमन्त्रेण च रहिता, तामिमां प्राप्य नोत्कण्ठितुं-शोकस्मरणं कर्तुं नार्हसि ॥ २ ॥

 जागर्तव्य[२१२९]मतन्द्रिभ्यां अद्यप्रभृतिषु रात्रिषु ।
 योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः ॥ ३ ॥

 न विद्यते तन्द्री ययोस्तौ अतन्द्री ताभ्याम् । आवयोवर्तत इति । अस्मदायत्तमित्यर्थः ॥ ३ ॥

 रात्रिं कथञ्चिदेवेमां, सौमित्रे ! वर्तयामहे ।
 उपावर्तामहे भूमौ आस्तीर्य स्वयमार्जितैः ॥ ४ ॥

 कथञ्चिदेवेमामिति । उटजादिनिर्माणाभावात् केवल[२१३०]वनस्थले शयितव्यत्वादित्याशयः । स्वयमार्जितैरिति । णपर्णादिभिरिति शेषः ॥

 स तु संविश्य मेदिन्यां महार्हशयनोचितः ।
 इमां सौमित्रये रामः व्याजहार कथां शुभाम् ॥ ५ ॥

 कथामिति । वार्तामिति यावत् ॥ ५ ॥

 ध्रुवमद्य महाराजः दुःखं स्वपिति, लक्ष्मण !
 कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ ६ ॥


 [२१३१]सा हि देवी महाराजं कैकेयी राज्यकारणात् ।
 अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् ॥ ७ ॥

 राज्यकारणादिति । महाराज्यपदाभिषेककारणादित्यर्थः ॥ ७ ॥

 अनाथश्चैव वृद्धश्च मया चैव विनाकृतः ।
 किं करिष्यति कामात्मा कैकेयीवशमागतः ॥ ८ ॥
 इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् ।
 काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ ९ ॥
 को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत् ।
 छन्दानुवर्तिनं पुत्रं तातो मामिव, लक्ष्मण ! ॥ १० ॥

 काम एव गरीयानित्ययमर्थः प्रसाध्यते-को ह्यविद्वानपीत्यादि । अत्यज्ञोऽपि कः पुमान् पिता, मम तात इव छन्दानुवर्तिनं पुत्रं प्रमदायाः कृते-प्रमदामेव निमित्तं प्राप्य त्यजेत् । इदमत्यन्तानुचितम् । सर्वज्ञोऽपि सार्वभौमोऽपि वृद्धोऽपि कामात् कृतवानिति यत् अतो धर्मार्थाभ्यां प्रबलः काम इति मन्य इत्यर्थः । कथमेवं वादः सत्यपाशबन्धात् मद्वनवासानुमतिः प्राणाधिकप्रेम्णोऽपि इति जानतोऽपि रामस्य ? उच्यते–'अयोध्यामित एव त्वं काले प्रविश लक्ष्मण' इति वदिष्यन् तन्मतमवलम्ब्य तत्प्रीतये एवं वदति[२१३२] । वास्तवस्त्वाशयोऽग्रे वक्ष्यते-- एको ह्यहमित्यादिना ॥ १० ॥


 सुखी बत सभार्यश्च भरतः केकयीसुतः ।
 मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ ११ ॥
 स हि सर्वस्य राज्यस्य [२१३३][२१३४]सुखमेकं भविष्यति ।
 ताते च वयसाऽतीते मयि चारण्यमाश्रिते ॥ १२ ॥

 एकं मुख्यं सुखम्-अनुभवितेति शेषः ॥ १२ ॥

 [२१३५]अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।
 एवमापद्यते [२१३६]क्षिप्रं राजा दशरथो यथा ॥ १३ ॥

 यथा दशरथो राजा-तथा क्षिप्रं अराजत्वमापद्यते-प्राप्नोति ॥ १३ ॥

 मन्ये दशरथान्ताय मम प्रव्राजनाय च ।
 कैकेयी, सौम्य ![२१३७]संप्राप्ता राज्याय भरतस्य च ॥ १४ ॥
 अपीदानीं न कैकेयी सौभाग्यमदमोहिता ।
 कौसल्यां च सुमित्रां च संप्रवाधेत मत्कृते ॥ १५ ॥

 मत्कृत इति । मद्दुःखसम्पादननिमित्तमित्यर्थः ॥ १५ ॥

 [२१३८]माताऽस्मत्कारणाद्देवी सुमित्रा दुःख[२१३९]मावसेत् ।
 अयोध्यामित एव त्वं [२१४०]काले प्रविश, लक्ष्मण ! ॥ १६ ॥

 माता-त्वन्माता । काले-प्रातःकाल इत्यर्थः ॥ १६ ॥


 अहमेको गमिष्यामि सीतया सह दण्डकान् ।
 अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ १७ ॥

 नाथ इति । रक्षक इति यावत् ॥ १७ ॥

 क्षुद्र[२१४१]कर्मा हि कैकेयी [२१४२]द्वेष्यमन्याय्यमाचरेत् ।
 [२१४३][२१४४] परिदद्याद्धि [२१४५]धर्मज्ञ ! गरं ते मम मातरम् ॥ १८ ॥

 क्षुद्रकर्मेति । 'डाबुभाभ्यां...' इति डाप् । किमन्याय्यमाचरेदित्यतः परिदद्यादित्यादि । गरं-विषम् । ते-तव मातरं मम मातरं चोद्दिश्येति शेषः ॥ १८ ॥

 नूनं जात्यन्तरे[२१४६] कस्मिन् स्त्रियः पुत्रैर्वियोजिताः ।
 जनन्या मम, सौमित्रे ! [२१४७]तदप्येतदुपस्थितम् ॥ १९ ॥

 कस्मिंश्चित् जात्यन्तरे-जन्मान्तरे स्त्रियः-मातरः पुत्रैः तत्तत्पुत्रै-र्वियोजिता नूनम् । मम जनन्येत्याकर्षः। तदप्येतदिति । पापमिति यावत् ॥ १९ ॥

 मया हि चिरपुष्टेन दुःखसंवर्धितेन च ।
 विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ २० ॥

 फलकाले-सुखानुभवार्हकाले ॥ २० ॥

 मा स्म सीमन्तिनी काचित् जनयेत् पुत्रमीदृशम् ।
 सौमित्रे ! योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ २१ ॥

 ईदृशमिति । कीदृशमित्यतः-सौमित्रे इत्यादि ॥ २१ ॥


 मन्ये प्रीतिविशिष्टा सा मत्तः, लक्ष्मण ! शारिका ।
 यस्यास्तच्छ्रूयते वाक्यं, शुक ! पादमरेर्दश ॥ २२ ॥

 सर्वथा मज्जननेन अम्बाया न प्रयोजनमित्याह-मन्य इत्यादि । हे लक्ष्मण ! अम्बया शिक्षिता-वर्धिता-कृतवचश्शिक्षा च या शारिका अस्ति, सा तु वृथा वर्धितात् मत्तः प्रीतिविशिष्टा-अम्बायाः प्रीति-जननविषये विशिष्टा-विशेषसाधनभूतेति मन्ये । कथम् ? यत्-यस्मात् तस्याश्शारिकायाः सकाशात् शुकं प्रति तथोच्यमान् ‘अरेः पादं-अस्मन्मातुः कौसल्यायाः शत्रोः पादं दश-देशन कुरु' इति शत्रुनिग्रहविषयकं वाक्यमपि वा श्रूयते । मत्तः शत्रुनिग्रहप्रसङ्गवाचोऽपि न प्राप्नोति । तत्-तस्मादेव ॥ २२ ॥

 शोचन्त्याश्चाल्पभाग्याया न किश्चिदुपकुर्वता ।
 पुत्रेण किमपुत्राया मया कार्यमरिंदम ॥ २३ ॥

 [२१४८]अपुत्राया इति। असन्निहितपुत्राया इत्यर्थः ॥ २३ ॥

 अल्पभाग्या हि मे माता कौसल्या रहिता मया ।
 शेते परमदुःखार्ता पतिता शोकसागरे ॥ २४ ॥
 एको ह्यहमयोध्यां च पृथिवीं चापि, लक्ष्मण !
 तरेयमिषुभिः क्रुद्धः ननु वीर्यमकारणम् ॥ २५ ॥

 नन्वसन्निहितपुत्रकता मातुः किमिति कार्या ? भ्रात्रा मया सहितेनाभिषिच्यात्मानं अयोध्यामवस्थातुं सुशक्यत्वादित्यत्र, तथाऽवस्थित्यङ्गीकारे त्वदपेक्षापि मे नास्ति । तत् धर्मलोपभयादशक्याङ्गीकारमित्याह--एक इत्यादि । इषुभिस्तरेयमिति । निरस्तारातिकां कर्तुं शक्नु इत्यर्थः । वीर्यमकारणमिति । परलोकहिते, अपि तु धर्म, एवेति शेषः ॥ २५ ॥


 अधर्मभयभीतश्च परलोकस्य चानघ !
 तेन, लक्ष्मण ! नाद्याहं आत्मानमभिषेचये ॥ २६ ॥

 यदेवं अतः-अधर्मेति । अधर्मात् भयम्, कैकेय्यै पितृदत्तवरपालन- प्रतिज्ञाक्षतिरूपाधर्मात् भीत इत्यर्थः । परलोकस्य चेति । नाशात् भीत इति शेषः ॥ २६ ॥

 एतदन्यच्च करुणं विलप्य [२१४९] विजने [२१५०]वने ।
 अश्रुपूर्णमुखो [२१५१]रामः निशि तूष्णीमुपाविशत् ॥ २७ ॥

 विजन इत्यनेन स्वविलापे लोकदुःखप्रसङ्गपरिहारनिर्बन्धाभावः आवेदितः ॥ २७ ॥

 [२१५२]विलप्योपरतं रामं गतार्चिपभिवानलम् ।
 समुद्रमिव निर्वेगं आश्वासयत लक्ष्मणः ॥ २८ ॥

 अश्वासयत-आश्वासयादेति यावत् ॥ २८ ॥

 ध्रुवमद्य पुरी, राजन् ! [२१५३]अयोध्याऽऽयुधिनां वर !
 निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ २९ ॥

 आयुधिनां इति पदम् ॥ २९ ॥

 [२१५४]नैतदौपयिकं, राम ! यदिदं परितप्यते ।
 विषादयसि सीतां च मां चैव, पुरुषर्षभ ! ॥ ३० ॥


 औपयिकमिति । उपधाया ह्रस्वश्च' इति ठक् स्वार्थे, आकारस्य ह्रस्वश्च, उपायः-हितसाधनं न भवतीत्यर्थः । तदेव प्रदर्श्यते-विषादयसीत्यादि ॥ ३० ॥

  [२१५५][२१५६]हि सीता त्वया हीना न चाहमपि, राघव !
 मुहूर्तमपि जीवावः जलान्मत्स्याविवोद्धृतौ ॥ ३१ ॥

 अथ गन्तव्यं त्वया इति यदुक्तं, तत्रोत्तरं लक्ष्मण आह- न हि सीतेत्यादि ॥ ३१ ॥

 न हि तातं न शत्रुघ्नं न सुमित्रां, परंतप !
 द्रष्टुमिच्छेयमद्याहं स्वर्गं वाऽपि त्वया विना ॥ ३२ ॥

 अथ नोत्कण्ठितुमर्हसीत्युक्तस्योत्तरं-न हि तातामित्यादि ॥

 ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् ।
 न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥ ३३ ॥

 ततः-लक्ष्मणवचनानन्तरम् । तत्र-लक्ष्मणेन शय्यानिर्मितेः पूर्वावष्टव्धवृक्षमूले सुखासीनौ सीतारामौ, न्यग्रोधे-तन्मूलतले सुकृतां-सम्यग्रचिताम् । वत्सला च वत्सलश्च-वत्सलौ, सर्वत्र 'पुमान् स्त्रिया' इत्येकशेषः ॥ ३३ ॥


 स लक्ष्मणस्योत्तमपुष्कलं वचः
  निशम्य [२१५७]चैवं [२१५८]वनवासमादरात् ।
 समाः समस्ता विदधे परंतपः
  प्रपद्य धर्मं सुचिराय राघवः ॥ ३४ ॥

 अथ स रामो लक्ष्मणस्य वनवासं प्रत्यादरादुच्यमानं-न मे कुत्राप्युत्कण्ठा नापि त्वद्वियोगः क्षणमपि सुसहः'- इत्येवमादरा-दुध्यमानं, अत एव उत्तमं पुष्कलं-'श्रेयान् श्रेष्ठः पुष्कलः स्यात्, अत्यन्तश्रेष्ठं वचो निशम्य, स्वयं सुचिराय धर्मं-वनवासधर्मं प्रपद्य-स्वीकृत्य लक्ष्मणस्य च ताः समस्ताः समाः प्रति अनुमतिं विदधे वनवासाय ॥ ३४ ॥

 ततस्तु तसिन् विजने महावने
  महावलौ राघववंशवर्धनौ ।
 न तौ भयं संभ्रममभ्युपेयतुः
  यथैव सिह्मौ गिरिसानुगोचरौ ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे । त्रिपञ्चाशः सर्गः


 भयं तत्प्रयुक्तं संभ्रमं-इतस्ततोऽन्वीक्षादिकम् । माला (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिपञ्चशः सर्गः


चतुःपञ्चाशः सर्गः

[भरद्वाजदर्शनम्]

 ते तु तस्मिन् महावृक्षे उषित्वा रजनीं शिवाम् ।
 विमलेऽस्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ॥ १ ॥

 अथ गङ्गाया दशाश्वमेधस्थलाददूरे उत्तीर्णगङ्गस्य गङ्गातीरमार्गेण प्रयागं प्राप्तस्य भरद्वाजाश्रमप्राप्तिः । ते त्वित्यादि ॥ १ ॥


 [२१५९]यत्र भागीरथीं गङ्गां यमुनाऽभिप्रवर्तते
 जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ २ ॥

 गङ्गामभि यमुना प्रवर्तत इति योजना तं देशमिति । प्रयागदेशमित्यर्थः ॥ २ ॥

 ते भूमिभागान् विविधान् देशांश्चापि मनोरमान् ।
 अदृष्टपूर्वान् पश्यन्तः तत्र तत्र यशखिनः ॥ ३ ॥

 [२१६०]यथा [२१६१]क्षेमेण [२१६२]गच्छन्तः संपश्यन् विविधान् द्रुमान् भूमिभागाः-भूमिप्रदेशाः । यथा-यथासुखं, जनानुयानशङ्काभावात् उपविश्योत्थाय च शनैः स्वेच्छानुरोधेन क्षमेण-प्रकृत्यादिभ्यः, इति तृतीया, निर्दुःख गच्छन्तस्ते संपश्यन्-समपश्यन्निति यावत् ॥ ३ ॥

 [२१६३]निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ ४ ॥
 प्रयागमभितः पश्य, सौमित्रे ! धूममुन्नतम् ।
 अग्नेर्भगवतः क्रेतुं मन्ये सन्निहितो मुनिः ॥ ५ ॥

 निवृत्तमात्र इति । अर्धमण्डलकालमात्र इत्यर्थः । भगवतः अग्नेः क्रेतुं-धूमं पश्य । यदेवं अतः-अत्र मुनिस्सन्निहित इति मन्ये ॥ ५ ॥

 नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम् ।
 तथा हि श्रूयते शब्दः [२१६४]वारिणो वारिघट्टितः ॥ ६ ॥
 दारूणि परिभिन्नानि वनजैरुपजीविभिः ।
 [२१६५]भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ ७ ॥


 धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।
 गङ्गायमुनयो[२१६६]स्सन्धौ [२१६७]प्रापतुर्निलयं मुनेः ॥ ८ ॥
 रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः ।
 गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥ ९ ॥

 गङ्गायमुनयोस्सन्धाविति । अन्तर्वेदिप्रदेश इत्यर्थः । निलयं-आवासम् । प्राप्तुं-'तुमुन् प्वुरौ क्रियायां क्रियार्थायां' इति तुमुन् ; प्राप्स्यन्, तद्धेतोर्मुनेराश्रममासाद्य-तत्समीपवनप्रदेशमासाद्येत्यर्थः । त्रासयन्निति । धनुष्मत्वादिस्वरूपमात्रेण केवलं त्रासहेतुस्सन् । भरद्वाजं-भरद्वाजाश्रममित्यर्थः ॥ ९ ॥

 ततस्त्वाश्रममासाद्य मुनेदर्शनकाङ्क्षिणौ ।
 सीतयाऽनुगतौ वीरौ [२१६८]दूरादेवावतस्थतुः ॥ १० ॥

 दूरादेवावतस्थतुः-अनुमत्यर्थमिति भावः ॥ १० ॥

  [२१६९]संप्रविश्य महात्मानं ऋषिं शिष्यगणैर्वृतम् ।
 [२१७०]संशितव्रतमेकाग्रं तपसा लब्धचक्षुपम् ॥ ११ ॥

 संप्रविश्येति । कार्यवशनिर्गतशिष्यद्वारा विज्ञाप्यानुज्ञाताविति शेषः । तपसा लब्धचक्षुषमिति । त्रैकालिकसर्वजगद्वृतान्ताभिज्ञामित्यर्थः ॥

 हुताग्रिहोत्रं [२१७१]दृष्ट्वैव [२१७२]महाभागं कृताञ्जलिः ।
 रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥ १२ ॥

 दृष्ट्व-ज्ञात्वैव अवसरं विज्ञायेत्यर्थः ॥ १२ ॥


 न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः
 पुत्रौ दशरथस्यावां, भगवन् ! रामलक्ष्मणौ ॥ १३ ॥
 भार्या ममेयं वैदेही कल्याणी जनकात्मजा
 मां चानुयाता विजनं तपोवनमनिन्दिता ॥ १४ ॥
 पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः ।
 अयमन्वगमद्भ्राता वनमेव दृढव्रतः ॥ १५ ॥
 पित्रा नियुक्ताः, भगवन् ! प्रवेक्ष्यामस्तपोवनम् ।
  [२१७३]धर्ममेव चरिष्यामः तत्र [२१७४]मूलफलाशनाः ॥ १६ ॥

 धर्ममेवेति । वानप्रस्थधर्ममेव, न तु मृगयादिराजधर्मात् वनप्राप्तिरित्यर्थः । तदेव प्रदर्श्यते-तत्रेत्यादि । पितॄनियोगतः प्रवेष्टव्यवन इत्यर्थः ॥ १६ ॥

 तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
 उपानयत धर्मात्मा गामर्ध्यमुदकं ततः ॥ १७ ॥

 गामर्ध्यमिति । गां-मधुपर्कमिति यावत् । तथा हि स्मृतिः 'गोमधुपर्कार्हो । वेदाध्याय्याचार्यऋत्विक्स्नातको राजा वा धर्मयुक्तः' इति ॥ १७ ॥

 नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
 तेभ्यो ददौ तप्ततपाः वासं चैवाभ्यकल्पयत् ॥ १८ ॥

 नानाविधान्-नानाप्रकारानू, अन्नरसान्-अद्यत इत्यन्न अन्नानि ; रसाः पानीयविशेषाः तान्-वन्यमूलफलाश्रयानेव, न तु जानपदान् ॥ १८ ॥


 [२१७५] मृगपक्षिभिरासनिः मुनिभिश्च समन्ततः ।
 राममागतमभ्यर्च्[२१७६]स्वागतेनातिथिं मुनिः ॥ १९ ॥

 आसीन इति । अभ्यर्च्य आसीनोऽभवदिति योजना ॥ १९ ॥

 प्रतिगृह्य च तामर्चां उपविष्टं स राघवम् ।
 भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ २० ॥
 [२१७७]चिरस्य खलु, काकुत्स्थ ! पश्यामि त्वामिहागतम् ।
 [२१७८]श्रुतं तव मया चेदं विवासनमकारणम् ॥ २१ ॥
 अवकाशो विविक्तोऽयं महानद्योस्समागमे ।
 पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ २२ ॥
 एवमुक्तस्तु वचनं भरद्वाजेन राघवः ।
 प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ २३ ॥
 भगवन्नित आसन्नः पौरजानपदो जनः
 सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ॥ २४ ॥
 आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।
 अनेन कारणेनाहमिह वासं न रोचये ॥ २५ ॥

 इत आसन्न इति । एतदाश्रमादासन्नदेशवर्ती प्रेक्ष्य आगमिष्यतीति मन्य इति योजना ॥ २४-२५ ॥


 एकान्ते पश्य, भगवन् ! आश्रमस्थानमुत्तमम् ।
 [२१७९]रमते यत्र वैदेही सुखार्हा जनकात्मजा ॥ २६ ॥

 पश्यति । ज्ञात्वा निर्दिशेत्यर्थः ॥ २६ ॥

 एतत् श्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।
 राघवस्य ततो वाक्यं अर्थग्राहकमब्रवीत् ॥ २७ ॥

 [२१८०]अर्थग्राहकं-राघवोक्तप्रयोजनप्रतिपादकम् ॥ २७ ॥

 दशक्रोश इतः, तात ! गिरिर्यस्मिन्निवत्स्यसि
 महर्षिसेवितः पुण्यः [२१८१]सर्वतः सुखदर्शनः ॥ २८ ॥

 दशक्रोश इति सप्तम्यन्तम् ॥ २८ ॥

 गोलाङ्गूलानुचरितः वानरर्क्षनिषेवितः ।
 चित्रकूट इति ख्यातः गन्धमादनसन्निभः ॥ २९ ॥

 गोलाङ्गूलः-xxxxx ॥ २९ ॥

 यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते ।
 कल्याणानि समाधत्ते न [२१८२]पापे कुरुते मनः ॥ ३० ॥

 यावत्-यदा अवेक्षते तदेति योजना । समाधत्त इति । मनसेति शेषः ॥ ३० ॥

 ऋषयस्तत्र बहवः विहृत्य शरदां शतम् ।
 तपसा दिवमारूढाः कपालशिरसा सह ॥ ३१ ॥


  [२१८३]दुर्भिक्षमृतनृकपालवत् पलितं-शुक्लं शिरस्तथा मध्यमपदलोपी समासः, तादृशेन शिरसा सह-एवमतिवृद्धदशायामपि तपश्चरन्तः तादृशेन पूर्णेन यावज्जीवानुष्ठितेन तपसा स्वसहजब्राह्मतन्त्रज्ञानयोग-वैभवेन दिवं-परनाकं-ब्रह्मकुलसहजलोकं-ब्रह्मलोकमारूढाः-प्राप्ता इत्यर्थः । [२१८४]अन्यस्तु-कपालशिरसा-देहेन सह स्वर्गं गताः इत्याह-तदानीं तथैव वक्तव्यत्वतः अयं शिरोवेष्टनप्राणायामः असङ्गतः । एतत्कायकुणपः स्वर्गस्याप्यनर्ह इति सर्वथैव त्याग आवश्यकः । दाशरथिधर्मपुत्रादयः धर्मवैभवप्रदर्शनाय कियद्दूरं प्राप्तव्यमण्डलप्राप्तेः प्रागेव तत्कुणपं निरस्य दिव्यपुण्यदेहं विद्यादेहं वा प्राप्य स्वं स्वं धाम गच्छन्ति । अतो नेदं ब्रह्मकुलस्य सशरीर निर्याणं पुमर्थः । अतो न किञ्चित्प्राशस्त्यम् ॥ ३१ ॥

 प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ।
 [२१८५]इह वा वनवासाय वस, राम ! मया सह ॥ ३२ ॥

 वनवासाय-तद्वासनियमसिद्धये मया सह इह वा वस अद्येति शेषः ॥ ३२ ॥


 स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।
 सभार्यं सह च भ्रात्रा [२१८६]प्रतिजग्राह [२१८७]धर्मवित् ॥ ३३ ॥

 स राममिति । तद्रजन्यां तत्र वसन्तमिति शेषः ॥ ३३ ॥

 तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ।
 प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ ३४ ॥

 प्रयागे रजनी प्रपन्ना-प्राप्ता ॥ ३४ ॥

 सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः ।
 भरद्वाजाश्रमे [२१८८]रम्ये तां रात्रिभवसत् सुखम् ॥ ३५ ॥
 प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।
 उवाच नरशार्दूलः मुनिं ज्वलितचेतसम् ॥ ३६ ॥
 शर्वरीं भगवन्नद्य, सत्यशील ! तवाश्रमे ।
 उषिताः [२१८९]स्मेह वसतिं अनुजानातु नो भवान् ॥ ३७ ॥

इह-तवाश्रमे शर्वरीमुषिताः स्म । अतः परं वसतिं-त्वदुद्दिष्ट-चित्रकूटवासगमनं प्रत्यनुजानातु । भरद्वाजो रामेण तथा प्रार्थित इति शेषः ॥ ३७ ॥

 रात्र्यं तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् ।
 मधुमूलफलोपेतं चित्रकूटं [२१९०]व्रजेति ह ॥ ३८ ॥

 व्रजेति इति । अनुजज्ञ इति शेषः ॥ ३८ ॥

 वासमौपयिकं मन्ये तव, राम ! महाबल !

 [२१९१]प्राक् व्युत्पत्तिमात्रं प्रदर्शितम्, उचितमित्यर्थः ॥


 [२१९२]नानानगगणोपेतः किन्नरोरगसेवितः ।
 मयूरनादाभिरुतः [२१९३]गजराजनिषेवितः ॥ ३९ ॥
 गम्यतां भवता शैलः चित्रकूटः स विश्रुतः ।
 पुण्यश्च रमणीयश्च बहुमूलफलायुतः ॥ ४० ॥
 तत्र कुञ्जरयूथानि मृगयूथानि चाभितः ।
 विचरन्ति वनान्तेऽस्मिन् तानि द्रक्ष्यसि, राघव ! ॥ ४१ ॥
 सरित्प्रस्रवणप्रस्थान् [२१९४]दरीकन्दरनिर्दशन् ।
 चरतः सीतया सार्धं [२१९५]नन्दिष्यति मनस्तव ॥ ४२ ॥

 सरित्प्रस्रवणेनोपेताः प्रस्थास्तथा । दर्यः, कन्दरादिः, निर्दशः-निर्झराश्च तथा । दरी-गिरिगुहा । कन्दराः-वृक्षमूलकोटराः ॥ ४२ ॥

 प्रहृष्टकोयष्टिभकोकिलखनैः
  विनादितं तं वसुधाधरं शिवम् ।
 मृगैश्च मत्तैः बहुभिश्च कुञ्जरैः
  सुरम्यमासाद्य समावसाश्रमम् ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः


 कोयष्टिभः-टिट्टिमः-xxxxx(?) । आलाव (४३ १/२) मानः सर्गः ॥ ४३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुःपञ्चाशः सर्गः



पञ्चपञ्चाशः सर्गः

[यमुनातरणम् ]

 उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ ।
 महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ १ ॥

 अथ भरद्वाजस्यानुज्ञया प्रस्थितस्य रामस्य मार्गोपदेशपूर्वं चित्रकूटप्रस्थानम् । उषित्वेत्यादि ॥ १ ॥

 तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह ।
 प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानि [२१९६]वान्वगात् ॥ २ ॥
 ततः प्रचक्रमे वक्तुं वचनं स महामुनिः ।
 भरद्वाजो महातेजाः रामं सत्यपराक्रमम् ॥ ३ ॥

 वचनं वक्तुं प्रचक्रम इति । मर्गोपदेशार्थमिति शेषः ॥ ३ ॥

 गङ्गायमुनयोस्सन्धिं [२१९७]आसाद्य, [२१९८]मनुजर्षभौ !
 कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ ४ ॥

 गङ्गायमुनयोः सन्धिं-सङ्गमतीर्थं प्राप्य तदनन्तरं [२१९९]पश्चान्मुखाश्रितां [२२००]सङ्गमात्पश्चात्प्रदेश एवाश्रितस्वप्रयुक्तव्यवहारां गङ्गां ; सङ्गमानन्तरं गङ्गाया एव व्यवहारः, न तु कालिन्द्याः । कालिन्दी-तदुत्तरतीरं आसाद्य-प्राप्य अनुगच्छेताम् ॥ ४ ॥

 अथासाद्य तु कालिन्दीं [२२०१]शीघ्रस्रोतसमापगाम् ।
 तस्यास्तीर्थं [२२०२]प्रचरितं [२२०३]पुराणं प्रेक्ष्य, राघवौ ! ॥ ५ ॥


 तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।
 [२२०४]ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ ६ ॥
 विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् ।
 तस्मै सीताऽञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ ७ ॥

 आशिषः प्रयुञ्जीतेति विधिः । सीताया महावृक्षनत्यादिविधिः अक्षयमहावटवृक्षकल्परामाश्रयसिद्धिप्रयोजनः ॥ ७ ॥

 समासाद्य तु तं वृक्षं वसेद्वाऽतिक्रमेत वा ।
 अतिक्रमेत वेति । सीतेति शेषः ॥ ७१/२ ॥
 क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ।
 पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः ॥ ८ ॥

 ततः-कालिन्दीदक्षिणतीरवर्तिन्यग्रोधादित्यर्थः । यामुनैः-यमुनातीराश्रितैः ॥ ८ ॥

 स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ।
 रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः ॥ ९ ॥
 मार्दवयुक्त इति । वालुकोपेतमार्ग इत्यर्थः ॥ ९ ॥
 इति पन्थान[२२०५]मावेद्य महर्षिः सन्नयवर्तत ।
 अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ॥ १० ॥

 तथेत्युक्त्वेति । त्वदुपदिष्टमार्गेणैव गमिष्याम इत्युक्त्वेत्यर्थः ॥

 उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ।
 कृतपुण्याः स्म, सौमित्रे ! मुनिर्यन्नोऽनुकम्पते ॥ ११ ॥
 इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ।
 सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ॥ १२ ॥


 अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ।
 चिन्तामापेदिरे [२२०६]सर्वे नदीजलतितीर्षवः ॥ १३ ॥
 तौ [२२०७]काष्ठ[२२०८]सङ्घाटमथो चक्रतुस्सुमहाप्लवम् ।
 शुष्कैः वंशैस्समास्तीर्णं उशीरैश्च समावृतम् ॥ १४ ॥

 सङ्घाटः-सङ्घः । प्लवः-उडुपः-xxxx ॥ १४ ॥

 ततो वेतसशाखाश्च जम्बुशाखाश्च वीर्यवान् ।
 चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ॥ १५ ॥

 उशीरं-xxxx। वेतसं-xxxxx ॥ १५ ॥

 तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ।
 ईषत्संलजमानां तां अध्यारोपयत प्लवम् ॥ १६ ॥
 पार्श्वे च तत्र वैदेह्याः वसने भूषणानि च ।
 प्लवे [२२०९]कठिनकाजं च रामश्चक्रे [२२१०]सहायुधैः ॥ १७ ॥

 कठिनश्चासौ काजश्च कठिनकाजः-xxxxxxx ।इदमुपलक्षणं वासःपरशुदातृकाजानां 'द्वंद्वानामेकैकमादाय' इत्युपदिष्टवानप्रस्थपरिकरान्तराणाम् ॥ १७ ॥

 आरोप्य प्रथमं सीतां संघाटं परिगृह्य तौ ।
 ततः प्रतेरतुर्यतौ [२२११]वीरौ दशरथात्मजौ ॥ १८ ॥

 संघाटं-प्लवम् ॥ १८ ॥

 कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ।
 स्वस्ति, देवि ! तरामि त्वां [२२१२]पारयेन्मे [२२१३]पतिव्रतम् ॥ १९ ॥

 पतिविषयक व्रतं-पतिव्रतम् । पारयेत्-समापयेत्-प्रार्थने लिङ् ॥


 यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च ।
 स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥ २० ॥
 कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ।
 तीरमेवाभिसंप्राप्ता दक्षिणं [२२१४]वरवर्णिनी ॥ २१ ॥
 ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ।
 तीरजैर्बहुभिर्वृक्षैः संतेरुर्यपुनां नदीम् ॥ २२ ॥

 अंशुमतीमिति पदं, सूर्यपुत्रीमिति यावत् । वृक्षैरिति । उपलक्षितामिति शेषः ॥ २२ ॥

 ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ।
 श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ॥ २३ ॥
 न्यग्रोधं तमुपागम्य वैदेही [२२१५]वाक्यमब्रवीत् ।
 नमस्तेऽस्तु, महावृक्ष ! पारयेन्मे पतिव्रतम् ॥ २४ ॥
 कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ।
 इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥ २५ ॥

 पर्यगच्छत्-परितोऽगच्छत्-प्रदक्षिणं चकारेति यावत् ॥ २५ ॥

 अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ।
 दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ २६ ॥

 आयाचन्तीं-प्रार्थयमानाम् ॥ २६ ॥

 सीतामादाय गच्छ त्वं अग्रतः, [२२१६]भरतानुज !
 पृष्ठतोऽहं गमिष्यामि सायुधः, द्विपदां वर ! ॥ २७ ॥
 यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ।
 [२२१७]तत्तत् प्रयच्छ वैदेह्याः यत्रास्या रमते मनः २८ ।।


 एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।
 अदृष्ट[२२१८]पूर्वां पश्यन्ती रामं पप्रच्छ सावला ॥ २९ ॥

 पप्रच्छेति । कोऽसौ, किन्नाम-इत्येवमात्मनोति शेषः ॥ २९ ॥

 रमणीयान् बहुविधान् पादपान् कुसुमो [२२१९]त्कटान् ।
 सीतावचन[२२२०] संरब्धोऽप्यानयामास लक्ष्मणः ॥ ३० ॥

 सीतावचनेन संरब्धः-भावे निष्ठा-संरंभः त्वरा यस्य स तथा । लक्ष्मणोऽप्यानयामासेति योजना ॥ ३० ॥

 विचित्रवालुकजलां हंससारसनादिताम् ।
 रेमे जनकराजस्य सुता प्रेक्ष्य तदा नदीम् ॥ ३१ ॥

 नदीं-यमुनाम् ॥ ३१ ॥

 क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ
 बहून् मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ॥ ३२ ॥

 चेरतुः-चरगतिमक्षणयोः-अभ्यवहृतवन्ताविति यावत् ॥ ३२ ॥

 विहृत्य ते बर्हिणपूगनादिते
  शुभे वने वानरवारणायुते ।
 समं नदीवप्रमुपेत्य सम्मतं
  निवासमाजग्मुरदीनदर्शनाः ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः


 समं-अनिम्नोन्नतम् । वप्रं-तीरम् । गर्ग (३३) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः



षट्पञ्चाशः सर्गः

[चित्रकूटनिवासः]

 अथ रात्र्यां व्यतीतायां अवसुप्तमनन्तरम् ।
 प्रबोधयामास शनैः लक्ष्मणं रघुनन्दनः ॥ १ ॥

 अथ रामस्य चित्रकूटं प्राप्य तत्र स्थिरवासोचितव्यापारपूर्वं वासः । अथ रात्र्यामित्यादि ॥ १ ॥

 सौमित्रे ! शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।
 संप्रतिष्ठामहे कालः प्रस्थानस्य, परंतप ! ॥ २ ॥

 प्रसुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
 जहाौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ ३ ॥

 तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।
 पन्थान[२२२१]मृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥

 नद्याः–कालिन्द्याः ॥ ४ ॥

 ततः संप्रस्थितः काले रामः सौमित्रिणा सह ।
 सीतां कमलपत्राक्ष इदं वचनमब्रवीत् ॥ ५ ॥

 आदीप्तानिव वैदेहि ! सर्वतः पुष्पितान् [२२२२]नगान् ।
 स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ ६॥

 स्वैः पुष्पैर्मालिन इव-मालावन्त इव स्थितान् ॥ ६ ॥


 पश्य भल्लातकान् [२२२३]फुल्लान् नरैरनुपसेवितान् ।
 फल[२२२४]पुष्पैरवनतान् [२२२५]नूनं शक्ष्यामि जीवितुम् ॥ ७ ॥

 भल्लातकान्-अरुष्मान् xxxxxx। नूनं जीवितुं शक्ष्यामि । एवमादिजीवनसाधनस्य विद्यमानत्वात् ॥ ७ ॥

 पश्य द्रोणप्रमाणानि लम्बमानानि, लक्ष्मण !
 मधूनि मधुकारीभिः संभृतानि नगेनगे ॥ ८ ॥

 आढकचतुष्टयं द्रोणं-तावत्प्रमाणमधुपूर्णानीति यावत् । मधूनि-मधुपटलानि । मधुकारीभिरिति । मधु करोतीति-मधुकारी, कर्मण्याणि ङीप्-मधुमक्षिकाभिरिति यावत् । नगेनगे-वृक्षेवृक्षे ॥ ८ ॥

 एष क्रोशति नत्यूहः तं शिखी प्रतिकूजति ।
 रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ ९ ॥

 नत्यूहः-दात्यूहः-पुष्पैः कृतः संस्तरः-आच्छा-दनं-तेन सङ्कटे-निबिडे, 'ऋदोरप्' इत्यप् ॥ ९ ॥

 मातङ्ग्यूथानुसृतं पक्षिसङ्घानुनादितम् ।
 चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ १० ॥

 समभूमितले रम्ये मै द्रुमैर्बहुभिरावृते ।
 पुण्ये [२२२६]रंस्यामहे, तात ! चित्रकूटस्य कानने ॥ ११ ॥

 ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।
 रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ १२ ॥

 तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।
 बहुमूलफलं रम्यं [२२२७]संपन्नं सरसोदकम् ॥ १३ ॥

 सरसोदकं-स्वादूदकसहितमिति यावत् ॥ १३ ॥


 मनोज्ञोऽयं गिरिः, सौम्य ! नानाद्रुम[२२२८] लतायुतः ।
 बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ १४ ॥

 सुखेन आजीवितुं शक्यः स्वाजीवः ॥ १४ ॥

 मुनयश्च महात्मानः वसन्त्यस्मिन् शिलोच्चये ।
 अयं वासो भवेत्तावत् अत्र, सौम्य ! रमेमहि ॥ १५ ॥

 अयं वासो भवेत्-वासयोग्यो भवेत् । तावत्-तस्मात् ॥ १५ ॥

 इति सीता च रामश्च लक्ष्मणश्च[२२२९] कृताञ्जलिः ।
 अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ १६ ॥

 इति-निश्चित्येति शेषः । अभिवादयन्-अभ्यवादयन्निति यावत् । [२२३०] वाल्मीकिः प्राप्तराज्ये रामे यदा काव्यं करिष्यति तदा तमसातीराश्रमे वासस्तस्य, ततः प्राक् चित्रकूटाश्रमे ॥ १६ ॥

 तान् महर्षिः प्रमुदितः पूजयामास धर्मवित् ।
 [२२३१]आस्यतामिति चोवाच स्वागतं [२२३२]तं निवेद्य च ॥ १७ ॥

 स्वागतं तमिति । तं-राम प्रति स्वागतं-तत्प्रश्नं निवेद्य विज्ञाप्य ॥ १७ ॥


 ततोऽब्रवीन्महाबाहुः लक्ष्मणं लक्ष्मणाग्रजः ।
 संनिवेद्य यथान्याय्यं आत्मानमृषये प्रभुः ॥ १८ ॥

 आत्मानं निवेद्येति । अमुकस्य पुत्रः, अमुकहेतोरिहागतवानस्मि-इत्यादिकमुक्त्वेत्यर्थः ॥ १८ ॥

 लक्ष्मणानय दारूणि दृढानि च वराणि च ।
 कुरुष्वावसथं, सौम्य ! [२२३३]वासे मेऽभिरतं मनः ॥ १९ ॥

 तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।
 आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ २० ॥

 तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् ।
 शुश्रूषमाणमेकाग्रं इदं वचनमब्रवीत् ॥ २१ ॥

 निष्ठितां-अन्तर्बहिः प्राकारभित्त्या सुप्रतिष्ठिताम् । [२२३४]बद्धकटां-छान्दसो वर्णलोपः-बद्धकबाटां, पृषोदरादित्वात्, कटे वृत्तौ वर्षे-कटति वर्षवारणं करोतीति कटः-छदिः-बद्धच्छदिषमिति यावत् ॥ २१ ॥

 ऐणेयं-मांसमाहृत्य शालां यक्ष्यामहे वयम् ।
 कर्तव्यं वास्तुशमनं, सौमित्रे ! चिरजीविभिः ॥ २२ ॥

 एणेयं-एणाड्ढञ् विकारे । शालां यक्ष्यामह इति । पर्णशालाधिष्ठातृदेवता इत्यर्थः । तास्तु 'शय्यादेशे कामलिङ्गेन, देहल्यामन्तरिक्षलिङ्गेन' इत्यादि बलिहरणखण्डप्रतिपाद्यमानाः । ततः पूर्वं वास्तुशमनम् । वास्तुशान्तिर्बोधायनोक्ता ॥ २२ ॥

 मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह, शुभेक्षण !
 कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनु[२२३५]स्मर ॥ २३ ॥


 यज्ञार्थपशुवधे दोषशङ्कां निवर्तयति-कर्तव्य इत्यादि । शास्त्रचोदितो विधिः कर्तव्य एव, तमेवं धर्मं त्वं धर्ममेवानुस्मर ; नात्र हिंसादि-दोषप्रसङ्ग इत्यर्थः । तद्यज्ञार्थं द्विप्रजानां गतिस्तद्वदिति यज्ञविनियुक्त-पशूनामुत्तमलोकभागित्वेन वधस्य तेषामनुग्रहत्वात् ॥ २३ ॥

 भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा ।
 चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ २४ ॥
 ऐणेयं श्रपयस्वैतत् शालां यक्ष्यामहे वयम् ।
 त्वर [२२३६]सौम्य ! मुहूर्तोऽयं ध्रुवश्च दिवसोऽ[२२३७]प्ययम् ॥ २५ ॥
 स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।
 अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ २६ ॥
 तं तु पक्कं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।
 लक्ष्मणः पुरुषव्याघ्रं अथ राघवमब्रवीत् ॥ २७ ॥
 अयं सर्वः समाप्ताङ्गः शृतः कृष्णमृगो [२२३८]मया ।
 [२२३९]देवताः,देवसङ्काश ! यजस्व कुशलो ह्यसि ॥ २८ ॥

 अयं [२२४०] सर्व इति। सर्वकर्मार्ह इति यावत् । समाप्ताङ्ग इति । शिरःपादादिसर्वाङ्गोपेत इति यावत् । श्रुतः-पक्कः ॥ २८ ॥

 रामः स्नात्वा तु नियतः गुणवान् [२२४१]जप्यकोविदः ।
 सङ्ग्रहेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ॥ २९ ॥

 गुणवान्-कर्मापेक्षितप्रायत्यादिगुणवान् । [२२४२]सत्रावसानिकान्-यागसमाप्तिप्रयोजनान् मन्त्रान् गृहीत्वा सङ्ग्रहेण वास्तुशान्त्यादिकमकरोत् । राजपीठावस्थाने पुरोहितेन कर्मप्रवृत्तिः ; वनस्थराजर्षीणांस्वेनैव ॥ २९ ॥


 इष्ट्वा देवगणान् सर्वान् [२२४३]विवेशावसथं शुचिः ।
 वभूव च मनोह्लादः रामस्यामिततेजसः ॥ ३० ॥
 वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।
 वास्तुमंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ ३१ ॥
 जपं च न्यायतः कृत्वा [२२४४]स्नात्वा नद्यां यथाविधि ।
 पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ ३२ ॥

 पापसंशमनं-'पञ्चसूना गृहस्थस्य' इति प्रसिद्धपापसंशमनसाधनश्रुतं बलिं–वैश्वदेवपूर्वकं बलिहरणम् । कृत्वेत्यादिः उपसंहाररूपेण वादः ॥ ३२ ॥

 वेदिस्थल [२२४५]विधानानि [२२४६]चैत्यान्यायतनानि च ।
 आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ ३३ ॥

 वेदिस्थलानां-बलिहरणवेदिस्थलानां अष्टदिग्वर्तिनां विधानानि तथा । चैत्यं-गणपत्यायतनम् । आयतनं-विष्ण्वादेः । अनुरूपाणीति । [२२४७] सूक्ष्ममार्गेणति यावत् ॥ ३३ ॥

 वन्यैर्माल्यैः फलैर्मूलैः पक्कैर्मांसैर्यथाविधि ।
 अद्भिर्जपैश्च वेदोक्तैः दर्भैश्च ससमि[२२४८]त्कुशैः ॥ ३४ ॥
 तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
 तदा विविशतुः शालां सुशुभां [२२४९]शुभलक्षणौ ॥ ३५ ॥
 तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां विवाताम् ।
 वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम् ॥

 वृक्षपर्णैः कृतं छदनं-आच्छादनं यस्याः सा तथा ॥ ३६ ॥


 अनेकनाना[२२५०]मृगपक्षिसङ्कुले
  विचित्रपत्रस्तबकद्रुमैर्युते ।
 वनोत्तमे व्यालमृगानुनादिते
  तदा विजह्रुः सुसुखं [२२५१] जितेन्द्रियाः ॥ ३७ ॥

 सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।
 ननन्द हृष्टां मृगपक्षिजुष्टां जहाौ च दुःखं पुरविप्रवासात् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्पञ्चाशः सर्गः


 माला (३५) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे षट्पञ्चाशः सर्गः



श्रीमद्वाल्मीकि

रामायणम्


(अयोध्याकाण्डः-१)



सम्पादकः

विद्वान्

के. एस्. वरदाचार्यः



विश्वविद्यानिलयः

मैसूरु

१९६४

  1. अयो. ५४ सर्गे (२८-३१ श्लोकाः) ५६ सर्गे (६-१५ श्लोकाः) च चित्रकूट-वर्णनं द्रष्टव्यम् ।
  2. अस्मिन् संपुटे एतावानेव भागः मुद्रितो वर्तते ।
  3. श्रीकण्ठचरितं-25-60.
  4. अथ राज्ञो वभूवैवं वृद्धस्य चिरजीविनः। प्रीतिरेषा व.थं रा राजा स्यान्मयि जीवति ? ॥ अयो. स. 1 श्लो. 36.
  5. 'न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे ।
    अपि पुत्रे तु पश्येयं इति रामास्थितं मया ॥' अयो. स. 20 श्लो. 38.
    'दश सप्त च वर्षाणि तव ज तस्य, राघव !
    आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ अयो. स. 20 श्लो. 45.

  6. अयो. स. 20 श्लो. 36, 37.
  7. 'यदा यदा च कौसल्या दासीवच्च सखीव च ।
    भार्यावत् भगिनीवच्च मातृवच्चोपतिष्ठति ॥ अयो. स. 12 श्लो. 68.

  8. 'रामं वा भरते वाऽहं विशेषं नोपलक्षये । अयो, स. 7 लो. 35.
  9. यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
    कं सा परिहरेदन्यं कैकेयी कुलपासिनी ॥ अयो. स. 48 श्लो. 22.

  10. अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसिनि !
    वञ्चयित्वा च राजानं न प्रमाणेऽवतिष्ठसे ॥'  अयो. स. 37 लो. 22.

  11. अयो. स. 44 श्लो. 15, 16.
  12. बाल. स. 1 श्लो. 7.
  13. अयो. 1-2 प्रभृतिसर्गेषु द्रष्टव्यम् ।
  14. 'न सर्वे भ्रातरः-'इत्यादिवाक्यात् पूर्वतनमिदं वाक्यमवधेयं-

    'अस्ति सूक्ष्मतरं किञ्चित् यदत्र प्रतिभाति मे ।
    प्रत्यक्षं लौकिकं वाऽपि विद्यते सर्वराजसु ॥ (युद्ध, सं. 18 लो. 9)
    अमित्रास्तकुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ।
    व्यसनेषु प्रहारः तस्मादयमिहागतः ॥ (युद्ध. स. 18 श्लो. 10)
    अपापास्तकुलीनाश्च मानयन्ति स्वकान् हितान् ।
    एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥' (युद्ध. स. 18 श्लो. 11)

  15. (युद्ध, स. 18 श्लो. 15.)
  16. प्रतिमानाटकं. 4-26.
  17. अयो. स. 54 लो 31.
  18. अयो. स. 31 श्लो. 24.
  19. 'प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
    गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ॥ (बाल. स. 77 श्लो. 28)
    'स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ।
    न कथञ्चन सा कार्या गृहीतधनुषा त्वया ॥
    बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । (अर. स. 9. श्लो 24 )
    यद्य फलं प्रार्थयते पुष्पं वा जनकात्मजा ।
    तत्तत्प्रदद्या वैदेह्याः यत्रास्या रमते मनः ॥ ' (अयो. स. 55. लो. 29)
    ‘एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।
    सीतावचनसंरब्धः आनयामास लक्ष्मणः ॥' ( " " 32)
    अथात्मपरिधानार्थं सीता कौशेयवासिनी ।
    संप्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ (अयो. स. 37 श्लो. 9)
    सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः । (" " 10)
    गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ।
    कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ?' (" " 12)
    'किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ।
    रामजामातरं प्राप्य स्त्रियं पुरुषविग्रहम्' (अयो. स. 30 श्लो. 3)
    सुदुष्टस्त्वं वने रामं एकमेकोऽनुगच्छसि ।
    मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा' (आर. स. 45 श्लो. 24 )
    'अथ मामेवमव्यग्रां वनं नैव नयिष्यसि ।
    विषमद्यैव पास्यामि + तदैव मरणं वरम् ॥ ' (अयो. स. 30 श्लो. 19, 20)
    इत्यादयः श्लोकाः परिशीलनीयाः । विस्तरभयान्न विब्रियन्ते ।

  20. अयो- 7 - श्लो- 1.
  21. 'प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ।
    'मेखलादाममिश्चित्रः अन्यैश्च शुभभूषणैः ॥
    बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी' अयो. स. 78. श्लो. 7)
    'तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।
    पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ 'अयो, स. 9. श्लो. 52

  22. 'पुरा, भ्रातः ! पिता नः सः मातरं ते समुद्वहन् । मातामहे समाश्रौषीत् राज्यशुल्कमनुत्तमम् ॥' अयो. स. 107. श्लो. 3

  23. 'विप्रोषितश्च भरतः यावदेव पुरादितः ।
    तावदेवाभिषेकरते प्राप्तकालो मतो मम ॥' अयो. स. 4 श्लो. 25

  24. नानानगरवास्तव्यान् पृथग्जानादानपि ।
    समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः ॥' अयो. स. 1 श्लो. 46

    'न तु केकयराजानं जनकं वा नराधिपः
    त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ' अयो. स. 1. श्लो. 48
    (अत्र अन्यथाप्रतिपत्तिवारणाय जनकस्याप्यनाह्वानमिति भाति ।)

  25. 'इह मे भरतो दृष्टः मातरश्च सनागराः ।
    सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ अयो. स. 117. श्लो. 2
    तस्मादन्यत्र गच्छामः इति सञ्चिन्त्य राघवः ।
    प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः। अयो. स. 117. श्रो. 4

  26. ‘भगवन् ! इत आसन्नः पौरजानपदो जनः ।' अयो. स. 54. श्लो. 24
    ‘आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः'  " "  25
    'एकान्ते पश्य भगवन् ! आश्रमस्थानमुत्तमम्  " "  26

  27. 'नेदानीं त्वदृते सीते ! स्वर्गोऽपि मम रोचते' अयो. स. 30 श्लो. 42
  28. महात्मना-झ.
  29. पुत्रविषयस्नेहतुल्यस्नेहेन-गो.
  30. पालितः-ङ.
  31. तत्र-तादृशोपचारपूर्णगृहे निवसन्तावपीत्यन्वयः । कामत इति तृतीयार्थे तसिः-गो.
  32. महावीरौ-ङ.
  33. बाल ७७-२३.
  34. उदीर्णः-उद्धतः.
  35. यथा च देवी देवानां-ङ.
  36. 'नित्यं प्रशान्तात्मा' इत्यस्यैव प्रपञ्चः उच्यमानोपीत्यादि । परुषमुच्यमानोऽपि उत्तरं न प्रतिपद्यते । तत्र हेतुः-नित्यं प्रशान्तात्मेति । न केवलमुत्तराप्रतिपत्तिः, किन्तु परुषवक्तारं प्रति मृदुपूर्वं भाषते-गो. परं त्वत्र 'उत्तरं न प्रतिपद्यते' इति सामान्यनिषेधो न युज्यते । ततोऽपि परुषमुच्यमानोऽपि परुषमुत्तरं न प्रतिपद्यते। किन्तु मृदुपूर्वमेव भाषत इति वान्वयः ।
  37. कथञ्चित् कृतेनेत्यन्ययः ।
  38. आत्मवान् कः ? इति प्रश्नस्योत्तरमिवैतत् ।
  39. अस्त्राणा योग्यः-अभ्यासः, 'योग्यो गुणनिकाभ्यासः' इति वैजयन्ती; तस्यान्तरेषु-अवकाशेष्वपि-गो.
  40. पूर्वभाषी-नीचेष्वपि स्वयमेव पूर्वं भाषमाणः ।
  41. कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्यर्थः-गो.
  42. प्रत्युद्गम्यपूजकः प्रतिपूजकः ।
  43. रञ्जते-ङ.
  44. कुलोचितमिदं-ङ.
  45. ततः स्वधर्मानुष्ठानात् आनुषङ्गिकया परया कीर्त्या सह महत् स्वर्गफलं मन्यते । चकाराभावादेवं योज्यम् ।
  46. प्रीत्या-च.
  47. अश्रेयसि-निष्फले कर्मणि न रतः-न सक्तः, कादाचित्कलीला न दुष्यतीति भावः; द्यूतादिषु न सक्त इत्यर्थः । विरूद्धकथा-धर्मविरुद्ध-ग्राम्यालापादि-गो.
  48. विद्वान्, नित्यं-ङ.
  49. पुरुषसारज्ञः-सकृद्दर्शनमात्रेण पुरुषहृदयसर्वस्वज्ञः । लोके एक-अद्वितीयः साधुरिति विनिर्मितः-निश्चितः-गो.
  50. गुणवत्तरः-ङ.
  51. सम्यग्विद्या-ङ.
  52. वृद्धैः धर्मार्थदर्शिभिः द्विजैः अभिविनीतः-शिक्षित इत्येकं वाक्यं वा ।
  53. लौकिके-लोकैकप्रमाणके समयाचारे-साङ्केतिकाचारे कृतकल्पः कृतसंस्थापनः, विशारदः तदाचरणसमर्थः-गो.
  54. गुप्तमन्त्रः-ङ.
  55. गुप्तमन्त्रः-फलपर्यन्तमन्यैरविदितमन्त्रः-गो.
  56. प्रियादिगणपठितभक्तिशब्दपरकत्वादिति यावत् ।
  57. रामे दोषलेशस्याप्यभावादेवं व्याख्यानम् ।
  58. कृतं कृतान्तं सिद्धान्तं जानातीति कृतज्ञः । अतः कथञ्चिदुपकारेण कृतेनैकेन तुष्यति' इत्यनेन न पुनरुक्तिः-गो
  59. सतां संग्रहे-स्वीकारे प्रग्रहणे-परिपालने च, विचक्षण इति शेषः । निग्रहस्य–असन्निग्रहस्य च स्थानवित्-अवकाशवित् ।
  60. हानुग्रहणे-ङ.
  61. सदृष्ट-ङ.
  62. संदृष्टव्ययकर्मवित्-'कश्चिदायस्य चार्धेन' इत्यादिशास्त्रावगतव्ययकर्मज्ञः-गो.
  63. विज्ञाताक्ष-ङ.
  64. शिक्षणं-ग.
  65. सत्तमः-ङ
  66. एवं कल्याणपूर्णत्वमुक्तम् । अथ हेयप्रत्यनीकत्वमुच्यते-अनसूय इति-गो.
  67. नावज्ञेयश्च-ङ.
  68. भूतानां-ङ.च.
  69. न च कालवशानुगः-सत्वरजस्तमः प्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति,
    केवलसत्वमूर्तिरित्यर्थः-गो. अथापि लोकसंग्रहाय सिद्धानां नावमन्ता ।
  70. प्रजानां मध्ये श्रेष्ठैर्गुणैर्युक्तः त्रिषु लोकेषु सम्मतः-पूजितः-गो.
  71. दीप्तैः-ङ.
  72. वृत्तं शीलं, तदपि सद्गुणमूलकत्वात् गुण एव विश्राम्यति । ‘तमेवं गुणसंपन्नं’ (बाल-1-9) इत्यनेनैककण्ठ्यात् । एवं-गुणसंपन्नत्ववत, आश्रितसंरक्षणरूपव्रत-संपन्नम्-गो.
  73. व्रत-ङ.
  74. नाथो-ङ. च.
  75. अत्र कैकेयीवरदानकृतविघ्नशङ्काप्रतिसन्धानेन कथमित्युक्तिः- गो.परन्त्वत्र 'मयि जीवति' इति दर्शनान्नैतत्स्वरसम् । किन्तु 'वृद्धस्य' इति विशेषणात्,लोके वृद्धानां पितॄणां स्वजीवनकाले एव पुत्रविवाहदिवृक्षावत् दशरथस्यापि चिन्ता समजनि । पितरि जीवति च रामो राजत्वं न स्वीकुर्यात् इत्येवात्र चिन्ता युक्ता । ४२ श्लोकव्याख्या द्रष्टव्या ।
  76. संप्रति-ङ.
  77. संचचक्षे–दृष्टवान्-गो.
  78. अथ-उत्पातदर्शनानन्तरं पूर्णचन्द्राननस्य-महात्मनः-रामस्य लोके-विषये संप्रियत्वं, कीद्दशम् ? आत्मनः शोकापनुदं-उत्पातादि-भयनिवर्तकं सम्यक्प्रियत्वं बुबुधे-अनुसन्दधौ-गो.
  79. प्रियेण-चतुर्थ्यर्थे तृतीया । प्राप्तकालेनोपलक्षितस्सन्-गो.
  80. श्रेयसा-ङ.
  81. प्राप्तकाले स धर्मात्मा-ङ.
  82. स्वतुतस्त्वत्र भयं स्वमरणस्मरणजन्यमेव युक्तम् । उत्पातदर्शनमात्रेण दृढकायस्य तव कथं मरणं संभाव्यत इति शङ्कायां-शरीरे चात्मनो जरामिति ।
  83. मेदिन्यां-ङ.
  84. ४६,४७ श्लोकयोः क्रमो व्यत्यस्तः-ङ ।
  85. नियमविशिष्टा इति वा ।
  86. प्रश्रितं-ङ.
  87. मतन्द्रेण-ङ.
  88. 'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च' इत्युक्तमिति भावः ॥
  89. पुष्येण युक्तं चन्द्रमिव सर्वकार्यसिद्धिदक्षम्-ति. पुष्येण युक्तं चन्द्रमिवेत्यन्वयः । यद्वा चन्द्रमिव स्थितं तं श्वः पुष्येण यौवराज्ये नियोक्तास्मीति-गो. अत्र 'श्व एव पुष्यो भविता' 'पुष्येऽभिषिञ्चस्व' इत्याद्यानुरूप्यम् ॥
  90. यौवराज्ये नियोक्ता-ङ.
  91. प्रातः-ङ.
  92. वो-ङ.
  93. इमां-महीं तस्मिन् ज्येष्ठे सुते निवेश्य-अनेन तन्निवेशरूपेण श्रेयसा महीमेवं सद्यः संयोज्य-गो.
  94. संयोक्ष्येह-ङ.
  95. मे अनुरूपार्थं मया साधु सुमन्त्रितं यदि-इति पाठान्तरे
    योजना ।
  96. सुमन्त्रितं ङ.
  97. भवन्तोऽप्यनु-ङ.
  98. स्वकर्तव्यप्रकारप्रश्नो वाऽयम् ।
  99. नृपात्मजम्-ङ.
  100. नृत्यन्त-ङ.
  101. तत्र सभायां स्निग्धः-स्नेहाभिव्यञ्जकः अनुनादी-प्रतिध्वनिकारी जनौघोद्धुष्टः-जनसमूहोत्पादितः सन्नादः-समीचीनशब्दः-संजज्ञे । न केवलं राजान एव, सर्वेऽपि जनास्तच्छ्रुत्वा सन्तुष्टा इत्यर्थः-गो.
  102. जनौघोद्धुष्टसन्नादः विमानं-ङ. च.
  103. धर्मार्थविदुषः-ङ.
  104. जनमुख्याश्च-ङ.
  105. एकाभिप्रायवन्त इति भावः ।
  106. वचः-ङ.
  107. ननु रक्षके मयि विद्यमाने किमर्थं रामाभिषेकोऽपेक्ष्यत इत्याशङ्कायां न हि वयं रक्षणार्थं तमपेक्षामहे, किन्तु सौन्दर्यविशेषानुभवार्धमित्याहुः-इच्छाम इति । एतैरभिषेकानन्तर-भाविभिर्विशेषणैः अभिषेकः कर्तव्य इति व्यञ्जनावृत्या प्रार्थ्यते-गो.
  108. प्रश्नान्तरं वेदम्.
  109. महाबलम्-ङ्.
  110. इक्ष्वाकुभ्यः-इक्ष्वाकुवंश्येभ्यः सर्वेभ्यः अतिरिक्तः समधिकः, ' अतिरिक्तः समधिकः इत्यमरः-गो.
  111. पराक्रमः- ङ.
  112. रामनिष्ठगुणसमुदायस्यैकत्रासंभवात् एकैकगुणयोगेन
    चन्द्रादीन् दृष्टान्तयन्ति–प्रजेति-गो.
  113. साक्षात् —तुल्यः, 'साक्षात् प्रत्यक्षतुल्ययोः'
    इत्यमरः- गो.
  114. न विद्यते असूया, अन्यविषयिणी, यस्य सः ! उत्तरत्र न विद्यते असूया, स्वविषयिणी अन्यकृता, यस्य स तथोक्त इति न पुनरुक्तिः-ती.
  115. अभिविनीतः–शिक्षितः ।
  116. स्वजनवन्नित्यं-ङ. च.
  117. 'शुश्रूषन्ते च वः शिष्याः' इति ब्राह्मणान् प्रति प्रश्नः । वर्मसु दंशिताः-अवहिताः भृत्याः वः सेवन्त इति क्षत्रियान् प्रतिप्रश्नः-ति.दंशिताः-सन्नद्धाः शिष्याः कर्मसु वः शुश्रूषन्ते कच्चिदिति वाऽन्वयः । ‘सन्नद्धो वर्मितः सज्जः दंशितः' इत्यमरः ।
  118. कच्चिद्वर्मसु-च.कच्चिद्धर्मेषु-ङ. च.
  119. श्रेयसां सम्यग्योक्ता-संपादकः । न विगृह्मकथारुचिः, 'न विगृह्य कथां कुर्यात्' इति निषिद्धयोर्जल्पवितण्डयोर्निवृत्तरागः गो.
  120. अत्र पक्ष्मादिबहिर्देशविवक्षया ताम्रत्वं मन्तव्यम् ।
  121. नियमात्–नियमेन गो.
  122. राजोत्तमेति सम्बुद्धिः ।
  123. देवदेवः-विष्णुः, तत्सदृशमिति वा-गो.
  124. अहोऽस्मीति सन्धिरार्षः । प्रभावः-- वैभवं, आनन्दानुभवसाधनम् ।
  125. "ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहतं तद्विजानीयात् दैवे पित्र्ये च कर्मणि " इत्युक्तरीत्या अहतं सदशं धौतं नूतनमित्यर्थः-गो.
  126. हिरण्यश्रृङ्गं-हिरण्यालङ्कृतश्रृङ्गम् ।
  127. विधिव-ङ.
  128. विषयसप्तमी-गो
  129. साहस्रे ङ.
  130. तत् संपाद्यतामिति शेषः- गो.
  131. अत्र व्याख्यादृष्ट्या अमन्त्रयन्तां विप्राश्च' इति पाठः स्यादिति भाति ।
  132. तालावचरा-ङ
  133. देवायतनचैत्येषु-देवगृहेषु चतुष्पथेषु चेत्यर्थः ।
    अन्नभक्षैस्सहवर्तन्त इति सान्नभक्षाः, अन्नमोदकहस्ता इति यावत् । माल्यप्रदानयोग्याः माल्ययोग्याः, मध्यमपद-लोपिसमासः माल्यार्थसाधनानि । पृथक् पृथगिति । देवायतनचैत्ययोरिति शेषः । ब्राह्मणैर्देवताः पूजनीया इत्यर्थः-गो. चैत्याः-रथ्यावृक्षाः-ती.ति.
  134. दैवा-ग.
  135. दीर्घासिबद्धाः-बद्धदीर्घासयः, 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति निष्ठायाः परनिपातः-गो. ।
  136. बद्धा योधाश्च-ङ.
  137. तथा च महोदयं रामाभिषेकमण्डपमित्यर्थः
  138. पार्थिवाय-राज्ञे-गो.ति.ती.
  139. गोविन्दराजः, तीर्थो वा । अत्र श्लोकद्वयमपि भिन्नं भिन्नं वाक्यमिति गोविन्दराजाशयः । तथोक्तम् 'पूर्वश्लोके निवेद्येत्यनेन शेषसंपादनविषयनिवेदनमुक्तम् । अब्रूतामिति तु सकलसिद्धिविषयमिति न पुनरुक्तिः'-गो.
  140. अङ्गीकृत्येति वार्थः ।
  141. समासीना-ङ.
  142. म्लेच्छाश्चार्याश्च-ङ.च.
  143. दशरथः-ङ.
  144. चन्द्राननमित्युक्तेऽपि आह्लादकत्वादिसिद्धेर्निरतिशयाह्लादकत्वं द्योतयितुं कान्तशब्दः । चन्द्रात् कान्ताननमिति विग्रहः । .........पुंसां-कठिनचित्तानामपि,किमुत स्त्रीणामिति भावः ।
    यद्वा पुंशब्देन स्त्रीपुंसाधारणमात्ममात्रमुच्यते-गो.
  145. द्वितीयान्तमिदं प्रजाविशेषणम् ।
  146. अवतारणं हस्तप्रदानादिना- गो.
  147. प्राञ्जलि-ङ.
  148. 'सक्थिनि कर्णे वा गृहीत्वा' इति महाभाष्यकारवचनात् अञ्जलाविति कर्मणि सप्तमी-गो. च
  149. दिव्यं मणि-ङ.
  150. अभ्युदितं-उन्नतं-गो.
  151. सुस्थित-ङ.
  152. सस्मितमिति क्रियाविशेषणम्-गो.
  153. काश्यपः-ङ. झ.
  154. आत्मजः-औरसः सुतः-गो.
  155. निर्णतः-ङ.
  156. यद्वा 'मृगयाऽक्षो दिवास्वापः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाध्वा च कामजो दशको गुणः ॥ 'इत्येतानि कामजानि, पैशुन्यं साहसं द्रोह ईर्ष्यसूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि गुणोऽष्टकः' इत्युक्तानि क्रोधजानि च व्यसनानि गो.
  157. समृद्धानि-ङ.
  158. इष्टानु-ङ.
  159. सामान्यतः पुष्ययुक्तदिने रामोऽभिषेच्य इति पूर्वं निर्णीतवान् राजा । अनन्तरं विमर्शे च श्व एव पुष्ययुक्तदिवस इति ज्ञात्वा श्व एव राममभिषिषिक्षुः पुना राममाहूयादिशत्यस्मिन् सर्गे । अत एव 'तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि इति
    तत्र, 'श्व एव पुष्यो भविता' इति अत्र चोच्यते ।
  160. श्वोऽभिषेच्यस्तु-ङ.
  161. आनयेत्यनन्तरं इति करणमूह्यम् ।
  162. इतरस्य-इतरशब्दस्य ।
  163. स्वयमित्यर्थः-क.
  164. देवानामनृणः क्रतुशतैः, ऋषीणामनृणोऽध्ययनेन, पितॄणामनृणोऽपत्योत्पादनेन,विप्राणामनृणो दत्तेन, आत्मनोऽनृणः सुखानुभवेन । यद्यपि ब्रह्मचर्यादि ऋणत्रयं श्रुतिसिद्धम्-'जायमानो वै........ पितृभ्यः' इति; तथाऽपि ऋणपञ्चकमिति मतान्तरम् । यद्वा ऋणत्रयव्यपदेशः प्राधान्यात् इतरयोरुपलक्षणत्वाद्वा | ननु देवादीनां पञ्चानां कथमुत्तमर्णत्वम् ? अत्राहुः-देवानामिन्द्रियाधिष्ठातॄणां जितेन्द्रियताकारकत्वेनोपकारकत्वात्, ऋषीणां वागुपकारकत्वात् पितॄणां तनूपकारकत्वात्, विप्राणां कर्माधीन-सर्वसंस्कारसाधनेनाघनाशकत्वात् आत्मनः शारीरेन्द्रिय सङ्घातरूपस्य ज्ञानप्रकाशहेतुत्वेनोपकारकत्वाच्च तदप्रत्युपकारः पुरुषस्य ऋणमेव । अन्यत्र चोक्तं 'अनिषिद्धसुखत्यागी
    पशुरेव न संशयः' इति गो.
  165. 'वा ऋण' पदच्छेदः
  166. त्याह-ग.
  167. महोल्काश्च पतन्तीह-ङ.
  168. चेतः-त्वामभिषेक्ष्यामीति बुद्धिः-गो.
  169. विमुह्यति-ङ.च.
  170. पुनर्वसुं-ङ.च.
  171. पुष्ययोगं-पुष्येण चन्द्रस्य योगं नियतं–अभिषेकनियतं, प्रशस्तभित्यर्थः-गो.
  172. ततः-ङ.
  173. अद्यप्रभृति-एतदहरारभ्य निशा उपवस्तव्या । 'वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः' इति भोजननिवृत्यस्य वसेरकर्मकत्वादत्र सकर्मकत्वमार्षम्-गो.
  174. व्रतिना-ङ.
  175. केकय-राजाय राज्यशुल्कं दत्त्वा कैकेयीं विवाहितवान्; तं वृत्तान्तं हृदि कृत्वाह-विप्रोषित इति ।(अयं वृत्तान्तः अयो. १०७-३-श्लोके स्पष्टः) गो.
  176. कामं-यद्यपि । वृत्ते-शीले ।
  177. किन्नु-ङ.
  178. मनः-ङ.
  179. सामान्यप्रयुक्तदोषो विशेषे न संक्रमत इत्याह-सतां त्विति । तुशब्दः पक्ष-व्यावृत्त्यर्थः। धर्मनित्यानां-धर्मैकनिरतानां कृतशोभि-कृतेन परस्परोपकारेण शोभते ;न तु भेदं प्राप्नोति । अन्ये त्वेवं व्याचक्षते-'धर्मनित्यानां चित्तं कृतशोभि–कृतेन
    परकृतमित्रभेदादिना शोभितुं शीलमस्यास्तीति कृतशोभीति । अन्ये त्वाहुः-सतां चित्तं कृतेन कार्येण शोभते, न तु करिष्यमाणेन । कृतं कार्यमनुमोदते । न तु करिष्यमाणमिति भाव इति-गो.
  180. सत्कुले-ग.
  181. अत्र मातृकासु 'बहुशोमीत्यत्र' इत्येव पाठ उपलभ्यते । परन्तु अधस्तात् 'कृतशोभि' इत्येव व्याखात्वात् एवं निवेशितम् । 'यद्वा भट्टः' इति कस्यचिन्नाम परिहासनिबन्धनम् । यः स्वव्याख्यायां 'यद्वा–यद्वा-इति बहुकल्पान्वदति सः 'यद्वा भट्टः'-इत्युक्तः । प्रायोऽयं गोविन्दराज एव स्यात् । सप्तमसर्गप्रथमश्लोकीय-व्याख्याटिप्पण्योर्दर्शने इदं युक्तं प्रतिभाति ।
  182. मभिभाध्या-ङ.
  183. राज्ञादिष्टे-ङ.
  184. निमित्तसप्तमी राज्ञोद्दिष्टमभिषेकं कथयितुमित्यर्थः-गो.
  185. तत्क्षणेन-च.ङ.
  186. प्रवणां-स्वासाधारणदेवतासक्तचित्ताम् ।..... आयाचतीं-प्रार्थयन्तीं-गो
  187. सुमित्रा प्रियं रामाभिषेचनं श्रुत्वा आगता। लक्ष्मणश्च तदा सुमित्राऽऽगमनकाले आगतः । सीता तु परतन्त्रत्वात् स्वयं नागता, किन्तु दासीभिरानायिता- गो.
  188. स्तदा-ङ.
  189. तु, हि, च-ङ.
  190. पुष्ये च पुण्येन-ङ.
  191. महार्ह-क.
  192. बाष्पाकुलं-ङ. च.
  193. कल्याणेऽदिति-ङ.
  194. बतेति सन्तोषे । ‘खेदानुकाम्यासन्तोषविस्मयाऽऽमन्त्रणे बत' इत्यमरः-गो.
  195. क्षान्तं–व्रतोपवासादिक्लेशसहनम्-गो.
  196. रामस्य प्रयोजनं-क.
  197. मातृभ्यामिति शेषः-गो. सीतां स्वं चाभ्यनुज्ञाप्य-सीतायै स्वस्मै च मातृभ्यामनुशां दापयित्वा-ति.
  198. 'तदर्हम्' इति वतिप्रत्ययान्तमव्ययमिदम् । युक्तं- वाजिभिस्संयोजितम् ।
  199. मन्त्रवन्मन्त्रकोव्दिम्-ङ. च.
  200. आदेष्टपि राजा, आदेष्टव्यश्च राजकुमारः, अतः स्वयं ययौ इत्यर्थः ।
  201. पाण्डुराभ्रमूर्तसदृशप्रभम्-गो. पाण्डुराभ्रवन्निबिडप्रभम्-ति
  202. मन्त्रविद्-ङ.
  203. बृन्दानुबद्धानि बृन्दानि येषां ते बृन्दबृन्दाः-गो. बृन्दानां बृन्दै:-ति.
  204. बलो जनः-ङ.
  205. उदयमाकाङ्क्षत्- गो.
  206. आकाङ्क्षदुदयं-ड.
  207. प्रजालङ्करणहेतुभूतं, प्रजालङ्कारप्रचुरमिति वा गो.
  208. राजासनं-सिंहासनं
  209. अत्र नारायण इति श्रीरङ्गनायक उच्यते, उत्तरत्र तस्येव विभीषणाय दानोक्तेः ओ
  210. उपागमत्-उपासांचक्रे-ति
  211. महते दैवताय-नारायणाय- गो. ति.
  212. आत्मनः प्रियं-राज्याभिषेकाविधरूपं । वस्तुतो रावणवधफलकवनमगनरूपं-ति.
  213. स्वस्य साक्षाद्भगवदवतारत्वेऽपि श्रीरङ्गविग्रहार्चोपसर्जनभावः स्वावतारानुमतक्षत्रियधर्मानुगुणः-गो.
  214. अनेन नूतनवस्त्रपरिवृत्त्या प्रातर्गौणस्ननमुक्तम्- गो.
  215. राघवं कृतोपवासं श्रुत्वेत्यन्वयः ।
  216. चैत्येषु-बौद्धालयेषु अट्टालकेषु-प्राकारोपरि युद्धार्थपरिकल्पितचतुस्तंभमण्डपेषु-गो. चैत्यं-चैतन्यं-येष्वस्तीति अर्शआद्यजन्तः देवतायतनादि विशेषणम्-शि. परन्तु सुन्दरकाण्डे 'चैत्यप्रासादः' (4-31) इत्यत्र चैत्यपदस्य देवालयसामान्यपरत्वं
    सर्वव्याख्यातृसम्मतं वर्तते। 'चैत्यमायतनं तुल्ये' इत्यमरः (द्वि. पुर.7 श्लो.) अत्र-सुधा "चीयते--'चित्याग्निचित्ये च' (पा. सू. 3-1-132) इति साधु: । चित्याया इदं-'तस्येदम्' (पा. सू. 4.3-120) इत्यण्-यज्ञस्थानस्य" इति । एवं च
    चैत्यं यज्ञशाला इति स्यात् ।
  217. आलक्षितेषु-अत्युच्चेषु । समुन्नतत्वाद्दूरादप्यक्षिगोचरेष्वित्यर्थः-गो.ति. ध्वजाः-सचिह्नाः, पताकाः-चिह्नरहिताः-गो.
  218. प्रकाश-ङ.
  219. अनुरथ्यासु-रथ्यासु रथ्यासु, विभक्तेर्लुगभाव आर्षः-गो. अनुगथ्यासु-रथ्यापार्श्वयोः-ति.
  220. दृष्टे लोके परावरे-उत्कृष्टापकृष्टवस्तुनी येन स तथोक्तः-गो. दृष्टाः लोकाः-भुवनानि-परावराः-उत्तमाधमाश्च येन सः-शि.
  221. कविरपि रामाभिषेकस्मरण-जानन्दवशात्-रामस्य पुरीमित्याह ।
  222. अयोध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्रभवनदृष्टान्तीकरणात् अयोध्याया अतिरमणीयता द्योतते-गो. उपाहितैः-उपागतैः ।
  223. रुपाहितैः-ङ
  224. कर्णावतंसादिवदविश्लेषप्रदर्शनाय समुद्रशब्दः- गो.
  225. ज्ञातिदासी-कैकेय्या बन्धुदासौ-यतो जाता-यत्रकुत्रचिज्जाता, अविज्ञातदेशमातापितृकेत्यर्थः । अतः कैकेन्या ज्ञातिदासीत्वमपि
    स्वोदरप्रपूरणार्थं कृतमित्यवगन्तव्यम् ।-यद्वा यतो जाता-यतः कुतश्चिज्जाता, तादृशी नामयोध्यायां जननासंभवात् । यद्वा तन्नामजातिनिरूपणायोग्यतया तथा निर्देशः । आचार्यास्तु-देवैरेव स्वकार्यार्थे कैकेयीं भेदयितुं प्रेषितेति देवरहस्यस्य गोप्यतया तथा
    निर्देश इत्याहुः-गो. तिलकेऽप्ययमर्थः–'मन्थरा नाम कार्यार्थमप्सरा प्रेषिता सुरैः । दासी काचन कैकेय्यै दत्ता केकयभूभृता' इति पाद्मवचनेन समर्थितः ।
  226. यतो जाता-ङ. च.
  227. इदं तिलकेऽनूद्य-'रामाभ्युदयस्याग्रे धात्रीमुखेन श्रवणस्य वक्ष्यमाणतया तस्यैव चामर्षहेतुत्वस्य च वक्ष्यमाणतया अत्रत्यस्य तत्रान्वयानौचित्यात्' इति दूषितम्.
  228. गोविन्दराजः.
  229. कुसुमोत्कराम्-ङ.
  230. वरार्हाभिः-श्रेष्ठाभिः-गो.
  231. वृतां छन्दपथैश्चापि-ङ.
  232. छन्दपथैः-स्वच्छन्दगमनयोग्यवीथीभिः-गो
  233. दानप्राप्तमाल्यमोदकहस्तैः; रामोपायनमाल्यमोदकरूपमङ्गलद्रव्यहस्तैरितिवा-ति.
  234. पौरैरुच्छ्रितेत्यत्र प्रकृतोत्सवकृतध्वजसम्बन्ध उच्यते-गो.
  235. अर्धपरा सती-अर्धपरा सत्यपि ॥ उत्तमेन हर्षेणाभिसंयुक्ता-गो. अर्थपरास्वेष्टार्थपरा-ति.
  236. किं ? किम्मूलकः ?
  237. संप्रहृष्ट इति विधेयविषेषणं वा ।
  238. उदीर्यमाणा-ङ.
  239. स्वानन्दसन्दोहपरीवाहवशात् प्रतिकूलाया अपि तस्यै मुदाऽकथयदित्यर्थः ॥
  240. चानघम्-ङ. च
  241. मभिषेक्ता हि राघवम्-ङ. च.
  242. सुभगाकारे, आकारमात्रेणैव तव सौभाग्यदे । वस्तुतः-अनिष्टे-अप्रियकर्तरिराज्ञि । (विषयसप्तमी)-ति. वस्तुतो राशोऽनिष्टे सुभगाकारे-आपाततः सौभाग्यवतीव भासमाने, असुभगाकार इति वा छेदः-गो । एवञ्च पदद्वयमिदं सम्बोधनपरम् । अथवा अनिष्टेति निन्दा, सुभगाकारेति मर्मोक्तिश्च ।
  243. कैकयी परुषं वच उक्ता-'अप्रधाने दुहादीनां' इत्यप्रधाने कर्मकारके निष्ठा-गो.
  244. एतदनन्तरं-'मन्थरे तद्धृवीह्यद्य कुतस्ते भयमागतम् ।' इत्यधिकं-ङ,
  245. राघवं प्रति पुत्रत्वप्रयुक्तस्नेहं भेदयन्तीत्यर्थः-ति.
  246. त्वद्विनाशनं-त्वद्विनाशः-गो.
  247. अनभिमतरामाभिषेकश्रवणजनितव्यसनजं दुःखम् अभिमतभरताभिषेकराहित्यजः शोकः-गो. यद्वा एतादृशेऽपि समये कैकेय्या औदासीन्यात् शोकः ।
  248. नाशः-ग. घ.
  249. स्वप्रभावा-ग. घ.
  250. सामान्यतो राजनीतयो वा विवक्षिताः । राजवंशे जनित्वा राजमहिषी सत्यपि राजनीतेः क्रौर्य कथं न बुध्यसे ? इत्यर्थः।
  251. 'गूढविप्रियकृत् शठः' । अतिसन्धिता-वञ्चिता
  252. मतिवञ्चिता-ङ.
  253. उपस्थितः-ङ.च.
  254. तत्कालोचितभाषितं-गो. उपस्थितः-हृदयेन कोसल्यायां अनुरक्तः, त्वत्समीपे स्थितः-ति. अनर्थकं उपस्थितं सान्त्वं प्रयुञ्जान एव कौसल्यामर्थेन योजयिष्यतीत्यन्वयः ।
  255. कर्तव्यं-घ.
  256. अतिसन्धानप्रकारमाह-अपवाह्यति-गो.
  257. काल्यं, कौल्ये-ङ.
  258. काल्ये-उषसि । प्रत्यूषोऽहर्मुखंकाल्यमुषः' इति कोशः !
  259. इवाङ्गेन-ङ.
  260. परिधूत-च.
  261. परिहृतः-परिधृतः । यद्वा अङ्के-अङ्कात् न परिहृतः, किन्तु धृतः-गो.
  262. पूर्वे 'उपस्थितं प्रयुञ्जानः-'इत्युक्तोऽर्थः अनेन सङ्गृहीतः ।
  263. सा प्राप्तकालं सा प्राप्तकाला-ङ.
  264. इदं हितविशेषणम् ।
  265. गोविन्दराजीये एवमुक्तम् । तेन स्वेष्टसाधनसंपत्तिरुक्तेति भावः ।
  266. दिव्यमा-ङ.
  267. आख्यानं-ङ.
  268. दितस्त्वया-ङ.
  269. प्रियोत्तरं-प्रीतिविषयेषु श्रेष्ठम्, 'उपयुदीच्यश्रेष्ठेष्वप्युत्तरः'-गो.
  270. त्वभ्यसूय्यैनां-ङ. च.
  271. किमिदमिति प्रत्येकं वाक्यम्.
  272. मध्यस्था-ङ.
  273. प्रसहामि-ङ.च.
  274. वृद्धिं-दृष्ट्वेति शेषः। प्रहर्षयेत्-प्रहृष्येत्-ति.प्रहर्षयेत्-प्रहर्षसाधनं कुर्यात् । लालयेदिति वा-गो.
  275. राज्यं साधारणं यस्य; तस्माद्भरतादिति-गो.
  276. श्रितः-ङ.
  277. भीति-घ.
  278. रामस्य भयात् षष्ठी चात्र सम्बन्धसामान्ये-गो.
  279. कैकेय्या असूयोत्पादनाय कौसल्यासौभाग्यं दर्शयति-सुभगेत्यादिना-गो.
  280. सुमहतीं-ङ.
  281. एवञ्च-ङ.
  282. प्रेष्यभावं
  283.  राममहिष्या एकत्वेऽपि रामस्य परमाः स्त्रिय इति बहुवचननिर्देशः परिचारिकाभिप्रायेण । नन्वत्र स्त्रीशब्दो भार्यापर एव, स्नुषास्ते भरतक्षये' इति स्नुषाशब्दसाद्वचर्यात् । अत एव सुन्दरकाण्डे सीतयोच्यते-'स्त्रीभिश्च मन्ये विपुलेक्षणाभिः त्वं रंस्यसे वीतभयः कृतार्थः'(28-14) इति । युद्धकाण्डे च-'भुजैः परमनारीणा-
    मभिमृष्टमनेकधा'(21-3) इत्युक्तम् । न हि भुजैर्भुजाभिमर्शो भार्याभ्योऽन्यत्र संभवति । उत्तरकाण्डे चाश्वमेधोपक्रमे 'मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि च'(91-24) 'मम मातॄस्तथा सर्वाः कुमारान्तःपुराणि च' इत्यपि पाठः इति दर्शितम् । अतस्त्रीगणकुमारव्यपदेशः विना सीतातिरिक्तभार्यासद्भावं न संभवति । किञ्च श्रुतार्थापत्तिरपि रामस्य सीतातिरिक्तधर्मदारसद्भावे प्रमाणम् । न ह्यपत्नीकस्य यज्ञानुष्ठानं संभवति । भोगदारान्तराभावे न रामस्यैकदारव्रतत्वं भृगुशापपालनं च । सीताप्रतिकृतिकरणं तु सीतास्नेहबहुमानात्-अत्रोच्यते-रामस्यैकदारव्रतत्वं सर्वसिद्धम् तच्च पत्न्यन्तरसंभवे न सङ्गच्छते । न च यज्ञकरणानुपपत्तिः, सीताप्रतिकृतिकरणेन
    तदुपपत्तेः ( न हि तदा रामः अपत्नीक इति भावः) । उत्तरत्र 'न सीतायाः परां भार्या वव्रे स रघुनन्दनः' (उत्त. ९९-८) इत्युक्तेश्च । यथा हेमाद्रौ- 'दूरभार्योऽननुकूल-भार्यश्च दर्भपिञ्जूलैर्भार्याप्रतिनिधिं विधाय पार्वणं कुर्यात्' इति..... पत्नीविनाशाभावा-न्नाग्नेर्विनाशः ।........'मातरश्च'-इत्यत्र मे मातरः भरतादीनां कुमाराः स्त्रियश्चेत्यर्थः । दारान्तराङ्गीकारेऽपि तेषां धर्मार्थत्वेन प्रजार्थत्वाभावात् रामस्य कुमारा-
    भावात् तत्सहचरितस्त्रीगणाश्च भरतादीनामेवेति सुव्यक्तम् । ... अतः 'परमाः स्त्रियः' इति परिचारिकान्तर्भावेन । 'स्त्रीभिश्च मन्ये' इति स्वविनाशे स्त्रयन्तर संभावनया ।
    'परमनारीणां' इत्यस्य कविवचनत्वेन श्रीभूम्याद्यभिमर्शविषयत्वाञ्चति दिक्-गो.

     कतककृतस्तु 'परमनारीणां-उत्तमधात्रीजनानां भुजैः अनेकधा- स्नपनालंक्रियादिकालेषु स्पृष्टम्' इति व्याख्यास्यन्ति ॥ स्त्रिय इति बहुवचनेन सीतासख्यः-ति.

     नन्वेवमपि-'स्नुषाः' इति साहचर्यात्-'इत्याक्षेपस्य किं समाधानम् ? उच्यते-परिचारिकास्वपि कैकेय्याः प्रीत्यतिशयविवक्षया तथोक्तिः । तस्य च कैकेय्युद्वेजनमेवो देश्यम् । सर्वत्र पूजायां वा बहुवचनम् ।
  284. भरतक्षये-भरतगृहे-ती.
  285. परमप्रीतां-ङ. च.
  286. इदं च कैकेयीविशेषणम् ।-गोविन्दराजीये तु मंथराविशेषणम् । परं अप्रीतां इति पदविभागःपरमप्रीतेति ।
  287. मन्थरोक्तं राज्यसाधारण्यं निवर्तयति-धर्मज्ञ इति गुरुभिः दान्तः-शिक्षितः-गो.
  288. गुरुभिः-ङ.
  289. सत्यवान्-ङ.
  290. पुत्रवत्-ङ.
  291. मवाप्स्यति नरर्षभः-ङ.
  292. प्राप्ते-उचिते अभ्युदये-समाभिषेकरूपे-वर्तमाने च प्रत्यासन्ने सति-कल्याणे-भरताभिषेकरूपे-भविष्यति च किमर्थं परितप्यसे- गो. ॥ कालत्रयेऽपि कल्याणे सति किमर्थं तप्यस इति भावः ॥ पूर्वश्लोकानुसाराच्च ॥ कल्याणे भरताभिषेके-भविष्यति-कियता कालेन-(इदानीं किमर्थं परितप्यसे)-ति.
  293. दह्यमानेव-ङ,
  294. मान्यः-बहुमान्यः-गो.
  295. विलापहेतुः शोकः, व्यसनं विपत् । यद्वा शोकः इष्टवियोगजं दुःखं, व्यसनं स्वस्य सुखाद्धंश-गो.
  296. मज्जन्तं-ङ.
  297. परिहास्यते-निर्वास्यते ॥ गत्यर्थाद्धसेर्णिजन्तात्कर्मणिलट्-गो. ॥ हीनोभविष्यति-ति.
  298. 'न हि राज्ञा सुताः' इति सर्वत्र पाठ उपलभ्यते ।
  299. अनयः-नातिविरोधः-गो.
  300. राज्यतन्त्राणि-राज्यपरिपालनादिव्यापारान् । 'तन्त्रं स्वराष्ट्रव्यापारे' इति वैजयन्ती-गो.
  301. वृद्धिकामे त्वं-ङ.
  302. अत्र 'त्वया' इत्यनेन भरते राजस्नेहप्रयोजकं सान्निध्यं त्वयैव
    विघटितमिति, भवतोऽपि भरते प्रीतिर्नास्त्येवेति मर्मताडनं वा ।
  303. अत्र पाठान्तरे-सान्निध्यात् स्थावरेष्वप्यन्योन्यं सौहार्दं जायत इत्यर्थः, ३० श्लोकानुसारात् ।
  304. स्थावरेष्विव, स्थावरेष्वपि-ङ.
  305. मतः-ङ.
  306. समं-भरतेन सह.
  307. स्थावरेष्वपीत्युक्तमुपपादयति-श्रूयते हीति ॥ गो.
  308. तदनुभवासंभवादिति भावः ।
  309. केकयराजनगरस्य 'राजगृहम्' इति नाम । 'पुरं राजगृहं गत्वा' (अयो.-68–6) इत्युक्तेः ।
  310. भरतो राज्यं यद्यवाप्स्यति-एवञ्चेत् ते ज्ञातिपक्षस्य, बंधुवर्गस्य,श्रेयश्चापि भविष्यति-गो. ति. एवं-एवं सति, मातुलगृहादेव वनगमने सति ते ज्ञातिपक्षस्यास्मदादेः श्रेयश्च भविष्यत्येव, श्रेयः-जीवनरूपं कल्याणम् ।.... ...यदि
    चेदिति । यदि वेत्यर्थः । धर्मात् पितृदीयमानत्वरूपात् । तदा वा ज्ञातिपक्षस्य श्रेय इत्यर्थः । यद्वा एवमेव ते पक्षस्य श्रेयो भविष्यति । एवमेवेत्येतदुपपादयति-यदि चेदिति-ति.
     अथवा रामानन्तरं ज्यैष्ठयक्रमाद्धर्मादेव पूर्वोक्तरीत्या यदि भरतो राज्यं आप्नुयाच्चेत् एवं सति ते ज्ञातिपक्षस्य-कौसल्यादेरेव श्रेयो भविष्यति । रामानन्तरं भरतराज्य-प्राप्तिरसंभावितैव । यतो रामानन्तरं तत्पुत्राणामेव राज्यार्हताऽनुपदमुक्तेत्यर्थः । कतकरीत्या एवं चेत्यादि पूर्वान्वयि, यदि चेत्याद्त्तरान्वयि । इतरव्याख्यारीत्या 'एवञ्च' 'यदि चेत् ' इत्यर्धद्वयमेकं वाक्यम् ।
  311. ते-ङ.
  312. राज्यानवाप्तावनिष्टमाह-स इति । सहजो रिपुः- सपत्नीपुत्रत्वात्सहजः शत्रुः । ते बालः-भरतः रामस्य वशे कथं जीविष्यति गो.
     अन्यथा दुःखमेवेत्याह-स त इति ॥ समृद्धार्थस्य रामस्य वशे नष्टार्थः कथं जीविष्यतीत्यर्थः-ति. पूर्वापरानुरूप्यादिदं युक्तमिव । सहजो रिपुः–सन्निहितदायादित्वात् ।
  313. नाशाप्रवृत्ति-क.
  314. भरतादेर्भवि-ग
  315. 'वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा' इत्यमरः ।
  316. कैकेय्यनर्थमुक्त्वा भरतानर्थमाह–यदा हीति-गो.
  317. स्वोपजापपराकाष्ठां सूचयति–विवासेति॥
  318. क्षिप्रमद्याभि-ङ. च.
  319. साधये-ङ.
  320. हिंसन्तीं-ङ.
  321. केवलं राज्यं-कृत्स्नं राज्यम् । ‘निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः'-गो.
  322. 'छन्दः पद्येऽभिलाषे च' इत्यमरः ।
  323. उत्थानहेतुर्न शय्यादोष इत्याह-स्वास्तीर्णादिति-गो.
  324. महोपायं-ङ.
  325. पुरा दैवासुरे-ङ.
  326. 'अत्र परत्वात् 'विभाषावृक्षमृग' (२-४-१२) इति प्राप्तं चकारेण बाध्यत इति दीक्षितः । अनेन नित्यत्वमुक्तम् । व्याख्यायां च 'देवासुराः' इत्यत्र नायमेकवद्भावः । तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः खलु कादाचित्क एव हि तेषां विरोधः । अमृतमथनकाले तेषां विरोधाभावात्' इत्युक्तम् । युद्धकाण्डे च 'देवासुराणां क्रुद्धानां (९०-२५) इति दृश्यते । अतोऽत्र 'दैवासुरे' इति पाठ एव श्रेयान् 'देवासुरे' इत्येकवद्भावाप्रसक्तेरिति । तयोर्विरोधस्य स्वाभाविकत्वे युक्त एकवद्भावः ।
  327. रनिन्दितः-ङ.
  328. क्षताः-बाणशूलादिभिः संजातव्रणाः, विक्षताः- खड्गपरशुपट्टसादिभिर्विविधं प्रहृताः । तान् प्रसुप्तान्- इत्यभिधानात् क्षतविक्षतत्वं दिवायुद्धकृतमित्यवगम्यते-गो.
  329. तरसापास्य-ङ.
  330. क्षणु हिंसायाम्। 'नपुंसके भावे क्तः' इति क्तप्रत्यये-'क्षतं' इति रूपम् ॥
  331. अनभिज्ञा ह्यहं-ङ. च.
  332. पाठान्तरे-अहं अनभिज्ञा, कथं तर्हि ज्ञातमित्यत्र-त्वयैवेति । अहं कथितेत्यन्वयः ।
  333. कथितं-ङ. च.
  334. कथैषा-ङ. च.
  335. प्रव्राजनं चेत्येवंरूपौ तौ वरौ याचस्वेति वाऽन्वयः ।
  336. प्रजाभावगतः स्नेहः–यस्य स तथोकः-गो. ति.
  337. इदं श्लोकं सर्वत्र 'न अतिक्रमितुं' इत्यस्यानन्तरं उपलभ्यते ॥
  338. वैभवं विस्मृत्य-क.
  339. अत्र ११ तमपद्य इव देवासुर इति कुत्रचित्पाठो दृश्यते ॥ परन्तु पूर्वोक्तरीत्या समाहारासंभवात्-युद्धकाण्डे 'देवासुराणां'-(90-25) इत्येव सर्वकोशेषु पाठोपलब्धेः-समाहारे 'देवासुराणां' इति बहुवचनासंभवात्-'देवासुरे' इति पाठे तत्पदस्य देवासुरसम्बन्धिनि लक्षणाया वक्तव्यत्वात् च 'दैवासुरे' इत्येव पाठः स्यादिति विभावयामः ।
  340. देवासुरे-ङ. च.
  341. सोऽर्थो न त्वा क्रमेदति-सोऽर्थो मा त्वामतिक्रमेत्-इति पाठान्तरे ।
  342. त्वा क्रमेदपि-ङ.
  343. उत्थाप्य-भूमौ शयानां त्वामिति शेषः ।
  344. पार्थिवर्षभ इत्यनन्तरं इतिशब्द ऊह्यः.
  345. कृतमूलः-स्ववशीकृतमूलबलः-गो.
  346. सर्वथा प्रव्राजनावरणे आशयमाह-प्रव्राजनस्येति ।
  347. ते सुत इति शेषः ।
  348. "यद्वा रामो भविष्यति एक-एव भविष्यतीत्यर्थः"-गो. रमयत्यानन्दयतीति रामः-मुनीनिति शेषः-ती. वस्तुतस्तु -'पिताऽपिता भवति' इत्यादाविव-राम इति व्यपदेशार्ह एव स न भवति ॥ यतः सः वनंगतः नामरूपरहितः-क्रमेण जनानामविदितप्रायः स्यादितिभावः ।
  349. तव भरत इत्यन्वयः
  350. तेन कालेन-ङ
  351. कृतमूलः-रूढमूलः-गो.
  352. कैकेयीविशेषणमिदं ।
  353. सकल्प्या-ङ.
  354. 'बालः किशोरः' इत्यमरः ।
  355. नाभिजानामि-ङ
  356. अनेन कुब्जानां प्रायेण बुद्धितैक्ष्ण्यमस्तीति द्योतितम्-गो
  357. भुजिष्या-परिचारिका ।नियोज्यर्किङ्करप्रेष्यभुजिष्यपरिचारकाः इत्यमरः ।
  358. परमदारुणाः-ङ.
  359. वातेन-वायुना सन्नतं-सम्यक् नामितं पद्ममिव स्वं वातेन रोगेण सन्नता सती प्रियदर्शना ।
  360. सम्यक्,नता इत्यर्थः
  361. उरस उन्नति दृष्टा लज्जितमिवेति—तिलके गोविन्दराजीये च
  362. निर्धुष्टं-च.
  363. निर्धुष्टं रशनाक्षुद्रघण्टादिभिः शब्दायमानम्-ति. निर्मृष्टं-अमांसलं.
  364. संश्लिष्ट इति यावत् ।
  365. स्थगु-उरोनिस्सृतोन्नतविकृतावयवविशेषः-गो. उरसः पृष्ठभागे निस्सृतेत्यर्थः ।
  366. स्वर्णखचितं करोमीति लोकोतबा कथ्यते ।
  367. गतिं-पादविन्यासविशेषं गमिष्यसि-करिष्यसि, ओदनपाकं पञ्चतीतिवनिर्देशः-गो.
  368. द्विषज्जनं-मत्सपत्नीजनं प्रति गर्वयन्ती-गो.
  369. गर्हयन्ती-ङ.
  370. द्विषब्जनम्-ङ
  371. "राजानमनुदर्शय । क्रोधागारे । आत्मानमिति शेषः ति". राजानमनुदर्शय । क्रोधागारमिति शेषः । यद्वा-अनुदर्शय प्रतीक्षस्वेत्यर्थः" गो.
  372. न केवलं शरीरसौन्दर्यमात्रेण तस्याः सुवर्णसादृश्यं, किन्तु सर्वोशेऽपि विमलं हि तदीयं मनो यत्किमपि संस्थानमापादयितुं शक्यं सुवर्णवदेवेति भावः ।
  373. राज्ञः स्वतोऽनागमने तदानयनार्थे वा एवमुक्तिः । ६३ श्लोकस्वारस्यात् ।
  374. राममुद्दिश्येस्यर्थः-गो.
  375. 'अतिविद्धा-अतिदुःखिता' गो. (समाहता इति
    पृथक् सत्वादिति आशयः) निधाय हस्तौ हृदये इति स्त्रीस्वभावोक्तिः ।
  376. यमस्य विषयं-देशं गतामित्यन्वयः ।
  377. दिग्धविद्धा-विषदिग्धबाणविद्धा-ति. गो. 'विषाक्ते दिग्धलिप्तकौ' इत्यमरः । कतककारोऽपि अत्रैव २६ श्लोके एवमेव व्याचख्यौ ।
  378. दीना-देववञ्चिता स्वानर्थमपि न जानातीति ।
  379. 'सा दीना निश्चयं कृत्वा' इत्यारभ्य एतत्पर्यन्तं पादत्रयं
    "निश्चित्य मनसा कृत्यं..... आचचक्षे विचक्षणा" ॥२॥ इति श्लोकात्पूर्वे निवेशनीयम् । तच्छलोक "आचचक्षे " इति स्थितेः । उत्तरश्लोके 'निशम्य' इति स्थितेश्च-गो.
  380. सिद्धिं-निश्चयफलम्-गो.
  381. रसायनादिसिद्धिः-क.
  382. कृताज्ञापनमन्त्रि-क
  383. तावत्कालं-ग.
  384. उपस्थानं-आस्थानं–सद इत्यर्थः-गो. ति. यद्वा पञ्चमसर्गे 'वसिष्ठेनाभ्यनुज्ञातः' इत्युक्तत्वात् वसिष्ठ एवोपस्थामशब्देनोच्यते-गो. अथवा वसिष्ठात् स्वोपस्थानमनुज्ञाप्य-स्वस्थानीय वसिष्ठानुमतिं प्राप्येति यावत् ।
  385. प्रसिद्ध इति । अद्यैव रामाभिषेकः प्रसिद्धः ; इतः पूर्वे कैकेय्याः श्रोतुमवकाशो नास्तीति तस्या आख्यातुं जगाम-गो.
  386. प्रियायै-ङ.
  387. निश्चितस्य रामाभिषेकस्य कथनाय अर्हामित्यर्थः ।
  388. बशीति । वशः-इच्छा कामः-वशकान्तौ भावे अप्'- वशिरण्योरुपसंख्यानं' स अस्यास्तीति वशीकामी ; 'सकामबलसंयुक्तः इत्युत्तरानुसारात् ।
  389. 'पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः' इत्येव बहुषु पाठः । 'अत्र गृहस्य रुष्टकैकेयीयुक्ततया सुधाधवलतया च राहुयुक्तपाण्डराभ्रकाशसादृश्यं'-ति. 'स्वबाधककैकेयी युक्तत्वाद्राहुयुक्तमित्युक्तं'–गो. राहुश्चन्द्रमसमिव कैकेयी राजानं ग्रसिष्यतीति सूच्यते ॥
  390. काशे-ङ
  391. अथ दशरथस्य कैकेयीवचनकर्तव्यत्वाय रामाभिषेकविघ्नमियं करिष्यतीति बुद्ध्यनुत्पादाय च रतिभावोद्दीपनान्यन्तःपुरे दर्शयति-शुकेत्यादि । संघुष्टं अनुनादितम्-गो.
  392. वामनिका-ङ
  393. नित्यपुष्पफलैरिति-वृक्षाणां नित्यपुष्पफलत्वं च देवराज-साहाय्यकरणेन तत्प्रसादात्-ति. नित्यपुष्पफलैरिति । दोहदविशेषादिति ज्ञेयम्- गो.
  394. एतदनन्तरं 'विवेशान्तः पुरं राजा सिंहो गिरिगुहामिव '
    इत्यधिकं-ङ.
  395. उद्दीपनदर्शनादुचितकालत्वाच्च कामबलसंयुक्तः-गो.
  396. विषादहेतुमाह-न.
  397. अपण्डितां कार्याकार्यविवेकरहितां-ति. स्वव्यापारस्य कीदृशं फलं स्यादिति विवेकशून्यामिति यावत् ।
  398. लुलितानि-धूर्णितानि, व्याकुलानि-स्वविषयग्रहणासमर्थानि- गो.
  399. शंकाकुलितत्वम्-ग.
  400. रामाभिषेकसंरंभे सपत्नीमातुः क्रोधरतन्निमित्त एवेत्यपि कुतो राजा न ज्ञातवानित्यत्राह-स वृद्ध इत्यादि । अकुटिलत्वात् व्यामोहाच्च न ज्ञातवानिति भावः-गो.
  401. बामीमिव-ङ.
  402. मृगयुना-व्याधेन-गो.
  403. महागज इति । करेणुमित्यनृषज्यते ।
  404. परमदुःखिताम्-ङ.
  405. परिमृज्य-ङ.
  406. शप्ताऽसि ङ.
  407. अभिशप्ता-परुषिता-गो. 'अभियोगः-कलहाह्वानं' इति सुधा। अभियुक्ता-कलहाय आहूता हठादित्यर्थः ॥
  408. कल्याणि ! जीवति-ङ.
  409. 'मयि कल्याणचेतसि सति' इति सतिसप्तमी । 'मयि निरपराधे सति किमर्थं मम दुःखाय पांसुषु शेषे' इत्यर्थः ॥
  410. क्रोधपक्षे परिहारमाह-कस्य वेति । कस्येति तृतीयार्थे षष्ठी । केन वा तेऽप्रियं कृतमित्यर्थः । प्रियाप्रियकारिणो फलमाह-कः प्रियमिति-गो.
  411. मा रौत्सीः-आत्मनोऽभिप्रायं रुद्धं-गुप्तं मा कार्षी-ति.
  412. इदं पदं क.पुस्तके नास्ति.
  413. बलमिति। आत्मनि-स्वस्मिन्, बलं-मस्प्रेमरूपं जानन्ती 'अयं मदुक्तं करिष्यति न वा ?' इति मां शंकितुं नार्हसि ॥ ति. आत्मनि बलं-त्वयि विद्यमानं वाल्लभ्यबलं-गो.
  414. चक्रं सूर्यस्य रथचक्रं-आज्ञा वा। गो. चक्रं सूर्यमण्डलं, आवर्तते प्रकाशयति-ति
  415. 'द्राविडाः सिन्धुसौवीराः' इति पाठान्तरम् । ङ. च.
  416. न्न विमानिता- ङ.
  417. विप्रकृता-रोगग्रस्ता-गो. विप्रकृता-अपकृता ।
  418. 'स्त्रीणां मध्ये त्वत्तः, पुंसां मध्ये रामादन्यः' इति योज्यम् । यद्वा-त्वत्तोऽधिकः (रामादन्यः) प्रियतरो नेत्यर्थः । रामेऽस्याः द्वेषमजानत इयमुक्तिः । राम एव
    त्वत्तोऽधिकः प्रिय इत्याशयः-ति. अवलिते-सौभाग्यगर्विते स्त्रीणां मध्ये त्वत्तः प्रियतमा नास्ति, रामादन्यो मनुजः प्रियतमो न विद्यत इति न जानासि?-गो.
  419. 'शप आक्रोशे' इति धातोः स्वरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम् । अकर्तृगेऽपि फले अनेन वार्तिकेन आत्मनेपदं विहितम् ।
  420. जीवनार्हेण-जीवनादपि पूज्येन-गो.
  421. आत्मना–स्वेन, अन्यैरात्मजैः पुत्रैरपि यं वृणे, असमं जाने ।सर्वतोऽधिकं प्रियं जान इति यावत्-ति. आत्मना-स्वदेहेन । आत्मजैः भरतादिभिः, अन्यैश्च प्रियबंधुभिश्च मूल्यभूतैरेतैर्य रामं वृणे । सर्वान् परित्यज्यापि राममेव परिगृह्णामीति यावत् ।
    गो. वस्तुतस्तु वधार्ह इतिवत् जीवनाय-जीवनदानायापि–अर्हः – योग्यः इति जीवनार्ह इति स्यात् । न तावन्मात्रं, किन्तु सर्वस्वदानायाप्यर्ह इत्याह—आत्मनेत्यादीति ।
  422. माम्-ङ.
  423. एतत्-वाङ्मनसयोरैकरूप्यम्-गो. एतत् रामस्य मत्प्रियतमत्वं समीक्ष्य यत्साधु मन्यसे तब्रूहि ति.अयमाशयः-भद्रे-त्वयि रामे च विद्यमानं मत्प्रीत्यतिशयं विचिन्त्य मम दुःखमुद्धर' इति प्रार्थितापि कैकेयी न स्वस्वभावं मुमोचेति । तदेतदुच्यते-सा तदर्थमना इत्यादिना । इति ॥
  424. दुस्सहं-ङ.
  425. मागतं-ङ.
  426. सेन्द्र-ङ.
  427. देवासुरे-ङ. च.
  428. त्वां च्यावयत्-ङ. च.
  429. अन्तरा–मध्ये तव जीवितं अच्यावयत्-अचालयत् । मूर्छा प्रापितवानित्यर्थः-गो.
  430. अडभावः आर्ष इति तिलके । गोविन्दराजीये तु 'तत्र स्वच्यावयत्' इति पाठः
  431. 'जाग्रत्या मया यद्यतः त्वं समभिरक्षितः ततः स्वजीवनाय यतमानाया मम'-ति.यतमानायाः-सारथ्ये यत्नं कुर्वाणायाः-गो.
  432. तवैव सकाशे निक्षेपभूतौ-ति. गो.
  433. वाङ्मात्रेण-पूर्वदत्तवरस्मारक-वचनमात्रेण स्ववशे कृतः राजा- मृगशब्दानुकारिणा लुब्धककथितेन वाङ्मात्रेण मृग इव बद्धः-गो.
  434. प्रविवेश-ङ.
  435. प्रचस्कन्द-धर्मपाशं गतवान् । यद्वा वागुरां प्राप्तो मृग इव शोषणं प्राप्तः-गो.तत्प्रतिवचनदानरूपं पाशं गतवान्-ति.
  436. देवासुरे-ङ.च.
  437. रामवनवासवरणस्य फलं सूचयति-अकण्टकमिति ॥
  438. चिन्ताप्रकारः- किं निवत्यादिना, संतापप्रकारः 'इति संचिन्त्य' इत्यादिना च विव्रियत इति-गो.
  439. ऽयं दिवा-ङ. च.
  440. मानसो-ङ.
  441. अत्र 'किन्नु मेऽयं दिवा स्वप्नः' इति तिलके पाठः । व्याख्यायि चैवं तत्र स्वप्नोऽपि कदाचित् संवादीत्यतो दिवेति । दिवा स्वप्नो न कदापि संवादीति भावः । अथवा-वस्तुतत्त्वज्ञानासामर्थ्यमनु-पश्चात् जातः चित्तमोहो वा । इति च.
  442. 'जाग्रतोऽपि' इति स्यात्-मम इत्यनुरोधात् । मयीत्यध्याहार्यं वा
  443. अनुभूतोपसर्गः–जन्मान्तरानुभूतानां अर्थानां-उपसर्गः-स्मरणम्-गो. ग्रहावेशकृत-वैक्लव्यमित्यपि कश्चित्
  444. अनुभूतानां पदार्थानामुपसर्गः-नाशः, सुषुप्तिरित्यर्थः-ती.
  445. इत्येवं संचिन्त्य राजा तदा-सुखं शर्म-शान्तिमिति यावत्- नाध्यगच्छत्-न प्राप, भ्रमत्वानिश्चयादिति भावः । व्याख्यारीत्या तु–नाध्यगच्छदिति अस्य प्रथमं कर्मपदाध्याहारः । असुखमध्यगच्छदिति कियावृत्तिश्च । तिलके तु-तत्-भ्रमकारणं-
    इति तत्पदं कर्मवाचकमुक्तम् ॥
  446. चिरात्-ङ.
  447. चक्षुषा-ङ.
  448. तदन्यतमत्वं-तदन्यतमसत्वं तदन्यतमतत्वं-इति वा स्यात् ।
  449. अतस्तदवास्तवत्वाज्ञानादिति स्यात् ।
  450. 'व्याघ्रीं दृष्ट्वा यथा मृगः' इत्युक्त्या व्याघ्रथां मृगवदित्यर्थः ।
  451. सदा-ङ.
  452. यदैव जननीतुल्यां वृत्तिं वहति तदैव तस्यैवानर्थाय किन्निमित्तमुद्यता-गो.
  453. यस्मात्-क.
  454. अत्र नृपसुतेत्यनन्तरमितिकरणं द्रष्टव्यमिति गोविन्दराजीयम् ॥ भवत्स्वभावमविज्ञाय नृपसुतेति मत्वा स्वं भवनं निवेशितेत्यर्थः
  455. जीवलोकः सर्वोऽपि यदा रामं स्तौति-तदा तस्य विवासने मम को वाधिकार इति भावः ॥ यदेत्यनेन रामगुणस्तवस्य भूतपूर्वत्वं नास्तीत्युच्यते ॥
  456. अथेत्यादिश्लोकत्रयमेकान्वयम्- गो. भरतप्रियाप्रियविषये यदि मां जिज्ञाससे, तदास्तु राघवं-भरतं प्रति यत्त्वया व्याहृतं तत्सर्वं भरतस्य, रामविवासनन्त्वयोग्यमेवेति शेषः-ति. त्वया पूर्वं राघवं प्रति 'स मे ज्येष्ठः सुतः' इत्यादि यत् व्याहृतं, तत् प्रियवादिन्या त्वया, सेवार्थं-मम मनोरञ्जनार्थं-रामकृतशुश्रूषार्थं वा कथितं भवेत्-गो. इतीव–इत्येतत्प्रकारं यत् त्वया कथितं पूर्वं तन्मच्चित्तावर्जनेन सेवार्थमेव–मया
    स्वसेवाकरणार्थमेव भवेत्-ति.
  457. स मे-ङ. च.
  458. अत्र 'तत् त्वये' ति स्थाने-'त्वया ते' इति व्याख्यापाठः स्यात् ॥ अत एव पूर्व-श्लोकगतेन 'व्याहृतं' इत्यनेन त्वयेत्यस्यान्वये अनन्तरं ते इत्यस्य कथितमित्यनेनान्वयो वाच्यः । एवञ्च कथितमिति भावे क्तः
  459. आविष्टासीत्येव सर्वत्र पाठो दृश्यते । अत्र-आविष्टासीत्यस्योपपादकं-'यत्र ते विकृता मतिः' इत्यन्तम् । 'न श्रद्दधामी' त्यस्योपपादकं-इक्ष्वाकूणामित्यादि
  460. यत इक्ष्वाकुकुले महानयमनयः-ज्येष्ठाभिषेकनिवृत्ति-रूपः संप्राप्तः, हे नयसंपन्ने ! यत्राभ्ये ते तव विकृता मतिः कारणमिति शेषः । अतस्त्वं
    ग्रहाविष्टेति भावः ॥ ति. नयसंपन्ने-एतावत्कालं नीतिशालिनि यत्र- इक्ष्वाकुकुलमध्ये ते मतिरेवमिदानीं विकृता जाता-तत्र कुले, अयं सन्निहितः सुमाहानयः-अनर्थः संप्राप्तः-गो.
  461. मे ङ.
  462. रामो मम भरततुल्य इति भवतैव कथितमित्याह-बहुश इति ।
  463. गौरवं प्रतिपत्तिः । प्रमाणं-पूजा-गो.
  464. परिवादः-अपयशः, अपवादः-निन्दा-गो.
    परिवादः-समूलमयशः । अपवादः-निर्मूलमयशः-ति.
  465. प्रियैः,अभीष्टदानैः.
  466. वीर इति सर्वत्र संबध्यते । दयावीरः, त्यागवीरः, विद्यावीरः, पराक्रमवीर इत्येवम् । चोलमहीपतिः कदाचित् सन्निहितं मध्यमवीथिभट्टारकं प्रति 'आत्मानं मानुषं मन्ये' इति वदन् रामः कथं जटायुषो मोक्षं दत्तवान् इति पप्रच्छ । सोऽपि 'सत्येन लोकान्' इत्युक्त्या महतीं बहुमतिं अवाप्तवानित्यैतिह्यमत्र ज्ञेयम्-गो.
  467. लोकस्य-लोकं प्रति, प्रियवादिनः स्वस्य के प्रत्यप्युक्तमप्रियं वाक्यं न स्मरामि-सोऽहं त्वत्कृते प्रियं राममप्रियं कथं वक्ष्यामि-ति. न स्मरामि-स्मर्तुमपि न शक्नोमि,
    सः-तादृशोऽहं-गो.
  468. प्रियं राममित्यन्वयः
  469. इदं तिलकेऽनूदितम्
  470. अविहिंसा-ङ.
  471. गतः-प्राप्तः निश्चितो वा अन्तः, चरमकालः यस्य सः
  472. त्वं मृत्युमाविशेः-ङ.त्वं मृत्युमाविश-च.
  473. अधर्मः-प्रतिशाभङ्गरूपः– गो. अधर्मः-ज्यैष्ठ्यातिक्रमकृतः, निरपराधस्य त्यागकृतश्च ति.
  474. अचेतनम्-ङ.
  475. कथयिष्यसि । लोकैरिति शेषः । स्वार्थण्यन्तात् हेतुमण्णौ रूपम्-ति.
  476. उपकारिण्याः कैकेय्याः किं प्रत्युपकृतमिति यदा कथयिष्यन्ति तदा किं प्रतिवक्ष्यसि-गो.
  477. प्रसादात्, प्रयत्ने-ङ. प्रसादमेवाह-या चेति.
  478. कृतं-ङ.झ.
  479. किल्बिषत्वमिति । अत्र 'किल्बिषं त्वं ' इति क्वचित्-च. पाठो दृश्यते । एतत्पाठे मत्वर्थीयाजन्तात् भावप्रत्ययाश्रयणक्लेशोऽपि नास्ति.
  480. सजातीयेष्वेकेन कृतमपयशः सर्वानपि स्पृशति–'सर्वे राजान एवं विधा' इति-गो.
  481. इदं चाख्यानं महाभारते वनपर्वणि श्रूयते । श्येनकपोतीये-श्येनकपोतयोः विरोधे प्राप्ते इति गोविन्दराजीये ॥
  482. प्रथमं कपोतप्रतिनिधित्वेन तत्तुल्यं स्वमांसं तुलायां निक्षिप्तवान् । तस्मिन्नपर्याप्ते च अन्ततः स्वयमेव तुलामारुरोहेति.
  483. तेन राजा-अर्कः.
  484. सत्यं समीचीनं, अनृतं-असमीचीनं-गो. नन्वियं रत्यर्था मिथ्यैव मे प्रतिज्ञा तादृशकाले मिथ्यावचनस्य शास्त्रानुमतत्वादिति चेत्तत्राह-सत्यमित्यादि-ति.
  485. 'ते-तव समीपे, आत्मना-प्राणभूतेत भरतेन शपे' इति तिलके । एवं सति 'भरतेनात्मना षाहं' इति पाठः । अन्यथा चकारस्यान्यार्थकत्वं वक्तव्यम्
  486. परं,अशोभनमिति पदविभागः
  487. घोरमिति पूर्वेणान्वेति । तिलके तु–घोरं शपथं-भरतशपथं (भरतेनात्मना वाहं इत्यत्रोक्तं) स्वकृतरामसुकृतादिशपथं वेत्युक्तम्.
  488. शील-वि-असनमिति पदच्छेदो व्याख्यातुरमिमतः । शीलव्यसनं–सद्धृत्तभ्रंशं । 'व्यसनं विपदि भ्रंशे' इत्यमरः-गो. बालाया इति पूर्वार्धेऽन्वेति
  489. इदानीं-प्रौढावस्थायामपि विपरीतबदित्यर्हार्थे वतिः,
    विपरीतार्हं-दुश्शीलार्हं लक्षये-ति.
  490. 'ते-तव समीपे, आत्मना-प्राणभूतेत भरतेन शपे' इति तिलके । एवं सति 'भरतेनात्मना बाहं' इति पाठः । अन्यथा चकारस्यान्यार्थकत्वं वक्तव्यम्
  491. परं,अशोभनमिति पद विभागः
  492. घोरमिति पूर्वेणान्वेति । तिलके तु–घोरं शपथं-भरत शपथं (भरतेनात्मना बाहं इत्यत्रोक्तं) स्वक्तरामसुकृतादिशपथं वेत्युक्तम्
  493. शील-वि-असनमिति पदच्छेदो
    व्याख्यातुरभिमतः । शीलव्यसनं-सद्वृत्तभ्रंशं । 'व्यसनं विपदि भ्रंशे' इत्यमरः-गो. बालाया इति पूर्वार्धेऽन्वेति.
  494. इदानीं-प्रौढावस्थायामपि विपरीतबदित्यर्हार्थे वतिः,विपरीतार्हं-दुश्शीलार्हं लक्षये-ति.
  495. अनृतेन-अनृतपदवाच्येन-गो. पतिविप्रियत्वादिति शेषः
  496. दुःखं दुःख-निमित्तम्। अलीकं-अप्रियम् गो. दुःस्वनिमित्तं अलीकं-अपराधम्-ति.
  497. धर्मतो बलवत्तरं-अतिशयेन धर्मवन्तम्-ति.
  498. 'अपिहितं' इत्यादिपदच्छेदभ्रान्तिनिवृत्त्यथैमाह-हीति पदमिति
  499. रामस्य विवर्णं मुखवर्णं कथं द्रक्ष्यामीत्यन्वयः.
  500. वक्ष्यसि ङ.
  501. अपावृत्तां-अधरोत्तरीकृतां, कथं द्रक्ष्यामि अनुभविष्यामि-गो.
  502. बाल ऐक्ष्वाकः, बत, तादृशः चिरं राज्यमकारयत्किमिति वक्ष्यन्तीत्यर्थः । वस्तुतस्तु पूर्वश्लोकः, छिद्रान्वेषिणां तुल्यकक्ष्याणां राज्ञां, परिहासगर्भितवाक्यरूपः । 'यदा तु' इति द्वितीयश्लोकस्तु स्वहितैषिणां गुणिनां वृद्धानां सानुतापप्रश्नरूपः । एवञ्च 'प्रथमदिने अभिषेकनिश्चयः, द्वितीयदिन एव प्रवासनं इति समीचीनम् ! इति परिहासेन बत । अयं बालो रामः चिरं राज्यमकारयत् इत्यादिकं किं वा मां वक्ष्यन्ति इति लज्जा सूचिता । 'संभावितस्य चाकीर्तिर्मरणादतिरिच्यते' इति न्यायात्.
  503. परिपृच्छन्ति-ङ.
  504. किमित्यधिक्षेपार्थकः । एवञ्चायमर्थः तात्पर्यवशालभ्यते
  505. रामः-ङ.
  506. यद्यपि कैकेय्या क्लिश्यमानेन मया पुत्रः वनं प्रव्राजितः न तु स्वबुध्येति सत्यमेव ब्रवीमि तथापि तदानीं तत्-राममभिषेक्ष्यामीति वचनं असत्यं भविष्यति । तत्त न युक्तं पूर्वमुक्तस्वात्-गो.
  507. किन्तु स्त्रीव्यामोहेन तथा कृतवानित्येव लोको वदेत् इति भावः
  508. श्लोकद्वयमेकान्वयम् । यदा यदोपतिष्ठति-तत्तदुचितकृत्येनोपास्ते, तदा तदा सत्कारार्हा त्वत्कृते न सत्कृतेत्यन्वयः-गो.
  509. तिलके एतदनूद्य एवं व्याख्यातम् । दासीव रतिव्यवहारे, सखीवद्रहस्यकथने, भार्यावद्धर्माचरणे, भगिनीवद्धिताशंसने, मातृवद्भोजनदाने इति । गोविन्द-राजीये त्वेवं व्याख्यातम्–परिचर्याकाले दासीवस्परिचरति ; न महिषीत्वं पुरस्करोति । द्यूतक्रीडादिसमये सखीवद्व्यवहरति । धर्मानुष्ठानसमये भार्यावत्-भार्यया यथा वर्तितव्यं तथा वर्तते, न तु महिषोत्वाभिमानेन जोषमास्ते । भार्यान्तरविवाहसमये मगिनीवत्-सोदरीवोपलालयति ( न तु त्वमिवाभ्यसूयतीति भावः) । शरीरपोषणा दिदशायां मातृवद्धितपरा तिष्ठतीति.
  510. अनेन भवतीव कौसल्या न कदापि में विप्रियमिच्छत्यपीत्युक्तम्
  511. विप्रकारं-अभिषेक-निवृत्तिम्-ति. विपरीतप्रकारं-गो. अयं भावः–रामस्य यौवराज्याभिषेके निश्चिते तद्विपरीततया भरतामिषेचनं, न तन्मात्रं रामस्य वनवासं च प्रेक्ष्येति.
  512. अप्रियद्वयमेवाह–मां चेत्यादि-ति.
  513. मे मदर्थम् । उपलक्षणमेतत् । रामार्थमित्यस्यापि-ति.
  514. एतच्चाध्याहार्यमिति भावः
  515. प्रवसन्तं- ङ. च.
  516. एतदनन्तरं 'न हि प्रव्राजिते रामे देवि ! जीवितुमुत्सहे।' इत्यधिकम्-ङ.
  517. पूर्वं सतीत्वेन ज्ञातां-इदानीमनेन व्यापारेण असतीं सतीं-असतीत्वेन स्थितां व्यवस्यामि । कथमिव-रूपिणीं दृष्टिप्रियां विषसंयुक्तां मदिरां पीत्वा, नरः, अनन्तरं
    विकारादिना यथा असतीं-दुष्टां अध्यवस्यति-गो. ति.
  518. 'नास्मि विप्रकृता देव' इत्यादिवचनानि पूर्वसर्गोक्तान्यत्र विवक्षितानि ।
  519. व-ङ.
  520. विक्रयिणं-ङ.
  521. धिक्करिष्यन्ति-ङ.
  522. दुःखं कष्टं, कृच्छ्रं कष्टं, अहो कष्टम् ! अहो कष्टम् ! इति यावत्-ति. वाच इति द्वितीयाबहुवचनान्तम् । क्षमे इति लट उत्तमैकवचनान्तम् । पुरा कृतमशुभं यथा सह्यं, तथा भवद्वाक्यश्रवणमपि मम प्राप्तम् ।
  523. इव शब्द एवार्थे । अशुभं-अशुभफलम्-ति. गो.
  524. महापापे-ङ.
  525. अपितृकः-पितृकृतरक्षणादिरहितः- गो.
    (पित्रभावे यथा स्यात्तथा संपन्नमिति भावः ।)
  526. वेदैश्व- ङ.च.
  527. इदमर्ध झ.पुस्तके नास्ति ।
  528. एतरेयब्राह्मणमिदम् (३३-२) । इयमाख्यायिका ऐतरेयब्राह्मणे त्रयस्त्रिंशाध्याये द्वितीयखण्डे दृश्यते । एवं भागवते नवमस्य सप्तमेऽध्यायेऽपि । इयञ्च साऽऽख्यायिका-ऐक्ष्वाको हरिश्चन्द्रो नाम राजा अनपत्यतया दूयमान आसीत् । नारदस्तमभ्येत्यो- वाच, त्वं पुत्रार्थं वरुणं प्रार्थय "मम पुत्रो यदि जायेत; तेनैव पशुना त्वां यजामीति" इति । हरिश्चन्द्रोऽप्येवं प्रार्थयामास । अथ च तस्य पुत्रोऽजनि । तस्य रोहित इति नाम कृतम् । तदवगत्य वरुणः– “सुतो जातः खलु ते, तेन मां यज त्वद्वचनरीत्या" इति पप्रच्छ । हरिश्चन्द्रस्तु पुत्रप्रेम्णा यष्टुमनिच्छन् “इदानीमेव जातः पुत्रः । दशदिन-पर्यन्तमाशौचेन स अशुद्धः । तदनन्तरं यजामि" इत्यवदत् । दशदिनानन्तरं वरुणः पुनरागत्य पप्रच्छ । हरिश्चन्द्रस्तु-पुत्रस्य दन्ताः जायेरन्; तदानीमेव सर्वावयवपूर्त्या स यागयोग्यी भवेदित्यवदत् । वरुणः पुनरपि पप्रच्छ दन्तोत्पस्यनन्तरम् । तदापि सः इमे दन्ताः न स्थिराः, एतेषां पतनानन्तरं पुनरन्ये दृढा दन्ता जायेरन् । तदा यजामीत्यवदत् । तथैव वरुणः पुनरागच्छत् । तदानीमपि हरिश्चन्द्रः-अयं च बालः । यदायं तरुणः पूर्णवृद्धिर्भवति तदैव समीचीनो यागायेत्यब्रवीत् । सोऽपि वरुणः तथैव पुनरागच्छत् । तदानीं तु व्याजान्तरं वक्तुमसमर्थो हरिश्चन्द्रः स्वपुत्रं रोहितमाहूय सर्वे वृत्तान्तमकथयत् । स तु रोहितः पित्रे क्रुद्धः पितृवचनमुललंघ्य धनुरादायारण्यं प्रत्यगच्छदिति ॥
  529. इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे-ङ. च.
  530. शेषे अवशिष्टे ममेष्टे कौसल्यादिरूपे जने किं पापं-दुःखसाधनं प्रतिपत्स्यसे-करिष्यसि-ति.पापं-अन्याय प्रतिपत्स्यसे-चिन्तयसि-गो.
  531. कौसल्यां, सुमित्रा-ङ.
  532. हास्यति-हीना भविष्यति । चात्सुमित्रा । यदि पुत्रौ च, चाद्रामं मां च एतैर्यदि हीना भविष्यति तदा देवी-कौसल्या सुमित्रा च ति. गोविन्दराजीये तु-कौसल्यां-इति पाठः । देवी सुमित्रा ॥ अत्र वाक्यशैलीपर्यालोचनायां ९० तमश्लोकदर्शने च त्रयाणां विवक्षा अङ्गीकरणीया । तत्र 'राघवे इत्यत्र स्वदुर्गतिः, 'मृते मयि' इत्यत्र कौसल्यादुर्गतिः,'कौसल्यां मां च' इत्यत्र सुमित्रादुर्गतिश्चोच्यत इति युक्तम् । एवञ्च 'कौसल्यां' इति
    पाठः स्वरस इव । एवञ्च जनः-कौसल्यारूपः विवक्षितः । अन्यथा 'पुत्रौ' इति द्विवचनान्वयार्थं वाक्यभेदाश्रयणं, 'देवी' पदस्य सुमित्रापरत्वं च शपथमात्रनिर्णेयं स्यादिति.
  533. राज्ञः शोकाविष्टत्वाद्विसंष्ठुलवाक्यप्रयोगो न दोषाय-ति एवं च वाक्यद्वयात्मकमिदं श्लोकमिति भावः.
  534. अत्र नरकशब्देन दुःखं लक्ष्यते-गो.
  535. एतावता अक्षोभ्यं-इदानीं आकुलं क्षुभितम् । एवं इतरत्रापि
  536. एतदनन्तरं- 'हन्तानार्ये ममामित्रे सकामा भव कैकयि' इत्यधिकं-ङ.
  537. त्वं राजपुत्री-वादेन' इति गोविन्दराजीयपाठः ॥ अकीर्यादित्रयरूपा त्व राजपुत्रीव्यपदेशेन मम वेश्मनि
    न्यवसः-गो.
  538. अत्र 'न्यवसः' इति-तिलके-गोविन्दराजीये च पाठः । यतो न्यवसः-अतः अकीर्तिरित्याद्येतत्सर्वं भविष्यतीति शेषः-ति.
  539. प्रसन्नाः-ङ.च.
  540. कस्य-केनोपदिष्टं, यद्वा-कस्य सह्यमिति शेषः-गो. वस्तुतस्तु एतादृशं दारुणं वाक्यं कस्य वा स्यात्-न कस्यापीत्यर्थः । दुःखातिशयादर्धोक्त एव विरामः
  541. मपीरितं-ङ.च.
  542. कौसल्यास्मरणेनाह–न ब्रवीमीत्यादि,
  543. अत्र मन्निमित्तमित्येव प्रायः पाठः-ङ.
  544. कुपितं जगत्स्यादित्यत्रोक्तकोपप्रकारमाह-परित्यजेयुरित्यादि । अनेन अनर्थसाधनभाववत्तोपपादिता-ति.
  545. कृतानुरागाः-ङ.
  546. त्वां प्रतीति शेषः-गो.
  547. पश्यन्निव-ड.च.
  548. आव्रजन्तं मत्समीपे आगच्छन्तं श्रुत्वेति शेषः । आगच्छन्तं श्रुत्वा दर्शनेन-चक्षुषा पश्यन्निव नन्दामि-ति. आव्रजन्तं दर्शनेन-मानसज्ञानेन पश्यन्नपि नन्दामि-गो. मत्तमातङ्गगामिनं' इत्याद्युक्तरीत्या । अथवा दर्शनेन-चक्षुषा इत्यर्थः । आगच्छन्तं तं मनसा स्मरन्नपि नन्दामीति भावः.
  549. विनाऽपि-ड. झ.
  550. हिशब्दो अपीत्यर्थे-ति.
  551. प्रवृत्तिः-संचारः, वज्रधरपक्षे-जीवनविषयप्रवृत्तिः-गो.
  552. अहितानां-शत्रूणां अभिभाषणशीला भव, मदाप्तानामभावात् । अभिहर्षिणीति पाठे तेषां हर्षदा भव-ति.
  553. भवाभिभाषिणी-ङ.च.
  554. व्यसनप्रहारिणि-वार्धक्यरूपापदि पुत्रवियोगकारिणि-ति. व्यसने-रामविरहे पुनः पुनः प्रेरणं-प्रहारः-गो.
  555. रसना-ङ
  556. गुणैर्नित्यं सर्वेषां सम्मते.
  557. प्रताम्य–ग्लानिं भज ।
    ताम्यतेलोण्मध्यमपुरुषैकवचनम् । एवं प्रज्वल-कुपिता भव । प्रणश्य-नष्टा भव । सहस्रशः स्फुटिता सती, महीं व्रज-भृगोः
    पत वा-गों. प्रताम्य-ग्लायस्व । प्रज्वल-अग्निप्रवेशेन । प्रणश्य-विषेण । कुद्दाल-प्रहारैः सहस्रशः स्फुटितां—कृतगर्तां महीं व्रज वा-ति.
  558. स्फुटितां-ङ. च.
  559. एतावता यत् प्रियंवदत्वं आसीत्, तद् मिथ्येत्यर्थः ।
  560. जीवतीं-ङ.
  561. मनोरमां-ङ.
  562. अमनोरमामिति पदच्छेदः-गो.
  563. त्मवता-ङ.
  564. तादृशदुःखानर्ह-गो.
  565. अनर्थरूपा-पापरूपा-गो. अभीता-लोकापवादाभीता । भयदर्शिनी-दशरथस्येति शेषः । यद्वा अभयदर्शिनी-दशरथस्य (प्राण) भयमपश्यन्ती वरमुद्दिश्य आकारयामास-संबोधयामास-गो. भयदर्शिनी-रामाद्भरतस्येति शेषः-(ति).
  566. पापदर्शिनी-ङ.
  567. कत्थसे-ङ.
  568. कथ्यसे-जनोरति शेषः ॥ कत्थसे-इतिपाठे श्लाघसे इत्यर्थः
  569. नाशयितुमितिवार्थः
  570. सुखिता भव-ङ. भव कैकयि-झ.
  571. एतद्व्याख्यारीत्या-पूर्वार्धमेकं वाक्यम् । तत्र, पृष्टः कथं प्रत्युत्तरं वदिष्ये-इति शेषः । द्वितीयार्थं तु भिन्नं वाक्यम् । गोविन्दराजीयरीत्या, सर्वमेकवाक्यं-रामस्य
    कुशलं प्रति पृष्टोऽहं मदुक्तात्प्रत्यादेशात्तैरभिहितनिन्दादिकं कथं धारयिष्ये-इति ।
  572. मयेत्यनन्तरं इतिकरणं द्रष्टव्यं-गो.
  573. तदसत्यं भविष्यति-"श्वस्त्वाह-मभिषेक्ष्यामि यौवराज्ये परन्तप" इति पूर्वोक्तमसत्यं भविष्यति-गो. प्रियकामेन-प्रियेण वरेण । असत्यं भविष्यति-असत्यं मंस्यन्त इत्यर्थः । कामुकतया प्रत्याख्यात इत्येव मंस्यन्त इत्यर्थः-ति.
  574. पूर्वस्मिन्नेव सर्गे व्याकृतत्वादित्यर्थः
  575. अदुःखार्हस्य रामस्य दुःखमकृत्वैव यद्यद्यैव मम मरणं भवेत्- तदानीं सुखमवाप्नुयां-एवं मरणे वराप्रदानजन्यदोषोऽपि न । जीवतो हि सा प्रतिज्ञा-ति. गो. 'स्वर्गेऽपि खलु रामस्य' (६ श्लो.) इत्येतच्छेषभूतोऽयं श्लोकः
  576. किं-किमर्थं-गो.
  577. अत्रियामा-यामत्रयवत्वं विहायातिदीर्घा-गो.
  578. 'न प्रभातं त्वयेच्छामि' इत्युत्तरत्र प्रार्थनानुरोधेन एवमावृत्त्य योजना कृता ।
  579. द्वादशसर्गे अष्टपञ्चाशश्लोके 'विपरीतवत्' इत्यत्र स्वार्थे वतिरिति व्याख्यातम् ॥ आर्तवत्-रोगपीडित इव इत्यपि योजना कृता-ति. गो.
  580. रात्रिं प्रति प्रार्थयते-न प्रभातमिति ॥ अन्यथा 'निशे' इत्यस्यासाधुतापत्तेः । अतस्तिलकोक्तव्याख्यानं श्रेयः । तथा हि-हे निशे ('तवेच्छामि' इति पाठः) तव प्रभातं नेच्छामि। हे भद्रे निशे एवं हि तस्याः कल्याणदत्वम् । प्रभाते रामविवासनभयादिति भावः । मे-मह्यं दया क्रियताम् .
  581. तवेच्छामि-ङ. च.
  582. अथवा त्वया गम्यताम् । (निर्घृणायाः फैकेय्या दर्शनापेक्षया प्रभाते मम मरणमपि श्रेय इति भावः) रात्र्यपगमे हि प्रजासन्निधानेनैतद्दर्शनं न स्यात् । यद्वा-रामविवासनेन मरणे वा मम, तस्या दर्शन न स्यादिति भावः-ति. स्वयेति पाठे-त्वया गतया जायमानं प्रभातमित्यर्थः-ति.
  583. वृद्धस्य-ड.
  584. त्वद्गतस्य-त्वदेकशरणस्येत्यर्थः-गो. गतायुषः-अल्पावशेषमदीतायुषः । गत-प्रायायुष इति वा.
  585. शून्ये-निर्जनप्रदेशे “शून्यं बिन्दौ च निर्जने " इति हैमः । इदं रामाभिषेचनं रहसि न समुदाहृतम् । अपि तु सर्वजनसन्निधावित्यर्थः-गो. ति. यद्वा शून्येन-दीनेन मया । यद्वा-त्वद्गतस्थेत्युक्तरीत्या गस्थन्तरशून्येनेत्यर्थः । यद्वा-शून्ये-दयादिगुणशून्ये समुदाहृतम् । न ह्यरण्यरुदितं कृतं, अपि तु गुणवस्येवेत्यर्थः । तदेतदाह-सहृदया ह्यसीति ।
  586. समुपाहृतं- ङ.
  587. रामोऽपि-ड.
  588. मवाप्नुहि- ङ.
  589. ताम्रेक्षणस्य । दुःखानिशयेनेति शेषः-गो.
  590. भयमोहमूर्च्छितः-ङ.
  591. अतुष्टां इति तिलके पाठः । एतावदुक्त्यापि अतुष्टां रामाववासने बद्धश्रद्धामिति यावत् । वस्तुतस्तु-अदुष्टामित्येव स्वरसः पाठः । तस्या धिक्करणहेत्वभावोऽनेनोक्त: । मया प्रतिज्ञातं वरं खलु याचते सा,अतः कथं सा दुष्टा, प्रत्युत तदुल्लंबने अहमेव दुष्टः स्यामिति सत्यपाशबद्धस्य राज्ञ आशयः ।
  592. प्रियामतुष्टां-ङ. च. झ.
  593. तद्वरं-घ.
  594. पुत्ररत्नं-घ.
  595. विचेष्टमानमिति कुत्रचित्पाठः । तदा विशब्दो विप्रियमित्यादाविव नञर्थः । अचेष्टमानमित्यर्थः-स.
  596. ऐक्ष्वाक-ङ.च.
  597. अत्र-इवशब्द एवार्थे, गोविन्दराजीये तु 'कृत्वैव' इत्येव पाठः
  598. याच्यमानः-ङ.
  599. उद्धृत्य सुमना-ङ.
  600. सत्यमन्वितः-सत्यं प्राप्त सस्यानुरोधात्-सस्यस्थापभयात्, स्वस्थां मर्यादां सुलयामपि वेलां समये चन्द्रोदयरूपे वृद्धिसमयेऽपि नातिवर्तते-ति.
  601. सत्यसम्मितः-ङ.
  602. 'स्वां' इति पुलिङ्गान्ततया परिणतमाकृष्टमस्य विशेषणम्
  603. एकपदं-प्रणवरूपैकपदवाच्यत्वात् प्रणवरूपं ब्रह्म-ति । एकं-मुख्यं, पदं-पद्यत इति पदं परमप्राप्यं ब्रह्म यद्वा–एकं पदं प्रणवरूपं वाचकं यस्य तत्तथा । ओमित्येकाक्षरं ब्रह्म' इत्यादिस्मृतेः-गो.
  604. अभिकामार्थं प्रीत्यर्थं-धर्माभिवृध्यर्थमिति यावत्-गो.
  605. धर्मस्यैवाभि, धर्मस्य हित-ङ. च.
  606. ममाद्येमं-ङ.झ.
  607. उपेन्द्रद्वारा इन्द्रकृतं-गो.
  608. युगचक्रयोरन्तरं मध्यं प्राप्य परिभ्रमन् धुयों यथा अनड्वानिव-ति. युगचक्रयोरन्तरं परिस्पन्दन्-गच्छन्- गो.
  609. गतः-ङ.
  610. विकलाभ्यां-ङ.च.विकृताभ्यां-ङ.
  611. पूर्वार्धे विद्यमानं 'प्रति' इति पदे देवलीदीग्नयेन अभिषेकमित्यनेनाप्यन्वेति ।
    अभिषेकं प्रति मां स्वरयिष्यतीत्यन्वयः
  612. अभिषेकाय हि जनः-ङ.झ.
  613. पूर्वाश्लोकादारभ्य 'रामः कारयितव्यो मे' इत्यन्तमेकं वाक्यमिति व्याख्यातॄणामाशयः । वस्तुतस्तु- राभिषेककालः सन्निहतः, देवि ! स्वयाऽत्र न विघ्नः कार्य इति पूर्वश्लोकेन राजा कैकेयी प्रार्थयामास । पुनस्तस्या दृढमध्यवसायं स्वस्य सत्यपाशबद्धतां चालोव्याह-रामाभिषेवेत्यादि । श्लोकद्वयमेकान्वयि । एवं सत्यपि, अशुभावारे रामाभिषेचनं यदि व्याहन्तासि-वरनिर्बन्धं यदि न जहासि, तदापि न भरताभिषेचनसंभवः, यतोऽहं रामाभिषेकविघ्नमसहमानो म्रिये ।
    रामाभिषेकार्थमुपकल्पितैः संभारैः मम सलिलक्रियैव संपद्येत। तथा च 'अनेनेवाभिषेकेन' (11-25) इति रीत्या न भवदिष्टसिद्धिः । तत्रापि राम एव मस्सलिलक्रियां कारयितव्यः, न तु त्वत्पुत्रेण सलिलक्रिया कार्या इत्यर्थः इति
  614. यदि रुष्टा त्वमिति शेषः.
  615. लुट्, मध्यम पुरुषैकवचनम्
  616. तथासुखमिति बहुव्रीहिः,तथामुखवन्तमित्यर्थः । तथामुखमिति गोविन्दराजीये पाठः तादृश सुखयुक्तमित्यर्थः ।
  617. अत्र जनपददर्शनेन–पूर्वमपि १५तमे श्लोके 'अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्' इति पाठः स्वरस इव । प्रजामिप्रायविरुद्धतया नाहं किञ्चित्कर्तुं शक्नोमीति सूच्यते
  618. पुण्या-प्रभाता पुण्यसाधनप्रभातकालावच्छिन्ना । यद्वा निरन्तररामचिन्तासमेतत्वात्पुण्या-ति । पुण्येत्युक्तिः अनन्तरं रामदर्शनसंभवात्-गो.
    अथवा-पुण्या-मनोज्ञा "पुण्यस्त्रिषु मनोज्ञे स्यात्" इति विश्वः । अथवा-परिपूता-" पुण्यं तु सुन्दरे । सुकृते पावने धर्मे" इति कोशात् । यतः सा शर्वरी पुण्या-अत एव राज्ञो नाधर्मे प्रवृत्तिरासीत्। अथापि कैकेय्या अधर्म एव प्रवृत्तिरासीदिति "पापसमाचारा" इत्यनेनोच्यते ।
    प्रायः प्रभाते हि सर्वप्राणिनां धर्माभिरुचिः स्वाभाविकीति भावः ॥
  619. वाक्यं गररुजोपममित्यपि पाठः । विषजनितव्याधिसदृशमिति भावः । सन्निपातादाविव किमिदं पूर्वापरविरुद्धं भावस इति यावत्वाक्यमङ्ग
  620. अक्लिष्टं भावे तः । क्रियाविशेषणं वा । क्लेशो यथा न स्यात्तथेत्यर्थः
  621. नुन्न-ङ.
  622. अनेन रामाववासन गत्यन्तराभावान्मनागनुज्ञातमिव । स तु रामो मद्वचन नोल्लङ्घयेदित्यमिप्रयन्नाह-धार्मिकमिति.
  623. प्रभातां रजनीं-प्रभातायां रजन्यां-गो. प्रभाता रजनीं 'दृष्ट्वा' इति शेषः । कवेरपि वर्णनीयमयीभावेन शोकाविष्टत्वान्नयूनपदादिकं न दोषाय-ति
  624. समाहिते-ङ.
  625. एतदनन्तरं "विचित्रकुसुमाकीर्णो नानास्त्रग्भिर्विराजिताम्" इति अधिकं-ङ.
  626. विपणः-विक्रयणक्रिया | "विपणो विक्रयः" इत्यमरः । पदार्थानां समृद्धत्वात् विक्रयणक्रियाया अपि समृद्धत्वं- समृद्धविक्रयणक्रियाविशिष्टापणशालिनीमित्यर्थः ।
    बहुव्रीहिगर्भबहुव्रीहिः
  627. अन्तःपुरं श्रेष्ठं-ङ.
  628. 'यष्टिमद्भिः' इति पाठान्तरम् । इदं ब्राह्मणविशेषणम् ।
    'धारयेद्वैणवीं यष्टिं' इति स्नातकर्मप्रकरणोक्तेः । यद्वा-यष्टिधरै राजसेवकैरित्यर्थः-ति.
  629. सदश्वैः परमाचितैः, सदस्यैः परमार्चितैः-ङ.
  630. परमर्षिमिरावृतः-ङ.
  631. विनिष्क्रान्तं स्वगृहादिति शेषः । प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलंकृत्यागत इति सूचितम्-गो. युक्तं चैतद्व्याख्यानम् 'प्रविवेश' इत्युत्तरत्र (४३) उक्तेः
  632. वसिष्ठः तमुवाचेति पूर्वेणान्वयः
  633. आहृतमिति वचनलिङ्गव्यत्ययेन यथायोग्यं सर्वत्रान्वेति.
  634. क्षौद्रं-मधु 'मधुक्षौद्रं' इत्यमरः.
  635. केसरी-प्रशस्तकेसर हरिश्रेष्ठः-अश्वोत्तमः-गो. ति.
  636. 'समिद्धश्च हुताशनः'-ङ.
  637. व्याघ्रचर्मेत्यर्थः-गो.
  638. 'नैगमो वणिजा वणिक्' इत्यमरः.
  639. समुदिते मुहूर्तगुणैरिति शेषः । यथा रामो राज्यमवप्नुयात तथा राजानं स्वरयस्व-ति. समुदिते-सम्यगमिव्यक्ते-गो. वस्तुतस्तु 'यथासमुदिते-यथोक्त एव' इत्यर्थः स्यात् । ('उक्तं भाषितमुदितं इत्यमरः) वचने सम्यकत्व-'पुण्ये' इत्यादिनोच्यते । पूर्वनिर्दिष्ट एव सुमुहूर्त इति
    यावत्। मा भूच्छुभकालातिक्रम इति भावः.
  640. पुष्ये-ङ
  641. सम्मताः-ङ.
  642. हृद्याभिः-ङ.
  643. यथाकालं-ङ. झ.
  644. तथाऽऽनन्दय न-ङ.च
  645. स्त्वं-क.
  646. इदं च महेश्वरतीर्थाये गोविन्दराजीये च दृश्यते । शिरोमणिस्तु- 'अभास्करोदय इति च्छेदः । भास्करसदृश इत्यर्थः । स च चन्द्र एव' इत्याह । अब्राह्मणमानयेत्यादौ ब्राह्मणसदृशमानयेति बोधस्य वैयाकरणैरभिधानादिति तदाशयः । तिलके तु भास्करोदये-तत्काले प्रत्यूर्मिप्रतिफलिततेजसा तेजस्वी सागरो यथा स्नातुकामान् नन्दति-नन्दयति (अन्तर्भावितण्यतः) तथा नोऽस्मान् प्रीतेन मनसा प्रीतः-अस्मद्विषयक-प्रीत्याश्रयस्सन् नन्दय इत्युक्तम् । स्वरसं चेतदेव.
  647. योऽ-ङ
  648. "भूतधरां-सर्वप्राणिधरां पृथिवीं बोधयति । विशेषणद्वारा पृथिवीबोधनं (विशेषणमत्र सर्वप्राणिवगः) । अथ बोधयामीत्यन्वयः"-गो.
  649. कर्तव्यस्यातिशैघ्रयविवक्षया कृतकौतुकेति निर्देशः
  650. इदं श्लोकद्वयं कतिपयग्रन्थेषु (ङ.च.) नोपलभ्यते.
  651. अहर्निशमुपस्थितं-ङ.
  652. प्रतिबुध्यस्व राजर्षे-ङ.
  653. उपतिष्ठति-ङ.
  654. अभिषेचनं-अभिषेकसामग्री
  655. स्वयं-ङ.
  656. पूर्वे दशरथेन "अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्" (अयो. ४-१६) इत्यादिना स्वस्य राज्येऽभिलाषानिवृत्तिपूर्वकं रामाभिषेचनस्य प्रतिज्ञातत्वात्, इदानीमनभिषेचने अराजकत्वं स्यादित्याशयेनैवं सुमंत्रेणोक्तम् । अथवा-"दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् । आचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्" (अयो. १-४३) प्रायेण च निमित्तानामीदृशानां समुद्भवे । राजा हि मृत्युमाप्नोति (अयो. ४-१९) इत्यादिभिः, सुमन्त्रेणापि दशरथमरणस्य सन्निहितत्वेन ज्ञातत्वाद्रामानभिषेचने अराजकं राज्यं स्यादित्युक्तमिति
  657. करुणं-दीनवाक्यं-गो. शृण्वतां करुणाजनकमिति यावत् ।
    क्रियाविशेषणं वेदम् ।
  658. सोपहासवाक्यमिदम् । अथवा-इष्टवियोगजन्यत्वाद्दुःखस्य, इच्छातारतम्यानुविधायित्वाद्दुःखतारतम्यस्य च, रामाभिषेके यावत्यधिकेच्छाऽऽसीद्राज्ञः, तद्विच्छेदेऽपि तावदे दुःखमभूत् । एवञ्च यतो राजा रामहर्षसमुत्सक आसीत्, तत एवेदानीं प्रजागरपरिश्रान्तो वर्तते, तद्विच्छेदादिति सोपहासं निगूढं चोच्यते कैकेय्या.
  659. कामहर्ष- ङ.
  660. एतदनन्तरं 'अश्रुत्वा राजवचन कथं गच्छामि भामिनि । तच्छ्रुत्वा मन्त्रिणो वाक्य राजा मन्त्रिणमब्रवीत् ॥ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ।' इत्यधिकम्-ङ.
  661. राजशासना-दित्युक्तिः, अप्रतिषिद्धमनुमतमिति न्यायात् । अत एव चिन्तयामासेत्युक्तिः । कुतस्साक्षाद्राज्ञैव नोक्तमिति चिन्ता । अनन्तरसर्गे २५तमश्लोकोऽत्र द्रष्टव्यः.
  662. सह-युगपत् ॥ उपस्थानं-सदः गो.
  663. उष्य-यापयित्वेत्यर्थः
  664. उपस्थानं-सदः-ति. गो.
  665. निगमस्य-पुरस्य-"निगमो निश्चये वेदे पुरे" इति वैजयन्ती-गो.
  666. यस्मिन् लग्ने रामस्य जन्म-तस्मिन् कर्कटके स्थिते सतीति योजना
  667. तिर्यग्वाहाः समाहिताः-ङ.
  668. प्राग्वाहाः-पूर्वाभिमुखप्रवाहाः–गोदावर्यादयः ॥ ऊर्ध्ववाहाः-ऊर्ध्वोद्गतप्रवाहाः-नैमिशारण्यस्थ-ब्रह्मावर्तादिसरोविशेषाः । ऊर्ध्ववाहाः-प्रत्यग्वाहा इति केचित् । ऊर्ध्वाद्वहन्तीत्यूर्ध्ववाहाः निर्झरा इति केचित्-गो.
  669. क्षीरं-जलम्.
  670. इदमर्धमधिकं । किञ्चेदं कुत्रचित् 'क्षौद्रं दधि' इत्यादेः पूर्वमेव | तथा 'वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः । लीलावत्यः सुभ्रुवश्च लोलनेत्राश्च सर्वशः ॥इत्यधिकं च-ङ.
  671. सलाजाः-ङ.
  672. अभिषेकाय पुरस्कृतं-गो. अभिषेकसामग्रीमुख्यं-ति.
  673. एतच्छलोकानन्तरं "प्रसृतश्च गजः श्रीमानौप-बाह्यः प्रतीक्षते । अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥" इत्यधिकं-ङ.
  674. सर्वान् भौमान् महीपतीन्-ङ.
  675. रामं, अभि प्रस्थित इत्यन्वयः । राममानेतुं प्रस्थित इति तात्पर्यम् । ग्रामं प्रस्थित इतिवत्प्रयोगः
  676. अयं पृच्छामि-ङ
  677. संप्रतिबुद्धस्येत्येकं पदं वा । पुराणविदिति साभिप्राय-
    वचनम् । सुमंत्रस्य विदितपूर्ववृत्तान्तत्वमनेन सूच्यते । दशरथस्य पुत्रशोकान्मरणरूप-शापकथा, कैकेयीविवाहकाले कैकेय्यां जातायैव राज्यदानरूपप्रतिज्ञा च सुमंत्रेण ज्ञाते एव ।
    अत एव पूर्वं 'सुमंत्रश्चिन्तयामासे'त्युक्तिः । २८ तमश्लोकटिप्पणी द्रष्टव्या
  678. सद्भिः आसक्तमिति वार्थः ।
  679. शयनीयं-शयनयोग्यं गृहम- गो.
  680. यवनिकापर्यन्तगमनं सृतानामनुमतमिति भावः
  681. राज्ञा आह्वानमन्तरा स्वयमन्तःपुरे राजदर्शनस्यानुचितत्वात् स्वागमनसूचनाय स्तवः । तेन च राजा स्वयमाह्वयेदिति भावः
  682. एतदनन्तरं-यथा साङ्गाश्च वेदा वै ब्रह्माणं बोधयन्ति ते । तथा त्वां धीर बोध्यामि ह्युत्तिष्ठ पुरुषर्षभ-इत्यधिकम्-ङ.
  683. रात्रिः अहरिशवमुपस्थितम्-ङ. च.
  684. तेऽभिकाङ्क्षन्ते-ङ.
  685. प्रतिबुध्य-ज्ञात्वा । यवनिकान्तर्हितमपि तं ध्वनिना सुमंत्र प्रत्यागतं ज्ञात्वेति यावत्.
  686. तिलके-'अभिहितो मया' इति पाठः । 'आनयेति पाठे तु उपलक्षणं मया चेत्यस्य । पूर्वं राज्ञा स्वयमप्युक्तेः' इति चोक्तम् । एतत्परिशीलने-पूर्वसर्गे 'नात्र कार्या विचारणा' इत्यन्तकैकेय्युक्त्यनन्तरं 'अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ।
    तच्छ्रुत्वा मंत्रिणो वाक्यं राजा मंत्रिणमब्रवीत् । सुमंत्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ।' इत्यधिकः पाठः तिलकसम्मतः । इदं तु न कतकसम्मतमिति स्पष्टम् । गोविन्दराजस्याप्यसम्मतमेव ।
    अत्र तिलके कतकव्याख्यामनूद्य, उत्तरश्लोके पुनः पदास्वारस्य
    दूषणमुक्तं । कैकेय्याशायाः स्वेष्टत्वेन 'पुनः' इत्यपि युज्यत एव । अत एव पूर्वः 'सुमंत्रन्वितयामास' इत्यपि स्वरसम् ॥
  687. किमिदं कारणं-ङ. च. झ.
  688. कैकेयीविवाहकाले तत्पुत्रायैव राज्याभिषेचनं यद्दशरथेन प्रतिज्ञातं तत् ज्ञातमेव सुमन्त्रेणापि । एवञ्च कैकेयीसम्मतिमन्तरा रामाभिषेचनमसंभवि । कैकेयी चैतावता रामविषयेऽतिहृष्टैव वर्तते । यतस्तथा 'रामे वा भरते वापि विशेषं नोपलक्षये' इत्युक्तम् ।
    एवञ्चेदानीं कैकेय्या अनुमतिप्राप्तथर्थमेव रामं राजाऽऽनयतीति मन्यते सुमंत्रः । अत उक्तं 'प्रियं महत्' इति । यद्वा-श्रीरामावतारो यदर्थः, स इदानीं संपत्स्यत इत्यभिप्रायो वा तस्य स्यात्.
  689. प्रसन्ने-ङ.
  690. स्वार्थे वतिः-गो.
  691. 'महाकवाटविहितं' इत्यपि पाठः । निर्मितमहाकवाटमित्यर्थः-गो. प्रातस्समयत्वान्महाकवाटपिहितं । महाकवाटगतस्वल्पद्वारस्यैवोद्घाटितस्वात्-ति.
  692. एकं प्रधानं अग्र पुरोभागः यस्य-ति. एकाग्रं-निरन्तरं । यद्वा काञ्चन-प्रतिमाभिरेकानि मुख्यानि अग्राणि-शिखराणि यस्मिन्- गो.
  693. शरत्कालिकाकाशगत-मेघवदुन्नतं स्वच्छं च.
  694. पञ्चमस्य पञ्चमे श्लोके-अभ्रे विद्यमानो घनो मेघः ।शारदपदेनानन्तरं कर्मधारयः इति यावत्-इत्युक्तम् अधिकं तत्रैव द्रष्टव्यम्.
  695. माल्यैश्च-ङ.
  696. तिग्मतेजसा-अतिशयितशोभया । यद्वा प्रतिविम्बितसूर्यकिरणैः-ति.
  697. अतितेजसा सूर्यसदृशमपि चक्षुष आवर्जनेन चन्द्रसदृशं चेति भावः
  698. इदं क्रियापदं एकोनचत्वारिंशच्छलोकपर्यन्तं सम्बध्यते
  699. आदरात्पुनरपि रामवेश्मवर्णनम्
  700. उन्मुखैः-उत्सुकैः-ति.गो.
  701. 'कुब्जकैरातकावृतं' इत्यपि पाठः-गो. कैरातकः-किरातसमूहः.
  702. कुब्जकैरातकावृतम्-ङ.
  703. राजपथं- ङ.
  704. पराभिघातरक्षार्थावरणं वरूथः । तृतीयान्तं
    सर्वे रथविशेषणम् । पुरस्य-पौरस्य
  705. रामगृहा-ङ.
  706. जनस्य-ङ.
  707. उल्बणं-व्याप्तं । यद्वा बण शब्द इति धातुः ।
    शब्देन विशिष्टं ॥ समाकुलं अत एवोल्बणमित्यर्थः । उल्बणां-अधिकशोभावत्-ति.
  708. 'रामाभिषेकार्थकृताः' इत्यपि पाठः-गो. रामाभिषेकार्थे प्रयुक्ताः इत्यर्थः । तत्सम्बन्धिनीरिति यावत् । इदं गिर इत्यस्य विशेषणम् ॥
  709. महामेघाधिरूढपर्वतसदृशं-ति. महामेघतुल्यं, महीधरतुल्यं चेति वार्थः । आकारे महीधरतुल्यं । न तावन्मात्रम् यतो महीधरो निश्चलः । अतो महामेघतुल्यं चेत्युक्तं । महीधरो ह्यगः, अयं तु नागः । न+अगः.
  710. प्रभिन्नं-मत्तं । 'प्रभिन्नो गर्जितो मत्तः' इत्यमरः
  711. तदद्रि-ङ.ततोऽद्रि-च
  712. 'अद्रिकूटाचल' इति पाठे- अद्रिशिखरेण, अचलमेघेन च सन्निभमित्यर्थः-गो. तिलके तु-'अद्रिशृङ्गे आरूढो योऽचलो मेघः' इत्युक्तम् ।
  713. प्रविविक्तां-जनसम्बाधरहिताम्.
  714. प्रविभक्तां-ङ.
  715. प्राप्तकार्मुक-ङ.
  716. 'प्रासकार्मुक' इत्यत्र 'सुपां सुलक्' इति द्वितीयालुक्-ती. मृष्टं-शोधितं.
  717. काषायिणः-काषायवस्त्रधारिणः । रामप्रीत्यर्थं-
    मलङ्कारकञ्चुकालंकृतानित्यर्थः-गो.
  718. स्त्र्यध्यक्षाः-अन्तःपुराध्यक्षाः-कञ्चुकिन इति यावत्.
  719. एतदनन्तरं इति करणं द्रष्टव्यम्.
  720. मभ्यागतं- ङ.
  721. राघवप्रिय-ङ.
  722. प्रियकाम्ययेति । पितुरिति शेषः
  723. सीतया-ङ.
  724. चैत्रपौर्णमास्यां चित्राख्यतारकोपेतं उदितं
    शशिनमिव स्थितं-गो.
  725. विहारशयनासन इति द्वंद्वैकवद्भावः-गो. विहारः-आहारादिसर्वे व्यापाराः, तेषु तद्विषय इत्यर्थः । सुखं पृष्टृत्यन्वयः.
  726. 'गतवत्-बाल-२३ सर्गे द्वितीयश्लोकवत् इत्यर्थः
  727. देवी च इति कथनात् एवं वा रामस्याशयः स्यात् ॥ उत्तरत्र "पुरा भ्रातः पिता नस्स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्वाज्यशुल्कमनुत्तमम् ॥" (अयो. १०७-३) इति हि रामो वक्ष्यति ॥ न ह्येतदिदानीं विस्मृतं स्यात् । 'विप्रोषितश्च भरतो यावदेव पुरादितः । तावदेवाभिषेकस्ते प्राप्तकालो मतो मम।' इति दशरथवाक्येऽ(अयो. ४-२५)प्ययमर्थः स्पष्टः । अत एवेदानीं निगूढमुच्यते-लक्षयित्वेति ॥ भरतासन्निधौ रामाभिषेचनरूपं राज्ञोऽभिप्रायं ज्ञात्वा राजानं सत्यप्रतिशं कर्तुकामा अत एव सुदक्षिणा मद्धितार्थे-ममावतारप्रयोजनसिद्धये वा राजानं समीचीनमार्गे संचोदयति इत्यर्थः । अस्य गूढोक्ति-रूपत्वात् 'यौवराज्येऽभिषेक्ष्यति' इत्यनेन न विरोधः ॥ यद्वा- वालिवधसमये स्वस्यभरतादेशानुवर्तित्वेन प्रकटनात्तथोक्तमिति.
  728. अभिषेचनसंहितं-अभिषेचन-सम्बन्धि-गो.
  729. मदर्थं मदिरेक्षणे-ङ.
  730. 'महाराजं' इति पदं तिलके पूर्वश्लोकेनान्वितम्। 'महाराजं' 'राजानं'(१६ श्लो.) इति हर्षवशात्पुनरुक्तिरदोषाय इति समर्थितं च। हितकामा-लोकस्येति शेषः । महाराजं-भर्तारं अनुवर्तिनी मे अर्थकामा भवतीति शेषः । पूर्वश्लोकादारभ्य 'यादृशी परिषत्तत्र' इति पर्यन्तश्लोकस्वारस्यपरिशीलने रामेण निगूढं किञ्चिदुच्यत एवेति स्पष्टं विमर्शकानाम् । निगूढमुक्तोर्थ एवोत्तरत्र अयो. १०७-३ श्लोके रामेण स्पष्टीकृत इति ॥
  731. परं-ङ.
  732. एभिर्विशेषणैः सीताया अपि वनगमनं ज्ञातमेवेति सूच्यत इति तिलके.
  733. लोककृत्-ब्रह्मा-गो. राजमूये योऽभिषेकः तदर्हं कर्तुं इत्यर्थः । राज्यं कर्तुमित्यत्र कर्तु-दातुमित्यर्थः
  734. प्रहृत्वसूचकाञ्जलिपुटवन्तं-ति. अजलिपुट इति मत्वर्थीयोऽच्प्रत्ययः । प्रह्वश्वासावञ्जलिपुटश्चेति कर्मधारयः । प्रह्व अञ्जलिपुटं यस्येति बाहुव्रीहिर्वा । राज्ञां निर्गमनसमये भृत्याः खलु स्वाञ्जलिपुटमधः प्रदर्श्य "इत इतः" इति मार्गे प्रदर्शयन्तीति राजमर्यादा। लक्ष्मणस्त्वात्मानं रामदासमेव मन्यते स्मेति प्रसिद्धम् । अत एव द्वारीत्यपि स्वरसम्
  735. राजन्तं-ङ.
  736. असम्बाधं-विशालम्
  737. आकाशे स्वनवान् पर्जन्य इव दिशोऽभिनादयन् महेन्द्राच्चन्द्रमा इव निकेतान्निर्ययाविति । रथारूढस्वादाद्यमुदाहरणम् । सौंदर्यवत्त्वे द्वितीयमुदाहरणम् जुगोप-आतपादिभ्य इति भावः-गो.
  738. नभिनन्दयन्-ङ.
  739. महाभ्रादिव-ङ.
  740. चित्र,चन्द्र-ङ.
  741. तस्य निष्क्रममाणस्य, 'पुरतः' इति शेषः । जनौघस्य
    हलहलाशब्द इत्यन्वयः-ति.
  742. हयनागशब्दौ तदारूढपरौ-गो.
  743. वदि अभिवादनस्तुत्योरिति धातुः
  744. नन्दतीति समीष्यान्निर्देशः
  745. सिद्धयात्रं-सिद्धगमनं-सिद्धगमनप्रयोजनं.
  746. मुपस्थितम् -ङ.च.
  747. राजमार्गस्थः-गमनकाल इति भावः.
  748. उपलक्षणे तृतीया । आत्मसंपूजन-विशिष्टा वाच इत्यर्थः.
  749. इदमर्धं-ङ.च.पुस्तकयोर्नास्ति ।
  750. आत्माधिकाराः-आत्मानमधिकृत्य प्रवृत्ताः.
  751. श्रियं गमिष्यन् गच्छति-श्रियं प्राप्तुं गच्छतीति यावत् । गमिष्यन् राजगृहं, राजप्रसादाद्विपुलां श्रियं गच्छति-प्राप्नोति । राजगृहं गच्छन् श्रियं अवाप्स्यतीति वक्तव्ये व्यत्येयेन कथनं,राजगृहगमनपर्यन्तमेव विलम्ब:, राजगृहप्राप्तौ तत्क्षण एव श्रियः प्राप्तिरिति सूचनाय ।
  752. मातृकास्वं दृश्यते । दृश्यन्ते तु सर्वत्र ४८ श्लोकाः
  753. अलंकारार्थाः चिह्नरहिताः-पताकाः । राजचिह्नसहितानि-ध्वजानि.
  754. मध्येन-तत्र तत्र-इति वार्थः । प्रथमश्लोके 'महार्हागरुधूपितं' इति वर्णनं नगरसामान्यस्य । द्वितीयश्लोके तु विशिष्य
    राजमार्गस्यातिशयविवक्षयेति न पौनरुक्तयम्.
  755. कौशांबरस्य च संचयैः-शोभमानं-इत्यन्वयः
  756. अविद्धामिः-अकृतरंध्राभिः-नूतनाभिरिति यावत्-गो.
  757. अविद्धाभिश्च-ङ.
  758. असम्बाधं-विस्तीर्णे-ति.
  759. असंबाधैरित्युत्तरत्राप्यन्वेति.
  760. पुष्पैः-ङ.च.
  761. पतिर्यथा-ङ.च.
  762. ततः-तस्मात्-तदपेक्षया सुखतरं वत्स्याम इति भावः
  763. अलमद्यहि भुक्तेन-ङ.
  764. भुक्तेन-ऐहिकविषय-भोगजसुखेन । परमार्थैः-स्वर्गसाधनैश्च-ति. परमार्थैः-परमपुरुषार्थसाधन-भूतैः-गो.मोक्षसुखमपि मास्तु-ततोऽप्यस्य रामदर्शनस्य सुखतरत्वादित्याशयः.
  765. यथाऽभिषेकं इति-ति. गो. पाठः । यथा प्रियतरः न तथान्यत्प्रियतरमस्तीति भावः.
  766. यदा-क.
  767. तदा-क.
  768. उदासीन इति । धीरोदात्तत्वादिति भावः
  769. आत्मसंपूजाजननीरित्यर्थः-गो.
  770. स भवेल्लोके-सर्वलोकेषु ङ.
  771. स्वात्माप्येनं विगर्हते-स्वान्तःकरणमप्येनं विशेषेण गर्हते-गो.
  772. चतुर्णां वर्णानां मध्ये सर्वेषामपि वयःस्थानां-वयः स्थानं प्रमाणं यस्याः सा-तादृशीं
    वयोऽनुरूपामिति यावत्-दर्या कुरुते-गो.ति. वयस्थानां वृद्धानां इति वा-गो. वस्तुतस्तु वयःपदं वयस्सामान्यवाची ।
    तत्तद्वयसि स्थितानां तत्तद्वयोऽनुगुणं पुरस्कारादिकं ददातीत्यर्थः । वृद्धानां पुत्र इव, बालानां पितेव, समानां सखेव च वर्तत इति यावत् । "बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।” "पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।" "पिता पुत्रानिवौरसान्""पितेव परितुष्यति" इति खलूक्तम् । चक्रवर्तिकुमारस्य एवं वर्तनं हि सौलभ्यसूचकं इत्यभिप्रायेण 'दयां' इत्युक्तम् ।
  773. अप्रदक्षिणं परिहरन् प्रदक्षिणं यथा तथा जगाम-गो. चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्-ति. वस्तुतः- प्रदक्षिणं यथा तथा चतुष्पथादीन् स्वदक्षिणभागे परिहरन्-त्यजन् जगामेत्यर्थः
  774. वर्धमानगृहैः-वर्धमानलक्षणाधिष्ठानसमेतगृहैः-गो. अत्युन्नतनिर्माणायारब्धगृहैः-ती. वर्धमानगृहैः-दक्षिणद्वाररहितैः । उक्तं च-'पश्चिमद्वारहीनं तु नन्द्यावर्ते प्रचक्षते । दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् इति-सत्य.
  775. सन्नियम्य-ङ.
  776. शुद्धान्तःपुर-ङ. च.
  777. मातृकासु अस्मिन् सर्गे १८ श्लोका निर्दिष्टाः । दृश्यन्ते च सर्वत्र २२ श्लोकाः । अतश्च व्याख्यागतिपरिशीलनयाऽधिकपाठाः कुण्डलिताः
  778. आसने-पर्यङ्के-गो.
  779. विषण्णं-ङ.
  780. विनीतवदिति । सर्वलोकोत्तमस्य रामस्य लोकशिक्षार्थमेव विनयप्रदर्शनमितिवतिना सूचितम्-सत्य.
  781. स्सन्-घ.
  782. दशरथविषादस्य स्वापराधजन्यत्वशङ्कया भयं रामस्य-ति.
  783. शोक-ङ.च.
  784. समुद्रस्य पर्वकाले क्षोभहेतुः-हर्षं एवेति कविभिः खलु कल्पितः । न ह्यचेतनस्य हर्षसंभवः । अपि तु पर्वकाले स्वाभाविकः संरंभः । तद्वद्रामोऽपि पितृवैमुख्यं दृष्ट्वा झटिति संरब्धतरोऽभूदिति दृष्टान्तानुरूप्यम्.
  785. किमाश्वासः-ङ.
  786. विषण्णवदनद्युतिः किन्नु ? इति प्रत्येकं प्रश्नान्तरम् । तिलके तु-उत्तरार्धगतरामविशेषणमित्युक्तम्
  787. सदा मां प्रति वत्सलोऽप्यद्याप्रसन्नमनाः, मां किन्नु नाभिभाषत इत्यन्वयः.
  788. विषण्ण-ङ.च.
  789. मातॄणामिति निर्धारणे षष्ठी-गो. एतेषां विषये मम-मदीयं अशुभं-अपराधः न कच्चित्
  790. अतोषयन्नित्यादेरुत्तरार्धेण वान्वयः । हेतौ शतृ । कुपित इत्युक्तकोपे हेतुः. व्याख्यारीत्या तु अतोषयन्नित्यर्धे भिन्नं वाक्यम्.
  791. जीवितं-ङ.
  792. मूलं प्रवृत्तिहेतुभूतं, आत्मनः-स्वस्य, प्रादुर्भावं-प्राकट्यं, यतः -यस्मात्-शि. प्रादुर्भावं-जन्म, मूलं स्वप्रादुर्भावापादकं तपआदि च यतः-पितुस्सकाशात्पश्येत्-सत्य.
  793. ते अभिमानात्-तव वालम्यात्-गो.
  794. कोपेन येनास्य-ङ.
  795. लुलितं-कलुषितं.
  796. सुनिर्लज्जा-यशः-प्रख्यापनरूपपत्युपकारार्थं-त्यक्तव्रीडा । आत्महितं-जीवानामुपकारकम् । धृष्टं प्रागल्भ्यरहितं-शि.
  797. दार्ढ्योपेतं-घ.
  798. त्वदिति भिन्नं पदं वा । 'भीत्रार्थानां' इत्यपादानपञ्चमी
  799. मम-ङ.
  800. दादामीति-ङ.
  801. मद्विवाहकाले हि त्वत्पित्रा मयि यो जायते तस्मै राज्यदानं प्रतिज्ञातम् । तादृशपूर्वप्रतिज्ञानिर्वर्तनायैव मयापीदानीं निर्बेध्यत इति वा भावः । तर्हि किमर्थं देवासुरसंग्रामदत्तवरद्वयेन निर्बंधनमिति चेदत्र वक्तव्यं-विवाहकाले तथोक्तत्वात् कदाचिद्राजा धार्ष्ट्यादुत्पथं गच्छेदित्यादि
    उत्तरत्र व्याख्यात्रैव वक्ष्यत इति (अयो.-107, 3-श्लो.).
  802. ब्रूञ् व्यक्तायां वाचि' इति धातोरुभयपदित्वात् लृटि वक्ष्यत इत्यपि रूपम् । केचित्तु वक्ष्यत इति कर्मणि रूपं, 'राजा' इति च तृतीयान्तमित्याहुः-सत्य.
  803. शुभं वाशुभंवा राजा यदि वक्ष्यति तर्हि करोम्येव । तर्हि किमर्थं 'आख्यास्यामि पुनस्त्वहं' इति उच्यते इति शंकां समाधत्ते यदि त्वभिहितमित्यादिना । राजा तु-साक्षान्न वक्ष्यत्येव । अतो राज्ञो विवक्षितमहमेव वक्ष्यामीत्यर्थः । राज्ञाऽभिहितं चेद्यदि करोषि, तमेवाभिप्रायमहमेव वक्ष्ये । वक्ता को वा भवतु । राज्ञस्त्वभिमतमेवेति भावः । एतदेवस्पष्टीकृतं श्रीरामेणापि 'तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्' इति ॥
  804. 'तमार्जवसमायुक्तं' इत्यनुपदं दर्शनात् एवं व्याख्यातम् ।
  805. देवासुरयुद्धान्तर्गते महारणे-दशरथकर्तृकावान्तरशम्बरासुरयुद्ध इत्यर्थः । तेन न पौनरुक्त्यम् । महारणे सशल्येन मया रक्षितेन ते पित्रा मम वरौ दत्तौ इत्यन्वयः.
  806. सशल्येन-ङ.च.
  807. मया रणे-ङ.
  808. पूर्वं सशल्येनेति शेषः
  809. तत्र वरप्रदाननिमित्तं-गो.
  810. कर्तुमर्हसि-ङ.
  811. सन्निदेशे-सर्वत्र.
  812. यदनेन-ङ.
  813. अभिषेचनं-अभिषेचनोपकरणं यदेतत् राज्ञा त्वदर्थे विहितं तेन सर्वेण भरतोऽभिषिच्येतेत्यन्वयः.
  814. जटाजिन-ङ.
  815. पुरे-ङ.
  816. संकुलां-ङ.च.
  817. एतेन-एतत्कारणकेन, कारुण्येन-दैन्येन
  818. इवशब्देन अन्यान्यपि परुषाणि बहून्युक्तानीति गम्यते-गो.
  819. कोपम्-ङ.
  820. जटाजिन-ङ
  821. 'मम वनवासं राजा स्वयं नादिशति खलु' इति राज्ञे भवता न मन्युः कार्येति व्याख्यातुराशयः । गोविन्दराजीये-"मनुः-दैन्यं 'मन्युदैन्ये' इत्यमरः" इत्युक्तम् । वस्तुतस्तु-'मत्स्वभावशीलादिकं ज्ञात्वापि राजा मां किमर्थं नाभिनन्दति । स्वयं कुतो वा नादिशति' इति रामेण निर्वेदादुक्ते 'तर्हि राज्ञः साक्षादादेशादेवायं वनं गच्छेत्किम् ? मम वचनेऽस्य विश्वासो नास्ति वा' इति कुपितां देवीमिङ्गितैर्ज्ञात्वा श्रीरामः कैकेयीं प्रसाद्य विश्वासमुत्पादयत्यनेन वाक्येनेति तु स्वरसम् ॥
  822. अनेन मम वनवासविषये राज्ञ आदेशं नाहं प्रतीक्षे। किन्तु भरताभिषेचन-रूपसन्तोषवृत्तान्तमपि न राजा वदति खलु, 'भरतामिषेचनं मम सन्तोषाय न स्यात् इति राजा मन्यते किम् ? इत्येव मम दुःखमिति सूचितम्
  823. सीतां-धनुर्भङ्गकाल इति भावः-गो. यद्वा-भरतायेत्येतत् राज्यं चेत्यारभ्यैवान्वेति-औचित्यात् । अथवा भरताय-भरतप्रयोजनानुवर्तनायेत्यर्थः मम सीतापरित्यागेन यदि किञ्चत्प्रयोजनं भरतस्य स्यात्तदा सीतामपि नून त्यजेयमिति भावः
  824. भरतायाप्रचोदितः-ङ.
  825. भरतसुखषपत्तये भरतस्नेहादेव सर्वे त्यजेयं चेत् किमुत पित्रा नियुक्तः तवाभिमतेष्टसिद्धय इति भावः । भरतायाप्रचोदित इति पाठे-केनाधप्यप्रचोदिताऽपि, स्वयमेव भरतसुखमंपत्तये सर्वै त्यजेयं चेत् पित्रा प्रचोदितः किमु । तत्रापि भवदभिमतसिद्धिः, भरतसुखसंपादनं, राजनियोगपरिपालनं चेत्यनेकफलसिद्धिर्हि एकेनैव मम कर्मणेति सन्तोषातिशयः । अतः 'स्वयमेव' इति द्विवारमुक्तम्
  826. हीमं तं. भीतं तं-ङ.
  827. पितुर्वाक्यमविचार्य-वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वा-गो.अथवा अविचार्य-अविगणय्य विशिष्य पित्राज्ञामप्रतीक्ष्येति यावत् ।
  828. रामो यावद्भरतागमनं विलंबिष्यते चेत्तदा न स्वेष्टं सिध्येत, भरतस्य रामभक्तत्वादित्याशयेनाह-तवेत्यादि.
  829. नैतत्किञ्चिदिति । सहजेयं व्रीडेति भावः
  830. मन्युः-राजा स्वयं नाभिभाषते खलु-इति कोपो वा
  831. धिगिति-उक्तासत्यवचनं श्रुत्वा-गो.
  832. गतव्यथः-'श्रुत्वा न विव्यथे' इति पूर्वोक्तावस्थातः ईषदप्यचलन् । यद्वा-आगतव्यथः इति वा पदम् । आत्मक्लेशे अव्यथमानः पितुः क्लेशात् प्राप्तव्यथ इत्यर्थः
  833. वाक्यमब्रवीत्-ङ.
  834. दारुणोदयं-क्रूरोपक्रमम् । आरंभप्रभृति कौर्यविशिष्टमिति वार्थः
  835. अहं अर्थपरः-धनपरः न, किन्तु लोकमावस्तुं जनं संगृहीतुं नोत्सह इति वा-ती. लोकमावस्तुं-लोके वस्तुं नोत्सहे-ति. अथवा-अर्थपरस्सन् लोके वस्तुं नोत्सह इत्यर्थः । 'तव त्वहं
    क्षमं मन्ये' इत्यादिवाक्यश्रवणजरोषादिवमुक्तिः । तत्रापि 'यावत् त्वं न वनं यातः इत्यादिवाक्यश्रवणेन दशरथमूर्च्छया रोषः । अत एव 'न नूनं मयि' इत्यनुपदमेवोक्तिः.
  836. विमलं-ङ.
  837. एतावता 'देवि' इति सम्बोधयितुः, 'कैकेयि' इतीदानीं संबोधनेन रामस्य कैकेयीविषये किञ्चिदिव कोपो वा जुगुप्सा वा जातेति वक्तुं शक्यते । इदमपि 'लोकमावस्तुं' इति श्लोकटिप्पण्युक्तार्थे उपाद्वलकं भवति.
  838. मुख्यानाशंससे गुणान्-ङ.
  839. अद्यैव गन्तव्यमित्युक्तं, तत्र किञ्चिद्विलंबं याचते-यावदिति-गो.
  840. दण्डो नाम राजा इक्ष्वाकुपुत्रः शुक्राचार्यपुत्री अरजां प्रधर्षितवान् । तेन कुपितस्य शुक्राचार्यस्य शापात् तद्राज्यमेव काननमभूदिति उत्तरकाण्डे ८०-८१ सर्गयोर्दृश्यते । दण्डकेत्यत्र कन् कुत्सायाम्. ॥ २५ ॥
  841. पितृप्रतिज्ञानिर्वर्तनं यथा मम धर्मः तथा भरतस्यापि स धर्मः । अतः भरतः पालयेद्राज्यम् । पित्रा वरद्वये दत्ते तयोरेक एव मया निर्वर्तनीयः, अन्यश्च भरताभिषेचनरूपो यथा निर्वर्तेत तथा भवत्या कार्यम् । अहं खलु त्वद्वचनादिदानीमेव वनं
    गच्छामि, अतस्तवैवायं भार इति भावः
  842. महास्वनमिति क्रियाविशेषणम्
  843. लक्ष्मणस्यापि
    रामेण सहागमनं १६ सर्ग एवोक्तम्
  844. शनैः-न तु ससंभ्रमम् । अनेनोद्वेगाभाव उक्तः
  845. सापेक्षः-ङ.च.
  846. सापेक्षः-वनं प्रतीति शेषः-ति. भरताभिषेकरूपप्रार्थनासहितः-गो.अपेक्षा-उपेक्षा-सापेक्षः-उदासीनो वा.
  847. लोककान्तस्य शीतरश्मेः-चन्द्रस्य कान्तत्वं-सौन्दर्ये यथा क्षपा नापकर्षति, प्रत्युत वर्धयति तथेत्यर्थः
  848. क्षयः-ङ.
  849. 'त्यजतश्च वसुंधरा' इत्येव बहुषु पाठः । वनं गन्तुकामस्येस्यनेनैव राज्यत्यागस्याप्यार्थिकत्वात् 'गच्छतश्च' इति पाठो व्याख्यात्राऽऽदृतः । एवं सत्येव सुखदुःखयोः समत्वमुक्तं भवतीत्याशयः
  850. त्यजतश्च-ङ.च.झ.
  851. दुःखहेतुरुच्यते-'मातुरप्रियशसिवान्' इति
  852. आकारः-इङ्गितम् । अन्तर्गतभावावेदकः बाह्यावयवगतचेष्टाकान्त्यादिविशेषः
  853. आत्मजं-स्वभावजम् । आत्मनि-शरीरे जातं स्वाभावसिद्धं हर्षचिह्नम्-ति.
  854. धर्मात्मा-ङ.
  855. मुद्राऽन्वितः-ङ.
  856. सुहृज्जनस्य आत्मविपत्तिशङ्कया-प्राणनाशशङ्कया विक्रियां न जगाम-स्वविक्रियास्फुरणे सुहृज्जनो नश्येदिति शङ्कया स्वविक्रियां नादर्शयत्-गो. अर्थविपतिं-अर्थं-भ्रंशं वीक्ष्यापि रामो विक्रियां न जगाम; किन्तु सुहृज्जनस्य कौसल्यादशरथादिरूपस्य
    आत्मनां-प्राणानां विपत्तिशङ्कया चिन्तां जगाम-ति. आत्मविपत्तिशकुया-प्राणनाश-शङ्कयाऽपि-ती. अत्र उत्तरसर्गस्थं 'इदं हि तव दुःखाय वैदेह्या लक्ष्मणस्य च' इति वाक्यं स्मर्तव्यम्
  857. अनन्तरसर्गे २७ तमश्लोकानुरोधादेवं व्याख्यातम्.
  858. कैकेय्यन्तः पुरगतस्त्रीणामित्यर्थः । पूर्वोत्तरश्लोकपरिशीलनायामिदं स्पष्टम्
  859. गतिः-स्वष्टसाधकत्वेन प्राप्यः । शरणं-रक्षकः-गो.
  860. सुतोऽद्य-ङ.
  861. क्रोधनीयानि-क्रोधहेतुकर्माणि-गो.
  862. जीवलोकं मूर्खजनं चरति-अनुगच्छति केचित्.
  863. 'कृताभिषेका महिषी' इति तूत्सर्गः, यतः-'महिषी नृपयोषिति' इति हेमचन्द्र आह.
  864. व्यालीयत-लज्जादुःखभरेण शय्यायां विलीनोऽभूत-गो.
  865. मायत्तो-ङ.
  866. निश्वसन्-सर्वत्र
  867. निस्वनन्-उच्चैराक्रन्दन्नित्यर्थः.
  868. 'तिष्ठतश्चापरान् बहून्' इति । तिष्ठतः-अनुपविष्टान् । अस्यैकस्यैवोपवेशने हेतुः-वृद्धं परमपूजितमिति.
  869. सहसोत्थिताः-ङ.
  870. जयेति-ङ
  871. बालांश्च वृद्धांश्च-ङ.
  872. द्वाररक्षणे नियुक्ताः स्त्रियः । तासु काश्चिद्बालाः-अल्पयस्काः । काश्चित्तु वृद्धाः इत्यर्थः । द्वाररक्षणतत्परा इति भिन्नं विशेष्यं वा.
  873. प्रियं-रामागमनरूपम्.
  874. रात्रिं-रात्रौ-'कालाध्वनोरत्यन्तसंयोगे'इत्यन्तसंयोगे द्वितीया । यावद्रात्रीत्यर्थः
  875. उत्तमजातिस्त्रीणां वैदिककर्मस्वधिकारो वर्तते- 'आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके'इति स्मृतेः-सत्य.
  876. 'अग्निं जुहोति स्म तदा' इत्येव सर्वत्र पाठो दृश्यते.
  877. कुसरं-तिलौदनम्-गो.
  878. अभिचक्राम-अभिमुखं जगाम
  879. एतदनन्तरं 'पर्यध्वजत धर्मात्मा मात्रा चैव परन्तपः' इत्यधिकम् -ङ.
  880. अभिक्रान्तां-अभिमुखमागतवतीम्
  881. 'चाप्युचितं कुले' इति पाठान्तरम् । कुलस्योचितमित्यर्थः.
  882. सत्यप्रतिज्ञामिति अभिषेक्ष्यतीत्यत्र हेतुः । इदानीमध्यभिषेको नारब्ध इति नाशङ्कनीयमिति भावः-गो.
  883. पश्य जानीहि-गो. अयमेव स्वरसः । लोकोक्तिषु बहुलमुपलंभारप्रकृतानुगुण्याच.
  884. दत्तासने उपवेशनाभावेऽपि स्पर्शमात्रं कार्यमित्यागमात्-गो.
  885. भोजनेन-ङ.
  886. किञ्चित्प्रसाद्याञ्जलिमब्रवीत्-ङ.किञ्चित्प्रसार्याञ्चलिमत्र-ङ.च.
  887. 'व्रीडः' इति घञन्तः पुल्लिङ्गोऽप्यस्ति । व्रीडादब्रवीदिति वाऽन्वयः
  888. पूर्वश्लोकव्याख्यानानुरोधेनैवं वर्णितम् । वस्तुतस्तु यथाश्रुतमेव स्वरसम्.
  889. मधुमूल-ङ.
  890. आमिषं-राजभोग्य वस्तु-'आमिषं पुनपुंसकम् । भोग्यवस्तुनि संभोगे' इति मेदिनी-शि. आमिषं-संभोगं, राज्यलोभं, सुन्दररूपं वा-'आमिषं पलले लोभे संभोगोत्कोचयोरपि इति विश्वः-सत्य. अत्रामिषशब्देन सूतैः संस्कृतं मांसमुच्यते । केवलमांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् 'इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना' (अयो. ९६-२) इति गो.
  891. वन्यानि वानप्रस्थयोग्यानि कर्माणि-गो. वल्कलानि-ति.
  892. नगरे तथा छेदनाभावात् "वने" इत्युक्तम-गो.
    दुःखानर्हत्वसूचकं वेदम् । प्रष्टुरभावाद्वा तथोक्तम्.
  893. मदुःखार्हा-ङ.
  894. अनन्तरसर्गोपक्षेपसूचनायेदमुक्तम्
  895. हे पुत्र त्वं यदि न जायेथाः, अतः-अजननात् भूयः-अतिशयितं दुःख-इष्टपुत्रविश्लेषजं न पश्येयम्-गो. यदि मम शोकाय
    न जायेथाः अतस्तर्हि अप्रजा अप्यहं भूयः-बहुतरमेवंविधं दुःखं न पश्येयम्-ती.यद्वा यदि स्वं मम शोकफलाय केवलं न जायेथाः तदा अप्रजा इत्यतो भूयः-अधिकं दुःखं न पश्येयमित्यर्थः । यद्वा पूर्वार्धमेक वाक्यं, उत्तरार्धे चापरम् । मम शोकाय शोकफलार्थ न जायेथा यदि ! तव जन्म यदि न स्याद्वा, तदा वरमिति भावः । जन्मनो वृत्तसत्वेन तत्प्रतिबन्धासंभवाद्यदीत्युक्तम् । यदि रामस्य जन्मैव न स्यात्तदा अनपत्यताप्रयुक्तः शोको तेऽस्त्येवेत्यत्राह-न स्मेति । तव जन्माभावे अप्रजा इत्यतोऽधिकं दुःखं न स्म पश्येयं-न स्म पश्येयं खलु इत्यर्थः । तदेव स्पष्टयति-एक इत्यादि । वन्ध्यायाः शोको मानस एव, सच एकः-एकरूपः । मम त्विदानीं गर्भधारणप्रसवप्रभृत्यनेकः शारीरः शोकः, मानसोऽपि । स च नैकः, अपि तु बहुविधः । अतः तवाजननमेव श्रेयः स्यादिति
  896. अथापि पुत्रेऽपि चोपन्ने पुत्रनिबन्धनं तदुभयं पतिकर्तृकं पश्येयमिति-ती. पुत्रे जाते तदुभयमुक्तकल्याणं पुत्रदर्शनजं सुखं च पश्येयं-ति. पुत्रे सति तद्बलात्पश्येय-गो.वस्तुतस्तु लोके अपुत्राणां स्त्रीणां पतिसम्माननाभावः, पुत्रोत्पत्तौ पतिसम्माननं च
    प्रसिद्धमेवेति तीर्थोक्तं समीचीनम्.
  897. भूतदुःखमुक्त्वा भविष्यद्दुःखमाह सेति-गो.
  898. अवराणां सपत्नीनामिति वाऽन्वयः
  899. संप्राप्तभवदभिषेकनिरोधेनेत्यर्थः
  900. अतन्त्रिता-अप्रधानीकृता-गो.
  901. मतन्त्रिता-ङ.
  902. भरतः स्वयौवराज्यप्राप्तये स्वयमेव स्वमातरं कैकेयीं रहसि प्रतिबोध्य स्वस्य निर्दुष्टताख्यापनाय बुद्धिपूर्वकमेव स्वमातुलगृहे वर्तत इति कौसल्या मन्यते स्म-वक्ष्यति च सा 'आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः । तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्' (अयो. ७५-५) इति । अत्र दीर्घदर्शिनमिति पदं पूर्वोक्ताभिप्रायेणैवोक्तमिति स्पष्टम् । अत एवेदानीमपि 'कैकेय्याः पुत्रं' इत्युक्तम् । स हि सपत्नीपुत्रः सर्वोपायैरपि मां पीडयितुमुद्यत इति कौसल्या मन्यते स्म
  903. स्वननो-ङ
  904. अतिसन्निहितत्वाभिप्रायेण 'नाभिभाषते' इत्युक्तम्.
  905. मृते च राजनि-ग.
  906. खरवादि तत्-ङ.
  907. 'खरवादि तत्' इति पाठे (गो.) तु नायं केशः.
  908. ननु ऊनषोडशवर्षो मे रामः' (वा. २०-२) इति विश्वामित्रं प्रति दशरथवचनात्, उषित्वा द्वादश सभाः (अर. ४७०४) इत्युपरि सीतया वक्ष्यमाणत्वाच्च रामस्य अष्टाविंशतिवर्षाणि वर्तन्ते, अत्र तु दश सप्त च वर्षाणि' इत्युच्यते । नैष दोषः । अत्र जातस्येस्युक्तिः द्वितीयजन्मापेक्षया । 'गर्भकादशेषु राजन्यं' इति बहुवचनेन
    गर्भनवममारभ्य क्षत्रियस्योपनयकालत्वोक्तेः-गो. यद्वा तव जातस्य
    त्वयि जाते,उपनयनानन्तरं दश सप्त च वर्षाणि दुःखपरिक्षयं प्रकांक्षन्त्या मयाऽऽसितानि | उपनयनप्रभृति सुताः परिणमन्त इति मातॄणां मनसो निर्वृतिर्भवति राजवर्यस्य रघुनाथस्य गर्भनवमे शुद्धाष्टमे वर्षे उपनयनं कृतम् । अतः उपनयनानन्तरं सप्तदशवर्षाणि जातानि-ती. जातस्य-उपनयनाख्यद्वितीयजन्मनेति शेषः । 'ऊनषोडशवर्ष' इति विश्वामित्रं प्रति दशरथोक्त्या विवाहकाले पञ्चदशवर्षत्वोक्तेः । 'तत्र द्वादशवर्षाणि राघवः सह सीतया । रमयामास' इति पाद्मोक्तेश्च । उपनयनं च गर्भेकादशे......'द्विर्दश' इति वाक्यस्यार्थे ।........'दश' इति वाक्येकदेशप्रयोगोऽयम् । द्विरावृत्ता दश-विंशतिः सप्त चेत्यर्थः तादृशप्रयोगश्च कौसल्यायाः पुत्रवियोगदुःखार्ततया, वाल्मीकेश्च वर्णनीयमयीभावेन न दोषायेति बोध्यम्-ति.
  909. आसितानि-ङ. ट.
  910. दुःखं त्वद्वियोगजं, अक्षयं तव राज्यनाशात् क्षयसंभावनारहितमपि; अपि च एवं जीर्णा सपत्नीनां विप्रकारं सहितुं नोत्सहे-ति. जीर्णाऽपि-सपत्नीदुर्वाक्यश्रवणदुःखेन जीर्णाऽपि । विप्रकारं-अपकाररूपं दुःखमित्यन्वयः-गो. एवं जीर्णाऽपि-सापत्न्यकथा-योग्यवयोबलक्षयं प्राप्ताऽपि अक्षयं-निरवधिकं दुःखं सपत्नीनां विप्रकारं-निराकरणं च
    सहितुं चिरं नोत्सहे-ती.
  911. कृपणजीविकाम्-ङ.
  912. मोघं यथातथा दुःखेन संवर्धितः इत्यन्वयः.
  913. दुःखसंवर्धितां, दुःखं प्रवर्तते-ङ.
  914. शतधा-ङ.
  915. स्ववत्सविपत्त्यादिदर्शनेन रुदतीं मृगीं प्रसह्य सिंहो यथा हन्यादिति । स्वपुत्रक्लेशदर्शनापेक्षया मातुः मरणमेव वरमित्यर्थः ।
  916. भेदः-द्विधाभवनं, विधारणं अनेक-छिद्ररेखावत्वम्-ति.
  917. एतादृशेन दुःखेन अर्पितं व्याप्तं देहं च न भिद्यत इति
    यदित्याद्यन्वयः
  918. तु-पूर्वदुःखेभ्यो विलक्षणम्-गो.
  919. काम्यया-ङ.
  920. 'ध्रुवं ह्यकाले मरणं न विद्यते' इत्येतत् सकार्य दर्शयति-यदीति-गो.
  921. ५१ तमश्लोकव्याख्यानावसरे इति शेषः
  922. किन्नरी बद्धं स्वसुतमवेक्ष्येवेतिवान्वयः
  923. अत्र सर्वेषु कोशेषु परिदृश्यमानसंख्यावैरूप्यं चिन्तनीयम्
  924. लक्ष्मणो दीनः, लक्ष्मणोऽदीनं-ङ.
  925. एतेन वक्ष्यमाण लक्ष्मणवचनं केवलं कौसल्याशोकशान्त्यर्थे, न तु सहृदयमिति गम्यते-गो. परन्त्वत्र, अस्मिन्नेव सर्गे २७ तमश्लोको द्रष्टव्यः.
  926. 'स्त्रिया वाक्यवशंवदः' इति राघवविशेषणम् इति ज्ञायते, स्त्रिया वशंगत इत्यनुक्त्वा 'स्त्रिया वाक्यवशं गतः' इति कथनात् । उत्तरश्लोके चोद्यमान इत्यत्र चोदनहेतुः-समन्मथः ' इति साभिप्रायविशेषणे ध्वनितः । तिलके तु स्त्रिया इत्यारभ्य उत्तरान्वयि इति दशरथविशेषणतया व्याख्यातम्.
  927. कथमिव-घ.
  928. 'नापि दोषं तथाविधम्' इति सर्वसम्मतः स्वरसः पाठः
  929. निर्यास्यते-ङ.
  930. अयं श्लोकः बहुषु कोशेषु न दृश्यते । रामस्य अपराधाभावप्रतिपादनपरयोः'नास्यापराधं पश्यामि' 'न तं पश्याम्यहं लोके' इति श्लोकयोर्मध्येऽस्य श्लोकस्यावसरालाभस्तु स्पष्टः
  931. इदं पद्यं झ. पुस्तके नास्ति.
  932. 'न तं पश्याम्यहं लोके' इति प्रायिकः पाठः । एतत्पाठे परोक्षमपीत्यत्र अपिनैव कैमुतिकन्यायेन विवक्षितार्थलाभः.
  933. पश्याम्यहं लोके-ङ.
  934. एव वास्यार्थः । लोके हि एकस्मिन्-पुरुषे, दोषज्ञानमत्यन्तरङ्गजनस्य स्यात्, सदा सन्निहितत्वात् । तच्छत्रूणां वा स्यात्, तद्दोषैकदत्तदृष्टित्वात्। एवमुमयथाऽपि रामे दोषज्ञानासंभवः । अत्यन्तरङ्गैर्मादृशैः, दोषैकदृष्टिभिः शत्रुभिश्च न कोऽपि दोषः ज्ञातुं शक्येतेति
  935. मातॄणामपि-ङ.
  936. वत्सलं-दोषे सत्यपि तदगणनानुकूलः स्नेहो वात्सल्यम्
  937. एतादृशं पुत्रं धर्मस्वरूपं अवेक्षमाणः-जानन् अकारणात् कः त्यज्येदित्यन्वयः । यद्वा धर्ममवेक्षमाणः-धर्मज्ञ इत्यर्थः.
  938. पुनर्बाल्यमिति-पुनःपदस्वारस्यात् बाल्यं-कामपरवशत्वमित्यर्थः स्वरसः.
  939. राजवृत्तं-राजमनीतिं-गो. अथवा वृत्तं चारित्र्यम् । एतादृशस्य कामपरवशत्य राज्ञो यच्चारित्र्यं स्त्रीवचनानुवर्तनरूपम् । अस्मत्पितुर्हि कामपारवश्यात्सदा कैकेय्यनुवर्तनं न नूतनं-अत इदं यत्किञ्चिदित्याशयः । न हि राज्यतन्त्रे स्त्रीमन्त्रणं हितायेति च भावः.
  940. शासनं राज्यं-गो. यद्वा शासनं राज्यनिर्वाहमित्यर्थः । आत्मस्थं-
    स्वाधीनम्
  941. मया गुप्तस्य तवेत्यन्वयः.
  942. समर्थोऽप्रियं-ङ.
  943. सन्तुष्टो-ङ.च.
  944. त्रेताद्वापरयोस्संभावयमवतारः । तदा च किञ्चिदधिकपादेनाधर्मप्रवेशः । तदनुसारेण लक्ष्मणस्यैवमुक्तिः, कैकेय्याश्च परोपदेशेनैवं मतिः, छलेन वालिवघे प्रवृत्तिश्च भगवत इति बोध्यम्-ति.
  945. निस्संग-निस्स्नेहं यथा तथा निर्दाक्षिण्यमिति यावत्
  946. वध्यतां बध्यतामपि-ङ.
  947. एषः-दशरथः.
  948. कृत्वा वैरमित्येव सर्वत्र दृश्यते । त्वया मया च सह वैरं कृत्वेत्यर्थः। चतुर्थ्यर्थे तृतीयेति भावः ॥ दत्तेन-दानेन-गो.
  949. इदं पद्यं कुत्रचिन्नास्ति-ङ. झ.
  950. उन्नत-उच्छ्रितं, प्रवृद्धं अमर्यादमिति यावत् ।
  951. मानसं ङ.च. झ.
  952. चितचित्तम्-ट.
  953. कार्यं-ङ.
  954. 'यदि रोचते' इत्यनेन स्वस्यानभिमतिः सूचिता-ति. गो.
  955. न हि राज्ञा साक्षादुक्तम् । सपत्नी तु यत्किञ्चिन्ममानिष्टानि वदेदेव । अतो न श्रद्धेयमित्याशयः । मम सपत्न्या भाषितं अधर्म्यं वच इत्यन्वयः ॥
  956. एतत्तु वचनं-ङ.
  957. शुश्रूषुः-ट.
  958. मनुस्मरन्-ङ.
  959. शुश्रूषुः-शुश्रूषणं कुर्वन्-ट.
  960. पुत्र !-ङ.
  961. तपसा-ङ.
  962. प्रायं-अनशनव्रतम् । इह-अस्मिन्नेव क्षणे
  963. अधर्मात्-पिप्पलादविषये कृतादपकारात् ब्रह्महत्यामिव-ब्राह्मणनिमित्तका हिंसा ब्रह्महत्येति व्युत्पत्त्या पिप्पलादोत्पादितकृत्यया समुद्रस्य प्राप्तं दुःखं ब्रह्महत्येत्युच्यते । पिप्पलादेन कृत्योत्पादनं च 'पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरि। पाषाणं ते मया दत्तमाहारार्थे प्रकल्पितम्' इति प्रसिद्धम् । साक्षात्समुद्रकर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम् । यद्वा-शुश्रूषुरित्यत्र काश्यपः पूर्वजन्मनि मातृशुश्रूषां कृत्वा तत्फलत्वेन दिवं गत्वा प्रजापतित्वं च गतवानिति पुराणकथा । उत्तरत्र-समुद्रः किल मातृदुःखजनन- रूपाधर्माद्ब्रह्महत्यां-ब्रह्महत्याप्राप्यनरकविशेषान् प्राप्तवानिति पौराणिकी कथा-गो. कदाचिज्जनन्यै दुदोह समुद्रः । तज्जनितावर्मात् पिप्पलादनिर्मिताभिचारिकक्रियायाः प्रतिमन्त्रणेन
    निवारणलक्षणहननात् ब्रह्महत्या समुद्रेण संपादिता । तया चानुबभूव दुःखमिति पौराणिकी कथा-सत्य.
  964. अधर्म्यं वचः श्रुत्वा सपत्न्या मम' (२३) इति कौसल्यावाक्यं साभिप्रायमुत्तरयति-पितुर्वावयमिति
  965. वनचारिणा-ङ.
  966. विपश्चितापि कण्डुनेत्यन्वयः
  967. 'राजर्षेत्यादि' इति मातृकासु.
  968. पितुराज्ञाया भूमिं खनद्भिरित्यन्वयः । इदमुपाख्यानं बालकाण्ड एव वर्णितम्.
  969. इयमाख्यायिका भारते वनपर्वणि ११७ अध्याये, श्रीभागवते नवमस्कन्धे १६ अध्याये च द्रष्टव्या.
  970. देवदेव-ङ.
  971. ते प्रतिकूलं अपूर्वं धर्मं नाहं प्रवर्तये-ति.
  972. अभिप्रेतः-अङ्गीकृतः । सर्वसम्मत इति वार्थः । तेन चन्द्रकृततारागमनादिव्यावृत्तिः । ननु 'दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम्' इति मातृवधादिकं साहसत्वेन निन्दितमिति चेन्न, साहसस्य पितृनियुक्तव्यतिरिक्तविषयत्वात् व्याख्यातृभिस्तदुदाहरणमज्ञानविजृम्भितम् । 'पितुश्शतगुणं माता गौरवेणातिरिच्यते इति तु शुश्रूषानात्रे, न तु वचनकरणे । पितुरेव नियन्तृत्वात्-गो.
  973. मभिप्रत्य-ङ.
  974. पुनः-अनन्तरं-ति.गो.
  975. कौसल्याया व्यसनं त्वदपेक्षया ममैवातिदुःखकरमिति साभिप्रायमाह-ममेति.
  976. मम मातुर्यन्महद्दुःखं तत् सत्यशमयोरभिप्रायमविज्ञाय । तत्त्वज्ञस्य तवेदृशं वाक्यमनुचितमित्यर्थ-ति. गो.
  977. पितृवचनत्वाभावं परिहरति-पितुरिति-गो.
  978. क्षत्त्रधर्माश्रितां-केवलक्रूरधर्माश्रिताम् ।रौद्रशाठ्यसहितक्षत्रधर्माश्रितामिति वार्थः । क्षत्त्रधर्मस्य तथात्वं प्रतिपादितं हि महाभारते राजधर्मे–'क्षत्रधर्मो महारौद्रः शठकृत्य इति स्मृतः' इति । लोकायतवत्केवलनीतिर्नाश्रयणीया । किन्तु धर्ममाश्रिता नीतिरित्यर्थः-गो.
  979. प्रथमप्राप्तं पितृवचनं प्रथमं कृत्वानन्तरप्राप्तं त्वद्वचनमध्यनन्तरमेव करोमीत्याह-तीर्णेत्यादि
  980. स्वर्गाद्भ्रष्ट ययातिः यथा पुनरपि स्वर्गमवाप तथेत्यर्थः ।
    महाभारते उद्योगपर्वणि १२१ अध्याये इयं कथा द्रष्टव्या । यद्यपि ययातेः स्वर्गभ्रंशः देवर्ष्याद्यपचारमूलकः, न तथा रामस्य राज्यभ्रंशः । तथाऽपि यावत्संभवं दृष्टान्तोऽयमिति
  981. पुनः इहैष्यामीत्यन्वयः ।
  982. संभारान्-मच्छ्रेयःप्राप्तये त्वयानुष्ठीयमानाम् इत्यर्थः
  983. गम्यताम्-ङ.
  984. अव्यग्रं-अनाकुलम् । अविक्लवं-अचिह्नत्वम्-गो.
  985. मृतेव भूत्वा पुनस्संज्ञां प्रतिलभ्य इत्यन्वयः,
  986. स्वधर्मेण-पालनादिरूपमातृधर्मेण । सुहृत्तया-स्नेहेन-ति.
  987. स्वधयाऽसृतेनेति पाठान्तरम्-गो. स्वधया-पितृलोकप्राप्यया, अमृतेन-देवलोकेप्राप्येन इत्यर्थः
  988. त्वद्व्यतिरिक्तनिखिलजनसन्निधानेऽपि न मे निर्वृतिरिति भावः.
  989. पूर्वमेव परितप्तो रामः भूयः सन्तप्तोऽभूदित्यर्थः । प्रजज्वाल-किमिदम् ? यन्मामधर्मे प्रबर्तयितुं विलपतीति क्रोधः-ति. अपोह्यमानः-निवार्यमाणोऽपि अध्वानं-मार्गं अनुप्रविष्टो महाराज इव मात्रादिवाक्येन वार्यमाणोऽपि धर्ममनुप्रविष्टो रामः भूयः
    प्रजज्वाल-संरब्धोऽभूत्, स्वमार्ग़ एव स्थितोऽभूदित्यर्थः- गो.
  990. न्तमनु-ङ.च.
  991. एवं मातुर्दुःखं लक्ष्मणेनैव प्रवर्धितमिति प्रथमं लक्ष्मणमेवाह
  992. तदेनां विसृजानार्यां क्षत्रधर्माश्रितामित्युक्तत्वादिति भावः.
  993. त्यजेत्याधुपदिशति-घ.
  994. सुतरां दुःखं-घ.
  995. कामाः-ङ, च.
  996. लोक इति मोक्षव्यावृत्तिः । धर्मफलोदयेषु-धर्मस्य फलभूतानां सौख्यादीनामुदयेषु-प्राप्तिषु समीक्षिताः-उपायत्वेन निश्चिताः ये धर्मार्थकामाः ते सर्वे, तत्र-धर्मे स्यु (सर्वस्यापि मूलभूतो धर्म एवेत्याशयः)-गो.(कतकव्याख्यारीत्या तु- केवलार्थकामौ त्याज्यौ-किन्तु धर्मार्थकामास्त्रय एव मिलिताः सुखहेतुरित्यर्थः) यद्वा-लोके फलसाधनत्वेन समीक्षिता धर्मादयः ते सर्वे तत्र फलोदयेषु स्युः-समर्थाः स्युः- गो.
  997. समीक्षिताः-ङ. च.
  998. सपुत्रा-ङ. च.
  999. सुपुत्रा सती अर्थं-गो.
  1000. यस्मिन्कर्मण्याश्रीयमाणे सर्वे-अर्थादयः त्रयः असन्निविष्टाः-न प्रविशन्ति न संभवन्तीति यावत् ; तदा यतो धर्मः-धर्म एव स्यात्
    तदारभेत। अथवा यस्मिन् कर्मणि सर्वे-धर्मार्थकामा असन्निविष्टाः स्युः-अविद्यमाना भवेयुः-तत्कर्म नोपक्रमेत। यतः यस्मात्कर्मणः- धर्मः स्यात्तदुपक्रमेत-गो. एवं वाऽर्थः-ते तत्र सर्वे स्युरिति पूर्वं एकस्यैव कर्मण फलत्रय- साधनत्वमुक्तम् । यस्मिंस्तु कर्मणि
    पूर्वोक्तरीत्या धर्मादयः सर्वे न सन्निविष्टा भवन्ति- किन्त्वेकैकफलमात्रं, तदा यस्मात् धर्मः
    स्यात्तदेवोपक्रमेत इति
  1001. कामात्मता-ङ.च.
  1002. खल्वति-ङ, च
  1003. मोहात्-ङ.
  1004. यत् व्यादिशेत् तत् धर्ममवेक्ष्य-पितृवचनकरणं धर्म इति ज्ञात्वा-ति.
  1005. नियोगे गुरुः-प्रभुः-गो.
  1006. देव्याश्च भर्त्तेयनेन-मातृवचनापेक्षया पितृवचनमेवावश्यं कर्तव्यम्-स हि पिता मातुरपि पूज्यः इत्यर्थः सूच्यते । उत्तर-श्लोकोपक्षेपश्च.
  1007. स गतिश्च-ङ.
  1008. कौसल्यायाः स्वानुगमनं वारयति-तस्मिन्नित्यादि.
  1009. भर्ता रक्षति यौवने । रक्षन्ति स्थाविरे पुत्राः' इति भर्तृहीनानामेव पुत्रेण वर्तनं युक्तमित्याशयः
  1010. इतः पूर्वं वनगमनं प्रति सीताभिप्रायस्यापरिज्ञातत्वात् 'दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥' इत्युक्तया लक्ष्मणाभिप्रायस्य ज्ञातत्वाच्च 'नः' इत्येतदावयोरित्यस्मिन्नर्थे वर्तते ॥....एवं च सति 'अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहं' इति वक्ष्यमाणलक्ष्मणवचनं चोपपद्यते-गो.
  1011. निमित्तसप्तमीयं-तटिद्वश्यञ्जलजीवितनिमित्तम्-गो
  1012. हृदि प्रदक्षिणं चकार-प्रदक्षिणं कर्तुं सङ्कल्पितवानित्यर्थः-गो.
  1013. सातिशयं यथातथा अमर्षितं-इति वार्थः । श्लोकद्वयमेकं वाक्यम्.
  1014. वसन्तमिव ङ.
  1015. सत्त्वं-अन्तःकरणं धैर्येण धारयन्, अविकृतं यथातथा धारयन्निति वार्थः । अन्तः-करणं निगृह्येति यावत् । तत्रोपपादकं- आत्मवानिति । आत्मवान्-महामनाः । 'आत्मवान् को जितक्रोधः '(बाल. १-४) इति वाल्मीकिप्रश्नस्य 'तेर्युक्तः श्रूयतां नरः' इति खलु प्रत्युत्तरितं नारदेन । तदत्र स्पष्टीकृतम्
  1016. धर्ममा-ङ.
  1017. ४-५ श्लोकयोः पौर्वापर्य-व्यतिक्रमः-गो. ति. युक्तं च तत् । यतो 'निगृह्म' इत्यादिश्लोकः क्रियासाकाङ्क्षः । तस्य च 'हर्षं गृहीत्वा उत्तरत्र कार्यं कुरु' इत्यन्वयः स्वरसः.
  1018. मदभिषेकार्थे-मदभिषेकविषये माता-कैकेयी-सविशंका-लक्ष्मणेन संमन्त्र्य राज्यं रामः पुन किं ग्रहीष्यती'ति शङ्कावती यथा न स्यात् तथा कुरु-तवोच्चावचभाषणेन हि सा तथा मन्येतापि । अहं तु सर्वथा तन्न सहे इति भावः । अनन्तरश्लोकानां स्वारस्य-पर्यालोचनायामयमर्थः स्वरसः.
  1019. अहमेव वा रामस्य सहायतया वनं गत्वा रामं सुरक्षामीति च वदेति च भावः स्यात्
  1020. 'स्मरामीह'-ङ.
  1021. 'कृतमल्पं'-ङ.
  1022. कृतकल्पं-क.
  1023. महेश्वरतीर्थः
  1024. सत्यः-सत्यवचनः, सत्याभिसन्धः-सत्यप्रतिज्ञः, सत्य-पराक्रमः-अमोघपराक्रमः-गो. यथाक्रमं विशेषणत्रयेन वाचि मनसि कर्मणि च सत्यत्वं प्रतिपादितं भवतीत्याशयः
  1025. 'यस्या मदभिषेकार्थे मानसं परितप्यते' इति पूर्वमुक्तत्वात्त तस्यापीत्युक्तम् । एवञ्च अभिषेचनसंभारेऽप्रतिसंहृते कैकेय्या दुःखं पूर्वमुक्त्तम् । न कैकेय्याः केवलं शोकः, तस्यापि राज्ञः शोकः स्यादिति भावः । शिष्टं ६ श्लोकटिप्पण्यां द्रष्टव्यम्.
  1026. अन्वक्-अनुपदं 'अन्वगन्वक्षमनुगेऽनुपदं क्लीबम्' इत्यमरः- गो. भरतागमनं नाहं प्रतीक्षे । अपि त्वस्मिन्नेव क्षणे वनं गच्छाम्यहम् । अनन्तरं भरतोऽभिषिच्यतामित्यर्थः । भरतागमने हि सर्वं व्यत्यस्तं भवेत् । अपि च वरद्वये प्रथमवरनिर्वर्तनानन्तरमेव हि द्वितीयवरनिर्वर्तनं युक्तमिति भावः । अत एव 'अभिषेचयतां ततः' इत्युक्तमिति.
  1027. पुनः-ङ.
  1028. मभिषेचयिता ततः-ङ.
  1029. येन मया इयं बुद्धिः-वनवासबुद्धिः प्रणीता-शिक्षितां मनश्च सुसमाहितं-स्थिरीकृतं तं मां संक्लेष्टुं क्लेशयितुं नार्हामि-गो. येन-ईश्वरेणेयं बुद्धिः कैकेय्याः प्रणीता-मन्थरा-द्वारा दत्ता, मनश्च तद्बुद्धिविषये सुसमाहितं-स्थिरीकृतं तं संक्लेष्टुं-मत्कृतमन्यथाजातमिति क्लेशयितुं नार्हामि । तस्य मदधिकारित्वान्मद्रूपत्वाद्वेति गूढ आशयः । (मत्संकल्पकृत एवायं इत्याशयः)-ति. येन-मन्थरादिजनेनेयं बुद्धिरुत्पदिता तमपि क्लेशयितुं नार्हामि-किं पुनः पितराविति भावः-ती.
  1030. प्रणिहिता येन-ङ.
  1031. कृतान्तः-दैवम् इन्द्रादीनां दुःखनिवर्तकादृष्टमिति यावत्-ति. गो. कृतः अन्तो येनेति व्युत्पत्या कृंतान्तशब्देन काल उच्यते-रामानुज-अन्यथा उत्तरत्र 'दैवोऽयं कृतान्तविहितः' इत्यत्र क्लेशः स्यादिति भावः
  1032. प्राप्तराज्याप्राप्ति, अप्राप्तवनप्राप्तिकारणमिति यथासंख्यमन्वयः
  1033. हि-यस्मात् कैकेय्या मयि मरतादप्यधिका प्रतिपत्तिः-इष्टत्वाभ्युपगमः प्रसिद्धः तमुपचितव्यवहारानुभवादेव तादृश्यास्तस्या मयीदृशो भावः-अभिप्रायः कथं स्यात् । अथ देवो भरताभिषेकप्रापकः सद्दैवविहितः मद्वनवासप्रापककृतान्तविहितः-दुरदृष्टविहितो यदि न भवेत् । दैवकरणकमेव कैकेय्या भाववैपरीत्यं इत्यत्र सहजभावं स्मारयति-जानासीत्यादि.
  1034. पीडन इति परदृष्ट्या.
  1035. भूतपूर्वमिति पाठान्तरम्-गो. ति.
    तदा अन्तरमित्यनेनान्वयः । उत्तरात्रापि लिङ्गविपरिणामेनान्वयः
  1036. वाक्यैरिति हेतौ तृतीया । दैवादन्यत् बुद्धिमेदकारणं न समर्थये-गो.
  1037. अहं पीड्यः यस्य वाक्यस्य तत् मत्पीड्यम्.
  1038. मत्पीडां-ङ.
  1039. भूतेषु-भूताधिष्ठातृषु ब्रह्मादिष्वपि-ति.
  1040. भूतेष्वपि न हन्यते-ङ.
  1041. मयि हस्तगतराज्यभ्रंशरूपः, तस्यां
    पूर्वावस्थितवात्सल्यापगमरूपः विपर्ययः पतितः-प्राप्तः-गो.
  1042. व्यक्तमिति क्रिया-विशेषणमिति भावः । गोविन्दराजीये तु-व्यक्तं-अत्र संशयो नास्ति इत्युक्तम्.
  1043. यस्य नु ग्रहणं किश्चित्कर्मणोऽन्यन्न दृश्यते-ति. पाठः । क्रियत इति कर्म कार्यम् ।
    फलरूपकार्यतोऽन्यत्र यस्य ग्रहणं-ज्ञानसाधनं न दृश्यते-गो. यद्वा अन्यत्रेति पञ्चम्यर्थे तसिल् । फलव्यतिरिक्तात्साधनात् तद्ग्रहणं न संभवतीत्यर्थः
  1044. न्यन्न-ङ.च.
  1045. ननु कर्मणोऽन्यत्रेत्युक्तं, किं तत्कर्म ? तत्राह-सुखदुःख इति-गो.
  1046. भवाभवौ-उत्पत्तिविनाशौ-गो.मङ्गलामङ्गले-सत्य.
  1047. यस्य-ङ.
  1048. गृह्यन्ते-ङ.
  1049. काममन्युभिः भ्रश्यन्ते । कामस्य मन्योश्चानेकत्वात् बहुवचनम्.
  1050. निवर्त्यारब्धमारम्भैः-इति ति पाठः । आरम्भैः यत्नैः आरब्धं-उपक्रान्तं कार्यं निवर्त्य यदसंकल्पितमेव-अचिन्तितमेव अकस्मात्-दृष्टहेतुं विना प्रवर्तते, तत् दैवस्य कर्म ननु-ति
  1051. रब्धमारम्भैः-ङ.च.
  1052. संस्तभ्य, यदि तिष्ठसीति शेषः-ति. तत्त्वया एतया बुद्धया आत्मनाऽऽत्मानं संस्तभ्य स्थितस्य मे अभिषेके व्याहतेऽपि परितापो न विद्यत इति वाऽन्वयः । एवं
    सत्येवानन्तरश्लोकानुरूप्यम्
  1053. तापस्सन्-ङ.च.
  1054. प्रतिसंहारय-ङ.च.
  1055. नञः पूर्वनिपात इत्यर्थः
  1056. राजद्रव्य-ङ.
  1057. महोदयः-महाफलः, राज्यव्यापारक्लेशाभावात्, अपूर्वदर्शनसौख्याच्चेति भावः-गो. पितृवाक्यपरिपालनप्रयोजनवत्वात् महाभ्युदयसाधनम्-ती. स्वावतारोद्देशः तदानीमेव सिध्येदित्याशयः । महान् उदयः-उन्नतिः यस्मात् महोन्नतिसाधनम् इत्यर्थः ।
  1058. 'स्वानभ्युपगमसूचनायाधश्शिरास्सन्.... इवशब्देनास्थिरत्वमुच्यते । उत्तरत्र माध्यस्थ्यत्यागस्य वक्ष्यमाणत्वात्'-गो.
  1059. लक्ष्मणोऽवाक्शिरा-ङ.
  1060. श्रुत्वा-ङ.
  1061. जगामेव मनसा-ङ.
  1062. रामस्य धर्मे स्थैर्यं दृष्ट्वा हर्षः, राज्यभ्रंशा-दुःखमित्येषा मध्यगतिः। अधरिश्शिरस्त्वेनोक्तार्थस्यार्धाङ्गीकारध्वननम्-ति.
  1063. दैन्य-हर्षयोः
  1064. दैन्यहर्षयोः-घ.
  1065. तदा तु कृत्वा-ङ.
  1066. बिलमत्र परबिलं-ति. बिलस्थः-पेटिकाबिलस्थः ; न तु वल्मीकस्थः तदानीं रोषासंभवात्-गो.यद्वा स्वबिलस्थ एव रोषितः-विप्रकृतः.
  1067. अग्रहस्तं-दक्षिणकरं-शि.
  1068. 'हस्तिहस्तं'-गो. हस्तिहस्तसदृशमित्यर्थः । अभीष्टासिद्धिमूल-
    कात्यधिककोपे सति हस्तविधूननं मनुष्याणां स्वभावः । प्रकृतव्याख्याकारस्तु लक्ष्मणसान्त्वनाय रामेण गृहीतमग्रहस्तं लक्ष्मणो विधून्वन्-विमोचयन् इत्यभिमन्यते । तिलकेऽप्येवं व्याख्यातम्
  1069. एवं वाऽर्थः-धर्महानिप्रसक्त्या लोकस्यानतिशङ्कया अनतिः-अपूजा, तद्विषयशङ्कया-लोको मामधर्मिष्ठ इति न पूजयेदिति शङ्कयेत्यर्थः यस्य ते अयुक्तः सुमहान्-संभ्रमो भ्रान्तिर्जाता। धर्महानिलांकनत्यभावो वा सर्वातिशायिनस्ते किं करिष्यतीति
    भावः-गो.
  1070. हे शौण्डीर-समर्थ, दैवमपि निराकर्तुं क्षमेत्यर्थः; क्षत्रियर्षभ-क्षत्रियश्रेष्ठ त्वं अशौण्डीरं-अशूरं तत् दैवं यथा समर्थं वदसि एवं असंभ्रान्तस्त्वद्विषः कथं वक्तुमर्हति–न कथमपि । अशूरः संभ्रान्तः क्षत्त्रबन्धुरेवासमर्थ दैवमनुसर्तुमर्हतीत्यर्थः-गो.
  1071. भ्रान्तं-ङ.
  1072. शौण्डीर क्षत्रियर्षभ-ङ.
  1073. धर्मोपधाः श्लक्ष्णाः-ङ.
  1074. स्वार्थं अभिषेकरूपमस्मत्प्रयोजनं परिजिहीर्षतोः-परिहर्तुमिच्छतोः तयोः-कैकेयी-दशरथयोः सुचरितं-सुष्ठुमन्त्रितं किं न बुध्यसे-गो. ती. स्वार्थे-स्वेष्टसिद्ध्यर्थमिति वा ।
  1075. अयं भावः-भरतायावश्यं राज्यं देयम् । रामस्य ज्येष्ठत्वेन तद्विषयोऽभिषेक आरभ्यते । अन्यथा लोकविरोधः । तदानीं त्वया वरद्वयं प्रष्टव्यम् । तद्व्याजेन रामो विवास्यते,
    भरतोऽभिषिच्यत इति कैकेयीदशरथाभ्यां सङ्केतितम् । अन्यथा सा वरद्वयं किमेतावत्पर्यन्तं न याचेत । अयाचितमपि तत् नीतिज्ञो राजा वा कुतो न पूर्वमेव परिहरेदिति-गो.
  1076. कृतप्रसङ्गः-घ.
  1077. निर्यातयितव्यत्वात्-घ.
  1078. मे तत्र-असहनविषये क्षन्तुमर्हसि-गो.
  1079. प्रसङ्गाद्यस्य मुह्यसि-ङ.
  1080. धर्माभावत्वा-क.
  1081. अभावस्वमेव-क.
  1082. 'यद्ययं' 'यदयं'-ङ.
  1083. एतदनन्तरं 'तवायं धर्मसंयोगो लोकस्यास्य
    विगर्हितः' इत्यधिकम्-ङ.
  1084. धर्मंसङ्गः-धर्मासक्तिर्निन्द्या-ति.
  1085. विघ्नात्मा-घ.
  1086. कुर्यास्त्वं-ङ.
  1087. र्मता-ङ.
  1088. विक्लबः-कातरः, तत्प्रतिद्वन्द्वी-संभावितात्मान इति-गो. विक्लवः लोका-प्रसिद्धः-ति.
  1089. 'यैर्दैवादाहतं' 'यद्दैवादाहतं'-ङ.
  1090. उत्कृष्टः-आकृष्टः,छिन्न इत्यर्थः.
  1091. 'मद्बलेन'-गो. मम बलेनेत्यर्थः
  1092. तदानीमप्यन्येषां नावकाश इति भावः-ति.
  1093. अत्र पाल्यमित्येव व्याख्येयं पदम् । पालशब्दात् घञन्तात् स्वार्थे यम्प्रत्यये पाल्यमिति भावः.
  1094. पालनं-घ.
  1095. ऽभीधीयते-ङ.
  1096. स्तूयते-घ.
  1097. न चेद्राज-ङ.
  1098. 'राज्यं रामत्वमात्मनि' पाठान्तरं-हे राम ! त्वं राजनि-दशरथे एवमनेकाग्रे चलचित्ते-अव्यव-स्थितचित्ते सति, राज्यविभ्रमशङ्कया-राज्यस्य विविधचलनशङ्कया आत्मनि राज्यं नेच्छसि चेत्–(तथा न शङ्कितव्यं-यतोऽहं तव राज्यं सुस्थिरं रक्षेयम् । )-गो.
    'राजन्यस्मत्प्रतिकूले सति कथं मया तत्कर्तुं शक्यम् । यदि राज्ञोऽनभिमतं कुर्यां तदा प्रजाक्षोभोऽपि स्याद्वा' इति न शङ्कनीयमिति भावः
  1099. मङ्गलैः-मङ्गलद्रव्ययुक्तैर्जलैः-गो.
  1100. आबन्धनार्थाय-भूषणतया कट्यां बन्धनरूपप्रयोजनाय-गो.
  1101. स्तम्भहेतवः केवलं लक्ष्यभूतस्तम्भहेतवः । तूण्यां
    स्थापनहेतवः इति वा-गो.-स्तम्भहेतवः समूहीभूय स्तम्भनिर्मापकाः-शि
  1102. अन्वयक्रमाभिप्रायेणैवं प्रतीकं धृतं स्यात्.
  1103. तमहं न कामये-तस्य स्थितिं न कामये-गो.
  1104. कं-ङ.
  1105. अत्रैकवद्भावाभावः आर्षः-सत्य. परन्तु हस्तादीनां प्राण्यङ्गत्वेऽपि हस्त्यश्वादीनां प्राण्यङ्गत्वाभावाद्वा नैकवद्भावः । न च तेषामपि सेनाङ्गत्वमस्तीति वाच्यम् । अथापि सेनाङ्गप्राण्यङ्गयोरेकवद्भावासंभव एव । किञ्चात्रोक्तानां हस्त्यादीनां सेनाङ्गत्व-निर्बन्धोऽपि नास्तीत्यपि द्रष्टव्यम् । व्याख्योक्तयथासङ्ख्यान्वयस्त्वार्थिकः ।
  1106. रथि-ङ.
  1107. इवाग्नयः-ङ.
  1108. द्विपाः-ङ.
  1109. गोधा-ज्याघातावरणं-हस्तकवचः । अङ्गुलित्राणं-ज्याकर्षणसाधनं-अङ्गुलीकवचः.
  1110. सर्वप्रतिबलस्य-घ.
  1111. बहुभिः बाणैरेक शूरमत्यस्यन्-प्रकर्षेण क्षिपन्, एकेन बाणेन बहून् क्षुद्रा नत्यस्यन्-गो.
  1112. कमत्यस्यन्-ङ.
  1113. प्रतापस्य-ङ.
  1114. प्रभविष्यति-ङ.
  1115. इष्टसाधनं यथा मे बाहुः तथाऽनिष्टनिवारणेऽपि क्षम एवेति भावः
  1116. बाष्पं विसृज्य-त्यक्त्वा विसृष्टबाष्पं च चक्षुः परिमृज्य मां निबोधेत्युवाचेति वाऽन्वयः.
  1117. विमृज्य बाष्पं परिसान्त्व्य चासकृत्'-ङ.
  1118. वर्धनम्-ङ
  1119. पित्र्ये वचने-ङ्.
  1120. उञ्छो नाम दैवात्प्रकीर्णानां धान्यानां ग्रहणम्
  1121. आत्मानं प्रत्येवेदं वचनं वा कौसल्यायाः.
  1122. दाराश्च-ङ.
  1123. निरपराधिनः पुत्रस्यैव विवासने वयं कुत्रेति भयं वा विवक्षितम् अत्र 'को यत्तच्छ्रद्दवेत्' इति पाठः व्याख्यासम्मतः प्रतिभाति.
  1124. राशो-ङ.
  1125. विवास-ङ.
  1126. दर्शनचित्तजः-ड.
  1127. चित्रभानुः वन्योऽग्निरिव-गो.
  1128. तथा च नृशंसपदं भावप्रधानपरमिति भावः । यद्वा परित्यागरूपक्रियैव नृशंसेत्युच्यते.
  1129. स खलु' इत्यध्याहार्यम्
  1130. एवञ्च सर्वे सर्वस्याप्यन्वेति
  1131. इमानि ङ. इमानीस्यत्वज्ञापनाय-गो.
  1132. यथा वन्या मृगी वने सन्तुष्टा वर्तते-तथाहमपि वर्ते, न भवन्तं केशयिष्यामीति भावः । पितुरपेक्षया-पितुरिच्छया-गो.
  1133. रुदन्-'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तगुणविशिष्टोऽपि रामो मातृव्यसनं दृष्ट्वा पितृवचनपरिपालन रूपधर्मविघ्नभयाद्धैर्येण स्थितवान्-गो. अरुदन्-शि. ति.
  1134. रोदनेन-ट.
  1135. राज्ञा अनाथाः-राजरूपनाथरहिता इति वाऽर्थः,
  1136. दारुणश्चाव्ययः-ङ.
  1137. गतिमुत्तमाम्-ङ.
  1138. नित्याकरणजन्येत्यर्थः
  1139. 'पुरादृष्टः'-ड. पुरातनलोकाचारसिद्ध इत्यर्थः-गो.
  1140. वेदे श्रुतः, लोके स्मृतश्च । वेदमनधीयाना अपि जानन्तीत्यर्थः ।
  1141. तूष्णीमवस्थाने एनां दुःखमाक्रमिष्यतीति थिया दुःखविच्छेदनार्थ कालक्षेपसाधनं विधत्ते–अग्नीति । अग्निकार्येषुशान्तिकपौष्टिकहोमेषु-गो.
  1142. कालः-इष्ट-वियोगादिजनकः-ति.
  1143. पितुर्विषय इत्यर्थः । आनृण्यतां-स्वार्थे ष्यञ् । अनृणतामित्यर्थः
  1144. स्वपिष्ये परमं सुखं-ङ.
  1145. वाक्येन-ड., श्लक्ष्णेन-ड. च.
  1146. क्षण-
    मात्रमप्यदर्शनासहिष्णुत्वात् प्रत्यागमनकाल इदानीमेव संभवेदिति प्रार्थयते–अपीति-गो.
  1147. तमायास-ङ. च.
  1148. शुचि-ङ. च.
  1149. शक्यते-ङ. च.
  1150. पथि-ङ.
  1151. धृत्या-ङ.
  1152. चेत्येषु चतुष्पथेषु-अग्निशालासु वा स्थण्डिलानि-देवपूजास्थलानि-गो.
  1153. देवेष्वा-ङ. च.
  1154. च विप्राणां-ङ.
  1155. विश्वे-विश्वेदेवाः
  1156. धातेत्यादौ तु 'करोतु' इति एकवचनान्ततया विपरिणामः। साध्या:-देवताविशेषाः
  1157. कर्म-घ.
  1158. पूवादिशब्दा: द्वादशसंख्याकादित्यावान्तरभेदवाचकाः-गो.
  1159. श्रुतिः स्मृतिश्च-ङ. च.
  1160. सोमश्चेन्द्रो बृह-ङ.
  1161. वायुश्च सचराचरः-ड.
  1162. ग्रहदेवताः-ङ.
  1163. शुभदेवताः-घ.
  1164. पुनरुक्तिरत्र पुत्रप्रेमगरवश्यान्न दोषाय-ति.
  1165. दैस्यानां-ङ.
  1166. सर्वक्रव्यादसम्बन्धिभयंसंबन्धसामान्ये षष्ठी-ति. गो.
  1167. गहने वने-ड.
  1168. गहने-वने तव पीडाकरा मा भूवन्नित्यर्थः
  1169. सत्वजातयः-क्रूरजन्तवः-गो. 'सर्वजातियाः' सर्वजातीया इत्यर्थः-ति.
  1170. शीघ्रमेव पुनरावृत्तिर्भवत्वित्यभिप्रायेण वा आगमाः इत्युकम्.
  1171. सर्वसंपत्तये-ङ.
  1172. आन्तरिक्षेभ्यः-अशन्यादिभ्यः पार्थिवेभ्यः-भूकम्पादिभ्यः इति वाऽर्थः
  1173. शुक्रः शक्रः-ड.
  1174. भूतकर्तृ-ब्रह्म-ति.
  1175. नुरूपाभि-ङ.
  1176. समुपाधाय-ड.
  1177. समिधश्चैव-ङ.
  1178. 'स्वस्तिवाच्यं' पुण्याहं वाचयित्वेत्यर्थः-गो.
  1179. मङ्गलानामपि मङ्गलाः-गो.
  1180. शुभमङ्गल-ङ.
  1181. शेषांश्च-झ
  1182. ओषधीं-ओषधीः-ड.
  1183. उवाचापि मन्त्रानिति शेषः-ति.
  1184. उवाचापि-ङ. च.
  1185. केन प्रकारेणोवाचेत्यत्राह आनम्येति आनम्य-आनमय्य-गो.
  1186. सिद्धार्थो-ङ
  1187. संवर्धय भो, संवर्धयस्व भो-ङ.
  1188. भूतगणास्सुरोरगाः-ङ.
  1189. 'कुर्वन्तु'-ड.
  1190. निपीड्य-ड.
  1191. तया-ङ.
  1192. संप्रस्थितः-संप्रतस्थे । अथवा श्लोकद्धयमेकं वाक्यम् ।
  1193. तपस्विनी-रामाभिषेकार्थव्रतोपवासादिनियमविशिष्टा-गो । यद्वा तपस्विनी-अनुकम्पार्हा 'तपस्वी तापसे चानुकम्प्ये त्रिषु' इति मेदिनी । रामवनप्रस्थानमजानन्ती यौवराज्याभिषेकमेव चिन्तयन्ती सीता राममुखात्कथं तदुदन्तं श्रोष्यतीति कविरनुकम्पयैवमुक्तवान्.
  1194. कृतज्ञा-देवैरेवं राज्यप्रदानोपकृतत्वेन कृतज्ञतया तत्पूजा-ति. कृतज्ञा-अभिषिक्तभर्तृविषये पट्टमहिषीभिः गन्धपुष्पादिना पूर्वकृतपादार्चनादिसमाचारज्ञा-गो. संप्रदायक्षा रामपादार्चनाय रामं प्रतीक्षते स्म-इति भावः ॥
  1195. विवृततां-व्यक्तदुःखताम्-गो. यद्वा वैवर्ण्यमिति यावत्-'विवर्णवदनं'
    इत्युत्तर श्लोकानुसारात्
  1196. यत्तु सीताया दु:खेन कथमेषा कालं नयिष्यतीति धिया दुःखित इति विवर्णवदनस्वादिकमिति-तदनुचितं-भगवति कथमपि दुःखासम्बन्धात् तादृशधियोप्यभावाच्च 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्यादावपि दुःखित इवेत्येवार्थ इति ममाभाति-ति.
  1197. अमर्षणं शोकधारणाक्षमम् । अत एव प्रस्विन्नम्, 'पुष्येण' युक्तः चन्द्रेणेति शेषः-ति । 'बार्हस्पतः बृहस्पतिदैवत्यः । उक्तः अभिषेकार्हत्वेन युक्त इति पाठेऽभिषेकार्हः-गो.
  1198. श्रीमानुक्तः-ङ.
  1199. वल्गु-सुन्दरम्.
  1200. क्षौद्रं-मधु
  1201. मूर्धा भिषिक्तस्य-ङ.
  1202. न दधति स्म-नाभिषिञ्चन्ति स्म ।
  1203. भूषितम्-ड.
  1204. श्रीमान्सर्व-ङ.
  1205. कृष्णमेघयुक्तगिरिप्रमः । उभयोरुपमानत्वे वैषम्यापत्तिः-गो.
  1206. भद्रासनं पुरस्कृत्य यान्तं ते पुरस्सरं-अग्रगं सेवकं न पश्यामिति. वीरपुरस्कृतं भद्रासने पुरस्कृत्य ते यातं गमनं न पश्यामि गो. वीर पुरस्सरं यथातथा पुरस्कृत्य यातं-भद्रासनं इति वा पुरतो नीयमानस्य भद्रासनस्य मर्यादार्थे वीराः तत्पुरतो गच्छन्तीति प्रसिद्धमेव,
  1207. यातं ङ. च.
  1208. पुरस्कृतम्-ङ.
  1209. यदेति—यस्मिन् काले प्रहृष्टेन वाह्यं तदा किमेवं लक्ष्यस इति वार्थः, मयं तव-ङ. मुखवर्ण इत्यस्य विशेषणमिदम्.
  1210. विलपन्तीं-विविधं लपन्ती-गो. विविधं पृथ्छतीं शि.
  1211. तत्रभवान् पूज्यः गो. ति.
  1212. महतोऽप्रियस्य श्रवणे सीतायाः किंवा भविष्यतीति भयात् चित्तदाढ्यार्थे विविधगुणकीर्तनेन सम्बोधयति–कुळ इत्यादि-गो.
  1213. येन क्रमेण येन मार्गेण-गो.
  1214. वरे महत्वं त्वनिवार्यत्वेन-शि.
  1215. मया पिवृचोदितेन-गो.
  1216. नियोजितः मयेति शेषः । ज्येष्ठाज्ञां विना तस्य तल्लाभासंभवात्-ति.
  1217. सीताहृदयं शातुं बुद्ध्युपदेशेन प्रणयरोष मुत्पादयन्नाह भरतस्येति गो.
  1218. बुद्धियुक्ता-ङ.
  1219. श्लाघ्याः-ङ.
  1220. 'अहं ते नानुवक्तव्यः' इति कतके पाठः-ति. 'नापि त्वं तेन भर्तव्या' इति गोविन्दराजीयपाठः । विशेषेण न भर्तव्या, किन्तु बन्धुसाधारण्येन रक्षणीयेश्यर्थः ।
  1221. 'मम भर्तु राज्यमनेनापहृतं' इत्यादिप्रतिकूलाभिसन्धिस्त्याज्येति भावः ।
  1222. गोविन्दराजेन
  1223. सः त्वया विशेषतः प्रसाद्यः । चो हेतौ । यतो नृपतिरयं-ति.
  1224. धर्ममेवाग्रतः कृत्वा, स्थिताया इति शेषः-गो. त्वन्मातुर्वन्दने किं फलमिति चेत्तत्राह-धर्ममिति-ति.
  1225. संभोगः-परिपालनं-गो. भुजपालनाभ्यावहारयोरिति धातुः ।
  1226. त्वया-ङ.
  1227. एतदनन्तरं--स्पृशन्निव गजो हन्ति जिघ्रन्निव मुजङ्गमः स्मयन्निव नृपो हन्ति मानयन्निव दुर्जनः ॥ इत्यधिकं-ङ.
  1228. व्यलीकत्वमिति यावत् । गोविन्दराजीये तु–व्यलीकं-अप्रियम् । यथा कस्यचिदपि जनस्य व्यलीकं न कुरुषे तथा वर्तितम्यम् । इदं मम वचश्च कार्यम् (इति भिनं वाक्यं ) । यद्वा यथा कस्यचिदपि व्यलीकं न कुरुषे तथा इदमपि मम वचस्त्वया कार्यमित्यर्थः । सर्वेषामपि प्रियमेव कुरुषे यदि-तर्हि मस्प्रियाचरणे किनु वक्तव्यमिति भावः ।
  1229. अप्रियवादिन्यपि प्रियार्हा-प्रियभाषणार्हा-गो. यद्वा प्रियार्हा- प्रियभाषणार्हा । एवं प्रियभाषिणी च । ' परस्परं भावयन्तः' इति म्यायात । यदि तस्याः समीपे प्रियमुच्येत तद्युक्तं-यदा तु प्रियार्हायामपि तस्यां गृहवासनियोजनादिकमप्रियमुच्येत तदा प्रियवादिन्यपि सा किञ्चिदप्रियं ब्रूयादेवेत्याशयः ॥
  1230. लघुतया-अत्यल्पतया ध्रुवं निश्चितं यथा तथा भाषसे। चतुर्दशवर्षपर्यन्त-भवत्प्रवासकाले मम गृहस्थितिर्हि नाल्पो विषयः । एकनिमेषमपि भवद्विरहा सहिष्ण्वाः कथमयमल्पः स्यात् । स्वं तु अतिसुकरमिवाल्पतया निश्चित्य भाषसे--अतोऽपहास्यमिदम् इति भावः ।
  1231. अयं श्लोकः कुत्रचिन्न दृश्यते-ड.
  1232. 'अर्धो वा एष आत्मनो यत्पत्नी इत्युक्तप्रक्रियया तव वनगमनादेश एव स्वदर्धशरीरभूताया ममाप्यादेश इत्यर्थः-ती.
  1233. अद्यैव गमिष्यासीत्यवन्वयः
  1234. कुशकण्टकान्-कुशाङ्कुरानिति यावत्
  1235. स्वदनु वर्तनेन चरितार्थेयं भविष्यतीत्येवंरुपा या-ईर्ष्या-गो.
  1236. ईर्ष्यारोषौ-ङ.
  1237. भुक्तशेषं-शास्त्रनिषिद्धतयोक्तमुदकमिव ईर्ष्यारोषौ परित्यज्य-गो.
  1238. पीतशेष-ङ.
  1239. पापं-अपाराधः । मम त्यागे को वाऽपराधो मयि वर्तत इत्याशयः ॥
  1240. प्रासादाग्रैरिति पञ्चम्यर्थे तृतीया-गो. प्रासादाग्रे स्थित्यपेक्षयेति शेषः-ति. पुरुषो यामवस्थामाप्नोति तच्छायाऽपि तां प्राप्नोति यथेति वार्थः
  1241. प्रासादाग्रे-ङ. च.
  1242. एवमेव सर्वत्र पाठो दृश्यते । परन्तु व्याख्यायां प्रतीकधारणेन तु 'मात्रा न्नाप्यनुशिष्टास्मि पित्रा च विविधाश्रयम्' इति व्याख्यातुः पाठः स्यादिति प्रतिभाति
  1243. पित्रा च विविधाश्रयं विविधप्रकारं यथा तथा-गो. विविधाश्रयं-विविधार्थं-ती. विषय आश्रयः' इति कोशात् आश्रयाः-विषयाः ये अवश्यज्ञेयाः ते सर्वेऽपि उपदिष्टपूर्वा इत्यर्थः ।
  1244. त्रैलोक्यैश्वर्यमप्यगणयन्तीत्यर्थः-गो.
  1245. वने तापसवृत्तिनिष्ठस्य भवतो मया न कश्चनोऽपराधः स्यात् इत्यभिप्रायेणाह-ब्रह्मचारिणीति । भवस्समीपस्थितिमात्रमप्यलमिति भावः ।
  1246. मानद- 'मानश्चित्तसमुन्नतिः ; स्वशेषत्वज्ञानेन स्वाश्रितानां चित्तौन्नत्यप्रद ! अथवा मानं-इयत्ता-मर्यादा सर्ववस्तूनां मर्यादाप्रदः त्वं पत्नीमर्यादामपि मह्यं देहीत्यर्थः ।
  1247. एतदनन्तरं-अग्रतस्ते गमिष्यामि मोक्ष्ये भुक्तवति त्वयि इत्यधिकम्-ङ.
  1248. कारण्डवः-जलकुक्कुटः- गो.
  1249. नित्यमनुव्रता-ङ
  1250. वर्षसहस्राणां शतमपि न वेत्स्यामि-क्षणमिव नेष्यामि । किं पुनश्चतुर्दशसमा इति भावः-गो.
  1251. सहस्राणि-ङ,
  1252. स्वर्गेऽपि न हि मे मतिः-ङ.
  1253. विना-ङ,
  1254. मृगः-मारीचमृगः । यानरबारणैः-वानरश्रेणैः सुग्रीवादिभिः ।
    पुनर्वनग्रहणात् वनेऽपि-अशोकवनेऽपि वत्स्यामि । पुनस्तवैव पादावुपसंगृह्य संयता-नियता भविष्यामि-गो.
  1255. सम्मता-ङ.
  1256. गोविन्दराजीये त्विदमेकं पदम्.
  1257. धर्मज्ञा-ङ.
  1258. निवर्तनार्थ-ङ.
  1259. मे-ङ.
  1260. यथा मे मम मनसस्सुखं भवति तथाचर-ति. मनसो यथा सुखं भवति तथा मा चरेत्यर्थः-गो.
  1261. वसत:-ङ. वसतः पुरुषस्येत्यर्थः
  1262. सुखं सुखदं न भवति, दुःखदमेव-ति.
  1263. गिरिनिर्झराः-गिरि नद्यः । तन्निनदैः संभूताः-प्रभूताः गिरिनिर्दरवासिनां सिंहानां निनदाः-ति.
  1264. निर्दर-क.
  1265. घोरः-ङ.
  1266. कन्दर-ङ.
  1267. शून्ये निर्मानुषे वने विलम्बाः-निरुपद्रवत्वात्, अत एव क्रीडमानाः मत्ताश्च महामृगाः अदृष्टपूर्वमनुष्यदर्शनेन संभ्रान्ता अभिमुखं पतेयुरिति भावः
  1268. सुदुर्गाश्च-ङ.
  1269. स्वयं भग्नासु-न तु किसलयनिर्मित शयनमिति भावः ।
  1270. केशसंस्कारोपयोगितैलासभावादिति भावः ।
  1271. धारणम्-ङ.
  1272. यद्यपि नगरेऽपि देवतादि कार्यं निर्वर्तनीयमेव; परन्तु वने तावत्सामग्रीसंपादनक्केशः अत्र विवक्षितः
  1273. काले काले-त्रिकालेष्वपि । अत्रापि नगरापेक्षया विशेषे हेतुमाह-चरतां नियमेनेति ।
  1274. उपहारः-बलिः-गो. आर्षेण वानप्रस्थोचित्तेन-ती.
  1275. यथाल्लब्धेन-यावलब्धेन-गो.
  1276. तिमिरं-अतिनिबिडत्वात् मध्याह्नेऽपि । बुभुक्षा--अपरिचिताहारसेवया।
  1277. सर्वे ङ.
  1278. कुशकाशयोश्शाखाः कुशकाशपर्णान्येव-गो.
  1279. क्रौधमोहौ-ङ.
  1280. मन्दमिति । 'प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्' (२७-१) इतिवन्न सोद्वेगमब्रवीत्। रामप्रतिषेधजभयादिति भावः ।
  1281. तान् मन्ये-ङ.
  1282. पुरस्कृतान्-ङ.
  1283. ते सर्वे तव, रूपं' इत्यन्वयः ।
  1284. तव-ङ.
  1285. 'इयं सीता मम सुता....छायेवानुगता सदा (वा. ७३-२६) इत्युतत्वादितिभावः ।
  1286. शक्रोऽपि-ङ.
  1287. श्शक्तः-ङ.
  1288. दशमसर्गारम्भश्लोके-विदर्शिता-विपरीतं बोधितेति व्याख्यातत्वादत्रापि विदर्शितं-विपरीतमुपदिष्टमित्यर्थः स्वरसः। पतिहीनाया जीवनमेव यदाऽसंभवि, तदा तस्यै अन्यानुवर्तनोपदेशोऽत्यन्तं विपरीत एवेत्याशयः ।
  1289. निदर्शितम्-ङ.
  1290. मया श्रुतम्-ङ.
  1291. नित्यं-ङ.
  1292. मे मय-गो.
  1293. लाक्षणिभ्यः-ङ.
  1294. आदेशः–देवादेशः विध्वपरपर्यायः ब्राह्मणमुखाच्छ्रतः
  1295. भर्त्राहं-ङ.
  1296. एकवचनेन तेषामेकमस्यं सूच्यते
  1297. ननु लक्षणज्ञानां भ्रमो भवेत्, तत्राह-भिक्षिण्याः-तापस्याः । सपो-युक्तत्वेन तस्याः भ्रमो न संभवतीति भावः-ति. साधुवृत्तायां भिक्षिण्या इति पश्चमी ।
  1298. श्शमवृत्ताया-ङ. च.
  1299. अत्र 'इइ' इति पदमुत्तरश्लोकान्वयि-ति. इह मातुः एतज्जन्मनि जनन्या इत्यर्थः-सत्य. अथवा पितृगृहे लक्षणिभ्यः श्रुतम् । इह-पतिगृहे मातुः-कदाचिदागताया मातुः, अथवा कोसस्यैव माता, तस्या अग्रतः भिक्षिण्या श्रुतमित्यर्थः ॥
  1300. तिथं-ङ. च.
  1301. क्रतः क्षणः-उत्सवः उत्साहः यया सा । कृतोत्साहेत्यर्थः । अहं गमनं प्रति कृतोत्साहा । हे राम! ते भद्रं भवतु इत्यन्वयः ।
  1302. प्रेष्य-ङ.
  1303. पर-ङ. च.
  1304. एतदनन्तरं-'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रो रक्षन्ति वार्ध्यक्ये न स्त्री स्वातन्त्र्यमर्हति ॥ इत्यधिकम्-ङ.
  1305. कल्याणः संगमः-ङ. च,
  1306. अद्भिस्सहेत्यर्थः
  1307. स्वधर्मेण-पतिव्रताधर्मेण विद्यमाना सा प्रेत्यभावेऽपि तस्य पत्नी भवत्येव-ती.
  1308. श्रुतिः-क.
  1309. क्रोधाविष्टां तु वैदेही-ङ.
  1310. निमित्ताय-ङ.
  1311. गोविन्दराजः,
  1312. उत्तमं-अत्यन्तं कंपमाना-गो.
  1313. मुहूर्त-उ.
  1314. प्रणयात्-स्नेहात्, अभिमानात्-मदीयोऽयमित्यभिमानात्, कोपाद्वा, प्रणयकोपादिति संपिण्डितोऽर्थः-गो,
  1315. अथवा–'सहधर्मचरी तव' इत्युक्त्वा भवते मां ददत् में पिता, इदानीं मम त्यागे त्वा जामातरं अमन्यत किं-मन्येत किम् ? भवन्तं आत्मनो जामातृत्वेन निर्देशायापि लज्जत में पितेति भावः ।
  1316. अयं लोको यत् वक्ष्यति वदति 'रामे परं तेजोऽस्तीति इत्यर्थसिद्धम् तत् अज्ञानात् । अतोऽनृतं बत! तपति दिवाकर इव रामे परं तेजो नास्ति, व्यतिरेकदृष्टान्तः-गो.
  1317. भार्यायाः सहनयनं अकृत्यं किमिति पृच्छति—किमित्यादि
  1318. वीरं-ङ.
  1319. मनसाऽप्यन्यं न द्रष्टाऽस्मीत्यन्वयः । न स्मरामीति यावत्
  1320. परेभ्यो दातुमिच्छसीत्यस्योपपादकं-कौमारीं, चिरमध्युषितामिति,
  1321. यस्य मातृजनस्य पथ्यं-हितं आत्थ यस्य चार्थे मां निवारयसे-तस्य त्वमेव वश्यो भव । यद्वा यस्य-मद्रुपस्य जनस्य पथ्यमात्थ तस्य त्वं वश्यो भव । त्वमेव मद्वचनं शृण्वित्यर्थः यद्वा यस्य भरतस्य पथ्यमात्थ यस्य चार्थे–अभिषेकरूपप्रयोजननिमित्ते अवरुध्यसेनिगृहीतोऽसि तस्य त्वं वश्यो भव-गो.
  1322. नियोज्यश्च-ङ.
  1323. विहारार्थमृदुशयनस्थिताया इव तव पृष्ठतो गच्छन्त्याः मम परिश्रमो न भवितेत्यर्थः ।
  1324. ष्वपि-ङ.
  1325. तूलः-पर्यङ्कनिर्माणोपयोगी मृदुतमः कार्पासविशेषः
  1326. अजिनं-कन्दल्याद्यजिनं- 'कदली कन्दली च नचमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः 'इत्यभिधानात्-गो.
  1327. मपकरिष्यति-ङ.
  1328. कुशा-ङ.
  1329. आस्तरणानि-कौसुंभोत्तरच्छदाः-गो.
  1330. मत्कृते विप्रियं न द्रष्टुमर्हसीति योजना न च ते शोक: मत्कृते । नापि दुर्भरा भविष्यामि ।
  1331. त्वत्कृते-ङ.
  1332. दुर्मनाः-ङ.
  1333. अव्ययां-वनगमने भीतिरहिताम्-गो.
  1334. माविशं द्विषतां वशं-ङ.
  1335. ध्रुवं-ङ,
  1336. आयस्ता आयासं प्राप्ता.
  1337. सिता-पूर्णमासी । तत्सम्बन्धी अमलः राह्वाद्यनुपरक्तः यश्चन्द्रः तत्सदृशं-ति.
  1338. तत्सितामलचन्द्राभं--तच्चै वामलसंकाशं-ङ.
  1339. बाष्पेण-सन्तापभवेनोष्णेन ; अम्बुजपक्षे ऊष्मणेत्यर्थः' बाष्पमूष्माश्रु' इत्यमरः- गो
  1340. हेतौ वेयं तृतीया । तव दुःखसंपादनेन मम यदि स्वर्गं वा भवेत् तदा स्वर्गे नाहं कामये इति भावः ।
  1341. स्वयंभोः-नारायणस्य, न चतुर्मुखस्य; तस्य मधुकैटभादिभ्यो भयसंभवात् । आर्षो डुप्रत्ययः । सर्वतः-सर्वजन्तुभ्यः-गो. सर्वतः- यस्मात् कस्मादपि, 'सर्वावस्थां गतः ' 'सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकवती' इत्यादाविव प्रातिस्विकतः सर्वापेक्षया ।
  1342. सृष्टा-दैवेनेति शेषः-गो.
  1343. प्रीति-ङ, च.
  1344. 'मुक्तनिर्मितयोः प्राज्ये त्रिषु सृष्टं तु निश्चिते' इति रुद्रः ।
  1345. आशां चाहं-ङ.
  1346. प्रत्यक्षदैवाराधनं विहायाप्रत्यक्षदैवस्याराधनं कथं युक्तं स्यादिति भावः ।
  1347. यत्र पित्राराधने सति त्रयं धर्मार्थकामरूपं भवति त्रयो लोकाश्च साधिता भवन्ति तत्समं पवित्रं भुवि नास्ति-ति. यत्त्रयं तत्त्रयो लोकाः यत्-गुर्वादित्रयं तत् त्रयो लोकाः । लोकत्रयमपि तदाराधनसाध्यमित्यर्थः-गो.
  1348. यत्त्रयं तत्त्रयो लोकाः-ङ,
  1349. मानः-देवपूजा । आप्तदक्षिणाः-इष्टदक्षिणाः-यथेष्टदक्षिणाः- सर्वस्वदक्षिणा इति यावत् । गुरौ वृत्तिः-गुरुवृत्तिः गुरुशुश्रूषेति यावत् ।
  1350. नरः-ङ,
  1351. स मां-ङ.
  1352. यतो वने वसिष्यामीति दृढनिश्चयेन त्वं मामनुयातुं सुनिश्चिता, अतस्त्वां दण्डकावनं नेतुं मम या मतिः-तद्विरुद्धाऽऽसीत्-सेदानीं सन्ना-विशीर्णा-ति.
  1353. दिष्टा-ङ.-च. सृष्टा-च. दिष्टा-अनुज्ञाता-ति. सृष्टा-दैवेनेति शेषः- गो.
  1354. व्यवसायं-भर्त्रनुसरणाध्यवसायं अतिक्रान्ता प्रकर्षेण प्राप्ता-गो.
  1355. मतिक्रान्ता, मनुप्राप्ता-ङ.
  1356. वनवासक्षमाः-वनवासयोग्याः क्रियाः-दानादिक्रियाः--गो.
  1357. क्रीडार्थो उपस्कराः--स्वर्णमयपुत्रिकाद्युपकरणानि--ति.
  1358. वर्गेभ्यः-ङ.
  1359. ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति सम्बन्धः-गो. ब्राह्मणानां ब्राह्मणसंप्रदानकदानानामनन्तरम्-शि. अथवा शयनादीनां रामोपभुक्तत्वेन तेषां ब्राह्मणेभ्यो दानस्यानुचितत्वात् तानि भृत्यवर्गाय देहि, ब्राह्मणानां तु अनन्तरं-समनन्तरोक्तं रत्नादि देहीति वाऽर्थः । अत एव "पर्यङ्कमग्रयास्तरणं-प्रतिष्ठापयितुं" इति व्यङ्ग्यमर्यादयोच्यते । न तु स्पष्टं दानम् इति केचित् ॥
  1360. एतदनन्तरं-'ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरपेक्ष्य
    भाषितम् । धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥'
    इत्यधिकम्-ङ. झ.
  1361. अतियशाः-इति प्रसिद्धस्स्वरसश्च पाठ: लक्ष्मणविशेषणं । को वा एवं
    स्वभार्यामपि परित्यज्यान्येन सपत्नीकेन साकं वनं गच्छेदित्याशयः
  1362. महाव्रतं--'अभयं सर्वभूतेभ्यो ददाम्येनद्व्रतं मम' इत्युक्तगुरुतरव्रतयुक्तम्-गो. युक्तश्चैतदेव । व्रत शब्दस्वारस्यात् । चरणौ निपीड्येति–अत्रापि शरणागतेः वात्.
  1363. दृष्टनिश्चित-क.
  1364. यदीत्यनेन रामवनगमने स्वानभिमतिरसूच्यते लक्ष्मणेन ।
  1365. बहूनि-ङ.
  1366. देवलोकः-उपनिषत्सु प्रतिपन्नो मोक्षः । अमरत्वं चैवस्ये लोकानामश्वर्यं-
    ऐहिकमामुष्मिकं च-गो.
  1367. 'भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः । त्वया भरतशत्रुघ्नौ प्राणः प्रियतरौ मम ॥ 'इति भरतशत्रुघ्नयोरेवानुसरणीयत्वोक्तेश्च-गो.
  1368. प्राग्गामिनं-प्रागेव गन्तुमुद्युक्तम्-गो. वनं प्रति प्रथमगमनाभिप्रायवन्तम्-ति.
  1369. विधेयश्वासि-ङ.
  1370. भजिष्यति-ङ. च. हि रक्षति-ङ.
  1371. वश-ङ.
  1372. एवं कृत एव मद्विषयभक्तिस्त्वया सम्यग्दर्शिता भविष्यति इत्यर्थः
  1373. कौसल्यासुमित्रयोः एकत्वं लोके प्रयोगरूढ्या ।
  1374. इदं श्लोकद्वयं कुत्रचिन्नोपलभ्यते-ङ.
  1375. उत्तमं राज्यं प्राप्येत्यन्वयः.
  1376. किन्तु सा-ङ.
  1377. उपजीवनं-स्वेष्टविनियोगाय दीयमानम्.
  1378. प्रसादात् अस्य प्राप्तमित्यत्रान्वयः । सम्बन्धसामान्ये षष्ठी। उपजीविभि: प्राप्तमिति यावत् । स्वोपजीविभ्यो ग्रामसहस्रदानेऽपि यदि शक्तिवर्तते तर्हि स्वरक्षणे किमु वक्तव्यमित्याशयः
  1379. मुपजीवनम्-ङ.
  1380. अनुदर्शयन्-ङ.
  1381. स्वाहार्हाणि तपस्विनाम् । स्वाहाणि-होमयोग्यानीति यावत्-ति.
  1382. स्वहार्हाणि-ङ. च.
  1383. सर्वं सुहृज्जनमापृच्छस्व-तेभ्योऽनुमतिं गृहाण-तदर्थं व्रजेति वाऽर्थः
  1384. तिलके-गोविन्दराजीये च इदमुत्तरश्लोकान्त्रिततया व्याख्यातम् । राज्ञ इति जनकविशेषणम् । ये इति द्वितीयाद्विवचनान्तं धनुषीत्यस्य विशेषणम् । एवञ्च जनकस्य राज्ञः महायज्ञे ये धनुषी वरुणो ददौ- इत्यन्वयः। परन्तु ते जनकस्य ददौ, तच्च तजनकेन रामाय दत्तमित्यर्थ इति गोविन्दराजीये । बालकाण्डेऽनुक्तोऽयं वृत्तान्तोऽत्रानु-बादात्सिद्धः । यथा सुन्दरकाण्डे 'मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे' इति, यथा चायोध्याकाण्डेऽनभिहितोऽपि वायसवृत्तान्तः सुन्दरकाण्डेऽनूद्यते इति चोक्तं
    गोविन्दराजीये ।
  1385. राजशार्दूलसत्कृतं-ङ.
  1386. प्रीत्या उवाचेत्यन्वयः,
  1387. गोविन्दराजीये तु-'इक्ष्वाकुगुरुमागम्य जग्राहायुधं' इति कथनात् 'निहितं सर्वमेतदाचार्यसपनि 'इत्यत्राचार्यः वसिष्ठ एव, स एव खलु इक्ष्वाकुकुलगुरुः---इति वसिष्ठगृह एवायुधस्थापनमुक्तम् ।
  1388. आज्ञाय ज्ञात्वा ।
  1389. आदाय, आस्थाय-ङ,
  1390. प्रियकरं हितं-ङ. च. प्रियतरं शुभम्-ङ.
  1391. सन्ध्योपासनं-माध्याह्निकम्, अथवा सन्ध्यानियताग्निहोत्रं ; अग्यगारस्थमित्युक्तेः- गो. रामवनप्रवासानन्तरमेव सूर्यास्तमनस्योत्तरत्र कथनात् एवं व्याख्यानम् ।
  1392. अङ्गदैः- कूर्परोपरि धार्यैः बाहुभूषणैः । केयूरैः-भुजशिरोव्यापिफणा कारशीकरयुक्तबाहुभूषणैः । अथवा अंगदकेयूरयोः स्थूलस्वसूक्ष्मस्वाभ्यां भेदः-गो.
  1393. हारय-प्रापय-ति.
  1394. सखी-ङ. च.
  1395. तं ते निष्कं-रूप्यम् । तच्च तस्य गजस्य परिपालनार्थमिति भावः ।
  1396. गजसहस्रेण-ङ.
  1397. प्रतिगृह्य तत्-ङ,
  1398. परमचरम-घ.
  1399. आगस्त्यं-अगस्त्यपुत्रम् । कौशिकं-विश्वामित्रपुत्रम्-गो.
  1400. अगस्त्यं-ङ. च.
  1401. तैत्तरीयशाखाध्येतृृणामाचार्यः-गो. ति. अभिरूपः- बुधः । 'प्राप्तरूपसुरूपाभिरूपा बुधमनोज्ञयोः'- इति विश्वः-गो.
  1402. आर्यः चित्ररथनामा सुतः । चित्ररथाचार्य इत्यपि पाठः ।
  1403. ये च मे ङ. च.
  1404. किञ्चन-आहारार्थयत्नादिकम् । गोसहस्रप्रदानहेतुत्वेनाह--स्वादुकामाश्चेति... रत्नपूर्णानि-रत्नालङ्कारपूर्णानि... रत्नवाहानुष्ट्रानिति वा-गो.
  1405. शीलाश्च-ङ.
  1406. भद्रकान्-अल्पार्थे वन् प्रत्ययः-कर्षणयोग्याननडुह इत्यर्थः । धान्यविशेषानित्यपरे । गोसहस्त्रं व्यञ्जनार्थे-क्षीर-दधिघृतार्थ-गो.
  1407. मेखलानां अर्श आदित्वादच-ती.
  1408. मेखलानां-ङ. छ.
  1409. नः अम्बा मम दक्षिणां-मया दीयमानां दक्षिणां यथा नन्देत् इत्यन्वयः
  1410. यथा च सा नन्देत्, यदा नौ नन्देच्च-ङ,
  1411. कुबेरस्य दानशीलत्वं 'धनदेन समस्त्यागे' इत्यत्रैव संक्षेपरामायणे उक्तम्
  1412. बाष्पं कलन्ति-मुञ्चन्तीति बाष्पकलाः-गो.
  1413. गलाः-ञ.
  1414. स्वोपजीविभ्यो विशिष्य धनदानमुक्तम् । अथेतरेभ्यो दानमुच्यते
  1415. मानीयतां मम-ङ.
  1416. सर्व एवो ङ.
  1417. दरिद्रेभ्यो-ङ.
  1418. पिङ्गलः-पिङ्गलवर्ण इति दारिद्र्यलक्षणोकपिलकेशो वा । आसीत्- देवात्तदावी समीपे संगतोऽभूदिति भावः- गो.
  1419. क्षतवृत्तिः भूखननेन जीवनवान्। उच्छवृत्तिरिति पाठो न स्वरसः फालकुदालेत्यदिरवक्तव्यत्वात्-सत्य. क्षतवृत्तिः-क्षीणवृतिः-ति. उञ्छवृत्तिः--शि. खलादौ परित्यक्तधान्यस्य संग्रहणं-उन्छः ।
  1420. क्षतवृत्तिः- ङ. च
  1421. 'स्त्रीणां भर्ता हि देवता' इति पाठे न स्वातन्त्र्येण तथा रामसमीपं गन्तुं युक्तम्, अतः भर्तारमब्रवीदिति भावः ।
  1422. स्त्रीणां भर्ता हि देवता-ङ. च.
  1423. किचिदिति स्वदौर्भाग्यस्मरणेन । सन्तुष्ट्या वा ।
  1424. अकारान्तत्वमार्षम्-गो.
  1425. भृग्वङ्गिरस्समं-ङ. च.
  1426. क्षतवृत्ति-ङ. च.
  1427. समन्वितः-ङ.
  1428. असंख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितम्........एकं गोसहस्रमात्रं न दत्तं, अन्वत्सर्वं दत्तमिति नार्थः बहुसाहस्रे इत्यादिवक्ष्यमाणेन विरोधात्, अपिशब्दस्वारस्याच्च-गो.
  1429. मस्त्येकं-ङ.
  1430. कट्यां शाटीपरिवेष्टनं बलोत्तंभनाय-गो. अन्यथा खलु दण्डक्षेपकाले प्रतिरोधः स्यात्.
  1431. वेगितः-ङ.
  1432. उक्षणसन्निधौ-उक्षसन्निधौ-'वष्टि भागुरिः' इत्यादिरीत्या अकारान्तत्वम्-गो
  1433. क्षण, क्ष्णां च-ङ.
  1434. त्रिजटस्थाश्रमं-ङ.
  1435. अन्यथा हि सरयूतटगतानां गवां परित्यागः स्यादिति भावः.
  1436. त्रिजटाय.....तदर्थे आनयामास आश्रमं-त्रिजटाश्रमं प्रति नाययामास चेति वाक्वद्वयमिति भावः महेश्वरतीर्थस्तु-'त्रिजटाय-त्रिजटस्य' इति व्याचख्यौ । परन्तु तदा 'आनयामास' इत्यनन्वितम् ।
  1437. हर्षयन्-ङ
  1438. व्यवस्यति-ङ.
  1439. यद्यन्मम-ङ.
  1440. मोदित इत्यनेन गोभ्योऽन्यन्नापेक्षितत्रानिति गम्यते.
  1441. बृह्मिणीः-ङ.
  1442. तदा आशिष इति वा पदच्छेदः
  1443. आहिताग्न्यादित्वान्निष्ठायाः परनिपातः, तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः-गो. अत्रोत्तरश्लोकानुरूप्यञ्च ।
  1444. आदरः-ति.
  1445. संभ्रमः-त्वरा-गो.
  1446. संभ्रमः-त्वरा-गो.
  1447. सम्यक् अलंकृते-चन्दनादिभिरित्यर्थः
  1448. उदासीन:-निरुत्सुकः-निर्विण्ण इति यावत्- गो. कतकदृष्ट्या तु श्रीमान्, उदासीन इति पदद्वयं रामपरम्.
  1449. 'प्रसादान् 'पा-प्रासादानारुह्येत्यन्वयः-गो.
  1450. 'पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः'-झ.
  1451. बहुविधाः-'इत्येवं विविधा वाचः 'इति पर्यन्तम् .
  1452. कामिनां-अर्थकाङ्क्षिणां कामदः-अभीष्टप्रदः-गो.
  1453. कामानां चाकरो महान् च.
  1454. पितरं-ङ.
  1455. सत्वं-पिशाचं आविश्व-प्राप्य-गो. सत्त्वं-सत्त्वगुणं आविश्य प्राप्य भाषते-त्वया वनं न गन्तव्यमिति राजा रामं वदिष्यतीत्यर्थः । कुतः ? न हे राजेति-ती. 'दशरथं सत्वमाविश्य' इत्यपि पाठः झ. पुस्तके.
  1456. वृतेन केवलं-चरित्रमात्रेण वृत्तन केवलमित्युक्तिर्दानमानादौ विद्यमानेऽपि चरित्रप्राधान्यात्-गो.
  1457. दमः-इन्द्रियनिग्रहः शमः-चित्तप्रशान्तिः शमवित्तप्रशान्तिः स्याद्वम इन्द्रियनिग्रहः' इति निर्वचनात्- गो.
  1458. फलागमः-ङ
  1459. सपत्नीकास्सबान्धवाः-ङ.
  1460. सम-ङ.
  1461. समुद्धत-ङ.
  1462. दत्तसाराणि, हृतभाराणि-ङ.
  1463. साराणि--शय्यासनादीनि-गो.
  1464. मूषिकैः-ङ.
  1465. अस्मद्युक्तं-ङ.
  1466. व्यालमृगद्विजमिति बहुव्रीहिः । व्यालमृगद्विजैर्विशिष्टं तृणमांसफलादानां देशं-काननीभूतं देशमिति यावत् । अर्थात् तृणादाः-मृगाः, मांसादाः-व्यालाः, फलादाः-पक्षिणः ।
  1467. फलादानां-ङ.
  1468. पुनर्मातु:-ङ.
  1469. प्रतीक्षमाणः-पश्यन् ।
  1470. निरुपमो-ङ. झ.
  1471. निवेदयस्वागमनं नृपाय मे' इति पूर्वस्मिन् श्लोके कथितेऽपि त्वरातिशयादभ्यासः। अथवा निरुत्सुकत्वात् तूष्णीं स्थितस्य सुमन्त्रस्य पुनः प्रतिबोधनाय वाऽभ्यास: ।
  1472. न्द्रियं-ङ.
  1473. श्लक्ष्णयाब्रवीत् ङ.
  1474. गमिष्यति-ङ.
  1475. सत्यवाक्यो-ङ.
  1476. मे दारान्-कौसल्यां, ये केचिदन्ये मामका दारास्तांश्च । एवं व्याख्याने कोसल्यां परिवार्य' इत्यानुरूप्यम् ।
  1477. आर्यो-ङ.
  1478. वो राजा, अवैधव्यदत्वात्; न तु प्रजानां, तासां दुःखदत्त्वात्-ति.
  1479. स्त्रीणां-दाराणां तथा इतरासां दास्यादीनां च । तेन पूर्वं सारत्रिशतत्वोक्ते रविरोधः-सत्य. । सहस्रपदं अनेकपरं वा । अन्यथा तावन्निष्कर्षेण वचनासंभवः, एकद्यादीनां न्यूनाधिक्यसंभवात् ।
  1480. रुदन्तं-ङ.
  1481. चान्वेतु-ङ.
  1482. तथ्यैर्बहुभिः कारणैः मामन्वेति, अत एव वार्यमाणावपि न चेच्छतः इति वा ।
  1483. मोहितः-वञ्चितः-गो.
  1484. सहस्रायुः-ङ.
  1485. मे-मह्यं, मत्कृते इति यावत्, त्वया अनृतं न कार्यमित्यर्धः । न मे कार्यस्त्वमानृत इति तीर्थसम्मतपाठः । त्वं आनृतः-ईषदनृत युक्तोऽपि न कार्यः इति व्याख्यातम्.
  1486. कार्यस्त्वमानृतः- ङ.
  1487. प्रतिज्ञान्ते-चतुर्दशवर्षानन्तरं, स्वर्गादागत्य स्थितस्य ते पादौ ग्रहीष्यामीत्यमिप्रायः-सत्य.
  1488. गच्छस्व-गच्छ अरिष्टं-शुभं । 'अरिष्टे तु शुभाशुभे' इत्यमरः-गो.
  1489. साधु-सुखं-गो.
  1490. कास्ये-ङ.
  1491. अदीन इति पदम्-शि.
  1492. तर्पितस्सर्वकामैस्त्वं, इत्यस्योत्तरं इदं । सर्वकामैरपि अपक्क्रमणमेव वृणे इत्युके–सर्वकामानां वरणापेक्षया अपक्रमणमेव वृणे इत्यर्थः ।
  1493. ' कैकेय्या चोधमानस्तु मिथः' इति पूर्वं कथनात् कैकेय्याः प्रियसंपादनरूपगुणोऽपि विवक्षितः ।
  1494. चलिष्यति-ङ.
  1495. यस्तु युद्धे-ङ.
  1496. मेदिनीम्-ङ.
  1497. ते-तुभ्यं.
  1498. न शोकं-ङ. च.
  1499. हे राघव-राम वनं गच्छ इति कैकेय्या आर्थितोऽस्मि इत्यन्वयः.
  1500. 'भव राजा निगृह्य माम्' इति वचनमपि पितुरेव । अथापि स्वस्य वनवासो महाक्लेशप्रद इति व्यधया राजा तथा वदतीति ज्ञात्वा रामः वनवासे स्वस्य क्लेशाभावमाह
  1501. सकानना-ङ.
  1502. चतुर्दशसमा इत्यर्थः । पितृवाक्यपरिपालननिमित्तं यावज्जीवमपि वने वसेयं, किं चतुर्दशवर्षमात्रेणेति द्योतयितुं चिरायेत्युक्तिः ।
  1503. शिवामिस्यनेन राज्यस्य दुर्भरत्वान्न त्यजामीति गम्यते-गो.
  1504. शिवासु सीमास्वनु ङ.
  1505. दीयते-ङ.
  1506. चिन्तितं-ङ.
  1507. उक्तवन्तमिति शेषः । एवमुक्तान्तं पुत्रमालिंग्येत्यन्वयः
  1508. शोकः त्वग्दा-होत्यादकः, दुःखं-अन्तर्व्यथोत्पादकम्-गो.
  1509. तापेन-ङ.
  1510. भूमिं-ङ.
  1511. विवेद-ङ.
  1512. तां वर्जयित्वा-कैकेयीं विना ।
  1513. वर्ण-देहकान्तिं मुखकान्तिं वा जहत् परित्यजन् ।
  1514. चाशुभैः-ङ.
  1515. कर्माणि-ङ.
  1516. परमं-ङ.
  1517. राजमरणानन्तरं वयःक्रममनुसृत्य पुत्रा राज्यं प्राप्नुवन्तीति मर्यादा । तादृश-मर्यादापालके दशरथे सत्येव त्वं तां मर्यादां लोपयितुं इच्छसि। दशरथे सत्येव एवमुद्वेला भवसि चेत् अनन्तरं किं वा न कुर्या इत्याशयः ।
  1518. ब्राह्मणपदं सत्पुरुषसामान्यपरम्.
  1519. एतदनन्तरं अयोध्यावासिनः पौरा ये च जानपदा जनाः । नूनं सर्वे गमिष्यामो मार्ग रामनिषेवितम् । स्यक्ताया बान्धवैस्सर्वैर्ब्राह्मणैस्साघुभिस्तदा। का प्रीती राज्यलामेन तव देवि भविष्यति । तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि । इत्यधिकम्-ङ.
  1520. विवृता-ङ.
  1521. महाब्रह्मर्षिभिः वसिष्ठादिभिः जुष्टाः प्रयुक्ताः ज्वलन्तः -तीव्राः धिग्वाग्दण्डाः-धिगित्येवं रूपा वाग्दण्डा त्वां न हिंसन्ति ? -गो. ॥ ति. ॥ इदमधप्याश्चर्यमित्यनुकर्षः-ति.
  1522. जुष्टा-ङ.
  1523. धिग्वाग्दण्डा-छ.
  1524. निम्बं यः पारचरेत्-लवालादिकरणेन संरक्षेत्-गो.
  1525. परिचरे-ङ.. च.
  1526. कः-च.
  1527. अभिजातं-अभिजननं, स्वभाव इति यावत्-गो.
  1528. अभिजातं-ङ.
  1529. कश्चित्–योगी गन्धर्व इति श्रुतम्-गो.
  1530. वर्ण-ट.
  1531. जृंभस्य-पिपीलिकाविशेषस्य-गो.
  1532. हासं-ड..
  1533. ते हासं-हासकारणं-गो.
  1534. अन्यथा हि मामेवापहसितवान् भवानिति अवधारयामीस्यर्थः
  1535. स्वस्मै येन वरो दत्तः तं प्रति स्वपत्नीनिर्बन्धं कथयामास
  1536. एतदर्थानन्तरं 'यदि त्वं शंससे राजन् मरणं ते ध्रुवं भवेत्' इत्यधिकं-ङ.
  1537. मरणं विषादिना, ध्वंसः विशरणं भृगुपातादिना । अथवा ध्वंसु गतावित्यपि सत्त्वात् यत्रकुत्रचिद्गच्छत्वित्यर्थः ।
  1538. शंसीस्त्वं-ङ.
  1539. विवास्य-ट.
  1540. नेया-ङ. (विधेया इत्यर्थः).
  1541. असद्धर्मे-कनिष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपं मोपादधाः-मा ग्राह्य-गो.
  1542. ".......मम वरस्य का गतिरित्याशंक्य प्रकारान्तरेण गतिर्भविष्यतीत्याह-न हीति । प्रतिज्ञातं प्रतिश्रुतं वरद्वयं मिथ्या न करिष्यति । राज्यादप्यधिकमूल्यरलन्नभूषणसम्मानादिभिः सफलं करिष्यतीत्यर्थः"-गो. वस्तुतस्तु–कनिष्ठाभिषेचनपूर्वक व्येष्ठविवासनरूपमधर्मं मा ग्राह्येत्युक्ते-यद्ययमधर्मः तर्हि कथं राजानुमेने-इत्याशकायां आह-न हीति। यतोऽयमनघो राजा ततः प्रतिज्ञातं मिथ्या न करिष्यतीत्यर्थः । नायं प्रतिश्चात्यागापेक्षयाऽधर्म इति भावः
  1543. स्वराज्यं-ङ. च.
  1544. ते पुरवरे वसन् राघवादन्यः न क्षमो वसेत् । यद्वा 'क्षितिक्षान्त्योः क्षमा, युक्ते क्षमं, शक्ते हिते त्रिषु' इति कोशात् क्षमः-हितः इत्यर्थः । राघवादन्यः-भरतः अत्र वसन्नपि दे क्षमः-हितः न भवेत् इत्यर्थः ।
  1545. वसेत्-ङ.
  1546. जनसंसदि-ङ.
  1547. ततः-कैकेयीसम्मत्यभावानन्तरम्-गो.
  1548. जगादैनं-ङ.
  1549. वनवासं-ट.
  1550. पदातिसमुदायादीनामपि सेनाङ्गानां सेनात्वव्यवहारसत्त्वात् चतुरङ्गबला चमूरित्युक्तिः
  1551. चतुरङ्ग-ङ.
  1552. वादिन्यः, नादिन्यः-ङ. च.
  1553. एनं-रामम्
  1554. मुख्यानि नागराः नगरजाः श्रेष्ठिनः-गो.
  1555. कोविदाः-ङ.
  1556. राज्यं संस्मरिष्यति-ङ.
  1557. अयोध्यां पालयिष्यतीति सोपालंभोक्तिः- गो.
  1558. जगाद' इति पूर्वेणान्वयः
  1559. कैकेयी भयमागता-ङ.
  1560. विबर्णा-ङ.
  1561. मुखेन उपलक्षितेत्यर्थः ।
  1562. गतजनं-क.
  1563. मा-मां, धुरि नियुज्य तं वहन्तमेव मां तुदसि
  1564. वा ऽहिते-ङ.
  1565. हे अनायें आरब्धं किं कृत्यं नोपारुधः ? सर्वमुपरुद्धवत्येव । पूर्वमभिषेककृत्यं इदानीं आनुयात्रिकप्रदानमारब्धं, तदप्युपारुध इत्यर्थः-ती. शेषं १६ श्लोकटिप्पण्यां द्रष्टव्यम्
  1566. उपारुधत्-राज्य-भोगेभ्य इति शेषः-ति. अत्र 'ज्येष्ठपुत्रमुपारुधत्' 'रामः किमकरोत्पापं येनैव-मुपरुध्यते' (श्लो. २६) इति वाक्यद्वयपर्यालोचनाया 'अनायें कृत्यमारब्धं किं न पूर्वमुपारुधः' इत्यत्रापि पुरुष एवोपरोधकर्मीभूत इति युज्यते ।
  1567. नावबुध्यति-ङ.
  1568. वृद्धो महामात्यः-ङ.
  1569. मात्रमेव-ट.
  1570. तेन प्रक्षेपेण रमते स्मेति शेषः । तिलके तु तेन-कारणेन दुर्मतिः इति ॥
  1571. चेतसः-ङ.
  1572. फालं-कन्दमूलादिखननसाधनं, पिटकं-तद्धारणपात्रम्-गो.
  1573. दुर्गाण्यलोलयत्, दुर्गाणि लोकयन्-ङ.
  1574. दिशस्सर्वा-ङ.च.
  1575. स यथा-ङ. च.
  1576. दोषपद-मुच्चरितुमप्यसहमान आह–अगुणमिति ॥ उत्तरत्र तु कैकेयीदृष्ट्या दोषपदप्रयोगः । यथा
    असमञ्ज निरयहेतुपापकर्मकृत्, न तथा रामः पापकृत् इत्याशयः । तादृशपापाभावेऽपि अल्पं वा यदि पापं स्यादित्याशङ्कायामाह-शशाङ्कस्येत्यादि । इमं पादं
    पूर्वेणैवान्वीय-शशाङ्कस्येति व्यतिरेक दृष्टान्तः । (इति केचित्-सत्य.) "शशाङ्कस्य द्वितीयाचन्द्रस्य' इति च केचिद्व्याचख्युः-शि. कतकव्याख्यानमेव स्वरसम् ॥
  1577. तदा-ङ.
  1578. विवास्यताम्-ङ.
  1579. एतदनन्तरं 'अप्राप्तस्य विवासोऽयं वनेषु सुयशस्विनः'-ङ.
  1580. पापरूपे-ङ.
  1581. जानामि-ङ.
  1582. कुचेष्टा त्वं कृपणं मार्गमास्थाय ममात्मनो वा हितं न जानासीति वा अन्वयः । कुचेष्टात्वमेवोपपादयति–चेष्टा हीति ॥
  1583. धनधान्यादिनयने कैकेय्या प्रतिरुद्धे तत्सर्व परित्यज्य अहमेव राममनुगमिष्यामीत्याह दशरथः
  1584. सर्वे च-ड.
  1585. महामात्य-ङ.
  1586. अनुयात्रेण-अनुगतबलेन-गो. यापनोपायेन ।'यात्रा तु यापनोपाये' इति विश्वः-सत्य.
  1587. 'कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्चयां मध्ये भवन्धने' इत्यमरः
  1588. ममानयत गच्छतः-ङ.
  1589. एतत्पर्यन्तं मन्थराप्रेरितं सिद्धं कृत्वा ब्राह्मणशापप्राप्त लोकासूयाविषयत्वसंपादकं कर्म कैकेय्यारभते---अथेति । स च शापोऽध्यात्मरामायणे स्पष्टः-ति.
  1590. कैकेयी-ङ.
  1591. धर्मस्य दर्शनं परेभ्यः तदनुष्ठानमेव स्वयं धर्मे जानन्ती, अनुष्ठात्री चेस्यर्थः ।
  1592. व्यपत्रपमाणैव-क.
  1593. परमायस्ताः-ङ.
  1594. मैवं-ङ.
  1595. वनं गतस्य तव सम्बन्धिन्याः अस्यास्सीताया दर्शनं तावत्-त्वदागमनपर्यन्तं नः-अस्माकं सफलं-त्वद्दर्शनं यथाssनन्दकरं तथा भवतु । दर्शनेन नः - अस्माकं जीवितं सफलं भवत्वित्यर्थः-ती. वनं गतस्य तव दर्शनं अस्यां सफलं भवतु–त्वामिवैनां द्रक्ष्याम इति भावः-गो.
  1596. तव दर्शनमस्यां-ङ.
  1597. षष्ठ्यर्थे तृतीया-गो. अथवा एतत्पदद्वयस्योत्तरश्लोकेऽन्वयः
  1598. सबाष्पो-ङ.
  1599. अतिप्रवृत्ते दुर्मेधे-ङ.
  1600. सप्रमाणेव-सद्वृत्तेव-ती.
  1601. सप्रमाणेव-ङ. छ.
  1602. अधिष्ठास्यति-ङ.
  1603. पत्न्याः पत्यर्धत्मत्वे, तर्हि रामवनवासवरणे तत्पत्न्या अपि वनवास, सिद्ध एवेति यदि कैकेयी ब्रूयादित्याह-अथेति
  1604. वयमप्यनु-ङ. वयमत्रानु-च.
  1605. अन्तपालाः-राष्ट्रान्तपरिपालका: दण्डनायकाः-गो.
  1606. 'पितॄन् समनुजायन्ते नरा मातरमङ्गनाः' इति खलु न्याय इति भावः ॥
  1607. मनुवत्स्यति-ङ.
  1608. पादपानां गमनशक्त्याभावात्त एववशेष्येरन्नित ।
  1609. अदत्तां-प्रीतिपूर्वकमद्दत्तां गो. ती.
  1610. मिच्छति-च.
  1611. रामविप्रवासत्य त्वत्पुत्रविप्रवासे पर्यवसानात् पुत्रस्याप्रियं कृतमिति ।
  1612. लोके-ङ.
  1613. तथोपरिष्टात् स्पष्टीभविष्यति–' अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः' इति-गो.
  1614. अस्याः-जीवस्पतिकायाः सीतायाः ।
  1615. प्रियकारकामा-ङ.
  1616. चीरपरिधानं विधवानामेव युक्तमित्यमिप्रेत्य-अनाथवदित्युक्तम् ।
  1617. त्वां धिगिति दशरथं प्रचुक्रोश-इत्यन्वयः । एतत्सर्वस्यापि दशरथः खलु निदानमित्याकोशः ।
  1618. एतदनन्तरं 'चिच्छेद जीविते श्रद्धां में यशसि चात्मनः' इत्यधिकं-ङ.
  1619. एतदनन्तरं 'कैकेयि कुशचीरेण न सीता गन्तुमर्हति' इत्यधिकं-ङ.
  1620. कस्यापि करोति-च.
  1621. वनस्य-च.
  1622. विसंज्ञा-नामजात्यादिपरिहीना, अनाथेति यावदिति वा ।
  1623. मम प्रतिज्ञेति वाऽन्वयः
  1624. नियमेन सर्वत्रैवंपाठः ।
  1625. बाल्यात् बालिशत्वात् एतत् प्रतिज्ञान त्वया प्रतिपन्नं, तत् मत्कृतप्रतिज्ञानं आत्मपुष्पं वेणुमिव मां दहेत-गो. वेणूनां पुष्पोद्गमने सति नाश इति प्रसिद्धम् ।
  1626. तन्मां-ङ.
  1627. वनवास-ट.
  1628. कोपे रामापराधमभ्युपेत्याइ-रामेणेति- गो.
  1629. मेवं ते-च.
  1630. प्रतिज्ञातं-ङ. च.
  1631. पञ्चदशसर्गे-सुमन्त्रं प्रति कैकेयी रामानयनाय-'सुमन्त्र राजा रजनीं रामहर्ष-समुत्सुकः' इत्याद्यभिहितवती-तदभिप्रायेणात्र अभिषेकायागतमित्युक्तम् ।
  1632. तत्त्वेतत्-इत्येव सर्वत्र ।
  1633. मिच्छसि ङ. च.
  1634. एतदनन्तरं- 'इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किश्चित् । भृशाद्वरत्वाच पपात भूमौ तेनैव पुत्रभ्यसने निमनः ॥' इत्यधिकं-ड.
  1635. निजैकपुत्रप्रव्राजनेऽपीत्यभिप्रायः ।
  1636. एतदनन्तरं-पुत्रशोकं यथा नर्हेत् त्वया पूज्येन पूजिता । मां हि संचिन्तयन्तीयमपि जीवेसपस्विनी ॥ इत्यधिकं-ङ.
  1637. जातः-पुत्रः, तस्मिन् प्रेमवतीमिति वाऽर्थः ।
  1638. त्वयि-त्वत्समीपे-ट.
  1639. विगतचेतनः अभूदिति शेषः-गो.
  1640. तन्मामिदं-च.
  1641. दृश्यते-ट.
  1642. विहिते-ङ.
  1643. नेत्राभ्यामुरलक्षित इत्यर्थः ।
  1644. बहिः-ङ.
  1645. पापं-ङ.
  1646. कालज्ञं-ङ.
  1647. शुचि-ङ.
  1648. वरार्हाणि-ङ.
  1649. चतुर्दशवर्षपर्याप्तान्यानयेत्यर्थः- गो. प्रतावानेव वनवासः, नाधिक इति दर्ढ्याय-ति.
  1650. सममेव-ङ.
  1651. उत्तरश्लोके इति भावः । प्रातःकाले उद्यतः किरणवतो विवस्वतः-सूर्यस्य प्रभा खं-आकाशमिव सुविभूषिता वैदेही तत् वेश्म व्यराजयत-प्रकाशयामास-इति वाऽर्थः ॥
  1652. कृपणं-क्षुद्रं अनाचरन्तीं-अकुर्वती-गो. ति.
  1653. अनाचरन्तीं सर्वत्र ॥
  1654. विकृताः-असंस्कृताः 'विकृतो रोग्यसंस्कृतः, सततविकारशीला इति वा । दुर्गाः-दुर्ज्ञेयस्वभावाः । अहृदयाः-दयादिरहिताः । असत्यः-कुलटाः । पापसंकल्पाः दुरभिसन्धयः ॥
  1655. दुर्गाह्यहृदयाः-ङ.
  1656. युवत्यः-ङ.
  1657. मात्रात्-ड.
  1658. विद्यां-ङ.
  1659. संग्रहः-अग्निसाक्षिकपाणिग्रहणम्-गो. दृष्टेऽपि दोषे स्वीकारः-ति. विद्यासंग्रहादिशब्दानां द्वितीयान्तत्वे-हृदयमिति प्रथमान्तं पदं कर्तृवाचकम् ।
  1660. संग्रहम्-ङ.
  1661. न अथवा ग्रहणं संक्रमः, विकारात्प्रतिरोधो वा ।
  1662. तु-ङ.
  1663. शमे-ङ.
  1664. स्थिताम्-ङ.
  1665. समानयितुं–समानां कर्तु-गो. ति.
  1666. श्रेष्ठाभ्यः मात्रादिपतिव्रताभ्यः सम्यक् श्रुतसामान्यविशेषरूपमोत्कर्षा-गो. श्रेष्ठा इति पृथक्पदं वा-ति. गोविन्द-राजीये सर्व एकं पदम् ।
  1667. परायणा-ङ.
  1668. रामविप्रवासाद्दुःखं, सीतामनोदार्ढ्यपरिज्ञानात् हर्षः । अथवा रामविप्रवासप्रयुक्तदुःखमध्येऽपि हर्षः विवक्षितः
  1669. व्याख्यादृष्ट्या 'तु सत्कृताम्' इति पाठः स्याद्वा
  1670. भूत्वा पश्येस्त्वं-व.
  1671. सा समक्ष-ङ.
  1672. समग्रं निर्वर्तितपितृवचनं संपूर्णमनोरथं वा-गो. समग्रं-सीतासहितम्-सत्य. सुहृद्धृतमित्युक्त्या एवं वाऽर्थः-इह प्राप्तं-वनवासात्प्रत्यागतं समग्रं-इदानीमुपक्रन्ताभिषेकं प्राप्तवन्तं अत एव सुहृद्धृतमिति ।
  1673. अमिनीतार्थे क्रोडीकृतसर्वार्थं-गो.
  1674. मातरः-मातृृः अवेक्ष्य-वक्तव्य-मालोच्य-गो.
  1675. अथवा श्लोकद्वयमेकान्वयम् जननीमेतावदुक्त्वा त्रयश्शतशतार्धाश्चापि व्यावृत्त्य ददर्श । ताश्चापि मातरः रामं ददृशुः । तथा राममवेक्ष्य-प्रस्थितप्रयाणं ज्ञात्वा दुःखार्ता मातृृः स दशरथात्मजो वाक्यं जगादेत्यर्थः ।
  1676. संवासात्-चिरपरिचयवशादिति यावत् । समनुजानीत-क्षान्तमित्यनुजानीतेत्यर्थः
  1677. तत्त्वयुकं-ङ.
  1678. समाहितं-समीचीनार्थयुक्तं-गो. धीरं-ति.
  1679. यद्वा मुरजादिसहपाठात् मेघोऽपि वाद्यविशेषः-गो.
  1680. विलपितं-विविधं लपितं वाक्यं यत्र-'भाषितं लपितं वचः इत्यमरः ।रामगुणकैकेयीदुर्गुणादिपरं वाक्यमित्यर्थः । परिदेवनं विलापः ।
  1681. उपसंगृह्य-वन्दित्वा ।
  1682. बृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाः-गो
  1683. अत्र सर्वकोशेष्वेवमेव पाठो दृश्यते । परं तु 'जननीमभ्यवादयत्' इति व्याख्यासम्मतः पाठ इति प्रतिभाति । यथाश्रुतपाठे भ्रातुरन्वक्षं-भ्रातुरनुपदमेवेत्यर्थः । भ्रातुः, जननीमिति शेष इति तिलके ।
  1684. वंदना-घ.
  1685. यथा कौसल्या लोकरक्षणार्थे पुत्रं प्रासूत, एवं मया सुहृज्जने रामे स्वनुरक्तस्त्वं वनवासाय सृष्टः-गो. । अत्रत्यसुहृज्जने स्वनुरक्तोऽपि स्वं वनवासाय सृष्टः-अनुमतः-ती.
  1686. यद्वा-रामे प्रमादं मा कार्षीः-रामे वनं गच्छति त्वमत्रैव मा तिष्ठ-गो.
  1687. एतदनन्तरं 'ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् इत्यधिकं-ङ.
  1688. संसिद्धम्-ङ. च.
  1689. एतदनन्तरं 'गम्यतामर्थलाभाय क्षेमाय विजयाय च । शत्रुपक्ष-विनाशाय पुनः संदर्शनाय च ॥' इत्यधिकं-ङ.
  1690. रामं दशरथं विद्धि-पितरमवगच्छेत्यर्थः । जनकात्मजा मां विद्धि-मातरं विद्धीत्यर्थः अटवीमयोध्यां विद्धि-तद्वद्भोगस्थानं विद्धि । यद्वा रामं दशरथं...दशति....इति दशः पक्षी....स गरुडः रथो यस्य तं विष्णुं विद्धीत्यर्थः । जनकात्मजां मां लक्ष्मीं विद्धि । .....यद्वा रामं दशरथं च विद्धि उभयोस्तारतम्यं पश्येत्यर्थ: । मां जनकात्मजां च विद्धि गुणत आलोचय । ( एवं परिशीलने-दशरथ-मत्सेवापेक्षया रामसीतासेवैव तव ज्यायसी भवेदिति भावः ).....'यद्वा-अयोध्यामटवीं विद्धि-निर्जनेयं भविष्यतीत्यर्थः-गो.
  1691. एतच्छ्लोकानन्तरमेव कुत्रचित् 'लक्ष्मणं स्वेवमुक्त्वा' इति श्लोको दृश्यते-ङ.
  1692. वनवासस्य दुरतिक्रमणीयत्वे सिद्धे तस्य शीघ्रनिर्यातनाय तथा सुमन्त्रोक्तिः ।
  1693. भात्रोरित्यर्थः-ति । भ्रातृभ्यां दत्तानि ..... सचर्म-चर्मपिनद्धं अल्पकण्डोलं, कठिनं खनित्रं च-गो.
  1694. धृष्टं-विना सङ्कोचं, कारणान्तरेण प्रयाणविलम्बे वनवासात्प्रतिनिवर्तनकाले विलम्बापातादित्याशयः ।
  1695. रथं-ङ.
  1696. स्सयतान्-ङ.
  1697. चिरं मूर्छा-मोहः बभूव-गो. चिरकालावस्थित्यर्थमित्यर्थः-ति । अथवा मृगयाद्यर्थ रामवनगमनसमयापेक्षया वैलक्षण्यद्योतनाय चिरकालं रामे वनं प्रतिप्रयाते इत्यर्थः ।
  1698. संकुलित-ङ.
  1699. समाकुलं-अन्तःकरणक्षोभयुक्तं संभ्रान्तं बाह्यन्द्रिय-क्षोभयुक्तम्-गो.। अत्र पूर्वश्लोकगतमूर्छा पदस्य मोहपरत्वे-रामचिरवियोगनिर्णयसमनन्तरं मूर्छा-स्तब्धता बभूव । तदनन्तरं च समाकुलमित्यादि ।
  1700. धर्मार्तः-ङ.
  1701. देवकुमारसदृशे-गो., ती. स्कन्दतुल्ये-ति.
  1702. यद्वेदगर्भ-ङ.
  1703. बुद्धिः-ङ.
  1704. रुदतीनां-ङ.
  1705. रभ्युपहृतं-ङ.
  1706. अभ्यवहितं रथनेम्युद्धतम्-ति.
  1707. रुदिताश्रुपरिद्यूनं-अनुत्साहवत्-ति.
  1708. क्लिन्नं-ङ.
  1709. दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुति-मोदमदस्वप्नकान्तिगतिषु इति धातुः । एतदर्थकधातोः क्तप्रत्यये द्यूतमिति रूपम् । परन्तु तत् विजिगीषारूपार्थे मात्रम् । इतरथा तु द्यूनं इति भवति । उपसर्गाणामनेकार्थत्वात्परिम्लानमिति वा प्रकृते अर्थः ।
  1710. नयनैः-नयनेभ्यः-गो.
  1711. रामैकचित्ततां गतमिति वा ।
  1712. सन्धिरार्षः-हा राममातः-इत्यर्थः-गो.
  1713. समृद्धमन्तःपुरं-अन्तःपुरजनः पर्यदेवयदिति विपरिणामः–गो. अन्तःपुरसमृद्धं-अन्तः पुरसहितम्-ति.
  1714. पुरं-ङ.
  1715. राजानं मातरं उभावपि पथि अनुगतौ ददर्श इत्यन्वयः।
  1716. संक्षिप्तः-ङ.
  1717. यानार्हौ अदु:खार्हौ सुखोचितौ मातापितरौ पदातिनौ दृष्ट्वा—इत्यन्वयः । अत्र हेतुरुत्तरश्लोके उच्यते ।
  1718. दुःखदं-ङ.
  1719. अगारं प्रत्यायान्ती-गो. वत्सलेत्यत्रोपपादकमिदम् ।
  1720. रथपूर्वपश्चाद्भागस्थितयोः चक्रयोर्मध्ये पतितः पुरुषः यथा उपरि गन्तुं पश्चान्निवर्तितुं च न शक्नुयात् तथा सुमन्त्रमनः स्तब्धा बभूवेत्यर्थः ।
  1721. एवं स्तब्धं सुमन्त्रं प्रति रामो वदति–नाश्रौषमित्यादि । इदानीं तिष्ठति राज्ञाऽभिहितेऽपि त्वं उपरि गच्छ-यदि च राज्ञा अनन्तरं प्रतिनिवृत्तः भवान् 'किं मदाज्ञा न परिपालिता' इत्युपालब्धोऽपि 'तदहं नाश्रौषं' इति राजानं प्रति समाधानं वक्ष्यसि–एवं समाधानं वदेति यावत् ।
    किमर्थमेवमित्यत्राह–चिरमित्यादि । दुःखस्य चिरं–विलम्बः पापिष्टं—असह्यं ; यतः । मातापितृदुःखदर्शनमितः परं सोढुमहं न शक्नोमि, अतः शीघ्रं गच्छ इति रामः सुमन्त्रमब्रवीदित्यर्थः ।
  1722. श्रुवा-ङ.
  1723. तं जनं-अवरोधजनमिति वाऽर्थः । उत्तरत्र आगंगं पौरजनानामनुगमनस्य वचनात् । 'न्यवर्तत जनो राज्ञः 'इत्युत्तरलोकपाठान्तरं अत्रानुकूलम् ।
  1724. जनो राज्ञो-ङ.
  1725. रायातं-ङ.
  1726. गुणोपपन्नः-ङ.
  1727. व्याख्यादृष्ट्या अस्मिन् सर्गे एकः श्लोकः अधिकः । स क इति न ज्ञायते ॥
  1728. निष्क्रामति-ङ
  1729. अभिशप्तः-मिथ्यादोषेण निन्दितः ।
  1730. कचिदित्यस्य न क्रुध्यतीत्यनेन सम्बन्धः-गो.
  1731. स इतः-ङ.
  1732. संक्षयं-आधारत्वेन गृहभूतम्-ति.
  1733. संक्षयं-च.
  1734. नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः । अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ व्यसृजन् कबलान् नागा गावो वत्सान्न पाययन् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ इति क्रमः-- ङ.
  1735. पालयन्-ट.
  1736. पालयन्-ट.
  1737. त्रिशङ्कुः इक्ष्वाकुकुलकूटस्थः । लोहिताङ्गः अङ्गारकः । बृहस्पतिबुधयोर्दारुणत्वं दारुणाङ्गारकसंयोगात् क्रूरस्थानगतत्वाद्वा । त्रिशङ्कोर्ग्रहत्वाभावेऽपि छत्रिणो गच्छन्तीतिवद्व्यपदेशः । त्रिशङ्कोः सोमप्राप्तिः ऋजुदेशत्वेन ज्ञेया । ननु 'पूर्णे चतुर्दशे वर्षे पञ्चम्यां भरताग्रजः' इति वक्ष्यमाणरीत्या तत्रैव संभावनया च पञ्चम्यामभिषेक इति सिद्धम् । तस्मिन्नेव च निर्गतः । तथा च कर्कटकस्थे चन्द्रे कथं बुधसमागमः । तस्य सूर्यसमीपवर्तित्वात् । उच्यते–प्राप्तिरत्र नैकराशिस्थितिः । किन्तु, क्वचित् प्राप्तिः, क्वचित् दृष्टिरिति न दोषः । वक्रगस्या समागम इत्यप्याहुः-गो. त्रिषु द्वादशाष्टमजन्मस्थानेषु शङ्कुरिव शङ्कुः-शनैश्चरः-स.
  1738. दधिरिवोत्थितः,-द्धतः-ङ.
  1739. शोकपरंपरा सन्तप्तः-गो.
  1740. चुकोप--ङ.
  1741. सुताः स्त्रीणामनर्थिनः, मातॄणां स्तन्यं नापेक्षत इत्यर्थः । भर्तारः स्त्रीणामनर्थिनः । भ्रातरः अनर्थिनः, अन्योन्यमिति शेषः-गो.
  1742. न्वचिन्तयन्-ङ.
  1743. शयनं मूर्छाशयनं-गो. शयनं न जहुः-उत्थातुमपि न शक्ता बभूवुरित्यर्थः ।
  1744. नैव भेजिरे-च.
  1745. निर्यतः इति षष्ठी-क.
  1746. रथ्याधूली-ट.
  1747. पुत्रदर्शने–पुत्रदर्शननिमित्तं रजो व्यवर्धतेव । मन्निमित्तेन पुत्रदर्शनेन राजा कञ्चित्कालमप्यव्यथितो भवेदिति मध्वेव रजः व्यवर्धत-गो. ती. अथवा अस्य देहो ब्यवर्धत-पुत्रदर्शनायोत्थाय स्थितः-गो. उत्तरश्लोकदर्शने अयं पक्षः समुचितः ।
  1748. ताबद्विवर्धते पांसुः-ङ.
  1749. 'तस्य दक्षिणमुद्धृत्य' इति पाठः । तस्य दक्षिणं बाहुं उद्धृत्य गृहीत्वा कौसल्याऽन्वगात् । कैकेयी त्वस्य वामपार्श्वमेव केवलमन्वगात् ॥ ती.
  1750. सा सुमध्यमा-च.
  1751. मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये-च.
  1752. यन्मे स दद्यात्प्रीत्यर्थे मां मा तद्दतमागमत्-ङ. एतदनन्तरं-'राज्यस्थो भरतो यन्मां तन्मां नाभ्युपगच्छतु इत्यधिकं-ङ.
  1753. अत्र तिलके-"कतकस्तु 'अनुजानामि' इत्यादिसार्धश्लोक एकं वाक्यम् । तत्पूर्वार्धे त्यजामीत्यनुकर्षः । तत्तृतीयार्धे 'यन्मे स दद्यात् पित्रर्थं मामतद्दत्तमागमत्' इति पाठः । स दद्यादिति चावर्तते । भरतस्त्वया प्रापितं राज्यं प्राप्य प्रतीतो विवेकवान् सन् यत्पाप्तं राज्यं तत् स पित्रर्थे-पितुर्मम प्रीतिसंपादनाय यदि दद्यात्-त्यजेत्, मां चातदृत्तं न कृतं तस्मै दत्तं दानं राज्यस्य येन तादृशं मां प्रीत्या पूर्ववदागमत् प्राप्नुयाच्चेत्, तदा यत्स मे दद्यादस्मिन् लोके विहारशय्याभोजनादि, परत्र च-परलोके पिण्डदानादि तत्सर्वमनुजानामि-अंगीकरोमि, अन्यथा तं त्यजाम्येवेत्यर्थः" इत्याह–इत्यनूदितम् ॥  गोविन्दराजीयादिरीत्या तु–अनुजानामीत्यर्धे पूर्वेणान्वेति । ऐहिकामुष्मिक-फलकः यः तव सम्बन्धः कृतः तं अनुजानामि-परिहरामि भरतः इदं राज्यं प्राप्य प्रतीतः-हृष्टः 'ख्याते हृष्टे प्रतीतः' इत्यमरः, स्याच्चेत् स मे प्रीत्यर्थे यत् दद्यात् तद्दत्तं मां मा गमत्-मा प्राप्नुयात्-इत्यर्थः ॥
  1754. समुत्थाप्य ङ.
  1755. राघवं-ङ, च.
  1756. निवृत्त्यैव निवृत्त्यैव-पुनःपुनरित्यर्थः ।
  1757. पुत्रं नगरान्तं-नगरबाह्यदेशं प्राप्तं मत्वेत्यर्थः-ति.
  1758. पुत्रं-पुत्रमधिकृत्य ।
  1759. सुखेषूप-ङ.
  1760. महाबाहुः-ङ.
  1761. उत्थास्यतीति पूर्वश्लोके कथनात् तदनुवादोऽत्र । अनाथवद्गच्छन्तमित्यन्वयः ।
  1762. क्रमणाकान्ता-ङ.
  1763. बहुकालानन्तरं प्राप्तस्य पुत्रस्य मरणे, यथा मृतस्नातः सुदुःखार्तः सूतिकागृहं प्रविशेत् तथेति भावः । प्राप्तपुत्रोऽपि हि दशरथः न पुत्रसुखं लब्धवान्, राज्याभिषेककाल एव स्वाभीष्टहानेः । एवञ्च दशरथः पुनः रामाधीनसुखं अप्रतीक्षमाणः उत्पन्न विनष्टपुत्रमिवात्मानं मेने । दशरथमनोभावस्य तथाऽवस्थितेर्नेमश्लीलोक्तिः ॥
  1764. गृहोत्तमम्-ङ.
  1765. निर्व्यापारामित्यर्थः अनेन संचारक्षमास्सवें राममनुगता इति द्योत्यते-गो.
  1766. देवताम्-ङ.
  1767. महोरगविशिष्टो महाहृदः जन्तुमिरकलुषितोऽतिगंभीरः स्यात् । उरगाभावे च सर्वैः कलुषितः स्यादिति वा दृष्टान्तानुरूप्यम् ।
  1768. मन्दार्थ-सर्वत्र । (मन्दार्थ-अल्पार्थ-गो.)
  1769. तैः न्यवेश्यत । राजेति शेषः-ति.
  1770. ततस्तस्य-ङ.
  1771. हा राघव-ङ.
  1772. नौ-ङ.
  1773. सुखिनः सततं-सुखिता-स्सततं-ङ.
  1774. तं कालं-तस्मिन् काले, तावत्कालमिति वा-गो.
  1775. त्वां-ङ.
  1776. मां-ङ.
  1777. राममातृत्वात् त्वत्स्पर्शः किञ्चिदिवाप्यायकः स्यादिति वा ।
  1778. विनिश्वसन्तं-ङ.
  1779. विजिह्यताम्-ङ., विषं मुक्त्वाsहिजिह्मगा-च.
  1780. विजिह्मतां-कौटिल्यरूपं विषं-गो., अहिजिह्मगा-सर्पवत् कुटिलगतिः-ति.
  1781. राज्याभावेऽपि ममात्मजं भरतस्य दासं दातुं कामकारः-इच्छा वरं वनवासात् तमः-गो.
    श्रेष्ठतमः-गो
  1782. राज्यात्-ङ.
  1783. प्रदिष्टः-ङ.
  1784. आहिताग्निना पर्वणि देवेभ्यो देयः हविर्भागः-पुरोडा शैकदेशः रक्षसामिव सर्वथाऽनुचितं स्वया कृतमिति भावः-गो. पर्वण्याहिताग्निना रक्षसां भागस्तुषादिरूपः विप्रवद्धः-प्रक्षिप्तः । इतः परं तदर्शनमसंभावितं, रक्षोभिनाशादिति व्यङ्गथम्-ति.
    पर्वण्याहिताग्निता ब्रीहिगततुषजालं यथा रक्षोभागत्वेन प्रदिष्टं तथा कैकेय्यापि रामो राक्षसभागत्वेन विनियुक्तः-ती.
  1785. कैकेय्यानुमते-ङ.
  1786. कान्ववस्था-ङ.
  1787. 'अथ रात्र्यां प्रपन्नायां' इत्युक्तत्वात् एवं चिन्तनम् ।
  1788. श्रुत्वेव- ङ., च.
  1789. द्विजातीनां ब्राह्मणानां कन्याः, सुमनसः-पुष्पाणि फलानि च प्रदिशन्त्यस्सत्यः पुरीं कदा प्रदक्षिणं करिष्यन्ति । अयमौत्तराणां मङ्गलाचारः-गो.
  1790. प्रविशन्त्यः, प्रदिशन्त्यः-ङ.
  1791. अमरप्रभः पञ्चविंशतिवर्षः । अमरा हि सदा पञ्चविंशतिवर्षाः ।
  1792. धर्मात्मा-ङ.
  1793. त्रिवर्ष इति पाठे--त्रिषु कालेषु वर्षः वर्षणं यस्य सः मेघः । प्रतिमासं वर्षत्रयस्य न्याय्यत्वात्तथोक्तिः ।
  1794. त्रिवर्ष-ङ
  1795. कल्प्यते दैवेनेति शेषः। कल्पत इति पाठे विद्यत इत्यर्थः-गो.
  1796. महाबाहुं महाबलम्-ङ.
  1797. दीपयतेऽद्य वह्निः प्रभवो महाहितः-च.
  1798. समुत्थितः-अभिवृद्धः ।
  1799. उद्धतप्रभः-इति वह्निविशेषणं-गो. प्रकृत-व्याख्यानरीत्या सम्बुद्धथन्तम् ॥
  1800. रश्मिभिरुद्धतप्रभः-ङ., च.
  1801. धर्मे-च.
  1802. य इत्यादि श्लोकद्वयमेकान्वयम्.
  1803. प्रेत्यफलोदये-आमुष्मिकफलकारणे- गो.
  1804. शश्वत्प्रेत्य-ङ., च.
  1805. अनेन सर्वभूतदयावत्वेन लक्ष्मणस्य सर्वभूताधारभूधारकशेषावतारत्वं, धर्मानुगत्या जानक्याः श्रीत्वं च ध्वनितम्-ति.
  1806. जानन्त्येव-ङ.
  1807. धर्मसत्यव्रतपरः, धर्मःसत्यव्रतपरः, धर्मसत्यव्रतधनः, तपस्सत्यव्रतधनः-ङ.
  1808. सुमित्रा जन्मान्तरीयभगवदाराधनजनितसुकृतपरिपाकेन श्रीरामं परमात्मानं मत्वा मनसि निधाय वनेष्वातपादिषु संचरतो रामस्य सूर्यादिबाधा नास्ति, अपि तु तत्सेवैव भविष्यतीति कौसल्यामाश्वासयति-व्यक्तं रामस्येत्यादिश्लोकत्रयेण-ती.
  1809. शौर्य-ङ.
  1810. तिमिध्वजसुतः सुबाहुरिति कतककृतः तदयुक्तं–ताटकावधोत्तरं सुबाहुवधात् प्रागेव.... अस्त्रोपदेशस्य प्रागुक्तत्वात् । सुबाहोर्मारीचभ्रातृत्वस्य पूर्वमुक्तत्वेन शम्बरसुतत्वानौचित्याच्च-ति. कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तं पुरं निरुध्य दशरथविरोधिभूतशम्बरसुतं हतवान् । तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददौ-गो., ती. तिमिः ध्वजे ययोस्तौसुन्दोपसुन्दौ–तयोस्सुतं-सुबाहुं हतं-हतप्रायं दृष्ट्वा-ज्ञात्वा-इत्यपि केचित् ॥
  1811. वने रामस्य सौख्यं भवतु, भरतस्य रूढमूलत्वात् रामस्य राज्यं न सिध्यतीत्याशंक्याह-यस्येति–गो.
  1812. कथं न सर्वत्र.
  1813. एतैरसाधारणहेतुभिरिति शेषः,
  1814. षष्टीतत्पुरुषः ।
  1815. देवतानां-च.
  1816. यतस्सर्वे जना अश्रु विसृजन्ति-रामे सुतरामासक्ता वर्तन्त इति भावः । अतः-स रामः पुनरभिषेक्ष्यत एवेति पूर्वश्लोकस्थेनान्वयः ।
  1817. रामं-ङ.,वीरं-च.
  1818. धनुर्धरवरो–ङ.
  1819. वन्दमानं दिने दिने ङ,
  1820. ऽशुभम्-ङ.
  1821. त्वं-च.
  1822. शेषः परिवारजनः यदा त्वया समाश्वास्यो वर्तते, एवंस्थिते भवत्या विक्लबः अनुचित इति वा भावः ।
  1823. त्वया शेषः-च.
  1824. मिदं-च.
  1825. रामाद्वरो-ङ,
  1826. वार्षिकी-वर्षाकालिकी ।
  1827. प्रोक्षसि पुनः-ङ.
  1828. अनुरक्तं-ङ.
  1829. प्रयातं-ङ.
  1830. सुहृद्वर्गे राजनि दशरथे च बलान्निवर्तितेऽपि ते पौरा नैव सन्नथवर्तन्त इत्यर्थः । तत्र हेतुरुत्तरश्लोकेनोच्यते ॥ सुहृद्धर्मेण 'यमिच्छेत्पुनरायान्तं नैनं दूरमनुब्रजेत्' इत्युक्तिरूपेण-ति.
  1831. सुहृद्धर्मेण-च.
  1832. ताभिः-च.
  1833. स्नेहेन-ङ.
  1834. स्वाः प्रजा इव-स्वापत्यानीव-गो., ति. भरताय राज्यस्य दत्तत्वात् स्वस्य राज्यस्य च सम्बन्धाभावेन वा तथोक्तिः । अनन्तरश्लोक इममर्थ द्रढयति ॥
  1835. विधीयताम्-ङ.
  1836. मया शिष्टैः-मत्तोऽधिकैरिति यावत् । ईदृशै राजगुणैर्युक्तः-ति. मया, शिष्टैः-अवशिष्टैश्च-लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि-गो.
  1837. न च तप्येत्-ङ.
  1838. धर्म एव स्थितोऽभवत्-ङ.
  1839. पतिमकामयन्-ङ,
  1840. गुणैर्बध्वा-ङ.
  1841. इदं वाक्यं नजुपश्लिष्टं स्यादिति भाति, उत्तरश्लोकेष्वपि पौरानुवर्तनस्य द्योतनात् ॥
  1842. प्रतिवेदिताः–ज्ञापिताः-गो.
  1843. भर्ता नो-ङ.
  1844. सः-ङ.
  1845. रथेन गमने ब्राह्मणकेशनेन दोषः, प्रतिनिवृत्त्य ब्राह्मणाश्वासने व्रतभङ्गो भवतीति धिया पद्भ्यां मन्दगमनोऽभूत् यावद्वद्धसन्निधानमित्यर्थः-ति.
  1846. जनान् सर्वान् उपातिष्ठत् सलक्ष्मणः-ङ.
  1847. ब्राह्मण्यं ब्राह्मणसमूहः । ब्रह्मसु ब्राह्मणेषु साधुः ब्रह्मण्यः, तम्-गो. ब्राह्मण्यं
    ब्राह्मणसम्बन्धिसकलमंत्रतंत्रज्ञानयोगानुशनरूपमस्मदीयं कर्म-ब्राह्मणसमूहो वा-ती.
  1848. कृत्स्नमेतत्-ङ, च.
  1849. निजस्क-क.
  1850. प्रयातान् हि हंसानिव-ङ.
  1851. स्वैः छत्रैः-ङ., च.
  1852. ज्ञानस्यैव मुख्यवेदत्वात्तयोक्तिः । दाराः तत्पातिब्रत्यरक्षिता वत्स्यन्ति, एवञ्चास्माकं वनगमने न कश्चन प्रतिरोध इति भावः त्वद्गतौ-त्वन्निवर्तनरूपगतौ मतिः सुकृता सुष्ठु कृता । निश्चयः-वनवासनिश्चयः पुनः न कार्यः, त्वयेति शेषः, त्वयि धर्मसापेक्षे अस्माभिरपि धर्मः अपेक्षणीयः किम् ? अथवा धार्मिके त्वय्यपि ब्राह्मणप्रार्थनारूपधर्मनिरपेक्षे किमन्यं धर्ममपेक्षितुं युक्तम्-इत्यर्थः ।
  1853. हृदयेष्वेव तिष्ठन्ति-ङ.
  1854. वसन्त्यपि-ङ.
  1855. त्वद्गतौ-सर्वत्र
  1856. स्याद्धर्मपथे स्थितम्-ङ., च.
  1857. याचितस्सन्निवर्तस्व-ङ.
  1858. वृद्धब्राह्मणानां क्षत्रियकुमारप्रणामः परत्वबुद्ध्या-गो. भगवदवतारस्वदृष्ट्या
    नमस्कारेणादोषात् । यद्वा राज्ञो विष्ण्वंशत्वेन नतौ न दोष इत्याहुः-ति.
  1859. तवानिवर्तने त्वयैव सर्वे यज्ञा विघ्निताः स्युरिति भावः ।
  1860. निवर्तने सर्वत्र
  1861. भक्तिमन्तीह-ङ., च.
  1862. त्वं भक्तेषु विद्यमानां भक्तिं दर्शय-सफलयेत्यर्थः-गो.
  1863. तेषु त्वं च., भूतेषु-ङ.
  1864. मूलैः पादस्थानीयैः त्वामनुगन्तुमशक्ताः उन्नताः ऊर्ध्वबाहव इव स्थिताः-गो.
  1865. उद्धत-ङ.
  1866. कम्पनम् च.
  1867. द्विजातीनामिति सम्बन्धसामान्य षष्ठी । द्विजातिभिः प्रार्थ्यमानरामनिवर्तन इत्यर्थः-गो., ती.
  1868. कृतश्रमापनुत्तिहेतु इति स्यात् ॥
  1869. वनवासस्य पूर्वा प्रथमा अद्येयं निशा इदानीमुपस्थिता रात्रिः प्रहिता-गतप्राया । अतः स त्वं नोत्कण्ठितुमर्हसि । सीतामुदीक्ष्य सौमित्रिमब्रवीदित्यस्य एवं वाऽभिप्रायः । अतिसुकुमारी सीता कथं पद्भ्यामेव वनं गच्छेदिति नोत्कण्ठितुमर्हसीति-गो. वनवासस्य-वनवाससम्बन्धिनिशानां मध्ये अद्य प्रवृत्तेयं निशा वनं-वनवासं प्रति पूर्वा प्रहिता-प्राप्ता-ति. वनं प्रहिता-वने प्राप्ता-ती. अथवा वनवासस्य विषये नोत्कण्ठितुमर्हसीति वा अन्वयः ।
  1870. प्रस्थिता-ङ.
  1871. कुतः शोचिष्यतीत्यत्र हेतुमाह–अनुरक्ता इत्यादि । बहुभिर्गुणैरिति, राजानं त्वां मां शत्रुघ्नभरतौ इति सर्वत्रान्वेति । मनुजाः अनेकगुणैः राजानं त्वां मां शत्रुघ्नभरतौ च प्रति यतोऽनुरक्ताः अतः शोचिष्यन्ति। स्वस्याहंकाराभावसूचनाय, स्वप्रवासस्य सर्वानिष्टे पर्यवसानसूचनाय च जनानुरागस्य अविशेषेण सर्वविषयत्वमुक्तम्.
  1872. अपि वान्धौ न भवेतां, अपि तु भवेतामेव-ति.
  1873. नान्धौ-च., चान्धौ-ङ.
  1874. त्वया यत् कर्तव्यं तत् कृतमेव । हि यतः वदनुव्रजनाभावे वैदेहीरक्षणार्थं सहायता-सहायसमूहः अन्वेष्टव्यः स्यात् । त्वमेको सहायसमूहस्थानीय इति भावः-ति.
  1875. वत्स्याम्यत्र-ङ.
  1876. वनवासोपक्रमदिवसत्वात्, अस्य तमसातीरस्य पुण्यक्षेत्रत्वाच्च अवासः-गो., ती. । अनुरक्तजनदुःखस्मरणाच्च तथा सीतालक्ष्मणयोस्तु स्वाभिलषितरामानुव्रजनप्राप्त्या न तावान् शोक इति भावः ।
  1877. झटिति समयविशेषे प्रस्थानाय तथोक्तिः ।
  1878. वृक्षदलास्तरणरूपं शयनं-वृक्षदलैः कृतां इत्युत्तरश्लोकानुसारात् ।
  1879. श्रान्तं संप्रेक्ष्य-च.
  1880. जाग्रतोरेव-च. जाग्रतोरेव सा रात्रिः तयोस्सौमित्रिसूतयोः । जगाम तमसातीरे रामस्य ब्रुवतो गुणान् ॥-ङ.
  1881. अदूरतः-गो.
  1882. निरपेक्षान् गृहेष्विमान्-ङ.,
  1883. अस्मन्निवर्तने यथा नियमं कुर्वन्ति तथा प्राणानप्यसिष्यन्ति-गो., ति.
  1884. अपि प्राणान्न रक्षन्ति-ङ.
  1885. एतेन–रामेण प्रतिज्ञायाः प्रथममेव कृतत्वात् तद्विरोधी नियमः उपेक्ष्य एव । अत एवोत्तरत्र पौरमोहनं युज्यते । किञ्च न हि रामवियोगे एतेषां प्राणसंशयः येन रामवञ्चनानन्तरमप्यजीवन्नेव । इदं सर्वे पश्यन्नेव रामः पौरान् वचयामास इति सूचितम् ।
  1886. मामनुरक्ता इक्ष्वाकुपुरवासिन इदानीमिव भूयः-पुनः वृक्षमूलानि संश्रिताः न स्वपेयुः, अपि तु स्वगृहं गच्छेयुः । अतो यावन्नोत्तिष्ठन्ति तावत् लघु- शीघ्रं रथमारुह्य गच्छाम इत्येव नञुपश्लिष्टतया व्याख्या सर्वत्र दृश्यते । एतद्व्याख्यारीत्या तु 'नेदानीं' इत्यत्र नम्रहितः पाठ इति भाति ।
  1887. मूलेषु-ङ,
  1888. वेगेन-ग.
  1889. आत्मकृतात्-स्वकृतात् । आत्मना-स्वेन-गो.
  1890. महाप्राज्ञ-ङ.
  1891. धीमान्-ङ.
  1892. मतः-ङ.
  1893. तमारोह सुभद्रं ते-ङ.,त्वरयाऽऽरोह भद्रं ते-च.
  1894. जलस्थितरथादवतीर्य पद्भभ्यामेव महामार्गे प्रापदित्यर्थः । भयदर्शिनां श्वापदादीनां अभयं-तत्सम्बन्धिभयरहितं-गो. महामार्गं-राजमार्गे-ति.
  1895. वनं प्रस्थितस्य स्वस्योदङ्मुखगमने नियमभङ्गः स्यादिति मत्वा स्वयं रथादवरुह्य 'त्वं प्रयाहि' इति सुमन्त्रं प्रत्युक्तिः । इममर्थे ३४ श्लोकोऽपि द्रढयति ॥
     ननु सदयस्य रामस्य स्वविरहासहिष्णूनां स्वस्मिन्निरतिशय प्रेमभाजां वञ्चनमनुचितम्-उच्यते नेदं वञ्चनं । व्रणचिकित्सान्यायेन नागरिकाणां उन्मस्तकानन्देन सत्ता न भवेदिति सुसात्म्यानुभवप्रदानार्थं वनवासव्याजेन विश्लेषस्य संकल्पिततया हितव्यापारत्वेन वञ्चन-त्वासंभवात् । यदि रामस्य तथा संकल्पो न भवेत्-तर्हि कथं निश्शेषसर्वजननिद्राकरणं ? सुमन्त्रलक्ष्मणवत्तेष्वेकस्यापि निर्निद्रत्वापत्तेः-गो. महामायाधिष्ठातुर्भगवत इयत्या क्रियया पौरमोहनं नाश्चर्याय-ति. शिष्टं तु २० श्लोकटिप्पण्यां द्रष्टव्यम् ॥
  1896. रथमारुह्य-च.
  1897. उदङ्मुखप्रयाणानुकूलनिमित्तदर्शनात् रथमुदङ्मुखं चकार । न तु ययौ-व्रतभङ्गप्रसङ्गादित्याशयः ।
  1898. र्गतचे-ङ.
  1899. रथरेण्वादिकमपीत्यर्थः-गो., ति, ती. लोकरीत्या इयमुक्तिः ।
  1900. सुदुःखि-ङ.
  1901. दर्शनरूपम-ग.
  1902. विषण्णातं-ङ.
  1903. मनीषिणः-च.
  1904. तङार्षः ; हे इति सम्बोधनं वा परस्परम्- ति.
  1905. राघवो-ङ.
  1906. ज्येष्ठः-ङ.
  1907. निधनं प्रायोपवेशेन । महाप्रस्थानं विना रामं न प्रतिनिवर्तितव्यमिति संकल्पपूर्वकं रामान्वेषणाय गमनम्, पुनरावृत्तिरहितप्रस्थानं वा ।
  1908. नः-च.
  1909. हितम् च.
  1910. प्रायोपवेशेन मरणे तु न झटिति प्राणवियोगः स्यात्, तावत्पर्यन्तं तु रामविरहः दुस्सहः । अतः अग्निमेव प्रविशामेत्याहुः ।
  1911. रामवृत्तान्तं पृच्छन्तं जनं प्रति अस्माभिः राघवो वनं नीत इति वक्तुं कथं क्षमम्। अन्यद्वा किं वक्ष्यामः-ती एतद्व्याख्याने अनन्तर श्लोकोऽपि स्वरसः ॥ उत्तरसर्गषष्ठश्लोकोऽप्यत्रानुकूलः।
  1912. महात्मना-च.
  1913. मार्गनाशात्-रथमार्गदर्शनात् । तच्च वीरत्तृणपटलपिहित प्रदेशे रथचारणादिति ज्ञेयम्-गो.
  1914. रथमार्गानुसारेण-च.
  1915. किमिदानीं-ङ.
  1916. क्षयं गृहं प्रति व्याकुलं-गन्तव्यं न वेत्येवंरूपं मानसं येषां-ति.
  1917. भवर्तयन्त-व्यमुञ्चन् ।
  1918. ४२- २५ श्लोकव्याख्यायामिति शेषः ।
  1919. तेषामित्यादिश्लोकद्वयमेकं वाक्यम् ।
  1920. अमनस्विनां धैर्यहीनानाम्-गो.
  1921. पुण्यानि-ङ.
  1922. पूर्वे नष्टं तदा दृष्ट्वापीत्यर्थः ।
  1923. भर्तृृन् सम्बोध्य वक्तुमनिच्छन्तः सामान्यतो तेषामिति निर्दिश्य व्यगर्हयन्त ।
  1924. गृहैः-ङ, च.
  1925. सीतया सह रामं-सीतया सहितं राममित्यर्थः ।
  1926. येषु सरस्सु शुचि सलिलं विगाह्य-सलिलान्तर्निमज्य स्नास्यति । स्नानं खलु– केवलशौचानुकूलव्यापारः-ष्णा शौचे इति धातोः । तच्च स्नानं उद्धृतजलेनापि भवितुमर्हति । तद्व्यावृत्यर्थं विगाह्यत्युक्तम् । यद्वा स्नानं-अन्तश्शौचानुकूलव्यापारः-मन्त्रस्नानमित्यादिप्रयोगात् । अवगाहनं-बाह्यशौचानुकूलव्यापारः । यास्यतीति पाठे विगाह्म यास्यतीत्यन्वयः ॥
  1927. येषु यास्यति-च.
  1928. लोभयिष्यन्ति-ङ.=रामं आकर्षयिष्यन्तीति भावः ।
  1929. नगाः रामं परमात्मानं मत्वा स्वनिष्ठभ्रमरझंकार रूपमन्त्रोच्चारणपूर्वकं स्वशाखा-करोद्धृतमञ्जरीरूपपुष्पाञ्जलिभिः राघवमर्चयिष्यन्ति-ती.
  1930. दूरात् पुरा भवति-भविष्यति, ताः पूर्वमेवानुगच्छाम इत्यर्थः-गो. अदूरात् पुरा भवति आसन्नो भविष्यति, अतो राघवमनुगच्छाम-ति., ती.
  1931. नो दूरात्-ङ.
  1932. सुखोदर्का-ङ.
  1933. गतिः-शरणं, परायणं-परमप्राप्यं 'पराभीष्टे परायणपदं विदुः' इति शाश्वतः। तथा च, उपायः उपेयश्चेति द्वयमपि राम एवेत्यर्थः ।
  1934. स्तास्तदाब्रुवन्-ङ.
  1935. अप्रतीतेन अप्रशस्तेन-हर्षशून्येन वा–'ख्याते हृष्टे प्रतीतः' इत्यमरः ।
  1936. परिहरेत् परित्यजेत्, स्वक्रूरचिन्तात इति शेषः
  1937. भृतकामा-ङ.
  1938. अस्मिनगरे कैकेय्यावयोर्मध्ये अन्यतरजीवनमेव भवति इति भावः ।
  1939. अनालंभं-च. (अयज्ञं-ति).
  1940. प्रव्रजिते-ङ.
  1941. बिलोपः-च.
  1942. भर्तृृन् वीक्ष्य विषं पिबतेत्युक्तिः सतीनामसंगतेति मत्वा इदमुक्तम् । परन्तु अश्रुति वापि गच्छतेति कथनं कथं ? अतः विषादमूर्च्छतानामयमर्थस्मरणशून्यः उपालंभ इति स्वरसम्
  1943. ससीतः-ङ.
  1944. सन्निविष्टाः स्म-ङ.,सन्निबद्धाः स्मः-च.
  1945. स्वसौलभ्यसौशील्याद्यतिशयात् परप्रश्नादिकं न प्रतीक्षत इत्यर्थः ।
  1946. मधुरं-ङ,
  1947. भृशसन्त-ङ,
  1948. मृत्योः भयागम इव-मृत्युसम्बन्धिभयप्राप्ताविवेत्यर्थः ।
  1949. समागमे-ड.
  1950. संतापा-च.
  1951. प्रशान्ताध्याय-ङ,
  1952. तदा-च.
  1953. सुतैः-सुतेभ्यः सः-रामः अधिकः-प्रियतरः
  1954. सुताद्धि-ङ.
  1955. तथा-ङ.
  1956. संक्षपितोदकः-संशोषि तोदकः
  1957. महद्दूरमित्यर्थः ।
  1958. विषयान्तं-उत्तरकोसलस्य दक्षिणप्रदेशसीमानमित्यर्थः ।
  1959. पश्यन्नपि-ङ.
  1960. शनैरिव-ङ.
  1961. शनैरिति पाठे शनैरिव जानन्, गमनस्यातिवेगत्वेऽपि प्रवासे आसक्त्यतिशयात् तथा जानन्निति भावः ।
  1962. एतदनन्तरं 'विगर्हितां च कैकेयी क्रुरां क्रूरेण कर्मणा' इत्यधिकं-ङ.
  1963. ग्रामाः महाग्रामाः, संवासाः-अल्पग्रामाः-गो.
  1964. क्षुद्र-ङ.
  1965. एतदनन्तरं-कथं नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वमिरता दुःखान्यनुभविष्यति ॥ इत्यधिकम्-ङ.
  1966. शिवतोय-ङ.
  1967. आपृच्छे-अनुशां प्रार्थयामि ।
  1968. पालयन्त्या-सर्वत्र,
  1969. दुःखस्य चिरं-विलम्बः-पापीयः-न युक्तमित्यर्थः ।
  1970. स्वेवामनुगमनानभ्युप-गमात् अतृप्तानाम् ।
  1971. चैत्यं-अग्निशाला ।
  1972. सदा गोकुल-ङ.
  1973. गोकुलैराकुलं यथा तथा सेविता इति विग्रहः ।
  1974. नरेन्द्राणां लक्षणीयान्, एकैकश नगरसदृशत्वेन लक्षयितुं योग्यान्-गो., ती.। नरेन्द्राणां रक्षणीयान्, ग्रामश इति शेषः । नरेन्द्ररक्षणयोग्यैकग्रामान्, इतरनरेन्द्रराज्यतुल्यै-कग्रामानिति यावत्-ति ।
  1975. लक्षणीयान्-ङ.
  1976. मध्येन-मार्गेण-गो.
  1977. शीततोया-च.
  1978. रम्या-च.
  1979. नाना-ङ.
  1980. 'भुक्त्वा वा यदि वाऽभुक्त्वा रात्रौ वा यदि वा दिवा । कश्चित् गङ्गां प्राप्य सरिद्वराम् । इति वचनात् सततं शुभाम् ॥ ' ति.
  1981. शुभां-ङ.
  1982. शताकीर्णां-ङ.च.
  1983. शतायुताम्-ङ.
  1984. गमां-ङ.
  1985. गङ्गां स्त्रीत्वेन रूपयति- जलाघातेत्यादिना-गो.
  1986. आप्लवः-स्नानं "आप्लाव आप्लवः स्नानं इत्यमरः ; देवसः आप्लुतं जलं यस्याः सा तथा
  1987. 'आभोगः परिपूर्णता' इत्यमरः ।
  1988. मालाग्निरिव स्थितैः वृक्षैरित्यन्वयः ।
  1989. मल-ङ, च.
  1990. देवोपवाह्यैः-देवानां वाहनभूतैः-गो.
  1991. देवराजोपवायैः-च.
  1992. वर-ट.
  1993. फलैः पुष्पैः-ङ.
  1994. विष्णुपादस्पर्शेन ब्रह्मलोकात् ब्रह्माण्डबाह्यजलदेशाञ्च च्युतां, अपापां-कर्म-नाशादिवत् केनापि प्रकारेण पापजनकत्वाभाववतीमिति कतक्रः-इति तिलके उद्धृतं वर्तते । परन्त्वस्मदुपलब्धमातृकायां अयं भागो नोपलभ्यते ।
  1995. सागरः-भगीरथः तस्य तेजसा-महिम्ना भ्रष्टामित्यन्वयः ।
  1996. शृङ्गबेरपुरं प्रतिगच्छन्, यद्वा शृङ्गबेरपुरसमीपे-गो.
  1997. साधु पीडयन्-सम्यक् आलिङ्गन् ।
  1998. वृत्ताभ्यां-च.
  1999. वनेषु-ङ.
  2000. यद्विधं-ङ.
  2001. प्रतिग्रहे नेदानीं ममाधिकार इति भावः । तदेव विवृणोति-कुशचीरेत्यादि ।
  2002. सुखितैः-ङ.
  2003. एतद्व्याख्यानरीत्या इदं पूर्वार्धमपि रामसम्बन्धि। अत एवोत्तरार्धे क्रियापदाभावात् 'आदिदेशेति शेषः' इति व्याख्यायि ।
  2004. यशस्विनः, मनस्विनः-ङ. च.
  2005. तदा व्यतीता सुचिरेण च तदा व्यतीयाय सुखेन-ङ.
  2006. प्रियतमः-ङ.
  2007. वनेऽस्मिंश्वरतः-ङ. च. झ.
  2008. न च-ङ,
  2009. अत्र देशे वयं न भीताः ; यतो धर्ममेवानुपश्यता त्वया रक्ष्यमाणा भवामः । तथाऽपि जागरणे कारणमाह-कथमिति-ति.
  2010. सुखसंसुप्तं-च.
  2011. मन्त्रयुक्ततपसा.....परिश्रमैः-यज्ञादिभिः-गो. श्लोकद्वयमेकं वाक्यम् ।
  2012. पराक्रमैः-च.
  2013. स्यैषः च.
  2014. प्रव्राजिते-ङ.
  2015. क्षिप्रमेधा-ङ.
  2016. तात-च.
  2017. रामनि-ङ.
  2018. आशंसे-ङ.
  2019. यदि-च.
  2020. सुखलोक-ङ.
  2021. सन्तप्ताङ,
  2022. सन्तं-ङ.
  2023. ..................विनशिष्यतीति यत् तस्मात् अतिकान्तमतिक्रान्तं सर्वे प्रयोजन-
    मतीत्यगतमित्यर्थः-गो., ति.
  2024. राघवं-ड.
  2025. जनानामयं स्वभावः-यत् अतीतं महान्तमपि दुःखं कालक्रमेण विस्मरन्तीति इत्यभिप्रेत्योच्यते-रम्वेत्यादि । समाजैः-अनेकजनैः मिलित्वा क्रियमाण उत्सवः समाजोत्सवः ।
  2026. रम्यप्रासादसंपूर्णा-ङ,
  2027. पश्याम-ङ.
  2028. अस्मिन् रामे निवृत्तवनवासे सति, अत एव सत्यप्रतिज्ञेन कुशलेन पित्रा साधं वयमयोध्यां अपि प्रविशेमहीत्यन्वयः ।
  2029. कुशलिनो-ङ.
  2030. निवृत्ते वन-ङ.
  2031. तिष्ठतः-अनासीनस्यैव ।
  2032. सुकृष्णो विहगः-भारद्वाजः ; कोकिलश्च-गो.
  2033. सुकृष्णो-ङ.
  2034. एतदनन्तरं 'गच्छामः सन्ध्युपासार्थं त्वरयरव महारथ इत्यधिकं-ङ.
  2035. अस्य रामस्य, वाहन संयुक्तां-वाह्यते नीयतेऽनेनेति वाहनं-अरित्रादि-तेन संयुक्ताम् । कर्णग्राहवतीं-कर्णं अरित्रं गृह्णातीति कर्णग्राहः-कर्णधारः, तद्वतीं ...... । उपाहरेत्येकवचनं सचिवगणाभिप्रायेण-गो.
  2036. तीरे-क.
  2037. शीघ्रमारोह-च.
  2038. कृनकायोंऽस्मि-ङ.
  2039. आरोप्यतामिति । खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः-गो.
  2040. जग्मतुः-रथादवरुह्य पद्भ्यां जग्मतुरित्यर्थः ।
  2041. कलापः-तूणीरः 'कलापो भूषणे वर्हे तूणीरे ' इत्यमरः।
  2042. मानं-ङ.
  2043. लोकदृष्ट्या शोकापनुदं वचनमाह-नातीति । सभ्रातृभार्यस्य तव प्राकृतवत्-क्षुद्रवत् वने वासः येन दैवेन कृतः तदिदं दैवमिह लोके केनाप्यतिक्रान्तं न-लङ्घितं न-ति.
  2044. स्वधीते-ङ, च.
  2045. वस्तुतस्तु–भवतो वनवासो महोदयायैव अतिशयितकीर्त्यादिहेतुत्वात्, पाणसमयोवैदेहीलक्ष्मणयोश्च पाश्वस्थत्वान्नातीव खेदावहः त्वदेक प्राणानामस्माकं तु त्वद्वनवासः अतीव खेदायेति सुमन्त्रो वदति-सहेत्यादि ।
  2046. सदा-ङ.
  2047. नाथा-ङ.
  2048. यत्त्वया-च.
  2049. दृष्ट्वाऽदूरगतं-च. दृष्ट्वा वनगतं-ङ.
  2050. तदानीं रामस्य समीप एव स्थितत्वादेवं व्याख्यातम् । अदूरगतमिति वा पदच्छेदः । वस्तुतस्तु-गतमिति भावे क्तः । दूरगमनं-दूरप्रयाणकं-दृष्ट्वा रुरोदेत्यर्थः ।
  2051. अश्रुमोचनस्याशुचित्वात् स्पृष्टोदकमिति.
  2052. मदभिषेकरूपकामावेशपीडित इति वा.
  2053. कामार्थ-ङ. च.
  2054. नराधिपाः च.
  2055. शोकेन-च.
  2056. न च शोचति च.
  2057. वा-च.
  2058. श्लोकद्वयमेकवाक्यम् ।
  2059. भार्यायाः-ङ.
  2060. आर्यस्य लक्ष्मणस्यन्वयः-गो.
  2061. महाराजः-दशरथः
  2062. नरपतेः पदे-ङ.
  2063. नाभिभविष्यतीत्येतदनन्तरं इतिकरणं द्रष्टव्यम् ।
  2064. अयमाशयो रामस्य–कैकेय्याः स्वजननीत्वेन, सुमित्रायाः स्वात्यन्तप्रियशत्रुघ्नजननीत्वेन च भरतस्य ते समे स्याताम् । रामस्य यथा लक्ष्मणः, तथा भरतस्य शत्रुघ्नः प्रिय आसीदिति पूर्वमेव (बा. २८ स.) उक्तम् । अपि च सुमित्रापुत्रस्य शत्रुघ्नस्य पार्श्व एव स्थितत्वान्न तावान् क्लेशः । कौसल्या तु अनुकम्पनीयैवेति ॥
  2065. मान्या-ङ.
  2066. मवेक्षता-ङ.
  2067. प्रतिबोधितः-च.
  2068. ब्रूयाः च.
  2069. तावद्वियोगेन-ङ.
  2070. वृद्धत्वात् वत्सेति सम्बोधनं–गो.
  2071. जनः किं ? पुर्येव विदीयेतेति भावः।
  2072. रथस्थं-ङ.
  2073. तब सुतो मातुलकुलं नीत इति प्रियमपि न ब्रूयां, असत्यत्वात् । वनं नीत इति सत्यमपि न ब्रूयां अधिवत्वात् अतः न किमपि वक्तुं शक्नोमि इति तिलक-गोविन्दराजौ । एतव्याख्यानरीत्या तु अहं किञ्चापीत्यतः असत्यमपि इत्यन्तमेकं वाक्यम् । शिष्टमन्यत् वाक्यम् । असत्यमपीत्यपिशब्दस्वारस्यात् एवं व्याख्यातं महेशतीर्थेनापि । यद्यपि तिलके इदं दूषितम्-तन्न शक्ष्यामीत्यादिना नगरगमनाभावप्रतिपादनादिति । अथापि तद्वाक्यस्यान्तिमनिर्णयरूपत्वान्न विरोधः ॥
  2074. किञ्चाच-ङ.
  2075. गोविन्दराजः
  2076. हयोत्तमाः त्वया हीनं रथं कथं वक्ष्यन्तीत्यन्नयः
  2077. प्रवाह्यन्ति-च.
  2078. त्वं च बन्धुजनश्चेति विग्रहः, अर्थात् बन्धुजनशब्दस्य त्वद्वन्धुजनरूपार्थपरत्वम् ।
  2079. त्वामृते-ङ.
  2080. प्रतियोधिष्ये-ङ.
  2081. सर्वाणि च.
  2082. त्वत्कृते त्वन्निमित्तं रथ यकृतं सुखं मया नावाप्तं-राज्याभिषिक्तत्वद्रथ-चर्याकृतं सुखं मया भाग्यहीनेन न लब्धम् तथापि त्वत्कृतेन त्वत्साहाय्य-करणेन वनवासकृतमिति सुखमाशंसे ।............ यद्वा-त्वत्कृतेन त्वया कृतेनानुग्रहेण रथचर्याकृतं सुखं मयाऽवाप्तं, एवं त्वदनुग्रहेण वनवासकृतं सुखमपि अहमाशंस इति-गो.
  2083. हि, तु-ङ.
  2084. गोविन्दराजः ।
  2085. न ब्रजाम्यहम् ङ.
  2086. भक्तवत्सल-ङ.
  2087. स्थित्यां-मयादीयां स्थितं अस्खलितमर्यादम् । अत एव भर्तृपुत्रगते स्वामि-पुषेण त्वयाऽऽगते पथि-वनगमने तिष्ठन्तं-गो.
  2088. त्वं न मां--ङ.
  2089. परितुष्टा सा देवी धार्मिकं राजानं मिथ्यावादीति नातिशङ्केतेत्यन्वयः ।
  2090. वृत्तं-ङ.
  2091. मक्लीबं-ङ
  2092. आश्रमवास एव कर्तव्यः तापसवत् । तादृशाश्रमगतः-तदनुगुणः विधिः-नियमादिश्च कर्तव्य इत्यर्थः ।
  2093. 'वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः' (५०-३९) इति पूर्वं तथा प्रार्थितमिति भाति ।
  2094. महेशतीर्थः, गोविन्दराजो वा
  2095. जटिलत्वं-जटावत्वम् ।
  2096. अत्र–ननु रामेण वानप्रस्थाश्रमस्वीकारे पुनरन्ते कथं गार्हस्थ्ये प्रतिनिवृत्तिः, यदि चेदानीं वानप्रस्थाश्रमो न स्वीकृतः तदा तद्धर्मानुष्ठानं जटाधारणादिकं गृहस्थस्य विरुद्धं स्यात्–इत्याशंक्य गोविन्दराजैः- पितृनियोगाधीनसाङ्कल्पिकव्रतविशेषस्यास्य युधिष्ठिर-सन्नयासादिवन्न दोषत्वम् । तथोक्तं मनुना 'सम्यक्संकल्पजः कामः धर्ममूलमिदं स्मृतम् इति-इति समाहितम्
  2097. आस्थाय-ङ.
  2098. सखायं-ङ.
  2099. समनुज्ञाप्य-च.
  2100. वचन-च.
  2101. मनस्विनीमिति निन्दायां मतुप्, भीरुमिति यावत् । पूर्वारोहणे असौ बिभीयात् इति भावः-गो.
  2102. पूर्वं मनस्विनीमित्युक्तं, इदानीमात्मवानित्युक्तम् । उभाभ्यां आरोपणे दोषशङ्काराहित्यमुक्तम्-गो.
  2103. नोः नीयतां पारमित्यचोदयदित्यर्थः ।
  2104. ब्रह्मवत् क्षत्रवदित्याहार्थे वतिप्रत्ययः । ब्राह्मणार्हे क्षत्रियार्हमित्यर्थः । यद्वा ब्रह्मक्षत्रशब्दयुक्तं मन्त्रं जजापेल्यर्थः । स च मन्त्रः सुत्रामाणमित्यादिः । तत्र त्वरिष्टनेमिः पृतनाजिदिति ब्रह्मक्षत्रशब्दौ श्रुतौ-गो.
  2105. प्रणमत्-च.
  2106. श्चालिता-च.
  2107. गङ्गासलिल-ङ.
  2108. पालयित्वेमं-च.
  2109. प्रदायिनी, प्रसाधिनी-ङ.
  2110. समक्षसे-च.
  2111. श्री शङ्कराचार्यकृतगङ्गाष्टकं-श्लो .४
  2112. शोभनम्-ङ.
  2113. मांसरूपेणान्नेनेत्यर्थः ।
  2114. प्रीयतां-च.
  2115. 'रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवी विद्धि गच्छ तात यथासुखम् ॥' इति पूर्वोक्तसुमित्रानिदेशः लक्ष्मणेन परिपालित इति ज्ञापनाय वनप्रवेशकाले 'सुमित्रानन्दवर्धनं' इति लक्ष्मणो विशेषितः वाल्मीकिना ।
  2116. मद्विधैः-च.
  2117. कनीयसोः पृष्ठतोऽवस्थापने हि रक्षा सुकरा न स्यात् । अग्रतः स्थितस्य रामस्य पृष्ठे विद्यमानयोस्तयोर्योगक्षेमनिर्वहणस्य क्लिष्टत्वात स्वस्यैवान्ते गमनम् ।
  2118. हं ग-ङ.
  2119. अपरस्पररक्षणं शस्त्रादिनैवेति नायं निर्बन्धः, स्वरूपानुगुणत्वाद्रक्षणव्यापारस्थ । एवञ्च सीताया अपि शुश्रूषादिलक्षणं रक्षणं वर्तत एवेति ।
  2120. नौ-ङ.
  2121. क्षेत्रग्राम-ङ.
  2122. प्रततं-अविच्छिन्नमिति यावत् ।
  2123. सततं-च.
  2124. प्रभावः-च.
  2125. जलसस्य-ङ.
  2126. गङ्गायमुनयोर्मध्यदेशः वत्सदेशः ।
  2127. पूर्वं---कन्दमूलफलैजीवन् हित्वा मुनिवदामिषम्' (अयो. २०-२९) इत्यभिधानं तु सुसंस्कृतमांसभक्षणविषयम् । अतो न विरोधः ।
  2128. याता-आ-इत्यनयोर्विपरिणामेन आयाता इत्यन्वयः । जनपदाद्बहिरागतस्य रामस्य प्रथमा खल्वियं रात्रिः । अतः सा यातेति कथनमसंगतं स्यादिति भावेन एवं व्याख्यातम् । गोविन्दराजस्तु याता-प्राप्ता इति व्याचख्यौ ।
  2129. मतन्द्राभ्यां-ङ.
  2130. नभस्थले-ग.
  2131. इदानीं भरतयौवराज्याय कुमार्गे प्रवृत्ता कैकेयी, भरतस्य परोक्ष एव एवं करोति चेत्, भरतागमनानन्तरं तद्दर्शनेनोत्तम्भिताशा सती यौवराज्यापेक्षया राज्याधिकारमेव कामयन्ती, तत्प्रतिबन्धकतया स्थितं दशरथं न मारयेद्वा-मारयेदेवेति भावः । एवमादिकं 'अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण' इति वक्ष्यमाणलक्ष्मणप्रतिनिवृत्युपदेशाय लक्ष्मणाभिप्रायानुगुणमुच्यत इति गोविदन्राजः.
  2132. अत एव 'न च सीता त्वया हीना न चाहमपि' इत्युत्तरत्र लक्ष्मणवाक्यमपि युज्यते ।
  2133. मुखमेकमिति-गो. पाठः अद्वितीयं प्रधानमित्यर्थः इति च व्याख्यातम् । सुखमेक इति तीर्थपाठः । सुखे अनायासेन एको राजा भविष्यतीति तदानीमर्थः ।
  2134. सुखमेको, मुखमेकं–ङ.
  2135. यः-भरतः काममनुवर्तते सः-यथा राजा दशरथो विपदमापन्नः एवं विपदमापद्यते-प्राप्नोतीत्यर्थः । अन्ये तु राजा दशरथो यथा राजत्वमापन्नः तथा भरतो राजत्वमापद्यत इत्यर्धं इत्याहुः-ति.
  2136. लोकः-ङ.
  2137. संतप्ता-ङ.
  2138. मास्म मत्कारणात्-ङ.
  2139. माविशेत्-ङ.
  2140. काल्ये-ङ.
  2141. धर्मा-ङ.
  2142. द्वेष्यादन्या-च.
  2143. परिदयाः-परिदानं नाम रक्ष्यतया प्रदानम्-गो. एतद्रीत्या धर्मज्ञे भरते इति पाठः ।
  2144. परिदह्य हि-ङ.
  2145. धर्मज्ञे भरते-च. ङ.
  2146. तात-ङ.
  2147. तस्मादेत-ङ.
  2148. पुत्रकृतप्रयोजन रहितरवाद्वा अनुभाया इति निर्देशः
  2149. बहुजनमध्ये मनसोऽनवधानतया न केशाधिक्यप्रतीतिः, विजने तु देशे अवीव क्लेशोन्मेष इत्यनुभवात् विजन इत्युक्तम् । स्वानुरक्तजनदुःखासहिष्णु वादश्रुपूर्णमुखत्वं, न तु वस्तुतः । 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तेः-ती. अश्रुपूर्णमुखात्वं नटवलोकव्यवहारानुसारेणेति बोध्यम्-ति. एतव्याख्यात्रा-वक्तर्वं दशमश्लोकव्याख्यान एवोक्तम् ।
  2150. बहु-च.
  2151. दीनः-च.
  2152. विलापोपरतं-च.
  2153. राम अयोध्या-च.
  2154. 'युक्तमौपयिकं' इत्यमरः । न युक्तमित्यर्थः ।
  2155. त्वया हीना सीता च न जीवति, त्वद्विहीनोऽहमपि च न जीवामि अपि जीवाबः-यदि जीवावः जलादुद्धृतौ मत्स्याविव मुहूर्ते स्वल्पकालं जीवावः- गो. अत्र नकारद्वयं तृतीयनकारस्याप्युपलक्षणं, त्वया हीना सीता च त्वया हीनोऽहं च एताबुभावावामपि जलादुद्धृतौ मत्स्याविव मुहूर्तमात्रमपि न जीवाव इति सम्बन्धः-ती. त्वया हीना सीता त्वया हीनोऽहं च जलादुद्धृतौ मत्स्याविव न जीवावः न जीवावः । जीवाव इत्यावृत्या नञ्द्वयान्वयः । जीवनाभावस्य सर्वथा सत्यत्वप्रतिपादनाय द्विरुक्तिः-ति. युक्तं च तिलकोक्तम्, अध्याहारविपरिणामादिक्केशाभावात, अर्थरवारस्याच्च । यद्वा 'न क्रोधो न च मात्सर्ये न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥' इत्यादाविव निर्वाहः रवरसः । समनन्तर- श्लोकोऽप्यश्रावधेयः ।
  2156. च-ङ., च.
  2157. रामो-ङ.
  2158. वनवासमित्यत्यन्तसंयोगे द्वितीया-गो
  2159. यत्र भागीरथीं गङ्गा यमुनामभिवर्तते-ङ.
  2160. यथाक्षेमेण-क्षेमानतिक्रमेण-क्षेमहेत्ववधानमनतिक्रम्येत्यर्थः-गो.
  2161. क्रमेण-ङ.
  2162. संपश्यन् पुष्पितान् विविधान् द्रुमान्-च.
  2163. निर्वृत्त-च.
  2164. बारिणोवांरिवर्षजः-ङ., वारिणोर्वारिक घर्षजः-च
  2165. छिन्नाश्चाप्याश्रमे-च.
  2166. मध्ये-ङ.
  2167. सर्वत्र एवमेव पाठो दृश्यते-परन्तु एतद्व्याख्यानुसारेण प्राप्तुरीति स्थाने 'प्राप्तुं तु' इति पाठः स्यादिति भाति । श्लोवद्वयमेकान्वयं चेति ।
  2168. सायंतनसमयात्वात् अग्निहोत्रा-वसानं प्रतीक्षमाणाववतस्थतुः इत्यर्थः-गो. विज्ञापनपूर्वकानुमतिलाभार्थमिति भावः-ति.
  2169. स प्रविश्य-ङ., च.
  2170. संशितव्रतं-तीक्ष्णव्रतं-ति, गो.
  2171. दृष्दैव-दर्शनोत्तरकलमेवेत्यर्थः-गो.
  2172. महाभागः-च
  2173. धर्ममेवाचरि-च.
  2174. मूलफलमिति असंस्कृताहारसामान्यपरम् । अतः पूर्व मांसग्रहणं न विरुद्धम् ।
  2175. मृगपक्ष्यादीनां सौहार्दाभिधानेनैवं ऋषिमाहारभ्यं प्रकटितम्
  2176. य स्वागतेनाह तं-ङ., स्वागतेनागतं-च.
  2177. अनेन पूर्वमपि कदाचिदागमनं ध्वनितम् । पूर्वरामावतारकालिकमागमनं मनसि निधाय वा एषोक्तिः-ति. चक्षुषाद्यगोचर त्वामेव मनसि सततमनुसन्दधानोऽहं चिरकालस्य इह मम पुरतः चक्षुषा पश्यामीत्याश्चर्यम्-ती. वस्तुतस्तु निषादसख्यादिपरिशीलनाय पूर्वमपि रामेण मृगयादेहेतोः अत्रागमनं सम्भावनार्हमनेन दृढीकृतम् ॥
  2178. श्रुतमिति । स्वत्त इति शेषः अकारणं तव विवासनं श्रुतं-स्वत्तः श्रुतं तव विवासनमकारणमिति वाऽन्वयः । यद्वा--अन्यमुखात् श्रुतं किंवदन्त्याः शीघ्रव्यापनशीलत्वात् ।
  2179. रमेत-ङ.
  2180. अर्थग्राहकं-बह्वर्थवत्-गो.
  2181. पर्वतः-च.
  2182. मोहे-च.
  2183. निरन्तरकपालासनेन प्रक्षीणत्वक्छिरोरुहतया कपालावशिष्टशिरसा सह दिवमारूढा इत्यर्थः । कपालशिरसेत्येतत् शरीरोपलक्षणम् । सशरीराः स्वर्गं गता इत्यर्थः । यद्वा कपालशिरा इति कस्यचिदृषेः संज्ञा । कपालशिरसा- कपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके । कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येके-गो.
  2184. अन्यस्तु इत्युच्यमानः-गोविन्दराजः, महेशतीर्थो वा स्यात् । अयं भागः तिलके एवमनूदितो दृश्यते-'केचित्तु कपालशिरसेति शरीरोपलक्षणं-सशरीराः स्वर्गं गता इत्याहुः । तन्न-धर्मपुत्रादीनामपि कियद्दूरमेव धर्मवैभवदर्शनाय एतच्छरीरेण गमनम् । ततस्तन्निरासपूर्वकमेव स्वर्गगमनश्रवणादिति कतकः' इति । परन्त्वयमर्थानुवादः स्यादपि ।
  2185. एवं चित्रकूटवासनिदेशनात् स्वाश्रमे रामवासः स्वाननुमतः इति प्रतीतिनिवारणाय, लोकरीत्या च' इहैव वा बस' इत्युक्तिः ।
  2186. रामं प्रतिजग्राह-सत्कारैर्वशीकृतवानित्यर्थः । स्वागतेन स्वीकृतवानिति वा
  2187. हर्षयन्-च.
  2188. पुण्ये-ङ.
  2189. स्मो ह-च.
  2190. व्रजेति अब्रवीदित्यन्वयः ।
  2191. गतसर्गे ३० श्लोकव्याख्यायां औपयिकपदस्येति शेषः ।
  2192. नानामर-ङ.
  2193. गजवाजि-ङ.
  2194. दर्यः-पाषाणसंश्लेषस्थानानि । कन्दराः-गुहाः । निर्दराः-विदीर्णपाषाण-सन्धयः-गो. ।
  2195. सीतया सार्धं चरतः तव मनः नन्दिष्यति-सन्तोषं प्राप्स्यति ।
  2196. वान्वशात्-ङ., वौरसान्-च
  2197. आदाय मनुजर्षभ-च.
  2198. सम्बुध्यन्तं पदम् ।
  2199. गङ्गाजलवेगामिहत्या किञ्चित्पश्चान्मुखपवाहं प्राप्तां कालिन्दीं नदीम्-गो., ती.
  2200. तिलकेऽयं भागः एवमनूदितः–सङ्गमात्पश्चिमप्रदेश एवाश्रित-स्वप्रयुक्तव्यवहारां, संगमपूर्वभागे तु गंगाया एव व्यवहार इति भावः इति कतकः । अन्ये तु पश्चान्मुखया गङ्गया अश्रितां कालिन्दीमनुगच्छेतां इत्यर्थः । अत एवाग्रे कालिन्दीमासाद्येत्युक्तिरित्याहुः-ति.
  2201. प्रतिस्रोत-स्समागताम्-च.
  2202. सुचरितं, प्रचलितं-ङ.
  2203. प्रकामं-च.
  2204. गंगां तीर्त्वा प्रथममागतयोः रामलक्ष्मणयोः गंगाया दक्षिणतीरानुरोधेन प्रस्थाने गंगायमुनासंगमप्राप्तौ ततः प्लवेन यमुनानदीतरणेन यमुनादक्षिणतीरप्राप्तौ तत्र वटवृक्षदर्शनमिति क्रमः । एवञ्च चतुर्थश्लोकव्याख्याने गोविन्दराजोक्तमेव समञ्जसमिति प्रतिभाति ।
  2205. मादिश्य-च.
  2206. सद्यः-च.
  2207. काष्ठसङ्घोतरूपं महाप्लवमित्यर्थः ।
  2208. सड़घात-ङ.
  2209. कठिनकं-कन्दमूलखननसाधनं आयसाग्रं दारु । आज-अजचर्मपिनद्ध पिटक-गो. कठिनं-खनित्रं, काजं- पेटकं-ति.
  2210. समाहितः-च.
  2211. प्रीतौ-च.
  2212. तारयेन्मे-ङ.
  2213. पतिव्रतम्-सर्वत्र.
  2214. जनकात्मजा-ङ.
  2215. चाभ्यवन्दत-च.
  2216. भरताग्रज-ङ.
  2217. एतदनन्तरं-'गच्छ-तोस्तु तयोर्मध्ये बभूव जनकात्मजा मातङ्गयोर्मध्यगता शुभा नागवधूरिव ।' इत्यधिकम्-ङ.
  2218. रूपां-च.
  2219. त्करान्-च.
  2220. संरब्ध आन-सर्वत्र.
  2221. मृषिभिर्जुष्टं-च.
  2222. द्रुमान्-ङ.
  2223. बिल्वान्-च.
  2224. पत्रै-ङ.
  2225. वनसौन्दर्यमग्नचित्तो रामो वदति-'नूनं शक्ष्यामि जीवितुम्' इति ।
  2226. रंस्यावहे-ङ.
  2227. संपन्नसरसो-च.
  2228. फला-ङ.
  2229. महामतिः-ङ.
  2230. ननु उपोद्धाते बालकाण्डे तमसातीरवासित्वेन वाल्मीकेः कथनात् कथमिदमिति चेत् ? तदानीं चित्रकूटे वाल्मीकेर्वासः । भरतागमनानन्तरं ऋषिनिर्गमनकथनात् ततः प्रभृति तमसातीरं इति ज्ञेयम्-गो. चित्रकूटे स्थित एव वाल्मीकी रामराज्यप्राप्तिसमये तमसातीरं गत इति न विरोध इति प्राञ्चः । प्राचेतसादयं वाल्मीकिरन्य एवेति तत्त्वम्-ति.
  2231. एतदनन्तरं 'राघवं प्रीतिसंयुक्त इदं वचनमब्रवीत् । ज्ञातं मया रघुश्रेष्ठ त्वदागमनकारणम् ॥ अत्र वासमृषीणां च सकाशे रोचय प्रभो । इति तेन समाज्ञप्तः प्रीयमाणो महारथः ॥ तथेति प्रतिजग्राह ऋषिणोक्तं कृताञ्जलिः ।' इत्यधिकं-ङ.
  2232. तु-ङ.
  2233. अस्मिन् देश इति शेषः
  2234. कुद्ध्यार्थे कल्पितास्तरणां, बद्धवाह्यावरणां वा, कटे वर्षावरणयोरिति धातुः-गो.
  2235. स्मरन्-ङ.
  2236. अयं सौम्य हूर्तः-शुभमुहूर्तः इत्येकं पदं वा ।
  2237. ह्ययम्-च.
  2238. यथा-ङ.
  2239. देवता इति द्वितीया-बहुवचनान्तं पदम् ।
  2240. कृष्णः-ङ.
  2241. जपकोविदः-च.
  2242. सत्रं-वास्तुयागः येर्मन्त्रैरवसीयते परिसमाप्यते ते सत्रावसानाः, सत्रावसाना एव सत्रावसानिकाः-छांन्दसो वृद्ध्यभावः-गो.
  2243. विवेश वसतिं-ङ.
  2244. रौद्रयागकरणात् पुनः स्नानम् । रौद्रकर्मकरणे 'अप उपस्पृश्य' इति विधानात्-गो.
  2245. विमानानि-ङ
  2246. चैत्यानि-गन्धर्वाद्यावासस्थानानि-गो.
  2247. आश्रमस्य अल्पप्रदेशत्वादिति भावः ।
  2248. द्गणैः-ङ.
  2249. शुभलक्षणाम्-झ.
  2250. विध-ङ.
  2251. अनेन विहाराणां अग्राम्यत्वं सूच्यते ।