श्रीव्यासपाणिनिभावनिर्णयः/तृतीयभागः-३

← द्वितीयभागः-२ श्रीव्यासपाणिनिभावनिर्णयः
तृतीयभागः-३
[[लेखकः :|]]

151
न च शुक्तिरजतदृष्टान्तदानेन तस्य तथात्वं तदभिमतमिति वाच्यम्, तद्दृष्टान्तप्रदर्शनस्य नश्वरत्वं तात्पर्यात् । `भ्रान्त' इति सारोक्तेरपि नश्वरत्व एव तात्पर्यम् । अत एव--`प्रकृतेरिदं कृतं येन' इति प्रपञ्चस्य कृतिविषयत्वोक्तिः संगच्छते सारे, न हि प्रतिभासशरीरं वस्तु कृतिविषयो भवति, शुक्तिरूप्यादावदर्शनात् । नश्वरत्वं तु दृश्यते कुलालादिकृतिविषये घटे । एतद्दृष्टान्त एव नोपपद्यते इत्यन्यत्र विस्तरः । तत्र प्रकृतेरित्यस्य संस्कारातिरिक्तं जगत्कारणं वस्तु आदायेत्यर्थः । कृतमित्यस्य कृतिविषय इत्यर्थः । स्वविभूत्येत्यस्य स्वीयैश्वर्ययोगेन स्वसामर्थ्येनेति वार्थः । तेन उक्तसंस्कारातिरिक्तमेव वस्तु जगतः कारणं, जगच्च न प्रतिभासमात्रविषय इत्युक्तं भवति । भ्रमविषयो हि न कृतिविषय इति सर्वलोकसाक्षिसिद्धम् । शुक्तिरजतादेर्निर्मातुरदर्शनात् । नागोशकृततद्व्याख्यानं तु न तत्रत्याक्षरानुगुणम्, सारे प्रयुक्तमायापदस्य आद्यपद्योक्तप्रकृतिपरत्वमीश्वरेच्छादिपरत्वं वा । भ्रमसंस्काररूपाविद्याया आश्रयजिज्ञासायां `परमात्मैवाश्रयस्तवातिरिक्ताविद्याया इव' इति प्रतिबन्द्युत्तरदानेन, सूत्रभाष्यकृतोर्भ्रमसंस्कारकूपैवाऽविद्येति मतं सूचितम् इति निरूपणेन च अनादिभावरूपाविद्यां व्यवस्थापयतामद्वैताचार्याणां शाङ्करसूत्रभाष्याद्यभिप्रांयाऽनभिज्ञतां द्योतयति । नागेशोक्तेः मिश्राद्युक्त्यविरोधसंपादनं तु दुःशकम् । न च `इह देवताधिकरण' इत्यादिमञ्जूषोक्तेर्न विरोध इति वाच्यम्, तथा संकोचे कारणभावात्, अन्यत्र मिश्रादिभिर्नागेशोक्तरीत्या मायाया अनुपपादनात् । किं च प्रपञ्चो यदि प्रतिभासशरीरः, तर्हि ज्ञानरूपः क्षणिकश्च स्यादिति हानोपादानाऽसंभवेन सर्वसोकवोयवहारोच्छेदः । भगवता व्यासेन च विज्ञानवादः, क्षणिकवादश्च निराकृतो `नाभाव उपलब्धेः, क्षणिकत्वाच्च' (ब्र.सू.2.2.28.31) इत्याभ्याम् । अत एव अभियुक्ता नानुमन्यन्ते इदं वादद्वयम् ।

भागवते च--

सा तत्र ददृशे विश्वं जगत्स्थास्तु च शं दिशः ।
साद्रिद्वीपाऽब्धिभूगोलं सवाय्वग्रीन्दुतारकम् ।।

ज्योतिश्चक्रं जलं नभः स्वर्वियदंव च ।
वैकारिकाणीन्द्रियणि मनो मात्रा गुणास्त्रयः ।।

एतद्विचित्रं सहबीजकालस्वभावकर्माशयलिङ्गभेदम् ।
सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजैः सहाऽऽत्मानमवाप शङ्काम् ।।
(8.37-39)

इति दशमे भगवदुदरे चराचरसमस्तप्रपञ्चो वर्तत इत्युक्तेर्न मायिकं जगदिति वदन्ति । न च--उत्तरश्लोके

किं स्वन्प एतदुत देवमाया किं वा मदीयो बत बुद्धिभेदः । (40)

इति यशोदाशङ्कानुकारणात् भ्रम एव तज्ज्ञानमिति वाच्यम् ।

अथो अमुष्यैव ममार्भकस्य
यःकश्चनौत्पत्तिक आत्मयोगः ।। (41)

अथो यथावन्न वितर्कगोचरं
चेतो मनः कर्मचोभिरञ्जसा ।
यदाश्रयं येन यतः प्रतीयते
सुदुर्विभाव्यं प्रणतोऽस्मि तत्पदम् ।। (42)

इत्यध्यर्धश्लोकेन नायंभ्रमः, किं तु मम पुत्रस्य सहजोऽयमैस्वर्ययोगः, इदमैश्वर्यं न मनुष्यमात्रसाधारणं, किं तु वाङ्मनसाद्यविषयविचित्रतरजगदाधारस्‌य भगवत एव संभवेत्, अतो भगवानेव मम भाग्यवशात्पुत्रोऽभूदिति निश्चित्य भगवद्बुद्ध्या तमनमदित्युक्तत्वेन तज्ज्ञानस्य भ्रमत्वायोगात् । श्लोकाक्षरार्थस्तु भागवतव्याख्याभिरवसेयः ।

पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं
त्वमेवाऽऽद्यस्तस्मिन्सलिल उरगेन्द्राधिशयने ।
पुमान् शेते सिद्धै हृदि विमृशिताध्यात्मपदविः
स एवाऽद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ।।
(भाग.4.7.42)

इति भगवदुदरे सर्वं जगदस्तीत्यन्यत्रापि प्रकरणे व्यासोक्तेः । `उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः' इति सहस्त्रनामशाङ्करभाष्ये श्रीगर्भ इति नाम्नः `श्रीः विभूतिः यस्योदरे जगद्रूपा स्थित' इति निर्वचनात् `अनेन नाम्ना उदरे समस्तलोरवत्वगुणो भगवत उक्त इति णन्येषां तदव्याख्यानात्, कस्यचित्कविशेखरस्य `अन्तर्विष्णोस्त्रिलोकी निवसति' इति पद्यस्य विष्णोरूदरे लोकत्रयमस्तीति व्याख्यानाच्च न जगन्मायिकम् ।

पण्डितकविसार्वभौमो भट्टमुरारिर्भगवद्गुणनिरूपणानसरे--

विरमति महाकल्पे नाभीपथैकनिकेतन--
स्त्रिभुवनपुरः शिल्पी प्रतिक्षणमात्मभूः ।
किमधिकरणं कीदृत् कस्य व्यवस्थिति--
रित्यसावुदरमविशद्द्रष्टुं तस्मै जगन्निधये नमः ।। (2)

इत्याह । अस्यायमर्थः -- विरमति - महाप्रलये समाप्ते, महाकल्पे - अन्यब्रझकल्पे प्राप्ते, सृष्टिकाले सति, परःशिल्पी - आदौ निर्माता शिष्टं स्पष्टम् । चतुर्मुखस्य प्रथमशिल्पित्वेन कथंचिदपि पदार्थानामाधाराधेयभावस्य, अवयवसंनिवेशस्य चाऽपरिज्ञानात् तत्परिज्ञानाय भगवदुदरप्रवेशकथनेन भगवदुदरे सर्वप्रकारोपेतं वस्तु सूक्ष्मरूपेण वर्तत इति शास्त्रसिद्धोऽर्थः सूचितः । मायोपादानकानां, प्रतिभासमात्रविषयाणां पदार्थानां चिरकालवर्तित्वायोगेन तेषां भगवदुदरे वृत्त्यसंभवात् तद्दर्शनाय तत्प्रवेशोक्तिरसंगता स्यात् । तेन ज्ञायते नागेशोक्तं तदुभयमयुक्तमिति ।

ननु कविवचनमित्प्रेक्षारूपं कथं शास्त्रार्थनिर्णयाय कल्पत इति चेत्, उच्यते--नायं कविः केवलं स्वमनीषिकया अमुमर्थमुत्प्रेक्षाचक्रे, किं तु आर्षं वचनं प्रमाणमास्थाय अभिदधातिस्म । किं तर्हि तत्,

श्रीपतेरुदरं भूयः प्रविवेश पितामहः ।
तानेवलोकान् गर्भस्थानन्वास्यन् पझसंभवः ।।

इति लैङ्गवचनम् । सर्वं जगत् भगवदुदरे सूक्ष्मरूपेण वर्तत इति वचनार्थः । अन्वास्यन्नित्यस्य पस्यन्नित्यर्थः । एतेन हिरण्यगर्भो बौद्धान्पदार्तान् ज्ञात्वा सृजतीति नागेसोक्तं चिन्त्यम् । न चैवं पूर्वकल्पस्थिताननुसंधाय सृजतीति शंकराचार्यादिव्याख्यानं कथमुपपद्यते, उच्यते -- उभयत्र प्रमाणसद्भावात् पूर्वकल्पस्थाननुसंधाय उदरस्थान् दृष्ट्वा पदार्थस्वरूपं सम्यक् निश्चित्य सरृजतीति तात्पर्यात् । ननु (मं. 29.7) देवताधिकरणे)

ज्ञानमेव परं ब्रझ ज्ञानं बन्धाय चेष्यते ।
ज्ञानाच्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ।।
विद्याऽविद्ये च मैत्रेय ज्ञानमेवोपधारय ।

इति विष्णुपुराणवचनसिद्धं सर्वस्य ज्ञानस्वरूपब्रझात्मकत्वमिति चेत्, उच्यते -- तत्र `सत्यं ज्ञानम्' इति श्रुतेः ब्रझणो ज्ञानत्वोक्तिरूचितैन, `बन्धको भवपाश्न भवपासाच्च मोचक' इत्युक्तेः तस्य बन्धकत्वमपीष्टमेव । अत्रायं विवेकः -- य तु सकामा विहितं कर्मानुतिष्ठन्ति तेषां तत्तत्काम्यप्रदानेन सांसारिकसुखानुभावयितृत्वात् ज्ञानात्मनो हरेर्बन्धकत्वम् । ये तु निष्कामाः विहितं कर्म भगवदाराधनरूपं कर्तव्यमिति धियाऽनुतिष्ठन्ति तेषां मुक्तिदानेन मोचकत्वमिति । इदं विश्वं - समस्तं दगत् ज्ञानात्मकम् - ज्ञानरूपं ब्रङ आदानादिकर्ता यस्य तत्, तत्स्वामिक तन्नियम्यमिति यावत् । ज्ञावरूपब्रझणोऽन्यत् परं उत्तमं न विद्यते, विद्याऽविद्ये चज्ञानाऽज्ञाने अपि, ज्ञानमेव ज्ञानाधीने एव, तदधीनत्वात् राजा राष्ट्रमितिवत् सामानाधिकरण्यव्यपदेशः । अत्र ज्ञानं हरेः पुरुषोत्तमत्वज्ञानम्, अज्ञानं तदव्यतिरिक्तं द्वन्द्वमोहादिजन्यम् । निरुक्तमिदं गीतायां सप्तमादौ `कामैस्तैस्तैहृतज्ञाना' (20) इत्यादिना, इति वचनतात्पर्यात् उक्तचोद्यं नावकाशं धत्ते । एतेन (म.1.प) इदं वचनमुपन्यस्य `निरूपाधि ब्रझैव विद्या, सोपाधि तदेवाऽविद्येति तदर्थ' इति उपाधिविशिष्टं ह्रझैव जगदिति सर्वस्य ब्रझात्मकत्वाभिधानमयुक्तं शब्दमर्यादया तदुक्तार्थालाभात् । अत एव `स्वाशयमाह--निरूपेति' । इति कलायामवतारितमिदं वाक्यम् । तेन वचनार्थोऽन्योऽस्ति इति ज्ञायते । शुद्धस्य उपाधिसंबन्धो दुर्निरूपः तस्य निर्धर्मकत्वात्समाधौ योगिगम्यत्वमपि तता, अतो निरूपाधिसोपाधिविभाग एवानुचितः ।

संज्ञामूर्तीति सूत्रेण त्रिवृत्कृतमबादिकम् ।
जगतःकारणमिति श्रुत्यर्थं प्राह सूत्रकृत् ।।

वैदिकाग्रेसरस्येदं भवतीष्टं च पाणिनेः ।
अबाधितमिदं तस्मात् स्यादेवेष्टं पतञ्जलेः ।।

तस्मात्संस्कारजन्यत्वं प्रतिभासशरीरता ।
इति नागेशवचनं न मुनित्रयसंमतम् ।

अकृतेतियोगसूत्रस्य भेदमायिकत्वपरत्वनिरासः

यदत्र मञ्जूषयां (88.14) स्वाभिमतात्मैकत्वे योगसूत्रमपि अनुरूलमिति बोधनाय अन्तःकरणानां विभुत्वनिरूपणावसरो अदृष्टवासनादीनां साधारण्यात् `सर्वेषां युगपत्सुखदुःखप्रसंगः' इत्याशङ्क्य `सर्वस्य मायिकत्वेन जलनलिनीपत्रवददोषात् कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् (यो.सू.2.22) इति सूत्रेण तथाबोधनात्' इति समाधाय `कथमेकमनष्टं नष्टं चेत्युपपद्यत' इत्यादिना आत्मनानात्वं मायिकमित्याह । तन्निर्मूलम् । तथा हि--उपन्यस्ते सूत्रे आविद्यकार्थकत्वबोधकपदाश्रवणात्, पूर्वोत्तरसूत्रयोश्च तथार्थकपदाश्रवणेन अनुवृत्यपकर्षयोश्चासंभवात्, एतत्सूत्रघटितपादस्य साधनपादत्वेन तत्र कस्यचिदपि साधनस्याऽऽविद्यकत्वानिरूपणात् सूत्राक्षरमर्यादया प्रकरणेन च तथार्थालाभात्, सात्रेण तताबोधनादिति नागेसोक्तमयुक्तं पतञ्जलिमते कस्यचिदपि वरतुपो मायिकत्वाभावाच्च ।

न च एकस्य वस्तुन एसं प्रति नष्टत्वानष्टत्वयोरयोगात् अगत्याऽन्यतर,्य मायिकत्वं कल्पनीयमिति वाच्यम्, पुरूनानात्वे सूत्रतात्पर्येण नष्टत्वानष्टत्वयोरधिकारिभेदेनोपपत्तेः । व्याख्यातमिदमेवमेव म्श्रादिभिः । किं च `न च पर्धानवदेकः पुरुषः', तन्नानात्वस्‌य जन्ममरणसुखदुःखभोगमुक्तदिसंसारव्यवस्थाय लिद्धेः, प्रकृत्येकत्वपुरूषनानात्वयोश्च श्रुत्यैव साक्षात्प्रतिपादनात् । `अजामेकाम्' इति श्रुतेरर्थ एवाऽनेन सूत्रेणाऽनुदित' इति योगसूत्रतात्पर्यं श्रुतितगत्पर्यं च जीवनानात्व एवेत्यर्थकमिश्रग्रन्थविरूद्धम् । ततश्चायं सूत्रार्थः -- किं पुरुषः प्रकृतिवदेकः, अथ नाना, इति संशये सिद्धान्तमाह--कृतार्थमिति । तत् - प्रधानम् । कृतार्थं प्रति - असंबुद्धिविषयीकृतविषयेन्द्रियसुखदुःखादिसंविद्रूपभोगं पुरूषं प्रति, नष्टमपि - वुरतव्यापारमपि (तत्पुरूषीयोपभोगोपयोगिविषयादिना अपरिणाम्यपि) अनष्टम् - व्यापारवत् (विषयादिना परिणामि), कान् प्रति ? अकृतार्थान् प्रति,अन्यसाधारमत्वात् - कृत्र्थपुरुषव्यतिरिक्तपुरुषसाधारणत्वात् इति । अयमाशयः -- सर्वसाधारणमपि प्रधानं विशयविरक्तस्य विषयादिरूपेण परिणतं नोपकाराय भवति, अविवेकिनः (रागवतः पुरुषस्य) भोग्यवस्तुरूपेण परिणतं सत् उपकाराय कल्पते, एकस्यैव प्रधानस्य विरक्तरागिपुरूषभेदेन नष्टत्वमनष्टत्वं चोपपद्यत इति पुरुषनानात्वसिद्धरिति ।

सांख्ययोगौ भेदवादिनावित्येतत् सार्वलौकिकम । सांख्यानां मते च जगतो मायिकत्वं नेति षष्टितंत्रे पंचशिशाचार्यैः --

गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ।।

इत्यनेन निरूपितम् । अस्यायमर्थः --- त्रिगुणात्मकप्रधानकार्यभूतं (जगत्) वस्तुजातं, मायेव - मायानिर्मितवस्त्विव, यथा मायाविना निर्मितं वस्तु इह्नाय नश्यति, तता प्रदानकार्यम् आशु विनस्यति इति । एवं च सांख्यानां मते न जगत् मायिकं, किं तु सत्यम् अर्थक्रियाकारीत्यतो जगदन्तःपाति, भेदोऽपि तन्मते वास्तव एव । न च तत्सूत्रे एकत्वश्रुतीनां च प्रमाणान्तरविरोधात् कथंचिद्देशकालविभागाभावेन भक्त्त्याप्युपपत्तेः इति मिश्रोक्तेः, `व्यवहारपरमार्थभेदादैकात्म्यनानात्वयोरूपपत्ति वात्यम् । भक्त्येत्युक्त्या एकत्वं गौणं न तु मुख्यम् तत्रापि कथंचिदित्युक्त्या च देशकालविभागस्य सदातनत्वेन तदभावस्यैवाभावेन तेन तथाकल्पवं क्लष्टमिति मिश्राशयात् । भिक्षिग्रन्थे यथासंख्यान्वयेन ऐकात्म्यं व्यावहारिकं मुखचन्द्रयोरिव, परमार्थतो नानात्वं घटपटयोरिवेति भिक्ष्वाशयात् । अत एव विज्ञानभिक्षुणा `क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर' (यो. 1.24) इतीश्वरसक्षणसूत्रे ईश्वरस्य सर्ववैलक्षण्यं वदतः सात्रकृतोऽभिप्रायनिरूपणावसरे सांख्ययोगयोरात्मनानात्व एव तात्पर्यमिति निपुणं निरूपितम् । अयमत्र संक्षेपः -- पतञ्जलिस्तावत्सांख्याचार्येष्वन्यतम इति सुप्रसिद्धम्, अतः सांख्यमत इव एतन्मतेऽपि जगत् आत्मनानात्वं च वास्तवमेवेति एतत्सूत्रं वास्तवभेदतात्पर्यकमिति वर्णनं न्याय्यम् । व्याख्यातृषु भाष्यकारादिषु कश्चिदपि एतत्सूत्रबोधितो भेदो मायिक इति नाब्रवीत् । `द्वैतिनो हि ते सांख्या योगाश्च' इति श्रीशङ्कराचार्या आहुः, सूत्रमिदं मायिकभेदपरमिति न कश्चिदपि विपस्चित् व्याचष्टे । अतो नागेशव्याख्यानं न विद्वज्जना आद्रियन्ते । न च `द्वैतिनो हि ते' इति शाङ्करभाष्यस्य व्यावहारिकद्वैतवादिन इत्यर्थ इति वाच्यम्, तथासति तन्मतखण्डनाय तोषां प्रवृत्त्ययोगात् । अयमपि योगवृत्तौ मिश्राणां मार्गनुसृत्य एतत्सूत्रं, व्याक्यत् । एवं च मञ्जूषायां मयिकं भेदं बोधयति सूत्रमिति भाषणं योगसूत्रीयबहुव्याख्यानविरुद्दम्, किं च श्रूशङ्काराचार्यादीनां योगतन्त्राभिप्रायानभिज्ञतां सूचयति ।

अकृतार्थेतिसूत्रेण मायिको भेद उच्यते ।
इति व्याक्या योगसूत्रबहव्याख्यात्र संमता ।।

न संमता योगसूत्रकृकश्चापि पतञ्जलेः ।
सांख्ययोगमते कश्चित्पदार्थो मायिको न हि ।।

जन्मद्यस्येति श्लोकार्थः

ननु `जन्माद्यस्य यतोऽन्वयात्' (भाग.1.1.1) इति भागवताद्यपद्ये `यत्र त्रिसर्गो मृषा' इति भगवत्कर्तृकसृष्टेः, तत्सृष्टस्य वा मृषात्वमभिधीयते भगवता वायासेनेति नाशङ्क्यम् । यतोऽत्र बादरायणः परसमिन् ब्रझणि त्रिगुणकार्यं मृषेत्यभिप्रैतीति तत्तात्पर्यम् । अक्षरार्थस्तु---यत्रति दार्ष्टान्तिके सप्तमीश्रवणात् `मृता' मिति षष्ठी वैषयिकाधारस्य संबन्धित्वविवक्षया । यथा केशोण्ढ्रकादौ तेजस्त्वादिविषयको विनिमयः (भ्रमः) तथा, यत्र - यस्मिन् भगवपतो रामकृष्णाद्यवताररूपेष्वपि, त्रिसर्गः - गुणत्रयकार्यसंबन्धः (तत्कार्यम्) मृषा - मिथ्या, स नास्ति, `केवलो निर्गुणश्च' (श्वेता.) `सर्वे निर्गुणम्' (गो.13.14) इत्युक्तेरिति । यद्वा-अमृषेतिच्छेदः । विनिमयः कार्यम् । यत्रेति संवन्धिनोऽधिकरणत्वविवक्षया सप्तमी ततस्त्रल् । त्रिपदं गुणत्रयात्मकप्रकृतिपरम् । अय्र्तः --- यछा तेजःप्रभृतीनां कार्यम्, अमृषा - सत्यम्, अर्थक्रियारारित्वात् तथा यत्संबन्धित्रिगुणात्मकप्रकृतिकार्यं महदादि, अमृषा-सत्यम्, मिथ्या नेति । यद्यत्र ब्रझसृष्टस्यैव सिथ्यात्वमभिप्रैतीति ब्रयात्, तर्हि `निरस्तकुहकम्' इत्यनेन निरस्तमायिकत्वोक्तिरसंगता स्यात् । सत्यजगत्स्त्रष्ट्टत्वे हि तदुपपद्येत । अन्यथा ऐन्द्रजालिकस्येव कुहकत्वं मायिकत्वमेव भवेदिति तदसांगत्यं सुस्प,्टम् । ऐन्द्रजालिकेन सृष्टमपि न मिथ्येति सांख्यमतम् । किं च `असत्यमप्रतिष्ठं ते' इति भगवद्वचनविरुद्धः जगदसत्यत्वावाद इति प्राङ्निरूपितं न विस्मर्तव्यम्, निरूपयिष्यते चैतत् । विस्तरस्तु अन्यत्र द्रष्टव्य इति ।
  
एतेन प्रथमपरिच्छेदे स्थलद्वये `विप्र पृथ्व्यादि चित्तस्थं न बहिषिटं कदाचन । स्वन्पभ्रममदाद्येषु सर्वैरेवानुभूयते' इति कौर्मवचनमुपन्यस्य सर्वं जगत् चित्तस्थामेव न बहिरास्ते इति यदाबह नागेशः, `अत्र कदाचन' इत्युक्त्या सर्वःप्रपञ्चो बहिरसन्नेवेति यच्चाह कलायां वैद्यनाथः, तदुभयमसंगतं वेदितव्यम् । तथा हि---स्वन्पादि,ु अनुभूयते वस्तु, बोधे तु न दृस्यते, तत्कुत्रत्यमिति जिज्ञासायां जाग्रति अनुभूतं संस्काररूपेण चित्तस्थमेव वस्तु स्वन्पादिरूपोद्बोधकसामाग्या अनुभूयते न तु जाग्रति बहिर्विद्यमानं, स्वन्पस्यान्यैरननुभूयमानत्वादिति वचनतात्पर्यं, न तु बाझवस्तुनोऽसत्त्वे । योजना तु---हे विप्र संस्कारूपेण चित्तस्तमेव पृथिव्यादि स्वन्पादिषु नानुभूयते अस्य स्वन्पाद्यवस्थानापन्नसर्वानुभवायोग्यत्वादिति । यत्सर्वानुभवयोग्यं तद्बहिष्ठम् यत्स्वप्तृपुरुषमात्रानुभवयोग्यं तत् संस्काररूपेण चित्तस्थमिति विवेकः एवं च बहिः पदार्थोऽसन्नेवेत्यर्थो नानेन लब्यत इति ।

जन्मादिविप्रपृथ्वीतिपद्ययोर्नैव मायिके ।
तात्पर्यमिति संक्षेपादुक्तमन्यत्र विस्तरः ।।

ईश्वरस्य सर्वदेवतारूपत्वनिरासः

मञ्चूषायां तद्धितार्थविचारे `ऐन्द्रं हविः, ऐन्द्रो मन्त्रः' इत्यादौ तद्धितारथो देवता `सा च शब्दातिरिक्ता तिर्यगधिकरणे न कर्मसु देवता अधिक्रियन्त' इत्यर्थकेन `न देवातान्तराभावात्' इति सूत्रेण `जैमिनिनाप्यङ्कीकाराच्च' इति ग्कन्थेन जैमिन्मते शब्दातिरिक्तदेवतासद्भावं प्रसाध्य, `देवतात्वं च मन्त्रकरणकहविस्त्यागजन्यस्वर्गातिरिक्तफलाश्रयत्वेनोद्देश्यत्वं, मन्त्रस्तुत्यत्वं च' इति देवतात्वं निरूच्य, स्वाभिमतात्मैकत्नस्थेम्ने `उद्देश्यता च मन्त्रोक्तशब्दशरीरोभयावच्छन्नेश्वरचैतन्यस्य' तदेव च मन्त्रोक्तमिन्द्रादिपदवाच्यम्, `इन्द्रं मित्रम्'[ इत्यादिमन्त्रवर्णात् । `इन्दः सहस्त्राक्षो गोत्रभिद्वज्रहाहु' रित्यर्थवादबलात् तत्प्रदर्शितविग्रहहविर्भोजनैश्वर्यतृप्तिफलप्रदत्वानां `न बाध' इति ग्रन्थेन तत्तच्छब्दबोध्यविग्रहविशिष्टेश्वरचैतन्यस्यैव देवतात्वं समर्थयते नागेशः । अत्र वदन्त---`जैमिन्यङ्गीकाराच्छ' इत्युक्तिस्तावन्न युज्यते नवमे देवताधिकरणे भाट्टपिकायाम्--`जैमिनिमतनिष्कर्षस्तु शब्द एव देवता प्रातिपदिकानुरोधेन तदर्थश्चेतनोऽचेतनो वा भवतु, तस्या विग्रहस्तु नास्त्येव अतस्तस्याः फलप्रदत्वं न, किं तु अपूर्वमेव कर्मजन्यफलप्रदम्, मम त्वेवं वदतोऽपि वाणी दुष्यति हरिस्मरणमेव शरणम्' इति खण्डदेवकृतजैमिनिमतनिष्कर्षस्य, तद्बोधिततदनुवादमात्रजनितदोषप्रायश्चुत्तस्य च पर्यालोचनायां शब्दातिरिक्तदेवतासद्भाव इत्येतत् न जैमिनिसिद्धान्त इत्यवगमात् । उभयोरनयोः पण्डितप्रकाण्डत्वाविशेषेऽपि खण्डजेवकृतनिष्कर्षस्योपदेशपररासिद्धत्वेन खण्डदेवोक्तिरेव बलवतीति सैवादरणीया । `देवानां त्वात्मोद्देश्यकत्यागासंभवात्, विग्रहस्याभावाच्च शक्तेरभावान्नाधिकार' इत्यादितिर्यगझिकरणीय (6.1) पार्थसारथिमिश्राद्युक्तिः, एवमर्थककुमारिलभाषणं च तथाविधोपदेशपरंपरासद्भावे मानम् ।

किं च देवानां कर्मण्यधिकाराभावं बोधयता `न देवतान्तराभावात्' इत्यनेन कथमक्षरमर्यादया अतिरिक्तदेवतालाभ इति विभाव्यम् ।

किं च `सीत्रेण' इत्युक्तिरेव मञ्जूषाकृतो नागेशस्य पूर्वतन्त्रेष़न्यादृशं पाण्जित्यं द्योतयति । इदं वाक्यं जैमिनीयसूत्रपाठे क्वापि न दृश्यते । नापि व्याश्यातं प्रतिसूत्रं व्याकुर्वता भाष्यकृता शबरस्वामिना, वृत्तिकृता च काममिश्रेण । उत्तरकमीमांसायां देवताधिकरणं देवानामधिकारो नेति चोद्यस्‌य संपोषणाय वाक्यमिदमुदाहरन्तः शङअकराचार्या अपि सूत्रमिदमिति नाऽवोचन् । शाबरभाष्यस्थ वाक्य मेतदिति सांप्रदायिकाः । शङ्करभाष्यटिप्पण्यामस्य वाक्यस्य सूत्रसंख्यालेखनम् `अति प्रथमसूत्रार्थः' इति लेखनं च अनवधाननिबन्धनमिति जैमिनिमतानुयायिनः ।

किं च शांकरभाष्ये देवताधिकरणे (ब्र.सू.1.3.8) देवताया विग्रहादिराहित्यवादिजैमिनिमतं दूषयित्वा विग्रहवत्त्वस्य स्द्धान्तितत्वेन शब्दातिरिक्तदेवता नस्तीत्येव जैमिनिमतमिति खण्डदेवोक्तमेव युक्तम् । यदि देवतायाः शब्दातिरिक्तत्वं जैमिनेरपि संमतं स्यात् तदा विग्रहवत्त्वमपि अर्थवादादिहलेन सिध्यतीति शक्यं वक्तुम् । ततश्च शाङ्करीयजैमिनिमतखण्डनमपि तदीयाभिप्रायापरिज्ञानमूलकमेव स्यात् । महारविः श्रीहर्षोऽपि श्लेषेण प्रकृताप्रकृतमर्थं वर्णयन् देवनां विग्रहो जैमिनिर्मन्यत इत्याह---

विश्वरूपकलनापपन्नं तस्य जैमिनिमुनित्वमुदीये ।
विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदशनिं स निनाय ।।
(नै.5.39)

इत्यनेन । विश्वरूपकलनात् मत्स्यकूर्माद्यनेकावतारधारणात्, नानार्थकसूत्रकरणादित्यर्थः । सर्वपदार्थसाक्षात्करणादित्यप्यर्थो व्यज्यते । शिष्टं स्पष्टम् ।

भगवता सूत्रकृता बादरायणेन `फलमत उपपत्तेः' (ब्र.सू.3.2.39) इत्यनेन ईश्वरः फलप्रदः, धर्मः अपूर्वद्वारा फलद इति प्रतिपाद्य ततः `धर्मं जैमिनिरत एव' (ब्र.सू.3.4.41) इति जैमिनिमतमुपन्यस्य धर्मापूर्वयोरचेतनत्वात् तयोर्दातृत्वासंभवेन उक्तदिशासर्वाध्यक्ष ईश्वर एव फलप्रद इति युक्तः पक्षः इति सिद्धान्तितम् । किं च यदि शब्दातिरिक्ता देवता जैमिनिसंमता तर्हि सैव मर्मणाऽऽराधिता फलप्रदा भवितुमर्हतीत्याशयेन `पीर्मं तु बादरायणो हेतुव्यपदेशात्' (ब्र.सू.3.2.42) इति सूत्रेण तन्मतनिराकरणम्संगतं स्यात् ।

किं च जैमिनिमते अतिरिक्तदेवतादिसद्भावसाधने कालान्तरभानविस्वर्गादिफलोत्पादकापूर्वास्तित्वादिसमर्थपराणि `चोदना पुनरारम्भ' (2.1.5) इत्यादीनि बहून्यधिकरणानि जैमिनिनाऽनारम्भणीयानि भवेयिः, विग्रहवद्देवताप्रसादादेव फलोत्पत्तिसंभवात् ।

यच्चानेन अभिहितम् ईस्वरचेतन एक एवोद्देश्यत्वेन देवता मन्त्रोक्तेन्द्रादिपदवाच्यो दीयमानं द्रव्यमश्नाति `इन्द्रं मित्रं वरुणमग्निमाहिरथो दिव्यः स सुपर्णोोो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्ति अग्निं यमं मातारिश्वानमाहु_ट (ऋ.सं.2.3.22) तद्यदिदमाहुः, अमुं यजामुं यजेत्येककैं देवं, एतस्यैव सा विसृष्टिः एष उझेव सर्वे देवा (बृ.उ.1.4.6) इत्यादिभिस्तस्यवे सर्वदेवतात्वेन प्रतिपादनात्' इति शब्दातिरिक्तापि देवता ईश्वर एवेति ।

अत्रेदं वक्तव्यम् -- `शब्दातिरिक्तदेवताऽस्ति, विग्रहोऽप्यस्ति तस्या' इति वचनं तावत्सुन्दरम्, इदं च सर्वैर्मोमांसकातिरिक्तैरास्तिकजनैः सशिरःकम्पं सश्लाघमादरणीयम् । भगवतोत्तरमिमांसाकृता `तदुपर्यपि बादरायणः संभवात्' (ब्र.सू.1.3.23) इत्यादिना भगवदुपासनायां तेषामधिकारोऽस्तीति समर्थितत्वात् । यदि तोषामतिरिक्तत्वाभावः, विग्रहाभावश्च तदा उपानायां प्रवृत्त्ययोगेन तदधिकरणारम्भो व्यर्थः स्यात् । परं तु तस्यास्तन्मते उक्तमीश्वरत्वम्, इन्द्रादिरूपेण हविर्भोजनम्, शब्दातिरिक्तत्वं फलदत्वं चायुक्तम्, इन्द्रादिरूपेण हविर्भोजनम्, शब्दातिरिक्तत्वं फलदत्वं चायुक्तम् । जैमिनिना तथानुक्तेः `जैमिनिनाप्यङ्गीकाराच्च' इतियुक्तिः तस्या ईश्वरत्वाद्युक्तिस्चासंगता, मीमांसकमत ईश्वराभावात् । अत एव भूषणसारे नेश्वरसंकेतः शक्तिः, मीमानसकानामिश्वराभावात् तत्संकेतग्रहाभावेन अर्थोपस्थित्यादेरभावप्रसंगादित्युक्तं शक्तिवादे । `कस्ये' (4.2) दिति सूत्रे कैयटस्तु--`यागसंप्रदानं देवता, मन्त्रस्तुत्यश्चार्थ इत्येव देवतापदार्थमाह । `अग्निर्वै देवानामवमो विष्णुः परमः तदन्तरेण अन्याः सर्वा देवताः, (ऐ.ब्रा.1.) यो विज्ञाने तिष्ठन्, य आत्मनि तिष्ठन्, ईश्वरः सर्वभूतानाम् इत्यादिषु ईस्वरातिरिक्तानामकेषां देवादीनां सद्भावस्य हरौ तदुत्तमत्वादेश्च जोतनैक्यायोगात् ।

चेतननानात्वस्य पूर्वमदाहृतबहुप्रमाणलिद्धत्वेन एकस्यैवेश्वरस्य इन्द्रादिपदवाच्यत्वं तत्तद्रूपेण तत्तद्देवतात्वमिति च चिन्त्यम् । छान्चोग्ये `अथ ये चास्येह जीवाः, एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रझलोकं न विन्दन्ति अनृतेन हि प्रत्यूढा' (8.3.2) इत्यादौ जीवा इत्यादिबहुवचनश्रवणम्, अष्टमे षष्टाजिषु खण्डेषु `एकशतं वर्षाणि ब्रझचर्यं वसत इन्द्रस्य प्रजापतेः सकासात् ब्रझविद्याग्रहणश्रवणं भगवतो लक्ष्मीपतेरन्यस्य भगपत्पदवाच्यचता नेति प्रतिपादनावसरं भगवता व्यासेन वर्वेत्तमत्वनिरूपणं, भागवते तत्रत्यश्रीधरीयं च चेतनैक्याभावे मानम् ।

ननु

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै--
र्युक्तः परः पुरष एकइहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चिकरेतिसंज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ।।
(भाग.1.2.24)

इति एकस्यैव हरेः पालनादिकर्मभेदेन नामभेद इति व्यासोक्तेः बरिविरिञ्चिहराणामेकत्वं तदभिमतमिति न वाच्यम्, नानेनाभेद उच्यते, किं ति--

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् ।
एक एव महाविष्णुः कुरुते सर्वमञ्जसा ।।

इत्याद्युक्तेः विरिञ्चादिष्वपि अन्तःस्थितो हरिः सृष्ट्यादिकं कुरुते तत्र तत्र स्थितत्वात्, मञ्चस्थानां मञ्चपदवाच्यत्ववत् विरिञ्चादिपदवाच्यत्वमस्तीति बोध्यते इत्यदोषात । न च `नारायणकलाः शान्ता भजन्ति झनसूयवः' (भाग.1.2.27) इत्यादौ नारायणकलात्वोक्तेरेकत्वमिति वाच्यम्, नारायणकलासदृशा इत्यर्थः न तु तत्स्वरूपभूता इत्यदोषात् । एवंचातीयकाः श्रुतिस्मृत्यादय एवमेन व्याक्यातव्याः । शास्त्रदिपिरायामात्मैकत्ववादस्य (1.1. पा) निराकृतत्वेन मीमांसकमतरीत्या नेदं युज्यतेति ज्ञेयम् ।

`इन्द्रं मित्रम्' इत्यादिश्रुतेस्तु इन्द्रादिशब्दैर्योगबलेन प्रतीयमानगुणसम्बन्धेन आदित्यस्यागनेर्वा स्तुतरिति वेदभाष्ये माधवाचार्यैर्व्याख्यातत्वेन अग्न्याद्यन्यतरदेवतापरत्वं, न तु नागेसोक्तदिशा इश्वरपरत्वम् ।

किं च चेतनैक्यं वदतो मते इश्वरान्यचेतनाभावेमि ईश्वरस्य च शुद्धस्वभावत्वेन आव्दियकधर्मसंबन्धस्य च वक्तुमशक्यतया औपाधिकभेदस्यापि वक्तुमशक्यत्वात् । कर्मकर्तुरभावेन यागस्यैवाभावप्रसंगेन तजाजन्यफलभोक्तुपभावेन (स्वर्गादिफलतदनुभवित्रोरप्यभावेन) सर्वं वेदादिरमप्रमाणं स्यात्, उन्मत्तभाषितं, बालभाषितं वा स्यादिति तदभिमतचेतनैक्यं निष्प्रमाणमेव भवेदिति विभाव्यम् । न च उपाधिसंबन्धेन सर्वमुपपद्यत इति वाच्यम्, शुद्धे वस्तुनि तत्संबन्धायोग इत्युक्तत्वात् ।

ननु `तस्मात्-परमेश्वरात्, यज्ञात्-यजनीयात् (पूज्यात्) सर्वहुतः-सर्वैर्हूयमानात्, इति ऋग्वेदभाष्योपोद्धातानुरोधेन मंजूषाकृदवोचदिति चेत्, न । पुरुषसूक्तभाष्ये तस्माद्यज्ञात्-पर्वोक्तमानसयागात्, सर्वहुतः-सर्वात्मकः पुरुषः यस्मिन् यज्ञे बूयते सोऽयं सर्वहुत इति मादवाचार्येण व्याख्यातोऽयं मन्त्रैकदेशः । भट्टभास्करेणापितस्मात्-मानसात् सर्वात्मा पुरुषः पशुत्वेन हूयते यस्मिन्निति सर्वहुत्, अधिकरणे क्विप् इति व्याख्यानात्, `इन्द्रम्' इत्यादेरग्न्यादिपरतया व्याख्यातत्वाच्च उपोद्धातोक्तार्थे प्रामाण्यानिश्चयात् । ईश्वरस्येन्द्रादिरूपत्वे मानाभाव इति पूर्वमुक्तत्वाच्च । एतेन `भाष्योपोद्दातयोरीश्वरस्य सर्वात्मकत्वं भाषितमिति न विरोध' इति तु चिन्त्यं, तस्यार्थस्य प्रमाणसिद्धत्वाभावात् । `सर्वहुत' इत्यस्य तु -- सर्वः - पूर्णः, व्याप्तो वा हूयत इत्यर्तः सर्वशब्दस्य एतदुभयार्थकत्वे मानमुक्तं `वासुदेव' इति श्लोकव्याख्यावसरे । यद्वा सर्वैर्हूयत इति कर्मणि क्विपि सर्वैर्हूयमान इत्यर्थः । वैष्णवयागेषु हकेः सर्वैर्हूयमानताऽस्त्येव ।

किं च हवने नाम प्रीणनं `प्रीणनेपीति भाष्यम्' इति कौमुद्यामुक्तेः, तच्च स्वस्वविषयकप्रितिप्रसादादिपदाभिधेयस्वोत्तमदेवादिसमवेतेच्छानुकूलो व्यापारः, सा चेच्छा अयं मम भक्तः, ईप्सितमिदं फलं प्रान्पोति, मां वा प्रान्पोतु इत्येवंरुपा । तादृशव्यापारः स्तुतिरूपः, कृतस्य श्रौतस्मार्तकर्मणो भगवतु समर्पणं वा, तत्र---

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ।। (सहस्त्रनाम.6)

इति प्रीतिद्वारा स्तववस्य फलोपायत्वस्मरणात्,

कायेन वाचा मनसेन्द्रियेण बुद्ध्यात्मना वाऽनुकृतः स्वभावात् ।
करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ।। (भाग.11.11.37)

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुस्ष्व मदर्पणम् ।। (गी.9.27)

इति अनुष्ठितस्य विहितस्य कर्मणः सर्वस्य समर्पणस्मरणात्,

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
सन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।। (गी.9.28)

इति अर्पणस्य भगवता फलस्मरणाच्च ।

ननु `सर्वश्च प्रजापतिः' इति `कस्येत्' (पा.सू.4.2.25) इति सूत्रभाष्यं सर्वस्य ब्रझात्मत्वे मानम् । तत्र `कार्यकारणयोरभेदादिति भाव' इति कैयटोऽव्याख्यत् । कारणभूतब्रझणः सर्वात्मत्वेन सर्वरूपप्रजापतिवाचकत्वेन कशब्दस्य सर्वनामसंज्ञा भविष्यतीति भाष्यस्य प्राकरणिकार्थः । ततश्च अनेन भाष्येण सर्वस्य ब्रझात्मत्वं तत्संमतमिति जानीम इति चेत्, उच्यते--`इदं भाष्यमुत्तरभाष्यं चेति द्वयचं, द्वयोरेकदेशिनोोः प्रौढोक्तिमात्रम्' इत्युद्द्योते, शेखरेचो क्तत्वेन न सिद्धान्तिसंमतम् । किं च `सर्वश्च प्रजापतिः' इति भाष्यमादाय `अत एवोक्तं `सर्वं समान्पोषि ततोऽसि सर्व' इति गीतायामुक्तम्' इति उद्द्योतेन ब्रझणः सर्वत्वे न सर्वात्मकत्वं हेतुः, किं तु सर्वव्यापनमिति भाष्याभिप्रायो वर्णित इति ब्रझपर्पञ्चयोर्भेद एव भाष्यसंमत इति सिद्धेः ह्रझणः सर्वात्मत्वे नेदं भाष्यं मानमिति ।

`तद्यद्यदिदम्' (3.4.6) इत्यादेरयमर्थः -- अमुं यज अमुं यजेति यत् एकैकं देवमुद्दिश्य यत् यजनविधानं, तदिदं एतस्यैव सा विसृष्टिः (प्रेषः) भगवदुद्देशेन विधीयमानयजनविधिरेव । तत्र हेतुमाहुः - एष इति । सर्वं देवा एष उ एव-भगवन्नियम्यत्वेन तदधीना एव, ह्रझशब्देनोच्यन्ते । हि- `यः पृथिव्यां तिषिठन् (बृ.4.7.3) इत्यादि श्रुत्यादिषु प्रसिद्धमिति । `अविद्वन्मतान्तरनिन्दोपन्यासोऽसं सा विसृष्टिर्देवभेदः' इति शांकरभाष्ये । अस्य वाक्यस्य निन्दापरत्वे गमकं मृग्यम् । तत्र -- पृथिवी, अप्, अग्रि, अन्तरिक्ष, वायु, दिव्, आद्त्य, दिक्, चंद्र, तारक, आकाश, तमः, तेज सर्वभूत, प्राण, वाक्, चक्षुः, श्रोत्र, मनः, त्वक्, विज्ञान (आत्मा), रेतः, इति पृथिव्यादिरेतोन्तैरेकविंशतिशब्दैरेकविंशतिखण्डिकागतैः तत्तदभिमानिदेवता ग्राझा इति शङ्कराचार्यैर्व्याख्यातम् । `यं पृथिवी न वेद यः पृथिवीमन्तरो यमयति' इति श्रुतुगतैरेव वाक्यैरन्तर्याम्यज्ञानबोधकैः पृथिव्यादिपदं तदभिमानिदेवतापरमिति स्पष्टं बोध्यते । अन्यथा पृथिव्यादीनामचेतनत्वेन अवेदनस्य स्वतःस्द्धेः तदुक्तिर्व्यर्था स्यात् । `एष उ एव सर्वे देवा' इति सामानाधिकरण्यव्यपदेशस्तु तदधीनत्वन्यायेन राजाराष्ट्रमित्यादिवत् बोध्यः ।

ननु नियम्यानां यजनं भगवद्यजनं भवेदिति चेत्, उच्यते--भगवान्नियमयति सर्वानिति वेदप्रामाण्यवादिनः सर्वे आच्र्या उदाहृतश्रुकिबलंन एककण्ठा वदन्ति अतोऽत्र न कोऽपि प्रत्यवस्थाता । सवनियन्तुः सर्वाध्यक्षत्वं स्वतःसिद्धम् तेन विना सर्वनियमनायोोगात् । यजनंनाम प्रीत्युत्पादको व्यापारः । सर्वेषां देवानां चात्मियत्वेन तेषां यजनवपि आत्मयजनमिव आत्मनः प्रीतिकरमेनेति आत्मा प्रसन्नो भवति तद्याजिषु । लोकेऽपि राजादय आत्मीयजनसंमाननेन तत्कर्तरि प्रीतो भवतीति सर्वानुभवसिद्धम् । `लभते च ततः कामान्मयैवविहितान् हितान्' (गी.7.22) इति अन्ययजनेऽपिश्वक एव फलद इति गीताचार्यः, `ब्रझदृष्टिरुत्कर्षात्' (ब्र.सू.4.1.5) इति सूत्रे, `स य एतमेवं विद्वानादित्यं ब्रझेत्युपास्ते' (छा.3.19.4) इत्यादिना आदित्योपासनं विधीयते तन्न कार्यमफलदत्वात्, किं तु ब्रझोपासनमेव कार्यं फलदत्वादिति प्रप्ते, आदित्योपासनमेव कार्यं तत्रापि फलं ब्रझैव दास्यति सर्वाध्यक्षत्वात् `फलमत उपपत्तेः' इत्युक्तेरिति आत्मीयोपासनेन स्वयं प्रीतः सन् फलं प्रददाति भगवानिति शङ्कराचार्यः । अथ वा इन्द्रादिपदं तत्तत्पदवाच्येन्द्रादिदेवतान्तर्यामिपरं सत् अन्तर्यामिणं परमात्मानमाहेति श्रुत्यर्थः । अन्तर्यामिणमिद्दिश्य सर्वाणि कर्माणि पुर्वन्त अन्तर्यामिणः स्वस्वाध्यक्षस्य यजनेन इन्द्रादयोऽपि प्रसन्ना भवन्ति, यथा लोके राजादूनां सभाजनेन अमात्यादयः प्रसन्नचित्ता भवन्ति ।

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।। (गी.5.29)

अहं हु सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।। (गी.9.24)

इति सर्वयज्ञभोक्तृत्वं हरेर्भगवानाह । इदं च स्वस्य स्वीयानां च यजनेनेति ज्ञेयम् ।
अत्र युधिष्ठिसस्य राजसूययागे सर्वसोकमहेस्वरस्य कृष्णस्य अग्रपूजनेन सर्वे राजानो महर्ष्यादयश्च प्रसन्ना अभूवन्, अर्हणां कुर्वन्तं सहदेवमभितुष्टुवुः, देवाश्च प्रसन्नाः पुष्पं ववर्षुरिति भारतीया सभापर्वगता कथात्रानुसंधेया ।

ननु ईशअवरस्यैव `भोक्तारम्' इत्यादिप्रमाणहलात्सर्वयागेषु भोजनमित्यङ्कीकारे नागेशमतादविशेष इति न मन्तव्यम्, नागेशस्तावत् एकस्यैवेश्वरचेतनस्य उपाधिवशात् इन्द्रादिरूपता तेन च रूपेण यागेषु भोजनमित्याहेति तन्मते इन्द्रादिदेवाः न पृथक् सन्तीति वस्तुस्थितिः । भेदवादिनां मते तु `अन्गिर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः' इत्यादिश्रुतिबलात् हवुर्भुजो देवाः वस्तुतः सन्ति बहवः, तेषां विष्णुरुत्तमः, स च सर्वान्तर्यामी सन् हविर्बुङ्क इति सर्वयागेषु देवानामन्तर्यामिणो विष्णोश्च भोजनमिति वस्तुस्थितिरिति महानस्ति विशेषः । अत एव --
 देवान् देवयजो यान्ति, पितृन् यान्ति पितृव्रताः, भूतानि यान्ति भूतेज्याः, यन्ति मद्याजिनोपि मां । इति तत्तदाराधकानां तत्तत्प्रप्तिकथनं संगच्छते । इन्द्रत्वादेरौपाधिकत्वे उपाधिनिवृत्तौ इन्द्रादेरपि अभावेन प्राप्यस्याभावत्तत्प्राप्तिकथनासंगतिः ।

किं च `अतिरिक्तदेवतायाः जैमिनिनाप्यङ्गीकाराच्च' इत्येतत् स्वोक्तिविरूद्वम् । तथा हि -- लिङर्थनिरूपणप्रकरणे `जैमिनिर्भारतोक्तेषु केषुचिर्तेषि सन्दिहान एकदा मार्कण्डेयमेत्य पप्रच्छ--भगवन् ! छिन्धि मे संशयमिति, स तु न मेऽवसकः, वसन्ति विन्ध्ये चत्वारः पक्षिणः तान् पृच्छेयमिति' इति मार्कण्डेयादौ, इति पुराणकथामनूद्य, (तस्यायमाशयः -- व्यासशिष्योऽप्ययमशुद्धचित्तो व्यासोक्तं न साधु मन्यते, ईश्वरः फलदो न; किं तु कर्नैव फलदं देवतिर्यगादीनां व्यासोक्तं ज्ञानाधिकारं युक्तं न मन्यते, अतस्तिरश्चां शिष्यो भूत्वा तोषां ज्ञानाधिकारे ज्ञाते सर्वत्र वायसोक्ते विश्वासी भवेत्, तन्मिखादेव देवासुरसंग्रमकथाश्रवणेन तेषामविग्रहत्वाभिमानं च त्यक्ष्यति' इति) जैमिनेः `देवानां विग्रहो न' इति तात्पर्यमाविष्कृतवान् । तथा तत्रैव `पराशरस्मृतिव्याश्यायां माधवाचार्यो जैमिनिमतानुसारिणो जहास ईशसिद्धिभयाद्वेदशास्त्राप्रामाण्यमीयुषाम् । शाक्त्रकृज्जैमिनिमिनिः केन मानेन सिध्यति' इति । अत्र ईशसिद्धीत्युपलक्षणं देवताविग्रहादेरपि । अत्र देवता च विग्रहश्च देवताविग्रहौ तावादी यस्येति विग्रहः । आदिना तासां फलदत्वादेर्ग्रहः । देवतापदेन शबवदातिरिक्तेन्द्रादिदेवतायाश्च ग्रहः । ईश्वरस्य, देवतायाः, तद्विग्रहस्य,तासां फलदत्वादेश्च सिद्धिभयादिति माधवाचार्यनचनार्थः । अनेन ईश्वरादिसाधकवेदादिरप्रमाणं तेषां मते इत्युक्तं भवति । ततश्च तत्र ईस्वरदेवताविग्रहाद्यभावे जैमिनेराशायमभिदधता अत्र `जैमिनिनाप्यङ्कीकाराच्छ' इत्यभिधानं स्वपूर्वग्रन्थविरुद्दम् । ननु प्राप्तोपदेशस्य जैमिनेर्देवताया विग्रहादिकमभिमतमिति वृत्तिपरिच्छेदम़जूषातात्पर्यम्, अप्राप्तोपदेशजैमिनितात्पर्यवर्णनपरो लिङपर्थप्रकरणस्थमञ्जीषाग्रन्थ इति न विरोध इति चेत्, उच्यते -- जैमिनेरुपदेशात्तरकालिकीं मनसो वृत्तिं परिज्ञातुं भगवानेक एव सर्वान्तर्यामि प्रभवति, न तु तदन्ये, तत्रापि अस्मदादयोऽल्पज्ञाः । तदीयतन्त्रेणैव हि तदीयमतस्थितिरवगन्तव्या न तूपायान्तरेण । अत एव हि तत्तदाचार्यसिद्धान्तनिरुपकास्तत्तदाचार्याणां वाक्यमेव प्रमाणतयोदाहरन्ति । नागेशोऽपि जैमिनीयसूत्रोपन्यासे नैव तन्मतनिष्कर्षमकार्षोत् । तदुदाहृतं सूत्रमुत्तरावस्तायां प्रणीतमिति केन मानेन निर्णियते तेनाऽऽयुष्मता । लिङ्र्थप्रकरणस्थतदीयमञ्जूषाग्रन्थतो जैमिनिरुपदेशात्पूर्वमेव पूर्वनन्त्रं प्रणीतवानिति शक्यते वक्तुम् । अन्यथा तदभिप्रायपरिज्ञानोपायाभावेन `अयमाशय' इत्यादिना विग्रबाद्यभावे तस्य तात्पर्यपर्णनं कथं संगच्छेत । तद्वचनेन हि तत्तात्पर्यं ज्ञात्वा तदाशयो वर्णनीय इत्यलमतिविस्तरेण ।

सीरयः खण्डदेवाद्याः पूर्वतन्त्रार्थवेदिनः ।
पार्थसारथिमिश्राद्यैः कृतान् ग्रन्थान्विमृश्य तु ।।

देवताया विग्रहादि नेति चक्रुर्विनिर्णयम् ।
नाब्रवीज्जैमिनिमुनिः कण्ठतो विग्रहादिकम् ।।

तस्मान्न संमतस्तस्य नागेशकृतनिर्णयः ।
इति जानन्तु विद्वदंसो मात्सर्यादिविवर्जिताः ।।

मयडर्थविचारः

यच्च -- `तत्प्रकृतवचने मयट्' (पा.सू.5.4.21) इति सूत्रार्थविचारे ब्रझणो निर्धर्मकत्वप्रतिपिपादयिषया `आनन्दमयो ब्रझ, चिन्मयं ब्रझ' इत्यादौ अयमेव मयट्, तत्र प्राचुर्यं निर्धर्मकत्वं वायवहारिकमपरिच्छोद्यत्वं च, अनन्तत्वश्रुतेः........प्राणमयादावपि अयमेव मयट्, विकारार्थस्येनोपपत्त्यभावात् । शुद्धिमन्त्रेऽपि शुद्धिरावरवरणनाशरूपेति न विरोध इति `वृत्तिकृत' इत्यन्तेन अर्थतः शब्दतो वा वृत्तिग्रन्थानुवादरूपेण ग्रन्थेन वल्लीद्वये, शुद्धिमंत्रे च श्रूयमाणो मयट् प्राचुर्यार्थक इति प्रत्यपादि नागेशेन मञ्जूषायाम् ।

तत्र विचारः -- विकारार्तस्याञ्जस्येनोपपत्त्यभावादित्युक्त्या `इदं तु वक्तव्यम्' इत्यादिना वृत्तिकृन्मतं दूषयित्वा आनन्दमयशब्दे विकारे मयडिति आनन्दमयाधिकरणे विकारे मयहिति शङ्कराचार्यकृतसिद्धान्तो न समीचिनः, विकारे मयडिति शाङ्करभाष्योक्तिस्चिन्त्या `द्व्यचश्छन्दसि' (पा.सू.4.3.150) इति छन्दसि द्व्यवच एव विकारे मयड्विदानात् । आनन्दशब्दस्य त्र्यच्त्वात्तदप्रप्तेरिति कैश्चित् शाब्दिकैः कृतचोद्यनिरासाय भाष्याद्यनुक्तसूत्रप्रत्याख्यानाद्युपायपञ्चकनिरूपणपरमनोरमाग्रन्थः, एतदर्थकोऽन्योऽपि ग्कन्थोऽयुक्त इति स्पष्टमुक्तं भवति ।

अत्र ब्रझणो निर्धर्मकत्वमयुक्तं तत्र मानाभानात् । ननु

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।।
(श्वे.6.11)

इति श्वेतास्वतरश्रुतिः प्रमाणं, तत्र निर्गुणश्चेत्युक्तेः निर्गुण इत्यस्य धर्मरहित इत्यर्थादिति चेत्, न, गुणपदस्य तत्पदवाच्यसत्त्वादिगुण इति शाब्दमर्तं परित्यच्य अशाब्दधर्मसामान्यार्थकत्वं मानाभावात् । न च गुणपदं वृत्तिमत्परमिति धर्मसामान्‌यवाचकमिति वाच्यम्, मुख्यार्थस्याबाधेन लक्षणायां मानाभावात् ।

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गृणं गुणभोक्तृ च ।। (गी.13.14)

इति श्लोकव्याख्याने शीशङ्कराचार्यैः निर्गृणपदस्य सत्त्वादिगुणरहितमिति व्याख्यानात् अत्रापि तस्यैवार्थस्य न्याय्यत्वाच्च । यदि निर्गृणपदं नागेशोक्तार्थकं, तर्हि `एको देव' इत्यादिना अनेकगुणविधानमनर्थकं स्यात् । न च य एकत्वादिगुणकः स निर्गृणकः स निर्गृण इति उद्देश्यविधेयभावेन अन्वयः ततश्च अनुवादकत्वात्पूर्वेषां, न वैयर्थ्यमिति वाच्यम्, एवं तर्बि नुर्गुणत्वानुवादेन एकत्वादिकं विधीयते इतियपि वक्तुं शक्यतया तदिष्टासिद्धेः । न च उद्देश्यवचनं पूर्वं विधेयस्य ततः परम् इति न्यायेन इत्थं योजनाया अयोग इति वात्यम् `अपृक्त एकाल्प्रत्ययः (पा.सू.1.2.41) समर्थः पदविधिः' (पा.सू.2.1.1) इति सूत्रे विधेयस्य पूर्वनिर्देशदर्शनेन तन्नियमस्यासार्वत्रिकत्वात् ।

किं च उद्देस्यविदेयभावेनान्वय एव दुर्घटः समुच्चायकचशब्दश्रवणात् । एकत्वादिधर्मतदभावयोः सामानाधिकरण्यायोगात् अस्मत्प्रदर्शितयोजनैव ज्यायसी । न च --

नमः शान्ताय घोराय मूढाय गुमकर्मणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ।। (भाग.8.3.12)

इति भागवते निर्विशेषायेत्युक्तेर्निर्धर्मकत्वं बगवतः प्रमितमिति वाच्यम्, तस्य निर्वाकारायेत्यर्थेन शमादिप्रदानवासुदेवादिरूपवत्त्वऽपि जीववत् गुणकृतविकारशून्यत्वं तात्पर्यात् । इदं हेतुगर्भं विसेषणम्, अत एव साम्यायेत्युक्तम् । सर्वत्र सम इति तत्तात्पर्यम् । शान्तायेत्युक्तिरेव निर्विसेषायेत्यस्योक्तार्थे मानम् । निर्धर्मकत्वं हि शमोक्तिः कथं संगच्छेत । एवंजातीयाः श्रुतिस्मृतय एवमेव व्याख्येयाः । श्रीधरीये तु `गुणधर्मिणे' इति पठित्वा सत्त्वादिधर्मानुकारिण इति व्याख्यातम् ।


`व्यावहारिकमपरुच्चेद्यत्वम्' इति तु न यिक्तम्, श्रुतौ तादृशार्थपदाश्रवणात् । यद्यन्तरेणापि शब्दं ततात्वं ब्रषे तर्हि अशाब्दमर्थं कः प्रेक्षावान् श्रद्दधीत । किं च सत्यत्वादेरपि तच्छ्रतिबोधितस्य व्यावहारिकत्वापत्या ब्रझणःसत्यत्वमपि नेति शक्यं वक्तुम् । एकवाक्यबोधितेषु एकस्य पारमार्थिकत्वम् अपरस्य व्यावहारिकत्वमिति कल्पनं प्रबलप्रमाणमन्तरा न शक्यम् । प्राचुर्यस्य निर्दर्मकत्वं व्यावहारिकापरिच्चेद्यचिवे ट वस्तुतो ब्रझणि धर्मादि नास्तीत्येवोक्तं भवतीति आनन्दोऽपि नास्तीत्युक्तं भवेत् । नागेसेनेति तदाश्रयणं व्यर्थम् । प्रस्तुते वस्तुनि गुणातिसयं बोदयितुं हि प्रचुर्ये मयटमाश्रयन्ति धीमन्तः प्रयोक्तारः । मयटश्चाप्येष स्वभावः यत् स्वव्यधिकरणे स्वतुरन्यस्मिन् प्रकासाल्पत्वं प्रतीयते । क्वचितु स्वाधिकरणे स्वविदातीयाल्पत्वबोदकत्वम्, यथा-प्रकाशमयः सविता, इत्यादौ सवितुरन्यस्मिन् प्रकाशाल्पत्वं प्रतीयते . क्वचित्तु स्वाधिकरणे स्वविजातीयाल्पत्वबोधकत्वम्, यथा अन्नमयम्, अत्र अन्नं बहु, तदितरत् अल्पमिति प्रतीयते । यथाप्रमाणं प्रयोगेषु व्यवस्था । प्रकृते आनन्दमय इत्यत्र आनन्दविजातीयदुःखादेर्ब्रझणि सत्वे प्रमाणाभावेन ब्रझातिरिक्ते चेतने आनन्दाल्पत्वप्रतीतिरिति प्राचुर्यमयटः प्रयोजवं वक्तव्यं न तु ब्रझणो निर्धर्मकत्वसिद्दिरिति प्रामाणिकाः ।

अत्र वृत्तिकृत्पदेन किं प्रसिद्धो बोधायनः, उतान्यः कश्चित् विवक्षित इति विचारणायां, केचिदाहुः -- नात्र स बोदायनो विवक्षितो भवेत् यतोऽत्र ब्रझणो निर्धर्मकत्वं प्राचुर्यमित्युक्तम् । बोधायनस्तु ब्रझणो निर्धर्मकत्वम्, `सत्यम्' इत्यादिश्रुतिबोधितापरुच्छेद्यत्वस्यापारमार्थिकत्वं च नाभ्युपैतीति `भगवद्बोदायनकृतां विस्तीर्णां ब्रझसूत्रवृत्तिं पूर्वचार्याः संचिक्षिपुः, तदनुसारेण सूत्राक्षराणि व्याक्यास्यन्त' इति श्रीमद्रामानुजमुनिवर्याणां वचनबलेन निश्चिनुमः । यद्यपि `एक आत्मनः शरीरे भावात्' (ब्र.सू.3.3.55) इति सूत्रं `अत एव च भगवतोपरर्षेण प्रतमे तन्त्रे आत्मास्तित्वाभिदानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृत' इति शाघ्करभाष्येक्तेः, वृत्तिकारो भगवानुपवर्षोनाम्नो भ्राता सोऽत्र विवक्षितोऽस्त्विति शक्यं वक्तुम्, तथापि तस्य ब्रझणो निर्धर्मकत्ववादितायां प्रमाणाभावः । तर्हु को भवेदत्र वृत्तिकृदिति चेत् एतत्सदृक्षः कश्चिद्विपस्चित् अयमेव (नागेशो) वेति गृहाण । स्पष्टीकृतं च `गुरुचरैर्व्याससूत्रवृत्तौ' इति देवतातद्धितार्थप्रकरणस्थकलाव्याख्यानात् नागोशो ब्रझसूत्रस्यापि वृत्तिमतानीदिति प्रतीमः ।

`विकारे मयट्' इति शांकरभाष्यं तु `द्व्यचश्छन्दसि' इति नियमस्य प्रायिकत्वाभिप्रायेण प्रवृत्तम् । मनोरमा तु स्वैरंप्रवृत्ता न रमयति विदुषां मनांसि । एतेन मनोरमानुसारिणो बोधिन्यादिग्रन्थास्च व्याख्याताः ।

अत्र कलायां `वक्तुत' इत्यादिना मयडन्तानां प्राचुर्यात् एकजातीयप्रयोोगनिर्वाहाय अयमपि अत्यन्तस्वार्थिकमढन्तः प्रयुक्त इति सूत्रार्थः `तत्प्रकृत' इति सूत्रे तदिति योगविभागात् अत्यन्तस्वार्थिकस्यापि विधानमिति उपुदितं गुरुचरणैर्व्याससूत्रे इन्दुशेखरे चेत्युक्तम् । अत्रेदं वक्तव्यम् -- आनन्दमयादिकरणे आनन्दमयः किं परमात्मा अथ जीव इति ब्रझशब्दाभ्यासात् परमात्मेति आद्यसूत्रेण सिद्दान्तयित्वा आनन्दमयशब्दस्य विकारार्थकमयडन्तत्वेन न परमात्मा वाच्य इति प्राप्ते प्राचुर्यार्थकमडन्तत्वात्तस्य शब्दस्य परमात्मैव वाच्य इति `विकारशब्दात्' (ब्र.सू.1.1.13) इत्यनेनाह सात्रकारः, सर्वे आचार्या अपि एवमेव वर्णयन्ति सूत्रार्थम् । एवं चात्यन्तस्वार्थिकमडतप्रयोगसाधने सूत्रकृदादीनां तात्पर्यमिति न शब्दमर्यादया लभ्यते । क्लृप्तसाध्यांशानुवृत्तिं परित्यज्य साध्यांशान्तराध्याहारे गौरवम् । किं च `तत्प्रकृत' इति सूत्रे तदिति योगविभागो भाष्ये न दृश्यते । भाष्यादृष्टयोगविभागस्याप्रामाणिकत्वं वदता नागेसेन तादृशयोगविभागमश्रित्य अत्यन्तस्वार्थिकमयड्विधानोपपादनम्, तन्मूलकेदृशव्रझसूत्रार्थवर्णनं च कथमुपपद्येत । किं च स्वार्थे मयटि तात्पर्यकल्पने प्राचुर्यादिति शब्दस्वारस्यभङ्गः, तेन हि आनन्दातिशयो ब्रझणि बोध्यते कदतिशयश्च आनन्दवल्यां बृहदारम्यकादौ च स्पष्टं प्रतिपादित इति श्रीशङ्कराचार्यादिभिरातार्यैर्भाष्यादौ निपुणं निरूपितं, लाघवात्स्वार्तादिति वक्तव्ये प्राचुर्यादिति व्यर्थं स्यादित्यलम् ।

वल्लीद्वये शुद्धिमन्त्रे मयट् प्राचुर्यबोधकः ।
निर्विशेषं परं ब्रझ प्रचुर्यं धर्मशून्यता ।।

इति नागेशवचनं प्रमाणविकलं विदुः ।
असंमतं भाष्यकृतो नादर्तव्यं सुधीजनैः ।।

अविद्याविचारः

यच्चोक्तं नागेसेन मञ्जीषायां प्रथमपरिच्छेदे `प्रपञ्चोऽप्येवमेव' इत्यादिना `अलं प्रसक्तानुप्रसक्त्या' इत्यन्तेन ब्रझाद्वैतप्रतिपादनावसरे माया नाम कश्चित्पदार्थो ब्रझणः प्रपञ्चसृष्टौ सहकारिणी सा च संस्कारसूहरूपा, अत एव जगन्मायिकम् ।जगन्मायिकम् । अविद्या तु तज्जन्या, नानादिः, अत्रैव श्रीशङ्कराचार्याणामपि, न हि ब्रझातिरिक्तमजं संभवति `सदेवसौम्येदमग्रआसीत्' इति `सामान्यात्तु' (ब्र.सू.3.2.32) इति सूत्रे ब्रझातिरिक्तवस्तुसामान्यस्याऽनादित्वं प्रतिषेधतामविद्यानादित्वस्यासंमतत्वावगमात् । किं च सर्वासंमताऽविद्याविषये, अद्यासभाष्ये प्रश्नोत्तरानुपलम्भेन सा न भाष्यसंमता, किं च `अनाद्यविद्यायाः कारणत्वे अप्रामाणिकविस्त्वभ्युपगमः, सर्वस्य ब्रझैककारणकत्वसिद्धान्तभङ्गः, अद्वैतहानिश्च' इति दोषानुद्भाव्य अविद्याया अनादिभावत्वम्, जगतस्तत्कारणकत्वं चायुक्तमिति ।

अत्र -- `एतद्विषयप्रश्नोत्तरानुपलम्भात् न सा भाष्यसंमतेत्युक्त्या, अनिर्वाच्यानाग्यविद्यापरिकल्पितः इयमनादिरिति निरूढा' इत्यादि भामतीकाराणां मिश्राणां वचनम्, अविद्यासाधानानुमाने स्वप्रागभाव' इत्याददि विशेषणं देयमिति पञ्चपादिराविवरणकाराणां वचनम्, `प्राक्कोटिराहित्यमनादित्वमध्यासस्य' इति वार्तिककृद्वचनम्, अनादिभावरूपत्वे सति ज्ञाननिवर्त्यमविद्यात्वम्' इति चित्सुखाचार्यवचनम्, `जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा अविद्या तच्चितो योगः' इति श्रीशङ्करमतानुयायिवृद्धतमानां वचनम्, `अनाद्यविद्याविलसितमिदं समस्तं जगत्' इति तद्वर्ग्याणां वचनम्, तदीयानामनाद्यविद्यासाधनोद्यमनम्, `मूलकारणाविद्यारूपभावपदार्थनिमित्तक' इति `मिथ्याज्ञाननिमित्त' इति अद्यासभाष्यीयानन्दगिरीयादिव्याख्यानं च श्रीशङ्करभाष्यभावापरिज्ञानमूलकमिति सूचितं भवति । किं च `एवमयमनादिरनन्तो नैसर्गिकोऽध्यास' इति अध्यासभाष्येऽध्यासस्यानादित्वोक्तिः `न हि ब्रझातिरिक्ताऽजं संभवति' इति सामानायात्त्विति सूत्रभाष्येण विरुद्धा, तेन ब्रझान्यस्याऽनादित्वनिषेधात्, `अतस्मिन् तद्बुद्धिरध्यासः तमध्यासं पण्डिता अविद्येति मन्यन्त' इति भाष्येण अविद्याध्यासयोरर्थान्तरत्वाभावाभिधानात् अविद्याया अनादित्वे एतद्भाष्यतात्पर्यात् ।

अत्र वदन्ति -- `प्रसक्तानुप्रक्त्या' इत्युक्तेः, पाणिनीयवचनानुदाहृतेः परमार्थसारवचनोद्हृतेश्च निरूपणमिदं न पाणिनिमतातुरोधेन,, किं तु परमार्थसारकृन्मतानुरोदेनेति प्रतीयते ।. तत्र च ब्रझातिरिक्तानादिवस्तु नेति नोक्तम् । किं तु अनादेः प्रकृतेःपरः (उत्तमो भिन्नश्च) विष्णुनारायणवासुदेवोपेन्द्रहर्यादिपदाभिधेयो भगवान् परं ब्रझ, प्रकृतिमायाविभूत्यादिपदवाच्यस्वभावभूतस्वशक्त्या विचित्रविविदप्रपञ्चं निर्मिमीते । सा च शक्तिरनादिर्विष्णोरधीना अचेतना अत एव न स्वतन्त्रा, जगत्सृष्ट्यादौ विष्णोः सहकारिणी, एवं विदानारायमविज्ञानं मुक्तिसाधनमिति निरूपितम् । किं च `परंपरस्याः प्रकृतेः' इत्याद्यापद्येन, `स्वभावभूता' इत्यस्य स्वतो आर्यया च मायाया अनादितोक्ता, ` स्वातन्त्र्यम्' इति व्याक्याने राघवानन्दमुनिकृते अनाद्त्वोक्तेः मूलस्यापि तत्रैव तात्पर्यात् । प्रकृतेरपि सदातनत्वमर्थछस्द्धमिति आर्द्यपद्यतात्पर्यम् ।

ननु अप्रामाणिकमनादिभावरूपाविद्याख्यं वस्त्विति चेत् न, `अनादिमायया सुप्त' इत्यादिप्रमाणसिद्धत्वात् । न च अनादित्वे सर्वस्य ब्रझैककारणकत्वसिद्धान्‌तभङ्ग इति वाच्यम्, पराधीनसत्ताकत्वमात्रेण तत्कारमकत्वोपपत्तेः । न च अद्वैतहानिः, प्रागभाववत् अस्या नाशदर्शनेनाऽनन्तत्वाभावात् अनाद्यनन्तवसितुसत्त्व एव तद्दोषात् । यद्वा समानसत्ताकवस्त्वन्तरसत्वे तद्दोषप्रसङ्गः, अविद्याया अनादित्वेऽपि ब्रहसत्तासमानसत्ताकत्वाभावात् नास्य दोषस्यावकाश इति सिद्धान्तलेशसंग्रहव्याक्यानादितऽवगम्यते । अनादिवासनारूपा माया त्रिगुणा `अजामेकाम्' इति श्रुतिप्रतिपाद्या, ब्रझैककारमकं जगदिति वदता भवतापि एवमेव वक्तव्यम् । अन्यथा मायायाः सहकारिणीत्वे ब्रझैककारणकत्वभङ्गः । तस्य जन्यत्वे अजामिति श्रुतिविरोधः, तया तस्या अजन्यत्वोक्तेः । श्रुत्या चानादित्वसिद्धौ अद्वैतहानिरिति दोषः तवापि मते आपतति । न च अस्मिन् कल्पेऽजन्यमिति श्रत्यर्थेन न दोष इति वाच्यम्, प्रतिकल्पमस्याः श्रुतेः सत्त्वेन तत्रापि अत्र कल्पेऽजन्यमित्यर्थवनर्णनसंभवेन अनादित्वस्यैव स्द्धेः । मायायाः सहकारिणीत्वाभावे जगतो मायिकत्वोक्तिरसंगता स्यात् ।

`न हि ब्रझातिरिक्तमजं संभवति'इति भाष्यस्य तु तदतिरिक्तं स्वतन्त्रमजं नासितीत्यर्थेनाऽदोष इति तत्संप्रदायविदः । अत एव शाङ्करे गीताभाष्येये `प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि' (गी.13.19) इति श्लोकव्याख्यावसरे ईश्वरस्येश्वरत्वमनुपपन्नम्' इत्युक्तम् । प्रकृतिपुरुषयोरनादित्वेऽपि ईश्वराधीनसत्ताकत्वमस्ति ईश्वरस्य सर्वस्वामित्वात् । ततश्च तस्येस्वरत्वमुपपद्यते इति तद्भावः । स्पष्टीकृतमेतत् गूढार्थदीपिकायाम्, श्रीधरीये च तच्छ्लोकार्थवर्णनावसरे ।

अद्वैतसिद्धौ च दृष्टिसृष्टिवादे सर्वेषां सृष्टत्वे `जीव ईशो विशूद्धा चित्' इति प्राचां वचनविरोधः । तत्र जीवादीनां षण्णामना दित्वोक्तया तेषामजन्यत्वादित्याशङ्क्य अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारादिति समाहितम्, `जीवब्रझविभागस्याऽनादित्वेन' इति तत्रैव वादे स्पष्टम्, तत्रैव अविद्यायाः चिन्मात्राश्रयत्वविचारे नापि जीवस्य सादित्वापत्तिः उपाधिबिम्बसंबन्धानादित्वेनाऽनादित्वोपपत्तेः' इति ब्रझातिरिक्तस्य संबन्धस्य, जीवस्य चाऽनादित्वमुक्तम् । अत एव `स च प्रत्यगत्माऽनादिसिद्धः तस्मिन्नैसर्गिकत्वस्याऽनादित्वमर्थसिद्धम्' इत्यध्यासभाष्यपञ्चपादिकायां पझपादाचार्यैरुक्तं प्रत्यगात्मनोऽनादित्वम् ।

प्रजापतिपतिं विष्णुमनन्तमपराजितम् ।
प्रधानपुंसोरजयोः कारणं कार्यभूतयोः ।।

तस्मादब्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ।
अव्यक्तं पुरुषे ब्रझन्निर्गुण संप्रलीयते ।।

आदिर्नास्त्यात्मनः क्षेत्रपारंपर्यमनादिकम् ।
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।।

स्थूलं विलाप्य करणे करणं निदाने
तत्कारणं करणकारणर्जिते च ।
इत्थं विलाप्य यमिनः प्रविशन्ति यत्र
तं त्वां हरि विमसबोधघनं नमामः ।।

इति अविद्याया जन्यत्वे म़ञ्जूषोक्तप्रमाणानां न तत्र तात्पर्यम् ।

तथा हि --

अत्र--आद्ये अजयोरित्युक्त्या प्रधानपुरुषयोरनादित्वमुक्तम् । कार्यभूतयोरित्यस्य अभिव्यक्तयोरित्यर्थः मायाया ईश्वराद्विर्भाव इति नागेशोक्तदिशा अनयोरप्याविर्भाव इति वक्तं शक्यत्वात् । द्वितीये अव्यक्तमुत्पन्नमित्यपि आविर्भूतमित्यर्थकमेव । तृतीये तुर्ये च क्षेत्रपदं प्रकृतिकार्यदेहपरम् । यथा मायाया ईश्वरे लयः संबन्धविशेष एवेति नागेशोऽवदत्, लथा हरौ प्रकृतिरूपकारणस्य लयसंबन्धविशेष एव इति अन्येपि प्रभवन्ति । अतः एतानि कथमुक्तार्थे प्रमाणानि स्युरिति विभाव्यताम् । किं च अनाद्यविद्यासहकारेण ईश्वरः सृजतीत्यङ्कीकारेऽपि स्वतन्त्रवस्त्वन्तरानपेक्षत्वमात्रेण प्रपञ्चस्य एककारणकत्वसिद्धः । एतत्प्रघट्टके `उक्तजातीयश्रुतीनां मदुक्तव्याख्यैवोचिता' इति नागेशोक्त्या च अनादित्ववादिनां श्रुतियोजना अन्यादृशीति भाति ।

किं च वैषम्यनैर्घुण्याधिकरण (ब्र.सू.2.1.12) शाङ्करभाष्ये ब्रझातिरिक्तसृष्टिहेत्वनादिवस्तुसत्ता प्रतिपादिता । किं च `भ्रमात्संस्कारतोऽप्यन्या मण्डूकमदुदाहृतेः । अविद्याऽनादिभावात्मा मता वाचस्पतेरिह' इति देवताधिकरणीयकल्पतरुणापि अनादिभावरूपाऽविद्या वाचस्पतिसंमतेत्युक्तम् । तत्रेहेत्यस्य श्रीशाङ्करीयाणां मते इत्यर्थः, देवताधिकरण इति संकोचे कारणभाव इति पूर्वप्रकरणे निरूपितम् । ननु पराधीनसत्ताकत्वं जन्यत्वमित्यङ्कीकारे वियदादेरपि तथात्वाभ्युपगमेन जन्यत्वं सुवचमिति वियदादेरुत्पत्तिसाधनप्रयासो व्यर्थ इति वियदधिकरणानुत्थितिप्रसंग इति चेत्, उच्यते -- `आत्मन आकाश' इत्यादावकाशस्योत्पत्तिश्रवणात् तदनुत्पत्तिवादः श्रुतिविरुद्ध इति बोधनाय तत्समर्थनमानश्यकम्, अविद्याया उत्पत्तेः क्वाप्यश्रवणेन `अनादि मायया' इत्यनादित्वश्रवणेन ब्रझणः सर्वनियाकत्वश्रवणेन च एवमङ्कीकृतमिति । अधिकमद्वैतग्रन्थेषु द्रष्टव्यम् ।

किं च `अस्ति कर्माक्यमनादिवस्तु शुभाऽशुभं प्राणिनां जन्मान्तरकारणम्' इत्यर्थक `न कर्माऽविभागादिति चेन्नाऽनादित्वात्' (ब्र.सू.2.1.36) इति व्याससूत्रविरूद्धं नागेशवचवम् । तेन च सूत्रेणाऽनादिवस्तु किंचिदस्ति' इति प्रतिपादनात् ।

अविद्याया अनादिभावत्वकथनं `यावदविकारं तु विभागो लोकवत्' (ब्र.सू.2.3.8) इति सूत्रेण कार्यत्वस्य भेदव्याप्यत्वबोधकेन आकाशस्येवादियाया अपि अतथात्व (कार्यत्व) बोधनात् तद्विरुद्धमिति मञ्जूषोक्तं दूषणमपि न समीचीनम्, आकाशादिभूतोत्पत्तिविषय एव विचारस्य तत्र `ब्रझणोऽधर्मकत्वेन किंचिन्निरूपितभेदो ब्रझणी न इति न तस्य जन्यत्नम्' इति, तच्चिन्त्यम्, ब्रझणोऽधर्मकत्वं वदचोस्य मते प्रतियोगित्वस्यापि धर्मस्य ब्रझणी असंभवेन अविद्यायां शुद्धब्रझभेदस्य सत्त्वात्, कार्यत्वमायाति' इति स्वोक्तिविरोधात् । ततश्च ब्रझणोऽपि किंचिन्निरूपितभेदवत्ता सुवचेति तचस्यापि कार्यत्वापातः । किं च `यावद्विकारं तु' इति सूत्रभामतीकल्पतरुपरिमलाद्ग्रन्थानवलोकनेन वा, तत्र तदुक्तमसंगतमिति प्रतिपिपादयिषया वा, अयमत्राऽविद्यानादित्वं दूषयतीति भाति । तत्र हि सूत्रे भामत्या ब्रझा (आत्मा) न्यत्वे सति विभक्तत्वादिति हेतुरुक्तः, कल्पतररौ च -- अविद्यादावित्यादिना `षडस्माकमनादय' इत्युक्तजीवेश्वराद्यर्थान्तरसंग्रह इत्युक्तम् । एतेन प्रबन्धत्रयेण अविद्याद्यानादित्वं भाष्यकृत्संमतमिति प्रतिपद्यते । मिश्रादयो हि न कदाचिद्भाष्यकृदनभिमतमर्थं प्रतिपादयेयुः, भाष्येऽप्यविद्यादीनामनादित्वं तत्र तत्राऽभिहितम् । अतो `न सा भाष्यसंमता' इति नागेशोक्तिश्चिन्त्यैव । एतेन `संभृष्टाध्यास' इति आनन्दगिरूयाध्यासभाष्यव्याश्यानम्, `मूलकारणाविद्यारूपभावपदीर्थनिमित्तक इत्यर्थध' इति `मिथ्या ज्ञाननुमित्त' इत्यन्येषामध्यासभाष्यव्याक्यानं चानूद्य `तन्न' इत्यादिना तद्दूषणमपि चिन्न्यम् । अविद्यानादित्वस्य भाष्यसंमतत्वोक्तेः । अयं तावन्महद्भिराचार्यैर्विरृतार्थानि सूत्राग्यक्षराणि अन्यथा योजयतीति सुव्यक्तं मञ्जूषादृशाम् । अत्रेदमुदाहरणम्--`प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः' (ब्र.सू.2.3.7) इति सूत्रे अकारप्रश्लेषमकृत्वा प्रतिज्ञाभह्कः स्यात् इति व्याख्या प्रतिज्ञाहान्यापादनपरतया सूत्रखण्डं योजयित्वा अहानिरिति अकारप्रश्लेषेण प्रतिज्ञाया अहानिरनुपरोध इति श्रीशङ्कराचार्यकृतसूत्रव्याख्यानादल्मदीयचं व्याश्यानं वरमिति सूचयति नागेशः । यद्यपि अकारप्रशलेषतदभावयोः फलाविशेषः, अथापि सौत्राक्षराणि योजयितुं वयमेव समर्ता इति वैदुष्याभिमानप्रदर्शनमेव प्रयोजनमिति वेदितव्यम् । एवमनेन बहूनां सूत्राणां स्वसमीहितार्थपरतया विलक्षणा योजनाकृता । सा च एतत्कृतव्याससूत्रेन्दुनामकग्रन्थतोऽवसेया । इदं ज्ञेयम्अविद्यापदार्थस्वरूपनिर्णयविषये अद्वैत्चार्याणां प्रमाद एवेति बोधनायैव ब्रझाद्वैतनिरूपणमुपक्रान्तं मञ्जूषायामिति अक्षरार्थमार्मिका इति ।

अविद्याभ्रमसंस्काररूपा शङ्करसंमता ।
न त्वानादिर्भावरूपेत्याह नागेशपण्डितः ।।

तच्चाऽद्वैतमताचार्यबहग्रन्थविरोधतः ।
न युक्तमिति मन्यन्ते श्रीशङ्करमतानुगाः ।।

अनिर्वचनीयत्ववादविचारः

यच्च मञ्जूषायां द्विविधप्रपञ्चस्य मायिकत्वं प्रसाध्य `मयामात्रमिति मात्रपदेन अनिर्वचनीयोत्पत्तिवादमपि निराकरोति' इत्यादिना शुक्तिरजताद्यनिर्वचनीयपदार्थस्वीकर्तृश्रीशङ्कराचार्यमताऽनुयायिनामद्वैताचार्याणां मतनिरसनम्, एतच्च प्रतिविधास्ते । प्रतिविधानं च मतद्वयनिष्कर्षसापेक्षमिति प्रथमं स संक्षित्यते -- तत्र--अध्यासभाष्यव्याक्यायां भामत्यां `मृगतृष्णाजलादि न सत्, नाऽसम्, नापि न सदसत् (किंतु) ्निर्वचनूयम्' इति मिश्रग्रन्थस्‌य, एवंजातीयकस्याऽन्येषामद्वैताचार्याणां ग्रन्थस्य, अद्वैतसिद्धौ अज्ञानवादेऽनिर्वचनीयत्वलक्षणनिरूपणप्रकरणस्थस्य `असद्विलक्षणत्वे सति सद्विलक्षणत्वे च सति सदसदिलक्षणत्वम्' इति ग्रन्थस्य च पर्यालोचनायां, सत् ्सत्, अनिर्वचनीयमिति वस्तु त्रिविधं, तत्र सत्-ब्रझ, असत्-शशविषाणादि, अनिर्वचनीयं तु शुक्तिरूप्यं, जगच्च । तत्राद्ययोर्नेत्पत्तिः, तृतीयं तु उत्पत्तिमत्, सदसद्विलक्षणत्वमनिर्वचनीयत्वमिति वस्तुस्थितिरद्वैतिनां मते । नागेशस्य मते तु-सत्, असदिति द्विविधमेव वस्तु, तत्र ब्रझ सत् असत्तु ब्रझान्यत्सर्वम्, तच्च-जाग्रत्प्रपञ्चः, स्वान्पोऽर्थः, शुक्तिरजतादि, शशविषाणादि । अनिर्वचनियत्वं च-सत्त्वेन निर्वक्तुं, असत्त्वेन च निर्वक्तुमशक्यं यत् तत्त्वम् । श्रीशङ्करादैताचार्याणामभिमतमनिर्वचनीयत्वलक्षणं तु न युक्तम्, न सूत्रकृद्व्याससंमतम् । मायामात्रेति मात्रेत्युक्तेरिति स्थितिः ।


तत्र `सदसद्भिन्नत्वमनिर्वचनीयत्वम्' इति अद्वैत्यभिमतस्याऽनिर्वचनीयत्वलक्षणस्य सद्भिन्नत्वेऽसत्त्वं प्रान्पोति असद्भिन्नत्वे च सत्वमिति सत्त्वासत्त्वोऽभयानाक्रान्तवस्त्वसिद्धिरिति दूषणमयुक्तम्, अस्य दोषस्य नागेशमतेऽपि संभवात्, `यश्चोभयोः समो दोषः परिहारोऽपि वा समः' इति न्यायात् । तथा हि--जगदसदिति वदन्नागेशः प्रष्टव्यः किं भवान् शशविषाणादिवत् जगदसदिति मन्यते, उत सत्पदवाच्यब्रझान्यदिति । नाद्यः, जगतोऽडर्थक्रियाकारित्वेन शशविषाणतुल्यत्वाभावात् । न द्वितीयः, ब्रझभेदस्य जगति सर्वैरङ्कीकारात्, कस्याप्यनिष्टाभावात् । एवं च जगति भवता ब्रझ शशविषाणभेदोऽङ्‌गीकृतो भवतीति श्रीशङ्करमतानुयाय्यद्वैताचार्यसंमतोभयभेदवैलक्षण्याभावेन तेषां मते भवतोऽद्धाटितो दोषः तव मतेऽप्यापततीति । किं च जगतोऽसत्त्वे `असत्त्वेन निर्वक्तुमशक्यम्' इति भङाषणं व्याहतम् । अस्य तन्निर्वचनरूपत्वात् । किं च असत्त्वेन निर्वक्तुमशक्यत्वे सत्वं प्रान्पोतीति न जगतोऽसत्त्वासिद्धिः । यच्चोक्तं तदनन्यत्वसूत्रेण, मायामात्रेति सूत्रेण च मायिकत्वस्यैव सिद्धेरिति तदपि न । ताभ्यां सूत्राभ्यां तथाऽलाभ इति, मात्रपदस्य केवसार्थकत्वं नेति च उत्तरप्रकरणयोर्निरूपयिष्यते । स्वोत्प्रेक्षितमेव श्रीशङ्करीचार्याणामपि संमतमिति बोधनाय `अविद्याया कल्पिता' इत्यादिभाष्यमेवमेव व्याक्येयम् । `ईश्वरस्यात्मभूते अनिर्वचनीया' इत्यादिभाष्यस्यप्ययमेवार्थः । एवजातीयकमन्यदपि भाष्यमेवमेव व्याख्येयम्' इत्यादिना केषांचिद्भाष्यवाक्यानां स्वसमीहितार्थपरतयाऽर्थवर्णनन तत्रैवमेवेत्यादिकथनेन च प्राचामाचार्यदेशीयानां तद्भष्याव्याक्यानदूषणम्, तदपि न सहेरन् आचार्यचरणशरणा अद्वैतिनः । तदुक्तार्थस्य भाष्यकृदाद्याचार्यासंमतत्वात्, युक्तियुक्तत्वाभावाच्च । अत्र नागेशव्याख्यानस्य प्राचां व्याख्यानस्य च युक्तायुक्तविचारो ग्रन्थगौरवभिया न कृतः । ख्यातिबाधान्यथानुपपत्त्या च अनिर्वचनीयं वस्तु अंगीकर्तव्यमिति अद्वैतिनां ग्रन्थेषु स्पष्टम् । परमार्तसारव्याक्याकृद्राघवानन्दमुनिरपि जगतः सदसदन्यत्वमेवेति वदति । इदं तु बोध्यम्--श्रीव्यासपाणिनिपतञ्जलिभिर्जगतोऽसत्त्वाद्यनुक्तेर्नेदमसत्त्वादि व्यासाद्यभिमतम्, `असत्यमप्रतिष्ठं ते' (गी.) इत्याद्युक्तेः । जगतोऽनिर्वाच्यत्वव्यवहारस्तु पदार्तानां हानोपादानहेतुभूतावाङमनसगोचरविलक्षमस्वाभाविकधर्मवत्त्वेनेति ।

जगतो ब्रझवत्सत्त्वं नाऽसत्त्वं शशशृङ्गवत् ।
तस्मात्तदुभयान्यत्त्वं युक्तं शास्त्राविरोधि च ।।

अतोऽद्वैतमताचार्यैस्तथोक्तस्य च दूषणम् ।
नागेशपण्डितकृतं रोचते न विदां हृदे ।।

जगन्मायिकत्वे तदनन्यत्वसूत्रसंमतिनिरासः

यदप्युक्तं मञ्जूषायां "यद्यपि जाग्रत्प्रपञ्चस्यापि `तदनन्यत्वमारम्भणशब्दादिभ्यः' (ब्र.सू.2.1.14) इति सूत्रेण मायामात्रत्वमुच्यत" इति, अत्र वदन्ति -- न तेन सूत्रेण जगतो मायिकत्वमुच्यचे, तत्र तादृशार्थकपदाभावात्, अनन्यत्वोक्तिस्तु `मुखं चन्द्र' इत्यात्वमेव बोधयतीति शक्यं वक्तुम् । `येनाऽश्रुतम्, वाचारम्भणम्' (चा.6) इत्यादिप्रतिज्ञादृष्टान्तवाक्ययोकपि मायिकार्थकपदाश्रवणात्ताभ्यामपि न जगतस्तथात्वासिद्धिः । न च अनन्यत्वोक्तिरेव प्रपञ्चस्य वस्तुत्वाभावं बोधयन्ती मायिकत्वमपि गमयतीति वाच्यम्, रोके तथाऽनुभवादिकं प्रतीयते इति वक्ति । किं च घटपटादिप्रप़ञ्चस्याऽचेतनत्वेन ब्रझणश्चेतनत्वेन चेतनाचेतनयोरनन्यत्वायोगात् तथोक्तेः कार्यस्य कारणाऽविनाभावे तात्पर्यमिति वक्तव्यम् । अविनाभावश्च `तत्सृष्ट्वा तदेवानुप्राविशत् (तै.उ.2) विष्टभ्याहमिदं कृत्स्त्रमेकांशेन स्थितो जगत्' (गी.10) इति श्रुतिस्मृतिप्रमाणप्रमितः । किं च घटशरावादयः सर्वे विकारा नैकमृत्पिण्डप्रभवा इति सर्वसाक्षिसिद्धम् ।

श्रुत्यर्तस्तु एकेन-विज्ञावेनेश्चरेण, अविज्ञातम-अज्ञातमपि वस्तु, विज्ञातम्--सादृस्याद्विज्ञातं भवति । अत्र सादृस्यप्रयोजकधर्मः सत्त्वम् । विकारः कार्यजातम् घटशरावादि, वाचारंभणम् - वागिन्द्रयेण, भिन्नभिन्नशब्देन व्यवह्रयते, घटादीनां सर्वेषामपि मृत्तिकेत्यपि नामधेयमस्ति, मृद्विकारत्वात् सत्यम् वास्तवमिति । अयं बावः - घटशरावादीनामाकारभेदेन भिन्नशब्देन व्यवहारेऽपि कारमगुणस्य तदंशस्य च कार्येऽपि सत्त्वेन कारमवाचकशब्देनापि व्यवहारः संप्रतिपन्न इति । कारमगुणसंपर्कः कार्येऽप्यस्तीति महाकविः श्रीहर्षेऽप्याह--

स्वर्गापगा हेममृणालनीनां नालामृणलाग्रभुजो भजामः ।
अन्नानुरूपां तनुरूपऋद्धि कार्यं निदानाद्धि गुणानधीते ।।
(नैषधं.3.17)

इति । श्लोकार्थः स्पष्टः । यद्वा अश्रतं-श्रुतफलशून्यम्, येन श्रुतेनश्रुतेन परमात्मना, श्रुतं-श्रुतफलकं भवतीत्यर्तः । केवलकर्मकाण्डाद्श्रवाणादि न फलाय भवति, परमात्माश्रवणादौ तु फलवद्भवति । जगज्ज्ञानं ज्ञाते ब्रझणि जगदीश्वरत्वज्ञानकारणमिति ईस्वरझानेन जगज्ज्ञानं सफलमिति तात्पर्यम् । मृत्कार्ये घटादौ मृत्त्वेन ज्ञाते तत्र निक्षिप्तं दध्यादि शुक्तादिदोषयुक्तं न भवतीति निश्चयात् तत्र दध्यादि निक्षेपे प्रवृत्तिर्जायते ।

किं च अनेन प्रतिज्ञादृष्टान्तेन ईश्वरादन्यत् ज्ञातव्यं वस्तु अस्तीत्येव ज्ञायते, न तु अन्यन्नास्तीति । यद्यन्यस्य ज्ञेयस्याऽभावे तात्पर्यं, तदाऽविज्ञातामित्यादिपदस्वास्यभङ्कः, येनाऽश्रुतं नेत्येतावाता तवेष्टसिद्धिः `वाचैव केवलमारभ्यते वागलम्बनमात्रं न वस्त्वस्ति किंचित्' इति नाक्ष रमर्यादया लभ्यते । किं च कारणानन्यत्व कार्यस्य परिणामिकाणस्थल एव न तु निमित्तकारणस्थलं । ईश्वरस्तु जगतो निमित्तकारणामिति पूर्वमेव अवोचाम । अतोऽनन्यत्वोक्तेरस्मदुक्त एवार्थे तात्पर्त्य युक्तम् । एतेन `तत्त्त्प्राणिकर्मवशाद्विभ्रमरूपां सरृष्टिं स करोति' इत्यपि च्न्त्यम्, जगतो विभ्रमरूपत्वे मानाभावात् । सृष्टेः पूर्वं प्रणिनाम् (ईस्वरातिरिक्तजीवानाम्ः अभावेन `प्राणिकर्मवशात्' इति च न युक्तम् । किं च वासनारूपभ्रमस्य धर्मत्वेन आश्रयमन्तरा स्थितिर्दुर्निरूपा । न च ईश्वर आश्रयः तस्य निर्धर्मकत्वेन यथार्थज्ञानवत्त्वेन च भ्रमायोगात् । आत्मैकत्ववादिनस्तस्य मते ईस्वरान्यजीवस्य सृष्टेः पूर्वभावेन सब्रमाश्रय इत्यपि न । ततश्च आश्रयाभावेन वासनाऽस्तित्वं दुर्घटम् । उक्तं च श्रीशङ्कराचार्यैः `न भावोऽनुपलब्धेः' (ब्र.सू.2.2.30) इति सूत्रे `अपि च वासना नाम संस्कासविशेषः । संस्कारश्च नाऽऽश्रयमन्तरेणाऽवकल्पते, एवं लोके दृष्टत्वात्' इति । अतः कस्यचिदपि वस्तुनो मायिकत्वं वक्तुं न शक्यम् । न च आध्यासिरसंबन्देन ब्रझैव वासनारूपाविद्याश्रय इति वाच्यम् । अद्याससायाऽऽरोपरूपत्वेन अध्यस्तस्य च मिथ्यात्वेन ब्रझणि भ्रमो नास्त्येवेत्युक्तं भवतीति तस्य कर्तृत्वायोगात् । आदिसृष्टौ वासनासितत्वस्य दुर्वचत्वाच्च । न च तदा जन्मान्तरीया सा गृझत इति वाच्यम् । तथा सति तस्या अनादित्वापत्तेः । ब्रझाऽन्यानादिवस्तु निराकुर्वता एवं वक्तुमशक्यत्वात् । किं च जगतो ब्रझानन्यत्वं सत्यत्वं, चेतनत्वं च स्यात् । मृत्पिण्डदृष्टान्तोऽपि मृत्कार्यस्य घटादेर्मृत्त्वेन ज्ञानमात्रे तात्पर्यवान् विज्ञातमिति तदश्रवणात् । शाब्दस्यार्थस्य परित्यागे अशाब्दस्यार्तस्य परिग्रहे कारणाभावात् । एतेन भोग्यवस्तुजातस्य `भोक्ता भोग्य श्रुत्युपन्यासेन ब्रझत्वोक्तिरपि चिन्त्या । श्रुतौ ब्रझत्वव्यपदेशस्तु तदधीनत्वान्यायेन राजाराष्ट्रमितिवत् । अन्यता भोग्यजडवस्तुनोऽपि चेतनत्वापत्तिः । किं च ---

असत्यमप्रतिष्टं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ।।

एतां दृष्टिमवष्टभ्य नष्टात्मनोऽल्पबुद्धयः ।
प्रभावन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। (गू.16.8,9)

इति गीतावचनविरोधः । असुरस्वभावा एव जगदसत्यमित्याहुः एतद एव ते जगतः अहिताः शत्रव इत्यर्थः गीतायाः । तेषां स्वरूपमाह--

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौतं नापि तातारो न सत्यं तेषु विद्यते ।। (गी.16.7)

इत्यनेन जगदसत्यत्ववादिनो जनस्य शौचाचारसत्यवचनाऽभ्युदयनिः- श्रेयससाधनप्रवृत्तिनिवृत्तिधर्मज्ञानाविधुरता स्वरूपमिति भगवदाशयः । `ये जगदसत्यं वदन्ति तेऽनृतवादिनो मायिनः' इति श्रीशह्कराचार्या गीतार्थमाहुः । श्रुतिरप्येषा भगवती `कविर्मनीषी परिभ्यः' (ई.8) इति यथार्थान् पदार्थान् सृजति भगवानिति स्पष्टं वदति । किं च अस्य सूत्रस्य जगतो मायिकत्वे तात्पर्यवर्णनं `तदन्तरप्रतिपत्तौ रंहतिसंपरिष्वक्तश्ननिरूपणाभ्यम्' (ब्र.सू.3.1.1) इति तार्तियीकप्रथमपादीयबह्वधिकरणविरुद्धम् । तत्र हि--जगतो मायातिरिक्ताऽवादिपदार्थमपादार्थोपादानकत्वमुक्तम् । वेत्थ यदितोऽधि प्रजाः प्रयन्ति, वेत्थ यथा पुनरावर्तन्ते, वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना, वेत्थ यथा पञ्चम्यामाहुतौ पुरुषवचसो भवन्ति' (छा.5.2) इति छन्दोगानामाम्नाये अबोदिभूतान्येव शरीरोत्पक्तौ कारणमिति अभिहितम् । एवं वाजसनेये अष्टमे द्वितीयस्मीन्ब्राझणेऽपि श्रूयते । परमार्थसारव्याक्याने राघवानन्दमुनिना प्रपञ्चस्य ब्रझानन्यत्वं तु ` परस्य प्रपञ्चावस्थितिहेतुत्वात्' इति आद्यपद्यव्याख्यानावसरे प्रतिपादितम् ।

ननु
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः ।
वर्तयन्त्स्वानुभूत्येह त्रीन् स्वन्पान्धुनुते मुनिः ।। (भागा.7.15)

इति भगवता बादरायणेन सर्वातमुच्यत इति जगतो मायिकत्वसिद्धिरिति न भ्रमितव्यम् । भागवतस्य कार्यकारणयोर्विद्यमानभगवद्रूपाणां भेदाभावरूपभावाद्वैतम्, इतरदेवताराधनं न कार्यमिति क्रियाद्वैतम्, आत्मादीनामिसातिरिक्तानदिनत्वरूपं द्रव्याद्वैतं च चिन्तयेत् । एवं भावयन् त्रीन् स्वन्पान् जाग्रदाद्यवस्तं न प्रान्पोति मुक्तो भवतीत्यर्तात् . एवं च स्वरूपैक्यपरतया व्याख्यानं चिन्त्यम् । अस्य श्लोकस्यार्थविवरणराणामुक्तरश्लोकानामयमेवाभिप्रायः, न तु कार्यकारणयोरैक्ये तात्पर्यम् । `तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतिः कार्येषु भगवदस्तित्वबोधिका । भगवान् सूत्रकारोऽपि कारणत्वेन चाकासादिषु यथाव्यपदिष्टोक्तेः (ब्र.सू.1.4.15) इति सूत्रेण आकाशादिष्वपि तत्कार्याणां वाय्वादीनां ब्रझकारणकत्वसिद्धये ब्रझास्तित्वमाह । अत एवोक्तमभियुक्तैः `भूतं भूताभिमानी च तद्देहोऽन्तर्नियामक' इति । ननु अन्यैस्तीर्थकरैरेवं सूत्रशयो न वर्णित इति चेत्, ब्रमः -- सर्वैंराचार्यैः सर्वेषा ब्रझकारमकत्वश्रौतसिद्दान्तपरिपालनाय अयमर्तोऽङ्गीकार्यः अयं च श्रौतसिद्धान्तः । `यतो वा इमानि भूतानि, आत्मन आकाशः संभूतः, तत्तेजोऽसृजत्' इत्यादयः श्रुतयो हि आकासद सर्वं ब्रझकारणकं वदन्ति । तत्सृष्ट्वा तदेवाऽनुप्राविशत् इत्यादयस्तु ह्रझणोऽनुप्रयेशं सृज्यमानेषु सर्वेषु बोधयन्ति । बगवान् सूत्रकारश्च `जन्माद्यस्य यत' सूत्रेण दृस्यमानं सर्वं ह्रझकारणकमिति सिद्धान्तयति । `कारणत्वेन' इति सूत्रे श्रीशङ्कराचार्य अपि `क्वचिदाकाशस्य, क्वचित्तेजसः, क्वचिदपां प्रथमं सृष्टिः श्रूयते, अतः सृज्यमानानां क्रमें विगानेपि न स्त्रष्टरि विगानं सर्वत्रेष्वरादेव सृष्ट्युक्तेः' इति सर्वस्य ब्रझकारमकत्वमेवेति निर्णयन्ति । एवं च सर्वस्य ब्रझकारणकत्वे श्रुतितात्पर्यम् । यदि सृज्यमानेष्वाकाशादिषु न भगवद्रूपमस्ति, तदा अग्न्यादेर्भगवत्सृष्टत्वं कथं स्यात् ? कथं च स्‌रष्टरि विगानं न स्यात् ? कथं च श्रौतसिद्धान्तः सूत्रकृत्सिद्धान्तश्च संगच्छेतेति विभाव्यताम् ।

तदनन्यत्वसूत्रेण कथ्यते सायिकं जगत् ।
इति नागेशविदुषो भाषणं नैव युज्यते ।।

श्रुतौ सूत्रे तादृशार्थपदं यस्मान्न वर्तते ।
तस्मादसाब्दमर्थं तं श्लाघन्ते न हि पण्डिताः ।।

मायामात्रेत्सूत्रविचारः

यदत्र स्वान्पस्य मायिकत्वे `मायामात्रम्' (3.2.3) इति सूत्रोपन्यसनं, तदपि चिन्त्यम्, तत्सूत्रस्य तत्र तात्पर्याभावात् । तथाहि--तत्र मायापदमिश्वरीयविचित्रशक्तिपरम्,

एकस्त्वमेव भगवन्निदमात्ममायया
मायाक्ययोरुगुणया महदाद्यशेषम् ।
सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारूषु विभावसुवद्विभासि (भाग.4.9.7)

इत्यत्र विचित्रेस्वरशक्तेर्मायेति अभिधेत्युक्तत्वात् परमार्तसारस्याक्याने व्याख्यानात्य मात्रपदं माधातोः `हयामाश्रुभसिभ्यस्त्रन्' इत्युणादिसूत्रेण कर्मणि त्रनि निर्मितमित्यर्थकम् । `न तत्र रथाः, अथ रथाः' (बृ.4.3.10) इत्यादिविषयवाक्यबलेन रथादिकमिति शेषः सन्ध्ये निर्मातारं चेति वक्तते । निर्मात्रेतितृतियान्ततया विपरिणम्यते । अयमर्थः - निर्मात्रा-परमेष्वरेण स्वान्परथादिकं, मायामात्रम्-तदीयया विचित्रशक्त्या निर्मितम्, कात्यर्न्येनानभिव्यक्तस्वरूपत्वात्,-जाग्रत्पदार्थवत् सामस्त्येन अचितदेशकालवृत्तित्वेन अनभिव्यक्तस्वरूपत्वात् भासमानस्वरूपत्वादिति । अयं भावः - स्वन्पद्रष्टृपुरूषूयताक्तालिकानुभवमात्रयोग्यं स्वाप्नं वस्तु सृजति ईस्वरः, तदीयशक्तेर्वैचित्र्यं च तथाविधवस्तूत्पादत्वमिति । अथ वा-- मायापदमीस्वरीयेच्छापरम्,

महामायेत्यविद्येति निमतिर्मोहनीति च ।
प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते ।।

इति अभियुक्तोदाह्तप्रमाणे भगवदिच्छापर्यायेषु पठितायाः प्रकृतेः `मायां तदु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' (स्वं.) इति श्रुतौ मायात्वोक्तेः । मात्रपदे कर्मणि त्रन्नन्तम् । परमात्मना इच्छया निर्मितं स्वान्पगजादिकमिति सूत्रार्थः । शिष्टं पूर्ववत् । इच्छार्थे मायापदस्य प्रयोगोऽपि महाकविभारविकृतौ किरातार्जुनीये---

अथ स्वमायाकृतमन्दिरोज्ज्वलं
ज्वलन्मणिं व्योमसदां सनातनम् ।
सुराङ्कना गोपतिचापगोपुरं
पुरं वनानां विजिहीर्षया जहुः ।। (8.1)

इति । स्वमायया-स्वेच्चाविसेषेणेति मल्लिनाथः । गोपतिचापः -- इन्द्रधनिः, तद्वर्णसदृशवर्णगोपुरशोभितं पुरं जहरिति संबन्दः । `इच्छामात्रं प्रभोःसृष्टिरिति सृष्टौ विनिशिचिता' (मां) इति सृष्टिसामान्यस्य भगवदिच्छामूलकत्वोक्तेः । अस्तु वा मायापदं वासनापरं तथापि तन्निर्मितस्य च सत्यत्वात् स्वान्पस्य जाग्कत्पदार्थवद्रर्थाक्रियाकारित्वात् । अत एव-जाग्रतीव स्वप्नेऽपि संभावितनारीसंयोगादिना चरमधातुस्खलनं संभवति । `दर्शनं सूचकं तच्च स्वकूपेण सत्, असत्तु दृश्यम्, अत एव स्त्रीदर्शनस्वरूपलृसाध्यास्चरमधातुविसर्गदयः जाग्रदवस्थायामनुवर्तन्ते । स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते' इति बामती `सीचकश्च हि-' इति सूत्रे उभयोर्वैषम्यं स्पष्टीकृतम् । अत एव च महर्षयः स्वप्ने परदाराभिमर्शनादेः पापहेतुत्वं स्मरन्तः स्मरन्ति संभाविततद्दोष,रिहाराय प्रायस्चित्तम्, वर्णिनां यतीनां च प्रायश्चित्तविषेषं च । अत एव च -- इत्तमपुरुषलक्षणे `स्वप्नेऽप्यन्यवधूकता' इति स्वान्पपरदारकथाभावदिः निवेशितः । यदि स्वान्पमसत् तर्हि परदाराभिमर्शनादेः पाहेतुत्वस्मरणं तस्य प्रायश्चित्तसम्रणं च व्यर्थं स्यात् । किं च स्वप्नं चरमदातुनिःसरणेन संदातव्याधेः चिकित्सां विदधत आयुर्वेदविद इति सर्वेषामनुभवसिद्धम्, यदि स्वान्पमसत्स्यात् तेन व्याधिर्नोत्पद्येत तस्यार्थक्रियाकारित्वायोगात्तस्य चिकित्साविदानं व्यर्थं भवेति । `यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरत् यदापः । इदं तत्पुनराददे । दीर्घायुत्वाय वर्चसे' इति (तै.आ.1.1.24) । प्रमादात् स्कन्नस्य रेतसः पुनरादानतत्फलोक्तिर्नं संगच्छेतेति ज्ञेयम्, इयं शौतिः । इयान्विशोषो जाग्रत्स्वान्पलिकानि, स्वान्पवस्तूनि तु सर्वाणि अचिरकालिकान्येवेति । महाकविकालिदासादिभिः ---

स्वन्पो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेव मनोरथानामतटप्रपाताः ।। (शा.6.10)

इति स्वान्पमायिकपदार्थयोर्भेदस्य दर्शितत्वेन, लोकेऽप्युभयोरनयोर्भेदेनैव व्यवहारेण स्वान्पस्य मायिकत्वमयुक्तम् । एतेन--जाग्रत्प्रपञ्चस्य मायिकत्वं समर्थयमानेन युदुक्तं `प्रपञ्चोऽपि दीर्घस्वप्न एवास्माकमित्याशयात्' इति तदपास्तम् । स्वाप्नमायिकत्वस्यैव दुर्निरूपत्वात् । किं च स्वाप्नजागरितवस्तुनुर्वैधर्म्यस्य `वैधर्म्याच्च न स्वप्नादिवत्' 9ब्र.सू.2.2.29) इतिसूत्रेण प्रदर्शितत्वात् स्वप्नदृष्टान्तेन जागरितवस्तुनो न मायिकत्वं शक्यं वक्तुं व्यासमते, वैधर्म्यं चोपपादितं श्रीशङ्कराचार्यप्रभृततिभिः -- `निद्रा ग्लानं तु मे मनः तेनैषा भ्रान्तिरुज्बभूव' इति, अपि च--`स्मृतिरेषा यत्स्वाप्नदर्शनम्, उपलब्धिभ्रान्तिरुद्बभूव' इति, अपि च-`स्मृतिरेषा यत्स्वीप्नदर्शनम्, उपलब्धस्तु जागरितदर्शनम्' इत्यादिभिः, `निद्रादिदो,मूलं स्वप्नदर्शनं, जागरितं तु न तादृशम्' इत्यन्यैरुक्तदम् । इतरैश्च `स्वाप्नमिदं न जागरितम्' इत्यादिबाधतभाववत्त्वधर्मवैषम्यात् न स्वप्नदृष्टान्तो युक्त इत्युक्तम् । एवमेवान्योऽप्याचार्या आहुः ।

मायामात्रेतिसूत्रे हि हरीच्छाशक्तिबोधकम् ।
मायापदं ततस्तेन स्वाप्नोऽर्थस्तु न मायिकः ।।

वासनावाचकत्वेऽपि न स्वाप्नं मायिकं भवेत् ।
सात्या हि वासना तस्मान्नागेशोक्तं न युज्यते ।।

नासद्रूपेतिश्लोकार्थविचारः

यदत्र मञ्जूषायां (1.प)

नासद्रूपा नसद्रूपा माया नैवोभयात्मिका ।
अनिर्वाच्या ततो ज्ञेया मिथ्याभूता सनातनी ।।

इति बृहन्नारदीयवचनं स्वाभिमतमायापरतया व्याख्याय, तेन प्रतिषिद्धमेव सदसदात्मकत्वमभ्युपयन् तत्त्वे विरोधमाशङ्क्य सत्त्वमारोपितं परमार्थतस्तु अवास्तवमिति वारयन् तत्र प्रमाणतया `यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्' (मनु.1.11) इति मानवं वचनमुदाहृत्य तत्र `सदि' त्यस्य आरोपितं सत्त्वमित्यर्थवर्णनम्, यच्च--तस्य वचनस्याऽद्यापरत्वं मन्वानः `"अव्यक्तपदवाच्या सूक्ष्माऽविद्य, व्यवहारकले सा स्थूलविद्यायाः कारणमिति तस्या एव कारणत्वेन निर्देशः `अव्यक्तं कारणम्' इतीदमेन वचनमिति प्रमाणत्वेवोदाहरणम्" तदुभयं चिन्त्यम् । तत्र `सत्--वेदान्त-सिद्धत्वात्सत्स्वभावम्, अयत् - प्रत्यक्षाद्यगोचरम्' इति कुल्लूकभट्टादिभिर्व्याख्यानात् । किं च अयं श्लोकः `आपो नारा' (1.10) इति पूर्वश्लोकनिर्दिष्टस्य भगवतो नारायणस्य कार्यब्रझसरृष्टिकर्तृत्वादिगुणनिर्धारणाय प्रवृत्तः । चस्य श्रुत्यैकवेद्यत्वात् उक्तसत्त्वासत्त्वमुपपद्यते । ननु न वयं तथा मन्यामहे किं तु अविद्यास्वरूपनिरूपणार्थ एवैष श्लोक इति चेत्, आस्तां तावदेवमभिमानो भवतां, नायं शास्त्रार्थव्यवस्तापनाय प्रभवेत् । श्लोकस्तु नारायणगुणप्रतिपादनपर एव । `तद्दिसृष्टः पुरूषो लोके तद्ब्रङोतिं कीर्त्यते' इत्युत्तरार्धे `तद्विसृष्ट' इति कार्यहब्रझणो नारायणसृष्टत्वोक्तेः । ननु-ब्रझणोऽव्यक्तपदवाच्याविद्यासृष्टत्वमेव तेनोच्यत इति तु न मनोहकम्, तस्या अचेतनत्वेन सृष्टिकर्तृत्वायोगात् । श्रुत्यादयो हि अयेतनस्य प्रधानस्य कर्तृत्वं वारयन्त्यः, नारायणस्यैव कर्तृत्वं क्रियासमभिवायाहारेण प्रतिपादयन्ति । `यो ब्रझाणं विदधाति पूर्वम्, (श्वे) तस्मादेतदेब्रझ' (मु.) इत्यादयस्तु नारायण एव ब्रहाणसमृजदिति विशिष्य वेदयन्तीति प्रतिपद्यन्ते विचक्षणाः । किं च उदाहृतं नारदीयं वचनं श्रीषङ्कराचार्यमतानुयानामभिमतेऽनाद्यास्नरूपे, सहसद्विलक्षणाऽनिर्वचनीयस्वरूपे च प्रमाणं भवितुमर्हति । न तु नागेशाभिमतमायास्वरूपे, तत्र `सनातनी, नैवोभयात्मिका । अनिर्वाच्या' इत्युक्तेः । अतो वृथा प्रास्यति नागेशोऽपराध्यति च महत्सु । अव्यक्तं प्रधानमिति कसा, तन्मूलभूतैतच्छ्लोकव्याख्या च चिन्त्यैव, प्रकरणविरोधात्, नारायणमहिमवर्णनस्य प्रक्रान्तत्वात् ।

नागेसमतमायायां न प्रमाणमिदं वचः ।
किं तु मानं भवेदेतदद्वैताचार्यसंमते ।।

आनाद्यविद्यारूपेर्थे चानुर्वाच्यत्वलक्षणे ।
सनातनीत्यादि परश्रवणादिति बोध्यताम् ।।

ऋतेऽर्थमितिश्लोकार्थविचारः

यच्च स्वाभिमतवासनारूपमायायां प्रमाणतया--

ऋतेऽर्तं यत्प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाभासो यथा तमः ।।
(भाग.2.9.33)

इति श्लोकमुदाहृत्य, `यदात्मनि प्रतीयेत, यच्च न प्रतीयते, तत्प्रत्ययाऽप्रत्ययरूपम्, आत्मनो मायां विद्यात्, असदर्थप्रकाशनस्यैव मायात्वात्' इति तदर्थवर्णनं, तच्चिन्त्यम् । `यथात्ममायायोगेन' (2.9.26) इति मायास्वरूपप्रश्नात् `वीर्यं हिरण्मयं देवो माययाव्यसृजत् त्रिधा' (भाग.2.10.13) इत्यादौ तस्याः सृष्टिसाधनतोक्तेः, ततः परत्र श्लोकेषु मायाप्रयक्तेः । जगत्सृष्‌ट्यादिसाधनभगवदायत्तज्ञानापवारकवस्तु अत्र मायाशब्दवाच्यम् । तस्याः सामर्थ्यमाहायं श्लोकः अयमर्थः -- यत्-यस्मात्, ऋतेऽर्थम्-अर्थं विनापि (तदभावेऽपिति यावत्) प्रतीयेत - सति अविद्यमानमसत्त्वं भासते, आत्मनि च विद्यमानं भेदपारतन्त्र्यादि न प्रतीयेत-न भायात्, तत्--अन्यथाज्ञानाऽज्ञानसाधनं वस्तु, मायां विद्यात्-मायापदवाच्यं जानियात् । अविद्यमानवस्तुविषवकज्ञानविषये आभास इति दृष्टान्तः, विद्यमानार्थाज्ञानं त् इति । आभासो द्वित्वादिस्चन्द्रे, तमस्तु--ज्योतिर्मण्डलमध्यगतो राहुः यथावस्थितार्थविषयकज्ञानापहारकत्वं मायाया भगवतैवोक्तम् `मायया।ञपहृतज्ञाना' (गी.7.15) इति । ईदृश्यपि माया निवर्तते भगवत्प्रतिपत्त्येति `दैवी झोषा' इति भगवतैवोक्तम् । भागवतव्याख्यानेषु बहुधा व्यास्यातोऽयं श्लोकः । सैषा माया विमोहयन्ती भगनद्विमुषान् कार्याकार्यविवेकरहितदान् कुर्वन्ती अकार्यं च कारन्ती कुयोनिषि जनयतीति भवति सृष्टिहेतुः । किं च मायाशब्दस्यानेक्र्थकत्वात् ईस्वरशक्तावपि मायाशब्दप्रयोगदर्शनात् तत्सामर्थ्यप्रतिपादनपरोऽयं श्लोक इति सुवचम् ।
ऋतेऽर्थं यदिति श्लोको न प्रमाणं भवेदिति ।
मायास्वरूपे नागेशसंमते प्रतिपाद्यताम् ।।

शब्दस्य एकत्वनिरासः

यदत्र मञ्जूषायां प्रतमपरिच्छेदे वाचकशव्दं लक्षयित्वा तस्यैकत्वमभिहितं नागेशेन,, अत्रेदं चिन्त्यम्-भगवता भाष्यकृता पाणिनीयस्यास्य शास्त्रस्य विषयप्रयोजने निरूपयता `अथ शब्दानुशासनम् । कोषां शब्दाना? लौकिकानां वैदिकानां च' । इति शास्त्रविषयस्य शब्दस्य बहपत्वोक्तेर्नैकत्वं युक्तम्, न च व्यञ्जकानां बहुत्वेन तदभिप्रायकं भाष्यमिति वाच्यम्, नागोशमते वाचकस्य स्फोटष्यैव सत्यत्वेन तदतिरिक्तानां व्यञ्जकानामसत्यत्वेन ग्रन्थादावसत्यस्य विषयत्वेन निरूपणायोगात् ।

न च `एक इन्दोऽनेकस्मिन् क्रतुशते आहूतो युगपत्सर्वत्र भवति' इतिसरूपसूत्रभाष्यं वाचकस्य शब्दस्यैकत्वं मानमिति वाच्यम्, तस्य भाष्यस्य इन्द्रशब्दस्य एकत्वे तात्पर्येण घटपटादिशब्दान्तराभावाऽसादकत्वात् । इदं च `इतीन्द्रवत्' इतियत्र `सब्दप्रादुरिभावेव्ययीभाव' इति कैयटोद्योतानुसारेणोक्तम् । वस्तुतः तत्र इन्द्रशब्दस्यार्थपरत्वेऽपि प्रकृतानुगुम्यं सुसंपादम् । तत्प्रकासस्तु--उत्तकमीमांसायां देवताधिकरणे देवताया विग्रहवत्त्वेऽपि `सामर्थ्यविसेषात् सर्वत्र युगपत्संनिदानमेकस्यैवेनन्ज्रस्य, अथ वा एकत्रैव स्थितमिन्द्राद्दैवतं तैस्तैर्तीयमानं हविर्युगपदुपतिष्ठते, यथा बहुभिः समर्प्यमाणा नमस्क्रियादय एकत्र स्थितानाचार्यादीन् गच्छन्ति' इति श्रीशङ्कराचार्यैरुक्तदिशा भाष्यार्थो बोध्यः । भाष्ये `इन्द्र आहूत' इत्युक्तेः आह्वानस्य लोके प्रायेण चेतेनविषय एव दर्शनात् अत्रार्थ एव भाष्यतात्पर्यं युक्तम् । अन्यथा `अन्द्रशब्द उच्चरित' इत्येव वदेत् । नन्वेवं भाष्यार्थे वर्णिते, `इतिशब्दो व्यर्थ इति चेत् , न' इतीति भिन्नं पदमुक्तविषयविशेषलाभार्थमित्यवैयर्थ्यत् ।

किं च `शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः, नेत्याह । अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः । एवं हि श्रूयते बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्त्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच, नान्तं जगम' इति पस्पशास्थमहाभाष्योदाहृतश्रत्या बृदस्पतिरिति तु न प्रामाणिकानां हृद्यम् ।श्रुतिसिद्दमबाधितमर्थमपलपितुमीश्वरोऽपि नाधिकरोति । प्रयुक्तानामिदम् `अन्वाखघ्यानम्' इति भाष्ये, नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णैप्भवितव्यमनपायोपजनविकारिभिः' इति, `दादा आद्यान्तौ' इति सूत्रभाष्ये च `पर्युक्तानां शब्देषु' इति बहुवचवप्रयोगश्च नित्यानां वाचकशब्दानां बहुत्वे प्रमाणम् । `येनोच्चारिते' इत्यादिभाष्ये `येन, स शब्द' इति एकवचनं तु जात्यभिप्रायकम् । यदि `येन' इत्यादिभाष्यव्याख्यानकैयटदिशा एक एव शब्दः शास्त्रमेवानारम्भणीयं स्यात्, `नैकमुदाहकणं योगारंभं प्रयोदयति' इति न्यायात् । न च `व्यञ्जकानुशासनद्वारा शास्त्रं स्फोटानुशासनं व्यञ्जकाश्च बहव इति न दोष' इति वाच्यम् तथा भाष्यकृदादिभिरनुक्तेः । तेषां कल्पितत्वेन आणयति-वट्टयतीत्यादीनामिव स्फोटानुशासनामित्येतद्दरोत्सारितमिति प्रसिद्धशब्दातिरिक्तस्फोटस्यैवासिद्ध्या तत्र ेकत्वादिविचारो गगनकुसुमदलगणनकल्प एव । ननु एकविषयकत्वे शास्त्रमनारम्भणीयमित्येतन्न युक्तं ब्रझण एकत्वेऽपि वादान्तशास्त्रारम्भदर्शनादिति चेत्, इदमुच्यते - अस्त्यत्र दृष्टान्तवैषम्यम् । सर्वाद्यक्षस्य ब्रझण एकत्वेऽपि तत्र विचार्यमाणानां गुणानां बहीनां सत्त्वेन तद्विचाराय शास्त्रारम्भो व्याय्यः स्फोटस्य त एकत्ववादिनस्तस्य निर्धर्मकत्वाभ्युपगमेन अख्ण्डे विचार्यधर्माणामभावेन शास्त्रासम्भो व्यर्थः । न च ब्रझाप्यखण्डमिति वाच्यम्, वेदान्तशास्त्रमारभमाणेन महर्षिणा ब्रझणोऽखण्डत्वानङ्कीरात् । पाणिनिनाप्याचार्येण क्वापि ब्रझस्फोटयोरशण्डत्वानुक्तेः । निरूपितमिदं पुरस्तात्पदादीनामखण्डत्वनिरसनावसरे । ननु सूत्रद्वयभाष्यस्य `वर्णादीना सर्गादौ सृष्टिः, प्रलये नाश' इति पक्षे इदम्, प्रयोगे श्रूयमाणाः शब्दा एव वाचका इति सूत्रे `अछवा एतयाऽऽनुपूर्व्याऽयं शब्जान्तरानुपदिसति, प्रकृतिम्, ततो वलाद्यार्थधातुकं, ततःपश्चादिकारम् यसमिन् तस्यागमबुद्धिर्भवति' इति सागमरानामादेशत्वोपपादनतृतीयप्रकारप्रदर्शनभाष्यस्य `असत्यप्रकृतिप्रत्ययोपदेशेव सत्यस्य वाचकपदस्य व्युत्पादनं मते स्फोटातिरिक्तस्य सत्यत्वाभावेन इतव्यादेरवान्तरसमुदायस्यापि असत्यत्वेन तद्बोधनद्वारा वाचकबोधनतात्पर्यकत्य अथवा `यत्तावदयं सामान्येनोपदेष्टुं शक्नोति तावदुपदिशति, प्रकृतिम्......तेनायं विशेषण शब्दान्तरं समुदायं प्रतिपद्यत' इति पूर्वभाष्यस्यात्थितिप्रसंगात् । `शब्दान्तरं मसुदायम्' इति भाष्यमादाय `तव्याद्यपेक्षया भिन्नामितव्यादि' इत उद्द्योते व्याख्यानात् पूर्वभाष्यस्यापि कल्पतशव्द एव शास्त्रविषय इति नागेशतात्पर्यात् । यद्वा-नागैशकृतव्यारीत्या अथवेति पक्षद्वयभाष्ययोः समानविषयकत्वलाभात् `अथवा' इत्युत्तरभष्यस्यानुत्थित्प्रसंगः । किं च `नित्यं पदमे' इति कैयटमादाय व्याकरणा निष्पाद्यमित्यर्तं' इति व्याख्यानेन कल्पित एव साक्षादुपदिश्यते तेन वाचकस्य बोदनमिति अलाभात्, पक्षद्वयस्यापि समानविषयकत्वेति पक्षे कल्पितस्य साक्षाद्बोधनं, तेन वाचकस्याखण्डस्य बोधनमिति भेदः इति पक्षद्वस्य वैलक्षण्यनिरूपणासंगतीः, नागेशोक्तदिशा पक्षद्वये।पि कल्पितस्यैव साक्षाद्बोधनमिति लाभातः पाणिनेर्नाभिमतः स पक्षइति मत्वा पक्षान्तरमाह अथवेति । अयं च सिद्धान्तिन इति उद्योते । भाष्ये अयम्-पाणिनिः, `तेनायम्' इत्यत्रायंशब्दो बोद्धृपरः । अयं च पक्षो दाधेतिसूत्रोक्त एव अनेन तव्यबुद्धिप्रसंगै इतव्यबुद्धः कार्या । ततः तद्विशिष्टो भवितव्यादिशव्दो वाचको बोध्य इति बोद्यम् । अयं च मध्यमाधिकारिकः । द्वितोयोऽथवेतिपक्षस्तु ऊहापोहकुशलोत्तमाधिकारिकः । अयं भाष्यार्थः -- एतयाऽऽनुपूर्व्या--अनेनक्रमेण, अयं--पाणिनिः, शब्दान्तरम्--वाचकशब्दम्, उपदिशति-बोधयतीति । प्रकृत्याद्युपदेशमात्रेण स्वप्रतिभयैव अवान्तरसमुदायोपदेशमन्तरापि शदस्त्रीयसर्वविसिष्टसमुदायं प्सतिपद्यत उत्तमाधिकारीति भावः । ततश्च `नित्येषु' इत्यादि भाष्यपर्यालोचनायां वाचकशबादस्य बहुत्वमेव युक्तमिति भाति ।

वाचकस्य तु शब्दस्य नैकत्वं भाष्यसंमतम् ।
इति भ्ष्यं समालोच्य संगिरन्ते सुधीजनाः ।।

स्फोटस्यानार्षत्वम्

किं च `इदं च शिष्टसमाचारात्प्रक्रियादओशायां स्वीकार्यम्, परमार्थदशायां तु--
पदे न वर्ण विद्यन्ते वाक्येष्ववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।।'

इति वाक्यपदियोक्तदिशा `स्फोटं सिद्धान्तयतां क्वास्य पूर्वपक्षस्यावसर' इति `एओङि' इति सूत्रसेषे कौस्तुभे `वाक्यपदीयोक्तदिशा' इत्युक्त्या, `तद्व्यतिरिक्तः स्फोटो नादव्यङ्ग्यो वाचको विस्तरेण वाक्यपदीये व्यवस्थापित' इति वस्पशाह्निककैयटे `वाक्यपदीये' इत्युक्त्या च स्फोटवादे भर्जहरिवचनमेव मूलं न तु मुनित्रयवचनमिति कैयटादिभिरेव स्पष्टमभिधानात् पाणिनीयसूत्रानुदाहरणात्, स्फोटो न मुनित्रयसंमत इति वदन्तीति कृतं विस्तरेण ।

स्फोटे मानं कैयटादौ हरिवाक्यमुदाहृतम् ।
न पाणिनीयं वचनं तस्मात्सोऽनार्ष ईर्यते ।।

वाचकस्याखण्डत्वनिरासः

यत्तु `अखण्डान्येव पदानि' इत्युक्त्वा `इदमपि' `आद्यन्तौ' इति `सात्रभाष्य' इत्युक्तं मञ्जूषायां (प.1) तदपेशलम । `अइउण्' आदिषु बहुषु सूत्रेषु `नित्येषु शब्दषु कूटस्थैरविचालिभिवर्णैर्भवितव्यम्' इति भाष्ये कूटस्थस्य वर्णघटितत्वोक्त्या सखण्डत्वमेव भाष्यकृत्संमतत्वावगमात् । क्वापि भाष्येऽखण्डत्वस्य स्पष्‌टमनुक्तेः । एतेन `तेन च बोधकस्याखण्डस्य बोधवनम्' इति `आद्यन्तौ' इति सूत्रस्थद्वितीयाथवेतिपक्षभाववर्णनं चिन्त्यम्, तेनान च भाष्येण तादृशार्तालाभात् । किं च एखण्डत्वे निर्धर्मकत्वावश्यंभावेन तस्य वाचकत्वं कथं स्यादिति विभाव्यताम् । ननु अध्यस्यते तत्र तदिति चेत्, तेन तत्र तन्नास्तीत्येवेत्‌युक्तं भवतीति ज्ञेयम् । `भाष्ये वर्णपदेन प्रकृतिप्रत्ययागमादय' इति मञ्जूषोक्तेश्‌च सखण्डत्वं शक्यं वक्तुम् । `अइउण्' इत सूत्रस्थनित्येषवित्यादिभाष्यपर्यालोचनायां वर्णैरित्यस्याक्षरैरित्येवार्थे युक्त इति भाति । कलायां तु द्वितीया `अथवा' इति भाष्यं, तत्रत्यकैयटोद्द्योतौ च प्रमाणतयोपन्यस्य तैः अखण्डत्वलाभप्रकारो नोपपादितः । किं च `वाक्यादपोद्धृत्य पदान्यन्वाख्यायन्त' इति भाष्यं शब्दानां सखण्डत्व एव प्रमाणम्, अपोद्धरणस्य समुदायादेकशाऽऽदानरूपत्वात् । `अपोद्धरणं-कल्पनम्, कल्पनया प्रविभज्य' इति कलादिव्याख्यानं तु नाक्षरमर्यादालभ्यमिति शब्दार्थतत्त्वविदो न साधु मन्यन्ते । अङ्काधिकारस्थानि सूत्राणि सखण्डत्वे प्रमाणानि । अखण्डत्वं न व्यासादिसंमतमिति पूर्वं निरूपितम् ।

वाचकस्य सखण्डत्वे भाष्यं मानं प्रदर्शितम् ।
अशण्डत्वे वाचकत्वधर्मस्तत्र कथं भवेत् ।।

स्फोटे भाष्यसंमतिनिरासः

ननु `स्फोटः शब्दो, ध्वनिः शब्दगुण' इति तपरसूत्रभाष्योक्तेः स्फोटो भाष्यसंमत आर्षः पाणिनेश्च संमत इति चेत्, ब्रमूमः-तत्र स्फोटपदस्य स्फुट्यते व्यज्यत इति कर्मव्युत्पत्त्या व्यङ्ग्यो नित्य इति, स्फुटत्यस्मादर्थ इति व्युत्पत्त्या वाचक इति वाष़र्थात् तेन भाष्येण हरिकैयटदिक्षितनागेशादिभिर्लक्षितलक्षणस्फोटासिद्धेः । तथाहि-वर्णानामुत्पत्तिवादिना मात्राकालादिना ह्रस्वदीर्घादिभेदवत् द्रुतादिवत्तिभेदेनाप्यकारादिव्यक्तीनां भेदात् यस्यां वृत्तौ तपरकरणं, तत् तदन्यवृत्तिमदकारादीनां दीर्घादीनामिन व्यावर्तकं स्यात्, ततश्च वृत्त्यन्तरे ऐसादयो न प्राप्नुपन्तीत्याशङ्किते `वृत्त्यन्तरे एसादयो वक्तव्या' इति शङ्कित्राशयानुरोधेन समाधिमादावभिधाय वस्तुतो वर्णानां नित्यत्वे वृत्तिभेदेन नाकारादिव्यक्तिभेदोऽनुभूयते, अत ऐसादिवचनं न कार्यमिति बोधयन् `सिद्दान्त्ववस्थिता वर्णा' इति सदृष्टान्तं समाध्यन्तरमभ्यधात् भ्ष्यकारः । तस्यायं भावः - भिन्नभिन्नपुरुषेण चिराचिरगमनशीलेन प्राप्तः क्लप्तपरिमाणविशेषोऽध्वा यथा न भिद्यते, एकरूप एवास्ते, तथा वर्णोऽपि चिराचिरोच्चारणकर्त्रोच्चरितो न भिद्यत इति । ननु अध्वनः क्लृप्तपरुमाणविशेषतया न भेदप्रसंगः, वर्णस्तु न तताविधः, अतोऽयं विषमो दृष्टान्त इति उक्तेऽर्थेऽविश्चासेन पुनःसन्दिहानं प्रति दृष्यान्तारेण उक्तं वर्णनित्यत्वं द्रढयति भाष्यकृत् एवं तर्हीत्यादिना । अत्र स्फोटशब्दः कैयटकौस्तुभोद्येतमञ्जूषापर्यालोचनायां व्यङ्ग्यपर इति ज्ञायते । शब्दः - अकारादिवर्णः, स्फोटः - व्यंग्यः, वर्णानां नित्यत्वेन तस्य तत्त्वम् । ध्वनिः-वैकृतध्वनिः, वैकृतत्वं च-आलस्यादिप्रयोज्यत्वम्, स चविलंबितादिवृत्तिः, शब्दगुणः-वर्णस्य स्वरूुाभिव्यक्त्यनन्तरं व्यज्यमानतत्तद्वर्णनिष्ठो धर्मः वर्णस्योपकारकः, तस्य तत्त्वं च--तत्तद्वृत्ति विसिष्टतया वर्णोपलब्धिमात्रहेतुत्वम् । अतः स धर्मो दीर्घादिव्यावर्तकह्रस्वत्वादिवत् वृत्त्यन्तरविशिषिटवर्णव्यावर्तको न भवति । दृष्टान्तं वक्तुं पृच्छति भाष्ये कथमिति । भेेर्याद्याघातवदिति । अत्राधातशब्दो भावघञ्न्तः । भेर्याआघात इति षष्ठीसमासः । ततस्तृतीयान्ताद्वितिः । स्फोट इति शेषः । स्फोटः भेरीताडनजन्यशब्दतुल्यो भवतीत्यर्तः । अयां भावः यथा विशत्यादिभिन्नभिन्नसंख्याकपदगमनस्य भेरीशब्दभेदापादकत्वाभाववत् वृत्तिभेदस्यापि अकारादिवर्णव्यक्तिभेदापादकत्वाभावः । तथैव शब्दस्वरूपत्तविदामनुभवात् । अत्र दृष्टान्तदार्ष्टांन्तिकशब्दयोरनित्यत्ववैषम्येऽपि एकविधोपलब्धिविषयतामात्रेण दृष्टान्तदार्ष्टान्तिरभाव इति । भाष्ये दृष्टान्तवाक्यतात्पर्यमाह---तद्यथा इति । भेर्यागात इति । अत्र भेरीमाहन्तीति कर्मण्यण् . उपपदसमासः । आहत्येति । शब्दं शृण्वन्निति शेषः । अक्षरार्थः स्पष्टः । भाष्ये स्फोट इति । अस्य दृष्टान्तशेषत्वे `अथापि' इत्यादिः । वीजातीयगमनशीलपुरुषेण श्रुतोऽपीत्यर्थः । स्फोटस्तावानेवस - भेरीदण्डसंयोगरूपताडनकालिपरिमाणविशिष्ट एव, भवति-श्रुयमाण इत्यादिः । कथं सब्दस्य तावद्दरं तथाव्धत्वमित्यत आह भाष्ये-ध्वनिकृतात्विति । पुरुषनिष्ठव्यापारविशेषकृतढृढतरदतमसंयोगन्यध्वनिपदाभिधेयशब्दीयविजतीयधर्मप्रयोज्येत्यर्थः । दृष्टान्तशेषत्वे योजनाक्लेशमसहमानः कैयटः स्फोटस्तावानेवेति दार्ष्टान्तिकोपन्यास इत्याह अत्र कल्पे एवमित्यादिः । एवं भेरीशब्दवत्, स्फोटोऽपि-अकारादिरपि, तावानेव उत्पक्तिकालिक (अभिव्यक्तिकालिक) ह्रस्वत्वादिविशिष्ट एव, भवतिवर्तते । न तत्र भेद इति भावः । भाष्ये वृत्तिस्तु न भेदारिणीत्याहध्वनूति । वृद्धिरिति । ्हत्वमित्यर्थः । इदमुपलक्षणमल्पत्वस्यापि इति । ्महत्त्वादि तु चिराकृचिरकृतोच्चारणन्यानुष्पादिध्वनिकृतमिति तात्पर्यम् । नागेशस्तु `अस्ति भेरीशब्देऽपि स्फोटोऽत इदं वाक्यं दृष्टान्तदार्ष्टान्तिकोभयपरम्' इति मंजूषोद्योतयोराह । तत्पक्षे यथातथेत्यध्याहृत्य भाष्यवाक्यमावृत्य योजनीयम् । शब्दार्थतत्त्वविदग्रेसरो भाष्यकारः स्वानुभूतिसिद्धमर्तं (वर्णनित्यत्वं) अन्तेवासिजकया भाष्यकार) -ध्वनिरिति ।

ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते ।
अल्पो महाश्च केषांचिदुभयं तत्स्वभावतः ।।

अस्यार्थः -- ध्वनिः - व्यञ्जकः शब्दः, स्फोटः - व्यंग्यः शब्दः, अल्पो महाश्च-ध्वनिविशेषः, इदं द्वयम्-चिराचिरोपलब्धिजनकत्वे अल्पत्वमहत्वे । तादृशः - शब्दानां संबन्धी, ध्वनि। - वैकृतध्वनिः, लक्ष्यते-ज्ञायते । ध्वनेः शब्दसंबन्धित्वं तदुपलब्धिजनकत्वेन उक्तद्विविधशब्दसत्त्वे प्रमाणमाह -- उभयमिति । व्यङ्ग्यत्वं व्यञ्जकत्वं चेत्युभ.यम् । स्वभावतः - स्वरूपेणेत्यर्थः । शब्दस्य तादृशस्वभावत्वात् न तत्र प्रमाणान्तरापेक्षा । अथापि योगिप्रत्यक्षगोचरो भवति इति भावंः । तत्र व्यवस्थामाह--केषामिति । तदुभयमित्यनुषङ्गः । अयमर्थः - केषांचित् व्यक्तानां शब्दानां तदुभयं व्यङ्ग्यत्वं व्यञ्जकत्वं च, अव्यक्तानां तु ध्वनिरेवेति । कौस्तुभेऽपि इदं भाष्यादि इत्थमेव व्याख्यातम् । ततश्च भाष्ये, कारिकाया च स्फोयपदं व्यंग्य इत्यर्थकं, स्फुट्यत इति कर्मणि घञन्तं बाहुलकादिति । अयमत्र निष्कर्षः - इदं भाष्यं वृत्तिभेदे व्यक्तिभेद इति वर्णानां कार्यतावादिना चोदिते वर्णस्य नित्यत्वात् वृत्तिभेदेऽपि न भेद इति व्युत्पादनाय प्रवृत्तं, न तु वाचकस्य विसक्षणस्फोटत्वव्यवस्थापनायेति ।

`अथवा उभयतः स्फोटमात्रं निर्दिश्यते रश्रुतेर्लतिर्भवति' इति `एओङ्' सूत्रभाष्यमपि वर्णैंकदेशस्य ग्रहणाग्रहणविचारे, अग्रहणपक्षे क्लृप्तमित्यादौ लत्वासिद्दिशङ्कां परिहर्तुं प्रवृत्तमिति न हर्याद्यभिमतस्फोटसिद्ध्यनुकूलम् । तस्य चारमर्थः -- उभयत्र `रः ल' इति स्थान्यादेशयोः स्फोटमात्रम्--स्वतन्त्रवर्णवर्णैकदेशोभयसाधारणधर्ममात्रम् । तादृशश्च धर्मो रेफलकारन्यतरतत्सदृशवर्णैकदेशतदृभयवृत्तिः उभयोरेकरूपेण भानप्रयोजकः । स तु न स्वतन्त्रवर्णबोधकपदेन ग्रहणप्रयोजकः । अत एव `रश्रुतेर्लश्रुतिर्भवति' इति वक्ष्यति । निर्दिश्यते व्यक्तिद्वारा सूत्रकृता अच्चार्यचे । एवमुक्तौ फलितमाह---रश्रुतेरिति । रस्य श्रुतिः श्रवणं यत्र स रश्रुतिः तस्य रश्रुतेः । एवमेव लश्रुतिरित्यस्यापि विग्रहः । अथ वा श्रुतिरिति कर्मणि क्तिन् श्रुयमाण इत्यर्थंः । रः श्रुतिः श्रूयमाणो यत्रति बहव्रीहिः, श्रूयमाणरेफाधिकरणं ततश्च यो रेफावभासः, तस्य रेफाव भासवतः लकारावभास आदेशो भवतीति विशेष्टार्थः । कृप् इत्यनयो रेफवभासवत्त्वात् तयोः कल्प्क्लप् इत्यादैशौ क्रमेण भवतः, वर्णतदेकदेशयो रेफावभास प्रयोजकधर्मवत्त्वात् । अत एव अत्र स्फोटपदं स्फुटति विकसते शब्दः अस्मादिति अवभासजनकधर्मपरमित्याहुः । कैयटस्तु अन्तर्भूतानन्तर्भूतरेफलकारव्यङ्ग्यसामान्यं स्फोट इत्याह । कौस्तुभेऽपि--`एओङ्' सूत्रशेष `कृपोरोल' इत्यत्र `स्वतन्त्रास्वतन्त्रसाधारणी जातिरनुवाद्ये विधेये च विवक्षित' इति वदता दीक्षितेन एतत्कैयटार्थ एव विशदीकृतः । नागेशस्तु ईदृशजातिसद्भावे मानाभावेन `रजातेरिति वक्तव्ये रश्रुतेः' इति वदतो भाष्यकारस्यापि तादृशजातिसद्भावोऽसंमत्यनुमानेन च उभयसाधााारणजात्यङ्कीकारे वर्णैकदेशग्रहणपक्ष एव पर्यसानात् अग्रहणपपक्षोपक्रमेण प्रवृत्त्स्यास्य भाष्यस्य उपक्रमविरोधम्, `नरसिंहत्वादिवत् विलक्षणोऽयं वर्ण' इति `रषाभ्याम्' (पा.सू.8.4.1) इति सूत्रकैयटविरोधं च प्रदर्श्य क्वापि वास्तवरेफाभावेन `रेफाभासवतः स्फोटस्य लकारावभासः स्फोटो भवति' इति `रश्रुतेः' इति भाष्यस्यार्थं वर्णयति । अत्रेदं वक्तव्यम् -- ब्रझातिरिक्तस्य वस्तुसामान्यस्य भ्रमप्रकारत्वेन मिथ्यात्वं वदतो नागेशस्य मतं पाणिन्याद्यनभिमतमिति पुरस्तादसकृदावेदितम्, अतोऽस्त्येव पाणिन्यादिमते वास्तवो रेफादिः । इत एवोक्तं भगवता `रश्रुतेः' इति, अन्यथा अवभासस्येत्याद्येव ब्रूयात् । `मायिकत्वेऽपि सर्वस्य नासत्त्वं शशविषाणवदिति' सारे सारकृता, `पंचकोशादिवत्तस्मात्' इति कारिकाव्याख्यानशेषे, `न च अलिकया प्रकृतिप्रत्ययकल्पनया कथं व्स्तवस्फोटबोधः, तस्या अलूकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोधः, तस्या अलीकत्वालिद्धेर्वक्ष्यमाणत्वा' दिति, `पंचकोशादिवत् प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन, नात्यन्तासच्छशविषाणवदलीकत्वम्' इति तत्रैव दर्पणकारेण चोक्तेः, मायिकपदार्थस्यासत्वाभावेन वर्णतत्समुदायपदादेरसत्त्वाभावात् । एतेन ब्रझातिरिक्तं सर्वं मायिकमतोऽसदिति तञ्जीषोक्तमपास्तम् । न च तेन जगदसदिति नोक्तमिति वाच्यम्, शक्तिरजतादे बहिस्तद्देशे चासत्त्वमुपपाद्य `प्रपञ्चोऽप्येवमेव, मृगतृष्णादिदृष्टान्तेन प्रपञ्चस्य शास्त्रे वर्णनात् । तदुक्तं परमार्थसार' (29.24) इति मञ्जीषोक्तेः मृगतृष्णोोदकश्र्‌टासत्तस्य पूर्वग्रन्थे उपपादितत्वेन जगतोऽपि तैनासत्त्वस्योक्तप्रयत्वात् । शशशृङ्गक्तिरूप्याद्योरविशेष एव तन्मते । `सदसद्भिन्नमनिर्वचनीयम्' इति मतखण्डनावसरे `सदसद्भेदाधिकरणवस्तुनोऽप्रसिद्धेः' इति तेनोक्तत्वात् । यदि शुक्तिरूप्यादेः शशविषाणादिविशेषः तर्हि भेदद्वयाधिकरणवस्तुनः सत्त्वेन अद्वैतिसंमतानिर्वचनीयलक्षणस्य तत्कृकशण्डनमसंगतं स्यात् । शुक्तिरजतादिस्थल इव, अत्र बाधज्ञानानुदयात् अवभासेत्युक्तिरयुक्ता । न चैवं ग्रहणपक्ष एवान्तर्भवतीति उपक्रमविरोधस्तदवस्थ इति वाच्यम्, ग्रहणपक्षे तत्त्वबुद्धिः, अग्रहणपक्षे तत्सदृशत्वबुद्धरिति भेदात् । मुख्ये संभवति विना मानं सदृशस्य ग्रहणं न स्यात् । अतः `कृपोरोल' इत्यत्र न मुख्यव्यक्तिनिर्देशमात्रे सूत्रकृतस्ताप्यर्यम्, किं मुख्यव्यक्तितत्सदृशव्यक्त्युभयोर्ग्राहकधर्मनिर्दैशे । अत उभयोर्ग्रहणं भवतीति भाष्याशयः ।

यदि वर्णवत्ता पदानां न स्यात् रेखागवयन्यायेन साधुत्वानुशासकं शास्त्रं शब्दानां नित्यत्वपक्षे इत्यभियुक्तव्यवहारासंगतिः । रेखागतगवयगतसंस्थानसंनिव्शेन गवयो बोध्यते तथा नित्यशब्दगतगकारदिवर्णव्यञ्जकरेशाविन्यासेन नित्ये गवादिशब्दो बोध्यत इति हि तदर्थः । इदं ज्ञेयम्--अस्तेर्लेटि एधीति रूपेरेखास्थानीयाऽसधातुगतवर्णादर्शनात् तेन न्यायेन शास्त्रमनुशासकमित्येतत् न युक्तमिति `आद्यन्तौ' इति सूत्रोद्द्योतो न युक्तः । प्रक्रियावाक्ये शास्त्रप्रवृत्त्युत्तरं निष्पन्नम् एधीतिरेखास्थीनीयं तेन बोध्यते, एधज्ञीत्यर्थधवाचकः शब्दो नित्यः, तत्र रेथास्थानीयगतवर्णोपलम्भात्, तेन न्यायेन शास्त्रमनुशासकमिति युक्तदमिति । न च नृत्वसिंहत्वानाक्रान्तनृसिंहत्ववत् निरवयवं वर्णान्तरं तदिति वाच्यम्, वर्णान्तरत्वेऽपि निरवयवत्वे मानाभावात् । न हि नृसिंहस्य नरत्वाद्यनवच्छिन्नत्वंऽपि निरवयवत्वमस्ति ।

`तस्यादित उदात्तमर्धह्रस्वम्' (पा.सू.1.2.32) `एचोऽप्रगृझस्यादराद्धते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ' (पा.सू.8.2.107) इति प्लुतादिकार्यविशेषं च विदधता सूत्रकृता, भाष्यकृता च `ऐचोश्चोत्तरभूयस्त्वात्' इति वदता, वर्णैकदेशानां वर्णग्रहणेन ग्रङणाऽग्रहणविचारं कृतवता वर्णानां सावयवत्वाभ्युपगमात् । अत एतोषां निरवयवत्त्वम्. तत्समुदाये समुदायत्वबद्धेरतात्त्विकत्वम्, तत्र अवयवसद्भावाश्रयणं च भ्रन्तिमूलमित्यादिनिरूपणं `वर्णेष्ववयवा न च' इति दृष्टान्तेन--

पदे न वर्णा विद्यन्ते वाक्येष्ववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।।


इति वाक्यपदीयोक्तं पदावक्ययोर्निरवयवत्त्वं च निर्मूलम् । `नित्येषु शब्देषु' इत्यादिभाष्ये पदवाक्यरूपशब्देषु वर्णैर्भवितव्यमित्युक्तेः तेषां षावयवत्वस्य भाष्यकृत्संमतत्वात् । न च भाष्यं व्यञ्जकविषयं, वाक्यपदीयं तु स्फोटविषयमिति वाच्यम्, अतिरिक्तस्फोयस्वरूपस्यैव भाष्यानारूढत्वात् । भाष्याद्यनुग्रहरहितार्थप्रतिपादकवाक्यपदीयं कथं पाणिनीयैरुपादेयं स्यात् । न च सावयवत्वे जन्यत्वं स्यादिति न वित्यत्वं श्ब्दानामिति वाच्यम्, त्रिगुणात्मकमूलप्रकृतेः सावयवाया जन्यत्वादर्शनात् । शब्दानां नित्यत्वपक्षे समुदायाऽप्रसिद्धिचोद्यस्यापि नावसरः ।

किं च `पदान्तस्य' (पा.8.4.37) `सात्पदाद्योः' फा.8.3.111) `षःप्रत्ययस्य' (पा.1.3.6) `इणः षीध्वंलुङलिटां धोङ्कात्' (पा.8.3.78) इत्यादिभिः पदायवप्रत्ययावयननिबन्धनानि क्र्याणि, `अलुगुत्तरपेदे' (पा.6.3.1) `उत्तरपदस्य' (पा.7.3.10) `एकाजुत्तरपदे णः' (पा.8.4.12) `पूर्वदात्' (पा.8.3.106) `हृद्भगसूद्ध्वन्ते पूर्वपदस्य च' (पा.7.3.19) `तद्धितार्थोत्तरपदसमाहारे च' (पा.2.1.51) इत्यादिभिः समासं पूर्वोत्तरपदनिबन्धनकार्याणि च विदधता सूत्रकृता पदवाक्ययोरपि सावयवत्वस्य बोधितत्वेन तयोर्निरवयवत्वोक्तिः शास्त्रप्रवर्तकाचार्यानभिमतैव । अतः सा प्रमाणकैर्वादर्तवाया । किं च वर्णादीनां निरवयवत्वं नास्ति शव्देषु' इति भाष्यानुग्रहः । तत्र शब्देष्वित्यस्य वर्णपदवाक्यरूपशब्देष्वित्यर्थः । एतेन यदुक्तं समर्थसूत्रं कैयटेन `तत्तवतो निरवयवान्येव केवसमसत्यप्रत्रियाश्रयेणाऽन्वाख्यान्ते' इति तदपास्तम् । `नित्येषु शब्देषु वर्णैर्भवितव्यम्' इति भाष्योक्तेर्नित्यशब्दानां सावयवत्वसिद्धेः, असात्यार्थानुशासके शास्त्रत्वस्यैव दुर्वचत्वात् । तत्त्वविषयकयथार्थज्ञानजनकशब्दसमुदायो हि शास्त्रमित्याचक्षतेऽभ्ज्ञाः । किं च असत्यस्योपदेसे तत्रैव वर्तमानाः सत्यं कदापि न भजेरन्, अभिमतनगरं यियासूनां कापथोपदेशे तत्रैव भ्रमन्तो यथा नगरं कदापि न प्रप्नुवन्ति । किं च समर्थसूत्रे शब्दानां निरवयवत्त्वं नैरऱ्थक्यं च निराचक्रे नागेशः केचित्तु पक्षोपन्यासमुखेन `उपलभ्यमानाऽवयवानां नैरर्थक्ये, समुदायस्य निरवयवत्वे च मानाभावः, नित्यत्वं तु अनिष्पाद्यत्वमात्रेण वक्तुं शक्यम्' इति ग्रन्थेन । एतेन-नित्यत्वसावयवत्वे परस्परपरिहाकेणैव वर्तेते इति नियमो नेति बोधितम् ।

अस्ति स्फोटपदं भाष्य एओङतपरसूत्रयोः ।
आद्ये तु तत्पदं धर्मपरं तत्सूत्रभाष्यतः ।।

द्वितीये स्फोटभिन्नस्य नित्यशब्दस्य वाचकम् ।
इति निर्णीयते तस्मान्मञ्जूषोक्तं न युड्यते ।।

अतो भाष्ये ब्रझसमस्फोटसिद्धौ न साधकम् ।
इति भाष्यविदां पादपझमाश्रित्य भाषितम् ।।

स्फोटे भागवतसंमतिनिरासः

ननु भगवता व्यासेन भागवते---

शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक् ।
येन वाग्वयज्यते यस्य व्यक्तिराकाश आत्मनः ।। (12.6.5)

इति प्रणवस्य स्फोटत्वोक्तेः व्यासादिमहर्षिसंमतः स्फोट इति चेत्, उच्यते--स्फोटत्यर्थोऽस्मादनेन वेति अपादाने, करणे वा घञि निष्पन्नः स्फोटशब्दो वाचकपर्यायः । यद्वा--पूर्वं प्रलक्तस्य वर्णत्रयात्मकस्य प्रणवस्य `इमं स्फोटम्' इत्यनुवादात् प्रणवपर्यायः सः । यद्वा--`येन वाग्व्यज्यत' इत्युत्तरार्धे वक्ष्यमाणतया वेदाद्यभिव्यञ्जकत्वेन प्रणवस्य स्फोटत्वोक्तिः, अतस्तत्र स्फोयपदं व्यञ्जकमित्यर्थकम् । श्लोकार्थस्तु--यः परमात्मा, श्रोत्रे सुप्ते--श्रोत्रेन्‌द्रिये निर्व्यापारे, शून्यदृक्-शून्येऽपि सर्वेन्द्रियव्यापाराभावेऽपि, दृक्-ज्ञानी, इमं स्फोटम्-प्रणवरूपं स्ववाचकं शब्दम्, शृणोति । प्रणवः कीदृश इत्यत आह--येनेति । येन-प्रणवेन, वाक्-सर्वे वेदाः, यस्य-प्रणवस्य, आत्मन आकाशे-परमात्मनो हृदयाकाशे, इति श्रीधराच्र्यः । परमात्मैवैतं शृणोति नान्य इति एतद्भावः । `सुप्तः श्रोतेव शून्यदृक्' इति संहितापाठ इति कृत्वा, सुप्तः -सुषुप्त्यवस्थामापन्नः, शून्यदृक्शून्यः परमात्मा, तं पश्यतीति तथा, ब्रझाऽपरोक्षि यो ब्रझज्ञानी, ससुप्तः सन्, श्रोतेव-परमात्मेव, स्फोटं शृणोति, इति विजयध्वजाचार्यः । स्फोटस्य श्रोता परमात्मा ब्रझज्ञानी चेति भावः ।

इदमत्र ज्ञेयम् -- प्रथमस्कन्दे चतुर्थेऽध्याये संग्रहेण निरूपितं वेदाद्यधिगतिक्रमं,

पैसादिभिर्व्यासशिष्यैर्वेदाचार्यैर्नहात्मभिः ।
वेदा वै कतिधा व्यस्ता एतत्सौम्याऽभुधेहि नः ।।
(भाग.12.6.1)

इत्यादिना विस्तरेण निरूपयता शब्दप्रपञ्चसृष्टिं करवाणीति संकल्पवतो भगवतो नारायणस्य हृदयाकासे कश्चिन्नादो घण्टानिनादसंनिभः इच्छामात्रेण प्रथमं प्रदुरभूत् । तस्माच्चाक्षरसमाम्नायाद्यभिव्यक्तिद्वारा वेदासर्वमभिव्यानत्, स च प्रणवो नारायणस्य वाचकः `येन वागव्यज्यते, स्वधाम्नो वाचकः साक्षात् ब्रझणः परमात्मन' इत्यादिनिरूपितम् । न च `परमेष्ठिन' इति तत्रोक्तं तेन च `परमेष्ठी पितामहः' इति कोशात् चनुर्मुखस्यैव ग्रहणमिति वाच्यम्, परमेष्ठिपदस्य परमात्मवाचकत्वेन सर्वस्य ब्रझकारणकत्वसिद्धान्तेनु च परब्रझग्रहणस्यैवोचितत्वात् । परमे स्थाने तिष्ठतीति परमेष्ठी, किन् औणादिकः । न च `वृतितिरिनिरोधाद्विभाव्यत' इतदि भगवतैव पूर्वमुक्तत्वेन सर्वप्रत्यक्षगोचरः स इति वाच्यम्, योगिदृष्ट्या तथोक्तेः । योगिनो हि योगबलात् ब्रझेव तमपि प्रत्यक्षीकर्तुं समर्थाः । यद्वा यथा अस्माभिः कर्णपुटे पिहिते नादविशेषो ज्ञायते, तथा प्रणवव्यञ्जको नादो विभाव्यते इति दृष्टान्तोक्तिः, `अलौकिकं लोकदृष्टान्तेन बोधनीयम्' इति सर्वातान्त्रिकाणां समयात् ।

किं च भागवतपर्यालोचनायां सर्वप्रत्यक्षागोचरनादाभिव्यङ्क्यत्वं प्रणावाख्यस्फोटस्य प्रतीयते, वैयाकरणमन्यैस्तु परश्रोत्रग्राझवैखरीनादव्यङ्ग्यतोच्यचे, अतोो वैयाकरणेक्तेः । भागवतस्य च भिन्नविषयत्वेन नेदं भागवतं तेषामनुकुसम् । एतेन `धार्यन्ते यैस्त्रयो भावा गुणानामर्थवृत्तयः ' इति सत्त्वादिगुणादीनां त्रयाणां भावानां (रूपप्रपञ्चस्य) सृष्टिकथनात् नामरूपोभयप्रपञ्चोपादनत्वं स्फोटस्य भगवता व्यासेवोक्तं, तदनुसारेण अस्माभिरपि तथोक्तमित्यपास्तम् । भगवदुक्तप्रणवाक्यस्फोटस्य भवदभिमतस्फोटस्य च भिन्नत्वात् ।

किं च परापश्यन्तीमध्यमावैखरीभेदेन चतुर्विधावस्थाविशिष्टनादेषु पराक्यनादस्य शब्गब्रझत्वं शब्दार्थोभयरूपप्रपञ्चोपादानत्वेनेति `क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् । प्रकृतेर्बिन्दुरूपिण्याः शब्दब्रझाऽभवत्परा' इति वचनबलात् तेन सिद्धान्तितत्वेन, वैखरीव्यङ्ग्यस्य स्फोटस्य कार्यरूपतया, कारणत्वायोगात् तस्य ब्रङत्वानुक्तेश्च ।

न च `एकस्यैव स्फोटस्य शब्दब्रझरूपस्य स्रवशब्दतदर्थोभयोपादनत्वेनोभयोरपि तत्कार्ययोरुपत्वात्' इति स्फोटस्य कारणत्वमुक्त नागेशेनेति वाच्यम्, तत्र स्फोटपदस्य पराख्यावाचक इति सांप्रदायिकैर्व्याख्यानात् । अत एव `क्रियाशक्तिप्रधानस्य' इति प्रमाणोदाहरणं संगच्छते । प्रमाणं परा वाच एव शब्दब्रझत्वोक्तेः किं च `गुणानामर्तवृत्तय' इत्यत्र तिसृणां व्याहृतीनामभिव्यक्तरेभिधानात् । नामप्रपञ्चनिरूपणस्योपक्रमेण इत्तरत्र च वेदादिनामप्रपञ्चनिरूपणदर्शनेन च मध्ये रूपप्रपञ्चसृष्टिनिरूपणं प्रक्रमविरूद्धम् । यद्यत्र रूपसृष्टिरभिमता स्यात् तर्हि आदावन्ते वा चां निरूपयेत् । `आत्मन आकाशः संभूतः, ' (तै.उ.2) `तदैक्षत बह स्यां प्रजायेयेति तत्तेजोोसृजत' (छा.6.2.3) `अप एव ससर्जाऽऽदौ', `आपो नारा इति प्रोक्ताः' इत्यादिश्रुतिस्मृत्यादिभि रूपप्रपञ्चसृष्टिपराभिः आकाशादिरूपपर्पञ्चस्य शब्दात्सृष्ट्यनभिधानाच्च, प्रणवस्य विरूपप्रपञ्चकारणत्वायोगात् । यत्र क्वापि प्रणवात् रूपप्रपञ्चसृष्टिः श्रूयेत, स्मर्येत वा, तत्र प्रणववाच्यपरमात्मन एव सृष्टिरुच्यत इति वेदितव्यस् ।

न च `शब्द इति चेन्नाऽति प्रभवात्प्रत्यक्षानुमानाभ्याम्' (ब्र.सू.1.3.28) इति सूत्रेण भगवान् बादरायणो रूपप्रपञ्चस्यापि शब्दप्रभवत्वमभिधत्त इति स्फोटस्योक्तं जगत्कारमत्वं युक्तमिति वाच्यम्, तत्र `अतः प्रभवात्' इत्यस्य शब्दादिन्त्राद्युत्पत्तेरित्यक्षरार्थेऽपि शब्दस्य स्त्रक्ष्यमाणपदार्थाकृतिस्मारकेत्वेन तात्पर्यात् । प्रजापतिः स्रष्टुकामः प्रथमं वैदिकानिन्द्रादीन् शब्दाननुसंदधानः तद्बोधिताकृतिविशेषान् स्मारं स्मारं तदनुगताकारविशेषविशेष्टानिन्द्रादीन् सृजतीति शब्दस्य सहकारिकारणत्वमेव सूत्रकृता प्राबोधि । अत एव `जन्माद्यस्य यतः' (ब्र.सू.1.1.2) इत्यादिना सूत्रकृता सर्वस्य कगृतब्रझकारणकत्वसिद्धान्तव्याकोपो न । स्पष्टं चेदं शाङ्करे `सब्द इति चेन्न' इति सूत्रभाष्ये । न च स्फोटस्यापि ब्रझकार्यत्वात् ब्रझत्वेन वोक्तसिद्धान्तविरोदोऽस्यमाकमिति वाच्यम्, ब्रझकार्यत्वात् ब्रझत्वेन नोक्तसिद्धान्तविरोधोऽस्माकमिति वाच्यम्, ब्रझकार्यसामान्यस्य ब्रझात्वे तद्वत्कारणत्वे च मानाभावेन स्फोोटस्य प्रपञ्चकारणत्वाऽसिद्धेः । न च `तदनन्यत्वम्' इति कारणानन्यत्वं कार्यस्योक्तमिति वाच्यम्, अविवाभावेनैवानन्यत्वं न तु स्वरूपत इति पूर्वमेव समाहितत्वेन स्फोटस्य ब्रझत्वायोगात् ।

हर्यादिसंमतस्फोटादन्यो भागवतोदितः ।
तस्मान्न मानं तत्सत्त्वं भवेद्भागवतस्मृतिः ।।

स्फोटविषये नैयायिकसंमतिनिरासः

नैयायिकास्तवत् `अस्ति पदानां पदर्थेषु संकेतः न तु वाक्यस्य वाक्यार्थे, स तु पदान्तरसमभिव्याहिररूपारांक्षया अपूर्वो वाक्याऽशक्त्यैवोत्पद्यते । वैयाकरणंमन्यैर्निरूपितो विलक्षणस्वरूपः स्फोटस्तु वास्त्येव' इति वदन्तीति विदितम् ।

मञ्जूषाकृतद्तु--प्रथमपरिच्छेदे `ठसंबन्धछ पदे वाक्ये च तदाह न्यायभाष्यकारः `समयज्ञानार्तं च' इत्यादिना `वाक्यस्फोटो नैयायिकाऽसंमत इति परास्तम्" इत्यन्तेन ग्रन्तेन तद्भाष्योपन्यासपूर्वं पदेष्विन वाक्येष्वपि ऐश्वरसमय इति स्पष्‌टमेवोक्तमिति भाष्याभिप्रायं वर्णयित्वा नैयायिकैरपि व्क्ये शक्तिः, स्फोटश्चाऽङ्गी क्रियत इति प्रतिपादयन् नैयायिका अपि स्वानुकूला इति बोधनाय तदनभिमतं प्रमेयं तत्तात्पर्यविषय इति ब्रते ।

तत्र `समयज्ञानार्थमिदं पदलक्षणाया वाचोऽन्वाख्यानं व्यकरणम्, वाक्यलक्षणाया वाचोऽर्थलक्षणम' इति भाष्यम्, अनेन--तन्मते वाक्यशक्तिः, स्फोटश्चास्तीति शब्दतोऽर्थतो वा कथं लभ्य इति विचक्षणैर्विचार्यम् । किं च तत्र (द्वि.अ.प्र.आ.56.सूं) `समयपालनार्थं'......अर्थो सक्षणम्' इति पाठो दृश्यते, तत्र व्याकरणं पदसाधुत्वबोधकम्, अर्थः -तत्समूहः, लक्षणम्-भेदकम्, वाक्याभासात् साधुवाक्तस्य व्यावर्तकं अबाधिताऽर्थो वाक्यसाधुत्वबोधक इति तदर्तं तद्व्याक्यातार आहुः । किं च स्फोटस्य `एतेन तावद्वर्णाभिव्यङ्ग्यः तद्व्यञ्जकेनैवोपपत्तेरिति' इति मुक्तावल्यां शब्दखण्डे दूषितत्वेन, न्यायमञ्जर्यां (6.आ.) न्यायसूत्रभाष्यवार्तिकतात्पर्यटीकादितात्पर्यं निरूपयता जटन्तभट्टेन `निर्मूलोऽयं वादो गन्धर्वनगरसोदर' इति अतिरिक्तस्फोटवादस्य दूषितत्वेन च नैयायिकसंमतः स्फोट इति कथं संगच्छते । इदं च तदनुक्ततदनभिमतार्थाभिधानमिति विदाङ्करुत ।. एतेन--`अर्थलक्षणम्' इत्येव पाठमवलम्ब्य व्याकरणापदस्यात्रपि संबन्धः । ततश्च वाक्यरूपवाचः अर्थबोधजनकताबोधकमित्यादिव्याख्यानं न्यायभाष्यतद्व्याक्यानानवलोकनमूलकमेव । एतेन नागेशो ग्रन्थपाठमप्यन्यथाप्रकल्प्य स्वैकं ग्रन्थार्तं वक्तीति वक्ता निरङ्कश इति च स्पष्टं जानन्तु ।

स्फोटो गन्धर्वनगरसोदरस्त्विति तार्किकैः ।
दूषितः स कथं तेषां मतः स्यादिति चिन्त्यताम् ।।

स्फोटस्य ब्रझत्वादिनिरासः

वर्णपदवाक्यभेदेन स्फोटस्तावत् त्रिविधः जातिव्यक्तिभेदेन ते पुनर्द्विविदाः इति षोढा संपन्नाः । अकण्डपदस्फोटोऽखण्डवाक्यस्फोट इति द्वैविध्येन अष्टौ । तत्र `वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः' इति हर्युक्तेः वाक्यस्फोटो मुख्यः, तत्रापि जातिस्फोटः परममुख्यः ।

संबन्दिभेदात्सत्तैव भीद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।।

तां प्रातिपदिकार्तं च धात्वर्थं च प्रचक्षते ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।।

इति हरिकारिकार्थसंग्रहक--

सत्याऽसत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।
सत्यं यत्तत्र सा जातिसरसत्या व्यक्तयो मताः ।। 70 ।।

इति कारिकया निरूपयन् दीक्षितः -- " प्रतिवस्तु काचिदनुगता सत्ता जातिपदाच्याऽस्ति । सा च सत्ता ब्रझैव `आत्मैवेदं सर्वम्' इत्युक्तेः । सत्तापर्यायः तस्यशब्दः । जातिपदवाच्या सत्ता शब्देऽर्थे च वर्तते । तत्र शब्दकत्वं च, लाघवात् । तदुक्तम्---

शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ।
औपाधिको वा भेदाऽस्ति वर्णानां तारमन्दवत् ।।

 इति । एवं च--तत्तद्व्यक्त्यवच्छिन्नं ब्रझैव जातिः ब्रझातिरिक्तं च सद्वस्तु नास्तीति आत्मैकत्वसिद्धिः । ततश्‌च शब्दविचारे प्रवृत्तस्य औपनिषदे ब्रझणि व्युत्पत्तिरूपजायते । वराटिकान्वेषणाय प्रवृत्तस्य चिन्तामणिलाभवत्" इति व्याकरणसास्त्राध्ययनस्य परमं प्रयोजनं कौस्तुभे प्रथमाह्निकेऽवर्णयत् ।

अत्र वदन्ति--ईदृशमहाप्रयोजनं शब्दविचारं परिहाय, शङ्कराचार्यादयो महान्तो व्याचक्षाणा ब्रझज्ञानं मुक्तिसाधनमिति कुतो व्यवस्थापायामासुरिति प्रथमतो विमर्शनीयम् । तेषां त्वयमाशयः -- अधीतवेदवेदाङ्काः कर्मादिना वीधूतान्तःकरणदोषाः शुद्धान्तःकरणा `आत्मा वा अरे' इत्यादिश्रुतिचोदितात्मोपासनया ब्रझज्ञानवन्तः प्रत्पपरमात्मानुग्रहाः त्यक्तदेहा मुक्ता भवन्ति नाऽन्योपायेनेति ।

ननु

द्वे ब्रझणी वेदितव्ये शब्दब्रझ परं च यत् ।
शब्दब्रझणि निष्णातः परं ब्पझाधिगच्छति ।।1

इति शब्दविचारे प्रवृतव्ये ब्रझाधिगमरूपमोक्षलाभाष़भिधानात् युक्तं कौस्तुभोक्तमिति चेत्, न । तत्र श्रुतौ वा, स्मृतौ वा, शब्रब्रझेत्यस्य वेदेत्यर्थेन, वेदार्थवुचारासक्तस्य ब्रझप्राप्तिरिति तत्तात्पर्यात् । अत एव `परं च यत' इति परब्रधणोऽपि वेद्यत्वोक्तिः संगच्छते । एतेन स्फोटसद्भावे वचनमिदं मानमिति निरस्तम् । न च भाष्यकृता शास्त्रानुषङ्किकप्रयोजननिरूपणावसरे `चत्वारि शृङ्गाः', `सक्तुमिव' इत्याभ्यां साधुशब्दज्ञानस्य महादेवसाम्यं, ब्रझसायुज्यं च भवतीति निरूपितत्वेन मोक्षः फलं शब्दविचारस्येत्युक्तं भवति, साम्यसायुज्ययोरेव मोक्षत्वादिति वाच्यम् । योगो `तस्य वाचकः प्रणवः, तदर्थचिन्तनम्' इति सूत्राभ्यामीश्चरस्य वाचकः प्रणवः, प्रणवप्रतिपाद्यगुणविशिष्यत्वेन ईश्वरचिन्तनं मुक्तिसाधनमिति प्रतिपादयतः पतञ्जलंः शब्दज्ञानेन मोक्ष इत्यत्र न तात्पर्यम्, किं तु शब्दज्ञानेन निर्मलचित्तत्वरूपसाम्यम्, ब्रझज्ञानसाधनवेदापर्थविचारमासर्थ्यपकंपच्च भवतीति श्रुतितात्पर्यमिति भाष्याशयात् । अत ेव--अधीतसाङ्गसर्ववेदादेर्नारदस्य श्वतेकेतोश्च `नामविदेवास्मिन्नात्मवित्' (छा.7.2) इति आत्मज्ञानाभावश्रवणम्, `भगवांस्त्वेव मे तत् ब्रवीतु' (छा.6.1.4) इत्यात्मोपदेशप्रार्थनं च संगच्छते । यदि शब्दज्ञानादेवात्मज्ञानसिद्धिः, तर्हि तयोरधीतव्याकरणत्वेन शब्दविचारादेव ब्रझज्ञानसिद्धौ, श्रुतौ तदभावश्रवणं, तत्प्रार्थनं चासंगतं स्यात् । अत एव भाष्ये व्याकरणस्य अङ्गत्वमेवोक्तं `प्रधानमङ्गेषु व्याकरणम्' इति । वेदार्थविचारस्य साधकमिति तदर्थः । अत एव च व्याकरणसायापरविद्यात्वमुक्त्वा परब्रझविद्य अन्योति `द्वे विद्ये वेदितवेव्ये परा चैवापरा च' (1) इत्यादिनोक्तं मुण्डेके । अत एव च `अइउण्' आदीनां माहेश्वरसूत्राणां ब्रझपरतया व्याख्यानेन सनकादीनां ब्रझज्ञानोत्पादनं सफलम्, अन्यथा माहेश्वरसूत्रमूलकपाणिनीव्याकरणेन शब्दविचारादेव तेषां ब्रझज्ञानासंभवे तद्व्यर्थं स्यात् । किं च स्फोटस्य ब्रझत्वमित्यपि न युज्यते । स्फोटवादिनो मते स्फोटातिरिक्तवस्तुनोऽभावेन असत्त्वेन च ब्रझ नास्तीति सिद्ध्या निरूश्वरवादान्तर्भावः, स्फोटस्य ब्रझत्वसिद्धिः । ब्रझावादिमते तु ब्रझान्यस्य स्फोटस्याप्यसत्त्वापत्त्या न तत्सिद्धिः । ततश्च--`आत्मैवेदं सर्वम्' इति सर्वस्यात्मत्वात् स्फोटस्यापि तत्त्वमिति चिन्त्यम् । एतेन ईश्वरे तु न किंचिन्निरूपितो भेदः सर्वरूपत्वात्तस्येति मञ्जूषायामनूदितग्रन्थोक्तमपि चिन्त्यम् । ईश्वरस्य सर्वरूपत्वे मानाभावात्, न च स्फोट एव ब्रझेति मतमिति वाच्यम्, तथार्थकश्रुत्यादिप्रमाणाभावात् । भाष्यादौ तथानुक्तेश्च । `न हि न हि सक्षति डुकृञ्करणे'। न शब्दशास्त्रादिभितस्य मोक्षः ।

शब्दब्रझणि निष्णातो न निष्णायात्परे यदि ।
श्रमस्तस्य श्रमफलो झधेनुमिव रक्षतः ।। (भाग.11.11.18)

इत्यादिभिः शब्दविचारमात्ररतस्य ब्रझाधिगममोक्षतत्साधनज्ञाना भावस्याऽभियुक्तैर्निर्धारितत्वेन कौस्तुभाद्युक्तं नाद्रियन्ते परापरतात्ववेदिनो भाष्यविदश्च ।

स्फोट एव विप्रतिपन्नो बहुभिरनङ्गीकारात् । कैयटस्तु, `क्विचित् वर्णस्फोटमाह, क्वचित् पदस्फोटमाह, क्वचित् वाक्यस्फोटमाह, क्वचित् जातिस्फोटमाह' इत्येवं वदन् भाष्यस्य स्फोटे तात्पर्यमाह । तथातात्पर्यवर्णनं च तत्तद्भाष्याक्षराननुगुणमेव । किं च स्फोटस्वरूपं, तस्य वाचकत्वम्, तस्य ब्रझस्वरूपत्वं च यदि भाष्यकृदभिमतं भवेत्, तदा `किं पुनरिमे वर्णा अर्थवन्तः, आहोस्वित् अनर्थकां, किं पुनर्नित्यः शब्दः, आहेस्वित्कार्थ' इत्यादिना यथा वर्णादीनामर्थनत्त्वादिकं सविचारं व्यवस्थापितवनान् भाष्यकारः तथा `किं पुनर्ध्वनिर्वाचकः, अथ स्फोट' इति प्रत्रम्य, स्फोटस्य वाचकत्वादिकं सर्वं व्यवस्थाप्य तज्ज्ञानादपवर्ग इत्येव व्यवस्तापयेत् । तथा न व्यवस्तापयामास । तेन मन्यामहे कौस्तुबाद्युक्तं न भाष्यादिसंमतमिति ।

यदत्र मते `अद्वैतिनां मते जातेरनित्यत्वेन, निराश्रयजातिसद्भावे मानाभावाच्य, अपागातद् यदग्नेरन्गित्वमिति जातेर्नाशश्रवणाच्य' इति नागेशोक्तदूषणम्, तत्सर्वं जातिस्फोटवादिनस्तस्य मतेऽपि समानम् । किं च अद्वैतिनां मते जातेरनिकत्यत्वे अस्मारं का हानिः ? भाष्यकृता जातेरनित्यत्वानुक्तेः । `व्यक्तिषूत्पाद्यमानास्वपि आकृतीनां नित्यत्वात् न गवादिशब्देषु कश्चिद्विरोधः' इति `शब्द इति चेन्न' (ब्र.सू.1.3.17) इति सूत्रे शङ्कराचार्यैंर्जातेर्नित्यत्वोक्तेः `अद्वैतिनां मते जातेरनित्यत्वात्' इत्युक्तिरयुक्ता । जातिस्फोटवादिनां प्राचां मते जातेर्ब्रझस्वरूपत्वेन नित्यत्वात् तस्य निवृत्त्ययोगात् `अपागात्' (छा.6.4) इति श्रुत्युक्ता निवृत्तिः न जातेः, किं तु अन्गि पदव्यवहार्यत्वस्य । अतः नव्योक्तदूषणं न सम्यगिति ।

स्फोटो ब्रझ ततस्तस्य विचाराद्ब्रझदर्शनम् ।
मोक्षं चान्पोति पुमानिति कौस्तुभकृन्मतम् ।।

न युक्तं तेन तत्रार्थे नोदाहारि मुनेर्वचः ।
विरूद्धं ब्रझमीमांसा परश्रुत्यादिभिर्यतः ।।

अतो ब्रझविदां नैतत्संमतं पाणिनेरपि ।
इति निश्चीयते ब्रझ विचारचतुरैर्जनैः ।।

नागेशसंमतजातिस्फोटनिरासः

`जातिस्फोट एव परमसिद्धान्तः जातिस्तु अनुगताकारप्रतीतिजनको धर्मः, तस्य तल्लक्षणत्वोपपत्तये अनुगताशक्तिग्रहसिद्धये च तत्तत्कालतत्तद्वर्णनुरागरूपभेदेन स्फोटानन्त्यम् । आत्मैकत्ववादिनामात्मत्वस्य जातित्वसुद्धये उपाधिवशादात्मनानात्ववत् तद्वृत्तित्वेन तस्य जातित्वम् । तस्योपाध्यवच्छिन्नत्वे व्यक्तिस्फोटत्वम् । उपाध्युपलक्षितत्वे जातिस्फोटत्वम्' । (म.1.प) इति नागेशः । अत्रेदं वक्तव्यम्--महता प्रयत्नेन साधितः स्फोटः, किं जातिः, उतान्यः । आद्यें अद्वैतिनां मते जातेरनित्यत्वेन, निराश्रयदातिसद्भावे मानाभावाच्चेत्यादि परं प्रति तदुक्तदूषणं तन्मतेऽप्यापतति । अन्त्ये तु जातिस्फोट इति सिद्दान्तभङ्गः । `अद्वैतिनामात्मभेदवत्' इति दृष्टान्तोऽसंगतः । तेषां मते आत्मनो द्रव्यत्वमिति तत्र जातेरस्तिता युक्ता । नागेशमतसिद्धस्य स्फोोटस्य तु जातित्वेन तत्र जातेरङ्गीकारायोगात्, `जातौ जातेरनङ्गीकारात्' इति तान्त्रिकन्यायात् . किं च लोके बोध्यवृत्तिनाऽनुगताकारधर्मेण तथाप्रतीतिरित्यनुभवः न तु बोधकवृत्तितादृशधर्मेण . अत औपाधिकानन्तस्फोोटकल्पनाप्रयासो विफल एव । किं च उपाधिसंबन्धस्य सार्वकालिकत्वे स्फोयभेदस्य निरुक्तधर्माश्रयत्वस्य च सार्वकालिकत्वेन, स्फोटस्यैकत्वाखण्डत्वभङ्गः । कादाचित्कत्वे निरूक्तधर्मरूपजातेराश्रयासिद्धिः । किं च एवंकल्पने स्फोटनिष्ठजातेरेवात्तासाभेन वर्णाद्यतिरिक्ततया साधितस्य वैखरीव्यङ्ग्यस्य मध्यमनादस्य स्फोटस्य नार्थवत्ता सिध्यतीति स्फोटोऽर्थवानितिि पूर्वेकितिश्चिन्त्या स्यात् । न च तस्यैव स्फोटस्य औपाधिको भेदः भिन्नव्यक्तिवृत्तित्वं चेति दातित्वमिति नोक्तदोषावक्श इति वाच्यम्, एवं कल्पने भाष्याद्यनुग्रहाभावात् । कल्पिता नामसत्वं वदतो मते व्यक्तिभेदस्य तद्वृत्तित्वस्य चासत्त्वेन उक्तजात्यसिद्धेः स्फोटातिरिक्तस्य सर्वस्य मिथ्यात्वन (असत्त्वेन) स्फोटानन्त्यसंपादकसमग्रीसंपदो दुर्लभत्वात् । अत्र पक्षे स्फोटव्यवस्थापरहरिकटाक्षोऽपि मृग्यः । भाष्याद्यननुगृहीतपदार्थसाधने प्रयतमानानां पक्षपरिग्रहे लाघवगौरकचर्चापि शुष्ककोलाहल एवेत्यलम् ।

कालवर्णानुरागेण स्फोटानन्त्यं प्रकल्ष्ते ।
स्फोटत्वं वर्तते तत्र ततो जातिरितीर्यते ।।

इत्येवं कल्पने मानं भाष्यादौ न प्रदृश्यते ।
अतो नागेशवचनं न युक्तमिति सूरयः ।।

पातञ्जले हि भाष्ये लोके वाचकत्वेन प्रसिद्धशब्दातिरिक्तविलक्षणस्फोटस्वरूपं न नीरूपितम्, नित्यत्वं तावच्छब्दानां तत्र तत्र प्रतिपादितम् । तेन मन्यामहे वाचकानां नित्यता तावत् प्णिनेर्भाष्यकृतश्चाभिमतेति ।

खण्डितश्चायं स्फोटवादः `प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः' इति सूत्रेण सांख्याचार्यैः, तदुनुयायिनोपवर्षनाम्ना चाऽऽचार्येण । किं च श्रीशङ्कराचार्यैस्तदनुयायिभिरुत्तरमीमांसायां देवताधिकरणे (8), कुमारिलभट्टेन तन्त्रार्तिकं, पार्थसारथिमिश्रेण शास्त्रदीपिकायाम् `औत्वक्तिक' (1.1) इति पञ्टमाधिकरणे, जयन्तभट्टेन न्यायमञ्जर्याम् (6.आ.), विश्चनाथेन मुक्तावल्यां शब्दखण्डे, श्रीरामानुजमुनितदनुयायिभिर्भाष्यतद्व्याख्याश्रुतप्रकाशिकातत्त्वटीकासु जिज्ञासादिकरणे, वादान्तदेशिकः तत्त्वमुक्ताकलापे च, श्रीमज्जयतीर्थसंयमीन्द्रैः जिज्ञासाधिकरणसुधायां, तत्त्वनिर्णयटीकायां च स्फोटवादो बहुधा निराकृतः । न च अन्यैर्दूषणमात्रेण कखमस्मदाचार्यसिद्धान्तः शक्यस्त्यक्तुमिति वाच्यम्, भाष्यादावनुक्तेरपाणिनीयत्वेन आचार्यसिद्धान्ताभावात् ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु ग्राझं ये गुणवत्तमा ।। (या.व.व्य.78)

इति व्यवस्थापकन्यायेन, स्फोटमनङ्गीकुर्वाणानां बहुत्वेन, गुणित्वेन च तेषां वचनस्यैव ग्रझत्वाच्च । यत्तु--`ब्रझाक्षरसमुद्भवः' (गी.3.15) इत्यत्र ब्रझपदं स्फोटपरम्, अक्षरपदं तद्व्यञ्जकपरमिति यादवप्रकाशेन व्याक्यानात् स्फोटो व्याससंमत इति, पाणिनेरपि संमत एवेति, तन्न । तत्र ब्रझपदेन कर्मकारणवस्तुनो ग्राझतया स्फोटस्य क्वापि कर्मकारणत्वानुक्तेः । तत्र-कर्म ऋत्विग्यजमानव्यापारः, ब्रझ-वेद इति शाङ्करीये, ब्रझ-प्रकृतिरिति रामानुजीयं व्याख्यानात्, अन्यैश्च-तत्र ब्रझ-परमात्मैव--

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्तएव पृथग्विधाः ।। (गी.10.5)

इति गीतायां परमात्मनां सकाशादेव दानादिकर्मसंभवाभिधानादिति व्याख्यानाच्च यादवप्रकाशोक्तरेनादरणीयत्वत् । न च `अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः' इति हरिवंश हरेः स्फोटत्वोक्तेः स्फोटस्द्धिरिति वाच्यम्, तेन नागेशाद्यभिमताऽसिद्धेः, तथाहि-वर्णसंश्रयः, तदात्मक इति यावत्, स्फोटः - वाचकत्वधर्मः सः, त्वम् त्वदधीन इत्यर्थः । राजा राष्ट्रमितिवत् सामानाधिकरण्येन व्यवहार इति वचनतात्पर्येण नागेशाद्युक्तविलक्षणस्फोटसद्भावे तस्य प्रमाणत्वाभावात् । न च `सूक्ष्मामर्थेनाऽप्रविभक्ततत्त्वाम्' इत्यादि श्रितिः, `प्राणाऽपानान्तरे देवि' इत्यादि भारतं च तत्र प्रमाणमितदि शक्तिवादे मञ्जूषायामुक्तमिति (4.20) वाच्यम् । एतयोः श्रुतिस्मृत्योः भाष्यादावानुदाहरणात्तयोरुक्तार्थेऽप्रमाणत्वात् । अत एवोक्तं `श्रुतिस्मृती हरुग्रन्थे स्फोष्टे' इति नागेशेन । अत एव चोक्तं भाट्टदीपिकायां (1.3.11 अ.) `श्रितिविरुद्धमिदम्' इति । श्रुतिस्मृत्योः स्फोोोटपदाश्रवणात् तयोः स्फोटपरत्वं दुर्वचम् । श्रुत्यर्थस्तु--एकाम् - विभागात्पूर्वमेकत्वेन स्थिताम्, आत्मनि संनिविष्टां-परमात्मैकपराम्, नानारूपाम्-अनेकशाखाम्, आत्मनि संनिविष्टां-परमात्मैकपराम्, नानारूपाम्-अनेकशाखाम्, सूक्ष्मां-णनन्तत्वात् दुर्विज्ञेयाम्, अर्थेन अप्रविविक्ततत्त्वां-नित्संबद्धाम्, अभिष्यन्दमानाम्-अभिमतार्थुप्रदाम्, तां वाचम्-वेदवाणीम्, अन्यामिव-देवतान्तरप्रतिपादनपरामिव, अन्ये-तत्त्वार्तानभिज्ञाः, विदुः - जानन्ति' इति । `नारायणपरा वेदा' (शा.357.77) इत्यादि भारतवचनादिभिर्वारायणपरत्वेन निर्णीतं वेदम्, इतिहासपुराणाद्यपपबृहणानभिज्ञा उपक्रमादितात्पर्यलिङ्गानभिज्ञाश्च प्रतीयमानदेवतान्तरपरं मन्यन्त इति भावः । शब्दानां नाभ्यादितत्तद्येशसंबन्धेन परदिव्यवहार इत्येव भारतवचनानां तात्पर्यम् । अतः श्रुतिभारतयोर्न स्फोटपरत्वम् ।

भाष्ये भाश्यकृता क्वापि स्फोटोऽयं न समर्थितः ।
आचार्यैर्वहुभिश्चायं स्फोटवादः प्रदूषितः ।।

श्रुतिस्मृती न प्रमाणं तत्र स्फोटपदाश्रुतेः ।
अतः कैयटभट्टोजीनागेशोक्तं न सांप्रतम् ।।

स्फोटदूषणासंगतिनिरासः

ननु इयमपाणिनीयता स्फोटस्य, स्पष्टीकृचा खलु ग्रन्थकृतैवोसंहारे---

वैयाकरणनागेशः स्फोटायनऋषेर्मतम् ।
परिष्कृत्योक्तवास्तेन प्रीयतामुमया शिवः ।।
 
इत्यन्निमद्येन स्फोटायनमतनिष्कर्ष एव मया कृतः इत्यभिधानेन । अतोऽत्र भवतः प्रवृत्तिरफला, आचूडं तदीग्रन्थाऽनवलोकनमूला चेति मन्मह इति चेत् उच्यते---संपूर्णं तदीयं ग्रन्थमवलोक्यैव वयमत्र प्रवृत्ताः । तेनोपसंह्रे तथाभिधानेऽपि आदौ `वैयाकरणसिद्धान्त' इति सामान्यनिर्देशेन, तत्र तत्र महाभाष्यवाक्यानामुदाहरणेन, कला.यां `पाणिन्यादीनाम्' इति वैयाकरणपदव्याख्यानेन मुदाहरणेन, कलायां `पाणिन्यादीनाम्' इति वैयाकरणपदव्याख्यानेन च, पाणिनेरप्ययं स्फोटोऽभिमत इति नागेशाशयो व्यज्यते । उपसंहारवाक्यस्य तु स्फोटस्य स्फोटायनमुन्युपज्ञतामात्रे तात्पर्यम् । यद्यपाणिनीयत्वं नागेशाभिमतं, तर्हि महाभाष्यवाक्यानि नोदाहरेत् ।

स्फोटस्य तदुपज्ञतायां मानं तु--स्फोटोऽयनं प्रतिपाद्यतया आश्रय इत्यन्वर्थनामेद तस्य ऋषेरिति `अवङ्स्फोटायनस्य' (पा.सू.6.1) इति सूत्रशेखरोक्तिरेव । तर्हि--कुतोऽयं ग्रन्थकारः स्फोटे तदीयवचनं प्रमाणतया नोदाजहारेत् चोद्यस्य समाधानं स एव नागेशः प्रष्टव्यः । स्फोटायनस्येति पाठपक्षे तु समाधानं स एव नागेशः प्रष्टव्यः । स्फोटायनस्येति पाठपक्षे तु स्फोटप्रातिपदिकात् `नडादिभ्यः फक्'(4.1.99) इति फक् । अत्र पक्षेस्फोटायननामाऽन्यः कश्चन ऋषिःस्फोटस्य स्मर्ता इति `स्फोटायन ऋषेर्मतम्' इति नागेशवचनतातद्पर्यं बोध्यम् । अथ वा--स्फोटायनपदात् बिदादित्वादञ्, बिदादिराकृतिगणः, निर्वचनं तु उक्तमेवेति । एवं च--उपक्रमोपसंहारयोरानुगुण्येन प्राप्तपाणिनीयत्वसंशव्युदासायायमुद्यमः ।

आदौसामान्यनिर्देशात् भाष्योदाहरणादपि ।
पाणिनीयोऽथवा नेति स्फोटे भवति संशयः ।।

अतस्त त्परिहारेण प्रवृत्तिः सफला मम ।
उपसंहारवाक्यं तु तदुपज्ञत्वबोधकम् ।।

शक्तिविचारः
अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरेच्छा शक्तिः । तामेव संकेत इति व्यवहरन्ति नैयायिकाः अपरे तु अभिधायकत्वमिति वदन्ति । एतन्मूलक एव शब्दार्थयोः प्रत्याय्य प्रत्यायकत्वलक्षणः संबन्धः,4 बोध्यबोधकत्वं वाच्यवाचकत्वं चेति शास्त्रे व्यवहारः तत्र जातौ कार्यन्विते चार्थे शक्तिरिति मीमांसकाः । अनन्विते जात्यवच्छिन्नेऽर्थे इति नैयायिकाः । क्वचिजाजातौ, क्वचिद्व्यक्तौ इति वैयाकरणाः । नागेशस्तु क्वचिदन्वितेऽपीत्याह । अन्वित एवार्थ इत्यभियुक्ताः । `वेदान्तिनस्तृ णन्विते पदानां शक्ति' रिति पदार्थदीपिकायां कौण्डभट्टः । अत्र प्रमाणोदाहरणानि तत्तद्ग्रन्थेषु द्रष्टव्यानि । तत्र च शक्तिग्काहकशिरोमणिः वृद्धव्यवहार एव बहुसंमताऽन्विताभिधाने मानमिति वदन्ति । तथा हा--`गामानय' इत्यादि प्रयोजकवृद्धवाक्यश्रवणोत्तरं गवायनादिप्रयोज्यवृद्धकर्तृकव्यापरं पश्यन् पार्श्वस्थो बालः प्रयोज्योऽयं आनयनान्विते गवि शक्तिं गृहीतवानित्यनुमाय प्रथमं गोपदस्य आनयनान्विते गवि शक्तिं गृङ्णाति, `गां बधाने' ति वात्यान्तरं श्रुतवतो मध्यमवृद्धस्य गोबन्धनव्यापारं पश्यन् आनयनांशप्रमोषेण बन्धनक्रियान्विते शक्तिं गृह्णन् गवादिपदार्थे योोग्येतरान्वययोग्यताऽस्तीति जानाति । ततः -- `गौः, घट, पटः' इत्यतिङन्तावाक्यश्रवणे तत्र क्रियाबोधकपदाभावात् विसेषक्रियाश्रवणेऽपियोग्यक्रियादीतरान्विते गवादौ गोपदादेः शक्तिं गृह्णाति, इत्यनुऊवात् अन्वितार्थवाचकत्वं पदानां युक्तम् । प्राथमििकशक्तिग्कहविषयाणां त्रयाणामन्वयक्रियातद्विशेषाणां मध्ये उक्तदिशा क्रियातद्विशेषरूपाशद्वयपरित्यागे भिन्नभिन्नक्रियावाचकपदाश्रवणरूपकारणसत्त्वेपि अन्वयांशत्यागे कारणाभावः । `घटमानय' इत्युक्ते किं नीलः, अत रक्तो घट आनेतव्यः, `नीलमानय' इत्युक्ते किं नीलः, उत रक्तो घट आनेतव्यः, `नीसमानय' इत्युक्ते किं घटः उत पटः, `सुन्दरमानय' इत्युक्ते किं पुरुषः अथ घटः, `देवदत्तमानय' इत्युक्ते किं पण्डित अथाऽपण्डितः, अथ ब्रझणः, उत अब्राझणः, `देवदत्त' इत्युक्ते किं करोति, `पचति' इत्युक्ते क इति जीज्ञासोदयश्च, अन्विताभिधानं द्रढयति । यद्यन्वितोऽर्थे वाच्यो न भवेति एवंविधजिज्ञासैव नोदियात् । किं चात्र `कारक' इति सूत्रस्थमहाभा,्यानुग्रहोऽप्यस्ति । तथा हि--- `अन्वर्थसंज्ञा यथा विज्ञायेत करोतीति कारकमिति' इति भाष्यम् । अत्र कैयटः -- `साध्यत्वेन क्रियैव शब्दात्प्रतीयते क्रियाया निर्वर्तकस्य कारकसंज्ञा' इति । अत्रोद्योतः -- `क्रि.याया एव शब्देन साध्यत्वप्रतीतेः निर्वर्तार्थे कारकशब्दे संबन्ध्याकाङक्षायां सैव संबध्यत इति भाव' इति । `अथवा यावत् ब्रयात् क्रियायामिति तावत्कारक इति' इति भाष्यम् । सा हि कर्त्रादीनि विशिष्टव्यपदेशयुक्तानि करोति, विषयत्वं च, जनकत्वमेव' इत्युद्योतः । अत्र संबन्द्याकाङक्षायां सैव संबन्ध्यते, विषयत्वंम जनकत्वम्' इत्युद्योतोक्त्या, क्रियाकारकपरयोर्व्युत्पत्तिप्रदर्शनपरभाष्येण च, क्रियाकारकपदानि ससंवन्धकार्थकानि, अतोोो नियतपरस्पराकाङक्षाजनकार्थवाचकानीति अन्वितार्थाभिधानसमर्थानि भवन्ति, एतद्दृष्टान्तेन सर्वाणि पदानि तादृशानीति शक्यं वक्तुम्, सर्वत्राकाङ्क्षाऽस्तीति पूर्वमुपपादितम् । अन्वययोोद्यार्थान्तकविषयकाकाङ्क्षाजनकार्थाभिधानसमर्थत्वमन्वितर्थवाचकत्वम् । ततश्च अन्विताभिधानेऽस्ति भाष्याद्यनुग्रह इति बोध्यम् । अत एव मञ्जूषायां `क्वचितु पदैरितरान्वितस्वार्थबोधनमस्त्येव...प्रविश पण्डीमित्यादौ......विशिष्टशक्तिग्कहकालेऽनुनिष्पाद्यवयवानामपि तत्र शक्तिग्रहात्' इत्युक्तम् । `गेहं प्रविश, पिण्डीं भक्षय' इत्यादिवाक्यैः विसिष्टार्थविषयशक्तिग्रहात् इति मञ्जीषार्थः । `इग्यण' इति सूत्रस्थ `प्रविश पिण्डीम्' उत्यादेरप्येवमेव व्याख्यानं कृतमुद्योते । एवं च योग्येतरान्वितार्थे पदानां शक्तिरिति भाष्यसंमतमिति वदन्ति । `द्वौ ब्राझणौ' इत्यादाविव पौनरुक्त्यं बोधावृत्तिश्चेति दोषद्वयं सुपरिहकमिति वेदितव्यम् ।

तत्र प्रत्यायकत्वं शक्तिरित्येतत् भाष्यकृतां संमतः पक्षः । `येनोच्चारितेन सास्त्रालाङगूलखुरककुदविषाणिनां संप्रत्ययो भवति स शब्द' इति पस्पशायां भाष्यकृता अर्थसंप्रत्यजनकत्वं शब्दत्वमिति शब्दलक्षणनिरूपणद्वारा `प्रत्याकत्वं' (अर्तप्रत्यायकत्वं) शक्तिरिति शक्तिस्वरूपस्यापि निरूपणात् । अनेन च शब्दार्थयोः प्रत्याय्यप्रत्यायकभावः संबन्ध इत्युक्तं भनति । स च संबन्धो नित्यः `सिद्धे शब्दार्थसंबन्ध' इति वार्तिकभाष्याभ्यां सब्दार्थतत्संबन्धानां नितद्यत्वबोधनात् । `औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' (जै.सू.) इति सूत्रस्थ औत्पत्तकपदस्य `पदपदार्थसंबन्धस्य नित्यत्वमौत्पत्तिकपदेनोक्तम्' इति पार्थसारथिमिश्रैर्व्याक्यानात् तत्तत्संबन्धनित्यत्वं जैमिन्यादीमप्यभिमतमिति बोद्यम् । तत्र औत्पत्तिकपदस्य शब्दाभिव्यक्तिकालिक इत्यर्थः, बोधकत्वशक्तिविशिष्टशब्दस्यैवाभिव्यक्तिः, ततश्च स्वाभाविक एव शब्दार्थयोः संबन्ध इति भाष्यादिभावः एवपमेव मन्यन्ते बहव आचार्याः संबन्ध इति भाष्यरूढः पक्षः, भाष्येऽनुक्तेः, `येनोच्चारितेन अर्थसंप्रत्यय' इति भाष्येण चार्थप्रत्यायकत्वं संबन्ध इत्येवावगमात् । एत एव--`सब्दार्थप्रत्ययानामितरेतराध्यासात्संकीर्ण' (3.17) इत्यादि विभूतिपादीययोगसूत्रभाष्यतद्व्याक्यानेषक्तोप्यध्यासो न शाब्दिकैराश्रयितुं शक्यः, महाभाष्येऽनुक्तेः । योगभाष्यचे वाचस्पतिना `संकेतोपाधिरेकाकार प्रत्ययो न तु तात्त्विक' इत्युक्तत्वेन तयोस्तादात्म्यं न वास्तवमित्यवधे.यम् , किं च एकाकारप्रत्ययो न तात्त्विक इति तत्रोक्तेस्तन्मूलकतादात्म्यमपि अतात्त्विकमेव । ्ञ्जूषायां प्रातिपदिकार्थचिचारे तादात्म्यस्य संबन्धत्वनिराकरणाच्च । विस्तरस्तु सारव्याख्याने दर्पणे शक्तिवादे . वक्ष्यते चैतत्किंचित् शाब्दे शब्दभानविचारेऽत्रैव । `अर्तं शृणु'1 इत्यादिप्रयोगास्तु लक्षणया निर्वोढव्याः । भर्तृहरिरपि मन्यते शब्दानां बोधकत्वसंबन्धः स्वाभाविक इति तदीयकारिकया निूरूपयामः । तथा हि--

उपकारः स यत्राऽस्ति धर्मस्तत्रानुमीयते ।
शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुणः ।।

इन्द्रियाणां स्वविषये झनादिर्योग्यता यथा ।
अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा ।।

समयाद्योग्यतासंविन्मातापुत्रादियोगवत् ।
संबन्ध(न्धि)शब्दे शंबन्धो योग्यतां प्रति योग्यता ।। इति ।

अयमर्थः-यत्र, उपकारः-उपकारस्वभावः, सः-संबन्धः, यत्राऽस्ति, तत्र, धर्मः-कार्यजनकत्वशक्तिरूपो धर्मः, अनुमीयते । असौ-संबन्धः, शक्तीनामपि--कार्यजनकत्वसामर्थ्यानामपि, शक्तिः - तत्प्रदा (तदुत्तेजिका) । यथा दीपः वस्तुप्रकाशकत्वसामर्त्यवानपि वस्तुसंबन्धादेव वस्तु प्रकाशयति, तता शब्दः स्वाभाविकशक्तिमानपि अर्थसंबद्धः अर्थमुपस्थापयति । स संबन्धश्च तादात्म्याध्यास इति नागेसः । अनादिव्यवहारादिरित्यन्ये । यथा इन्द्रियाणां स्वविषये -- चक्षुरादीनां रूपादिविषयकज्ञानजनने, योग्यता-सामर्तायविसेषः, अनादिःस्वाभाविकी, तथा अनादिरर्थैः । संबन्दोऽपि, योग्यता - बोधजनकतावच्छेदको धर्मः स्वाभाविकः । अत एवोक्तं शब्दरत्ने सरूपसूत्रे-- `अन्यथा ्विद्यमानायाः शक्तेः एकशेषशास्त्रसहस्त्रेणाप्युपपादयितुमशक्यम्' इति । अनेन सब्दानामर्थधीतनकत्वसामर्थ्य स्वत एवास्ति, न संकेतादिपुरुषप्रयत्नैरुत्पाद्यम् । पुरुषयत्नरतु विद्यमानशक्तेरेव ज्ञापक इत्युक्तं भवति । संबन्धशब्दे--संबन्धिशब्दे, (अर्थबोधकत्वरूपसंबन्दविसि,्टे), योग्यतां प्रति---बोधजनकतयावच्छेदकधर्मं प्रति, (तन्निरूपक इति यावत्) संबन्दः -संकेरादिः, योग्यता - अर्हता, शब्दार्थयोः संबन्देऽस्तीति तदर्थः । संबन्ध ेव शब्दनिष्ठार्थबोधकत्वानादिसंबन्धानुमापक इति भावः । योग्यतासंवित् - संबन्धनि,्ठयोग्यताज्ञानं च, समयात् - अस्मदादिव्यहारात् . दृष्टान्तमाहमातेत्यादि । अर्थः स्पष्टः । कारिकाणां प्राचीननवीनग्रन्थेषु योजनाभेददर्शनेऽपि बोधकत्वशक्तिः स्वाभाविकी, तदनुमापर ईश्वरसंकेतादिरिति तात्पर्यं समानम् ।

तत्र कषांचुदाचार्याणां मतमनूद्य अन्यकृतदूषणानुवादेन न युक्तमिति सूचयति कौण्डभट्टो बूषणे शक्तिवादे । तदनूदितोऽयं दूषणग्कन्थः --`क्वचितसंकेतस्य, क्वचिच्छक्तेर्ज्ञानं कारणमिति व्यभिचारादेकस्यापि तत्तथा न स्यात्, अस्माकं पुनः संकेतत्वरूपेणैव तज्ज्ञानं हेतुरुतु न व्यभिचारः, तच्चेश्वरसंकेतसादारणम् । न च--अस्मदादीनामेव स तथास्तु नियतशक्तिसादुत्वाद्यनुरोधेन भगवत एव तत्कल्पनात् । सृष्ट्यादिव्यवहारे त्वयापि तस्य शक्तिग्राहकत्वेनाऽभ्युपेतव्यत्वात् । उभयसिद्धेश्वरेच्चां त्वयापि तस्य शक्तिग्राहकत्वेनाऽभ्युपेतव्यत्वात् । उभयसिद्धेश्वरेच्छां त्यक्त्वाऽतिरिक्तशक्तिकल्पने सगौरवाच्च । तादृशेश्वरसकेतितत्वं च साधुत्वं तत्परिच्छेदकं व्याकरणादिति न तद्वैयर्थ्यम् । एवं च सर्वथापि अतिरिक्तपदार्थान्तरकल्पनमयुक्तमिति संक्षेपः । तस्मादीश्वेरेच्छैव शक्तिरिति नैयायिकानुसारिण' इति ।

अत्र वदन्ति श्रीमज्जयतीर्तानुयायिनः -- क्वचित्संकेतस्य, क्वचिच्छक्तेर्ज्ञानं कारनमित्येतत् न श्रीमज्जयतीर्तानां राद्दान्‌तः, किं तु सर्वत्र स्वाभाविक्या शक्त्या बोधः, संकेतस्तु तदनुमापकः इति । अतो नोक्तपरस्परव्यतिरेकव्यभिचारावकाशः । अत एव पद्धतौ तेषां पदार्थसंबन्धोऽपि स्वाभाविक एवेत्युक्तं तैः । सुधायां च स्वत एवेति प्रतीकमादाय स्वाभाविकेनैवेति चोक्तम् . सृष्ट्यादिव्यवहारे ईश्वरसंकेतोऽपि स्वाभाविकशक्तेरनुमापक एवेति न तदा तस्य स्वातन्त्र्येणार्थबोधकत्वमिति तदाशयः । एतच्च `अथवा' इत्यादिनोत्तरग्रन्थेन स्पष्टीकृतं तैरेव न्यायसुदायाम् । नन्वेवं `न वयं क्वचिदपि सब्दस्य संकेताद्वोधकत्वं नासितीति ब्रूमः, किं तु क्वचित्स्वाभाविक्या सक्त्या बोधः, क्वचित्संकेतात्' इति कथमुक्तमिति चेच्छ्रूयताम्-अत्र नैयायिकोक्तदूषणस्य, मीमांसकोक्तसमाधानानुवादोऽयम् । आशङ्कि तव्यभिचारपरिहारस्तु शक्तिलक्षणारूपवृत्तिद्वयमह्गीकुर्वता भवतेव कार्यतावच्छेदककोटौ कारनवैशिष्ट्यं निवेश्य स्वोत्तरत्वनिवेशेन सुपरिहरस्तैः । ननु यवपशब्दस्य प्रियङ्गो गौणत्वमित्येव दृश्.यते तदीयेषु ग्रन्तेषु, न तु संकेत इति चेत् उच्यते-गौणत्वव्यवहारोऽपि यववराहिधिकरणसिद्धान्तनिष्कर्षोत्तरकालिक एव, ततः पूर्वं यवशब्दस्यापि प्रियङ्गौ संकेत एवेति मिमांसकासयः । अन्यथोभयप्रसिद्ध्योः समप्रधान्याभावेन पूर्वपक्षस्यैवानुत्थित्या यववराहाधिकरणानुत्थितिप्रसंगः । लाघवगौरवचर्चा तु शुष्ककोलाहल म्लेच्छव्यवहारस्य चिरकालिकत्वेन लपोके तत्र गौणत्वव्यवहारादर्शनात्संकेतेत्याद्युक्तम् ।

इदं पदस्यार्थंस्य बोधकं भवित्विति हीश्वरेच्चाऽऽकारः, तत्र बोधकत्वं विषयतया भासत इति इच्छातिरिक्तस्वाभाविकसंबन्धरूपबोदकत्वमस्तीति प्रतितेः अतिरिक्तशक्तिरस्त्येवेति स्वीकर्तव्यम् । अतः श्रीमज्जयतीर्तानामन्येषां चाचार्याणां मतमेव युक्तम् । ईश्वरसंकेतितदत्वं साधुत्वमिति तु न युक्तम् । आधुनिकपुरूषकृतटि-घुटभादिसंज्ञानामीश्वरकृतत्वाभावेन साधुत्वाभावप्रसङ्गात् . संकेतित्वं साधुत्वमित्युक्तौ गाव्यादीननामपि संकेतशब्दत्वात् साधुत्वापातः । अतः संकेतितिवातिरिक्तः व्याकरणशास्त्रव्यङ्ग्योऽभ्युदयप्रयोजको धर्मविसेषः साधुत्वम्, अनपभ्रष्टत्वं वा तदिति वक्तव्यमिति संकेति तत्वसाधुत्वयोरन्यत्वमेव । एवं च नुयायिकानुसारिणीं जयतीर्थग्रन्थदूषणं, कौण्डभट्टस्‌य तदनुभाषणेनानुमोदनं च जयतीर्थोयस्य `अथवा' इत्याद्युत्तरग्रन्थस्य, ग्रन्तान्तरस्य चाऽनवलोकनिबन्धनमिति विदांकुर्वन्तु सूरय इति ।

बोधकत्वं शब्दशक्तिः सापि स्वाभाविकी मता ।
संकेतो व्यञ्जकस्तस्या इत्येतद्वहुसंमतम् ।।

इदमेव मतं श्रीमज्जयतीर्थमुनेरपि ।
तदाशयमजानानो न्यायवित् दूषयन्निदम् ।।

मोदते कौण्डभट्टश्च दूषअस्यानुभाषणात् ।
तस्मात्तावुभावेतौ विज्ञेयौ स्थूलदर्शिनौ ।।

लक्षणाविचारः

ननु प्रयोगनिर्वाहं लक्षणया कर्तुं न शक्नुवन्ति शाब्दिकाः, यतोऽयं नागेशो मञ्जूषाद्वये `सर्वेसर्वार्थवाचका' इति समयाभ्युपगमेन गङ्जापदस्य तीरेऽपि शक्तिमभ्युपेत्य लक्षणावृत्तिं निराकरोत् । भूषणतत्सारकारावपि तां वृत्तिं निराकुर्वाताम् । न च `सर्वेसर्वार्थ-' इति समयो न भाष्यकृत्संमत इति वाच्यम् । `कुत्वं कस्मान्न भवति' इति वृद्धचाह्निकभाष्यसंमतोऽयं समय इति वक्तुं शक्यत्वात् । तथा हि--तत्र प्रश्नाशयं विवृण्वताकैयटेन ऐजादिपदानां शास्त्रविसयत्वहेतुभूतलौकिकत्वसाधकः `अने1कशक्तेः सब्दस्य'इत्यादिना शब्दार्थसंबन्दनित्यत्वरूपहेतुरुक्तः, नागेसेन `सर्वेसर्वार्थवाचका' इत्यभ्युपगमादिति प्रदीपासयं निरूपयता कथमेकस्य शब्दस्याऽनेकसक्तित्वमिति शङ्का वारिता । ततश्च प्रश्नभाष्याशयवर्णनावसरे प्रदीपोद्योतयोरेवमुक्तेर्भाष्यानुगृहीतोऽयं पक्ष इत्यवधारयामः । एवं च लक्षणास्थलेऽपि शक्त्यैव निर्वाहेन सक्षणावृत्तेरभावात् । इति चेत्, अत्राहुः- `सर्वेषां सर्वार्थवाचकता तावत् न सर्वानुभवसिद्दा, अतोऽनेकशक्तेः इत्यादिनोक्तहेतुः न लौकिकत्वसाधनसमर्थः । अत एव अनुकरणत्वाजातित्वाद्वेति हेत्वन्तरमभिधत्ते कैयटः । `अपूर्वाः संज्ञाः क्रियन्त इति पक्षेऽप्याह' इति अवातारितमिदं वाक्यमुद्योते । जातित्वादिति त्रयीपक्षे । अत्र पक्षे संज्ञाशव्दानां जातिशब्देष्वन्तर्भावः तेषामपूर्वत्वं वेत्येतदन्यो विचारः । किं च अनेकशक्तित्वं वाऽनादित्वं वेत्येतदन्यो विचारः । किं च अनेकशक्तित्वं हर्यादिशब्दवत् नानार्थकत्वाभायुपगममात्रेणोपपद्यत इति `सर्वे सर्वार्थ' इत्यभ्युपगमो नावस्यकः अतोऽत्र समये न भाष्यानुग्रहः । किं च यदि `सर्वे सर्वार्थ' इति पक्ष आश्रीयते तर्हि व्यज्यमाना अपि सर्वेऽर्थोः शक्त्यैव प्रतीयन्त इति वक्तुं शक्यमिति व्यज्यनावृत्तिः प्रलयंगता स्यात् । न येष्टापत्तिः, व्यञ्जनावृत्तिकवस्यमाश्रीयणियेति मञ्जूषायां (प्र.प) व्यवस्थापितत्वात् । अभिधालक्षणेत्यादिवृत्तिविभागं कुर्वता शास्त्रकृतां बहूनामाचार्याणां कावायप्रकाशकगृन्मम्मटभट्टा2दीनामालङ्कारिकाणां च संमतत्वात् । न केवलं परे,ामत्र संमतिः किं तु भाष्यकृतामपि । तथा हि -- `कथं तुषजकस्य पत्नी' िति `पत्नीव पत्नीत्युपमानात्' इति `पत्युर्नवो यज्ञसंयोगे' (4.1.33) इति सूत्रं यज्ञसंबन्धवद्वाचकपत्नीशब्दस्य सादृश्यात् वृषलभार्यादिीना प्रकारचतुष्टयेन सिंहादिशब्दानां माणवकादौ वृत्तिं प्रदर्शयन्तो भाष्यकारा लक्षणावृत्तिं पृथगेवेति मन्यन्त इति स्पष्टमेव विदुषामित्यवेहि । किं च तथा योगवाचस्पत्ये अक्तं `सर्वे च शब्दाः सर्वार्थाभिधानसमर्था' (म.4.15) इति. `सर्नैरर्थैः सर्वेषां च शब्दानां संबन्धश्च योगिज्ञानहम्य एव' इति मञ्जूषोक्तेः, परिभाषेन्दुशेखरे `सर्वे सर्वार्थवाचका इत्यभ्युपगमोऽपि योगिदृष्ट्या नास्मद्दष्ट्या' इत्याद्युक्तेश्च ्इस्मदादीनां गङ्गादिपदैः तीरादिबोधः शक्त्येति न शक्यते वक्तुमिति नागेशेनैवोक्तप्रायमिति लक्षणावृत्तिराश्रयणीयैवाऽस्माभिः । किं च -- `सर्वे सर्वार्थवाचका' इत्यभ्युपगच्छतामपि अक्षहर्यादिपदवत् विभिन्नशक्यतावच्छेदकावच्छिन्ननानार्तवाचकत्वं शब्दस्येत्येवाऽभिप्रायः, तथा च--गङ्कापदं प्रवाहत्वेन प्रवाहबोधकं, तीरत्वेन तीरबोधकमित्येव वक्तव्यं, न वु आरोपितप्रवाहत्वेन तीरबोधकमिति । तथा सति प्रसिद्धं तीरपदं विहाय अप्रसिद्धगङ्कापदप्रयोगोऽनर्थकः । न च तीरपदात् विवक्षितशैत्याद्यप्रतीतेः तीरे गङ्कात्वमारोप्यते आरपितधर्मपुरस्कारेण गङ्गापदात् तीरबोधे शैत्यपावनत्वादिप्रतीतिर्घोषे इति वाच्यम् । `सर्वे सर्वार्थ-' इत्यनेन भवतामतिवेसमनोरथाऽलाभात् । आरोपाङ्गीकारे लक्षणायामेव पर्यवसानाच्च । किं च -- `पत्नीव पत्नी' इत्युपमानात्, चतुर्भिः प्रकारैः इति भाष्योक्तेः, तत्सामीप्यादिना शक्यतावच्छेदकस्यारोप इत्यारोपोवतेश्च प्रयोजनं दुर्निरूपं शक्त्या तीरीदिबोधवादिना । न हि लोके शक्त्या पदार्थ बोध्यन्त इति वादिनः सामीप्यादिधर्मान् निमित्ततया आश्रयन्ति । किं च -- `किबहुना येषां प्रत्ययानामन्येषां च शब्दानां यत्रार्थे शास्त्रेण विदानं तेषामन्यार्थे तदर्थे वान्येषां लक्षणयापि साधुत्वाभावस्य `प्रत्ययः, परश्च, पुंयोगात्' इति सूत्रभाष्यतो लाभादिति नागेसेन `येन विधिः' इति सूत्रशेखरे कृतव्यवस्था भज्येत सर्वेषां सर्वार्थकत्वे । किं च `तदस्याऽस्त्यस्मिन्' इति सूत्रे अस्यास्मिन्नित्यर्थद्वयोपादानात् सर्वें सर्वार्थनाचका इति न सूत्रकृत्संमतं यदि तत् तदिष्टं स्यात्, तर्हि अन्यतरसमिन्नर्थे प्रत्ययविधानेऽपि गोमानित्यादेः `सर्वे सर्वार्थ' इति सर्वार्थवाचका इति न सूत्रकृत्संमतं यदि तत् तददिष्टं स्यात्, तर्हि अन्यतरस्मिन्नर्थे प्रत्ययविधानेऽपि गोमानित्यादेः `सर्वे सर्वार्त' िति समयात् उभयार्थकत्वं शक्यं वक्तुमित्युभयोपादाने न फलम् । एवं च गङ्गायां धोष इत्यादिप्रयोगनिर्वाहाय शाब्दिकैः लक्षणावृत्तिराश्रयणीयैव । अत एव -- `रघुयदुशब्दयोस्तदपत्ये लक्षणा, न सुब्विभक्तौ लक्षणा' इत्यादि शाब्दिकानां व्यवहारः स्वरसतः संगच्छते । एतेन इदृशेस्थले अप्रसिद्धशक्तिरिति तात्पर्यम् । गौणमुख्यन्यायोऽपि प्रसिद्ध्यप्रसिद्धितात्पर्यकः । `लक्षणया' इत्यादि व्यवहारः परमतरीत्या इति कल्पनं क्लिष्टमेव । ततश्च लक्षणावृत्तिर्नेति वादः सूत्रभाष्यकृतनभिमत एवेति भाति ।
 
लक्षणा नेति वादेऽयं नैव भाष्यकृतां मतः ।
इति ब्रुवन्ति सूधियो महाभाष्यविमर्सकाः ।।

गोत्वादिजातीनां व्यापकत्वनिरासः

यदुक्तं मञ्जूषायां `सर्वजातीनां व्यापकत्वेऽपि पदार्तानां विचित्रशक्तित्वात्कांचिदेव जातीं कश्चित्पदार्थोऽभिव्यनक्ति' इत्यादिना गोत्वादिजातीनां व्यापकत्वमिति, तस्याऽयमासयः - गोत्वादेर्व्यापकत्वेनाऽश्वत्वमेव व्यनक्तिः गोत्वमेव व्यवक्ति नास्वत्वम्, तथाऽश्वव्यक्तिरश्वत्वमेव व्यनक्ति न गोत्वमिति गवादिशबेदेन नाऽश्वादिबोधः, गोपदस्य स्ववाच्यवृत्तिलोकप्रसिद्धगोत्वमात्रबोधजनकत्वसामर्थ्यवत्त्वं नत्वश्वत्वादिबोधजनकशक्तिमत्त्वमिति । व्याक्याने तु-उपाधिस्वभावादित्युक्तम् । तत्रोपाधिः क इति चिन्त्यः ।

अत्र वदन्ति---गोत्वादिजातीनां व्यापकत्वमित्यत्र न प्रमाणमुपलभ्यते, भा,्ये तु नित्यतैव प्रोक्ता जातेः, न तु व्यापकता । `ननु ब्रझण एव प्रमाणसिद्धतया सर्वे भावा ब्रझणः शक्तिभूता न तु ततो भिन्ना' इति म़जूषयां सर्वदार्थनां ब्रझशक्तिरूपत्वोक्तेः, तस्याश्च व्यापकत्वेन तद्रूपगोत्वादेरपि व्यापकत्वसिद्धिरिति चेत्, न । ब्रझणो निर्धर्मकत्वाङ्कीकर्तृनागेशमते शक्तेस्तदीयत्वाऽप्रसिद्देः । व्यासपाणिनिपतञ्जलीनां नाभेदवादित्वमिति प्राङनिरूपितत्वेन सर्वभावानां ब्रझशक्तिरूपत्वस्य ब्रझाननेयतेवस्य च व्यासादिमुनित्रयासंमत्वाच्च । एतेन `ब्रझसत्तारूपाया गोत्वजातेः' इत्यादि व्याख्यानोक्तिरपि निरस्ता । दर्शितभेदवादिमुनित्रयमते गोत्वादेर्ब्रझसत्तारूपत्वाभावात् । निर्धर्मकत्ववादिना सत्ताया ब्रझीत्वस्य दुर्निरूपत्वात् । अत्र `ब्रझण एव प्रमाणसिद्धतया' इत्युक्त्या ब्रझातिरिक्तसर्वभावानां, गोत्वादिजातीनां च ब्रझशक्तिरूपत्वमप्यप्रामाणिकमेवेति सिद्ध्येदिति विभाव्यम् । `यद्भिन्नेष्वभिन्नं, छिन्नेष्वच्चिन्नम्, आकृतिर्नाम सा' इति सर्पसाह्निकभाष्येण, `आकृत्यभिधानाद्वा, न हि गौरित्युक्ते व्यपवर्गः गम्यते शुक्लो नील' इति सरूपसूत्रभा,्येण च, तत्तत्पदार्थतावच्छेदकः शक्यतावच्छदेतत्वेन प्रतीयमानो जातिपदवाच्यो गोत्वादिरूपो धर्मः तत्तच्छबदेन प्रतीयत इत्यर्थस्यैव लाभेन तद्भष्यतो व्यापकत्वाऽलाभात् । यदि मन्यते भवान् व्यापकत्वं गोत्वादूनां, तर्हि प्रमेयत्वादिवत् व्यापकं गोत्वमपि गोपदशक्यतावच्छेदकं न स्यात् । व्यापकस्य अवच्छेदकत्वायोगात् इति गोपदशक्यतावच्छेदको धर्मः सर्वकविलोकसंमतः कश्चन संपादनीयोऽतिप्रसङ्कवारणाय । स च न सुलभः, मञ्जूषाव्याक्यायां गोत्वादेर्महाकत्ताविवर्त्तवोक्तिः, धात्वर्थवादम़ञ्जूषायां भूवादिसूत्रोद्योते च, `जगत्कारणस्य सत्तारूपब्रझणो मायासहकारेण क्रियारूपा विवर्ता' अत् नागेशोक्तिश्च चिन्त्या । एवं मुनित्रयानुक्तेः, पाणिन्याद्यनभिमतप्रमेयजातं कतं वैयाकरणसिद्धान्तव्यपदेसार्हं भवेति । `षट्भाव विकारा भवन्ति' इति निरुक्तवचनस्य निरुक्तभाष्ये महाभा,्ये च एवमर्थाऽवर्णनात्, कैयटे भावस्य क्रियायां इत्येव व्याक्यानात्, `भावप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि' इति पूर्वं प्रस्तुतवचनैकदेशभावभेदविवरणपरैतद्वचनगतभावपदस्य क्रियेत्.येव व्याख्यानस्योचितत्वात्, भूवादिसूत्रे अस्त्यादीनां क्रियावाचकत्वोपपादनायो पन्यस्तवचनगतभावपदस्य पदार्थसमनेतधात्वर्थस्य क्रियेतिव्यवह्रियमाणस्य वक्ष्यमाणजन्मादयः षट्प्रभेदा इत्येव तात्पर्यमिति पचञ्जलेराशयात्, यावद्द्रव्यभाविसदितिव्यवहारहेतुभूतात्मधारणरूपपदार्थमात्रवृत्तिक्रियापदव्यपदेश्यसत्ताया ब्रझविवर्तत्वे मानाभावात्, पतञ्जलिमते ब्रझणो विवर्तकारणत्वाभावाच्य । ननु `तद्भाष्यकृत' इत्युत्तरत्र मञ्जूषोक्तेः, सर्वमिदं निरुक्तभाष्यकारसंमतमिति चेत्, न । निरुक्तभाष्ये एवमानुपूर्वीकवाक्यस्य एतदर्थकवाक्यान्तरस्य वाऽदर्शनात् तद्भाष्यकृत्संमतमिदमिति न विश्वसिमः ।

केचितु भावानां घटपटादीनामर्थनां विकाराः षडिति वचनार्थमाहु । अतः सर्वासां जातीनां व्यापकत्वाद्यपाणिनीयमेव ।

इदं त्ववधेयम्--ये त्वत्र मञ्जूष्यां निरूपिताः स्फोटतदेकत्वादयः, प्रपञ्चमिथ्यात्वादयो विषयाः ते सर्वेप्यपाणिनीया अबादरायणीयाः । पाणिनीये बादरायणीये च तथार्थकवचनानुपलम्भात्, जगन्मिथ्यात्वादिनिरूपणं च `वैयाकरणसिद्धान्त' इत्यादिप्रतिज्ञाविरुद्धं प्रपञ्चमिथ्यात्वादेर्वैयाकरणसिद्दान्तत्वाभावात् । किं बहुना `क्वचिदाधनिकग्रन्थानुसारेण लिखितमस्ति' (म.1.) इति ग्रन्थकृदुक्तिरेव निरूपितवि,याणामपाणिनीयत्वं प्रकटयति । ततोक्त्या प्राचामाचार्याणां ग्रन्तानुसारेण न विषया निरूपिता इति प्रतीतेरित्यलम् ।

गोत्वादिजातेर्व्यापित्वं ब्रझशक्तित्व एव च ।
भावानां ब्रझरूपत्वे भाष्ये मानं न दृश्यते ।।

स्फोटे प्रपञ्चमिथ्यात्वप्रमुखे विषये तथा ।
न पाणिनिवचो व्यकवचनं च न दृश्यचे ।।

अतो नाभिमतं व्यासपाणिन्योरखिलं त्विदम् ।
इति व्यासादिचरणशरणा ब्रुवते बुधाः ।।

शाब्दे शब्दभाने गौतमसंमतिनिरासः

शाब्दबोधे सर्वत्र शब्दस्य न भानमिति नैयायिकानां मतमिति सर्वविदितम् । एवंस्थितेऽपि शब्दः शाब्दे भासत इति निरूप्य `अन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेस्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्' (न्या.सू.1.1.4) इति प्रत्यक्षलक्षणे `अव्यपदेश्यत्वविशेषणं वदता गौतमेन शाब्दे शब्दभानस्याङ्कीकाराच्च' इति गौतमसंमतिमाह मञ्जूषायाम् (प्र.प.32.20) । अत्रेदं चित्त्यम् -- अत्र सूत्रे `अव्यपदेश्यम्' इत्यस्य अशाब्दमित्यर्थः । अर्थप्रत्यक्षकाले न शब्दः प्रवर्तते । श6ब्दो न तत्र प्रत्यक्षविषयभूतार्थधियं जनयति । अतस्तस्याशब्दत्वम् । साब्दबोधकासे तु शब्दः प्रवर्तते तद्विषयभूतमर्थमुपस्थापयन् तं जनयति । अतः शाब्दत्वे तस्या । न तु सब्दविषयकत्वेनेति तद्विशेषणतात्पर्यमिति न्यायसिद्धान्तप्रमेयं तत्सूत्रभाष्यादितो लभ्यते । तथा हि--तत्र अव्यपदेश्यविशेषणकृत्यविचारपरं भाष्यम् -- " यावदर्थं वै वामधेयशब्दास्तैरर्थसंप्रत्ययः । अर्थसंप्रत्ययाच्च व्यवहारः । तत्रेदमिन्द्रियार्थसंनिरर्षादुत्पन्नमर्तज्ञानं `रूपमिति वा रस इत्येवं वा' भवति । रूपरसशब्दाश्च विषयनामधेयं तेन व्यपदिस्यते ज्ञानं, रूपमिति जानीते, रस इतति जानीते । नामदेयशब्देन व्यपदिस्यमनं सत् शाब्दं प्रसज्यते । अत आह -- अव्यपदेस्यमिति । यदिदमनुपयुक्ते (अज्ञाते) शब्दार्थसंबन्धेऽर्थज्ञानं न तन्नामदेयशब्देन व्यपदिस्यते, गृहीतेऽपि च शब्दार्थसंवन्ध अस्यार्थस्यायं शब्दो नामधेयमिति । यदे तु--सोऽर्थोो गृझते तदा तत् पूर्वस्मादर्थज्ञानान्न विशिष्यते । तदर्थविज्ञानं तादृगेव भवति । तस्य त्वर्थज्ञानास्याऽन्यः समाक्याशब्दो नास्तीति येन प्रतीयमानं व्यवहाराय कल्पेत । न चाऽप्रतीयमानेन व्यबहारः । तस्मात् ज्ञेयस्यार्थस्य संज्ञाशब्देनेति करणयुक्तेन निर्दिश्यते `रूपमिति ज्ञानं, रस इति ज्ञानम्' इति । तदेवमर्थज्ञानकाले स न समाख्याशब्दो व्यप्रियते, व्यवहारकाले तु व्याप्रियते । तस्मादशब्दमर्थज्ञानमिन्द्रियार्थसंन्निकर्षोत्पन्नमिति" इति । अत्र `यावदर्थम्' इत्यन्तः समादानग्रन्थः । यावदर्थमित्यव्ययीभावः `यावदवदारणे' इत्यन्तः समाधानग्रन्थः । यावर्थमित्यव्ययीभावः `यावदवधारणे' इति सूत्रेण । यावन्तोऽर्ता इति विग्रहः । अयं भावः-शब्दार्थयोस्तादात्म्यात् अर्तप्रतीतिस्थले सर्वत्र वाचकशब्दसंवलितस्यार्थस्य भानम् । ततश्च शाब्दे यथा श्बसंवलितस्यार्थस्य विषयतया अर्थवच्छब्दस्यापि विषयत्वेन भानात् शाब्दत्वं तथा प्रत्यक्षेऽपि शब्दविशिष्टार्थस्य (विषयत्वेन) भानात् सब्दविषयकत्वेन शाब्दत्वं स्यात् । अस्तु का नो हानिरिति चेत् तस्य प्रमाणान्‌तरत्वं न स्यादिति ।

समाधानग्रन्थस्य त्वयमासयः -- शब्दार्थौं वस्तुतो भिनौ । न तादात्म्यं तयोः न च तदारोप्यत इति वाच्यम्, तत्र फलाभावात् । अतः क्वचिदपि ज्ञाने न शब्दसंवलितार्थस्य भानं किं तु केवलार्थस्यैव, तथैवानुभवात् । नन्वेवं शाब्देस्य भानमिति न तस्य शाब्दत्वव्यवहारः स्यादिति चेत्, उच्यते--शब्दविषयकत्वं तादृशव्यवहारं प्रति न प्रयोजकं, किं चु शब्दोपस्थापितार्थविषयकत्वं, तच्च तत्रास्तीति तथा व्यवहार इति । तथा च प्रत्यक्षे इन्द्रियसंनिकृष्टवस्तुमात्रं वि,यः, न तु शब्दोपस्थापितं (शब्दसंवतितं वा) वस्तु । अतस्तस्य शाब्दत्वं नेति प्रमाणान्तरत्वं सुस्थम् । `अर्थभानकारे1 स न समाख्याशब्दो व्यप्कियते, व्यवहारकासे तु व्यप्रियत' इत्यनेन भाष्यकृतैवोक्तोऽयमर्थ इति । एवं च--शाब्दे शाब्दभावं गौतमादीनां संमतमित्युक्तिर्न समञ्जसा । एत्न---`सब्दविषयकत्वेन प्रत्यक्षस्य शाब्दविषयकत्वमेव साब्दत्वं न तु शब्दजन्यत्वमिति तत्रैव वाचस्पतुमिश्रैरिति भाष्यटीकाग्रन्थपन्यस्य साब्दस्य शब्दवि,यकत्वं तदभिमतमित्युक्तिः परास्ता । उभयेरपि तयोर्ग्रन्थयोस्चौदकाशयवर्णनपरत्वेन सिद्दान्‌तग्रन्थत्वाभावात् शब्दार्तयोस्तादात्म्यस्य अत्रैव सूत्रे न्यायवार्तिकतात्पर्यटीकायां वाचस्पतिना बहुदा निराकरणात् । इतवनैयायिकैरनभ्युपगमाच्च ।

प्रत्यक्षे शब्दो विषयो नेत्युक्तिमात्रेण शाब्दे तदङ्गीकार्यं तेनेति कोऽयं नियमः । गौतमस्तु साब्दे भासत इति महता कण्ठेन क्वापि नाभाषि । जयन्तभट्टो नैयायिकशिरोमणिः । न्यायम़ञ्जर्यां (1.आ.) अव्यपदेश्यपदकगृत्यवर्णनावसरे, अन्यत्र च प्रकरणे शाब्दे शब्दभावपक्षं प्रत्याचष्टे । तस्मादिदं कथं गौतमाभिमतं भवेत् । किं च--`व्यक्त्याकगृतिजातयस्तु पदार्थः' (गौ.सू.2.26.8) इति व्यक्त्यादीनां त्रयाणमेव पदार्थत्वोक्तेः, सब्दस्य त्रिष्वनन्तर्भावात् पदतृत्त्यविषयत्वेन तस्य शाब्दे भानं गौतमसंमतमित्येतन्न शोभनम् । अस्ति शब्दस्यापि वृत्तिविषयत्वमिति तु न गौतमसिद्धान्तः किं तु भर्तृहकेः,`ग्राझत्वं ग्काहकत्वं च' इति तदुक्तेः । वृत्त्यविषयस्यापि साब्दे भानमिति तु न साधु मन्यन्ते शास्त्रकाराः । यदि वृत्त्यविषयस्यापि भानं तर्हि घटमानयेत्युक्ते समवायेनोपस्थिताकाशस्यापि साब्दे भानप्रसह्कः । किं च शाब्दे श्बदभानमिति साब्दिकसिद्धान्तोप्यनार्ष एव यतस्ते पाणिन्याद्यृषिवचनमनुदाहृत्य `न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृत' इत्यनार्षं वाक्यपदीयवचनमेन प्रमाणतयोदाहरन्ति । ततस्च अनार्षसिद्धान्तानिसारेण ऋषितात्पर्यावधरणंे विदुषां मनसे न रोचते । ननु अर्थेन शब्दस्मरणात् स्मृतस्य तस्य शाब्दे भानमिति चेत्, न । कदाचित् देशकालपुरुषाणामपि स्मरणसंभवात् तेषामपि भानप्रसङ्कात् । `उन्नितभानपक्षस्तु न सर्वसंमतः' इति दिनकरीयशब्दखण्डः नागेशेन म़ञ्जषायां (प.1) निराकृताश्च । किं च एवंकल्पने गोतमवचनानिग्रहोऽपि ्ृग्यः । अतः `शाब्दे शब्दभानस्य गौतमेनाङ्गीकाराच्च' इति नागेसोक्तिर्न युक्ता । अनुकरणे, संज्ञास्थले च शब्दस्यैव तथाकल्पनं न युज्यते ।

प्रत्यक्षेऽव्यपदेश्यत्वविशेषणनिवेशनम् ।
शब्देन्तिशिरस्केण तदाकाराभिलापनात् ।।

शाब्दत्वमेव तस्य स्यादिति शङ्कानिवारकम् ।
अतस्तेन तदिष्टार्थसिद्दिर्नैव भविष्यति ।।

गौतमो नावदच्छब्दः शाव्दे भातीति कण्ठतः ।
भाष्यकारादयो नाहुस्तस्मात्तेंषां न तन्मतम् ।।

प्रत्यये शब्दभाने मुनित्रयानभिमतत्वनिरूपणम्

किं च `शाब्देऽन्यत्र च प्रत्यये शब्दो भासत' इत्येतत् म़्जूषादावुक्तं न मुनित्रयसंमतम्, तैस्तथानुक्तेः । ननु `शब्दपूर्वकास्चास्य संप्रत्यय' इति `स्वं रूपम्' इति सूत्रभाष्यस्य `शब्दविशेषणकस्चाऽर्थसंप्रत्यय' इत्युद्योतकृता व्याक्यानात् `स्वं रूपम्' (पा.सू.1.1.38) इति सूत्रं, तद्भाष्यं च तत्र प्रमाणं, शब्दविशेषणकत्वं च शब्दप्रकारकत्वं, घटत्वादीनां प्रकारतावत् शब्दानामपि सा, शब्दप्रकारिकैव सर्वा धीरिति तदर्थ इति मुनित्रयसंमतमेवेति चेत्, न । तद्भा,्याक्षरमर्यादया तताऽर्थलाभात्, कैयटेन तथा तद्भाष्यस्याव्यक्यातत्वाच्च । ननु कस्तर्हि भा,्यार्त इति चेत्, उच्यते---शब्दज्ञानपूर्वकश्च श्रोतुरर्थप्रत्यय इति भाष्यार्थः । तथा हि--शब्दज्ञानपूर्वकोऽर्थसंप्रत्यय इति सर्वलोकसंप्रतिपन्नम् । शब्दानुपलम्भे वा प्रयुक्ते ज्ञाते च तस्मिन्, ज्ञातोऽर्थः कर्म कुर्मो यथानियोगमित्युत्तरदानाच्च । ततश्च लोकव्युत्पत्त्यनुसारेण `राजश्वशुराद्यत्' (पा.सू.4.1) `अग्नेर्ढक्' (पा.सू.4.2) इत्यादावुपात्तराजादयः शब्दाः `पशुरपत्यं देवता' इत्यादि शब्दा इव अर्थपरा एव । अथापि अर्थे शास्त्रीयकार्याणां यदादिप्रत्ययानां बादात् प्रतिपदिकादित्यधिताराच्च राजादिवाचकशब्दसामान्यात् यदादिः प्रान्पोति । न च प्रत्यासत्त्या कारणतयोपस्थितराजादिशब्द एव गृझते नत्वन्यः (पर्यायादिः) इति वाच्यम्, तन्न्यायाश्रयणे प्रमाणाभावात् । अतः स्वरूपमेव गृझत इति न शक्यं वक्तुमिति शङ्कापनोदनाय `स्वं रूपम्' इति सूत्रं प्ररभते पाणिनिः । अस्य त्वयमर्तः -- शब्दस्य-राजश्वशुरादित्यादाविच्चतिस्य राजाशब्दस्य, स्वम् - स्वीयार्थविशिष्यम्, रूपम् । उच्चरितशब्दनिष्ठानुर्वीविसिष्टवर्णसदृशवर्णघटितशब्दस्वरूपम्, संज्ञा - बोध्यं संज्ञापदमत्र कर्मणि अङन्तं, स्वपदं स्वीयार्थरूपम् । रूपपदमानुपूर्वीविशेषविशिष्टशब्दपरं भाष्यतस्तथालाभात् इति । एवं च--`रीजश्वशुरात्' इत्यादौ अर्थयुक्तराजादिपदादेव यदादिप्रवृत्तिः । न तु इनादिपदेभ्यः, नापि निरर्थकेभ्य इति अर्थवत्परिभाषाप्यनेनैव सिद्ध्यतीति तात्पर्यम् ।

अथ वार्तिकभाष्यमतम्-अर्थोपस्थितौ पदज्ञानं कारणमिति सर्वसंप्रतिपन्नम् । ततश्च पजार्तोपस्थितिहेतुतया ज्ञातस्य शब्दस्य प्रत्यासन्नत्वेन तं परित्यज्य विप्रकृ ष्टशब्दान्तरग्रहणे विनिगमकाभावात्पर्यादीनां तं परित्यज्य विप्रकृष्टसब्दान्तरग्रहणे विनिहमकाभावात्पर्यायादीनां न ग्रहणमिति कारणतयोपस्थितराजादिपदादेव यदादिकार्यं प्रवर्तते । इनादिशब्देभ्यो यदाद्यदर्शनमेव प्रत्यासत्त्िन्याया8यणे मानमिति सूत्रं नारम्भणीयमिति कात्यायनपतञ्जली मन्येते । तथा च वार्तिकभाष्ये--`न वा शब्दपूर्वको झर्थे संप्रत्ययः तस्मादर्थस्‌य निवृत्तिः' इति वार्तिकम् । `न वा एतत्प्रयोजनमस्ति, किं कारणम्, शब्दपूर्वको झर्थे संप्रत्ययः, अतस्च शब्दपूर्वः, योऽपि झसावाहूयते नाम्ना, नाम च यदानेन नोपलब्दं भवति, तदा पृच्छति--किं भवानाहेति, शब्दपूर्वकश्चास्य संप्रत्ययः' इति भाष्यम् । अयमर्थः--एतत्-शब्दमात्रस्य संज्ञाप्रतिषेधार्थत्वम् (पर्यायादिव्यावृत्त्यर्थत्वम्) वार्तिके हु शब्दो लोकसित्वद्योतक इति कृत्वा, अन्वयदृष्टान्तेन तदाह --- शब्दपूर्वको हीति । अर्थसंप्रत्ययः शब्दज्ञानपूर्वक इति लोकसिद्ध इत्यर्थः उक्तेऽर्थे व्यतिरेकमाह-आतस्चेति आतः तदार्थमाह योऽपूति । अयमर्थः - योऽसौ पुरुषो लोके केनचिदाहूयमान आह्वायकपुरुषोच्चरितस्य शब्दस्य सम्यगनुपलम्भे किं भवानाहेति इनुयुङ्क्ते इति । अनेन सब्दज्ञानभावेऽर्थप्रत्ययो नेति व्यतिरेकदृष्टान्त उक्तः । इतीति, हातावयमितिः, इत्यन्वयव्यतिरेकदृष्टान्तसद्भावादेतोरित्यर्तः । अस्य-उपसब्धुः, संप्रत्ययः - जायमानोऽर्थप्रत्ययः । शब्दपूर्वकष्च - शब्दज्ञानपूर्वक एव । प्रतिज्ञातं शब्दज्ञानपूर्वकत्वमेवानेपसंहृतम् । एतेन इदं भा,्यं युक्त्यन्तरबोधकं शब्दविषेषणकमित्यर्थकमित्युक्तिः चिन्त्या ।. अक्षरमर्यादया तादृशार्थालाभात् । यथा अर्थधियः शब्दज्ञानपूर्वकत्वमुपपादितं भाष्यकृता तथा शब्दविशिषणकत्वस्यानुपादनेन तादृशार्थकत्वकल्पनस्यायुक्तत्वात् । न च शब्दस्य प्रकारतया भानाभ्युपगम एव, घटः कलशइत्यादितोऽभेदबोधो भवति, अन्यथा अवच्चेदकधर्मभेदाभावेन स न स्यातद्, धर्मितावच्छेदकतासंवन्धेन तद्धर्मावच्छन्नाभेदबुद्धिं प्रति तद्धर्मभेदः कारणमिति व्युत्पत्तेरिति वाच्यम्, `काकः काकः पिकः पिकः' इत्यादानिन बोदोपपत्तेः1 । न चैवं लक्षणाप्रसंगो दोष इति वाच्यम्, वैयाकरणमते लक्षणाप्रसंगो दोष इति वाच्यम्, वैयाकरणमते लक्षणैव नेति मञ्जीषादावक्तत्वात् ।

किं च शाब्दे शब्दभानवादो सारव्याख्याने दर्पणे हरिवल्लभेैन `अत्र वदन्ति' इत्यादिना शक्तिवादे विस्तरेण निराकृतः । किं च परपरार्थयोरभेदवादिनोऽस्य मते उभयोरेकत्वेनैव भानात् विसेष्यविशेषणभावः कथमुपपद्येत ।`तयोर्भेदो वास्तवः, अभेदस्त्वारोपित' इति मञजूषायामुपक्रमे निरूपितत्वेन अभेदो.़पि न वास्तवः । अवास्तवोऽभेदः कथं शब्दसंवलितस्यैवार्थस्य भानमित्यर्थव्यवस्थापको भवेत् । किं च यस्य तयोस्तादृशोऽध्यवसायः तसाय तथाबोधेऽपि तदीयतादृशाध्यवसानान्येषां तथाबोध इति वक्तुं न शक्म्, ेकस्य भ्रन्तत्वे अन्यैरपि तथाभवितव्यमित्यत्र नियामकाभावात् । किं च प्रकारतया भानं प्रति पदनिरूपितवृत्तिजन्योपस्तितिः कारणंे न तु अभेबुद्धिः, संज्ञाऽनुकरणोभयातिरिक्तस्थले शब्दस्य वृत्तिजन्योपस्थितिविषयता नास्तीति सुप्रसुद्धम् । किं च `शब्दमात्रमर्थस्वरूपं संभवति शब्दार्थयोर्भेदात्' इति `भावं तु बादरायणः' (ब्र.सू.1.3.33) इति सूत्रे शङ्कराचार्यैः, `स्वरूपभेदात्, उपायभेदात्, अर्थक्रियाभेदाच्च शब्दार्थयोरभेदो न युक्तः' इत्यादिना `अक्षरमम्बरान्तधृतेः' (ब्र.सू.1.3.10) इति सूत्रे नाचस्पतिमिश्रैश्च शब्दार्थयोरभेदस्य दूषितत्वाच्च नाभेदोो युक्तिसहः । शक्तिवादे दर्पणे शब्दार्थयोरभेदवादः `तत्तु न साधीय' इत्यादिना बहुधा दूषितः । किं च `मन्त्रविदेवास्मि नात्मवित्, यद्वै किं चैतदध्यगीष्ठा नामैवैतत्' (छा 7.1.3) इति नारदसनत्कुमारसंवादे ऋगादिनिखिलनिद्यावेदिनो.़पि नारदस्य, आत्मज्ञानाभावस्य वेदपुरु,ेण बोधितत्वेन सब्दार्थयोर्भेद एव श्रुतिसिद्ध इति पदपदार्थयोस्तादात्म्यं श्रुतिविरुद्धम् । यदि तयोस्तादात्म्यं तर्हि सति शब्दज्ञानं आत्मज्ञानमपि जातमिति शक्यं वक्तिमिति `नात्मवित्' इत्युक्तिः `नामैवैतत्' इति सावधारणोक्तिश्‌च न संगच्छेत । `अभेदस्त्वारोपित' अत् नागेशाद्युक्त्यैव स नेति स्पष्टं सर्वेषाम् ।

ननु पदपदार्थयोस्तादात्म्य एव `किं यत्तत्सास्ना......स शब्द' इति प्रस्वभाष्योपपत्तिः, अन्यथा `विषाण्यर्थरूपं स शब्द' इति प्रश्नोपसंहारोऽनुपपन्न एव स्यादिति चेत्, न । लोके `गौरयं, शुक्लोऽयम्' इति सामानाधिकरण्यनिर्देशदर्शनेन तयोस्तादात्म्यं मन्यमानस्य प्रश्नानुवादरूपत्वेनास्य भाष्यस्य शब्दार्थयोस्तादात्म्यं मन्यमानस्य प्रश्नानुवादरूपत्नेनास्य भाष्यस्य शब्दार्थयोस्तादात्म्ये तात्पर्याभावात् । `नेत्याह द्रव्यं नाम तत्' इति समाधानभा,्येणापि तादात्म्यज्ञानमेव निवार्यते । ततश्च प्रष्टुस्तादात्म्यभ्रमो वारितो भाष्यकृता । एवमेव `यतर्हि' इत्यादि प्रश्नसमाधानभा,्यत्रयतात्पर्यमिति न शब्दार्थयोस्तादात्म्यं भाष्यकृत्संमम् । `लोके गौरयं शुक्लोऽयम्' इत्यादौ गोपदवाच्योऽयं, शुक्लपदवाच्योऽयमित्येवार्थः न तु गोपदाभिन्न इत्यवधेयम्1 । यदपि म़ञ्जूषायामुक्तम्--

उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता ।।

इत्यत्र `ताम्रपदं विना व तादृशो बोधः, पदप्रकारकबोदादिति प्रकासकृत्' इति । न तद्युक्तम्, तत्र `ताम्रपदम्' इत्यादि वाक्यस्यैवानुपलम्भात् । तत्रत्यप्रकाशग्रन्थतः `पदप्रकारकबोध' इत्यर्थस्यालाभाच्च । तथा हि--तत्र तु `अत्र रक्त एवास्तमेतीति यदि क्रियते तदा पदान्तरप्रतिपादितः स एवार्थोऽर्थन्तरतयेव प्रतिभासमानः प्रतीति स्थगयति' इति वाक्यम् । स्थगयतीत्यस्य निरुणद्धि इतद्यर्तः । झटिति नोत्पादयति प्रतीतिम् । निरोधस्च विसम्बोनोपस्थितिजननम् । अत एव प्रदीपे `प्रतीतिं व्यवदधीत' इति प्रकाशग्कन्थो व्याक्यातः । प्रकाशप्रदीपयोरयमभिप्रायः - यथा पूर्ववाक्ये येन पदेन प्रतिपादितः योऽर्थः, स एवार्तो वाक्यान्तरेऽपि तेनैव पदेन प्रतिपादितः, झटिति प्रतीतिविषयो भवति, न तथा पदान्तरेण प्रतिपादितः सोऽर्थः, किं तु विलम्बोन, अन्य इव प्रतीतत्वात् । तादृसप्रतीतनिवृत्त्युत्तरं स एवार्थ इति प्रतीतिर्जायत इति विलम्बः । अन्यत्वप्रतीतौ पदान्तरप्रयोगो हेतुः पर्यायत्वज्ञानं तन्निवृत्तौ कारणम् । विलम्बमसहमानः कविस्तदेव पदं पुनः प्रायुङ्क्त इति ।

अत एव--एवेवाशब्दौ प्रायुञ्जातामुभो, यदि पदप्रकारकत्वं प्रकाशकृदिष्टं स्यात् तदा रक्तशब्दप्रयोगे तस्य प्रकारतया भाने अर्थस्य भिन्नत्वेन `स एव' इत्युक्तिरन्य इवेत्युक्तिश्चासंगता स्यात्, प्रकारभेदात् अन्यत्वस्य स्पष्टत्वात् । किं च एकरूपतायामुत्सेकानुत्सेकयोरभावो हेतुः, न तु पदप्रकारकत्वम् । संपदि विपदि च उत्सेकाद्यभाव एव महतामेकरूपतेति महापुरुषलक्षणमिति वदन्ति विपष्चितः । किं च बोधे पदप्रकारकत्वाङ्कीकारे पुनरुक्तेर्दोोषत्वोक्तिर्न संगच्छते । समानार्थपदान्तरप्रयोगे हि पुनरुक्तिरिति काव्यप्रकाशकारादयः । यदि नागेशोक्तदिशा पदस्य प्रकारत्वं तदभिमतं, तदा अवच्छेदकभेदादर्थस्य भेदेन समानार्थकत्वाभावात्तस्य दोषत्वाप्रसक्तिः । किं च `उक्तार्थानामप्रयोग' इति बहुसंमतो न्यायोऽपि निर्विषयतामापद्येत । तत्तच्छब्दस्य प्रकारत्वे तत्तदर्थस्य भेदादुक्तार्थकशब्दस्यैव दौर्लभ्यात् । एतेन `स्वं रूपम्' इति सूत्शेखरे `तज्जन्यबोधे प्रकारतया भासमानस्‌य राजन् शब्द्स्य' इत्याद्युक्तिः, `शब्दालिङ्गितार्थस्यैव भावात्' इति प़्चमीविभक्त्यर्थविचारे मञ्जूषोत्किः, अन्येषां शाब्दिकानामीदृशार्थकोक्तिस्च तथार्थकार्षमूलवचनाभावाच्चिन्त्या । ननु बोधस्य पदप्रकारकत्वाभावे घटपदशक्तिग्रहवतः कलश इत्यनुव्यवसायप्रंसंगः पदार्थस्यैकत्वात् । पदस्य प्रकारत्वे तु घटकलशपदार्थयोर्भेदात् न तथाविधानुव्यवसायप्रसंग इति चेत्, उच्यते -- स्वाव्यवहितोत्तरत्वनिवेशेन पर्यापदाद्बोधवारणवत् तादृशानुव्यवसायोऽपि सुशकवारण इति । किं च घटपदशक्तिग्रहवतः तदुत्तरक्षणे कलश इत्यनुव्यवसायो न कस्यापि कदाचिदपि भवति । तादृशानुव्यवसायं प्रति तत्पदशक्तिग्रहस्य कारणत्वेन प्रकृते तदभावात् ।

ननु `अर्थंवत् शब्दोऽपि वृत्तिविषय' इति `कृत्तद्धित' इति सूत्ररत्नग्रन्थे शब्दस्यापि शक्यत्वोक्तेः तदस्यापि प्रकारतया भानं युक्तं शक्योपस्थितस्यार्थसक्य कथंचिद्भानावश्यकत्वादिति चेत्, न तस्य ग्रन्थस्यानुकरणस्थले शब्दः शक्य इत्यर्थात् । किं च शब्दस्‌य प्रकारत्वेन भाने तत्तच्छब्दप्रकारतत्तदर्थस्य भेदावस्यंभावेन समानार्थंकशब्दस्यैवाभावेनन `एकार्तानामपि विरहूपाणाम्' इति वार्तिकं तद्भाष्यम्, सूत्राक्षरैरेव वार्तिकार्थलाभप्रकारप्रकर्शिकमनोरमादितं चासंभवदुक्तिकं स्यात् ।

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ।।
ग्राझत्वपं गाकाहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानामेते पृथगवस्थिते ।।

इत्यादि तु हरीवचनं न त्रिमुनिवचनमिति अनार्षमिति विभावनीयम् ष हरुवचने इवेत्युक्तेः शब्दानुविद्धत्वं वास्तवमिति प्रतीयते । अनुविद्धमेवेति कलायां सावधारणव्याख्यानं तु चिन्त्यमेव । तथाव्याख्याने भाष्याद्यनुग्रहाभावात् । अतो न शब्दप्रकारकत्वं शाब्दस्येति वक्तुं शक्यम् । ग्राझत्वमनुकरणस्थले, ग्हकत्वं तदितरत्र अस्तीत्येतावन्मात्रे तेजोदृष्टान्तः, न तु एकत्र युगपदुभयसत्त्वे इति वतदतात्पर्यम् । किं च स्वं रूपमिति सूत्र एव `मन्त्रादिसहचरितो योऽर्थ' इति भाष्यप्रतीकमादाय `साहचर्यं च शब्दानुविद्धस्यैव' इति प्रतीकमादाय `न सोऽस्ति इति हर्युंक्तेरिति भाव' इति कैयटं व्याक्याय `तद्बोद्यत्वेन सहचरितत्वमित्यन्ये' इति भाष्यभावमन्यथाऽवर्णयत् । अत्रेदमवधेयम्-कैयटोक्तार्थे हरुवचनं प्रमाणमुपन्यस्य तत्रार्थेऽविश्वासेन भाष्यस्य भावान्तरं वर्णयता, शब्दानुविद्धत्वं न मुनित्रयाभिमतमित्युक्तं भवति । तत्र तथावदन् मञ्जूषायां (1.प) शक्तिवादे साब्दे, प्रत्ययसामान्ये च, शब्दावनुविद्धत्वं कतं सिद्दान्तयतीति वाभाव्यं सूरिभिः ।

प्रत्यये भासते शब्द इति नोवाच भाष्यकृत् ।
न सोऽस्तिप्रत्यय इति वचनं तु न पाणिनेः ।।

अतस्तदनुसारेण यः शाब्दे शब्दभासनम् ।
वदत्ययं पाणिनीयवर्गे न गणनां भजेत् ।।

विरल्पल्य अवाल्तवत्वकल्पत्वनिरासः

यदत्र म़ञ्जूषायामभिहितं वस्तुतत्त्वे विकल्पायोगेन प्राकिपदिकार्यविषये `एकं द्विकं त्रिकं चेति चतुष्कं पञ्चकं वस्तुनि अनेकपक्षोपन्यासो व्यवहारोपपादकरार्थानामनास्तवत्वं सूचितम्' इति ग्रन्थेन वस्तुनामवास्तवत्वमिति । अत्रोच्यते--तथा - तथाभूते ब्रझणि आसंसारं प्रसिद्धानुभवे बगवति भवे संदेहः कुत' इति कुसुमाञ्जलावुदयनाचार्येण ग्रन्तारम्भे कृतनानाकोटिकल्पानुवादेन---

यं सैवाः समुपासते शिव इति ब्रझेति वेदान्तिनो
बुद्धा बौद्ध इति प्रमाणकुशलोः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ।।

इति केनचिद्विद्वत्कविशेखरतिलककृतहरिविषयकशिवत्वादिप्रकारकविरल्पानुवादेन, तत्त्वभूते ब्रझणि ब्रझ जीज्ञासमानानां सगुणात्वनिर्गुणत्वादिविकल्पोदयेन, लोके पुरोवर्तिनि पदार्थे `स्ताणुर्वा पुरुषो वा' इत्यादि विकल्पोदयेन च, सास्त्रकारैः स्वसमीहितमर्थं सिद्धान्तयितु तदङ्गतया विकल्पोल्लेखनेन, सूत्रकृता पाणिना `अवह् स्फोटायनस्य'(पा.सू.6.1.123) इत्यादि सूत्रेषु प्राचामाचार्याणां नामनिर्देसेन अवहादिकार्येषु नानापक्षसूचनेन, `विप्रदिषेधेपरंकार्यम्' (पा.सू.1.4.2) इत्यत्र भाष्यं विधिनियमपक्षयोरुभयोरुपन्यासेन, धर्माशास्त्रेषु कालदेशवयोऽवस्थाभेदेन गुरुलघुदण्डप्रायश्चित्विदानेन, पूर्वतन्त्रे व्रीहियवपक्षयोः षोडशिग्रहणाग्रहणपक्षयोरुपन्यासेन, वैद्यके एकस्य रोगस्यानेकचिकित्साप्रदर्शनेन, गीतायां द्वादशे संसारसागरसमुत्तारणसमर्थभगवत्प्रसादसंपादकभगवच्चित्तत्वाद्यनेकोपायप्रदर्शनेन च एकत्र विषये विकल्पो विविधपक्षाश्चापन्यसनीयाः सास्त्रकारैः स्वसिद्धान्तस्तापनायेत्येतत् अचार्यशैलीति सर्वेषां विदितचरमेव । तत्र क्वापि वि,याणामनास्तवत्वानुभवो नोदेतिकस्यात्, एवास्तवानां विषयाणां विचारानर्हत्वेन तद्विचारपरशास्त्रस्यैव वैयर्थ्यं स्यात् । न दृश्यते हि लोके प्रेक्षकपूर्वकारी अवास्तवसशविषाणविचाराय प्रवर्तमानः पुरूषः ।

ननु एकत्वादिविरल्पः प्रातिपदिकार्थविषयक इति तन्नष्ठो भवति न तु वाचकत्वनिष्ठः अतोहतोः पक्षवृत्तित्वाभावेन वाचकत्वावास्तवत्वरूपसाद्यसाधको न स्यादिति दोषः कस्मान्नोक्त इति न शङ्क्यम् । विकल्पविषयार्थनिरूपितत्वसंबन्धेन वाचकत्वं किमेकार्थनिरूपितं वा, अर्थद्वयनिरूपितं वेति विकल्पपर्यवसाने न विकल्पस्य वाचकत्ववृत्तित्वं सुसंपादमिति समादातुं शक्यमिति स नोक्तः ।

इदं बोद्यम् -- उक्तस्थलेषु, `अङ्कं केऽपि शशङ्‌किरे'1 इत्यत्र श्यामधर्मििकाङ्कत्वाद्युल्लेखे `अग्निहोत्रं जुहोति' इत्यादौ किमग्निपदं कर्मनामधेयम्, उत अग्निरूपदेवतापरम्, आकशशब्दः किं प्रसिद्धाकाशपरः, अथ परमात्मपरः इति कर्मब्रझमीमांसकानां व्यवहारे, `स्थाणुर्वा पुरुषो वा' इत्यादिलौकिकव्यवहारे च, कस्यचिदपि कस्मिंश्चिदपि पदार्थेऽवास्तत्वज्ञानानुदयेन विकल्पादिकं न वस्तुनोऽवस्तवत्वसादकम् । सास्त्रकारास्च स्वस्वशास्त्रेष्ववास्तवमर्तं न प्रतिपादयन्ति । किं तु प्रकारान्तरं प्रकृते न संभवतूत्येव तत्र तत्र धीमतां धीरुदेति । श्रीव्यासपाणिनी अपि क्वापिस्वतन्त्रेऽवास्तवमर्थं नोक्तवन्तौ, अतो मायिकमेवार्थं व्यासपाणिनी अब्रूतामिति वचनं प्रामाणिकैर्न श्रद्देयमित्यलम् ।

विकल्पवि,ये लोकेऽसत्त्वबुद्धिर्न जायते ।
अतो विकल्पो वस्तूवॉनां नासत्त्वं साधयेदिति ।।

वदन्ति वस्तुतत्त्वज्ञास्तस्मादेकत्र वस्तुनि ।
विकल्पल्तदसत्त्वस्य कल्पने न क्षमो भवेत् ।।

आर्षवचसामपारमार्थिकत्वोतिनिरासरः

यदिभिधीयते मञ्जूषायां `यद्यपि ऋषीणां दर्शवं तत्त्वविषयं भवति, तत्त्वभूतेन वस्तुना व्यवहारासंभवात् व्यवहारकोले तेऽदृष्टतत्त्वसदृशा1 एव नानाप्रकारैर्व्यवहरन्ति,2 इति न तद्वचसापि पदपदार्थसत्यत्वं मन्तव्यम्' इति, अस्याऽक्षरार्थं व्याक्यानतोऽवगम्य संतोष्टव्यम् तदीयैरेव । अनेन च सर्वे आर्षा ग्रन्ता अपारमार्थिकवस्तुप्रतिपादका इति मन्यते नागेश इति वेदितुं प्रभवन्ति सर्वे । आर्षाणामेवैवधत्वं, किं वक्तव्यमं रौरुषेयग्कन्थानाम् । एवं च सर्वेऽपि ग्रन्ता अपारमार्थिका एवेति तद्भावः । अत्रोच्यचे-अत्र दर्शनपदेन ज्ञानग्रहणे ज्ञातार्थविरूद्दार्थप्रतिपादकत्वात्ते,ां ग्रन्थस्य आप्तिमूलकत्वाभावेनाग्काझत्वं स्यात् । यदि तेन पदेन तदीयशास्त्रस्य ग्रहणे तु एकस्यैव दर्शनस्य तत्त्वभूतवस्तुविषयकत्वमथाभूतवस्तुविशयकत्वमित्येतद्विरुद्धम् । न च ब्रझ सत्यम्, तदितरेऽसत्या इति तद्ग्रन्थतात्पर्यमिति न विरोध इति वाच्यम् तत्तद्यर्शने तादृशोक्त्यदर्थनात् । यत्र दर्शने ब्रझ प्रतिपाद्यते, तत्र ब्रझातिरिक्ततद्यर्शवसाधननि असत्यानीति न प्रतिपादितम् । जैमितीयादिदर्शनेषु ब्रझनिरूपणमेव नेति एवं विभागायोगः । अतः सर्वेषु शास्त्रेषु प्रतिपादितानि सर्वाण्यपि तस्यान्येव । किं च मनुयाज्ञवल्क्यप्रभृतुमुनिप्रणीतस्मृतूनाम्, श्रीमद्रामायणभारतयोरितिहासयोः, श्रीभागवतादिपुराणानाम्, बोदायनापस्तंबकात्यायनाश्वलायनगोभिलप्रभृतिमहर्षिप्रणीतकल्पसूत्राणाम्, कपितपतञ्जसिप्रभृतिप्रणीतसांख्ययोगादीनाम्, वाक्यपदीयस्य, परमार्थसारग्रन्थस्य, चरकस्य, पातञ्जलमहाभाशष्यस्य, तत्तदनुयायिमहर्षिदेस्यतत्तद्ग्रन्थव्याख्यातृवचवनानां च अतत्त्वार्थप्रतिपादकत्वं व्यवस्थाप्य, तादृशभारतभागवतहरुवंशमानवादिस्मृतुग्रन्थगतानि वचवावि स्वसमीहितस्फोटस्वरूपादिसाधने प्रमाणतयोपन्यस्य स्फोटादिप्रमेयजातं साधयतीति चित्रमेतत् । इदं बोध्यम्--- तुल्यन्यायेन मामकस्यापि ग्रन्थस्य अपारामार्ाथिकप्रतिपादकता स्यात्, निश्चिते तथा मामकीने अतत्त्वावेदकप्रमाणमूलते ग्रन्ते कथं प्रेक्षावतां प्रामाण्यबुद्धिरुदयेत्, कथं वा वचने मम विस्त्रम्भः प्रमणाण्यं, स्वस्मिन्नाप्तत्वबुद्धिः, उपादेयताबुद्धिश्चि स्वग्रन्थे, कथं वा मां सब्रझचारिणः पण्डितमतल्लिका मध्येसभं पण्डितगणे पठेयुरुत्यनालोच्यैव, एव मवादीदयमिति सुकृतिनो निर्णयन्ति । सर्वे,ामृषिवचनाना्पारमार्थिकार्थप्रतिपादकत्वे ऋषीणामसत्यवादित्वे च ब्रझस्फोट प्रतिपादकानां ग्रन्थानाम्, आत्मैकत्वप्रतिपादकपरमार्थसारस्य चरकादेश्च तथात्वेन ब्रझादीनां कथं पारमार्थिकत्वसिद्धिरस्य मत इति विभाव्यम् ।

ऋषिवाक्यं मायिकार्थधमृषयोऽसत्यवादिनः ।
इत्येवं वदताऽसत्यवादिवाक्यबलादयम् ।।

साधितः स्फोटरूपोऽर्थः कथं प्रामाणिको भवेत् ।
समाजं मुनिवर्याणां दूषयन्नेष पण्डितः ।।

इति प्रमाणशरणैः सुविभाव्यं सुधीजनैः ।
कथं मध्येसभं विद्वद्गणेऽगण्यत कोविदैः ।।

महतां भ्रान्तत्वोक्तिनिरासः


यदत्र मञ्जूषायां `नव्यनैयायिकग्रन्थे प्रकृतिप्रत्ययार्थविचारो व्याकरणवासनावासितान्तःकरणतया तत्र वास्तवत्वभ्रमेणेति बोध्यम्' इति ग्रन्थेन, पाणिनेरन्येषाम चावास्तवप्रकृतिप्रत्ययार्थप्रतिवादकत्वम्, तदुपजीव्य तदर्थविचारे प्रवृत्तानां मणिदीधितिप्रभृति ग्रन्थकृतां गङ्गेशोपाध्यायरघुनाथभट्टाचार्यप्रभृतीनां भ्रान्तत्वम्, `तदे विभक्त्यन्ताः' `पदं व्यक्त्याकृतिजातयः पदार्थः' इत्यादिना गौतमेन प्रकृतिप्रत्ययार्थानामवास्तवत्वं ध्वनितमपि तेषां स्वग्रन्थेऽवास्तवत्वानुक्त्या तेषां स्वाचार्योक्तावविश्वासम्, तदुक्तितात्पर्यानभिज्ञत्वं च प्रकाशयति । `उपदेशेऽजनुनासिक' इत्यत्र करणे घञा वार्तिकार्थलाभप्रकारं प्रकृतिप्रत्ययार्थव्चारं च दर्शऱयतां भाष्यकृतादीनामपि भ्रानातत्वं सूचयति नागेश- । अत्र वक्तव्यम्--- `वृद्धिरादैच्' इति सूत्रे भगवान् भाष्यकारः संभावितप्रयोगनियमादिपक्षं निकस्य `संज्ञासंज्ञ्भावोऽपि सामर्थ्यदेव सिद्ध्यतीति संज्ञाधिकारं कुर्वन्तं वररुचिं बोधयन्, `प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविस्य महता प्रयत्नेन सूत्राणि प्रणयति स्म, तत्राऽशक्यं वर्णेनाप्यथकेन भनितुं, किं पुनरियता सूत्रेणट इति ब्रुवाणः, `प्रमाणभूत' इत्यनेन आचजार्यस्य यथार्थवक्तुत्वादिगुणं, प्रतारकत्वादिदोषाभावं, `दर्भपवित्रपाणिः' इत्यादिना परमास्तिकत्वम्, `महता प्रयत्नेन' इत्यनेन उन्मादाद्यवस्थारूपदोष्भावं, प्रस्तुतकार्यैव्यग्रचित्त्त्वम्, शास्त्रस्य च प्रतिपादितगुणनदाचार्यप्रणीतत्वेन आदावुक्तरीत्या1 महाप्रयोजनवत्त्वम्, तस्मै प्रयोदनाय सर्वैरवश्योपादेयत्वपं च कूचयन् सूत्रमिदं `दशदाडिमानि षडपूपा' उत्यादिवत् न निरर्थको पर्णराशिः, अतः अन्येषां अक्षाणामसंभवात्, सामानाधिकरण्येन निर्देशाच्च आदैचो वृद्धिसंज्ञका भवन्तीति वाक्यार्थः पर्यवस्यतीति सूत्रकृत आचार्यस्याशयमाविष्कृत्य सूत्रस्य नैरर्थक्यशङ्का परिहरतिस्म । एतादृशं पाणिनीयं शास्त्रमवास्तवार्थप्रतिपादकमिति वदितुं को वा प्रभवेत् ।

एवमेव सर्वे-महर्षयः तदनुयायिनोऽन्ये चाचार्याः प्राणभृत्सु परमानुग्रहेण `अथाऽतः सामयाचार्यिकान् धर्मान् व्याश्यास्यामः, अथाऽतो दर्शपूर्णमासौ व्याक्यास्यमः' इत्यादिभिः शास्त्रोक्तब्राझण्यादिपरमप्रयोजनलाभाय वास्तवश्रौतस्मार्तधर्मानुपदिशन्त्या पस्तम्बादय इति तत्तद्व्याख्यातृवचनैः सर्वेऽपि जानन्त्येव । कदाचिदपि ते महर्षयस्तत्कल्पास्‌्च अवास्तवमर्थं वान्तीति न वदेयुः शब्दप्रमाणकाः । नागेशस्तावत् वाक्यपदीयपरमार्थसाराद्यनार्षग्रन्थसन्ततपरिशीलनजन्यसंस्कारकलुषितचेताः निरङ्कुशो महतां महर्षीणां वचनमखिलमवास्तवार्थप्रतिपादकम्, तदनुसारेण विसयं व्यवस्थापयतां भ्रन्तत्वं वदन् भ्रान्त एव भ्रान्तजनैर्महनीयः । न हि लोके कश्चित्प्रेक्षापूर्वकारी अवास्तवमर्थं प्रतिपादयितुं महान्तं यत्नमास्थितो दृस्यते । ापि लोके कस्चिद्विनेकी जनः तत्साधनपरमात्मानुग्रहकाम्यया चिरकालं तपस्यति । नैव दृस्यते लोके कविलोकः कस्चित् शशविषाणादिकं अवास्तवमर्थं मामांसमानः । ननु भोः किमेवं वदन्ति भवन्तिः, ऐन्द्रजालिका अवास्तवमेवार्थं दर्शयितुं क्षुद्रदेवतामुपासते यतन्ते च तदर्थं विसेषेण । तद्विषयकव्चारं च वितन्वते इति सर्वलोकविदितमिदमिति चेत्, उच्यते-ऐन्द्रजालिकेन प्रदर्शितं वस्तु नावास्तवमितिपञ्चशिखाचार्या वदन्तीति पूर्वं निरूपितम् । अचिरकालत्वमात्रं तस्य नावास्तवत्वमित्यन्येऽप्याचार्य मन्यन्ते । ऐन्द्रजालिकेन समाराधितदेवानुग्रहसंपादितशक्तिविशेषेण समानीय दत्तं फलादि भक्षयन्ति जना इत्यर्थक्रियाकारित्वं च तस्येति नावास्तवत्वमित्येके इति ।

किं च `नामरूपे सत्यं ताभ्यामयं प्राणः छत्रः, प्राणा वै सत्यं ते,ामेष सत्यम्' इति श्रुत्यन्तरे ब्रझातिररिक्तमस्तनामरूपप्रपञ्ेचजातस्य विकारवर्गस्य सत्यत्वोक्तेः नागेसेक्तमयुक्तम् । न चेयं श्रुकिरेषा भूमविद्यायां गौतमादीनां वाक्यान्युदाहृत्यः- म़्जूषायां तत्र तत्र प्रमाणतया गौतमादीनां वाक्यान्युदाहृत्य अनेनावास्तत्वं सूचितवान्। ध्वनयति, ध्वनितमित्यादिना व्यङ्ग्यमर्यादया गौतमादीनां वस्तुनोऽवास्तवत्वे नास्तीत्येव तात्पर्यममिति वर्णनात् तदीयेषु ग्रन्थेषु तादृशार्थकं वस्तुनोवास्तवत्वे तात्पर्यमिति वर्णनात् तदीयेषु ग्रन्थेषु तादृशार्थकं स्प,्टवचनं नास्तीत्येव प्रकृतिप्रत्ययार्थानामवास्तवत्वं द्वनितमित्येतन्न युक्तमिति यथाभा,्यं तदीयसूत्रार्थनिरूपणेन निरूपयामः । तता हि -- `चे विभाक्त्यन्ताः पदम्' (न्या.सू.1-अ. 2-आ.60) `व्यक्त्याकृतिजातिसंन्धौ उपपचारात् संशयः' (1.2.61) इति सूत्रक्रमः । अत्र पूर्वप्रकरणेन वर्णानां नित्यत्वानित्यत्वं विचार्य पदस्वरूपपदशक्यनिरूपणाय इदं सूत्रद्वयं प्रवृत्तम् । अस्तु1 वर्णानां नित्यत्वमनित्यत्वं वा, पदान्येव लोरेऽर्थबोदनाय प्रयुज्यन्ते । किं तल्लक्षणमिति जिज्ञाासायां सुबन्तं तिङन्तं च पदमिति तल्लक्षणमिित्याद्यसूत्रात्पर्यम् । द्वितीयस्य तु जात्यादिषु वाच्यत्वं निर्णेतुं किं सर्वं सर्वत्र वाच्यम्, उत अन्यतममिति संसयोत्पादकमिति तात्पर्यमिति तद्भाष्यविदो वदन्ति । इदं च तत्र भा,्यम्-ते यतादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंरज्ञा भवन्ति (60), तदर्थे - अविनाभाववृत्तिः संनिधिः, अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौरिति प्रयुज्यते, तत्र न ज्ञायते किमन्यतमः पदार्थः, उत सर्व (61) इति । अत्र सूत्रभा,्याभ्यां प्रकृतित्यार्तस्याऽवास्तवत्वं कतं ध्वनितमिति विभावयन्तु सुधुयः । न च विकृता इत्यस्य विकारं प्राप्ता इत्यर्थेन विकारसामान्यसायावनास्तवत्वमिति नैयायिकानां सिद्धान्ताभावात् तत्सिद्धान्तानुसारेणैव हि तद्ग्रन्थार्थो वर्णनीयः . अन्यथा सोऽर्थो गौतमाभिमतः कतं स्यात् । वस्तुतः शास्त्रविहितौकारादिकार्यविशिष्टा इति तदर्थः ।

प्रकृतिप्रत्ययार्थेषु वास्तवत्वधिया यदि ।
कुर्वन्विचारं भ्रान्तः स्यात् भवेद्भ्रान्तस्च भाष्यकृत् ।।

तद्विचारं प्रकुर्वाणो भ्रान्त एव भवानपि ।
भ्रान्तोक्तिं च समाश्रित्य भ्रान्तेन भवता कृतः ।।

सिद्धान्तः कथमादर्थुमर्हः स्यादिति चिन्त्यताम् ।
कानने चन्द्रिकेव स्यान्नष्फलो विद्धि ते श्रमः ।।


पाञ्चरात्रव्चारः

यच्चोक्तं मञ्जूषायां प्रोक्तार्थकतद्धितार्थविचारे---

अत्यन्तमलिनानां तु प्राणिनां वेदमर्गतः ।
पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ।।

इति सूत्रसंहितावचनव्याक्यावसरे वेदमार्गहीनानामत्यन्तमलिनानां पाञ्चरात्रादयो मार्ग इति उदुतानुदुतहोमवदधिकारिभेदेन प्रामाण्यं तेषामिति . अत्रोच्यते - एवंविदार्थकवचनस्य पाणिनितन्त्रेऽनुपलम्भात् भाष्य एवंविधव्यवस्थाऽदर्सनाच्चापाणिनीयमिदम् । भगवान् व्यासोऽपि महाभारते सान्तिपर्वणि---

पाञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान् स्वयम् ।
पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभानवोपगतास्ते हरिं प्रविशन्ति वै ।। (359)

इत्यादिना वक्ता तु पाञ्चरात्रस्य भगवान् नारयणः, तन्मार्गनिष्ठास्तु भगवत एकान्तभक्ता भवन्तो, भगवतो निरतिशयपरमप्रेमभाजनभूता लभन्तेऽभीष्टं फलमिति प्रतिपादयन्, उपरिचरादयो विशुद्दात्मानो वेदामार्घाभिरताः सात्त्वतं (पाञ्चरात्रं) विधिमास्ताय भगवन्तं नारायणमाराधयन्त ईप्सितं फलमलभन्तेति इतिहासकथनेन,

श्रुत्वा ब्रझमुषाद्रुद्रः स देव्यै कथयन् पुनः ।
नारायणानुशिष्टा हि तदा देवी सरस्वती ।
विवेश तानृषीन् सर्वान् लोकानां हितकाम्यया ।।
(भार.शा.3.43)

इत्यादिना ब्रझादीना प्रोक्तृत्वश्रोतृत्वनिरूपणेन वेदवेदिनां तपस्विनां महर्षीणां परमात्मानुग्रहेण पाञ्चरात्रेऽधिकारिण इति स्पष्टमब्रवीत् । तत्र ब्रझदय उपरिचरादयश्च मलिना वेदहीनास्चेति कस्य वा वाणी वक्तुं प्रवर्तेत । यत्र क्वापि तन्त्रमिदं हीनाधिकारमिति वाणी यदि दृश्यते, सा तु मोहनार्थेति मन्तव्यम्, ततोक्तस्तु तत्राऽसतां प्रवृत्तिर्माभूदिति तात्पर्येण ।

ननु `चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवान्' इति शाण्डिल्यस्य वेदानादरोक्तिः वेदनिन्दनावगमेन पाञ्चरात्रं हीनाधिकारिकमिति चेत्,उच्यते--नात्र श्रेयसोऽप्राप्तिवचनं वेदानादरं गमयति, किं चु अधीतसर्ववेदस्यापि न तावन्मात्रेण फललाभः, अपि तु

वेदार्थपूरकं ज्ञेयं पाञ्चरात्रं यतोऽकिसम् ।
तत्संक्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित् ।।

इति ब्रझवैवर्ते,

वेदेन पाञ्चरात्रेण भक्त्या यज्ञेन चैव हि ।
दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।।

इति वाराहे चोक्तदिशा पाञ्चरात्राभ्याससहितेनैव वेदचारेण फलप्राप्तिरिति गमयति । अतोऽत्र वेदनिन्दा प्रतीयते इति न शक्यं वक्तुम् । `न हि निन्दा' इति न्यायेन शास्त्रे कृतसमादानं तु शङ्कत्राशयानुरोदेन ।

किं च विद्यान्तराधिगमनं तदुपदेसे वा न विद्यान्तरनिन्दायां पर्यस्यति, लोकवेदयोः ततादर्शनात् । न हि लोके व्याकरणाध्ययनोपदेशौ न्यायादिनिन्दातात्पर्यकौ दृष्टौ । वेदेऽपि न तथा दृश्यचे । तथा हि-काठके इन्द्रभरद्वाजसंवादे `एहि इमं विद्धि । अयं वै सर्वविद्येति'1 । (का.1.प्र.43) `तस्मै हैतमन्गिं सावित्रमुवाच'2 इति भारद्वाजायेन्त्रकृतसावित्रविद्योपदेशो न सर्वे,ा वेदानां निन्दां गमयति, भाष्यकारैश्च तत्र न तथा व्याक्यातम् । छान्दोग्ये च सप्तमे नारदसनत्कुमारसंवादे साङ्गसरहस्यसर्वरूपश्रेयोऽलाभश्रवणेऽपि न तेन वेदाद्ययननिन्दा गम्यते । नीपि भाष्यकारा आचार्यास्तथा व्याचचक्षिरे । किं च---
(343.29)

वेदैस्चतुर्भिः समितं कृतं मेरौ महागिरौ ।
ऋग्यजुः सामभिर्जुंष्टमथर्वाङ्गिरसैस्तथा ।।
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
सांक्ययोगकृतान्तेन पाञ्चरात्रानुशब्दितम् ।।
नारायणमुखोद्गीतं1... (348)

इत्यादिना भारते शान्तिपर्वणि सर्ववेदसहितस्यैव पाञ्चरात्रस्य ऋषिभिः कृतत्वोक्तः2

सर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम् ।
भविष्यति प्रमाणं वै एतन्मदनुसासनम् ।। (344.41)

इति भगवत्सृष्टपदार्थान्तरणामिव पाञ्चरात्रस्य प्रामाण्याभिधानाच्च, `भारतः पञ्चमो वेदः' इति पञ्चमवेदत्वेन स्मृतभारतविरुद्धवचनं प्रमाणमास्थाय पाञ्चरात्रस्य वेदामूलकत्वेनाप्रामाण्यम्, हीनाधििकारिकत्वेन वाप्रामाण्यमिति कल्पनमयुक्तम् । वेदविरुद्धस्मृतेरप्रामाण्यवत् भारतविरुद्धसूत्रमार्गनिष्ठानां वेदहीनाधिकारिकत्वमिति मञ्जूषायां कृतनिर्णयः, तत्त्वकौस्तुभे तन्त्राधिकारनिर्णयः, तत्त्वकौस्तुभे तन्त्राधिकारनिर्णये च भट्टोजी दीक्षितकृतः पतिताधिकारिकत्वनिर्णयः, पाषण्डित्वनिर्णयश्च, एवं जातीयकोऽन्यकृतनिर्णयश्च नादर्तव्यः । भारतेऽधिकारितया निर्दिष्टानां ब्रझादीनामुपरिचरादीनां, शण्डिल्यस्य च ब्रझबत्यादिपातित्याभावात्, वासुदेवभक्ताग्रेसरतया तेषा पाषण्डित्वाभावाच्च । `उत्पत्त्यसंभवात्' (ब्र.सू.2.2.42)इत्यादि चतुःसूत्रीं पाञ्चरात्रनिषेधपरतया योजयद्भिः श्रीशङ्कराचार्यैरुपबृंहणतया सूतवचनादीनामनुदाहरणात् प्रामाण्यसंदेहाच्च । अथ वा ये जनाः नारायणतद्भक्तप्रद्बेषिणां पाञ्चरात्रे महाशास्त्रे सुदृढामप्रामाण्यबुद्धिमुत्पाद्य तत्राप्रवृत्तये प्रवृत्ताः पाञ्चरात्राप्रामाण्यवादिन्यः स्मृतय इति जानीहि ।

यत्तु1

वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ।।
(भाग.11.27.7)

इति श्लोोकोतक्तमिश्रपूजायां `पतितब्राझणादयस्तावन्मिश्रेऽधिकारिणः, प्रायश्चित्ते प्रवर्तमानानां सन्ध्यावन्दनाधिकारवत् तन्त्रोपात्तवैदिकमन्त्रप्रतिप्रसव'2 इति तन्त्राधिकारनिर्णये उक्तम् । अत्रेदं चिन्त्यम्-किमयं पतितः कृतप्रायश्चित्तः, उत अकृतप्रायश्चित्तः । नद्यः, तस्य स्ववर्णाश्रमोचितकरर्माधिकारसिद्ध्या वैदिकपूजायामेव प्रवृत्तियंभवेन मिश्रे प्रवृत्तिप्रसक्त्यभावात् । न द्वितीयः, तस्य पूजायामनधिकारात्तस्य तत्राप्रवृत्तेः । सन्द्यावन्दनदृष्टान्तेन विहितप्रायस्चित्तकर्मानुष्ठानयोग्यतासिद्द्यर्थं सन्ध्यावन्दनस्य प्राप्तवपि द्विजातिकर्मभ्यो हानिः पतनमिति पातित्यलक्षणात् द्विजातिकर्मस्वन्तर्भूतपूजाया अप्राप्तेः,1 प्रायस्चििित्तविधिवत् `पतितः पूजां कुर्यात्' इति पूजाविधेरभावात् । प्रत्युत कर्महानिरेवोक्ता मिताक्षरे प्रायस्चित्तप्रकरणे `शिरःकपाली' (43) इति श्लोकव्याक्याने `द्विजातीनामध्ययनमिज्या जानं, ब्राझणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः' इत्यादीनामेव व्रतचर्यानह्गभूतानां द्विजातिकर्मणां हानिरिति । अत्र इज्यापदमन्गिहोत्रादिभगवताराधानान्तदेवतायजनपरम् । यदप्युक्तम्2 -- `स्त्रिणामुपनयनाद्यापनादीनां कल्पान्तरे सत्त्वाभिदानान्निबन्धेषु, तदधिकारिकं मिश्रपूजनं तासामागमेऽधिकारेक्तेरिति, तदतिस्थवीयः । कृतोपनयनानां स्त्रीणां वेदमन्त्रपाटादावधिकारसद्भावेन वैदिकपूजायामेव प्रवृत्तिसंभवात् । `कतोपनयनानामपि नारीणां वैदिकहरिपूजने नाधिकारः' इति निषेधादर्शनात् । एवं च पूदात्रैविद्यकथनवैयर्त्य स्यात् । न च त्रैवर्णिकविषयत्वेऽपि विभागवैयर्थ्य तदवस्थं, सर्वेषां तेषां वेदाधिकारात् वैदिकार्चनेऽर्हत्वादिति वाच्यम् । कालदेशावस्तानुसारेण अवस्यं संक्षेपेण विस्तारेण वाऽऽराधनं कार्यमिति बोदने तात्पर्येणाऽवैयर्त्यात् । भगवदाराधनाकरणे प्रत्यवायश्रवणेन तत्परिहाराय तस्यावश्यकर्तव्यत्वात् । वैदिकपूजां कर्तुं कालाद्यभावे संक्षिप्ता मिक्श्रपूजा क्र्येति तात्पर्यम् । तीक्षितोक्तार्थों व्यासानभिमत इति स्पष्टप्रतिपत्तये भागवतस्लोका नेवोदाहरिष्यामः -- उद्धव उवाच--

क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो ।
यस्मात्त्वां ये यथार्चन्ति सात्त्वताः सात्त्वतर्षभ ।।

एतद्वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम ।
नारेदो भगवान् व्यस आचार्योऽङ्गिरसः सुतः ।।
 
निःसृतं ते मुखाम्भोजाद्यदाह भगवानजः ।
पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ।।

एतद्वै सर्ववर्णानाम् आश्रमाणां च संमतम् ।
श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ।।

एतत्कमलपत्रक्ष कर्मबन्धविमोचनम् ।
भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेस्वर ।।

श्रीभगवानुवाच---

न झन्तोऽनन्तपास्य कर्मकाण्डस्य3 चोद्धव ।
संक्षिप्य वर्णयिष्यामि यतादनुपूर्वशः ।।

वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः4 ।
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ।।

इति । अस्यायमर्थः - त्रयाणां मकानां मध्ये ईप्सितेन विधिना (अन्यतमेनार्चनेन) निर्दोषस्त्रैवर्णिकः मां समर्चयेदिति . `सर्ववर्णाश्रमाणां च संमतम्' इति पूर्वमुक्तेः त्रैवर्णिक इति कर्तुः, भक्तायेत्याद्युक्त्या, शुचिरिति तक्ष्यमाणेन च निर्दोष इत्यस्य च लाभः । अत्राद्यायेऽधिकारिवर्गे पतितस्याऽपाठात् तस्याऽत्र पूजनेऽधिकार इति न मूलाशयः । श्रीधरियादौ मिश्रे पतितस्याधिकार इति सिद्धान्ताकरणात् व्याक्यातृणामपि न तताऽभिनिवेशः । दीक्षितादयो हि विष्णुवैष्णवप्रद्वेषेण पाञ्चारात्रस्य पतिताधिकारिकत्वं कल्पयन्तः प्रमाणानामपार्थं वर्णयन्ति । भारताख्यपञ्चमवेदे सान्तिपर्वणि पाञ्चरात्रस्‌य प्रवृत्तिप्रयोजनप्रतिपादकेषु 343,358,359 एतत्संख्याकाद्यायेषु उत्तमाधिकारिकत्वोक्तेश्च वेदविरुद्दो नागेशदीक्षितादिकृतनिर्णयः । स्त्रीशूद्रादीनामधिकारिवर्गे गणनेऽपि साक्षात्त्रिविधपूजां कर्तुं नार्हन्ति ते । परं तु तत्र स्त्रियः व्रतोद्यापनादाविवस्वयं संकल्पं कृत्वा वैदिकमन्त्रयुतां सर्वां पूजा विप्रद्वारा कारयेयुः । तावतैव ताः स्वयोग्यं फलमाप्नुवन्ति, शूद्रास्तु पौराणमन्त्रपठनेन हरिपूजनेऽर्हा इति केचित् । निर्णयसिन्धुकारस्तु तत्राफि नाधिकारः शूद्रस्य, पौराणमन्त्रेऽपि विप्रैः पाठनीय इति मन्यते1 । तेषां नामकीर्तनेऽधिकारात् नामोच्चारणपूर्वं ते पूजां कर्तुमर्हन्तीति केचित् । इदं स्त्रीणामपि2 समम् । त्रिविधेऽप्याराधने वैदिकमन्त्राणामष्टाक्षरस्य च विनियोगेन

आदावेव हि तच्छास्त्रमोङ्कारस्वरपूजीनम् ।
ऋषिभिः श्रावितं तत्र यत्र कारूणिको झसौ ।।
(शा.3.4.3.38)

इति भारते ॐकारयुतत्वोक्त्या च वेदतुल्यतया वेद इव तत्रापि स्त्रीशूद्राणां साक्षादधिकाराभावेन विप्रद्वारा कारयितव्यं भगवदर्चनमिति तात्पर्यमधिकारवचनानामित्यन्यत्र विस्तर इत्यलम् ।

मलिना वेदहीनाश्च पाञ्चरात्रेऽधिकारिणः ।
इत्ययं निर्णयो यस्माद्विरुद्धः पञ्चमेन तु ।।

वेदेन भारताख्येन ततस्तं परिवर्जयेत् ।
इति प्राहुर्भारतादिप्रमाणार्थप्रवेदिनः ।।

मिश्रेऽधिकारी भवति पूजने पतितद्विजः ।
इति दीक्षितनिर्णीतिर्हरिप्रद्वेषमूलिका ।।

अथ निगमनम्

धर्मादिकं मीमांसमाना महर्षयो हि महात्मानो महनीयविचित्रचरित्राः परमात्मपरमानुग्रहभाजोऽलोलुपा धर्मकामाः प्राणभृतां परमं श्रेयोऽभिकाङक्षन्तः परप्रयोजनमेव स्वप्रयोदनं मन्यमानाः परानुद्दिधीर्षवो वास्तवौ धर्माधर्मौ स्वर्गापवर्गनरकादिफलकौ बोधयन्तो धर्मे प्रवर्तयन्ति जनान्, अधर्माच्च निवर्तयन्ति चेति, तत्तत्तन्त्रविदाचार्यपादानां लोकमान्योव्यवहारो वरीवर्ति । तत्र महनीयो महरषिराचार्यः पाणिनिः वास्तवान् प्रकृतिप्रत्ययार्थान् बोधयन् शब्दप्रयोगरूपे धर्मे प्रवास्तवमर्थमवादीत् पाणिनिः, तत्र वास्तवत्वभ्रान्तिमन्तोऽन्ये तु पण्डितजना' इति नागेशव्यहरममनादरणियमेवेति च निपुणं निरुपितं पुरस्तात् । शब्दास्तु नित्या वैयाकरणानां, केषांचिदन्येषामाच्र्याणां च समये,तत्र वर्तमानाः प्रकृतिप्रत्ययांशा अपि वास्तवा नित्या एव, त एव हि पाणिनिना प्रदर्शिताः, ते कथमवास्तवा भवेयुः ।

अञ्जूषायां निरूपितः प्रपञ्चासत्यत्वावादस्तु नैतच्छास्त्रसंबद्धः, नापि पाणिनेराचार्यस्य संमतः, तस्य तन्त्रे तदर्थकवचनानुपलम्भात् । नापि भाष्याकृतोऽभिमतः, भाष्ये तथानुक्तेः । सांख्यायमते कस्यचिदपि वस्तुनोऽसत्यत्वानुक्तेः , भाष्यकारस्य सांख्याचार्यत्वेन तन्मते वस्तुनो मायचिकत्वकल्पनानौचित्यात् । भगवतो व्यासस्यापि न मतं जगतोऽसत्यत्वं, भारतादौ तदीयग्रन्थे तथानुक्तेः, प्रत्युत गीतायां `असत्यमप्रतिष्ठम्' (16.अ) इति श्लोकेन जगदसत्यत्ववादिनां निन्दनात् जगत्सत्यमेवेति तन्मतमइति आशेरते ब्रझवित्तमा विद्वांस इति च प्रपञ्चितम् ।

ते त्रयोऽप्याचार्या वासुदेवस्य परत्वं सर्वाध्यक्षत्वं, तन्मूलभूतं वास्तवं जीवपरमात्मनोर्भेदं च अभिप्रयन्ति, न त्वैक्यं, वास्तवस्च भेद इति च
वर्णितम् . श्रुतिवाक्यानि च नैक्यतात्पर्यकाणीति निरूपितम् । क्वचित् ेएवमप्यक्षरयोजना शक्या कर्तुम् । तता हि-- `तत्त्वमसि' इत्यत्र तदित्येतत् आचारक्विबन्तात्कर्तरि क्विबन्तं, विजन्तं वा पुंलिङ्गम्, सोर्हल्ङ्यादिलोपः, गौणत्वान्न सर्वनामसंज्ञादि । आर्षत्वाद्वलन्तादप्याचारक्विप्, यद्वा-हलनातादाचारक्विपि यत्र प्रयोगे दोषः तावन्मात्रस्याऽनभिधानकल्पनेन निर्वाहे सामान्यतस्तदभावकल्पने मानाभावः । ततस्च--त्वम्, तत् - आत्मकर्तृताचारसदृशाचारवान्1 असीत्यर्थः । आत्मेव भवानपि सर्वहिितो भवतीति तात्पर्यम् । ेवं च नैक्ये तात्पर्यमस्य । `ब्रझविद् ब्रजैव भवति' इत्यत्र ेवकार इवार्थे । ब्रझेवेत्यर्तः, तथा `वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वा इमान् लोकानभिजयतfट (य.सं 2.1.3.16) इत्यादौ वि,्णुरेवेत्यस्य वि,्णुरिवेत्यर्थः । अतोऽस्यापि नैक्ये तात्पर्यम्2 । " ब्रझविदाप्नोति परम्, सत्यं ज्ञानमनन्तं ब्रझ, यो वेद निहितं गुहायां परमे व्योमन्, सोऽश्नुते सर्वन् यावदायुषं ब्रझलोकमभिसंपद्यते, न च पुनरावर्तते (छां.8.15.1) यो वा एतामेवं वेदाऽपहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति (के.उ.4.1)' ित्यादौ ब्रझज्ञानिनो ब्रझलोकावाप्तिः, ब्रझणा सह सर्वकामानुभवस्च प्रतिपाद्यते, न तु ब्रझैक्यम्, अतो नात्मैक्यं श्रुतिसंमतम् ।

ननु इवार्थकत्वं दृष्टाव्ते कुतो हेतोरभ्युपेयमिति चेत्, उच्यते--विष्णुत्वरप्राप्तावेव सति वाक्यतात्पर्ये तत्प्राप्तेर्मुक्तिरूपतया मुक्यनन्तरं ऐहिकनश्वरसुखसाधनलोकप्राप्तिकथनवैयर्थ्यम्, क्त्वाप्रत्ययस्वारस्यभङ्गः, प्रकृतवाक्यविमर्शवात् प्रृतवाक्यविमर्शनात् प्रकृतयागस्य लोकप्राप्तिरेव फलमिति लाभेन विष्णुत्वप्राप्तेरेतत्कर्मफभलत्वकल्पनायोगः । साहसात् तथा कल्पने मोक्ष्स्य सर्वाचार्यकृतज्ञानसाध्यत्वसिद्धान्तभह्घः । किं च `स्पर्धमान' इत्यनेन पराभिभवेच्चावान्1 । अत्र कर्मणि अधिकारीति प्रतीयते, नेदृशस्य च मोक्षेऽधिकारो भवति,`शान्तो दान्त' (बृ.4) इत्यादिना सान्तादीनामेव मोक्षाधिकार इति शास्त्रे निर्णयात् । किं च विष्णुत्वप्राप्तावेव तात्पर्यं यदि, तदा `विष्णुरेव भवति' इत्येतावतैव पूर्येत, अतः सादृश्य एव वाक्यपर्यवसानं वाच्यमिति इवार्थकत्वमेव शब्दस्य स्वीकार्यम्2 । सादृस्यकथनेन च - लोकाभिजयसाधनविष्णुपरीत्रमसदृशपराक्रमवत्त्वलाभः वैष्णवयागकर्तः स्पर्धमानपुरूषस्येति प्रतिपत्तव्यम् । सर्वेश्नरो भगवान् वासुदेवः सर्वकर्मसमाराध्यः सुप्रसन्नः प्रपन्नभक्तजनाभिलषितं फलं वितरन्, इहामुत्र च लोके तान् प्रमोदयति, प्रपन्नाश्च तादृशा बागवता भगवतो दयापात्रभूताः सुखमनुभवन्तः सन्ति बहवो लोकद्वय इति श्रुतीतिहासादिषु जोघुष्यत इति विजानीमो ब्रझविदामग्रणीभ्यः ।

तत्र णम्बरीषादयो महाराजाः, ध्रुवप्रह्लादपाञ्चालीरकिराजविभीषणादयो दृष्टान्ताः, एतेन न वयो जात्यादयो निमित्तमनुग्रहकरणे, किं तु भक्तिः3, प्रपत्तिस्चेति ज्ञातव्यम् । तत्र न एकोऽपि पुरुषः `त्वं चाहं च एक एव' इति अनुसंददानः फलमलभत, किं तु `सर्वैस्वरो हरिः तं प्रपद्यचे शरणं, तेन चरित्रश्रवणादिना शक्यं ज्ञातुम् । अद्यत्वेऽपि जना भगवन्तमालयादिषु भजमाना `अहं भवानेक एव' इति नानुसंदधते इति सर्वषां स्वस्वानुभवसिद्धम् । हिरण्यकशिपुप्रभृतयः स्वस्मिन् जगदीश्वरत्वबुद्ओधयो नष्टैस्वरिया अबवन्निति इतिहासादितः प्रतीमः । अतो नैक्यबुद्धिः समीचीनेति मत्वा ऐक्यचिन्तां परित्यज्य भगवति सर्वेस्वरत्वादिदिया रक्षकत्वबुद्ध्या, स्वस्मिन् दासत्वरक्ष्यत्वधिया च भगवन्तं शरण्यं सरणइमाश्रयन्ति भागवताः ।

भर्क्तिं मुहुः प्रवहतां त्वयि मे प्रसह्को
भूयादनन्त महताममलाशयानाम् ।
येनाऽञ्जसोल्बणमुरुव्.यसनं भवाब्धिं
नेष्ये भवद्गुणकथाऽमृतपानमत्तः ।।1 (भाग.4.9.11)

देव प्रपन्नार्तिहर प्रसादं कुरु केसव ।
अवलोकनदानेन भूयो मां पालयाऽच्युत ।। (वि.पु.1.20.16)

हे नात हे रमानाथ व्रजनाथाऽऽर्तिविनाशन ।
कौरवर्णवमन्गां मामुद्धरस्व जनार्दन ।। (भार.स.10.46)

यः प्रपन्नं परिपाति यद्भायात्
प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्भयात्
मृत्युः प्रधावत्यरणं तमीमहि ।। (भक्षाग.8.2.33)

अनुजो रावणस्याहं तेन चास्म्यवमानितः ।।
भवन्तं सर्वभूतानां शरण्यं शरणागतः । (रा.यु.19.4,5)

त्यक्त्वा पुत्राश्च दारांश्च राधवं शरणं गतः ।।
सर्वलोकशरण्याय राघवाय महात्मने ।
निवेदयत मां क्षिप्रं विभिषणमुपस्थितम् ।।
(रामा.यु.17.16,7)

इति भागवतादावुक्तदिशा ध्रुवादयो वासुदेवमाश्रित्य सुसिनोभूवन्, एवमन्ये च भक्ता भगवन्तं शरणं गता इहामुत्र च सुखमन्वभूवन्निति भागवतादितो ज्ञेयम् । भगवान् वासूदेवोऽपि---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। (गी.9.22)

सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभतेभ्यो ददाम्येतद्व्रतं मम ।
(रामा.यु.18.33,4)

इत्युक्तदिशा प्रपन्नभक्तपरिजनपरिरक्षणबद्धदीक्ष इति विजानन्त `आचार्यवान् पुरुषो वेद' (छा.) इत्याद्युक्तेराचार्योपदिष्टविद्यैव परोक्षापरोक्षज्ञानसाधनमिति निस्चिन्वानाः संप्रदायविद आचार्यादधीतसद्विद्या यतासमयमधितविद्याविचारेण, वासुदेव सेवया च अनुदिनं श्रियःपतिं वासुदेवं तोषयन्तः, शरण्यं तं शरणं प्रपद्य तदीयकरुणाकटाक्षाऽऽसादितैहिका1मुष्मिकसलसाम्राज्यसौख्यमनुभवन्तो भवन्तु सन्तः पाणिनीया वासुदेवशरणा ब्रझविदश्चेति श्रियःपतिं श्रिमन्नारायणमासास्मह इति शम् ।

योऽनन्यशरणो भक्त्या वासुदेवं प्रपद्यते ।
पाति तं जगदीशोऽयं वेदवेद्यः परः पुमान् ।।

अब्दे सुभानौ वेदाब्धिव्योमबाणमिते कलौ ।
आत्रेयान्वयजातश्रीसेतुमाधवधीमता ।।

निर्मितो व्यासपाणिन्योर्भावनिर्णयनामकः ।
ग्रन्थोऽयं पूर्णतां प्राप कृपया श्रीहरेर्गुरोः ।।

इति श्रीमत्पूर्णप्रज्ञीयसिद्दान्तानुयायिना श्रीमदार्याचार्यकुलावतंसेन
महामहोपाध्याय श्रीमुष्णं व्याकरणसुब्बरायाचार्यात्मजेन
श्रीमत्तातपादपादपझपरिचर्यासमासादितशब्दब्रझविद्यावैशद्येन
विद्यामार्तण्ड-श्रीमध्वसिद्धान्तभूषण-महामहोपाध्यायेत्यादिबिरुदभूषितेन
व्याकरणसेतुमाधवाचार्येण
विरचितः श्रीव्यासपाणिनिभावनिर्णयाक्योऽयं ग्रन्थः समाप्तः ।
।। श्रीकृष्णार्पणमस्तु ।।