श्रीरामोदन्तम्
[[लेखकः :|]]

॥ अथ बालकाण्डः ॥

श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् ।
श्रीरामोदन्तमाख्यास्ये श्रीवाल्मीकिप्रकीर्तितम् ॥ १॥

पुरा विश्रवसः पुत्रो रावणो नाम राक्षसः ।
आसीदस्यानुजौ चास्तां कुम्भकर्णविभीषणौ ॥ २॥

ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् ।
वव्रिरे च वरानिष्टानस्मादाश्रितवत्सलात् ॥ ३॥

रावणो मानुषादन्यैरवध्यत्वं तथानुजः ।
निर्देवत्वेच्छया निद्रां कुम्भकर्णोऽवृणीत च ॥ ४॥

विभीषणो विष्णुभक्तिं वव्रे सत्त्वगुणान्वितः ।
तेभ्य एतान्वरान्दत्त्वा तत्रैवान्तर्दधे प्रभुः ॥ ५॥

रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् ।
लङ्कापुरीं पुष्पकं च हृत्वा तत्रावसत्सुखम् ॥ ६॥

यातुधानास्ततः सर्वे रसातलनिवासिनः ।
दशाननं समाश्रित्य लङ्कां च सुखमावसन् ॥ ७॥

मन्दोदरीं मयसुतां परिणीय दशाननः ।
तस्यामुत्पादयामास मेघनादाह्वयं सुतम् ॥ ८॥

रसां रसातलं चैव विजित्य स तु रावणः ।
लोकानाक्रमयन् सर्वाञ्जहार च विलासिनीः ॥ ९॥

दूषयन्वैदिकं कर्म द्विजानर्दयति स्म सः ।
आत्मजेनान्वितो युद्धे वासवं चाप्यपीडयत् ॥ १०॥

तदीयतरुरत्नानि पुनरानाय्य किङ्करैः ।
स्थापयित्वा तु लङ्कायामवसच्च चिराय सः ॥ ११॥

ततस्तस्मिन्नवसरे विधातारं दिवौकसः ।
उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥ १२॥

तदाकर्ण्य सुरैः साकं प्राप्य दुग्धोदधेस्तटम् ।
तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥ १३॥

आविर्भूयाथ दैत्यारिः पप्रच्छ च पितामहम् ।
किमर्थमागतोऽसि त्वं साकं देवगणैरिति ॥ १४॥

ततो दशाननात्पीडामजस्तस्मै न्यवेदयत् ।
तच्छ्रुत्वोवाच धातारं हर्षयन्विष्टरश्रवाः ॥ १५॥

अलं भयेनात्मयोने गच्छ देवगणैः सह ।
अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥ १६॥

आत्मांशैश्च सुराः सर्वे भूमौ वानररूपिणः ।
जायेरन्मम साहाय्यं कर्तुं रावणनिग्रहे ॥ १७॥

एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥ १८॥

अजीजनत्ततः शक्रो वालिनं नाम वानरम् ।
सुग्रीवमपि मार्ताण्डो हनुमन्तं च मारुतः ॥ १९॥

पुरैव जनयामास जाम्बवन्तं च पद्मजः ।
एवमन्ये च विबुधाः कपीनजनयन्बहून् ॥ २०॥

ततो वानरसङ्घानां वाली परिवृढोऽभवत् ।
अमीभिरखिलैः साकं किष्किन्धामध्युवास च ॥ २१॥

आसीद्दशरथो नाम सूर्यवंशेऽथ पार्थिवः ।
भार्यास्तिस्रोऽपि लब्ध्वासौ तासु लेभे न सन्ततिम् ॥ २२॥

ततः सुमन्त्रवचनादृष्यश‍ृङ्गं स भूपतिः ।
आनीय पुत्रकामेष्टिमारेभे सपुरोहितः ॥ २३॥

अथाग्नेरुत्थितः कश्चिद्गृहीत्वा पायसं चरुम् ।
एतत्प्राशय पत्नीस्त्वमित्युक्त्वाऽदान्नृपाय सः ॥ २४॥

तद्‍गृहीत्वा तदैवासौ पत्नीः प्राशयदुत्सुकः ।
ताश्च तत्प्राशनादेव नृपाद्गर्भमधारयन् ॥ २५॥

पूर्णे कालेऽथ कौसल्या सज्जनाम्भोजभास्करम् ।
अजीजनद्रामचन्द्रं कैकेयी भरतं तथा ॥ २६॥

ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत्सुतौ ।
अकारयत्पिता तेषां जातकर्मादिकं द्विजैः ॥ २७॥

ततो ववृधिरेऽन्योन्यं स्निग्धाश्चत्वार एव ते ।
सकलासु च विद्यासु नैपुण्यमभिलेभिरे ॥ २८॥

ततः कदाचिदागत्य विश्वामित्रो महामुनिः ।
ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम् ॥ २९॥

वसिष्ठवचनाद्रामं लक्ष्मणेन समन्वितम् ।
कृच्छ्रेण नृपतिस्तस्य कौशिकस्य करे ददौ ॥ ३०॥

तौ गृहीत्वा ततो गच्छन्बलामतिबलां तथा ।
अस्त्राणि च समग्राणि ताभ्यामुपदिदेश सः ॥ ३१॥

गच्छन्सहानुजो रामः कौशिकेन प्रचोदितः ।
ताटकामवधीद्धीमान् लोकपीडनतत्पराम् ॥ ३२॥

ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः ।
अध्वरं च समारेभे राक्षसाश्च समागमन् ॥ ३३॥

राघवस्तु ततोऽस्त्रेण क्षिप्त्वा मारीचमर्णवे ।
सुबाहुप्रमुखान् हत्वा यज्ञं चापालयन्मुनेः ॥ ३४॥

कौशिकेन ततो रामो नीयमानः सहानुजः ।
अहल्याशापनिर्मोक्षं कृत्वा सम्प्राप मैथिलम् ॥ ३५॥

जनकेनार्चितो रामः कौशिकेन प्रचोदितः ।
सीतानिमित्तमानीतं बभञ्ज धनुरैश्वरम् ॥ ३६॥

ततो दशरथं दूतैरानाय्य मिथिलाधिपः ।
रामादिभ्यस्तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥ ३७॥

ततो गुरुनियोगेन कृतोद्वाहः सहानुजः ।
राघवो निर्ययौ तेन जनकेनोरु मानितः ॥ ३८॥

तदाकर्ण्य धनुर्भङ्गमायान्तं रोषभीषणम् ।
विजित्य भार्गवं राममयोध्यां प्राप राघवः ॥ ३९॥

ततः सर्वजनानन्दं कुर्वाणश्चेष्टितैः स्वकैः ।
तामध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥ ४०॥

 ॥ इति श्रीरामोदन्ते बालकाण्डः समाप्तः ॥



    ॥ अथ अयोध्याकाण्डः ॥

एतस्मिन्नन्तरे गेहं मातुलस्य युधाजितः ।
प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥ १॥

ततः प्रकृतिभिः साकं मन्त्रयित्वा स भूपतिः ।
अभिषेकाय रामस्य समारेभे मुदान्वितः ॥ २॥

कैकेयी तु महीपालं मन्थरादूषिताशया ।
वरद्वयं पुरा दत्तं ययाचे सत्यसङ्गरम् ॥ ३॥

वनवासाय रामस्य राज्याप्त्यै भरतस्य च ।
तस्या वरद्वयं कृच्छ्रमनुजज्ञे महीपतिः ॥ ४॥

रामं तदैव कैकेयी वनवासाय चादिशत् ।
अनुज्ञाप्य गुरून्सर्वान्निर्ययौ च वनाय सः ॥ ५॥

दृष्ट्वा तं निर्गतं सीता लक्ष्मणश्चानुजग्मतुः ।
सन्त्यज्य स्वगृहान्सर्वे पौराश्चानुययुर्द्रुतम् ॥ ६॥

वञ्चयित्वा तु तान्पौरान्निद्राणान्निशि राघवः ।
वाह्यमानं सुमन्त्रेण रथमारुह्य चागमत् ॥ ७॥

शृङ्गिबेरपुरं गत्वा गङ्गाकूलेऽथ राघवः ।
गुहेन सत्कृतस्तत्र निशामेकामुवास च ॥ ८॥

सारथिं संनिमन्त्र्यासौ सीतालक्ष्मणसंयुतः ।
गुहेनानीतया नावा सन्ततार च जाह्नवीम् ॥ ९॥

भरद्वाजमुनिं प्राप्य तं नत्वा तेन सत्कृतः ।
राघवस्तस्य निर्देशाच्चित्रकूटेऽवसत्सुखम् ॥ १०॥

अयोध्यां तु ततो गत्वा सुमन्त्रः शोकविह्वलः ।
राज्ञे न्यवेदयत्सर्वं राघवस्य विचेष्टितम् ॥ ११॥

तदाकर्ण्य सुमन्त्रोक्तं राजा दुःखविमूढधीः ।
रामरामेति विलपन्देहं त्यक्त्वा दिवं ययौ ॥ १२॥

मन्त्रिणस्तु वसिष्ठोक्त्या देहं संरक्ष्य भूपतेः ।
दूतैरानाययन् क्षिप्रं भरतं मातुलालयात् ॥ १३॥

भरतस्तु मृतं श्रुत्वा पितरं कैकयीगिरा ।
संस्कारादि चकारास्य यथाविधि सहानुजः ॥ १४॥

अमात्यैश्चोद्यमानोऽपि राज्याय भरतस्तदा ।
वनायैव ययौ राममानेतुं नागरैः सह ॥ १५॥

स गत्वा चित्रकूटस्थं रामं चीरजटाधरम् ।
ययाचे रक्षितुं राज्यं वसिष्ठाद्यैर्द्विजैः सह ॥ १६॥

चतुर्दश समा नीत्वा पुनरेष्याम्यहं पुरीम् ।
इत्युक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥ १७॥

गृहीत्वा पादुके तस्माद्भरतो दीनमानसः ।
नन्दिग्रामे स्थितस्ताभ्यां ररक्ष च वसुन्धराम् ॥ १८॥

राघवस्तु गिरेस्तस्माद्गत्वाऽत्रिं समवन्दत ।
तत्पत्नी तु तदा सीतां भूषणैः स्वैरभूषयत् ॥ १९॥

उषित्वा तु निशामेकामश्रमे तस्य राघवः ।
विवेश दण्डकारण्यं सीतालक्ष्मणसंयुतः ॥ २०॥

 ॥ इति श्रीरामोदन्ते अयोध्याकाण्डः समाप्तः ॥



    ॥ अथ आरण्यकाण्डः ॥

व्रजन्वनेन काकुत्स्थो विराधं विधिचोदितम् ।
सदारानुजमात्मानं हरन्तमवधीत्तदा ॥ १॥

शरभङ्गाश्रमं प्राप्य स्वर्गतिं तस्य वीक्ष्य सः ।
प्रतिजज्ञे राक्षसानां वधं मुनिभिरर्थितः ॥ २॥

तस्माद्गत्वा सुतीक्ष्णं च प्रणम्यानेन पूजितः ।
अगस्त्यस्याश्रमं प्राप्य तं ननाम रघूत्तमः ॥ ३॥

रामाय वैष्णवं चापमैन्द्रं तूणीयुगं तथा ।
ब्राह्मं चास्त्रं च खड्गं च प्रददौ कुम्भसम्भवः ॥ ४॥

ततः स गच्छन्काकुत्स्थः समागम्य जटायुषम् ।
वैदेह्याः पालनायैनं श्रद्धधे पितृवल्लभम् ॥ ५॥

ततः पञ्चवटीं प्राप्य तत्र लक्ष्मणनिर्मिताम् ।
पर्णशालामध्युवास सीतया सहितः सुखम् ॥ ६॥

तत्राभ्येत्यैकदा रामं वव्रे शूर्पणखाऽभिका ।
तन्निरस्ता लक्ष्मणं च वव्रे सोऽपि निराकरोत् ॥ ७॥

राममेव ततो वव्रे कामार्ता कामसन्निभम् ।
पुनश्च धिक्कृता तेन सीतामभ्यद्रवद्रुषा ॥ ८॥

लक्ष्मणेन तदा रोषात्कृत्तश्रवणनासिका ।
सा तु गत्वा जनस्थानं खरायैतन्न्यवेदयत् ॥ ९॥

तदाकर्ण्य खरः क्रुद्धो राघवं हन्तुमाययौ ।
दूषणत्रिशिरोमुख्यैर्यातुधानैः समन्वितः ॥ १०॥

तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः ।
खरं सहानुगं सङ्ख्ये जघानालघुविक्रमः ॥ ११॥

ततः शूर्पणखा गत्वा लङ्कां शोकसमन्विता ।
न्यवेदयद्रावणाय वृत्तान्तं सर्वमादितः ॥ १२॥

तच्छ्रुत्वा रावणः सीतां हर्तुं कृतमतिस्तदा ।
मारीचस्याश्रमं प्राप्य साहाय्ये तमचोदयत् ॥ १३॥

सोऽपि स्वर्णमृगो भूत्वा सीतायाः प्रमुखेऽचरत् ।
सा तु तं मृगमाहर्तुं भर्तारं समयाचत ॥ १४॥

नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः ।
अन्वगच्छन्मृगं तूर्णं द्रवन्तं काननान्तरे ॥ १५॥

विव्याध च मृगं रामः स निजं रूपमास्थितः ।
हा सीते लक्ष्मणेत्येवं रुदन्प्राणान्समत्यजत् ॥ १६॥

एतदाकर्ण्य वैदेह्या लक्ष्मणश्चोदितो भृशम् ।
तद्रक्षां देवताः प्रार्थ्य प्रययौ राघवान्तिकम् ॥ १७॥

तदन्तरे समासाद्य रावणो यतिरूपधृत् ।
सीतां गृहीत्वा प्रययौ गगनेन मुदाऽन्वितः ॥ १८॥

ततो जटायुरालोक्य नीयमानां तु जानकीम् ।
प्राहरद्रावणं प्राप्य तुण्डपक्षनखैर्भृशम् ॥ १९॥

छित्त्वैनं चन्द्रहासेन पातयित्वा च भूतले ।
गृहीत्वा रावणः सीतां प्राविशन्निजमन्दिरम् ॥ २०॥

अशोकवनिकामध्ये संस्थाप्य जनकात्मजाम् ।
रावणो रक्षितुं चैनां नियुयोज निशाचरीः ॥ २१॥

हत्वा रामस्तु मारीचमागच्छन्ननुजेरिताम् ।
वार्त्तामाकर्ण्य दुःखार्तः पर्णशालामुपागमत् ॥ २२॥

अदृष्ट्वा तत्र वैदेहीं विचिन्वानो वनान्तरे ।
सहानुजो गृध्रराजं छिन्नपक्षं ददर्श सः ॥ २३॥

तेनोक्तां जानकीवार्त्तां श्रुत्वा पश्चान्मृतं च तम् ।
दग्ध्वा सहानुजो रामश्चक्रे तस्योदकक्रियाम् ॥ २४॥

आत्मनोऽभिभवं पश्चात्कुर्वतीं पथि लक्ष्मणः ।
अयोमुखीं चकाराशु कृत्तश्रवणनासिकाम् ॥ २५॥

गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम् ।
ततस्तु याचितौ तेन तद्देहं देहतुश्च तौ ॥ २६॥

स तु दिव्याकृतिर्भूत्वा रामं सीतोपलब्धये ।
सुग्रीवमृष्यमूकस्थं याहीत्युक्त्वा दिवं ययौ ॥ २७॥

ततः प्रीतो रघुश्रेष्ठः शबर्याश्रममभ्ययात् ।
तयाऽभिपूजितः पश्चात्पम्पां प्राप सलक्ष्मणः ॥ २८॥

 ॥ इति श्रीरामोदन्ते आरण्यकाण्डः समाप्तः ॥



    ॥ अथ किष्किन्धाकाण्डः ॥

हनूमानथ सुग्रीवनिर्दिष्टो रामलक्ष्मणौ ।
प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥ १॥

ततो रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः ।
सख्यं च कारयामास तयोः पावकसन्निधौ ॥ २॥

प्रतिजज्ञे तदा रामो हनिष्यामीति वालिनम् ।
दर्शयिष्यामि वैदेहीमित्यन्येन च संश्रुतम् ॥ ३॥

सुग्रीवेणाथ रामाय भ्रातृवैरस्य कारणम् ।
निवेदितमशेषं च बलाधिक्यं च तस्य तत् ॥ ४॥

तत्क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम् ।
सुदूरं प्रेषयामास पादाङ्गुष्ठेन राघवः ॥ ५॥

पुनश्च दर्शितांस्तेन सालान्सप्त रघूत्तमः ।
बाणेनैकेन चिच्छेद सार्धं तस्यानुशङ्कया ॥ ६॥

किष्किन्धां प्राप्य सुग्रीवस्ततो रामसमन्वितः ।
जगर्जातीव संहृष्टः कोपयन् वानराधिपम् ॥ ७॥

वाली निष्क्रम्य सुग्रीवं समरेऽपीडयद्भृशम् ।
सोऽपि सम्भग्नसर्वाङ्गः प्राद्रवद्राघवान्तिकम् ॥ ८॥

कृतचिह्नस्तु रामेण पुनरेव स वालिनम् ।
रणायाह्वयत क्षिप्रं तस्थौ रामस्तिरोहितः ॥ ९॥

हेममाली ततो वाली तारयाऽभिहितं हितम् ।
निरस्य कुपितो भ्रात्रा रणं चक्रे सुदारुणम् ॥ १०॥

बाणेन वालिनं रामो विद्ध्वा भूमौ न्यपातयत् ।
सोऽपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥ ११॥

पश्चात्तपन्तं सुग्रीवं समाश्वास्य रघूत्तमः ।
वानराणामधिपतिं चकाराश्रितवत्सलः ॥ १२॥

ततो माल्यवतः पृष्ठे रामो लक्ष्मणसंयुतः ।
उवास चतुरो मासान्सीताविरहदुःखितः ॥ १३॥

अथ रामस्य निर्देशाल्लक्ष्मणो वानराधिपम् ।
आनयत्प्लवगैः सार्धं हनूमत्प्रमुखैर्गिरिम् ॥ १४॥

सुग्रीवो राघवं दृष्ट्वा वचनात्तस्य वानरान् ।
न्ययुङ्क्त सीतामन्वेष्टुमाशासु चतसृष्वपि ॥ १५॥

ततो हनुमतः पाणौ ददौ रामोऽङ्गुलीयकम् ।
विश्वासाय तु वैदेह्यास्तद्गृहीत्वा स निर्ययौ ॥ १६॥

ततो हनूमत्प्रमुखाः वानरा दक्षिणां दिशम् ।
गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यमाप्नुवन् ॥ १७॥

समयातिक्रमात्तत्र चक्रुः प्रायोपवेशनम् ।
तेऽत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥ १८॥

ततः प्रापुरुदन्वन्तमङ्गदाद्याः प्लवङ्गमाः ।
तं विलङ्घयितुं तेषां न कश्चिदभवत्क्षमः ॥ १९॥

स्वप्रभावप्रशंसाभिस्तदा जाम्बवदुक्तिभिः ।
संवर्धितो महेन्द्राद्रिमारुरोहानिलात्मजः ॥ २०॥

 ॥ इति श्रीरामोदन्ते किष्किन्धाकाण्डः समाप्तः ॥



    ॥ अथ सुन्दरकाण्डः ॥

अभिवन्द्याथ सकलानमरान्पवनात्मजः ।
पुप्लुवे च गिरेस्तस्माद्विलङ्घयितुमर्णवम् १॥

स समुल्लङ्घ्य मैनाकं सुरसामभिवन्द्य च ।
निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥ २॥

लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः ।
सीतां विचिन्वन्नद्राक्षीन्निद्राणं निशि रावणं ॥ ३॥

अपश्यंस्तत्र वैदेहीं विचिन्वानस्ततस्ततः ।
अशोकवनिकां गत्वा कां चिदार्तां ददर्श सः ॥ ४॥

पादपं कञ्चिदारुह्य तत्पलाशैः सुसंवृतः ।
आस्ते स्म मारुतिस्तत्र सीतेयमिति तर्कयन् ॥ ५॥

रावणस्तु तदाऽभ्येत्य मैथिलीं मदनार्दितः ।
भार्या भव ममेत्येवं बहुधा समयाचत ॥ ६॥

अहं त्वद्वशगा न स्यामित्येषा तं निराकरोत् ।
काममन्युपरीतात्मा रावणोऽपि तदा ययौ ॥ ७॥

निर्गते रावणे सीतां प्रलपन्तीं स मारुतिः ।
उक्त्वा रामस्य वृत्तान्तं प्रददौ चाङ्गुलीयकम् ॥ ८॥

तत्समादाय वैदेही विलप्य च भृशं पुनः ।
चूडामणिं ददौ तस्य करे जग्राह सोऽपि तम् ॥ ९॥

मा विषादं कृथा देवि राघवो रावणं रणे ।
हत्वा त्वां नेष्यतीत्येनामाश्वास्य स विनिर्ययौ ॥ १०॥

नीतिमान् सोऽपि सञ्चिन्त्य बभञ्जोपवनं च तत् ।
अक्षादीनि च रक्षांसि बहूनि समरेऽवधीत् ॥ ११॥

ततः शक्रजिता युद्धे बद्धः पवननन्दनः ।
प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥ १२॥
रक्षोदीपितलाङ्गूलः स तु लङ्कामशेषतः ।
दग्ध्वा सागरमुत्तीर्य वानरान्समुपागमत् ॥ १३॥

स गत्वा वानरैः साकं राघवायात्मना कृतम् ।
निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥ १४॥

 ॥ इति श्रीरामोदन्ते सुन्दरकाण्डः समाप्तः ॥



    ॥ अथ युद्धकाण्डः ॥

अथासङ्ख्यैः कपिगणैः सुग्रीवप्रमुखैः सह ।
निर्ययौ राघवस्तूर्णं तीरं प्राप महोदधेः ॥ १॥

तदा विभीषणो भ्रात्रा त्यक्तो राममुपागमत् ।
लङ्काधिपत्येऽभ्यषिञ्चदेनं रामोऽरिमर्दनः ॥ २॥

दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः ।
कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥ ३॥

ततो राघवनिर्दिष्टा नीलमुख्याः प्लवङ्गमाः ।
रुरुधुः सर्वतो लङ्कां वृक्षपाषाणपाणयः ॥ ४॥

रावणस्य नियोगेन निर्गतान्युधि राक्षसान् ।
प्रहस्तप्रमुखान्हत्वा नेदुस्ते सिंहविक्रमाः ॥ ५॥

सुग्रीवश्च हनूमांश्च तथा राघवलक्ष्मणौ ।
राक्षसान्सुबहून्युद्धे जघ्नुर्भीमपराक्रमाः ॥ ६॥

रावणिस्तु तदाऽभ्येत्य समरे रामलक्ष्मणौ ।
ननाह नागपाशेन नागारिस्तौ व्यमोचयत् ॥ ७॥

रावणोऽपि ततो युद्धे राघवेण पराजितः ।
कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥ ८॥

ततो वानरसङ्घांश्च भक्षयन्तं निशाचरम् ।
ऐन्द्रेणास्त्रेण रामोऽपि निजघान रणे भृशम् ॥ ९॥

ततो रावणसन्दिष्टौ देवान्तकनरान्तकौ ।
हनूमदङ्गदाभ्यां तु निहतौ रणमूर्धनि ॥ १०॥

अथातिकायमायान्तं रथमारुह्य वाहिनीम् ।
अर्दयन्तं महाकायं लक्ष्मणश्चावधीच्छरैः ॥ ११॥

ततो रावणसन्दिष्टः शक्रजिद्राघवौ रणे ।
ब्रह्मास्त्रेण च तौ बद्ध्वा वानरांश्चावधीच्छरैः ॥ १२॥

अथ जाम्बवतो वाक्याद्गत्वा चौषधिपर्वतम् ।
मारुतिश्चौषधीस्तत्रादृष्ट्वा कोपं चकार सः ॥ १३॥
  
भूधरं तं समुत्पाट्य गृहीत्वा पुनरागतः ।
तासां गन्धेन वै सर्वान्राघवादीनजीवयत् ॥ १४॥

रावणः कपिभिर्दग्धां पुरीं वीक्ष्य रुषान्वितः ।
न्ययुङ्क्त कुम्भकर्णस्य पुत्रौ हन्तुं च राघवौ ॥ १५॥

अथार्दयन्तौ तत्सैन्यं वीक्ष्य तौ बलशालिनौ ।
कुम्भं रामोऽवधीद्बाणैर्निकुम्भं चात्मजो रवेः ॥ १६॥

ततः खरात्मजं तेन रावणेन प्रचोदितम् ।
पीडयन्तं कपीन्बाणैर्जघानास्त्रेण राघवः ॥ १७॥

ततः सन्तप्तहृदयो रावणो युद्धदुर्मदम् ।
प्रचोदयामास सुतं युद्धे हन्तुं स राघवौ ॥ १८॥

नगरान्निर्ययौ तूर्णमिन्द्रजित्समितिञ्जयः ।
मायासीतां विनिक्षिप्य सर्वेषां मोहनाय वै ॥ १९॥

वानरेष्वपि पश्यत्सु हनूमत्प्रमुखेषु च ।
जघान सीतां खड्गेन शितेन समितिञ्जयः ॥ २०॥

युद्धं त्यक्त्वा ततः सर्वैर्वानरैः स परीवृतः ।
दुःखितो हनुमांस्तत्र यत्र रमोऽव्रजल्लघु ॥ २१॥

उपगम्याब्रवीद्रामं हनूमान्निखिलं तदा ।
श्रुत्वा वृत्तान्तमखिलं रामो मोहमवाप सः ॥ २२॥

विभीषणोऽथ सम्प्राप्य दृष्ट्वा रामं च मूर्छितम् ।
विषण्णान्वानरान्वाचा सान्त्वयन्निदमब्रवीत् ॥ २३॥

मिथ्या विषादं सन्त्यज्य जगन्नायक हे प्रभो ।
श‍ृणु मेऽभिहितं वाक्यं ज्ञात्वा रावणिमानसम् ॥ २४॥

दुरात्मना कृता माया राक्षसेन्द्रसुतेन वै ।
निकुम्भिलायां होमं तु कृतं तेनाधुना किल ॥ २५॥

लक्ष्मणं प्रेषयाद्यैव मया सह समन्त्रिणा ।
कृते होमे तत्र रिपुरजेयो भवति ध्रुवम् ॥ २६॥

उवाच रामः सौमित्रिं राक्षसेन्द्रसुतं जहि ।
गच्छेति शीघ्रं सुहृदा रावणस्यानुजेन सः ॥ २७॥

लक्ष्मणस्तु तदा राममामन्त्र्य सविभीषणः ।
निकुम्भिलां प्राप तूर्णमिन्द्रजिद्यत्र वर्तते ॥ २८॥

अदर्शयद्भ्रातृपुत्रं धर्मात्मा स विभीषणः ।
लक्ष्मणो भेदयामास राक्षसाञ्छरसञ्चयैः ॥ २९॥

कृत्वा चिरं तत्र युद्धमैन्द्रेणास्त्रेण वै रुषा ।
शिरश्चिच्छेद सौमित्रिर्दशाननसुतस्य हि ॥ ३०॥

स सुतस्य वधं श्रुत्वा रावणः शोककर्शितः ।
नष्टधैर्यो विह्वलाङ्गो विललापाकुलेन्द्रियः ॥ ३१॥

निरर्थकं तु मज्जन्म जल्पितं च निरर्थकम् ।
येनाहमद्य पश्यामि हतमिन्द्रजितं रणे ॥ ३२॥

क्व गतोऽसि हतः शूर मानुषेण पदातिना ।
राज्याद्भ्रष्टेन दीनेन त्यक्त्वा मां पुत्र जीवितम् ॥ ३३॥

इन्द्रं जित्वा तु तं बद्ध्वा लङ्कामानीय वै बलात् ।
अकरोस्त्वं प्रतापेन कारागृहनिवासिनम् ॥ ३४॥

मोचयामास ब्रह्मा त्वां सान्त्वयित्वामराधिपम् ।
तादृक्त्वं कुत्र मां त्यक्त्वा गतोऽद्य सुदुरासदः ॥ ३५॥

किं करिष्याम्यहं पुत्र क्व गच्छामि वदाधुना ।
नय मां यत्र गन्तासि तत्र ते न विलम्बनम् ॥ ३६॥

लोकेषु त्वत्समो नास्ति तादृशस्य पितास्म्यहम् ।
इत्याशया स्थितं पुत्र गर्वितेन मयात्र हि ॥ ३७॥

धूम्राक्षो वज्रदंष्ट्रश्च कुम्भकर्णः प्रतापवान् ।
राक्षसा निहताः सर्वे प्रहस्तप्रमुखा अपि ॥ ३८॥

अनादृत्य तु तान्सर्वान्राक्षसान्प्रहृतानपि ।
अवष्टभ्य बलं पुत्र सुखेनावस्थितं तव ॥ ३९॥

इत्येवं बहुधा तत्र विलप्य स तु रावणः ।
अन्तर्नियम्य दुःखानि कोपं चक्रे सुदारुणम् ॥ ४०॥

रथं सूत ममाग्रे त्वं क्षिप्रं कुरु जयैषिणः ।
रामं सलक्ष्मणं हन्तुं निर्गमिष्याम्यहं गृहात् ॥ ४१॥

इत्युक्त्वा रथमारुह्य शीघ्रं सारथिवाहितम् ।
रामेण सह सङ्गम्य युद्धं चक्रे सुदारुणम् ॥ ४२॥

ततो मातलिनानीतं रथमैन्द्रं समारुहन् ।
रराज रामो धर्मात्मा ह्युदयस्थो यथा रविः ॥ ४३॥

चकार युद्धम् तुमुलं देववृन्दे च पश्यति ।
सीताहरणजात्कोपाद्रामो धर्मभृतां वरः ॥ ४४॥

अथागस्त्यस्य वचनाद्रावणं लोककण्टकम् ।
जघान रामो लक्ष्मीवान्ब्राह्मेणास्त्रेण तं रणे ॥ ४५॥

मन्दोदरी वधं श्रुत्वा भर्तुः प्रियतरस्य सा ।
विललाप रणं गत्वा कुररीव भृशातुरा ॥ ४६॥

विभीषणोऽथ रामेण सन्दिष्टः सह राक्षसैः ।
चकार दहनं तस्य रावणस्य गतायुषः ॥ ४७॥

अथाग्निवचनात्सीतां रामो वीक्ष्य सुनिर्मलाम् ।
सन्दिष्टो देववृन्दैश्च जग्राह पितृसन्निधौ ॥ ४८॥

तवैव युक्तं कर्मैतत्सर्वलोकभयङ्करम् ।
तद्वैदेह्याः कृते राम सा तु लक्ष्मीर्भवान्स्वभूः ॥ ४९॥

इत्येवं देवसङ्घैश्च मुनिभिश्चाभिपूजितः ।
लक्ष्मणश्च तुतोषाथ रामो विश्वासमाययौ ॥ ५०॥

विभीषणस्य धर्मात्मा सत्यसन्ध उदारधीः ।
कारयामास लक्ष्मीवाननुजेनाभिषेचनम् ॥ ५१॥

ततः पुष्पकमारुह्य सह मित्रैर्जगत्पतिः ।
भार्यानुजाभ्यां सहितः किष्किन्धां प्राप राघवः ॥ ५२॥

किष्किन्धानिलयाः सर्वाः कपीनां योषितः प्रियाः ।
सीताकुतूहलात्पुष्पं विमानं ताः समारुहन् ॥ ५३॥

अथ दाशरथिः श्रीमान्भरतं द्रष्टुमिच्छया ।
भरद्वाजाश्रमं प्राप्तस्तत्र तेन निवारितः ॥ ५४॥

भरतस्यान्तिकं रामः प्रेषयामास मारुतिम् ।
रामस्यादर्शनाद्वह्निप्रवेशं काङ्क्षतो भृशं ॥ ५५॥

तत्र तेन मुनीन्द्रेण सानुजः ससुहृद्गणः ।
सन्तोषविवशेनाथ रामोऽपि विधिपूजितः ॥ ५६॥

रामोऽथ सह सङ्गम्य भरतेनारिघातिना ।
अयोध्यां प्राविशत्तूर्णं मातृभिश्चाभिनन्दितः ॥ ५७॥

अथायोध्यानिवासास्ते जनाः सर्वेऽपि तोषिताः ।
अभिगम्याब्रुवन्रामं धन्या वयमिति द्रुतम् ॥ ५८॥

चातकास्तु घनान्दृष्ट्वा मयूराश्च यथा शिशून् ।
आसाद्य मातरस्तोषं तथा प्रापुर्जना भुवि ॥ ५९॥

अथाभिषेकं रामस्य वसिष्ठाद्या मुदाऽन्विताः ।
सहिता मन्त्रिभिश्चक्रुर्वसवो वासवं यथा ॥ ६०॥

अभिषेकोत्सवे सर्वे सुग्रीवाद्याः कपीश्वराः ।
यथार्हं पूजिताश्चासन् स्रग्गन्धाम्बरभूषणैः ॥ ६१॥

विशिष्य मुक्ताहारेण सीतया हनुमान्मुदम् ।
पूजितश्च तथा लेभे यथा सीतावलोकने ॥ ६२॥

सर्वासां वानरीणां च कौसल्या पुत्रवत्सला ।
भूषणैर्भूषयामास वस्त्रचन्दनकुङ्कुमैः ॥ ६३॥

रामाज्ञयाथ सर्वेऽपि सुग्रीवादिप्लवङ्गमाः ।
किष्किन्धां लेभिरे कृच्छ्राच्छ्रीरामविरहातुराः ॥ ६४॥

अतिभक्तो दीर्घजीवी लङ्कासमरसाधकः ।
अनुज्ञातः स रामेण लङ्कां प्रायाद्विभीषणः ॥ ६५॥

पितुस्सिंहासनं प्राप्य भ्रातृभिः सहितोऽनघः ।
विरराज तथा रामो यथा विष्णुस्त्रिविष्टपे ॥ ६६॥

लक्ष्मणानुमते रामो यौवराज्यं तु दत्तवान् ।
भरतायाप्रमेयाय प्राणात्प्रियतराय सः ॥ ६७॥

चत्वारस्ते महात्मानः सभार्या रघुसत्तमाः ।
खे सतारो यथा चन्द्रस्तथा रेजुः स्वपत्तने ॥ ६८॥

 ॥ इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः ॥



      ॥ अथ उत्तरकाण्डः ॥

राजा पर्यग्रहीदेव भार्यां रावणदूषिताम् ।
इत्यज्ञजनवादेन रामस्तत्याज मैथिलीम् ॥ १॥

तद्विदित्वाथ वाल्मीकिरानीयैनां निजाश्रमम् ।
अन्तर्वर्त्नीं समाश्वास्य तत्रैवावासयत्सुखम् ॥ २॥

ऋषिभिः प्रार्थितस्याथ राघवस्य नियोगतः ।
शत्रुघ्नो लवणं युद्धे निहत्यैनानपालयत् ॥ ३॥

तपस्यन्तं ततः शूद्रं शम्बूकाख्यं रघूत्तमः ।
हत्वा विप्रस्य कस्यापि मृतं पुत्रमजीवयत् ॥ ४॥

रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति ।
आनीय ससुतां सीतां तस्मै प्राचेतसो ददौ ॥ ५॥

शङ्क्यमाना पुनश्चैवं रामेण जनकात्मजा ।
भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥ ६॥

लक्ष्मणः सभयभ्रंशाद्रामेण समुपेक्षितः ।
मानुषं देहमुत्सृज्य स्वकं रूपं समाविशत् ॥ ७॥

अथ रामस्य निर्देशात्पौरैः सह वनौकसः ।
निमज्ज्य सरयूतीर्थे देहं त्यक्त्वा दिवं ययुः ॥ ८॥

ततो भरतशत्रुघ्नौ निजं रूपमवापतुः ।
रामोऽपि मानुषं देहं त्यक्त्वा धामाविशत्स्वकम् ॥ ९॥

श्रीरामोदन्तमाख्यातमिदं मन्दधिया मया ।
समीक्ष्य निपुणैस्सद्भिः संशोध्य परिगृह्यताम् ॥ १०॥

येषां प्रसादाद्रामस्य चरितं कीर्तितं मया ।
तान्गुरून्सर्वदा नौमि नारायणपरायणान् ॥ ११॥

यस्तु दाशरथिर्भूत्वा रणे हत्वा च रावणम् ।
ररक्ष लोकान्वैकुण्ठः स मां रक्षतु चिन्मयः ॥ १२॥


    ॥ इति श्रीरामोदन्ते उत्तरकाण्डः समाप्तः ॥

कस्मिंश्चित्पाठे युद्धकाण्डे एते श्लोकाः अधिकतया विद्यन्ते ।

रक्षोभिस्सह निर्याय भक्षयन्तं प्लवङ्गमान् ।
सहानुगं कुम्भकर्णं जघानाशु स राघवः ॥ ९॥

इन्द्रजित्पुनरप्याजौ सानुजं च रघूत्तमम् ।
अमोहयद्वानरांश्च ब्रह्मास्त्रेणास्त्रकोविदः ॥ १०॥

तदैव गत्वा हनुमानानीयौषधिपर्वतम् ।
तान्सर्वान्बोधयित्वाऽऽशु तत्स्थानेऽस्थापयच्च तम् ॥ ११॥

ततो निकुम्भिलां गत्वा सौमित्रिः सविभीषणः ।
निषिद्ध्येन्द्रजितो होमं संयुगे तं जघान च ॥ १२॥

तच्छ्रुत्वा रावणः क्रुद्धो निर्याय शरवृष्टिभिः ।
प्लवङ्गमान्पीडयित्वा रामेण युयुधे भृशं ॥ १३॥

रामोऽपि सुचिरं तेन कृत्वा युद्धं सुदारुणम् ।
ब्रह्मास्त्रेण जघानैनं ब्रह्मदत्तवरं रिपुम् ॥ १४॥

तदा शक्रादयो देवा हृष्टा रावणनिग्रहात् ।
रघूत्तमस्योत्तमाङ्गे पुष्पवृष्टिमकुर्वत ॥ १५॥

राक्षसानामधिपतिं कृत्वा रामो विभीषणम् ।
अग्निप्रवेशसंशुद्धां परिजग्राह मैथिलीम् ॥ १६॥

पुरन्दरवरेणाशु जीवयित्वा प्लवङ्गमान् ।
अतोषयद्रघुश्रेष्ठो विविधैर्धनसञ्चयैः ॥ १७॥

ततः पुष्पकमारुह्य ससीतः सहलक्ष्मणः ।
निर्ययौ वानरैस्साकं रामो रक्षोऽधिपेन च ॥ १८॥

अयोध्यां प्रत्यसौ गच्छन्प्रेषयित्वानिलात्मजम् ।
भरतस्य मतं ज्ञात्वा नन्दिग्राममुपागमत् ॥ १९॥

भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् ।
अयोध्यां प्राविशद्रामः प्रीतैर्बन्धुजनैस्सह ॥ २०॥

वसिष्ठोऽथ द्विजैस्साकं मन्त्रिसामन्तसन्निधौ ।
सीतया सहितं राममभ्यषिञ्चद्यथाविधि ॥ २१॥

आह्लादयञ्जगत्सर्वं पौर्णमास्यां शशी यथा ।
अयोध्यामवसद्रामः सीतया सहितश्चिरम् ॥ २२॥

"https://sa.wikisource.org/w/index.php?title=श्रीरामोदन्तम्&oldid=360654" इत्यस्माद् प्रतिप्राप्तम्