श्रीव्यासपाणिनिभावनिर्णयः/प्रथमभागः-१
श्रीव्यासपाणिनिभावनिर्णयः प्रथमभागः-१ [[लेखकः :|]] |
विषयानुक्रमणिका
संकेताक्षाराणां विवरणम्
1. मङ्गलाचरणम्
2. ग्रन्थनिर्महेतुः
3. भारतरामायणादीनां वासुदेवपरत्वम्
4. ज्ञानोत्पत्तिजन्मन्येव न मुक्तिः
5. उपक्रमोपसंहाराभ्यां गीताया भेदपरत्वम्
6. वासुगेवार्जुनाभ्यामिति सूत्रार्थः
7. भगवत्प्रसादस्य अविद्यानिवर्तकत्वम्
8. जीवपरमात्मनोः सामानाधिकरण्येन निर्देशेऽपि नाभेदासिद्धिः
9. वासुदेवल्यैव सर्वशास्त्रविषयत्वम्
10. परब्रझणः उपादानकारणत्वनिषेधपूर्वकं निमित्तकारणत्वसाधनम्
11. जीवपरमात्मनोः अंशाशिभावः
12. जीवभूतेतिगीताश्लोके जीगवपरब्रझणोः ऐक्यमारोपाय निराकरणम्
13. तत्त्वमस्यादिश्रुतुवाक्येषु भगवत्तादात्म्यनिषेधः
14. शब्गार्थयोरखण्डत्वनिरासः
15. भेददार्थसद्भावे पेरमाणानि
16. आत्मैकत्वनिषेधः
17. पदार्तानां बौद्धसत्तानिराकरणम्
18. सर्वतन्त्राणामद्वैताङ्गत्वनिराकरणम्
19. आत्मैक्ये भाष्यसंमतिनिरासः
20. सृष्टेः भगवदिच्छापूर्वकत्वम्
21. जीवपरमात्मनोः अबेदः न चरकादिसंमतः
22. ब्रझणः आविद्यकनानात्वनिरासः
23. प्रतिभासमात्ररीत्वनिरासः
24. आत्मैकत्वे योगसूत्रस्याप्यसंमतिः
25. जन्माद्यस्येति श्लोकस्य मिथ्यात्वे तात्पर्याभावः
26. `देवताविग्रहाद्यभावः जैमिनिसंभतः' इति नागेशनिर्णयस्य विमर्शः
27. मयडर्थविचारः
28. अविद्याविचारः
29. अनिर्वचनीयत्वविचारः
30. मायामात्रेतिसूत्रविचारः
31. नासद्रूपेतिबृहन्नारदीयश्लोकार्थविचारः
32. ऋतेर्थमिति भागवतश्लोकार्थविचारः
33. वाचकस्य शब्दस्य एकत्वविचारः
34. स्फोटस्य अनार्षत्वम्
35. वाचकस्याखण्डत्वनिरासः
36. स्फोटे भाष्यसंमतिनिरासः
37. स्फोटे भागवतसंमतिनिरासः
38. स्फोटस्य ब्रझत्वादिनिरासः
39. नागेशसंमतजातिस्फोटनिरासः
40. स्फोटे बह्वसंमतिनिरूपणम्
41. स्फोटदूषणासंगतिनिरासः
42. शक्तिविचारः
43. लक्षणाविचारः
44. त गोत्वादिजातीवां व्यापकत्वनिरासः
45. प्रत्यये शब्दभाने मुनित्रयानभिमतत्वनिरूपणम्
46. विकल्पस्य अवास्तवत्वकल्पकत्वनिरासः
47. आप्षवचसामपारमार्थिकत्वोक्तिनिरासः
48. महतां भ्रान्तत्वोक्तिनिरासः
49. पञ्चरात्रस्य श्रुतिमूलत्वम्
50. निगमनम्
51. परिशिष्टम्
संकेताक्षराणं विवरणम्
ई. ईशावास्योपनिषत्
का. काठकोपनिषत्
के. केनोपनिषत्
ष. षट्प्रश्नोपनिषत्
मु. मुण्डूकोपनिषत्
मा. माण्डूक्योपनिषत्
तै.उ. तैत्तिरीयोपनिषत्
ऐ. ऐतरेयोपनिषत्
छा. छान्दोग्योपनिषत्
बृ. बृहदारपनिषत्
श्वे. श्वेताश्वतरोपनिषत्
ऋ. ऋक्संहिता
य. यजुःसहिता
भार. भारतम्
भाग. भागवतम्
वि. विष्णुपुराणम्
तै.आ. तै त्तिरीयारण्यकम्
पा. पाणिनिसूत्रम्
ब्र. ब्रझसूत्रम्
जै. जैमिनिसूत्रम्
न्या. न्यायसूत्रम्
वै. वैशेषिकसूत्रम्
यो. योगसूत्रम्
गी. गीता
नै. नैषधक्व्यम्
भारवि. भारविकाव्यम्
श्रीवासुदेवपरब्रझणे नमः
श्रीव्यासपाणिनिभावनिर्णयः
सनीरनीरदप्रख्यं सच्चिदानन्दविग्रहम् ।
रमारमणमीशेशं श्रीकृष्णं समुपास्महे ।। 1 ।।
ज्ञानमुद्राञ्चितकरं नृसिंहार्य कराऽर्चितम् ।
व्यासं वन्दारुमन्दारं वन्देऽहं बुद्धिशुद्दये ।। 2 ।।
पाणिन्यादिगुरून् वन्दे शब्दसास्त्रप्रवर्तकान् ।
येषां सूक्तिः पूरूषाणां वाङमलानि चिकित्सति ।। 3 ।।
शब्दाब्धिकुम्भयोनिं गौतमराणादतन्त्रनिष्णातम् ।
मीमांसाद्वयनिपुणं नौमि श्रीसुब्बरायगुरुवर्यम् ।। 4 ।।
श्रीसेतुमाधवाभिख्यः सुधीस्तेषां गिरां स्मरन् ।
कुर्वे श्रीव्यासपाणिन्योर्ऋष्योर्भावविनिर्णयम् ।। 5 ।।
वासुदेवः परं तत्त्वमिति व्यासश्च पाणिनिः ।
अभिप्रैतीति संक्षिप्य सप्रमाणमिहोच्यते ।। 6 ।।
ग्रन्थनिर्माणहेतुनिरूपणम्
------------------
स भवान् महर्षिः पाणिनिराचार्यश्चिरकालं तपश्चरणेन प्रसादितान्महेश्वरात् अक्षरसमाम्नायमधिगम्य सर्वेषां प्रमाणभूतो दर्भपवित्रपाणिः शुचाववक्से प्राङमुख उपविशअय महता मनःप्रणिधानेन `वृद्दिरादैच्' इत्यादीनि `अ अ' इत्यन्तानि प्रणीय पुंसां वाङमलं विधूनयन् शब्दापशब्दविवेकख्यातिमुदपादयत् । उक्तं हि शिक्षायाम्--
येनाऽक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।
येन धौका गिरः पुंसां विमलैः शब्दवारिभिः ।
तमश्वाज्ञानजं भिन्नं तस्मै पाणिनये नमः ।। इति
इदं च सार्वलौकिकम् । इदमीदृशं व्याकरणं वाक्यवाक्यार्थोपयोगि, पदपदार्थावगतिसाधनं सर्वपुरुषार्थसाधनपरूषमाहात्म्य परिज्ञानहेतुभूतवेदार्थविचारे फ्रधानमङ्गम् । उक्तं हि महाभाष्ये पस्पशाह्रिके--`प्रधानं च षडङ्गेषु व्याकरणम्' इति ।
एतादृशेन शास्त्रेण पाणिनिना कृतं शब्दव्युत्पादनमवास्तवम्तिस्मिंश्च वास्तवत्वधिया प्रकृतिप्रत्ययार्थविचारे प्रवृत्तानां परेषां वैदिकानां लौकिकानां च भ्रान्तत्वं च वक्तुं विपश्चिचः कस्यचिदपि वाणी सहसा न प्रवर्तेत । प्रदीप-कौस्तुभ-वैयाकरणसिद्धान्तकारिकावैयाकरणभूषण-तत्सार-मञ्जूषादिप्रबन्धप्रणेतारस्तु अनेन महता शास्त्रेण पाणिनिर्यदकरोच्छब्दव्युत्पादनं तदवास्नवम् । एतच्च वास्तवस्य ब्रझाऽभिधेयस्य स्फोटस्य प्रतिपत्तये उपायो भवति, `असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते' इत्यसत्यस्य सत्यवस्तुप्राप्त्युपायत्वोक्तेः । ततश्च, शब्दब्रझाख्यः स्फोट एक एव सत्यः स एव तु वाच्यो वाचकश्च--
शक्यत्व इव शक्तत्वे जातेर्साघवमीयुषाम् ।
औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ।।
इत्युक्तेः । तदन्यन्नामरूपात्मकं तु सर्वं जगदसत्यम् (मायिकं) इति । अवास्तवें च पाणिनीये व्युत्पादने वास्तवत्वाभिप्रायेण प्रकृतिप्रत्य यार्थविचारे प्रवृत्ता भ्रान्ता इति च ।
फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धतः ।
तत्र निर्णीत एवार्तः संक्षेपेणेह कथ्यते ।।
वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते ।
इति प्रतिश्रुत्य, महाभाष्योदाहरणपुरं स्वस्वग्रन्थेषु विपुणं निरूपयन्ति स्म । यद्यपि एतेषु च ग्रन्थेषु बहवः प्रकारभेदा उपलभ्यन्ते तथापि स्फोटस्य परमार्थत्वे तदन्यस्य चातथात्वे, सर्व एते स्ानकण्ठा एव । अस्तु तावत् तेषां तथाऽभिप्रायः, तावता का हान्र्तरेषाम्, स्वाभाविकमेतत्, ग्रन्थकृतां यत् स्वस्वग्रन्तेषु स्वस्वाभिमतस्यार्थस्य वर्णनमिति । सत्यम्, मैंवमुच्चैर्वोचः नास्ति हानिरिति । संभवेदेव महाननर्थ आचार्याणां निन्दावचनश्रवणादौ । अतएव आकस्मिकगुरूनिन्दाश्रणादौ कर्णपिधानादि विदधता मनुना आचार्यनिन्दाश्रवणमेव न कार्यमिति बोधितम्--
गुरोर्यत्र परीवादो निन्दावाऽपि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः (2.200) ।।
इति ।
आचार्यनिन्दाश्रवणादिरनर्थहेतुः, प्रतिविधातव्यमवश्यमत्रेति तद्भावः । प्रतिविधानं च गुरोर्निन्दनस्याऽऽचार्यभक्तिमतां सर्वेषां स्वस्वकृनस्य मैवं भाषितव्यमिति शिक्षणं न सुकरमद्यतनैः, विफलं च तादृशं प्रतिवचनम् । अद्यत्वे तु अनुक्तमाचार्यैरनभिमतं च तेषामर्थं स्वस्वग्रन्थेषु निरूपयन्तः `अवास्तवमेव प्रकृत्याद्यर्थमाचार्या अवोचन्' इति ब्रुवाणा अर्वाचीना नागोशादय एवावास्तवं भाषन्ते, न तु आचार्याः पाणिन्यादयः, ते तु वास्तवमेवार्थ प्राहुरिति प्रतिपादनमेव प्रतिविधानमिति प्रतिसन्धाय `बहूनां जन्मनाम्' इति भगवद्वचनादितात्पर्यविवरणमुखेन, व्यासस्य सूत्रकृत्पाणिनेश्चाभिमतपरतत्त्वस्वरूपमिदं, तदभीप्रायश्चायमिति सहृदयानास्तिकजनानावेदयितुमास्माकीनोऽयमुद्यमः ।
भारतरामायणादीनां वासुदेवपरत्वनिरूपणम्
----------------------------
ननु गीतायां सत्सु अनेकेषु श्लोकोषु अस्य श्लोकस्य व्याख्यानं कस्मात्कारणात्प्रस्तूयते । उच्यते-अत्र मञ्जूषायां नागेशः अहं ममेत्यध्यास एवाविद्या `वासुदेवः सर्वम्' इति विद्यायां तस्यैव विरोधित्वात् इति वदन्, सर्वस्य वासुदेवात्मकत्वविज्ञानमेव अज्ञाननिवर्तकं समीचीनं ज्ञानमिति गीतावचनतात्पर्यमाविष्कुर्वन्, सर्वशास्त्राणामक्रैव तात्पर्यमिति प्रपञ्चयन्, सर्वस्य मायिकत्वं (मिथ्यात्वं) निरूपयति । तदिदं सर्वमपाणिनीयं तेन ततानुक्तेः, `वासुदेवार्जुनाभ्यां वुन्' (पा.सू.4.3.95) `अ अ' ( पा.सू.8.4.68 ) इति सूत्रद्वयं कुर्वतः सूत्रकृतोऽनभिमतमित्यवगमाच्चेति निरूपणं तावत्प्राप्तावसरमिति निश्चिन्वानस्य मम प्रथमं स्मृतिपथमारूढोऽयं श्लोकः, अतः संगतत्वाच्च आदावस्य प्रस्तावः । श्लोकार्थविवरणोत्तरं सूत्रकारस्य पाणिनेरभिप्रायो विवरिष्यत इति ।
श्लोोकोऽयं महाभारते भीष्मभारते भीष्मपर्वणि गीतापर्वणि सप्तमेऽध्याये वर्तते । इदं च महाभारतमाख्यानमितिहासरत्नं सर्ववेदार्थसंभृतं सर्वशास्त्रोपबृंहणभूतं भगवतो वासुदेवस्य माहात्म्यं प्रतिपादयति प्राधान्येनेति अविप्रतिपन्नम् । तदिदमाख्यानं श्रीमन्नारायणो भगवान् करुणावरुणालयोऽसाधुजनसंसर्गादिना विमूढचेतसः संसारे क्लिश्यमानान् पुंसः कालतो ज्ञानहीनान् अनुजिघृक्षुः सत्यवत्यां पराशरात् व्यासरूपेणावतरन् अररचत् । तत्र-
वेदे रामायणे पुण्ये भारते भरतर्षभ ।
आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ।।
भगवान् वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ।।
(भारo 1.1.282)
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान् भगवानृषिः ।।
(भारo 1.1.76)
इत्यदिभिः सर्वविलक्षणो हरीरेव प्रतिपाद्यत इति स्वग्रन्थप्रतिपाद्यं स्वयमेव भगवान्महर्षिः प्राह । गीतायां च भगवान् वासुदेव एव पुराणपुरूषोत्तमः सर्वश्रुतिस्मृतीतिहासपुराणरूपप्कमाणप्रतिपाद्यगुणनिशिष्टः ब्रवते । यैश्च सप्तभिः श्लोकशतैः श्रीकृष्णो वसुदेवनन्दनः पार्थय तत्त्वमुपादिशत् तदेव तत्त्वम् अत्र भारते उपनिबबन्ध बादरायणः ।
तत्र भारतादौ विस्तरेण निरूपितं भगवतो महिमानं समासेन निरूपसितुकामः श्रीव्यासः भक्तिरसभूयिष्ठं भगवद्गुणरत्नरत्नाकरं भागवतं नाम पुराणरत्नमकरोत् । तत्र च--
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जन ।
ज्ञातं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। (गी. 11.54)
इत्युक्तदिशा अभीष्टसिद्धौ भक्तिः परमसाधनमिति निश्चित्य तया श्रियःपत्यर्भगवतो नारायणस्य पादारविन्दप्रपदनमीप्तितसर्वविधसुखसाधनमिति सोदाहरणमाह । तथा हि--
नताःस्म ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् ।
यन्मूलकेता यतयोऽञ्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति ।।
(भाग. 3.6.17)
ध्येयं सदा परिभवघ्रमभीषटदोहं
तीर्थास्पदं शिवविरिञ्जनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपालभवाब्धिपोतं
वन्दामहे पुरुष ते चरणारविन्दम् ।। (भा. 11.5)
नमो नमस्तेऽखिलज्ञतन्तवे स्थ्तौ गृहीताऽमलसत्त्वमूर्तये ।
दिष्ट्या हतोऽयं जगतामरुन्तुदस्त्वत्पादभक्त्या वयमीश निर्वृताः ।।(भाग.3.20)
इति ।
आचार्या अपि तद्देशीया अर्वाचीनाः स्वोत्तमविषयमनोवृत्तिरनुराकाभिधा भक्तिरिति लक्षितभक्तिस्वरूपं युक्तमिति मन्यमानाः भगवद्भक्तिस्वरूपं
स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरःसरः ।
भक्तिनित्युच्यते सैव करणं परमीशितुः ।।
इत्यन्यत्र भगवदुक्तदिशा अनितरसाधारणमाहात्म्यज्ञानपूर्वकाविच्छिन्नभगवद्विषयकप्रेमप्रवाहः, `उपास्यः फलप्रदश्च देवो नान्योऽस्ति वासुदेवात्' इति, ` अनन्यसाधारणगुणवत्त्वेन भावना' इति च शास्त्रेषु व्यवहरन्तः अनन्यभक्त्या भगवदुपासनं फलसाधनमिति शास्त्रतत्त्वं सिद्धान्तय्त्वा तमेव शास्त्रार्थं शासति साधून् ।
सैषा भक्तिर्न सुलभा सर्वैः, किं तु विहितस्वकर्मानुष्ठानेन प्रक्षीणपापैः शुद्धान्तःकरणैः शमादिसंपन्नैरधीतविद्यैरेव । `स्वे स्वे कर्मण्यभिरतः संसिद्धिं सभते नरः' (गी.1.45) `शान्तोदान्तःउपरतः तितिक्षुः समाहितो भूत्वा आत्मान्येवात्मानं पश्येत्' (बृ.उ.6.4.22) `परीक्ष्य लोकानं कर्मचितान् ब्रझणोः श्रोत्रियं ब्रझनिषठम्' (आ.2.12) `आचार्यवान् पुरुषो वेद' (छा. 6.1.4.2) `तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया' (गी.4.34) `आतार्योपासनं चैव' (गी.13.7) इति गीतादिषीक्तेः । तत्र फ्रथमं कर्म सन्ध्यावन्दनम् । तदकरण सर्वकर्मस्वनधिकार एव ।
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यत्किंचित्कुरुते कर्म न तस्य फलभाग्भवेत् ।।
अत् स्मृत्युपन्यासेन प्रायश्चित्तप्रकरणे विज्ञानेश्वरेण व्यवस्थापितात्वात् ।
एवं कृतोपकारोऽपि भगवान् व्यासः परमदयालुः अननन्ताश्च वेदाः, सपादलक्षग्रन्थं च भारतम्, अष्टादशहस्त्रग्रन्थं श्रीभागवतम्, इतराणि च पुराणान् बहूनि अमितग्रन्थानि कथमेतानि मितायुषोऽल्पशक्तयः प्राणिनः प्रत्यहं विमृश्य भगवद्गुणान् अनुसंधातुं समर्था भवेयुरिति समालोच्य, निखिलागमसारसंग्रहमनश्यमनिसंधेयभगवत्संबन्धिजगत्कर्तृत्वादिविधविचित्रतकगुणप्रधानं ब्रझसूत्रनामधेयं महाशास्त्रमतनोत् । तदिदं तस्य नामान्वर्थकम्, तथा हि-वेदतदनुसारिश्रुतीतिहारसपुराणप्रतिपादितजगज्जन्मादिकारणत्नाद्यनन्तकल्याणगुणनिशिष्टश्रीमन्नारायणपरं ब्रझपदम्, सूत्रपदं तु
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवज्यं च सूत्र सूत्रविदो विदुः ।।
इति निरुक्तलक्षणोपेतशास्त्रपरम् । ततश्च, अनितरसाधारणनिरुक्ताऽवद्याऽनन्तगुणनिशिषटनारायणवासुदेवादिपदा ऽभिधेयपरब्रझप्रतिपादकं सूत्रमिति तदर्थः अथ वा ब्रझ वेदः, तेन तदर्थो ग्राझः, तन्निर्णायकं सूत्रमित्यर्तः । वेदार्तश्च उक्तगुणकिशिष्टो वासुदेवः । अस्त्यस्य वेदान्तशास्त्रं, वेदान्तसूत्रमित्यपि व्यवहारः । वेदशब्दो वेदार्तपरः, अन्तशब्दो निर्णयार्थकः `उभयोरपि दृष्टोऽन्तः' (गो.2.17)इत्यत्राऽन्तशब्दस्य निर्णायार्थकत्वेन सर्वैरङअगीकारात् । ततश्चवेदस्य वेदार्थस्य, अन्तो निर्णयः, यस्मिन्निति बहुव्रिहिः, ततः शास्तरपदेन सूत्रपदेन च कर्मधाकयः । वेदार्थनिर्णायकं शास्त्रमित्यादिरर्थः । वेदार्थस्तु उक्तो वासुदेव एव ।
अस्यैव ब्रझणो वासुदेवस्य जिज्ञासा कार्येति `तद्विजिज्ञासस्व' (तै.उ.3.1)इत्यादिश्रुतिः, `अथातो ब्रझजिज्ञासा' (ब्र.सू.1.11) इतिसूत्रं च विधत्ते इति सर्वे भाष्यकारास्तदनुयायिनश्च आचक्षते । श्रीकण्ठाचार्यस्तु शिवो जिज्ञास्य इति ब्रवीति । केचित् नारायणस्य सर्वोोत्कर्षं ब्रझसूत्रादिसर्वशास्त्रादिप्रदिपाद्यत्वं च निरूपयन्तो बादरायणीर्षादि प्रतिपादयन्त इदं शास्त्रं भेदपरमिति वदन्ति । अन्ये तु नारायणः सर्वाध्यक्षः परा देवता सर्वजगत्कारणत्वादिना इदमादिसर्वशास्त्रप्रतिपाद्यश्चेति सप्रमाणं वर्मयन्त इदं शास्त्रं भेदपरमिति संगिरन्ते । इतरे तु कंचित्कंचिद्विषयविशेषं दर्शयन्तः स्वस्वाभिमतभेदाभेदादिपरमिदं शास्त्रमित्याहुः ।
इदमेवंविधमपि नाऽसहायं वेदार्थं निर्णेतुं क्षमते, अपि तु उपबृंहणसहितमेव, किं तदुपबृंहणमिति चेत्, इतिहासपुराणानि । उक्तं हि भगवता व्यासेन--
इतिहासपुराणाभ्यां वेदं समु,बृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।। (भार. 1.1.213)
इति । अत एव `स्मृतेश्च' इत्यादीनि स्मृतिपदघटितानि बहूनि सूत्राणि प्रणीतानि भगवता व्यासेन । अत्र वेदेत्युपलक्षणं तदनुसारिणोऽस्य शास्त्रस्यापि । ततश्च एतदर्थनिर्णयोऽपि इतिहासारिणोनैव कार्यः । अत एव श्रीशङ्कराचार्यादयो भाष्यकाराः महाभारतादिगतचनानि अधिकरणार्थं निर्णेतुमुपोद्बलकयोपन्यलस्यन्ति । तत्र श्रीशाङ्करभाषअये स्मृत्यधिकरणे (ब्र.सू.2.1.1) श्रीमद्रामानुज श्रीमत्पूर्णप्रज्ञविज्ञानभिक्षुभास्कराचार्यैः भाष्येषु तत्र, अन्यत्र चाधिकरणे उदाहृतानि बहूनि पुराणवचनानि ।
भाष्योदाहृतप्रमाणानामनुपलम्भे हेतुनिरूपणम्
-----------------------------
ननु तत्तद्भाष्यकारैरुदाहृतेषु पुराणवचनेषु कानिच्दुपलभ्यन्ते आकरे, कानिचिन्नोपलभ्यन्ते, अतोऽत्र विश्वासः कथं भवेत् ? उच्यतेआकरेऽद्यत्वेऽनुपलम्भे भाष्यकाराः किं कुर्युः । ते तु तदात्वे पुराणादावुपलब्धान्येव वचनानि संप्रत्यनुपलम्भस्तु लेखने शोधने च कर्मणि लब्धाधिकारणां विदुषां स्वस्वाभिमतमताभिनिशमूलकः, तेतु तत्रतत्र विद्यमानानि वचनानि स्वस्वाभिमतमताननुकूलानि इति मत्वा तानि प्रत्याव्य, अनुकूलानि वचनानि कानिचिद्रचयित्वा प्रक्षिपन्ति । क्वचिद्विद्यमानानि प्रच्यावयन्ति, क्वचिदधिकानि योोजयन्ति । क्वचिद्विद्यमानानि प्रच्यावयन्ति, क्वचिदधिकानि योजयन्ति । अत एव भारतरामायणादिग्रन्थेषु क्वचितिपाठभेदः, क्वचित् ग्रन्थपातः, क्वचित् अधिकपाठश्च दृश्यते । अत एवोक्तमभियुक्तैः `क्वचिद्ग्रन्थान् प्रक्षिपन्ति क्वचिन्दन्तरितानपि' इति । इदमत्र प्रथममुदाहरणम्--श्रीमन्महाभारते आदिपर्वणि द्वितीये अध्याये आश्वमेधिकपर्वसंग्नहे--`सुदर्शनं तथाख्यानं वैष्णवं धर्ममेव च' इति कुंभघोणनगरवासिना टि.आर्. कगृष्णाचार्येण निर्णयसागकमुद्रणालये मुद्रापिते भारतपुस्तके पाठः. तथा तत्रैव पुक्तके अध्यायादिसंख्याबोधकः
अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः ।
त्रीणि श्लोकसहस्त्राणि तावन्त्येव शतानि च ।
विंशतिस्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ।।
(भार.1.2.345)
इति अध्यर्धश्लोको दृशअयते । तत्रैव पुस्तके आश्वमेधिके पर्वणि तु अष्टादशाधिकशताध्याया दृश्यन्ते । पर्वसंग्नहे निर्दिष्टसंखअयातः पञ्चदश अध्याया अधिकाःसन्ति । अन्येन केनचिद्दाक्षिणात्येन देवनागरलिपिभिर्मुद्रापिते भारतपुस्तके - `मणिदर्शनं तथाख्यानं वै...' `अश्वमेधे मरुद्दर्शनमत्रैव वै'...
अत्राध्यायशतं र्त्रिंशत् त्रयोऽध्यायाश्च शब्दिताः ।
चत्वारिंशत्सहस्त्राणि तावन्त्येव शतानि च ।।
इति विषयसंग्रहः, अध्यायादिसङ्ख्याबोधकश्लोोकाश्च दृश्यन्ते । एवमेव कुंभघोणनरसमीपस्थतिरुनागेश्वरनामकग्रामवास्तव्येन नवनीतं कृष्णाचार्येण आश्वमेधिकपर्वणि अध्यायानां त्रयस्त्रिंशदधिकशतेन भाव्यम् । संपूर्णतद्भारतकोशस्यानुपलम्भादधअयायानां न्यूनाधिकभावो न प्रदर्शितः । मुंबयीनगरस्थगणपतिमुद्रालये मुद्रितनीलकण्ठीयव्याख्यासहितभारतकोशे तु `सदर्शनम्', इत्यादि श्लोकार्थं नास्त्येव । एतदर्थकश्लोकान्तरमपि नास्ति । प्रथममुदाहृतभारतपुस्तक इव `अध्यायानाम्' इत्याद्यध्यर्धश्लोकः पर्वसंग्रहे वर्तते । आश्वमेधिकपर्वणि तु नकुलोपाख्यानपर्यन्तः कथाभागः, द्विनवदिरध्यायाश्वदृश्यन्ते, तस्मिन्नेव कोशे पर्वंसंग्रहप्रकरणपठिताध्यर्धश्लोकरीत्या एकादश अध्याया न्यूनाः . ननु तत्र पर्वणि स भागो नेत्येवेति ब्रूम इति वचनं तु न श्रद्धेयम् । यतस्तत्रत्यानि वचनानि प्रमाणतयोदाहरन्ति अभियुक्ताः । तस्मात् संप्रति आकरेष्वदर्शनमात्रेण नाविशअवासः कार्यो भाष्यकारोदाहृतवचनेषु । अत एव महाभाषअये परपशाह्रिके `एवं हि श्रूयत' इत्युपक्रम्य `बृहस्पतिरिन्द्राय गिव्यं वर्षसहस्त्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम' इत्युदाहृते, तत्रैव षष्ठें `एकः पूर्वपरयोः' इति सूत्रे `एकः शब्दः सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः, स्वर्गे लोके कामधुग्भवति' `विद्या ह वै ब्राझणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम्' इति यास्कोदाहृते च प्रमाणे कश्चिदपि विपश्चित् सन्दिहानः क्वास्ति प्रमाणमिदमिति न पृच्छति, आकरेषु अनुपलम्भादप्रमाणमिदमिति च न ब्रूते । ननु पतञ्जलिप्रभृतयो महर्षयो बहुज्ञा नाविद्यामानं ब्रूयुरिति निर्धारयाम इति चेद्, हन्त तर्हि ब्रझमीमायाभाष्यकाराः परापरतत्त्वज्ञशिरोमणयो बहुज्ञतमाः चतुर्विधपुरुषार्थसाधनम् अध्यात्मशाल्त्रं व्याख्याय परतत्त्वस्वरूपोपदेष्टारो नाविद्यमानं ब्रूयुरिति सुदृढं निर्धार्यताम् । अलमनेन प्रासंगिकेन ।
भारतरामायणयोर्विष्णुपरत्वे आनन्दवर्धनाचार्यसंमतिः
----------------------------------
महाभारतं गीता च वासुदेवस्य महिमानमाचष्ट इति पुरस्तादवोचाम । महिमा च विचित्रतरविविधप्रपञ्चनिर्माणसंरक्षणादिसामर्थ्यापरपर्यायानन्यसाधारणी शक्तिः । तदिदं महाभारतादि केचिदर्वाचीना ध्वनिमार्गमवलम्भमाना वासुदेवादन्यपरं मन्यन्ते । ध्वनिमार्गं स्थापयितारो हि चिरन्तनाः पण्डितप्रवरास्तु वासुदेवपरमिति सिद्धान्तयन्ति । तत्र आनन्दवर्धनाचार्योो ध्वन्यालोके चतुर्थो द्योते सविमर्शमित्थमभिहितवान् । तथा हि --`प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्छविसेषलाभं छायातिशयं च पुष्णाति । यथाा रामायणे यथा वा महाभारते । रामायणे करुणो रसः प्रधानः । महाभारते शान्तो रसो मुख्यः, मोक्षलक्षणपुरुषार्थश्च सर्वपुरुषार्थोभ्यः प्रधानः, वासुदेवो भगवान् प्राधान्येन प्रतिपाद्यते, वासुदेवाप्रदेशान्तरे व्यवस्थापितम् । अतः संसारातीते परमेश्चरे तस्मिन्नेव भगवति वासुदेवे भवत भावितचेतसः, मा भूत विभूतिषु निःसारासु, निर्णोतश्चायमंशःशब्दतत्त्वविद्भिर्व्याख्याविधायिभिरन्यैश्च, `भगवान् वासुदेवश्च कीर्त्यतेऽत्र सनातनः' इत्युक्तेश्च' इति । श्रुतितदनुसारिशास्तरप्रतिपाद्यः वासुदेव एव परं तत्त्वम् इति शब्दार्ततत्त्वज्ञानिभिः सुधीभिः पूर्वपूर्वतरैः सिद्धान्तितः, ममापि स एवाभिमत इति आनन्दवर्धनाचार्यः ध्वनयति । एवं श्रीरामायणभारतभावं प्रपञ्चयन् एष आनन्दवर्धनः तदुभयं वैष्णवं मोक्षशास्त्रमित्यभिप्रैति । एतेन रामायणं भारतं च व्यङ्ग्यमर्यादया शिवपारम्यपरमिति यत्कैश्चिदर्वाचीनतमै रुक्तं तच्चिन्त्यम्, पुरातनैर्विद्वज्जनैरेव वासुदेवपरत्वस्य व्यवस्थापितत्वात्, `वासुदेवः प्रतिपाद्यत' इति भारतकृतैव महर्षिणोक्तत्वाच्चेति संक्षेपः ।
बहूनामितिश्लोकोर्थः
------------
बहूनां जन्मनामन्ते ज्ञानवान् सां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।। (गी. 7.19)
तत्र भगवान् बादरायणः-कुरुक्षेत्रं संग्रामसमुचितं देशं मन्वानाः कौरवाः पाणाडवास्च योद्धुकामा अष्टादशभिरक्षौहिणीभिः सह तत्र समवयन्ति स्म । तत्रागतेषु के समानाः, केऽसमानाः, के वा गुणोत्तराः अथ वा पूर्वं परिहणितेषु के समागताः, के नागता इति ज्ञात्वा तत्तदुचितसमरसामग्रीसंपादसौकर्याय समाहतान् द्रष्टुकामः सेनाद्वयमध्ये स्वं रथं स्थापयित्वा, तत्र स्थित एव पार्थः सर्वानपश्यत् । दृष्ट्वा तु तत्र समवेतान् आचार्यबन्धुमुत्रादीन् संदातकरुणो विलक्षणबन्धुस्नेहपरवशः `कथं हन्यामिमान् बान्धवादीन्, किमनेन बन्धुजननिधनमात्रप्रयोदनेन ऐहिकामुष्मिकाभिमतफलविधुरेण पापमूलेनायोधनेन, अतो न चिकीर्षामि कलहमिममफलम्' इतिथमुक्त्वा विसृज्य सशरं शरासनं तूष्णीमासांचक्रे . ततो भगवता सामवचनैः सान्त्वितोऽपि धनञ्जयो बन्धुस्नेहाद्विषीदन्नितिकर्तव्यदीन्, न जानेऽहं धर्ममधर्मं च, अथापि नाहं पश्यामि इदमायोधनं श्रेयःसाधनम्, यदस्माकं श्रेयः पश्यति भवाम् तच्छास्तु भवानेव, शिष्योऽहिं तव, भवतश्चरणं शरणं प्रपद्य' इति । एवं ब्रुवते प्रपन्नाय पार्ताय जिज्ञासवे श्रेयोऽर्थिने परमार्तं सर्वशास्त्रार्थं संक्षेपेणोपदिशति भगवान् --अशोच्यानन्वशोचस्त्वम् (गी o 2.11)
इत्यारभ्य,
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यमि मा शुचः ।। (गी o1.8.66)
इत्यन्तेन ।
अत्र श्रीमद्भगवद्गीतायां षट्कत्रयम् । तत्र प्रथमे षट्के ज्ञानयोगः, द्विविधकर्मयोगः, भगवत्साक्षात्काराङ्गभूतध्यानयोगश्च उपदिष्टः, द्वितीये षट्के भक्तियोगः तस्य हेतुभूतो भगवतो महिमा च अभिहितः । तृतीये षट्के पूर्वषट्कद्वयोक्तार्थक्रोडीक्रः, पदार्थानामवश्यज्ञातव्यसात्त्विकत्वादि निरूपणं च कृतम् ।
तत्रापि--`अशोच्यानन्वशोचस्त्वम्' (गी o 2.11) इत्यादिना `एषा तेऽभिहिता सांख्ये बुद्धिः' (गी o 2.31) इत्यनेतेन ज्ञानयोगमुपदिश्य, `योगे त्वीमां श्रृणु' (गी o2.31) इत्यादिना आपञ्चमपरिसमाप्ति ज्ञानस्य बहिरङ्गकारणं द्विविधं कर्मयोगं संक्षेपविस्तराभ्यामुपदिश्य,
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।. (गीo 5.21)
इति पञ्चमस्य अन्तिमश्लोके `ज्ञात्वा मां शान्तिमृच्छति' इत्यनेन परमात्मज्ञानमपनर्गसादनमित्युक्त्या प्रसक्तं ज्ञानान्तरङ्गसाधनं ध्यानयोगं षष्ठ उपदिश्य, तत्रान्तिमश्लोके
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावन् लभते यो मां स मे युक्ततमो मतः ।। (गी o 6.47)
इत्यत्र `मद्गतेनान्तरात्मना, श्रद्दावान्' इत्यायुक्त्या ध्यानाङ्गतया प्रसक्तभक्त्यर्थं भगवन्महिमप्रतिपादनाय प्रवृत्तेऽत्र षट्के ज्ञानविज्ञावपदवाच्यसामान्यविशेषरूपभवन्महिमानिरूपणपरेऽत्र सप्तमेऽध्याये `ज्ञानं तेऽहं सविज्ञानम्' (गीo7.2) इत्युभयविधमहिमोोपदेशं प्रतिश्रुत्यच, `मनुष्यणां सहस्त्रेषु' (गी o 7.3) इति ज्ञानं प्रशस्य, भूमिरापोऽनलो वायुः' (गी o 7.4)इत्यादिना, `मत्तः परतरं नान्यत्' (गी o 7.7) इत्यन्तेन श्लोकचतुष्टयेन ज्ञानपदावाच्यसामान्यमहीमानम्, `रसोऽहमप्सु कौन्तेय' (गी o 7.8) इत्यादिना `ये चैव सात्त्विका भावा' (7.12) इत्यन्तेन श्लोकपञ्चकेन विज्ञानपदवाच्यविशेषमहिमानं चोपदिश्य, एवंविधं ज्ञानं संपादयितुं न सर्वे सोकाः प्रभावन्ति, अपि तु त्रिगुणादिकार्यकर्तापि, परमात्मा न त्रिगुणबद्दो।्त उत्तमः पुरुषः, सर्वशरण्य इति धिया भगवच्चरणं शरणं गता, भगवदनुग्रहेति, यथा--लोके कश्चित्कस्यचिदति प्रेमभातनं जनः `अहं सइति व्यपदेशमर्हति' इति `त्रिभिर्गुणमयैर्भावैः' (गी o 7.13) `उदाराः सर्व एवैते ज्ञानी' (गी o 7.18) इति षङभिः श्लोकैरुपदिश्य, एतादृशव्यपदेशहेतुभूतपरमात्मदयारूपभगवत्प्रसादस्य कारणं भगवज्ज्ञानं न सर्वैः सुलभमिति ज्ञानिस्तुतिद्वारा ज्ञानं स्तौति भगवान् वासुदेवः --
बहूनामिति ।। इयमत्र योजना--बहूनां जन्मनाम्---
आचतुर्दशमा द्वर्षात्कर्माणि नियमेन तु ।
दशावराणां देहानां कारणानि करोत्यसौ ।।
इति प्रमाणसिद्धबहुजन्मनाम्, अन्ते-अन्तिमे डन्मनि, वासुदेवः सर्वमिति सर्वं चराचरुप्रपञ्चजातम्, वासुदेवः तदायत्तम्, अथ वा सर्वं पूर्णं वस्ति, वासुदेवः हरिरेव, यद्वा सर्वं सर्वव्यापि वासुदेवः, यद्वा `पिताहमस्य जगतो मता धाता पितामहः' (गी. 9.17) इति वक्ष्यमाणसर्ननिधबन्धुजनः वासुदेवः, अथ वा सर्वं सर्वस्य उत्पत्तिलयस्थानं, वासुदेवः, यद्वा सर्वं सदा सर्वपिषयकज्ञानवद्वस्तु, वासुदेव एव, इति 5ानवान् एवंरूपज्ञानवान् एवंरूपज्ञानवान् मुक्तियोग्यः सन्, मां मदभिन्नं परमात्मानं नारायणं प्रपद्यते प्राप्नोति, सः ईदृशज्ञानवान्, हेतुगर्भं विसेषणम्; अत एव महात्मा पूजनियः, `यं यं लोकं मनसा संविभाति विशुद्धसत्वः कामयते यंश्च कामान् । चं चं लोकं जयते तांश्च कामान्, तस्मादात्मज्ञं झर्चयेद्बूतिकामः (आछ o 1.1.10) इति आत्मज्ञानिनः पूज्यतोक्तेः, सुदुर्लभः नोपलभ्यत इति । अत्र दुर्लभत्वोक्तेरीदृशब्रझज्ञानिनो विरला एव, अत एवोक्तं `कश्चिन्मां वेत्ति तत्त्वतः' (गी o 7.3) इति सर्वशब्दस्य पूर्णार्तकत्वम् `इदं ब्रझातिसामीप्यात्सर्वपूर्णगुणत्वतः । तच्च ब्रझ जलान् साक्षाद्योऽसौ विष्णुर्जलान्' इति छान्दोग्यपूर्णप्रज्ञमुनिभाष्यानुसारेण, `सर्वं समाप्नोषि ततोऽसि सर्वः' (गी. 11.40) इति वक्ष्यमाणदिसा सर्वव्यापित्वार्थकत्वं बोध्यम् । `तद्वा अस्यैतदिति छन्दः' (बृ. 6.3.29) इत्युपनिषद्व्याख्यानपरस्य `अविद्याया यदा प्रविभक्तो भवति तदा सर्वेणैकत्वमेवास्य बवति' इति श्रीशङ्करभाष्यस्य व्याख्याने `सर्वेण पूर्णेन परमात्माना सहेत्यर्थः' इत्यानन्दगिरिणा व्याख्यानात् सर्वशब्दः पूर्णर्थकोऽपि संप्रतिपन्नः । अयं भावः -ज्ञानं तु बहुजन्मसाध्यम्. इदं च गीतायां षष्ठेऽपि `अयति- श्रद्दयोपेतः' (गी. 6.37) इत्यादिना `अनेकजन्मसंसिद्धः' (गी.6.45) इत्यन्तेन प्रश्नोत्तराभ्यां विवृतं भगवता । फलप्राप्तेस्तत्र जन्मान्तरेऽपि प्रतिपादितत्त्वात् ।
भगवत्प्राप्तिमोक्षस्तु ज्ञानानच्छेदकदेहावसान एव असति प्रतिबन्धके, सति तु तस्मिन् कालान्तरे । सूत्रकृता `ऐहुकमप्रस्तपतप्रतिबन्धे तद्दर्शनात्' (ब्र.सू.3.4.50) एवं `मुक्तिफला न्यमस्तदवस्थाऽवधृतेस्तदवस्ताऽवधृतेः' (ब्र.3.4.51) इति सूत्राभ्यां तदेव सिद्दान्तितम् । तथा हि प्रारब्धरूपप्रतिबन्धकाभावे दज्ज्ञानम् अपरोक्षज्ञानम्, ऐहिकं सादनसंपत्तिजन्मन्येव भवति, तथादर्शनात्, `श्रुत्वात्मानम्' इति श्रुतावुक्तत्वात् इत्याद्यस्यार्तः । ज्ञानमित्यध्याहारलब्धम् । असति प्रतिबन्धकेऽस्मिन्नेव जन्मनि ज्ञानोत्पत्तिः, सति तु तस्मुन् जन्मान्तरे सेति तात्पर्यम् । शाङ्करेपि भाष्येऽस्यैवमेवार्थो वर्णितः ।
एवं ज्ञानवदेव, मुक्तिफलानियमः मुक्तिफलस्यापि अनियमः, ज्ञानोत्पत्तिदेङावसाने प्रतिबन्धकाभावे मुक्तिर्भवति, सति तस्मिन् जन्मान्तरे । एवं च ज्ञानोत्पत्तिजन्मन्येव मुक्तिरिति शाङ्करे । श्रीरामानुजीयभाष्ये तु `मोक्षातिरिक ्ताभ्युदयफलं तत्साधनोत्तरमेव बवतीति न नियमः, मुक्तिफलमपि तत्साधनोत्तरमेव भवतीति न नियम्' इति सूत्रद्वयस्यार्थ उपवर्णितः । एवं च यत्र जन्मनि साधनं संपूर्णं भवति, ज्ञानं च जायते, तदवसान एव ज्ञानमोक्षौ भवत इति न नियमः, प्रतिबन्धकं च प्रारब्धं कर्म । ज्ञानिनो दौर्लभ्यनिरूपणेन आत्मत्वव्यपदेशहेतुभूतभगवत्प्रीत्यतिशयकारणं ज्ञानमतिदुर्लभमिति ज्ञानमेव स्तुतं भवतीति ।
गोताया भेदपरत्वम्
-------------
एतेन `ज्ञानी त्वात्मैव' इति व्यपदेशः, `वासुदेवः सर्वम्' इत्युक्तिश्च जीवेशयोरभेदे, सर्वस्य वासुदेवस्वरूपत्वे च तात्पर्यं बोधयतीति न सर्वथा मन्तव्यम् । तथा सति `ज्ञानवान्मां प्रपद्यते' `ये भजन्ति तु मां नित्यं मायामेतां तरन्ति ते' इत्यादिभिर्ब्रझजीवयोरुपास्योपासकभावस्य, प्राप्यप्रापरभावस्य चाभिधानायोगात् । तयोर्भेदायत्तत्वात् ।
ननु स्वात्मैव स्वस्य प्रियो भवति न त्वन्य आत्मेति हि सर्वेषामनुभवः, ततश्च ज्ञानिनोऽन्यत्वे प्रीतिविषयत्वमेव न स्यादिति तदुक्तिरेव तयोरभेदे तात्पर्यं ग्राहयतीति चेत्, उच्यते --`प्रिय' इति व्यपदेशं एकैकस्मिन्नस्तुनि विद्यमान एकैकोऽतिशयितो गुणः परचित्तमावर्जयतीति हि यहृदयहृदयैकसाक्षिकोऽनुभवः । लौकिको हि गुणो न भगवतश्चित्तस्याकर्षकः --
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुपिरवीर ।। (गी. 11.48)
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्ष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।। (गी.11.54)
इति केववेदाध्ययनादीनां ज्ञानसाधनतां निषिध्य, भक्तेरेव तत्साधनताबोधनात् । किं तु भगवद्विषयकं सर्वेत्तमत्वप्रकारकं शास्त्रसिद्दं ज्ञानम्, तन्मूलकस्वविषयनिरवच्छिन्नपरमप्रेमप्रवाहरूपभक्तिश्चेति अनुत्तमगुणद्वयम् `प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' `भक्त्या त्वनन्यया' इत्याद्युक्तेः अत एव `तमेवं विद्वान्' (तै.आ.13) `आत्मा वा अरे' (बृ.4.14) `अथातो ब्रझजिज्ञासा' (ब्र.सू.1.1.1) इत्यादि श्रुतिः सूत्रं च ज्ञानं पुरुषार्थसाधनमाह । ततश्च भगवत्प्रीतिहेतुः `भक्तिमान्यः स मे प्रियः' इत्युक्ता भक्तिः, उक्तं विलक्षणं ज्ञानं च, न त्वात्मस्वरूपत्वम् । अस्ति ज्ञानिन इदमितरवैलक्षण्यमिति बोधनायैव आत्मैवेत्युक्तिः, न तु आत्मस्वरूपत्वबोधनाय । अन्यथा स्वस्य स्वस्वरूपं प्रियमेवेति सर्वदितत्वात्, तद्बोधनं विफलं स्यात् । किं च आत्मैकत्ववादिनो मञ्जूषाकृतो मते सर्वेषां जीवानां ब्रझाभेदस्य स्वतः सिद्धत्वेन, ज्ञानिनां विशिष्य तत्कथनमनर्थकम् । किं च अत्रैवोपक्रमे --
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।। (गी. 2.11)
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ।।(गी. 2.12)
इति `अशोच्यान्, जनाधिपाः' अति बहुवचनप्रयोगेण तेषां नित्यत्वसाधनानुमाने आत्मनो दृष्टान्तत्वकथनेन च आत्मभेदो निरूपितः, उपसंहारेऽपि --
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।। (गी. 18.65)
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शिचः ।। (गी. 18.66)
इति द्वाभ्यां श्रीकृषअणाख्यपरब्रझण उपास्यत्वम्, अर्जुनोपलक्षितसर्वमनुजादीनामुपासकत्वं बोधयता तन्मूलभूतात्मभेदोऽपि निरूपितः । अतस्तदुभयानुरोधेन `आत्मैव' इत्यस्य अस्मदुक्तार्थ एव युक्तः । तस्मात् अत्र ज्ञानिनो वासुदेवस्नरूपत्ववर्णनम्,एतन्मूलकं जीवब्रझणोरभेदे शास्त्राणां तात्पर्यनर्णनं चेत्युभयमुपक्रमादिन्यायविदो न न्याय्यमित्याहुः ।
ननु उपक्रमोपसंहारयोर्निरूपितो भेदोऽपारमार्थिक इति `तदुभयानुरोधे' तियाद्ययुक्तमिति चेन्न, शास्त्रादौ अवास्तवार्थकथनस्याऽन्याय्यत्वात् । `शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्' (गी. 2.8) इत्यनेन तत्त्वबुभुत्सया भगवन्तं शरणं गतः पार्थ इति ज्ञायते, तस्मात् प्रपन्नाय शिष्याय आदावन्ते च वास्तस्यैवार्थस्योपदेशेन समीचिनज्ञानोत्पादमाचार्यस्य मुख्यो धर्म इति उभयत्रावास्तव एवार्थ उपदिष्ट इत्यस्यायोगात् । एतेन यदत्र मञ्जूषायाम् `अहं ममेत्यध्यास एवा।ृविद्या, वासुदेवः सर्वम् इति विद्यायाः तस्यैव विरोधित्वात्' इत्यानेन सरर्वं वासुदेवात्मकम् इति श्लोकतात्पर्यवर्णनं, यच्चासकृदात्मैकत्वनिरूपणं तदुभयमुभयोोरप्याचार्ययोरनभिमतमिति बोध्यम् । उक्तदिश श्लोकस्य तथार्थकत्वाभावेन --
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टःस्यामिति मे मतिः ।। (गी 18.70)
श्रद्धावननसूयश्च श्रृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभान् लोकान् पाप्नुयात्पुण्यकर्मणाम् ।। (गी 18.71)
इति श्लोकाभ्यां शास्त्रमिदमुपदेष्टृणां श्रोतृणां च उत्तमलोकावाप्तेरेव फलत्वप्रतिपादनेन च तदुभयस्य श्रीव्यासमहर्ष्यनभिमतत्वावगमात् ।
वासुदेवादि सूत्रार्थः
------------
`वासुदेवार्जुनाभ्यां वुन्', (पा.सू. 4.3.98) `अअ' (पा.सू.8.4.68) इति सूत्रयतः पाणिनेरप्याचार्यस्य भगवति वासुदेवे परमात्मत्वसर्वाध्यक्षत्वाध्यवसायः, अत एव च सर्वतोऽभ्यर्हितत्वसर्वान्यत्वाध्यवसायश्चास्तीत्यवगमेन तस्य तदनभिमतत्वावगमाच्य । ततश्च--`वैयाकरणसिद्धान्ते' ति प्रतिज्ञाय तदनभिमतार्थवर्णनमयुक्तम् ।
ननु तथासूत्रप्रणयनेन कथमुक्तोऽर्थस्तदभिमत इति निर्णय इति चेत्, उच्यते-षडङ््गेषु व्याकरणं प्रधानं तत्त्वं च, परंपरया वेदार्थनिर्णयोपयोगित्वमित्यवोचाम । यथा-इदं सूत्र शब्दसाधुत्वानुशासकं, तथा तच्चेष्टितमपि अर्थविशेषव्यवस्थापकमिति, इहेङ्गितेन चेष्टितेन निमिषितेन महता सूत्रप्रबन्धेनाऽऽचार्याणामभिप्रायो गम्यते, इति `न संप्रसारणे संप्रसारणम्' (पा.सू.3.1.37) `न मुने' (पा.सू.8.2.3) इति ,ूत्रयोर्वदता भाषअयकृता व्यवस्थापितम् । इङ्गितं मानसो व्यापारः, चेष्टतं कायिको व्यापारः प्रकृते उच्चारणम्, निमिषितं नेत्रव्यापारः । तत्र क्वचिदाचार्यो विशिष्टेन सूत्रेण स्वाशयमाविष्करोति, यथा-यून इत्यादौ संप्रसारणयोग्ययणमद्वयादिसमावेशस्थले पूर्वस्य यणः पूर्वं न संप्रसारणमिति स्वाशयं `न संप्रे' ति विशिष्टवचनेन । क्वचित्तु कार्यभूतस्य यत्किंचिच्छब्दस्वरूपस्य निमित्तत्वादिनोपादानेन स्वाशयमविष्करोति, यथा `न मुने' इत्यनेन नााभावसिद्धं नशब्दं निमितितमादाय विहितो मुत्वासिद्धत्वाभावः, निमित्तत्वेनाश्रितनाभावे कर्तव्येऽपि मुत्वं नासिद्धमिति स्वाभिप्रायं स्मारयत्यनुमानविधया । यद्येवं कल्प्यते तदा नाभावे कर्तव्ये मुत्वस्यासिद्धत्वेन नशब्दस्यैवाभावेन हेत्वप्रसिद्धिरिति सूत्रं निर्विषयं स्यात् । प्रकृतेऽपि वासुदेवशब्दस्य पूर्वनिपातकरणं चेष्टितं (द्वन्दे पूर्वप्रयोोगरूपम्) वासुदेवपदावाच्यस्य देवताविशेषत्वं, सर्वान्यत्वं, सर्वेत्तमत्वमत एव सर्वतोभ्यर्हितत्तवं चाचार्योऽभिप्रैतीति बोधयति । अन्यथा अर्जुनशब्दस्य अजाद्यदन्ताऽल्पाच्तरत्त्वेन `अजाद्यदन्तम्' (पा.सू.2.2.33) `अल्पाच्तरम्' (पासू.2.2.34) इति स्वकृतां व्यवस्थामनुसृत्य अर्जुनशब्दस्य पूर्वनिपाते कर्तव्ये अतथाभूतस्य वासुदेवशब्दस्य पूर्वप्रयोगोऽनुपपन्नः स्यात् । तेन झानीमो वासुदेवेऽभ्यर्हितत्वप्रयोोजकं परमात्मत्वादिकमस्तीति स्वसिद्धान्तः सूचित इति । अत एव प्रदर्शितां स्वीयामपि व्यवस्थामुल्लङघ्य प्रथमं वासुदेवशब्दं प्रायुङ्क्त । उक्ताभ्यर्हितात्वादिषु उत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुत्वं द्रष्टव्यम् । ननु समभिव्याहृतपदार्थापेक्षयोत्तमत्वाभ्यर्हितत्वकल्पनं न्याय्यं नत्वेवं कल्पनमिति चेत्, उच्यते-स्पष्टीकृतशअचायमर्थो भाष्यकैयटाभ्यामत्रैव सूत्रे । तथा हि-`अथ वा नैषा क्षत्रियाख्या, संज्ञैषा तत्र भगवत' इति भाष्यम्, `संज्ञैषेति ।। नित्यः परमात्मा देवताविशेष इह वासुदेवो गृझत इत्यर्थ इति कैयटः । अत्र भाष्ये वासुदेवपदस्य भगवत्पदेन व्याख्यानात् ।
एश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा ।।
ज्ञानशक्तिभलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयगुणादिभिः ।।
इति प्रमाणसिद्धहेयगुणाभावसमानाधिकरणानन्यसाधारणजगन्नियमनादिगुणवान्,
एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य ।
हित्वेतरान्प्रार्थयतोो विभूतिर्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ।। (भाग.प्र. 18.20)
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्यन्यतमो मुकुन्दात् कोो नाम लोके भगवत्पद्र्थः ।।
(भाग.प्र.18.21)
अहं पृष्टोऽर्यमणो भवद्भिराचक्ष आत्मावगमोऽत्र यावान् ।
नभः पतन्त्यात्मसमं पतत्रिणः तथा समं विष्णुगतिं विपश्चितः ।।
(भाग.प्र.18.23)
इति भागवते भगवत्पदवाच्यतया निर्णेतो विष्णुमुकुन्दादिपदवाच्यो ब्रझेशानादिसर्वदेवसमाराध्यो लक्ष्मीपतिर्देवताविसेषः,
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।
वर्तेते तावुभौ नित्यं वासुदेवे सनातने ।।
इति प्रमाणेन भगवच्छब्दस्य मुख्यवाच्यतया निर्णेतो वासुदेवो ग्राझ इति बोधितम् । देवताविशेष इति कैयटस्य देवतोत्तम इत्यर्थः ।यतः हर्यादिपदान्तरं विहाय भगवत्पदं भगवान् भाष्यकारः अत उक्तार्थो भाष्यादिसंमतः, अतः कस्यचिदपि चोद्यस्य नावकाशः ।
एवं च सूत्रे वासुदेवपदं कर्तरि, अदिकारणे च औणादिकोऽण्प्रत्ययान्तवासुपदस्य देवशब्देन कर्मधारये सर्वाश्रयस्य सर्वान्तर्यामिणः श्रियःपत्युर्नारायणस्य वाचकम् । `मयि सर्वमिदं प्रोतं सुत्रे मणमिगणा इव' (गी. 7.7.) `ईश्वरः सर्वभूतानाम्' (गी18.61)
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततोऽसौ वासुदेवेति विद्विद्भिः परिगीयते ।।
वासनाद्वासुदेवः स्याद् वासितं ते जगत्त्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ।।
छादयामि जगद्विशं भूत्वा सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततो झहम् ।। (भार.शा. 350.41)
इति स्मृतिभिः तस्यैव सर्वान्तर्यामित्वसर्वाधारत्वगुणविशिष्टत्वबोधनात् । शङ्कराचार्यैरपि `एष त आत्माऽन्तर्याम्यमृत' (बृ.उ.5.) इति श्रुतिवाक्यव्याख्यानेऽन्तर्यामित्वं नारायणस्यैवेत्युक्तत्वाच्च । अथ वा-इदं वासुदेवशब्दस्य पूर्वप्रयोगरूपं पाणिनीयमुच्चारणं `पुत्रा मे बहुक्षीरघृतमोदनं कांस्यपात्र्यां भुञ्जीरन्' इति `न मु न' इति सूत्रभाष्योक्तवृद्धकुमारीवचनवत् निरूपितयावदऱ्थगर्भम् । वृद्धकुमारीवचनं तु पतिपुत्रधनधान्यादियावत्संपत्कामनागर्भमिति व्याख्यातारः ।
शब्दसंस्कारोपयोग्यर्थानुगुण्येन `अस्य अ' इति वक्तव्ये `अ अ' इति निर्विभक्तिकं निर्देशं कुर्वन् तत्र भवान् पाणिनिः यदवश्यकर्तव्यं शास्त्रान्तेे शास्त्रसामापनद्योोोतकं संप्रदायसिद्धमभ्यासरूपं द्विर्वचनम् , यच्च `मङ्गलान्तानि प्रथन्त' इति प्रमाणसिद्दं शास्त्रान्ते कर्तव्यतया प्राप्तं स्वेष्टदेवतास्मरणरूपं मङ्गलम्, यच्च स्वकृतेर्भगवत्समर्पणाय कर्तव्यं भगवत्संबोधनम्, यच्च स्वस्य वासुदेवे भगवति इष््टदेवतात्वादिज्ञानमस्तीति श्रोोोतृणां बोधनेन तेषाममपि तादृशज्ञानोोत्पादनम् तत्सर्वं कृतं भवतिती मन्यते । तत्राभ्यासः स्पष्टः . `अकारो वासुदेवः स्यात् अकारो भगवान्विष्णुः' इति वचनात्, `अ इति ब्रझ' (ऐ.आ.2-3-8) इति श्रुतेश्च, अन्तेऽपि मङअ्गलार्थं वासुदेववाचकाशब्दप्रयोोग इति सां प्रदायिकवचनाच्च, अशब्दवाच्ये वासुदेवत्वोोत्तमत्वेेष्टदेवतात्वबुद्धिरस्तीति सिद्धम् । `अ' इत्यस्य संबोधनान्तत्वसंभवेन भगवति स्वकृतेः समर्पणाय तत्संबोधने च कृतं भवति । अत्र पक्षे आदरात् द्विरुक्तिः, श्रोतारोोऽपि आाचार्याणां भगवति वासुदेवे सर्वेत्तमत्वेषटदेवत्त्वाध्यवसायसद्भावेन अस्माभिरपि ईदृशाध्यवसायवद्भिस्तदुपासकैश्च भवितव्यम् इति दृढाध्यवसाया भवेयुरनुतिष्ठेयुश्च तथैवेति सर्वं समञअ्जसम् ।
भगवत्प्रसादस्य अविद्यानिवर्तकत्वम्
--------------------------
किं च `यदुक्तम् अहं मम' इत्यविद्ययेति, तद्युक्तम् `वासुदेवः सर्वम्' इति (सर्वं वासुदेवात्मकमिति ज्ञानं) विद्या `सैषा उक्ताऽविद्याविरोधिनी' इत्यययययुक्तिस्तु न युक्ता । एतस्या अपि अहं ममेतिवत् अविद्याविशेषत्वात् । `अहं मम' इत्यस्य अविद्यात्वे `वासुदेवः सर्वम्' इत्यास्य च विद्यात्वे न कंचिदपि विशेषं पश्यामः । `अतस्मिन् तत्त्वाध्यवसायो' हि अविद्या । स चोोोभयत्र समानः । योो हि यस्य निवर्तकः स तु तस्य विरोधी । लोके च `इदं रजतम्' इति मिथ्याध्यवसितेः, औत्तरकालिकं `नेदं रजतम्' इति बाधज्ञानम्, इयं शुक्तिकेति अधिषिठानयाथात्म्यज्ञानं वा निवर्तकं, न तु तत्समानयोगक्षेमं `घटः पट' इत्याद्यविद्ययान्तरमिति वदन्ति विद्वांसः ।
शास्त्रं तु भगवदनुग्रहो संसारबीजम् `अहं मम' इत्यज्ञानं निवर्तत्याह ।
येषां स एव भगवान्दययेदनन्तः
सर्वात्मना श्रितपदो यदि निर्व्यलीकम् ।
ते वै विदन्त्यतितरन्ति च देवमायां
नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ।। (भाग.2.7.42)
दैवी झेषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। (गी.7.14)
ये मानवा विगतरागपरापरज्ञा
नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हतकिल्बिषचेनास्ते
मातुः पयोधररसं न पुनः पिबन्ति ।।(पाण्डवगीता)
ये तु मुमुक्षवो भगवद्भजनेनैव संसारतरणं सुकरमिति आचार्यवचने शास्त्रे च कृतविश्वासाः, परमपरं च तत्त्वं सम्यक् विजानन्तः पुत्रमित्रकलत्रादिविषयाभिलाषविधुराः, सन्ततं भगवन्तं स्मरन्तो निष्कपटं सेवमानाः, भगवतश्चरणारविन्दनिष्यन्दमानमकरन्दास्वादमत्तस्वान्ताः, भगवच्चारणं शरणं प्रपन्ना भवन्ति ते भगवदनुग्रहेण उत्पन्नविवेका दूरीकृतसंसारबीजा `अहं मम' इत्यविद्याबन्धाः स्वरूपतोोोोो निर्वत्तप्रारब्धेतरपुण्यपापाश्च पुनर्जन्म न विन्दन्त इति शाल्त्रविनिर्णय इत्यखण्डार्थः । देवमाया परमात्माधीनगुणत्रयात्मकं मोहकं (वस्तुयाथात्म्यग्रहप्रतिबन्धकं) वस्तु, दययेत् दयां कुर्यात् , प्रसादेन अनुगृह्णीयात् । दयाशब्दात्करोतिण्यन्ताल्लिङ् । श्वसृगालभक्ष्ये देहे, इदमुपलक्षणं नश्वरस्य समस्तविषयस्यापि ।
`प्रपद्यन्ते, तरन्ति' इत्युक्तेः भगवच्चरणप्राप्तेर्मायातरणस्य च `अष्टवर्षं ब्राझणमुपयीत तमध्यापयीत' इत्यादौ उपनयनाध्यापनयोरिव हेतुहेतुमद्भावः सूचितः ।
विगतेत्यादेः विषयवैराग्येन परापरतत्त्वविवेकवन्त इत्यऱ्थः । हतकिल्बिषेत्यादेः हरेरनुग्रहेण विनष्टाविद्यादिदोषा इत्यर्थः । शुद्धात्मान इति यावत् । स्तन्यपाननिमित्तजन्मरहिता (मुक्ता) भवन्तीति । इतरत्स्पष्टम् ।
एतेन यत् स्फोटाख्यं पदार्थमपूर्वमङ्गीकृत्य तस्य ब्रझत्वं जगदुपादानकारणत्वं तस्यैकस्यैव सत्यत्वं च मञ्जूषायां नागेशेन, अन्यैश्च वैयाकरणैः स्वस्वग्रन्थे च निरूपितं, तत्सर्वं पाणिनेरपि संमतमिति बालानां मोहोोत्पादनायैवेति मन्तव्यम् । सर्वस्यास्य सूत्रभाष्यकृदभिप्रायविरुद्धत्वात् । व्यासस्य पाणिनेश्च वासुदेव एव परं तत्त्त्वं परं ब्रझ तत्स्मरणदिरेव पुरुषार्थप्रद इति मुख्यं तात्पर्यम् । भाष्येऽपि स्फोटस्य ब्रझत्वादिकं क्वापि नोक्तमिति तदभिप्रायोऽपि व्यासपाणिनितात्पर्यानुरोधीति ।
गीताश्लोकार्थविवृतेर्भावोो व्यासस्य दर्शितः ।
`वासुदेवे' त्यादि सूत्रविवृतेः पाणिनेरपि ।।
सामानाधिकरण्यविरोधोध्धारः
---------------------
ननु `ज्ञानी त्वात्मैव, वासुदेवः सर्वम्' इत्यादि समान्धिकरणनिर्देसेन `नीलो घट' इत्यादाविव अभेदबुद्धिः स्वरसत उत्पद्यत इति चेत्, अत्र ब्रूमः -सामानाधिकरण्यनिर्देशो न सर्वत्र स्वरूपैक्यप्रत्ययं जनयितुमीष्टे । a`मुखं चन्द्रः', `सिहो माणवकः', `अादित्योो यूप' इत्यादौ तथा निर्देशेऽपि अभेदभुद्धेरनुदयात् । किं चु संज्ञाजातिगुणक्रियाभेदेन चतुर्विधेषु शब्देषु यत्र `सुन्दरः पाचको वा देवदत्तः, सुन्दरः पाचकोोो वा ब्राझणः' इत्यादौ संज्ञाजातिशब्दाभ्यां गुणक्रिययोः समभिव्याहारः `देवदत्तो ब्राझण' इत्यादौ संज्ञाजात्योः, `सुन्दरः पाचक' उत्यादौ गुणक्रिययोः , `निलः सुन्दर' इत्यादौ गुणयोः, `पाचकःपाठक' इत्यादौ क्रिययोः समभिव्याहारः, तत्राभेदधियमुत्पादयति । अत्र सर्वत्र धर्माणामेकस्मिन्नधिकरणे वृत्तिसंभवात् । यत्र तु जात्योरेव संज्ञयोरेव समभिव्याहारः न तत्र । यथा `क्षत्रियो ब्राझणः', `देवदत्तोयज्ञदत्त' इति । अत्र क्षत्रियत्वब्राझणत्वादीनां विरुद्धधर्मत्वेन एकाधिकरणवृत्तेरयोगात् । प्रकृते च `ज्ञानी त्वात्मैव' इत्यस्य `देवदत्तो यज्ञदत्त' इति प्रयोोगतुल्यतया नाभेदप्रत्ययः, अत्र ज्ञानिपदस्य
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्ते जिज्ञासुरर्थार्थो ज्ञानि च भरतर्षभ ।। (गी. 7.13)
इत्यनेनोक्तोपासकविशेषज्ञानिजीवपरत्वेन आत्मपदस्य भगवत्स्वरूपपरत्वेन उभयोरेकाधिकरणवृत्तित्वासंभवात् । किं तु `अग्रिर्माणवक' इत्यादाविव आत्मसदृश इत्येव बोधः, सादृश्यप्रयोजकश्च धर्मः अतिप्रियत्वमपहतपाप्मत्वादिकं च, अत्राऽऽद्य उपात्तः, द्वितीयोऽनुपात्तः । एतेन अत्र ज्ञानिपदं ज्ञानिसामान्यपरम् अतः सामानाधिकरण्योपपत्तिरिति मन्तव्यम् । एवं विलक्षणबोधे कारणं सर्वक्रणभूत ईश्वरः, शब्दार्थतत्त्वविदः सहृदया विद्वासो वा प्रष्टव्याः ।
नन्वेवम् `आत्मवत्' इति वत्यन्तनिर्देशेन भाव्यमिति चेत्, न तमन्तरेणापि सादृश्यप्रतीतेरानुभविकत्वात् । किं च अकृत्वैव तथानिर्देशं तदर्थप्रत्यायनं शास्त्रकृच्छैलीसिद्धम् । अत एव पाणिनिः `गाङ्कुटादिभ्योऽञ्णिन्ङ्ति' (पा.सू.1.2.1) `गोतो णित्' इत्येव प्रायुङ्क्त । तयोरेव सूत्रयोः "न झन्तरेण वतिमतिदेशो गम्यते, अन्तरेणापि वतिमतिदेशो गम्यते, तद्यथा--`एष ब्रझदत्तः' अब्रझदत्तं ब्रझदत्त इत्याह; ते मन्यामहेे ब्रझदत्तवदयं भवतीति, एवमिहापि अङ्तिं ङ्ति, अणितं णिदित्याह, ङिद्वत्, णिद्वत् इति गम्यत" इति भाष्येण सदृष्टान्तं वतिं विनापि वत्यर्थावगतिः भवतीति भाष्््यकारा आहुः । एवं `बहुगणवतुडति संख्या' (पा.सू.1.1.23) इति सूत्रेऽपि अतिदेशपक्षे `यदि असंख्यां सेख्यां संख्ययामाह' इत्युपक्रम्य एतद्दष्टान्तेन `संख्येत्युक्तेऽपि संख्यावदिति गम्यत' इत्यवोचन् । एवंविधेनैव प्रयोगेण विवक्षितार्थप्रत्यायनं कवेः कौशलं स्फोरयति, काव्यस्य शोभां पुष्णाति, सहृदयानांं मनांसि रञ्जयति । अत एव ईदृशानां प्रयोोगाणमुपपत्तये बहूनि निमित्तानि शास्त्रकृतो दर्शयन्ति ।
तत्र महाभाष्यकाराः `पुंयोगादाख्यायाम्' (पा.सू.4.1.48) इति सूत्रेे प्रष्ठशब्दस्य स्त्रियां वर्तमानत्वे हेतुनिरूपणावसरेे चतुर्भिः प्रकारैः ` अतस्मिन् स' इत्येतत् तात्स्थ्यात्; ताद्धर्म्यात्, तत्सामीप्यात्, तत्साहचर्यात्, मञअ्चा हसन्ति, जटी देवदत्तः, गङ्गायां घोषः, कुन्तान् प्रवेशय इति, अतस्मिन् तच्छब्दप्रयोगेे निमित्तोोदाहरणे आहुः । `इग्यणः संप्रसारणस्य' (पा.सू.6.33.139) इत्यादौौ वर्णग्रहणं कथमित्याशङ्क्य यथाा काकाज्जातः काकः, तथा संप्रसारणपदं `संप्रसारणसंज्ञकवाक्यात् जातवर्णपरम्' इति तज्जन्यत्वमपि अतस्मिन् तच्छब्दप्रयोगे निमित्तमित्यभ्यधुः ।
गौौतमोऽपि न्यायसूत्रे --सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योोोग-साधनाधिपत्येभ्यः, ब्राझण - बाल-कट-राज-सक्तु-चन्दन-घङ्गा-शकटा (शाटका) न्न-पुरुषेषु अतद्भावेऽपि तदुपचारः (न्या.सू.2.2.64) इतिि लक्षणानिमुत्तान्याह । सहचरणादिधर्मेण अतच्छब्दस्य तेन शब्देनाभिधानमित्यर्थ इति तद्भाष्यकारः । मञ्जूषाकारस्तु-तद्धर्माभावेेऽपि तच्छब्दव्यवहारः स च तध्धर्मारोपेण आरोपनिमित्तानि च सहचरणादीनि इति सूत्रार्थमाह । अत्रारोोपेणेत्युक्तित्वाच्च । यद्यपि नागेशकृत `तत्र संयुक्तसमवेतां जातिं ब्राझणे समवायेनाध्यारोोोप्य ब्राझ्णं यष्टिकेत्याह' इति न्यायवार्तिकमतानुवादेन वार्तिककारमते आरोोोपोोऽस्तीति प्रतीयते । तथापि लक्षणास्थले नारोप इति तदीयानां बहूनां वादः । अतश्चिन्त्यमिदम् ।
सहचरणम्-अविनाभावः, स्थानम्-आश्रयः, तादर्थ्यम्-तत्प्रयोोोोोजनकत्वम्, वृत्तम्-आचारः (व्यापारः), मानं-प्रमाणम्, धारणम्-आश्रयविशेषः, सामीप्यं-सन्निधिः, साधनं-हेतुः, आधिपत्यम्-प्रभुत्वम्, उदाहरणानि तद्भाष्ये द्रष्टव्यानि ।
जैमिनिरपि-यजमानः प्रस्तरः, अग्निर्वै ब्राझणः, आदित्यो यूपः, इत्यादौौ अभेदस्य बाधितत्वात् सामानाधिकरण्यनिर्देशोऽनिपपन्न इिति प्राप्ते तत्सिद्धिः, जातिः, सारूप्यम् इत्यादीनि निमित्तान्याह, प्रथमस्य तुरीये पादे । इयं च तदीयानां संग्रहकारिका--
तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः ।
षडभिः सर्वत्र शब्दानां गौणीवृत्तिः प्रकल्पिता ।। इति ।
इयं च लिङ्गसमवाया दित्यधिकरणे (जै.सू. 1.4..1.8) शास्त्रदीपिकायाम् ।
ब्रझसूत्रकृतोऽपि--`स्याच्चैकस्य ब्रझशब्दवत्' (ब्र.सू.2.3.4) इति ब्रझशब्दवदिति दृष्टान्तं वदन्तः परमात्मनि मुख्यस्यास्य शब्दस्यान्यत्र प्रयोगो गौण इति मन्यन्ते । ताद्धर्म्यादिकं तत्र निमित्तमिति तद्भावः । एकस्मिन्नर्थे मुख्यास्यैकस्य शब्दस्य अन्यस्मिन्नर्थे ब्रझसब्दस्येव गौणः प्रयोगः स्यादितिसूत्रार्थः । अयमर्थो भाष्यत्रयसंमतः । शंकररामानुजभाष्यरीत्या पूर्वपक्षसूत्रमिदम् । एतद्भाष्यद्वयेपि `आत्मन आकाशः संभूत' इति श्रुतिस्थः संभूतशब्दो दार्ष्टन्तिकः, पूर्णप्रज्ञभाष्त्या तु `अनादिर्वा अयमाकाश' इति श्रुतिस्थानादिशब्दः । `तपो ब्रझ' (तै.उ.3.2) इत्यधिकारेऽन्नादिषु ब्रझज्ञानसाधने तपसि च ब्रझशब्दो गौः (शं-), `तस्मादेतद्ब्रझनामरूप' (आ.1.11) इत्यत्र प्रधाने ब्रझशब्दोगौणः (रामा-), तत्रैव श्रुतौ कार्यब्रझणि चतुर्मुखे ब्रझशब्दो गौणः (पूर्ण-) इति वदन्तः त्रयोऽपि भाष्यकारा अतदर्यकस्य शब्दस्य अतस्मिन्नर्थे, समानाधिकरणप्रयोगे च तादर्थ्यतदधीनत्नादि च निमित्तमिति मन्यन्ते । आकाशस्य ब्रझकार्यत्वं प्रसाध्य `आकाश आत्मा' इति तु गौण इति शंकराचार्याः वियदधिकरणे `यावद्विकार-' (ब्र.सू.2.3.7) मिति सूत्रशेषे ब्रुवन्ति । सदृशगुणवत्त्वेन, तज्जन्यत्वेन च समानाधिकरणमप्रयोग इति तद्भावः ।
ऐतेन `रसोऽहमप्सु कौन्तेय' (गी.7.8) `अहं क्रतुरहं यज्ञः' (गी.9.16) `आदित्यानामहं विष्णुः' (गी.10.21) इत्यादि विभूतिनिरूपणप्रकरणस्थ `रसोऽहम्' इत्यादिसामानाधिकरण्यनिर्देशस्य न रसाद्यभेदेेे तात्पर्यम्, किं तु, रसादीनां रसत्वादिप्रदत्वेन, सजातीयेषूत्कर्षाधायकत्वेन वा, तदभिमानिदेवतानियामकत्वेन वा `यदधीनोोो गुणोो यस्य तद्गुणी सोऽभिधीयते' इति न्यायात् रसादिपदवाच्यत्वात्् । रसः--रसत्वादिप्रदः, रसादिनिषिठोत्कर्षाधायक इत्यादिरर्थः । परमात्मनः सर्वशरीरकत्वात् रसादिशरीरकतया तथाव्यवहार इति केचित् ।
अत एव `मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव' (गी.7.7) `याभिर्विभूतिभिलौकानिमांस्त्वं व्याप्य तिषिठसि' (गी.10.13) `केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया' (गी.10.17) `सर्वस्य चाहं हृदि संनिविषिटो मत्तः स्मृतिर्ज्ञानमपोहनं च' (गी.15.15) `सर्वभूताशयस्थितः' (गी.10.19) `इश््वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति' (गी.18.61) इत्यादिभेदनिबन्धना व्यवहाराः संगच्छन्ते ।
अत्र `मयि सर्वम्' इत्येतत्, सूत्रमणिदृष्टाान्तेन हरौ प्रोतत्वरूपसंयोोगविशेषमात्रमभिधत्ते, `याभिः' इत्येतत् सर्वलोकेषु भगवतोो व्याप्तिमाह । `केषु केषु' इति तु उपासनाधिष्ठानप्रशअनमुखेन किंचिदधिष्ठानं परििकल्प्य तत्र भगवदुपास्तिः कर्तव्या इत्ययाचषअटे । अत एव तत्र तत्र `सालग्रामादौ हरिपूजनवत्' इत्यादि शंकराचार्याा आहुः । सूत्रकारोऽपि `न प्रतीके न हिसः' (ब्र.सू. 4.1.4) इति सूत्रेण प्रतीकेऽधिष्ठाने आत्मात्वबुद्धिः (प्रतीकब्रझणोोरभेदबुद्धिः) न कार्येत्याह । एतेन ब्रझकार्येषु सर्वत्र ब्रझत्वबुद्धिर्न कार्येतिि सिवाशयमाविष्करोोति । `अहमात्मा गुडाकेश सर्वभूत-' इत्येतच्च `केषु केषु' इतिि अर्जुनननकृतप्रश्नस्य प्रतिवचनं कृष्णस्य हरेः सर्वप्राणिङृदि स्थितिं कथयति, `सर्वस्य' इति वचनं हरेः सर्वहृदयवर्तित्वं, स्मृत्यादिहेतुत्वं च वक्ति, `ईश्वरः सर्वम्' इति तु भगवतः सर्वान्तर्ययामित्वेन सर्वनियामकत्वं प्रतिपादयति । यदि प्रपञ््चपरमात्मनोोर्बेदोोो न स्यात् तदा सर्व एते व्यवहारा अनुपपन्नाः स्युः । एतेन `वासुदेवः सर्वम्' इत्यनेन सर्वस्य वासुदेवात्मकत्वं (तदभेदः) उच्यत इति परास्तम् । सर्वशब्देन असंंकुचितवृत्त्या बोधितचराचरात्मकजगतः वासुदेवस्य च स्वरूपैक्यायोगात् ।
किं च जीवपरयोर्भेदाभावे `मद्भक्ता यान्ति मामपि' (गीी.7.23) `मामेवैष्यस्यसंशयः' (गी.8.7)
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ।। (गी.8.15)
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ।। (गीी.9.34)
मन्मनाः `सत्यं ते प्रतिदाने प्रियोऽसि मे' (गी.15.64) इत्यादिना प्रतिपादित आराध्याराधकभावादिः कथमुपपद्ययेत तस्य भेदनिबन्धनत्वात् ।
किं च--
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । (गी.7.6)
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।। (गी.10.5)
इति सप्तमदशमयोर्विभूतिनिरूपणोपक्रमात्पूर्वम्, नवमे--`पिताहमस्य जगतो माता धाता पितामहः' (गी.9.17) इति विभूतिनिरूपणात्परं हरेर्जगत्कारणत्वोक्तिरपि विभूतिप्रकरणस्य नाभेदे तात्पर्यमिति ज्ञापन्ती रसादीनांरमात्मकार्यत्वात् तदधीनत्वेन `यो यदधिनः, स तदधीनसत्ताक' इति न्यायात्, तदधीनसत्ताकत्वात् `राजा राष्ट्म्' इतिवत् सामानाधिकरण्येन व्यपदेश इति बोधयति । श्लोकमन्यथा व्याकुर्वद्भ्ययो भगवान् क्रुध्येत् द्रुझेच्च । लोके हि `पाषाणसमोऽयम्' इति केनचिदुक्तः कश्चित् पृथग्जनोऽपि तथाब्रुवते कुप्यति द्रुझति च ।
किं च
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।। (गी.10.42)
इति विभूतिप्रकरणोपसंहारश्लोकेन सर्वजगद्धारकत्वेन सर्वत्र संनिहितत्वमेव मम विभूतिरिति विभूतिप्रकरणतात्पर्यस्य भगवतैव निरूपितत्वेन तत्तादात्म्यपरतया योजना गीताचार्यस्य न हृदयंगमेति विभाव्यताम् । तत्र धारकत्वं तत्तद्वस्तुसमवेतसत्तानुकूलोोोोो व्यापारः स च पालनान्तर्भूतः पालनस्य स्थित्याद्यनेकव्यापारसमुदाय रूपत्वात्, ततश्च भगवदधीनसत्ताकत्वं रसादीनामिति विभूत्यध्यायतात्पर्यंं वेदितव्यम् । सर्वेषां भगवदधीनसत्ताकत्वं च, `नत्वहं तेषु त मयि' (गी. 7.12) इति भगवतैवोक्तम् । वाहं तदधीनः, सर्वे भावाः मयि मदधीना इत्यर्थ इति सर्वे भाष्यकारा व्याख्यातारश्च । इदमत्र तत्त्म्-विभूतिप्रकरणपठिता विष्ण्वाद्यास्तु भगवद्रूपाण्येव तद्व्यतिरिक्ता रसादयस्तु तत्कार्यभूतास्तदधीना इति ।
`सर्वं खल्विदं ब्रझ तज्जलान् इति शान्त उपासीत' (छा.3.14.1) इति श्रुतावपि सर्वं ब्रझेति व्यपदेशोऽपि सर्वस्य ब्रझकार्यत्वात् तदधीनत्वेनैव राजा राष्ट्रमितिवत् इति ज्ञेययम् । श्रुत्यर्थस्तु इदं परिदृश्यमानं, सर्वं समस्तं वस्तु, ब्रझ खलु ब्रझैव । कुतोो ब्रझत्वव्यपदेश इत्यत आह तज्जेति । यथः तज्ज्लान् ततो ब्रझैवेति अ्न्वयः । ततोो जातं, तत्र लीने तेन अन्यमान (रक्ष्यमाण) मिति । सर्वस्य ब्रझत्वव्यपदेशे तज्जातत्वादि निमित्तमिति श्रुतितात्पर्यम् । व्याख्यातमिदमेवमेव शंकराचार्यैः छान्दोग्यभाष्ये, `सर्वत्र प्रसिध्धोपदेशात्' (ब्र.सू. 1.1.1) इति सूत्रभाष्ये च । तज्जत्वात्, तल्लीनत्वात्, तदनत्वादिति तत्रत्यं भाष्यम् । पूर्णप्रज्ञास्तु इदं ब्रझ, सर्वं पूर्णं (सर्वगुणपूर्णमिति यावत्) तत् ब्रझ, जलान् जले अनिति चेष्टते (प्रलयार्णवशायी, क्षीरसमुद्रशायी वेति यावत्) एवं जानन् शान्तः शमादिगुणवान् भूत्वा उपासीत पूर्णत्वादिना ध्यायेदिति श्रुतेरर्थं वर्णयन्ति । `आत्मैवेदं सर्वम्' (छा.7.25.2) `ब्रझैवेदंं सर्वम् (विश्वम्)' (मु.2.2.1) इति छान्दोोग्यमुण्डकवाक्ययोरपि तज्जत्वादिनापि सामानाधिकरण्यव्यपदेश इति तात्पर्यं वर्णनीयम् । यद्यपि उभयत्र `आत्मैवाधस्तात्, पुरस्तात् ब्रझ' इत्यादि सर्वव्याप्तिर्हेतुरुपदिष््टः सर्वस्य आत्मत्वव्यपदेशे अथआपि तत्र तेनायमपि हेतुः समुच्चेेयः । इदं बोध्यम्-शास्त्रेषु यत्र क्वापि सामानाधिकरण्येन निर्देशे हेतुरिपदिष्टः, तत्र तेन सह तज्जत्वादिहेतुरपि समुच्चेतव्यः । यत्र तु नोपदििषिटःतत्रायमेव हेतुबौध्यः । श्रुत्यादिबोधितहेतुपरित्यागे कारणाभावात्, तत्त्यागस्याययुक्तत्वाच्च । स्वरूपाभेदे तात्ुर्यं तु न कल्पनीययमिति । अस्ति चात्रैवार्थे विष्णपुराणवचनमुपबृंहणम् । तथा हि, तत्र,
विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसौ जगतोऽतो जगच्च सः ।।
(1-भा. 1-अं. 1-अ.35)
इत्युक्तम् । तस्यायमर्थः-जगत् प्रपञ्चः, विष्णोः सकाशात् नारायणात् उत्पन्नम् उदभूत्, तत्रैव विष्णानेव स्थितं च प्रसये लीनश्च, च यतः, असौ विष्णुः, जगतः प्रपञ्चस्य, स्थतिसंयमकर्ता संयमो लयः, इदमुपलक्षणं जन्मनोऽपि, जन्मस्थितिलयकर्ता, अतःः, जगत् सः तदधिनम् । अत्र जगतो हरेः सकाशात् जन्मादिकं भवतीति निरूप्य `जगच्च स' इति सामानाधिकरण्येन व्यवहारकररणात् , तादृशव्यवहारं प्रति तज्जत्वादिर्हेतुरिति व्पष्टमुक्तं भवति ।
केचितु-खसुशब्दो निषेधे अलंखल्वोः प्रतिषेधयोः प्रचां क्त्वा' (पा.सू.3.4.18) इति सूत्रे सुत्रकृता तस्य प्रतिषेधार्थकत्वोक्तेः । एयमर्थः-इदं सर्वं ब्रझ खलु हब्रझ न । किं तर्हि इत्यत आह-तज्जलानिति । तज्जं तस्सीनं तदनमिति । अयमाशयः- इदं सर्वं ब्रझकार्यमेव न तु ब्रझवत् स्वतन्त्रं, वयं सर्वे क्र्यकोटिप्रविष्टा एवेति तदधिना एवेति ज्ञात्वा स्वातन्त्रयाभिमानं परित्यज्य शान्तः सन्सर्वकारणत्वेन ब्रझोपासीतेति वदन्ति ।
एेतेन `आत्मैवेदं सर्वम्' अति श्रुतेरात्मनः सर्वतादात्म्यमर्थ इति कृत्वा, `द्रव्यं हि नित्यमाकृतिरनित्या' इति वस्पशाह्निकस्थमहाभाष्यस्य `असत्योपाध्यवच्छिन्नं ब्रझतत्त्वं द्रव्यपदावात्यम्, ब्रझदर्शनेन गोत्वजातेरपि असत्त्वात् अनित्यत्वम् `आत्मैवेदम्'इति श्रुतेः इति कैयटकृतव्याख्यानं चिन्त्यम् । तच्छ्रुतेस्चथार्थकत्वा भावात् । तद्भीष्यस्य ब्रझतदितरयोर्नित्यत्वासत्यत्वप्रतिपिपादयिषयाऽप्रवृत्तेः । तथा हि--`अथ गौकित्यत्र कः शब्द' अत्यादिभाष्ये शब्दार्थत्वेन प्रसक्तेषु चतुर्षु जात्यादिषु किं जातिः पदार्थ अति दर्शनाश्रयणेन सिद्धे शब्दे अर्थे संबन्धे' इति विग्रहः त्रियते, उत `व्यक्तिः पदार्थ' इति दर्शवाश्रयेणेति प्रश्ने `जातिः पदार्थ इति पक्षाश्रयणेनायं वग्रह इत्यभिप्रायेण `आकृतिमुत्याह' इत्युकत्वा सैव नित्येत्युक्तम्, त्ः `द्रव्य एव पदार्थ' इति पश्रेऽपि द्रव्यस्य नित्यत्वं सुसाधमिति `अथ वा द्रव्य एव पदार्थ' इति भाष्यं प्रवृत्तम्; अत्र मते काष्ठामलभमाने भाष्यकारः फूर्वं प्रक्रन्तं `जातिः पद्र्थ' इति पक्षमाश्रित्य `आकृतावपि' इति आह-तस्या नित्यत्वं रथमिति प्रश्यने `यस्मिन् तत्त्वं न विहन्यते तन्नित्यम्' इति नित्यलक्षणमभिधाय, `तद्भावस्तत्त्वम्, आकृतावपि तत्त्वं न विहन्यत' इति आकृतेरपि न्त्यत्वं साधितम् । तस्यायं भावः आश्रयव्यक्ति (द्रव्य) नाशः सर्वप्रत्यक्षसिद्धः तदाश्रितजानाशस्तु दुर्निरूपः प्रत्यक्षसिद्ध द्रव्यान्तरे तस्याः सद्भावात् इति । यद्यपि आकृतिपदं जातिव्यञ्जकावसंस्थनवुिशेषवाचि, अथापि अत्र तद्व्यङ्ग्यजातिपरं बोध्यम् । एवं पक्षद्वयमुपपाद्य किमेतेनाऽप्रसक्तविचारेण नाऽस्माकं प्रकृते नित्याऽनित्यवस्तुविवेकेन साध्यं किमपि । जातिद्रव्यययोर्मध्ये यन्नित्यं मन्यसे तदाश्रयणेन एष विग्रह इति वदाम इत्यभिप्रायकेण `अथ वा-किं न इत्यादि भाष्येण पूर्वभाष्येऽनास्थासूचनात् , भाष्ये ब्रझजगतोः प्रसक्तेरेवाभावात् `ब्रझतत्वं ब्रझदर्शनेन गोत्वादिजातेरसत्तवादनित्यत्वम्' इत्यादि व्याख्यानमयुक्तम् । किं च उपक्रमोपसंहारयोराकृतेर्नित्यत्वमभिप्रेतं भाष्यकृता । अतः जातेरनित्यत्वाभिधानं भाष्यविरुद्धम् । किं च ---`अथवा द्रव्य एव पदार्थ' इत्यादि भाष्यं न सिद्धान्तिनः अतःतद्भाष्यस्य तथाऽर्थवर्णनं कुतो हेतोः कृतंमिति चिन्त्यम् ।
किं च यदिदंभाष्यकारसंमतं तर्हि अस्य भाष्यस्य कैयटकृतव्याख्यादिशा `ब्रझैकमेव नित्यम्' इति सिद्धान्तिसंमतप्रमेयप्रतिपादनपरत्वं वक्तव्यम् । ततश्च, वस्तुविशेषस्य नित्यानित्यत्वसाधनेन किमस्माकं प्रकृते भविष्यति इत्याशयेन पूर्वभाष्येनास्थासूचनाय प्रवत्तस्य `किं न एतेन' इत्याद्युत्तरभाष्यस्यानुत्थितिः स्यात् । सिद्धान्तप्रमेयबोधकभाष्येऽनास्थासूचनायोगात् । किं च कैयटरीत्या ब्रझातिरिक्तस्यासत्वे शब्दस्य, तत्संबन्धस्य च शशविषाणवदसत्वेन ब्रझणः शब्देन संबन्धस्य दुर्निरूुत्वात्, शब्दार्थसंबन्धस्यैवासंभवा पत्त्या तन्मूलकविचारोऽपि असंभवदुक्तिकः स्यादिति कैयटव्याख्यानं वार्तिकभाष्यविरुद्धमिति चिन्त्यमेव । किं च जातस्फोटमेव सिद्धान्तयद्भिः कैयटादिभिर्जातेर्ब्रझरूपतास्वीकारात् तस्या अनित्यत्वोक्तिरयुक्ता । नागेशर्तु परमार्थदृष्ट्या सर्वमवास्तवमेव यावद्व्यवहारं वर्तमानत्वेन तु वुत्यत्वव्यवह्कः । एवं च व्यावहारिकनित्यत्वं ब्रझेतस्येति भाष्यतात्पर्यमुत्याह, तन्न, एवंकल्पने सूत्रे भाष्ये च प्रमाणानुपलम्भात् , परेषां प्रकिरयावलम्बनेन विषयविचारस्य पदार्थस्वीरारस्य परद्धान्तस्य एतच्छास्त्रकृत्सिद्दान्तत्वेन व्यवस्थाया श्चानुचितत्वात् । `भेदस्वरूपमेव दुर्निरूपम्' इति नञर्तवादेे सिद्दान्तयिष्यन् अयं भेदनिबन्धनपारमार्तिकव्यावहारिकावस्थाद्वयं कल्पयितुं कथं शक्नोतिती विभाव्यम् ।
`वासुदेवार्जुनाभ्यां वुन्' इति सूत्रभाष्याभ्यां वासुदेवस्य सर्वोत्तमत्वतात्पर्यकाभ्यां सर्वस्य भगवत्स्वरूपत्वकल्पनं, भगवतो वा सर्वरूपत्वकल्पवमयुक्तमिति सिद्दत्वेन तन्मूलकसर्वासत्त्वस्य (मीथ्यात्वस्य) सूत्रकाराद्यभिप्रायविरुद्दत्वावगमात् कैयटडकृतव्याख्यानमनादरणीयमेव । एत्न--`अप्रतिषिद्धमनुमतं भवति' इति न्यायेन कैयटाद्युक्तमाचार्यसंमतमिति कल्पनं तु कुकल्पनम्, वासुदेवस्योत्तमत्वमभिप्रयता पाणिनिना वासुदेवस्य सर्वोत्तमत्वविरोधि सर्वात्मत्वं प्रतिषिद्धमेवेति उक्तन्यायानवतारात् । किं च उक्तन्यायेन आचार्यपाणुनिसमकालर्,िराद्दान्तस्य तत्पूर्वकालाचार्यकृतसिद्धान्तस्य वा आचार्यसंमतत्वरल्पनं युक्तम्, न तु औत्तरकालिकपुरुषकृतसिद्धान्तस्य । अत एव पाणिनेः व्यासोक्तं सर्वं संमतं, तस्य पाणिनेः पूर्वत्वात् तेन व्यासोक्तस्याप्रतिषिद्दत्वात् । न चैवं क्त्यायनीयसिद्धान्तस्य । अत एव, `न क्वादेः' (पा.सू.7.3.59) इति सीत्रे `यद्यपि सूत्रमते विपरीतं प्राप्तम्' इत्युक्तं कौमुद्याम् । `यथोोत्तरं मुनीनां प्रममाण्यम्' इति पूर्वमुनिवचनस्याप्रामाण्यकल्पनं तु इष्ट्यादेः प्रममाण्यव्यवस्थापकार्वाचीनवैयाकरणगोष्ठीनिविनोदमात्रफलकम् । अत एव क्त्यायनोक्तेषु भाष्यकाराः सूत्रकाराणामनुग्रहोऽस्तीति तत्र तत्र सौत्रं ज्ञापकमुपन्यस्यन्ति । एवं च, मुनिवचनानां विसंवादे `दर्शनभेद एव न्याय्य' इति वेदितव्यम् . एत्न `शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (पा.यो.1.9) इति पातञ्जल्पाख्यवृत्तिरित्यङ्गिकार्यम्, तेन पदार्तस्य मिथ्यात्वं सिध्यतीति मञ्जूषादौ नागेशोक्तिः परास्ता ः पतञ्जलेः पाणिन्याचार्यादर्वाचीनत्वात् । न च व्यासोोक्तस्य पाणिनिसंमतत्वनिरूपणेन योगसूत्रभाष्यस्य व्यासकृतत्वात् पातञ्जलं प्रमेयं सर्वं पाणिनिसंमतमुतु उक्तं भवतीति वाच्यम्, पतञ्जलिमते जगतो मिथ्यात्वाभावात् । व्यासपदेन पराशरसूनोोरेव विवक्षितत्वेन योोगसूत्रभाष्यकृतोो व्यासस्य पाराशर्थादन्यत्वाच्च । परशरसुतो व्यास एव योगसीत्रभाष्यकार इति तु भ्रान्तप्रलापः । अत एव पतञ्जलिर्महाभाष्ये स्वप्रणीतमपि इतं सूत्रं क्वापि नोदाजहार । एतेन शेखरे `अचोऽन्त्यादि टि' (पा.सू. 1.1.64) इति सूत्रे `वस्तुत' इत्यारभ्य `शब्दज्ञाने' ति योगसूत्रोपन्यासेन कृतं विषयव्यवस्थापनं चिन्त्यम् । समुदायाभावस्थले टिसंज्ञा तु व्यापदेशि वद्भावेन, इत्यं सूत्रयोजनया वा भवतीति ज्ञेयम् । योजना तु अन्त्यादीत्यत्र अन्त्येति भिन्नं च पदं लप्तप्रथमाकम् । अचां मध्ये योऽन्त्यः तदादिसमुदायः सोऽन्त्यश्च वर्णः टिसेज्ञ इति । एवं च शकन्धुरित्यादौ शकेति ककारोत्तरस्य केवलाकारस्यापि सा संज्ञा सिध्यति । अधिकमुपरिष्टात् वक्ष्यामः ।
ईशजीवजडानां च नाभेदस्तस्य सिध्यति ।
सामानाधिकरण्येन निर्देशेऽपीति भाषितम् ।।
वासुदेवस्यैव सर्वशास्त्रविषयता
----------------------
ननु श्रुतौ सूत्रे च ब्रझ प्रतिपाद्यते, अत एवोरक्तमभियुक्तैः `बझेति वेदान्तिन' इति । गीतायां ति वासुदेवः सर्वैः तीर्थकरैस्तथा व्याख्यातत्वात् । तस्मात् श्रुत्यादौ सर्वत्र वासुदेवः प्रतिपाद्यत इति कथमुत्यत इति चेत्, अत्र वदन्ति `अधर्मेण परिभूयमाने धर्मेप्रवर्धमाने चाधर्मे जगतः स्थितिं परिपिपालयिषुरादिकर्ता नारायणाख्योो विष्णुर्भैामस्य ब्रझणो ब्राझणत्वस्य च रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल संबभूव, तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतमिमं द्विप्रकारं धर्मं निःश्रेयमप्रयोजनं परमार्थतत्वं च वासुदेवाख्यं परब्रझाभिधेयभूतं व्यञ्चयत्......गीताशास्त्रम्' इति गीतावतरणशांकरभाष्यग्रन्थेन, पञ्जदशेऽध्याये `सर्वो।़पि गीताशास्त्रार्थोऽस्मिन्नध्याये समासेनोक्तः, न केवलं गीताशास्त्रार्थ एव किं तु सर्वश्च वेदार्थ इह परिसमाप्त इति--
इति गुझतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुद्दिमान्स्यात्कृतकृत्यश्च भारत ।। (गी.15.20)
इति श्लोकीयशांकरभाष्येण, गीतास्थेश्वरादिपदानां `नारायणो वासुदेवो विष्णुः' इति व्याख्यानपरशांकरभाष्येण, `ईश्वरः सर्वभूतानाम्' इति श्लोके `सर्वप्राणिनामीशनशीलोो नारायण' इति ईश्वरपदव्याख्यानपरशाङ्करभाष्येण, ईदृशार्थकेन तदीयानां मधुसूदन सरस्वतीप्रभृतीनां व्याख्याग्रन्थेन, अन्येषां च तीर्थकराणां भाष्यादि ग्रनाथेन च गीतायां वासुदेवः प्रतिपाद्यते, गीतार्थ एव सर्ववेदार्थ इति सर्वप्रतिपन्नम् । न च व्याख्यानमात्रेण कथमेवं निर्णय इति वाच्यम्, `व्याख्यानतो विसेषप्रतिपत्तिः' इति न्यायेन महतां व्याख्यानस्यैव प्रमेयनिर्णायकत्वात् । ततश्च `सर्ववेदार्थसारसंग्रहभूतमितद्या दिशांकरभाष्यादितः, `ओमित्येकाक्षरंं ब्रझ' (गी.8.13) `परं ब्रझ परधाम, (गी.10.12) `अनाद्मत्परं ब्रझ' (गी. 13.12) इत्यादौ भगवता व्यासेन ब्रझशब्देन गीताप्रतिपाद्यस्य व्यपदेशात्, `वेदैश्च सर्वैरहमेव वेद्यः' (गी. 15.15) इति गीताचार्योक्तेश्च, वासुदेवस्य ब्रझानन्यत्वेन श्रुतिसूत्रगीतानामेकविषयकत्वसिद्ध्या वासुदेवाभिधो नारायणः सर्वशास्त्रविषय इति तत्त्वं सुस्थमिति ।
किं च सूत्रकारो बादरायणः `ब्रझविदाप्नोति परम्' (तै.उ.2.1) `तमेवं विद्वानमृत इह भवति' (तै.आ.13) `तरति शोकमात्मवित्' (छा. 7.1.3) इत्यादि श्रुतिबोधितं ब्रझज्ञानं न्ःश्रेयसस्य परमं साधनमिति मत्वा ब्रझमीमासायां पुरूषारक्थहेतुभूतात्मसाक्षात्कारसाधनब्रझविचाररूपज्ञासायाः कर्तव्यताम्, `अयाऽतोो ब्रझजीज्ञासा' (ब्र.सू. 1.1.1) इत्यादिमेन सूत्रेण विधाय, `किं तद्ब्रझ' इति तत्स्वरूपजीज्ञासायां श्रृङ्गे कर्णे वा गृहीत्वा निर्देष्टुमशक्यतया लक्षणमुखेन तत्स्तवरूपं बुबोधयिषुः, `परिदृश्यमानस्य समास्तस्य जगतः यस्मात् सृष्टिस्थितिलयादि भवति तद् बझ' इत्यर्थकेन `जन्माद्यस्य यतः' (ब्र.सू.11.2) इति द्वितीयेन सूत्रण जगत्कारणं ब्रझेति तल्लक्षणमभिधाय, स्थितेः पालनाद्यनेकव्यापाररूपत्वेन तत्र नियमनस्याप्यन्तर्भावात् तस्य `यः पृथिव्यां तिषिठनं' (बृ.5.7.3) इत्याद्यान्तर्यामिब्राझणे सूत्रनामकवायुनिष्ठतया श्रवणात्, पालनं न ब्रझणो लक्षणंं भवितुमर्हतीति आक्षेपं परिहरन् `अन्तर्याम्यदिदैवादिषु तद्दर्मव्यपदेशात्' ःब्र.सू. 1.2.18) इति सूत्रेण वाजसनेयके पृथिव्याद्यन्तर्यामितयोक्तं वस्ति जगत्कारणत्वेनोक्तं ब्रझैवेति सिद्धान्ततनान् । सूत्रार्तस्तु तत्तु ब्रझैव, तद्दर्मव्यपदेशात् `एष च अात्मा' इति श्रुतौ ब्रझधर्मस्य सर्वनियमनस्य उक्तत्वात् इति । इदं बोध्यम् --अत्र कारमत्वेन निर्णेतं ब्रझैव णन्तर्यामुब्राङणनाक्यपठिताऽऽत्मपदावाच्यम् । अतः पालनं ब्रझनिष्ठमिति तस्य तल्लक्षणत्वमिति न कश्चिद्दो,ः । तत्रोपनिषदि वायिपदेन आत्मैवोत्यते, वायुपदवाच्यस्य सर्वलोकादारत्वोक्तेः, तच्च परमात्मन एव संभवति नान्यस्येति सूत्रकृदाशय इति । अत एव त्रयोऽपि भाष्यकारा अस्याधिकरणस्य `एष त' इति वाक्यं विषयवाक्यतयोदाहृत्य एतच्चत्युक्तोऽन्तर्यामी जगत्कारणं ब्रझैवेति सूत्रकृता निर्दरितमिति एककण्ठा वदन्ति । तत्र शंकराचार्या उपनिषद्भाष्ये---`एष त' इति श्रुतेः `एष आत्मा नारायणः मम सर्वेषा च अन्तर्यामी' इति ते अक्षरार्थमनर्णयन् ।
किं च--`उत्पत्त्यसंभवात्' (ब्र.सु. 2.2.42) इति सूत्रे `भगवानेवैको वासुदेवो निरञ्जनो ज्ञानस्वरूपः परमार्थतत्त्वम्, तत्र यत्ता वदुच्यते योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्दः परमात्मा इति.... तत् न निराक्रियत' इत्याहु शंकराचार्याः ।
किं च प्रथमेनाध्यायेन सर्वज्ञस्य भगवतः परमात्मनः सम्न्वयमुखेन जगत्कारणत्वादिके प्रतिपादिते तदसहमानैः साक्यादिभिः कापिलस्मृत्यादिविरोधात् उक्तमसंगतमिति प्रत्यवस्थाने तत्परिहाराय प्रवृत्ते द्वितीयस्मिन्नध्याये आद्येपादे कापिलस्मृतिनिरोधपरहाराय प्रवृत्तं `स्मृत्यनवकाशदोषप्रसङ्गादिति चेन्न, अन्यस्मृत्यनवकासदोषप्रसङ्गात्' (ब्र.सू. 2.1.1) इति प्रथममधिकरणं व्याकुर्वाणाः शंकराचार्याः श्रुत्यनुसारिप्रबलस्मृतिबसात् नारायण एव जगत्कारणमिति सिद्दान्तयन्ति । इदं तदीयतत्सूत्रभाष्यम् --ब्रझणः कारणत्स्वीकोरे प्रादान्येन सोक्षसाधनमधिकृत्य प्रणीतानामनन्यप्रयोदनतयो निरवकोशानां किपिलस्मृतीनामानर्थक्यप्रसंगः । अतस्तदविरोधेन वेदान्तवाक्यानि व्याख्येयामि । तत्र हि--प्रधानं जगतः कारणमित्युक्तम्, एतः प्रधानमेव जगतः कर्तृ न ब्रझेति सांख्यानामाक्षेपे, तस्यायं समाधिः--न तद्युक्तम्, अन्यस्मृत्यनवकाशदोषप्रसङ्गत् । ईश्वरकासणतावादिन्यः श्रुत्यनुसारिण्यो बह्व्यः स्मृतय उपलभ्यन्ते । प्रधानस्य कारणत्वे तासामानर्थक्यं प्रसज्येत । विप्रतिपत्तौ श्रुत्यनु सारिण्य एव प्रमाणम् । ताश्चोदाहरिष्यामः --
अतश्च संक्षेपमिमं श्रुणुध्वं नासायणः सर्वमिदं पुराणः ।
स सर्गकाले च करोोति सर्वं प्रयाणकाले च तदत्ति भूयः ।।
इति पुराणे, गीतायां च ---
अहं कृत्स्नस्य जगतः प्रभवः प्रसयस्तथा
इति, परमात्मानमेव च प्रकृत्य आपस्तम्बः पठति---
तस्माक्तायाः (जीवाः) प्रभवन्ति सर्वे स मूलं शाश्वतिकः स निच्य (ध.सू. 1.8.13.2) इतीति ।
अयमत्र भाष्यतात्पर्यसारः --श्रुत्सूत्रादीवामर्थसंशये इतिहासपुराणानुसारेणैव तदर्थो निर्णेतव्यः । ततः श्रुत्यनुसारि इतुहासपुराणवचनं प्रबलं प्रमाणम् । `अतश्च संक्षेपरम्' इत्यादि तु तादृशं प्रमाणम् । अत्र च संक्षेपमित्युक्त्या समस्तशास्त्रार्थः क्रोडीकृतः । अतः सर्वेषां कारणवाक्यानामेतदनुसारेणार्थो वाच्यः । ततश्च `यतो वा इमानि' इत्याददिकारणवाक्यानां नारायणस्यैव समस्तजगत्कारणत्वे तात्पर्यम् । तत्रत्यात्मब्रझादिपदानां नारायणपरत्वमेव । प्रधावादिनां कारणता वादस्तु श्रुत्यादिविरुद्धः । ततश्च नारायण एव परतत्त्वमिति । एतत्सर्वमभिप्रेत्यैव सत्नप्रभाख्ये शाकरशारीरकभाष्यव्याख्याने `रामनाम्नि परे धाम्नि कृत्स्नाम्नायसमन्वय' इति समन्वयाधिकरणनिगमनं कृतम् ।
परमार्तसारकृतः शेषनागाचार्यस्य, अणुभाष्यकारणां वल्लभाचार्यणां, श्रीरामानुजमुनिवर्याणां श्रीमत्पूर्णप्रज्ञमुनिपुङ्गवानां च वासुदेव एव परतत्त्वं, जगत्कारणं चेति सिद्धान्त इत्यत्र न काचिद्विप्रतिपत्तिः ।
`अतश्च संक्षेपम्' इति श्लोकस्य तु अयमर्थः । अतः अनत्नत्वाच्छास्त्राणां पुरपषायुषश्च परिमितत्वाच्च हेतोः --
अनन्तशास्त्रं बहुवेदितव्यमल्पश्च क्लो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ।।
इत्यक्तेः । संक्षेपं समस्तशास्त्रार्थसारसंग्रहम्. इमं वक्ष्यमाणं, श्रृणुध्वम् श्रृणुत, आर्षमात्मनेपदम् । नारायणः मध्येक्षीरसमुद्रं भुजङ्गभोगतल्पमधिशयानः श्रियःपतिःपुराणः आदिपुरुषः सः नारायणः सर्के सृष्टिकाले इदं सर्वम् परिदृश्यमानं समस्तं जगत्, करोति सृजति, इदमुपलक्षणं स्थितेरपि, प्रयाणकाले प्रलयसमये च तत्सर्वं सृष्टंसमस्तं जगत्, अत्ति नाशयति, भूयः पुनरपि, एवमिति शेषः, पुवः एवमेव करोति प्रतुकल्पम् `धाता यतापूर्वमकल्पयत्ट' (ऋ.सं 8.8.48) इति श्रुतेरिति । तात्पर्यं सुव्यक्तम् । इदं ज्ञेयम्--अत्रान्यत्र च सूत्रे `स्मृती' त्युक्तेः, शंकरभाष्ये पुराणनचनोपन्यासात्, अधिकरणपूर्वपक्षसिद्धान्तयोः उपबृंहणं पुराणवचनमुपन्यसनीयमिति सूत्रभाष्यकाराणामाशयः । न च स्मृतिपदघटिते सूत्रे तदुपन्यासोो युक्तः, अतादृशे सूत्र तदपन्यासो न न्याय्य इति वात्यम्,त, `श्रुतेस्तु शब्दमूसत्वात्'(ब्र.2.1.28) इतिि सूत्रे स्मृतिपदाघटिते, तथा चाहुः पौराणिकाः
अचिन्त्याः खलु ये भावा न तास्तर्केण योजयेत् ।
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ।।
इति शांकरभाष्ये पुराणवचनोपन्यासेन तथाकस्पनायोगात् । न च `अमात्रस्चतुर्तोऽव्यवह्र्यः प्रपञ्चोपशमः शिवोऽद्वैतः, एवमोङ्कार आत्मैंव संविसत्यात्मनाऽऽत्मानं, य एवं वेद' (मा.12) इति तुरीयस्यात्मनः शिव इति विसेषणात् `नान्तः प्रज्ञं न बहुः प्रज्ञ... शान्तं शिवमद्वैतं चतुर्तं मन्यन्ते' (मा.8) इति मन्त्रे च शिवमित्युक्तेश्च, शिवस्यैव शाक्त्रविषयत्वं युक्तमिति वात्यम् । द्वादसे मन्त्रेशिव इत्यस्य मङ्गलकर इति श्रीशंरकाचार्यैर्व्याख्यानत्वात्, सप्तमे शिवमित्यस्य परिशुद्दमिति आनन्दगिरीये व्याख्यातत्वात् तस्य रुद्रपरत्वाभावेन शिवस्य शास्त्रविषयत्वकल्पकत्वाभावात् ।
गीतायां विश्वरूपाध्याये `ऐश्वरं रूपम्' इति वाक्यश्रवणमपि न गीतादीनां शिवपरत्वसाधकम् । तथा हि---
एवमेतद्यथाऽऽत्त त्वमात्म्नं परमेश्वर ।
द्र,्टुमुच्छामि ते रूपमैस्वरं पुरुषात्तम ।। (गी. 11.3)
इति विश्वरूपदर्शनप्रार्थनाश्लोके `एश्वरं रूपम्' इत्यस्य `ज्ञानैश्वर्यबलशक्तिवीर्यतेजोभिः संपन्नं वैष्णवं रूपम्' इति संकराचार्यैर्व्यानात् प्रार्तनावाक्यास्य वैष्णवरूपदिदृक्षाविषयकत्वसिद्ध्या ---
एवमुक्त्वा ततोो राजन्महायोगोश्वरो हरिः ।
दर्शयामास परर्थय परमं रूपमैस्वरम् ।। (गी.11.9)
इति `प्रर्तितमर्थमपूरयत्' इत्यर्थकस्लोकस्थस्य `ऐश्वरं रूपम्' इत्यास्यापि प्रश्नवाक्याब्याख्यानुरोधेन ज्ञानैश्वर्यादिविशिष्टं वैष्णवं रूपमित्यर्थस्यैव युक्तत्वात् । किं च `पश्य मे पार्थ रूपाणु' (गी. 11.5) `न तु मां शक्यसे द्रष्टुम्' (गी.11.8) इति दर्सयिष्यमाणरूुस्य भगवता कृष्णेन स्वीयत्वस्वाभिन्नत्वनिरूपणात् विश्वरूपस्य वैष्णवत्वसिद्धिरिति ज्ञेयम् । एतेन, ऐश्वरमिति पदं शैवमिति व्याख्याय विशवरूपाध्यायस्य शिवपरत्वं प्रकस्प्य, एतदुपलक्षितं शास्त्रं सर्वं शिवपरं, शिन एव परतत्त्वमिति रामायणभारतसार संग्रहादौ कोषांचिदद्वैतिनां शंकाराच्र्यमतानुयायिनां निरूपणं दुराग्रहमूसकं, स्वाचार्यतात्पर्याननुरोधि च । शिव एव परं तत्त्वमिति शैवानांं वादस्तु शंकरभाष्यादिति एव समाहितः । भारतादीनां वासुदेवपरत्वे उपक्रमोक्तं कारणमत्राप्यनुसन्देयम् । एवं च जगत्कारणं वस्तु नारायणाभिधं परतत्त्वमिति सर्वशास्त्रतात्पर्यम् । विस्तरस्तु श्रीविजयिन्द्रयतीन्द्रप्रणीतायां परतत्त्वप्रकाशिकायाम् ---
दासभूताः स्वतः सर्वेप्यात्मानः परमात्मनः ।
एतोऽहमपि ते दास इति मत्वा नमाम्यहम् ।।
इत्यादि शिवावाक्योदाहरणेन वासुदेवस्य परत्वं व्यवस्थापकैः श्रीवेदान्तदेशिकैः प्रणीते रहस्यत्रयसारे परदेवतापारामार्थ्याधिकारे च द्रष्टव्यः ।
किं च, भगवता व्यासेन---
नतोऽस्म्यहं त्वाखिसहेतुहेतुं नारायणं पूरुषमाद्यमव्यमम् ।
यन्नाभिजाकाजरविन्दकोसाद्ब्रझाऽऽविरासीद्यत एष लोकः ।।
(भाग.10.40.1)
इत्यादिना भागवतादौ प्रपञ्चनिर्माचतुरचतुराननकारणतया सर्वकारणत्वंं परतत्तवं च नारायणस्य प्रप़्चितम् । ननु शिवस्य परमात्माभिन्नतयाष़स्ति जगत्कारणतेति वदाम इतदि चेत्, अच्यते किमिदं मुक्तौ उत संसारित्वे । नाद्यः, तत्र परमात्मस्वरूपत्वेन तस्य निर्धर्मकत्वस्वभावात् जगद्य्व्यापारस्यैवासंभवेन `जगद्व्यापारवर्जम्' इति परतत्त्वादन्यस्य अप्रसक्तजगत्सृष्ट्यादिव्यापारप्रतिषेधवचनवैयर्थ्यात् । एतेन मुक्तावपि मुक्तस्य परमात्मभेद एव सूत्रकृत्संमत इति भाति । न च स्वरूपकीर्तनपरं सूत्रमिति वाच्यम्, वर्जमित्युक्त्या तद्भिन्नव्यापारान्तरास्तित्वलाभात् तथाकल्पनायोगात् । द्वितीये तु, तदा अभेदस्यैवाभावेन एवं वक्तुमशक्यम् । कैश्चदपि तीर्थकरैः शिवादेः कारणताया अनङ्गीकाराच्च नेदं युक्तम् । किं च, ब्रझमीमांसाकृतैव `पत्युरसामञ्जस्यात्' (2.2.37) इत्यानेन पशुपतिमतनिरसमनमुखेन पशुपते रुद्रस्य जगत्कारणता प्रतिषिद्धा । न च निमित्तकारणत्वमात्रं तेन प्रतिषिद्दम्, उभयविधकारणत्वं तु तस्यास्तीति तात्पर्यमिति वात्यम्, `जन्माद्यस्य यतः' (1.12) इति सूत्रेण ब्रझणो यादृशं कारणत्वं बोधिते तत् रुद्रस्य नास्तीत्यर्थस्यैव युक्तत्वेन एवं कल्पने मानाभावात् । भगवद्गुणकीर्तनेन दिरितक्षयमपेक्षमाणा महान्तोऽपि कवयोऽमुमेव शास्त्रार्थ बोधयन्ति । तता हि---
नारायणाय नलिनायतलोचनाय
नामावशेषितमहाबलिवैभवाय ।
नानातराचरविधायकजन्मदेश-
नाभीपुटाय पुरुषाय नमः परस्मै ।। (चं. रा. 1.16)
विरमति महाकल्पे नाभीपथैकनिकेतन-
स्त्रिभुवनपुरः शिल्पी यस्य प्रतिक्षणमात्मभूः ।
किमधिकरणं कीदृक् कस्य व्यवस्थितरित्यसा-
वुदरमविशद्दृष्टुं तस्मै जगन्निधये नमः ।। (अनर्घ.2)
इति । ननु तर्हि रुद्रस्य कारणताबोधकवाक्यानां का गतिरिति चेत्, उच्यते--तत्र रुद्रापदस्य तदन्तर्यामिवासुदेवापरत्वेन तान्यपि वाक्यानि नारायणस्य कारणत्वपराण्येवेति । एतेन, शब्दब्रझणो जगत्कारमत्वमुतु मञ्जूषादौ नागेशाद्युक्तं ब्रझवित्सिद्धान्तविरुद्धं पाणिन्याद्यनभिमतं चैवेति वेदितव्यम् ।
श्रुत्यादिप्रतिपाद्यस्तु वासुदेवः परः पुमान् ।
इति शंकरभाष्यादिप्रमाणैर्निर्णयः कृतः ।।
निमित्तकारणत्वविचारः
सर्वशाल्त्रार्थसारसंग्राहुकायाम् `अतश्चसंक्षेपमं' इति श्रुत्यनुसारिण्यां स्मृतौ `स सर्गकाले परिणाममेति, विवर्ततामेति स सर्गकोसे' इति वा वपक्तव्ये `स सर्गकाले च करोति सर्वम्' इत्युक्त्या घटादेः कुलालादिरिव भगवान्नारायणो जगतोो निमित्तकारणं, न तु द्विविधमुपादानकारणमिति श्रुतिस्मृतितात्पर्यमित्यवगन्तव्यम् । एवं च `यतो वा' (तै.उ.3.1) इत्यादौ `यत' इति पञ्चमी निमित्तार्थिकैवेति श्रीव्यादिभिर्व्याख्यातं मतं, सग्रहश्लोकस्य तत्कृतत्वात् । पाणिनिपतञ्जल्योरपि इदमेव मतमभिमतम्, ताभायां ब्रझणो निमित्तकारणताया अनिषेधात्. उपादानकारणताया अनभिधानाच्च ।
ननु, `जनिकर्तुः प्रकृतिः' (पी.सू.1.4.30) इत्यात्र प्रकृतिपदं प्रयुञ्जानः पाणिनिर्ब्रझण उपादानप्रयोगमात्रेण एवमभिप्रायवर्णनायोगात्, एवंकल्पनस्योत्तमत्वाविरोगमात्रेणएवंकल्पनस्योत्तमत्वाविरोधित्वात्, उभयविधकारणसंग्रहाय तत्पदप्रयोग इति वक्तं शक्यत्वात् । एतेन ये तु वैयाकरणसंग्रहाय तत्पदप्रयोग इति वक्तुं शक्यत्वात् । एत्न ये तु वैयाकरणा ब्रझण उपादानत्वं वदन्ति ते पाणुनेराशयमननुरुन्धाना एव । पाणिनेस्तु अयमाशयः --`यतो वा इमानि भूतानि जायन्ते' (तै.उ.3.1) `आत्मान आकाशाः संभूतः' (तै.उ.2.3)`सर्वणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' (छा.1.9.1) `तेस्मादेतद्ब्रझ नामरूपमन्न च जायते' (मु.1.1.9) इत्यादि सृष्टिवाक्येषु कतिपयेषु `यत' इत्यादि कारणवाचकस्य पञ्चम्यन्तत्वश्रवणेऽपि, नैतान्येव सृष्टिवाक्यानि शार्त्रेषु, अपि तु--`सोऽकामयत बहुस्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत बहपस्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदे किं च' (तै.उ.2.3) `स ईक्षाचक्रे कस्मन्वहमुत्क्रान्त उक्रान्तो भविष्यामि कस्मिन्नहंप्रतिष्ठिते प्रतिष्ठास्यामि स प्राणमसृजक प्राणाच्छ्रद्दाम्' (ष.प्र.6.3) `आत्मा वा इदमेक एवाग्र आसीत् नान्यत्विंचनमिषत् स ऐक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत' (ऐ.उ.1.1.3)`तेदैक्षत बहुस्यां प्रजायेयेति तत्तिजोऽसृजत, तत्तेज ऐक्षत बहुस्यां प्रजायेयेतु तदपोऽसृजत ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त'(छा.6.2.4) `सेयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' (छा.6...3.3) `यो ब्रझाणं विदधाति पूर्वं यो वै वेदाश्च प्रहिणोति तस्मै । ते ह देवमात्मबुद्धप्रकाशं मुमुक्षुर्वै शरणमहं प्ररद्ये' (शे.उ.6.18) `स विश्वकृत् विश्वविदात्मयोनिः' (शे।उ.6.16) असृजत्सलिलं पूर्वं स च नारायणः प्रभुः । ततस्तु भगवान् तोये ब्राझणमसृजत्स्वयम् (भार.सभा.43.3)
सर्वभूतानि कौन्तय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसुजाम्यहम् ।। (गी.9.7)
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवसं प्रकृतेर्वशात् ।. (गी.9.8)
`चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागसः' (गी.4.13) इत्यादिनी कारणवाचकप्रथमान्ततृतीयान्तपदघटितानि सृष्टिवाक्यानि बहुलमुपलभायन्ते । सर्वेषामपि सृष्टिवाक्यानां भगवान् वासुदेव एव कारणमित्यत्र तात्पर्यम् । तच्च निमित्तं वा उपादाुं वेति विषयसस्तु वस्तुस्वभावं विज्ञाय परिहर्तव्यः । यदि वस्तु परिणामि क्र्यात्मनाा अपरिणामि तदा निमित्तकारणमेव, यथा-दण्डो घटस्य । वासुदेवस्य तु अचेतनात्मना वा अन्यचेतनात्मना वा परिणामे नाभ्युपैति कश्चिदपि तथापरिणामस्य उत्तमत्वविरोधित्वात् । ्तो निमित्तकारणमेव वासुदेवो जगतः । `यतो वा' इत्यादि पञ्चमी तु `दण्डाद् घटो जायते पुत्रात् प्रमोदो जायत' इत्यादाविव निमुित्तकारणवाचिकैव सूत्रे प्रकृतदिपदं कारणपरमिति ।
वृत्तिकृत्तु जानन्नेवामुमाशयमाचार्याणां `जनिकर्तुः प्रकृतिः' (पा.1.4.30) इति सूत्रे प्रकृतिपदं हेतुपरमिति व्याचष्टे । चनिकर्तुः जायमानस्य, प्रकृतिः हेतुः अपादानमिति सूत्रर्थः । हरदत्तोऽपि मञ्जर्याम् `अन्ये तु' इत्यादिना प्रकृतिपदस्य कारणमात्रपरत्वादेव `पुत्रात्प्रमोदो जायत' इत्यादौ पुत्रपदोत्तरमनेन पञ्चमीत्याह । पुत्रस्तु प्रमोदस्य नोपादानमपि तु निमित्तमिति स्पष्टं सर्वेषाम् ।
ननु--मनोरमायां `जानकर्तुः' इति सूत्रव्याख्यावसरो `प्रकृति पदमुपादानमात्रपरमिति भाष्यकैयटमतमित्युक्तम्, तत्र `भाष्टकैयट' इति प्रतीकमादाय `इदमेव व्याय्यम्' इत्यादिना प्रकृतिपदस्य तत्रैव प्रसिद्धिः, प्रत्याख्यानभाष्याच्च । किं च --वृत्तिकृन्मते कारक इत्यस्या धिकृतस्य कारणसामान्यवाचिनोोो निर्दारणसप्तम्यन्तस्यान्वयोऽसंभवी, न हि कारमानां मध्य उपादानकारणनितिवत् कारमानां मध्ये `कारणमिति संभवति' इत्यन्तेन ग्रन्तेन हेतुपरं प्रकृतिर्हेतुरिति व्याख्यानं लोकप्रसिद्धिविरोधभाष्यविरोधान्वयानुपपत्तिरूपदो,तयग्रस्तमिति च्त्, उच्यते--`प्रधाने प्रकृतिः स्त्रियाम्, संसिद्दुप्रकगृतीत्विमे, राज्याङ्गानि प्रकृतयः, प्रकृतिर्योनिलिङ्गे च' इत्यमरात्, `प्रकृतिर्गुणसाम्ये चामात्यादिस्वभावयोः' `योनौ लिङ्गपौरवर्गे' इति मेदिनीकोशात्, `पब्रकृत्या नियाताः स्वया' (गी.7.20) इत्यादौ स्वभावे, `प्रार्थयामास प्राञ्जलिः प्रकृतीः कृती' (अयो.8.2) इति चम्पूरामायणे राजायाङ्गामात्यादिषु, `म कोवला प्रकृतिः प्रयोक्तव्या नापि केवलः प्रत्यय' इत्यादिषु प्रत्ययप्रदग्वृत्तिशब्देषु प्रयोगदर्शनात् `तत्रैव प्रसिद्दे' रितिप्रथमो हेतुर्व्यभिचरितः । ततश्च--प्रकृतिपदस्य नानार्थकत्वेन अवधारणायोगः । ननु--तत्र सूत्रे प्रकृतिपदं हेतुसामान्यपरं वा विशेषकारणपरं वेतिसंभावितकल्पयोर्मध्ये विशेषकारणपरमेव प्रसिद्देरत्युक्त्या कारणसामान्यपरत्वं व्यावर्त्त्यते अवधारणेनेति चेजुच्यते --`तदर्थं विकगृतेः प्रकृतौ' (पा.सू.51.12) इति सूत्रस्थेन `विकृतिपदसमभिव्याहारात् प्रकृति पदमुपादानकारणपरम्' इति वृत्तिग्कन्थेन, `प्रकृतिविकृतिसब्दौ परस्परसमभिव्याहारात् उपादानतत्कार्यपरौ' इति तत्सूत्रस्थशेखरग्रन्तेन च पदान्तरसमभिव्याहार एव प्रकृतिपदस्य कारणविशेषपरत्वावगमात् । प्रकृते च तथाविधसमभिव्याहारभावेन तथावक्तुमशक्यमिति ।
`प्रत्याख्याने' ति द्वितीयोऽपि हेतुः परेषां नार्थसाधकः, तद्भाष्यतस्तदभिमतार्तलाभात् । तथा हि --`जनिकर्तुः' इति सूत्रे हि `अयमपि योगः शक्यो वक्तुं कतं गोमयाद्वृश्चिको जायते गोलोमाविलोमभ्यो दूर्वा जायन्ते' इति `अपक्रामन्ति तास्तेभ्यः, यद्यपक्रामन्ति किं नात्यन्तायापक्रमन्ति? सन्ततत्वात् । अथ वा अन्याश्च अन्याश्च प्रदुर्बवन्ति' इत्युक्तं भाष्ये । `लोोकप्रसिद्दिमाश्रित्य तदुच्यते--लोके हि यद्यस्माज्जायतेइत्यादिना कारमात्कार्यस्य निर्गमे `वक्षजन्यफलस्येव' इति दृष्टान्तं दर्शयित्वा `वैशे,िकसांक्यमतयोर्नेपादानकारणात्कार्यस्य निर्तम' इत्याह कैयटः । अत्र भाष्यकैय्यटयोः सौत्रप्रकृतिपदमुपादानकारणपरमित्यत्र न किंचिदपि गमकमुपलभायते । `ननु गोमयाद्वृश्चिको जायते, गोसोमभ्यो दूर्वा जायन्त' इत्यादाहरणमेव गमकमीति चेत्, न । `पुत्रात्प्रमोदो जायते' इत्यादीनामपि अनेनोपलक्षणात् । `न चोदाहरणमादरणीयम्' इति न्यायाच्च । अत एव तत्र तत्र उदाहकणभाष्यं न परिगणनपरं, किं चु उदाहरणप्रदर्शनमात्रपरमिति वदन्ति । ननु तर्हि तदेव भाष्यकृतोो दाहर्तव्यमिति चेत्, न । स्वतन्त्राणामाचार्याणां तथा पर्यनुयोगायोगात् । इत्रोदाहरणे बोधनीयविशेषांशयद्भावेनैतदुदाहरणच्च पुत्रे कारणे प्रमोदस्यादर्शनेन पित्रादावेव तद्दर्शनेन च तत्र बोद्धस्यापक्रमणस्य स्पष्टमुपसम्भेन, दूर्वाणां संततत्वात् विश्लोषसद्भावेऽपि कारणान्निर्गमस्य स्पष्टमनुपलम्भेन `ध्रुवम्' इत्यनेन कतं गोलोमादेरपादानता स्यादिति संभवन्तं संशयं निवर्तयितुं `गोसोमभ्य' इत्याद्युदाहरणम् । ननु तर्हि `गोमयात्' इत्याद्युद्हरणं व्यर्थमिति चेत्, न । `खद्वेन्द्रोमालेन्द्र' इत्यादिभाष्यविमर्शने द्वयोर्द्वयोरेवादोहरणयोः प्रदर्शनं भाष्यकृच्चैलीसिद्धमित्यवगमात् । एतेन--`गोमयाद्वृश्चिको जायते' इत्यत्र वृश्चिकसरीरोपादानभूतो यावान् गोमयभागः स कार्यरूपेण परिणतः सन् कारमभूतमहागोमयराशेरपक्रान्त इति अपक्रमस्य तत्र स्पष्टमुपलम्भात् तदुदाहरणं व्यर्थमिति परास्तम् . यथा गौमयरासरेः वृश्चिकशरीकरूपेण परिणतो गोमयभागोऽपक्रान्तः, न तथा गोसोमकार्यदूर्वाणां तेभायोऽपक्रम इति व्यतिरेकदृष्टान्तप्रदर्सनाय तदुदाहरणात् । अत एव `अपक्रामन्ति ताक्तेभ्य नात्यन्ताय अपक्रामन्ति' इत्यादिना दूर्वावि,य एव अपक्रमणमुपपादितम् । अस्त्यत्रापक्रमः, अथापि वृश्चकशरीरवत् न स्पष्टं पृथगुपलभ्यते कारमसंबन्धस्यापि सद्भावात्, कारणसंबन्धे कारणं तु अविच्चेदः, यथा बिसान्निस्सकतो दीर्घभोगभोगिनो बिलेश्युपलब्धौ अविच्चेदो हेतुरिति भावः । ननु `तास्तेभ्य' इति अपक्रमणोपपादनमुभयसादारणमिति चेत्, न तथा सति `त्यदादितः से,े पुंनपुंसकतो लिङ्गवतनानि' इति पुंलिङ्गनिर्देशस्य भाव्यत्वात् । ततश्च, अत्रत्यभाष्यकैयटाभ्यां सौत्रं प्रकृतिपदमुपादानकारणपरमिति न सुकरं निर्धारणम् .।
किं च---`प्रत्याख्यानपरभाष्यसंमतम्' इत्याक्त्या सूत्रकृतो नेदं संमतमित्युक्तं भवति । एवं च सूत्रकृन्मते प्रकृतिपदस्य कारममात्रकरत्वं `प्ुत्रात्प्रमोदो जायते, गोमयाद्वृस्चिको जायते, दण्डाद्दटो जायत' इत्यादि सर्वं सूत्रोदाहरममेव । न च फलभेदे प्रत्याश्यानायोगः, प्रापम्भे प्रकृतिपदं कारणसामाी्यपरं प्रत्याख्याने उपादानकारणपरमिति `पुत्रात्प्रमोदो जयात' इत्यत्र पञ्चमीप्रवृत्त्यप्रवृत्तिभ्यां फलभेदल्य ल्पष्टत्वादिति वाच्यम्, `न बहुव्ीहौ, न क्वादेः, इत्यादीनां फलभेदेऽपि प्रत्याक्यानवत् तत्संभवति । वक्तुतः उक्तदिसा भाष्यतः प्रकृतिपदमुपादानकारणपरमित्यलाभात् भाष्यमतेऽषि कारमसामान्यपरमेव प्रकृतिपदमिति न फलबेदः ।
ननु `पुत्रत्प्रमोदो जायत' इत्यत्र `विभाषा गुणेऽस्त्रियाम्' (पा.सू.2.3.25) इत्यत्र विभाषेति योगविभागातद् पुत्रपदोत्तरं हेत्वर्थे पञ्चमीति चेत् न । योगविभागस्य भाष्योऽदर्सनात् । `यतो वा' ित्यादावपि योगविभागोनैन हेतौ प़्चमीति निमित्तकारणता वादिनापि वक्तं शक्यम् । कारकविभक्तिप्रयुक्तकार्यविशेषस्तु उभयत्र मृग्यः । परिणामिकारमस्तले विश्लेषाभावं मन्यमानं प्रति विस्लेषाऽस्तीति बोधनाय भाष्यं प्रवृत्तम् । ततश्च --प्रत्याक्यानभाष्येण प्रकृतिपदमुपादानाकारमपरमिति कल्पनं दुःशकम् । तद्विनापि भाष्यस्योपपद्यमानत्वात् । यत् येन विवाऽनुपपन्नं तद्धि तस्य कल्पकमिति ।
किं चेत्यादिनोक्तस्कृतीयोऽपि हेतुर्न युक्तः, तता हि--काशिकावृत्तौ कारकाधिकारपठिते,ु द्वात्रिंशतिसूत्रेषु क्वापि व `कारक' इति सप्तम्यन्तपाठस्य `निर्धारणसप्तमी' ति वाक्यस्य वोपलम्भः, प्रत्युत `क्रक' इति सूत्रे `कारक इति विसेषणमपादानादिसंज्ञाविषयमधिक्रियते' इति वाक्यमस्ति, द्रवादिसंज्ञाविधायकप्रघट्टके प्रतिसूत्रं `यत् द्रुवं तत्कारकमपादानसंज्ञम्, तत्कारकं संप्रदानसंज्ञमं, तत्कारकं कर्मसंज्ञम्, तत्कारकं कर्तृसंज्ञम्' इत्यादि तत्तत्सूत्रार्थप्रदर्सकव्क्ये `कारकम्' इति विसेषणपदं प्रतमान्तं चोपलभ्यते । एतेन कारक िति सप्तम्यन्तं पदं प्रतमान्ततया विपरिणमितव्यम्, सूत्रे तु प्रथमार्ते सप्तमीति तदभिप्रायोऽध्यवसीयते । अतो रत्नाक्तं न युक्तम् ।
ननु तद्व्याख्यायां पदमञ्जर्यां हरदत्तेन प्रतमान्तपाठपक्षं दूषयित्वा `कारक' इति विर्धारणसप्तमा सामान्यापेक्षं चैकवचनं विशेषणाधिकारे तु कारकेषु मध्ये यदपाये ध्रुवं कारकमुत्यर्थे लभ्यते' इति ग्कन्थेन विशे,णाधिकारप7े निर्दारणसप्तम्यन्ततायां मूलतात्पर्यमवधारितम्, तदवलम्ब्य रत्नकृता `वृत्तिमते निर्धारण सप्तम्यन्तस्य' इत्याद्युक्तमिति चेत्, अच्यते--अस्ति कारकशब्दो हेतुवाचको रूढोो यौगिकस्चेति द्विविधः । तत्र द्वितीयः,त करोति क्रियामिति व्युत्पत्त्या कर्तरिण्वुलन्तः क्रियायां स्वतन्त्रकर्तेत्यर्थकः, ध्रुवादीनां प्रधानक्रियायां स्वातन्त्र्याभावेन तत्र कारकं निमित्तम्' इति चानर्तान्तसम् । ततश्चजात्र कारकशब्दोो निमित्तपर्यायो विसोषणबोधकः । नन्वेवं-- `माणवकस्य पितरं पन्थानं पृच्छति' इत्यादौ माणनकस्य पितृनिरूपितानिमुत्तत्वसत्तवेन कर्मसंज्ञा स्यादिति चेत्, न--`कस्य हेतोः क्रियाया' इति प्रशनोत्तराभ्यां क्रियाया निमित्तमेव विवक्ष्यते । क्रिया तु प्रयोगसमवेतैव ग्राझेत्यासयात् । प्रकगृते माणवकस्य पृच्छिक्रियानिरूपितत्वाभावेन न कर्मत्वम् . `ध्रुवम्' इत्यादौ कारक इति विशेषणबलात् क्रियालाभः, सा सामान्या, तत्रापायादिः क्रिया विसेषः अपायरूपाायाः तस्याः क्रियायामभेदेनान्वयः, सामान्यविशेषयोरभेदस्य क्लृप्तत्वात् इति कृत्वैव `अपाये यत्द्रुवं तत्कारकमपादानसंज्ञम्ा' इत्याद्युच्यते वृत्तिकृता । अपाय रूुक्रियायां यन्निमित्तं द्रुवं तदपादानमिति तदर्थ इति मञ्जरीचात्पर्यम् । ेवं च--वृत्तिकृदादृतप्रतमान्तपाठपक्षस्योपपत्तिचिन्तार्थं मञ्जरी प्रावर्तत, न तु निर्दारणसप्तम्यन्तपाठे वृत्तिकृतः तात्पर्यकल्पनाय । अत एव--`किं दोषप्रतिविधानव्यसनेन निमित्तपर्यायस्यैव ग्रहणमस्त्वति मन्यमान आह' --इति `कारकशब्दश्च' इति मूलमवत्रित तेन । एतेन ---निर्दारणसप्तम्यन्तपाठे अस्ति दोषसंभवः, तत्परुहाराय च प्रयतितव्यम्, ततो वरं प्रथमान्तपाटाश्रयणमिति ध्वन्यते । `भीतार्थानां भयहेतुः' (पा.सू. 1.4.25) `जनिकर्तुः प्रकृतिः' (पा.सू. 1.4.20) इति सूत्रयोः हेतुपदस्य, कारमपर्यायप्रकृतिपदस्य `भयहेतुः, अत्पत्तिकारणम्'इत्यर्तेन तयोर्विसेषत्वात्, अनुवृत्तप्रतमान्तकारकपदार्थस्य क्रियाहेतुरित्यस्य सामान्यत्वात्. `द्रव्यं घट' इत्यादाविव सामानाधिकरण्यस्य संभवेनभयरूपक्रियाहेतुः, चनिरूपक्रियाहेतुरित्यर्थपर्तवसानेन न काचिदनुपपत्तिः । न चैवं हेत्वादिपदप्रयोगवैयर्थ्तं शक्यम्' कारकमिति संज्ञाविधिपक्षज्ञापकत्वेन चारितार्थ्थत् । निर्धरणसप्तम्यन्तकारकपदाधिकारपक्षेऽपि तस्य क्रियाजनकत्वमित्यर्थेन सामान्यत्वात्, बयजनिहेतुत्वस्य विशेषत्वात्, `द्रव्यषु घट' इत्यादि व्यवहारवत् क्रियाकारणेषु भयहेतुः जनिकारममिति व्यवहाकोऽपि उुुन्न एवेति न्ऽन्वयासंभवदोषप्रसंगः । अत ओव हि---नीर्धारणसप्तमीपक्षे निर्धारणस्यानेराश्र्यत्वात्, निर्धारणसप्तम्यानुपदोक्तार्थलाभात्' इति अभिददानौ कैयटनागेशावपि विर्देसानुपपत्तिकेव दोष इति एमंसासात्म्, नान्वयासंभवदोषमवोचताम् । अक्तरीत्या सामान्यविसेषसद्भावेन अन्वयासंभवः सुपरिहक इति तयोर्भवः ।
किं च---`इतरथा हि `कारकोष्विति ब्रयात्' इति `कारक' इति सूत्रभा,्यपर्यालोचनायां सूत्रभाष्यकारयो र्निर्दारणसप्तम्यन्तत्वमनभिमतमिति प्रतीतेः `कारक इति निर्धारणसप्तमी सामान्यापेक्षं चैकवचनं, विशेषणाधिकारपक्षे कारके,ु मद्य' इत्यादिम़्जरीग्रन्थः सूत्रभाष्यकाराभिप्रायानभिज्ञस्य पूर्वपक्षिणः कल्याचिदुक्तेरनुवाद इति भाति ।
किं च--`कारक' इति सूत्रभा,्यतः कारकवदं करोति क्रियामिति व्युत्पत्त्या अन्वर्थसंज्ञापरम्ा, कर्तृकर्मादिव्यपदेसं करोोतीति व्युत्पत्त्या क्रियापरमिति पक्षद्वयमेव सभ्यते, न तु निर्दारणसप्तमीति कृतीयः फक्षः, स तु कस्यचिदौत्प्रेक्षिक एव । ्त एव दीक्षितादयः भाष्यसिद्दपक्षद्वयमाश्रत्य `ध्रुवम्' इत्यादि सूत्राणि द्वेदा योजयन्ति । तत्र काररपदस्य क्रियापरत्वे `कारक द्दत्तश्रुतयोराशिषि' इत्यादौौ कारकपदस्य कारकाधिकारविहितापादावनादि संज्ञापरत्वं बोद्यम् । एवं च-भाष्यासंमते, ग्रन्थकृताप्यनुक्ते पक्षे केनचित् तदीयत्वेन आत्मनैवोत्प्रेक्षिते, दोषोद्भावनं सर्वथाऽयुक्तम् ।
यत्तु प्रकृतिपदस्य कारणमात्रपरत्वे, निमित्तपर्यायकारकपदानुवृत्तौ उभयोरेकार्थकत्वेन घटः कलशः घटो गट इत्यादाविव शाब्दबुद्दिर्न स्यादिति, तन्न । उभयोः सामान्यविश्षभावस्य अनुपदमेव निरूपितात्वात् । शब्दस्य प्रकारतया भान्त् भेद इति तु अपेशलम् । न च कौस्तुभादौ शाब्दे शब्दभानं व्यवस्थापितमिति वाच्यम्, तत्र दृढतरमानाभावात् ।
कारकपदस्य निरुक्तव्युत्पत्त्या क्रियापरत्वमाश्रित्य विषयसप्तमीत्वं चाङ्गीकृत्य जनकत्वं च विषयत्वं क्रियायाः सामान्यत्वात् जनेर्विशेषत्वात् जनिरूपा या क्रिया दद्देतुरपादानमित्यर्केऽनुपपत्तिगन्धाभावेन प्रकृतिपदस्य कारममात्रपरत्वेऽपि बादकाबावः . कारकमिति संज्ञापक्षेऽपि णन्वर्थसंज्ञाबलात् लब्धस्य क्रियाजनकत्वस्य जनिकारणे उपरञ्जकतया संबन्ध इति न दोष इति । एवं च --`मृत्पिण्डाद् घटोजायते, दण्डाद् घयो जायते, पुत्रात्प्रमोदो जायत' इत्यादि सर्वमस्यै बोदाहरणमिति सर्वेष्टसिद्दिः । एत्न -`पुत्रात्प्रमोदः, दण्डाद्घट' इत्यादौ अनुपादाने उपादानत्वस्य, अगुणे गुणत्वस्य वाऽऽरोपेण पञ्चमीं साधयन्तो नागोशादयो निरङ्कशा एव ।
अथ वा---श्रुतौ सूत्रे च `यत' इत्यात्र तृतीयान्तात्तसिः, योन ब्रझणा इमानि भूतानि जायन्त इति श्रुतियोजना । येन अस्य जगतो जन्मादि भवति तद्व्रझेति सूत्रयोजना, `दण्डेन घयो जायते' इत्यादाविव येनेति हेतौ तृतीया । अत एव भगवता---
मा्याऽध्यक्षेण प्रकृतिः सूयते स चराचरम् ।
हेतुनाऽनेन कौन्तेय जगद्विपरुवर्तते ।। (गी.9.10)
इति गीतायां सर्वाध्यक्षस्य सर्वामिनो हरेः कटाक्षवीणेन प्ररिता प्रकृीतः चराचरजगन्ति सृजतीति वदता ईश्वरस्य प्रेरकत्वेन निमित्तकारणतैव व्यवस्थापिता । श्लोकार्थस्तु---अध्यक्षेण सर्वस्वामिना मया ईक्षणे नप्रेरिता प्रकृतिः प्रधानं, सचराऽचरं जगत् सूयते जनयति, हे कौन्तेय! जगत्, अनेन हेतुना तत्तत्प्राणिकर्मानुगुणेनेक्षणेन हेतुना, विपरिवर्तते पुनः पुनः जायते, विविधवस्तुरूपेण परिणमते इति । एयं भावः ---लोरे यथा राजाधीनोऽमात्यादिः कदाचित् प्रभोरीक्षणमात्रेणेङ्गितेन मामयमस्मिन् कर्मणि प्रवर्तयतीति जानन् तत्करह्म कुरुते तथा इयमपि प्रकृतिर्भगवदधीना सर्वस्वामिनोहरेरीक्षणमात्रेण प्रभोईरेरभिप्रायं जानती सृजति चराचरात्मकं जगदिति । न च ---अचेतनस्य प्रधानस्यकथमिदृशं ज्ञानमि तिवाच्यम्, तदभीमानिदेवताविवक्षया तथोक्तेः ।
गदाधलोऽपि वल्यित्पत्त्िवादे पञ्चमीकारकनिरूपणावसरे । `मृत्पिण्डात् घटो जयात' इत्यादौ `जनिकर्तुरीरि अपादानत्वम्', तत्रप्रकृतित्वं न विकारित्वं प्रकृतिविकृतिभावाऽभावेऽपि `प्रक्केकयीतो भरतः, ततोभूतद्, वायोर्जात' इत्यादौ पञ्ाचमीदर्शनात्......तस्मात्करणत्वमेव प्रकृतित्वं `दण्जाद् गटो जायत' इत्यादिप्रयोगा इष्यन्त एव इत्यादिग्कन्थेन `जनिकर्तुः प्रकृतिः' इति सूत्रे प्रकृतिपदं करणपरमित्यभिप्रयन् द्रव्याद्यचेतनोपादानकारणत्वं ब्रझणो न संभवति इति `यतोो द्रवयं गुणाः कर्म इत्यादौ पञ्चम्युपपत्तिः प्रकृतदिपदस्य कारणमात्रपरत्व एव भवतीत्यभिदत्ते ।
इदं बोध्यम्---ब्रझ जगदुपादानमिति वदन्तः त्रिचतुरा एव, तत्र केचिद्वैयाकरणाः, सूत्रभाष्यकृदन्ये । शब्दब्रझ जगतो विवृत्तोपा दानं न तु परिणाम्युपादानं यतो ब्रझ निर्विकारम् ।
अनादिनिदनं ब्रझ सब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।।
इति हर्युक्तेश्चेति वदन्ति । शब्दब्रझणि सर्वमिदं जगत् आरोपितम् इति तोषामाशयः । अत्र मते `यतो वा' इति श्रुतौ, यत इति सप्तम्यान्तात्सार्वविभक्तिकस्तसिः यस्मिन्नित्यर्थकमिति युक्तम्, न तु पंचम्यन्तात्सिरिति । न च---`जायन्त' इति 8वणात्पञ्चमीत्युच्यत इति वाच्यम् । `तत्र जात' (पा.सू.4.3.25) इति सप्तमीसमर्थात् जात इत्यर्ते अणादिप्रत्ययविधानेन, `सप्तम्यां जनेर्डः' (पा.सू 3.2.98) इति सप्तम्यन्ते उपपदे जनेर्डप्रत्ययविदानेन, मन्दुरायां जातइति विग्कहवाक्यप्रयोगेण च, जनिधातुसमभिव्याहारे सप्तम्या अपि युक्तत्वात्, शब्दब्रझण आरोपाऽधिष्ठानतावादिना वैयाकरणेन तत्र अविष्ठानत्वमस्तीति बोधनाय सप्तम्यन्तत्वस्यैवाश्रयणीयत्वात्, विवक्षितार्थबोधकविभक्त्यन्तशब्दप्रयोगस्यैव न्याय्यत्वाच्च । अन्यया लक्षणादिकमाश्रयणीयं भवेत् । यद्यपि अत्र मते किं पराया वाचः ब्रझत्वम्, उत मध्यमाया वाच इति द्वैतम्, तथापि मञ्जूष्तः पराख्यवाच एव तत्वमिति निश्चेतव्यम् ।
अन्ये तु -- सब्दातिरिक्तं ब्रझ जगदुपादानकारणं मन्यन्ते । शिष्टं सर्वं पूर्वमतवत् । अत्रापि पञ्चमीनिर्देसश्चिन्त्यप्रयोजनः । सप्तमीनिर्देसो न्याय्य इति भाति । अस्मिन्मतद्वये जगदुपादानमायाऽविद्या धिष्ठानत्वात् ब्रझणोो जगदुपादानत्वम् ।
परे तु -- विकारात्मकप्रकृतिशरीरकतया, प्रकृतिनियामकत्वेन वा ब्रझ जगदुपादानमिति ब्रवते । अत्र-स्वशरीरप्रधानोपादानकत्वात् स्वायत्तप्रधानोपादानकत्वाद्वा जगतः ब्रझोपादानकत्वम् । श्रुतिसूत्रस्थस्य `यत' इत्यस्य बझाधिष्ठितात् प्रधानात्, प्रधानमेव पुरुषसंनिधानेन जगदात्मना परिणमते इति वदन्ति । अपरे तुईश्वरप्रेरितं प्रधानं जगदात्मना परिणमते अतस्तदेवोपादानकारणमिति आहुः । केचित्तु-परमाणवः द्व्यणुकादिरूपेण जगत्कारणमिति मन्यन्ते ।
येतु मन्यन्ते ब्रझ जगत उपादानकारणमिति ते सर्वे ब्रझणः परिणामं नाङ्गीकुर्वन्ति; अतस्तेषां मते ब्रझण उपादानत्वोोक्तेः किं प्रयोजनमिति विमर्शनीयम् । एतेन-ब्रझातिरेकेणाभावात् मिथ्यात्वें `तदनन्यत्वम्' इति सूत्रात् । ततश्च व्यासस्यापि जगन्मिथ्यात्वे तात्पर्यमिति यदुक्तं मञ्जूषायां प्रथमपरिच्चेदेेे तत्परास्तम् । कारणाऽनन्यत्वबुद्देः परिणामिकारणनिषय एव संभवात् । ब्रझणस्तु अपरिणा मित्नात् । वासुदेवस्य सर्वस्मादुत्तमत्वं स्वीकुर्वता श्रीव्यासपाणिनिपतञ्जलीनां जगतो ब्रझोपादानकारमकत्वस्याऽनभिमतत्वेन ब्पझानव्यत्वमपि जगतोो न समतमित्यवगमात् । `तदनन्यत्वम्' इति सूत्रतात्पर्यं तु तदधीनत्वादिना तदनन्यत्वोक्तिरिति उपरिष्टात् निरूपयिष्यामः, निरूपितं च किंचित्पूर्वमपि ।
एवं च - जगतो ब्रझोपादानकारणकत्वं भाक्तमेवेति ।
सृष्टिवाक्यानि जगतो निमित्तं कारणं हरिः ।
इति प्राहुसातयोस्तमान्नैव सिध्येदनन्यता ।।
--------
ननु यदुक्तं वासुदेवो जगतो निमित्तकारणं नोपादानम् अतस्तस्य सर्वस्माद्भेद इति, न तद्युक्तम्;
ममैवांऽशो जीवलोके जीवभूतः सनातनः ।
मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।। (गी.15.8)
इति जीवस्य तदंशत्वोक्तिविरोधात् । अंशांशिनोरभेदस्यैव दर्शनात् । सकि हि तयोर्भेदे अंशत्वमनुपपन्नमिति, उच्यते-अंशो हि द्विविधः भिन्नोऽभिन्नश्चेति । तत्र भिन्नांशः स्वांशसदृसः, स च जीवः, अभिन्नांशस्तु अन्तर्यामिरूपं रामकृष्णाद्यवताररूपं चज । ततश्च-ममैंवाशः मदंससदृसः, न तु मत्स्वरूपभूतः, शिष्टं स्पष्टमिति । सादृश्यं च स्वाशसदृशः, न तु मत्स्वरूपभूतः, शिष्टं स्पष्टमिति । सादृश्यं च स्वायत्तत्वेन, यथा स्वांशः स्वायत्तः, तथा जीवः स्वायत् इति भावः । अथ वा ममैवाशंः यः, तदधीनः न स्वतन्त्र इत्यर्थः । यो यदधीनः स तच्छब्देन व्यापदिश्यते `यता राजा राष्ट्रम्' इति भावः । एत एव सर्वाशास्त्रार्यसारस,ंग्रहं गीतायां पञ्चदसेऽध्याये ---
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लौकत्रयमाविश्य बिभर्त्यव्ययमोश्वरः ।। (गी.15.18)
इति क्षराक्षरपदवाच्यात् सर्वस्मात् प्रपञ्चाद्वासुदेवस्योत्तमत्वाद्यभिधानं संगच्छते । यदि जीवादिश्वरस्य न भेदः तर्हि तस्योक्तं सर्वेत्तमत्वं कथमुपपद्येत । अतोंऽशत्वोक्तिर्न भेदुविधिनी । एत्न गीतायामुपक्रमोपसेहाकयोर्निरूपितो भेदो न वास्तवः, अपि तु औपाधिक इति कस्यचिदुक्तिः परास्ता । सर्वसास्त्रार्थ्रसंग्रहे पञ्चदशे अध्याये भेदोक्तेः । न च अयमपि भेद औपाधिक इति वाच्यम् शास्त्रर्तसारसंग्रहे वास्तवार्थकतनस्यैव एवंकल्पनायोगात् ।
अन्ये तु--जीवशब्दस्य तच्चरीरकपरमात्मार्थकत्वेव विशिष्टै कदेसत्वेन जीवस्य परमात्मांशत्वव्यवहारः, अथापि स्वरूपस्यभावभेदात् जीवः परमपुरुषाद्भिन्न एवेति वदन्ति । मञ्जूषाक़तो मते ईश्वरान्यचेतनस्याभावेन ईत्वरस्य च निरंशत्वेन उपाधिसंबन्धस्य ववतुमसक्यतया शास्त्रेषु जीवस्योक्तमंशत्वमनुपपन्नमेव स्यात् । अत्र `सनातन' इति विसेषणेन जीवस्य तत्त्वमनादि इति श्रीव्यासमहर्षेरासयोऽवगम्यते । पाणिनिना तु जीवानादित्वं न निषिद्दमिति तस्यापि तदिष्टमेव . ततश्च---तदुभयासंमतमुपाधिसंबन्धस्य जीवत्वव्यवहारहेतुत्वनिरूपणमिति ।
इदमत्रानधेयम्--न केनापि जीवस्येश्वरमुख्यांशत्वं शक्यनिरूपणम् । ईस्वरान्यचेतनं न, ईश्वरो निरंश इति वादी तु ईश्वरस्यो पाधिसंबन्देनांशं परिकल्प्ाय, तस्य जीवत्वं, तस्येश्वरांशत्वं च निरूपयिचु न प्रभवति । ेवं युक्त्यमहप्रमेयकल्पनिापेक्षया स्वरूपते भिन्नस्य जीवस्य ईश्वराधीनत्वादिना तदंशत्वकल्पनं वरमिति ।
जीवस्याशत्ववचनं नात्माभेदस्य साधकम् ।
अतः श्रीवासुदेवस्य सर्वेत्कर्षे न ब्धकम् ।।
------
गीतावचनविरोधोद्धारः
ननु वासुदेवस्य सर्वेत्तमत्वं भेदाधीनम् स च भेदो गोतायां प्रतिषिद्धः, यतः--`स योगी ब्रझनिर्वाणं ब्रझभूतोऽधिगच्छति (गी.5.24) उपैति शान्तरजसं ब्रझभूतमकल्पषम् (गी.6.37) ब्रझभूतः प्रसन्नात्मा न शोचति न काङ्क्षति' (गी.18.54) इत्यत्र`ब्रजभूत' इति, `स गुणानं समदीत्यैतान् ब्रझभूयाय कल्पते (गा.18.53) इत्यत्र `ब्रझभूयाय' इति, `यः प्रयाति स मद्भावं याति नास्त्यत्रसंशयः (गी.8.5) मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते (गी.14).19) इत्यत्र मद्भावमिति च प्रह भचवान् तेषां च ब्रझत्वं प्राप्तः, ब्रझत्वाय, मत्स्वरूपमित्यर्थेन ब्रझप्राप्तः, ब्रझभूयायेत्यनयोः ब्रझप्राप्तिमान्, ब्रझप्राप्तये, तत्र स्थित्यै इत्यर्थः . ्द्भावम्, मद्भावायेत्यस्यमयि सत्ताम्, ्यी सत्तायै इत्यर्थः . मद्भावम्, मद्भावायेत्यस्य मयि सत्ताम्, मयि सत्तायै इत्यर्थः । ्द्भावमधिगच्छतीत्येतत् मोक्षप्राप्तिरिति---
गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःकैर्विमुक्तोऽमृतमसनुते ।। (गी. 14.20)
इत्यत्तरश्लोकेन भगवतैव व्यत्ख्यातम्, ्अतः -एतेषां स्वरूपाभेदे तात्पर्यकल्पवमयुक्तम् ।
ब्रझणि स्थितिः ब्रझैव सर्वमिति निश्चयवात्, ब्रझप्राप्तः, ब्रझभवनाय (मोक्षाय) मद्भावाय इत्यस्य मोक्षायेति (शं.भङा) ब्रझभूतः असंकुचितज्ञानादिस्वस्वरूपेण स्थितिः, ब्रझसाम्याय असंसारित्वाय, एवमेव मद्भावपदस्य, एकत्र तु ---`जननादिदुःखमुक्तत्वम्' इति (रा.भा) `ब्रझबूत इत्यस्य सर्वत्र ब्रझणि स्थितमनस्कः, प्रीतिविषयत्वाय, तन्मनस्कत्वाय, निर्दुःखनिरतिशयानन्दात्मिकां स्थितिम्, मन्मनस्कत्वम्' इति (पू.भा.)व्याख्यातम् । अतो नैषां वचना नामभेदे तात्पर्यम् । एवं च---वासुदेवस्य सर्वेत्तमत्वे न गीतावचनविरोधः । भगवदुपासनायाः तन्मनस्कत्वं च प्रधानमङ्रमिति `मन्मनाभव मद्भक्तः', (गी.9.34,18.65) `अनन्याश्चन्तयन्तो माम्' (गी.9.22) इत्यादिना वारं वा3रं शिक्षमात् बोध्यम् । ्त एषां गीतावचनानां न भवदुक्तार्थे तात्पर्यम्, गीताचार्यस्य वासुदेवस्य सर्वेत्तमत्वमभिप्रयतः पाणिनेश्चेति ।
ननु संसारिणे जीवस्य विभिन्नधर्मवत्त्वेन भेदेऽपि मुक्तानां समस्तपुण्यपापविधुरतया शुद्धत्वात् विरुद्धधर्मनत्त्वाभावेन अभेदो युज्यत इति चेत् उच्यते--
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्दिमितो गताः ।।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
रर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। (गी.14.1,2)
इति द्वाभ्या `मम योनिर्महद्ब्रझ' (गी.14.3) इत्यादिना वक्ष्यमाण5ानप्रसंसापूर्वं तस्य फलं सदृष्टान्तमभिधाय, तत्र मुक्तानां परमात्मना ऐक्यभ्रमवारणाय तेषां भगवत्साधर्म्यमेव प्रह भगवान् . साधर्म्यं च समता, सा च जननमरणादिदो,राहित्येन, जगत्कारमत्वाद्यतिरित्तापहतपाप्मत्वादिना, नित्यसुकानुभवितृत्वेन च बोध्या . ब्रझमीमांसायां च मुक्तानां `जगद्व्यापार' वर्जम् ' (ब्र.सू. 4.4.1) इति जगत्कारमत्वं न, `भोगमात्रे' ति सूत्रेण नित्यसुखानुभवमात्रमस्ति, `मुक्तोपसृप्ये' (ब्र.सू.1.3.2) त्यनेन भगवत्प्राप्तिमत्त्वमस्तीत्याह सूत्रकृत् । अस्त्यत्रार्थे ---
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रझयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।। (मु.5.3)
इति श्रुत्यनुग्रहोऽपि । पश्यः द्रष्टा (उपासकः) निरञ्जनः सुद्धः, साम्यम् उपास्येन परमात्मना साम्यम् । शिष्टं स्पष्टम् । ततश्च--- मुक्तावपि भेद एवेति श्रुतिसूत्रस्मृतिसिद्धं तत्त्वम् ।
ब्रझभूतेत्यादि गीतावाक्यादैक्यं प्रतीयते ।
इत्याक्षेपो निराकारि गीताश्रुतिवचोबलात् ।।
--------
63 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।। (गी.18.65)
इति ुपासनया भगवत्प्राप्तिरिति ।
शंकरभाष्ये---तत्त्वमिति पदं विभज्य सः `सदेव' इत्यादिवाक्यप्रतिपादितगुणविशिष्टः, आत्मा, तत्त्वम् वास्तवं वस्त्विति योजनान्तरं दर्शितम् ।
केचित्तु---श्वेतकेतोरेकस्य रामकृष्णादिवदवताररूपत्वं ज्ञात्वा अभेदोक्तिरिति वक्तुं शक्यमिति नानेन सर्वेषां जीवानां परमात्मैक्यं सिध्यतीति वदन्ति ।
किं च--तत्र नवकृत्व उपदुष्टेषु श्रुतानां शकुनिसूत्रादिदृष्टान्तवाक्यानां भेदपरत्वेन दार्ष्टान्तिक `तत्त्वमसी' ति वाक्यस्य भेदपरत्वेन योजनैवोचितेति जीव ईश्वसत्वबुद्धिर्नं कार्येति विभाव्यम् । दृष्टान्तवाक्यानां भेदपरत्वमन्यत्र निरूपितम् ।
रङ्गरामानुजभाष्ये तु `तत्त्वमसि' इत्यास्यायमर्थः -त्वं पदं मुख्यार्थानुपपत्त्या अन्तर्यामिपरम्, तत्पदं सच्छब्दितात्मुर्यनसानवृत्त्या अन्तर्यामिपरत्त्वम् । ननु त्वं पदस्य सर्वत्र संबोध्यमानार्थपरामर्शकर्वस्यैव न्याय्यत्वेन प्रकृते श्वेतकेतोः संबोध्यत्वात् तत्परामर्शं विना अन्तर्यामिपरत्वकल्पनं न युक्तमिति चेत्, देवदत्तं संबोध्य तत्पुत्राभिप्रायेण `देवदत्! त्वमेवं कृतवानसि' इतिवत् उपपत्तिरिति । इयान्विशेषः --`दृष्टान्ते मुख्यार्तानुपपत्त्या देवदत्तपदर्य तत्पुत्रे लक्षणा त्वंपदस्यान्तर्यामिणि लक्षणा' इति श्रुतिरेषा व्यास्याता ।
एतेन--`तत्त्वमस्यादिवाक्यस्य अखण्डार्थेन शुद्देनापि ब्रझमाऽऽध्यासिकं तादात्म्यम्' (मू.4.25) इति मंजूषोक्तं परास्तम्, तेन भगवत्स्वरूपयोरेवैक्यबोोोधनात् तदैक्यस्य वास्तवत्वेन आध्यासिकत्वकथनस्यायुक्तत्वात्, संबोध्यमानश्वेतकेतुपरत्वेऽपि तदधीनत्वतत्सादृस्यादिरेव श्वेदकेतौ बोध्यत इति तादात्म्यस्यैवाप्रसक्तेः । वासुदेवस्य सर्वेत्तमत्वादिकमभिप्रयतः पाणिनेराचार्यस्य श्वेतकेतूपलक्षितजीवेषु भगवत्तादात्म्यस्यानभिमनत्वाच्च ।
(2) ननु `गताःकसाःपञ्चदशप्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति' (मु.6.7)
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वन्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ।। (मु.6.8)
स यो ह वै तत्परमे ब्रझ वेद ब्रझैव भवति ।
नाऽस्याऽब्रझवित्कुले भवति ।। (मु.6.9)
इत्याथर्मणे उपसंहारे ब्रझविदो ब्रझणा सह एकीभावस्य, ब्रझभवनस्य च प्रतिपादनात्, मुक्तौ जीवब्रझणोरैक्यमेव । अत्र प्रतिपादित एकीभावो ब्रझभावश्च ब्रझत्वमेव । अन्यता--अब्रझणो ब्रझणो ब्रझभावायोगात् असंभावितार्थप्रतिपादिकेयं श्रुतिरप्रमाणं भवेत् । एतेन---मुक्तेः पूर्वमपि असर्ति जीवस्य ब्रझत्वं, द0ोषवशात्तु अनभिव्यक्तं, तत्त्वज्ञानेन दोषनिवृत्तावभिव्यज्यत इति तादात्म्यं स्वतो वर्तते, अतो भेदस्तन्निबन्धनव्यवहारश्चौपाधिक इति युक्तम् । एवं च--- गीतायां निरूपितो भेदोऽवास्तवः, `वासुदेवः सर्वम्' इत्यक्तोऽभेदस्तु वास्तव इति ।
अत्र वदन्ति---`द्वासुपर्णा, यदा पश्यः' इत्यादि श्रुतीनां भेदपरणां बहूनामुपलम्भात् गीतायां निरूपितो भेदा सक्यम् । किं च --`वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगा यतयः शुद्धसत्त्वाः । ते ब्रझलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वें' (मु.6.6) इति पूर्वमन्त्रे---अधिकारिणो ब्रझमीमांसाशास्त्राभायासात्, वेदतदनुसारिसर्वसास्त्राश्चयवन्तः सर्वाणि कर्माणि भगवते समर्पयन्तः, सत्यलोकं गत्वा तत्र चिरकालमुषित्वा तल्लोकाधिपतेः चतुर्मुखादुपदेशं प्रप्य, विशेषेण भगवत्स्वरूपं विज्ञाय, तदायुषोऽन्ते मुक्ता भवन्तीति श्रुतम् ।
सप्तमेन अनेन मन्त्रेण ततत्प्रकारः प्रदृश्यते । ,षोडशकलः पुरुषः कलानां पञ्चदसानां निवृत्तौ मुक्तो भवति, तत्र कलानाम जीवस्य शरीरधारणहेतुः प्राणादयः षोडशपदार्थाः ते च--`सप्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवी इन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम चठ (ष.प्र.6.2) इति षट्प्रश्नोक्ता ज्ञेयाः । तत्र---प्रणाः श्वासोच्छ्वासः, श्रद्धा आस्तिक्यबुद्धिः, अन्नं खाद्यं वस्तु, वीर्यं शरीरोत्पत्तिहंतुभूतं वस्तु, तपः ज्ञानसाधनं व्रतम्, मन्त्राः ऋगादिः, कर्म पुण्यापुण्यरूपं, लोकः गोलकम् इन्द्रियाश्रयः, नाम देवदत्तादि, प्रतिष्टाः शरीरधारिकाः, कलाः प्राणादयः, तदभिमानिदेवाश्च, कर्माणि पुण्यानि, तदभिमानी च गताः, सर्वे देवाः कलाभिमानिभ्य इतरे सर्वे, प्रतिबिम्बभूतासु प्रजासु (जीवेषु) स्थिताः, विज्ञानमय आत्मा जीवः सर्वे च देवाश्च (कलाभिमानिनो।ृन्ये च) अव्येये अक्षरे, परे परमात्मनि एकीभवन्ति यथा--`अत्र कर्मणि सर्वेमात्यादय एकीभवन्ति' इत्यादौ एकमनस्का भवन्तीत्यर्थः, तथा परमात्मवि,ये एकमनस्का भवन्ति, न विप्रतिपद्यन्ते इत्यर्तः । (परमात्मा अध्यक्षः, वयं सर्वे तद्दासा इति दृढमनस्का भवन्ति) परमात्मना निर्दिष्टं कर्म एकमनुस्काः सन्तः कुर्वन्तीत्यर्ते वा, परमात्मना सह एकस्थानस्तिता भवन्तीत्यर्थो वा, एवमर्थ एव च्विप्रत्यय उपपद्यते । अभूततद्भावेे हि `कृभ्वस्तितयोगे संपदायकर्तरि च्विः' (पा.सू.5.4.50) इति च्विर्विधीयते, तत्र `अभूततद्भाव' इति कात्यायनवचनम् । यद्वस्तु येन धर्मेण पूर्वमनुत्पन्नम्, तस्य वस्तुनः तेन धर्मेणोत्पत्तौ विवक्षितायामिति तदर्तः । ततश्च सामानाधिकरण्यसंबन्धेन पूर्वकासावच्छिन्नस्वाभावविसिष्टधर्मनत्त्वेनोत्वत्स्यमानार्थवाचकात् स्वार्थे च्विप्रत्ययो भवतीति सूत्रार्थः । एकमनस्कत्वादेः पूर्वमभावेन ज्ञानेनाज्ञाननिवृत्तौ वासुदेवप्रसाद्त् मुक्तौ प्राप्तायां तद्भवतीति, एकशब्दस्याविद्यमानैकमनस्कत्वादिरूपदर्मविशिष्टार्थवाचकत्वेन च्विर्भवतीति शक्यते वक्तुं भेदवादिभिः पाणिनीयैः । एकत्ववादिनां पाणोनीयत्वेनात्मानं मन्यमानानां तु नैवं वक्तुं शक्यम् । तेषां मते एक्यस्य ब्रझत्वस्य च सद् विद्यमानत्वेन तस्य तदभावस्य च निरुक्तसामानाधिकरण्यस्य दुर्निरूपत्वात् । न च---एकत्वादेःसदातनत्वेऽपि तदभिव्यक्तेः पूर्वमभावेन तामादाय च्विः सुवचेति वाच्यम् । यद्धर्मावच्छिन्नत्वेन वस्तुन उत्पत्तिर्विवक्षयते तद्रूपेण तद्धर्मोपस्थापरप्रातिपदिकात् च्विरिति सूत्रार्थात् ।। अत एव शुक्लीकरोोतीत्यर्ते एकीकरोतीति न प्रयोगः । प्रकृते च एकशब्दस्य अभीव्यक्तित्वेनाभिव्यक्तिबोधकत्वाभावेन च्वेर्वक्तुमशक्यत्वात् ।
न च--`ब्रझीभवतीत्यत्र मञ्जूषोद्योतयोश्छान्दसत्वात् च्विः' इत्युक्तेः तत्रेवात्रापि छान्दसः स्वार्थिकः च्विरिति वात्यम् --उक्तदिळा सूत्रेणैवोपपत्तौ छान्दसत्वादिकल्पनायोगात् । ब्रझीभवतीति `कृभ्वस्ति' इति सूत्रकौमुदिप्रतिकमाद्य `अत्र भवनकर्तृत्वं प्रकृतिभूतस्याऽब्रझण एव विकाराभेदेन बोध्यम्' इत्युक्तं शेखरे, मञ्जूषादौ स्वार्थे च्विरिति । अतेर कः सिद्धान्त इति चिन्त्यम् । न च---कौमुद्याशयवर्णनपरः शेखरः, मञ्जूषाति तु स्वसीद्दान्तावेदकमिति वाच्यम्--शेखरे `वस्तुतः, परे तु वा' इत्यापक्रम्य छान्दसत्वात् च्विरित्यन्यत्र निरूपितम्' इत्याद्यनुक्तेः तथाकल्पने मानाभावात् । अविरोधसंपादनाय तता कल्प्यत अति चेत् विनिगमनाविरहेण णञ्जीषाद्युक्तिरेव पराशयवर्णनपरेति वक्तुं शक्यत्---किं च--अनारोपिताऽतथाभूते आरोपिततद्भावसंपत्तावेव च्विः अत एव ईश्वरप्रसादादिनाऽमहति मुख्यमहत्त्वोत्पत्तौ न च्विः' इति शेखरोक्तदीशा अत्राप्यैक्यस्यारोपो वात्यः, आरोपितस्य च तन्मते मिथ्यात्वेन वास्तवमैंक्यं न सिध्येत् । किं च--स्वार्ते च्विप्रत्ययाङ्गीकारेऽपि ब्रझणो ब्रझत्वमस्तीत्यर्थस्यैव लाभेन जीवस्य ब्रझभावप्रप्तिरितीष्टासिद्धिः ।
अष्टमे मन्त्रे `पुरुषमुपैति दिव्यम्' इति दिव्यपुरुषप्राप्तेरेवोक्तत्वेन `एकीभवन्ति' इत्यस्य स्वरूपैक्यपरतया व्याक्यानं मन्दम् । नवमे तदित्तरमन्त्रे `ब्रझैव भवति' इति वाक्येनापि `ब्रझप्राप्तिरेवोत्यते' न च जीवस्य ब्रझभाव इति तदर्थ इति वाच्यम् । तत्र भवतीत्यस्य प्रान्पोतीत्यर्तं इति तत्रैव शाङ्करभाष्योक्तेः । एवं च--पूर्वमन्त्रे पुरुषपदं ब्रझपरमिति बोधयित्वा पूर्वमन्त्रार्थ एव नवमेन मन्त्रेण विवृत इति नवममन्त्रान्तिमवाक्योक्तममृतत्वेन भवनमपि अत्रैवार्थेऽनुकीलम् । मुक्तो भवतीति तदर्थः । अत एव च गीतायाम् ।
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमा गताः ।।
आब्रझभुवनाल्लोकाः पुनारानर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।। (8.15,16)
`मामेवैष्यसि' (गी.9.34;15.65) इति भगवदृपासकानां योगिनां परमफलतया बगवत्प्राप्तिरेवोक्तो, न तु तत्तादात्मयं, प्राप्तिस्तु न तादात्म्यमिति तद्भावः ।
(3) ननु---`ब्रझैव सन् ब्रझाप्येति' (बृ.7.6.4.6) इति वाजसनेयके ब्रझण एव ब्रझप्राप्तेरभिदानात् ब्रझभावो मुक्तेः पूर्वमप्यस्तीत्यवगमेन मुक्तौ न भेद इति चेत्, अत्र वदन्ति-ब्रझशब्दस्य जीववाचित्वेन ब्रझैव सन् जीवत्वावच्चिन्न एव सन् (जीवभावमिविहायैवेति यावत्) ब्रझ परमात्मानम् अप्येति प्रन्पोति, इति श्रुत्यर्थः . मुक्तावपि न स्वतन्त्रो जीवः अपि तु, परमात्मस्वामिकत्वेन तदधीन एव वर्तते, इदमेव मुक्तौ जीवभावाऽहानमिति तात्पर्यम् । न च---ब्रझशब्दो न जीववचीति सङ्क्यम् । जीज्ञासाधिकरणे `अत एव ब्रझशब्दस्य जात्याद्यर्तान्तरं मा शङ्रतव्यम्' इति शाङ्करभाष्याख्याने `आदिशब्देन जीवकमलासनशब्दराशी ग्रहणम्' इति आनन्दगिरीये उक्ते जीववाचित्वेऽविवादात् ।
(4) ननु `सर्वं खल्विदं ब्रझ' इति श्रुत्या ब्रझजगतोरैक्योक्तेरभेदो युक्त इति चेत् न । श्रुतेरभेदे तात्पर्याभावस्य निरूपितत्वत् ।
(5) `अहं ब्रझास्मि' (बृं.3.4.10) इति वाक्यमपि जीवब्रझणोरैक्यं वक्तीति नु शक्यते वक्तुम् । तस्य--`ब्रझ वा इदमग्र आसीत्तदात्मानमेवाऽवेत्', `अहं ब्रझवाक्यत्वेन जीवब्रझैक्यपरत्वाभावात् । श्रुत्यर्थस्तु--जगतोऽग्रे पूर्वम्, ब्रझैवाभूत्, तत् ब्रझ, आत्मानम्, अहं ब्रझास्मीति अवेत् अजानात्, तर्मात् तथा ज्ञानाद्धेतोः, सर्वमभवत् पूर्णमभवदिति । सृष्टेः भावः । ब्रझणः `अहं ब्रझास्मि' इति ज्ञानमुदभूदित्यर्थकं वाक्यमिदं जीवेशाभेदे कथं प्रमाणं स्यात् ।
ननु ---`यो यो देवानाम्' इत्याद्युत्तरवाक्येन देवादीनां मध्येयोऽधिकारी, तत् ब्रझ वेद, वामदेवोपि तदेतत् ब्रझ पश्यन्, `तदिदमप्येतर्हि' इति `य इदं वेद अहं ब्रझास्मीति स इदं सर्वं भवति' इति उपासकज्ञानानुवादेन उपासकस्य सर्वत्वसिद्देरभिधानाम् जीवेशैक्यसीद्धिरिति चेत्, न । तत्र---`अहं ब्रझास्मी' इति नोपासपज्ञानानुवादः, किंतु `तदात्मानम्' इत्यादिवाक्यैकदेशानुवादः । तेन `अहं ब्रझस्मि' अत् वाक्यघटित `ब्रझ वा' इत्यादिवाक्यमुपलक्ष्यते, तादृश ज्ञानवत्, नित्यपूर्णत्वादिमच्च यत् प्रसिद्दं ब्रझ `ब्रझ वा इदमग्र' इति पूर्ववाक्ये निरूपितं तत्, एतर्झपि (इदानीमपि) यो वेदेत्यर्थस्यैव ततः प्रतीतेः । ततश्च नेदमात्मैक्यं प्रतिपादयितुं प्रभवति । उपासकज्ञानानुवाद इति अभूमानेऽपि अहं ब्रझसदृशोऽस्मीत्यर्थनर्णनसंभवात् नैक्ये तात्पर्यमस्य । अत्र--अवेत्, अभवदित्यादौ भूततत्वं न विवशितं ब्रझणः स्वस्वरूपवेदनस्य पूर्णत्वादेश्च सदातनत्वात् ।
(6) ननु---चान्दोग्ये चतुर्ते (11.खं) उपकोसलविद्यायां गाईपत्यान्वाहार्याहवनीयास्त्रयोऽग्नय उपकोसलाय `य आदित्ये पुरषः, यश्चन्द्रमसि पुरुषः, यो विद्युति पुरुषः', `सोहमस्मि स एवाहमस्मि' इति आदित्यादिस्थपुरुषम्य आत्मनश्च एकत्वोपदेशश्रवणात् आत्मैक्ये श्रौतमिति चेत्, न । त्रिष्वपि वाक्येषु सोऽहमस्मीत्यादेः तदधीनः, तत्सदृशोो वाऽहमस्मीत्यर्थात् । यद्यत्रात्मैक्यमभिमतं, तर्हि त्रिष्वप्युपदेसवाक्येषु `य आदित्ये पुरिष' इत्येव वक्तव्ये चन्द्रादिस्थानभेशवाक्येषु `य आदित्ये पुरुष, इत्येव वक्तव्ये चन्द्रादिस्थानभेदकथनं व्यर्तं स्यात् । न च आदित्यादि,ु विद्यमानः पुरुष एक एवेति ज्ञापनाय स्तानभेदोक्तिरिति वाच्यम्, तज्ज्ञापनस्याऽप्रसक्तः । न च--द्वैतिनां मतेपि चन्द्रादिस्थानभेदकथनं व्यर्तम्, आदित्यस्थषुाधिनत्वादिकथनेनैव आत्माधीनत्वादिना भेदसीद्धेरिति वात्यम् । सर्वान्तर्यामिणः स्वरूपतो भेदाभावः, अधिष्ठानानां नियम्यानामनेकत्वं चेति बोधनाय स्तानभेदोक्तेः । ऐक्यवादिना तु नैवं वक्तुं शक्यम्, शुद्देनैवैक्यसमयाभिमतत्वेन तस्यैव प्रतिपादनीयत्वात् । किं च ऐक्यवादी किं भवान् आदित्यपुरुषयोोरैक्यमङ्गीकरोति, न वेति प्रष्टव्यः । यद्यङ्गीकरोमीति ब्रूते तदा `आदित्यः पुरुष' इति निर्देशेन भाव्यं, न तु---`आदित्ये पुरुष' इति भेदेन । यदि नेति ब्रते, तददा अन्येषामपि पुरुषेणैक्यं नेति सुवचं भेदवादिभिरिति वक्तव्यम् ।
(7) तैत्तिरीये तु `ब्रझविदान्पोतिपरम्' (तै.उ.2.1) इति ब्रझविदां परब्रझप्राप्तिं संक्षेपेण प्रस्तुत्य तत्र `सत्यं ज्ञानमनन्तं ब्रझ' इति मन्त्रवर्णसंवादं दर्शयित्वा `तस्माद्वा एतस्मादात्मन आक्शः संभूत' (तै.उ.2.1.7) इत्यादिना ब्रझणवाक्येन ज्ञेयतया प्राप्यतया च प्रकृतस्य ब्रझणो जगत्कर्तुत्वादिलक्षणम्, आनन्दे तारतम्यं च द्वितीयवल्यां निरूप्य, द्वितीयवल्युक्तमेव जगत्कारणत्वरूपब्रजलक्षणं भृगुवल्यां पितापुत्रसंवादेन प्रतिपाद्य, उपासनाप्रकारं च दर्शयित्वा `सोऽस्नुते सर्वान्' इति मन्त्रवर्णगतफलवाक्यार्थं `अस्माल्लोकात्प्रेत्य' (तै.उ. 3.10.5) इत्यादिना स्पष्टयनं संक्षेपविस्ताराभ्यां जीवपरयोर्भेदमेवाऽऽह वेदपुरुषः ।
तत्र -- `अस्माल्लोकात्प्रेत्य, एतमन्नमयमात्मानमुपसंक्रम्य, प्राणमयम् o मनोमयम् o विज्ञानमयम् o आनन्दमयमात्मानमुपसंक्रम्य, इमान् लकान् कामान्नी कामरूपी अनुसंचरम्, एतत्सामगायन्नास्ते, (तै.उ.3.10) इत्यादि श्रुयते । अस्य `स यश्चायं पुरुषे, यश्चासावादित्ये, स ेकः, स य एवं वित्' (तै.उ.3.102) तृप्तिरिति वृष्टौ' (तै.उ.3.102) इत्यादिना अध्यात्ममदिदैवं च भगवदुपासनां विधाय उपासनाविषयतया निर्दिष्टस्य ब्रझणो भेदशङ्कानिवृत्तये `यश्च' इति वाक्यद्वये प्रसक्तं ब्रझ अनद्य `स एक' इति वाक्यं पुरुषापलक्षितमर्वमानुषान्तर्यामिणः, आदित्योपलक्षितसर्वदेवान्तर्यामिणश्च एकत्वं (अभेदं) विदधत् सर्वान्र्यामिभगवत्स्वरूपाणां भेदाभावं बोधयति । पूर्वोक्तोपासनाया अन्तर्यामिरूपतद्भेदाभावज्ञानस्य च फलमाह-स एवं विदित्यादि । अयमर्थः--यः अधिकारी, एवम् उक्तप्रकारेण, पवित् भगवन्तमुपास्य, अन्तर्यामिणोऽभेदं जानाति, सः ज्ञानी, अस्मात् लोोकात् एतस्मात् शरीरात्, प्रेत्य ऊर्ध्व गत्वा, अन्नमयमित्यादेः तत्तत्कोशगतत्वेन तत्तत्पदवाच्यमित्यर्थः । आत्मानम् परमात्मनम्, उपसंक्रम्य प्राप्य, (मुक्तो भूत्वेति यावत् कामान्नी काम्यमानविषयभोगवान्, अन्नशब्दो विषयसामान्यपरः, कामशब्दः काम्यमानपरः कर्मधारयान्मत्वर्तोय इनिः, कामरूपीः, कामशब्दः काम्यमानपरः, कर्मदारयान्मत्नर्थिय इनिः, कामरूपी अभिमतरूपवान्, अत्रापि पूर्ववदिनिः, इमान् लोकान् भूरादीन् लोकान्, अनुसंचरन् गच्छन्, एतत् वक्ष्यमाणम्, साम `हा हुव' इत्यादि सामविसेषम्, यद्वा-एतत् शास्त्रेषु प्रतिपादितम्, सामब्रझ, गायन् गानं कुर्वन्, स्तुवन्, आस्ते यत्र रुचिः तत्रास्चे । साम दर्शयति-हा हुवेति । अयं परमानन्दानाप्तिजनीतानन्दविशेषद्योतकः अतो नाऽस्यार्थविशेषचिन्ता । अहमन्नम्, स्वावरणामहमुपजीव्योऽस्मी । अहमन्नादः विषयभोगशीलः, `जक्षन् क्रीडन् रममाण' (छा.5.12.3) इत्याद्युक्तेः अहं श्लोककृत् हरेः कीर्तिं सर्वत्र प्रकाशमानां कुर्वन्, सर्वत्र हरेरनुग्रहान्ममेदृसं भाग्यमिति भावः । सर्वमिदं मुक्तस्य चतुर्मुखस्येत्याह-्हमस्मि प्रथमजा इति । ऋतस्य ज्ञानरूपस्य सत्यस्य वा भगवतो हरेः, अहं प्रथमजोऽस्मि । कस्मात्प्रथमत्वमित्यत आह---पूर्वं संबभूव' (मु.1.1.1) `यो ब्रझाणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्दिप्रकासं मुमुक्षर्वे शरणमहं प्ररद्ये (श्वे.6.18) `हिरण्यगर्भः समवर्तताऽग्रे भूतस्य जातः पतिरेक आसीत् । स दधार पृथिवी द्यामुतेमां कस्मै देवाय हविषा विधेम' (ऋ.सं.8.7.3) इत्यादौ चतुर्मुखस्यप्रथमोत्पन्नत्वश्रवणात् । किं च, अमृतस्य मुक्तवर्गस्य, नाभिः आश्रयः `अरा इव रथनाभौ' इत्यादौ नाभिपदस्य आश्र्यार्थकत्वं प्रसिद्धम् । `कार्यं ब्दरिरस्य गत्युपपत्तेः (ब्र.सू.4.3.10) ब्रझणा सह ते सर्वे संप्राप्ते प्रतिसचरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम्' इत्यादौ कार्यब्रझ (चतुर्मुख) प्रतप्तेः, तेन सह परमपदप्रवेशस्य चाभिधानात् तस्य मुक्ताश्रयत्वम्, परस्यान्ते तेन सह परमपदप्रवेशकथनात् परब्रझ प्रापयितृत्वं चेति ज्ञायते । स एनान् ब्रझगमयति' (छा.4.15) इत्यास्य, सः अमानवः पुरु,ः, एनान् मुक्तान्, ब्रझ कार्यब्रझ, परं ब्रझ च, नयति प्रापयतीत्यर्तः । तत्र ्मानवः पुरूषः, वायुः चतुर्मुखश्च । वायुः कार्यब्रझ नयति, चतुर्मुखः परंब्रझेति विवेकः । `अमृतस्यैष सेतुः' (मु.2.1.5) इति श्रुतिस्तु हरेः सर्वमुक्ताश्रयत्वमाह । एवं शार्त्राभ्यासप्रवचनाभ्यां प्राप्तं स्ववीभवं प्रकास्य, अन्यस्यापि उपदेष्टुस्तत्तद्योग्यसुकं भविष्यतीत्याह-- य इति । यः अधिकारी, माः प्रमाणानि, विष्णूत्कर्षप्रतिपादकानि शास्त्राणि, ददाति णन्येभ्ये योग्येभ्य उपदिशति । सः अधिकारी, इत् एव, एवमेव, स्वयोग्यं यावत्सुकमनुभवति । (प्रतमजत्वं तु न भवति) ददातीत्युपलक्षणं स्वस्वयोग्यश्रवणादेरपि । मा माम्, अवाः प्रतप्नुयात्, छान्दसत्वात् व्यत्ययेन मध्यमपुरुषः । `अव रक्षणे'--- त्यादिदण्डके `दीप्त्यवाप्त्यालिङिगन' इति पाठात् प्राप्त्यर्थकर्वं धातोः ।
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।।
श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात्पुण्यकर्मणाम् ।।
(गी.15.70.71)
इति उिदे,्युः श्रोतुश्च शुभलोकावाप्तेः फलत्वेन भगवतोक्तेः । श्लोोके स इति उपदे,्टृपरामर्शकम्, अपिः श्रोतृसमुच्चायकः . अहमन्नम् सर्वेषामहमुपजीव्यः, अन्नम् हरेरन्नम्, अत्र ्न्नत्वं न्श्यत्वम्, अदन्तम् कर्मफलबोक्तारम्, अझि उपसंहकामि, हरेराझया सर्वामुपसंहाकामि । सर्वेषामीश्वराधीनात्वेन तदादिष्टकार्यकारित्वं धर्म इति भावः । अहम् विशं भुवनम् सर्वं जगत् अभि अभवम् गुणैः तिरस्कुर्वाणोऽभवम्, गुणैः श्रेष्ठोऽहमस्मीति यावत् । तर्हि किं स्वतन्त्रो भवानित्यत आह--सुवर्णज्योतिरिति । सुवर्णः परमात्मा ज्योतिः प्रेरकः यस्य सः, एदमिति वर्तते । अहं निर्दुष्टपरमानन्दपरमात्मपेरेरितः तत्परतन्त्र इति यावत् । य एवमिति . यो विरिञ्चः, एवं वेद परतन्त्रोऽहं हरेरनुग्रहात् पूर्वनिरूपितभाग्यवानभवमिति जानाति सः `सामागायन्नास्त' इति पूर्वेण संबन्दः ।
चतुर्मुखस्य मुख्याधिकारित्वेन तदनुभवं निरूपयन् वेदपुरुषः एतद्दृष्टान्तेन सर्वेऽपि मुक्ताः स्वस्वयोग्यतानुसारेण मुक्तौ सुखमनुभवितुमर्हन्तीति बोधयतीति ।
अत्र ब्रझप्राप्तितत्स्तुतिसामगानादेर्निरूपणात् मुक्तौ भेद एवेति श्रुतितात्पर्यम् । `तदब्रझेत्युपासीत ब्रझवान् भवति' (तै.उ.3.10) इति वाक्यबोधितब्रझत्वोपास्तिफलं ब्रझवत्त्वमपि ब्रझगुणवत्तमेव न तु तत्तादात्म्यम् । इत्थमेव अभियुक्तैः संकराचार्यप्रभृतिभिरिदं वाक्यं व्याख्यातम् । ननु---श्रौतोऽप्ययं मौक्तिको भेदः काल्पनिक इति चेत्, न । मुक्तौ मायानुवृत्तेरभावेन अन्यस्य च तत्कल्पकस्याभावेन तत्र तस्य तत्त्वे मा3नाभावात् । ननु---अस्ति मुक्तौ गौणमुख्यभेदः फलश्रुतेश्च गौणमुक्तिविषयकत्वमित्यादि स्वेत्प्रेश्रितं वैयाकरणैरादणीयमित्यत्र न कश्चिन्निर्बन्धः । `त इमे सत्याः कामा अनृतापिदाना' (छा.8.3.1) इत्यादिना संसारेऽज्ञानादिनाऽऽवृतं सत्यकामादिकमज्ञाननिवत्तौ मुक्तावाविर्भवतीति प्रतिपादनात् मुक्तौ कामादीना सत्यात्वमेव न तु मायिकत्वम् ।
ननु--अस्यामेवोपनिषदि `सोऽकामयत् बहुस्यां प्रजायेय' (तै.उ.2.6) इति ब्रझण एव बङुभावोोक्तेः `तदेवानुप्राविशत्' (तै.उ.2.6) इति तस्यैव सर्वत्र प्रवेशोक्तेश्च, तदतिरिक्तात्मनोऽभावेन अभेद एव युक्त इति चेत्, फच्यते --भगवत एव नियामकबहुरूपेण सर्वत्र प्रवेश इति तदर्थात्, जीवनियामकतया जीवान्तर्यामित्वस्य वाजसनेये अन्तर्यामिब्रकाझणं (5) उक्तेश्च भगवद्रूपाणामभेद इति तात्पर्येण भगवदतिरिक्तात्माऽभावे मानाभावात् जीवपरयोरभेदासिद्धिरित्यादि अन्यत्र विस्तरेण निरूपितामिति ।
(8) ननु---बृहदारम्यके चतुर्थस्य तुर्ये, षष्ठस्य पञ्चमे च `यत्र द्वैतमिव भवति' `तदितर इतरं जिघ्रति, पश्यति' (बृ.4.4.64,6.5.15) इत्यादिना भेदं प्रतिषुध्य, `यत्र वा आत्मैवाभूत् तत्केन कं जिग्रेत् पश्येत्' इति मुक्तौ आत्ममात्राशेषबोधकेन वाक्येन आत्मातिरिक्तवस्तुसामान्याभावं बोधयित्वा, `न प्रेत्य संज्ञाऽस्ति' इति मुक्तानां ज्ञानाभावः प्रतिपादितः, स च विषयाभावप्रयोज्य एव, अतो ज्ञायते मुक्तौ अात्मैकत्वमेवेति चेत्, ब्रूमः--उदाहृतेन तेन श्रुतिवाक्येन, न मुक्तौ भेदाभावः, स्वरूपमात्रावशेषः ज्ञानाभावस्च बोध्यते । यदि तेन ज्ञानाभावः प्रतिपाद्यते, तर्हि आत्माभाव एव बोधितो भवेत्, ज्ञानस्वरूपत्वादात्मनः । ततश्च आत्मज्ञानस्य आत्मज्ञानस्य आत्मनाश एव फलमिति जानन् तत्साधनश्रवणादौ न कोऽपि प्रे7ावान् प्रवर्तेत । अप्रवृत्तौ च तद्विधेः वैयर्त्यमापद्येतेति सर्वं शार्त्रमपार्थकं भवेत् । संज्ञानास्तीत्यस्य तु अयमर्थः-संज्ञापदम् `आतश्चोपसर्ग' (पा.सू.3.3.106) इति कर्मणि अङन्तं ज्ञानविषय अत्यर्तकम् । प्रेत्य स्थितः पुरुषः, मुक्तः सन, संज्ञा अमुक्तैः ज्ञेयो न बवतीति । अमुक्तो मुक्तजीवं न पश्यतीति भावः ।
`यत्र हि द्वैतमिव' इत्यास्य चायमर्तः --द्वैतपदं द्वाभ्यां प्रकाराभ्यामिति द्वीतं प्रकारद्वयविशिष्टं द्वित्वविशिष्टमिति वा (भेदवदिति यावत्) ततः तस्य भाव इत्यर्ये `हायनान्तयुवादिभ्योण' (पा.सू.5.1.13) इत्यनेन युवादित्वादमि भेद इत्यर्थकम्, यत्र यददा, द्वैतं भेद;, भवति अस्ति, तदा इतरः इतरं जिघ्रति, पस्यतीति । एवं च--घ्रामदर्शनादिकं भेदव्याप्तमित्युक्तं भवति । अत्रोक्तं घ्राणादिकं `जक्षन् क्रीडन् रममाण' (चा.8.123) इत्यादावुक्तजक्षणादेरप्युपलक्षणम् । हि शब्दः प्रमाणप्रसिद्धिं बोधयति । ननु सिद्दायां व्याप्तौ किं साद्यमित्यत आह--यत्र वा आत्मेति । मुक्तौ ज्ञानानङ्ीकारेऽतिप्रसंगमाह अनेन वेद पुरुषः । अक्षरार्थस्तु--यत्र यदा, आत्मैवाभूत्, तत् तदा केन कं जिघ्रेत्, पश्येत् न कमपि, जिग्रति, पश्यति च, `दक्षत्क्रीडन्रममाण' इत्याद्युक्तेः । ततश्च-मुक्ता-वात्ममात्राऽवशेषे तत्र जक्षणादिबोधकश्रुतिरप्रमाणं भवेदिति । ेतेन `संज्ञानास्ती' त्यस्य 5ानाऽविषय इत्येवार्थो न्याय्यः । यथा मुद्गरागौौ प्रक्षिप्तो मुद्गः समानाभिहारात् मयाक्षिप्तऽयं मुद्ग इति विळि,्य ग्रहीतु न शक्यते, तथा मुक्तसंघे प्रविष्टो मुक्तः प्राकृतनामरूपरहितत्वात् ्मुक्तजनैरयं मुक्त इति विशिष्य न गृझत इति भावः । न च --`ब्रझ तं पराद्त् योऽन्यत्राऽऽत्मनो ब्रझ वेद' (6.4.6) इति षष्ठे खण्डे ब्रझादीनां `आत्मनोऽन्यत्र' (हरेरन्यत्र) अवस्तानं विदुषः देशान्निष्कासनं विधाय `इदं सर्वं यदयमात्मा' इति तत्खण्डीयान्तिमनाक्येन ब्रढदीनां सर्वेषामात्माभेद उपदिश्यते, तेन आत्मैक्यसिद्धिः, ऐक्यादेव आत्मनोऽन्यत्र स्थितिर्नेत्युक्तं भवति; एवं च णन्यत्रस्तितिं जानतो विहितं निष्कासनं भेदज्ञानिन एवेति फलतीति वाच्यम् । अन्यत्रस्थितिप्रतिषेधेन किं ब्रझादयो निराश्रया इति शङ्कायां तद्वारणाय प्रवृत्तस्य `यदयमात्मा' इति वाक्यस्य, इदं सर्वं पूर्वेक्तं ब्रझादिकम्, यत् यत्र वर्तते, अयम् सर्वाधारः, आत्मा परमातमा, इत्यर्थेन अबेदबोधकत्वाभावात् । ब्रझादयो न नीराश्रयाः किं तु परमात्मानमाश्रित्य वर्तन्ते---
रूद्रं समाश्रिता देवा रुद्रो ब्रझाणमाश्रितः ।
ब्रझा मामाश्रितो नित्यं नाहं कंचिदुपाश्रितः ।।
इति भगवद्वचनात् `मत्स्तानि सर्वभूतानि' (9.4) `मयिसर्वमिदं प्रोतं सूत्रे मणिगणा इव' (7.7) इति गीतोक्तेश्च । यदिति तु `सुपांं सुलुक्' (पा.सू.7.1.21) इति लुप्तसप्तम्यन्तम् अव्ययं वा । न च ---अन्यत्र स्थितिज्ञास्यापराधविधायकेन `योऽन्यत्र ब्रझ वेद' इति वाक्येनैव आत्मनि स्तितिरमि सिद्देति `यदयम्' अत् वाक्यं व्यर्थमिति वाच्यम् । निराश्रया ब्रझादय इत्यपि तेन प्रतीत्या आत्माश्रयत्वस्य स्पष्यमलाभात् । अयं चात्मा `आत्मा वा अरे द्रष्टव्य' इत्यादिश्रवणादिविधिविषयतयोपदिष्टः परमात्मैव ।
(9) ननु `यस्मिन् सर्वाणिभूतानि आत्मैवाऽभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत' इति ईशावास्यगतो मन्त्रो जीवपरयोरैक्ये प्रमाणं, तत्रैकत्वज्ञानिनो मोहशोकाभावरूपफलोक्तेरिति चेत्, अत्र वदन्ति -- अयं मन्त्रः `यस्मिन्' इत्यादि `तत्र' इत्यतेन । `यस्तु सर्वाणि भूतानि' इत्यादि षष्ठमन्त्रोक्तमीश्वरस्य सर्वान्धारत्वं सर्वान्तर्यामित्वं चानुवदन् अन्तर्यामिरूपस्यैकत्वं पश्यतो मोहशोकाभावः फलान्तरं, अनुवादस्तु समुच्चयार्थः । सर्वादारत्वासर्वान्तर्यामित्वज्ञानिनः, एकत्वज्ञानिनश्चोक्तं फलमिति तात्पर्यम् । अक्षरयोजना तु -- यस्मीन् हरौ सर्वभूतानि ति,्ठन्ति, तत्र भूतेषु, आत्मैव हरीरेव, अभूत् वर्तते भूतकालो न विवक्ष्यते, शिष्टं सुगममिति । जीवपरयोरैक्यपरतया योजने तु सप्तमीनिर्देशानुपपत्तिरित्यन्यत्र विस्तरः । किं बहुना `अमृतस्यैष सेतुः (मु.2.2.5) एतत्सामगायन्नास्ते (तै.उ.3.904) मुक्तानां परमा गतिः, (सहस्त्र) मुक्तोपसृप्यव्यपदेशात्' (ब्र.सू. 1.3.2) इत्यादिभीः मुक्ताश्रयत्वतत्स्त्युत्व-तत्सेव्यत्वादेः परमात्मनो व्यपदेशात् मुक्तावपि भेद एव मुक्तपरमात्मनोः, अत एव `एतस्यैवानन्दस्यान्यानि मात्रामुपजीवन्ति' (बृ.6.3.32) इति श्रुतिर्मुक्तानां भगवदानन्दैकदेशानन्दसदृशानुभव इत्याह । `आनन्दो ब्रझति व्यजानात्' (तै.उ.2.4.3) इति भगवदानन्दस्य भगवत्स्वरूपत्वोक्तेः अन्येन केनापि आप्तुमशव्यत्वात्, अन्यस्याऽऽनन्दोऽन्येनानुभक्तिं दुःसक इति सर्वानुभवसिद्धत्वाच्च, उक्तमेव आनन्दलेशं तत्सदृशानन्दम्, अन्यानि भूतानि मुक्तजीवाः उपजीवन्ति अनुभवन्ति, धातूवामनेकाऱ्थत्वात् जीवतेरनुभवे वृतिरिति ।
`योऽसावसौ पुरुषः सोऽहमस्मि' इति ईशावास्यमन्त्रस्यापि यः पूषादिषु वर्तते, असौ प्राणेऽपि वर्तते, अहं, सः तदधीनः तत्सदृशो वाऽस्मि इत्यर्थात् नाभेदे तात्पर्यमिति कृतं बहुना ।
`अनान्ता वै वेदा' (का. 1-प्र.36) `अनन्तशास्त्रं बहु वेदितव्यम्' इत्यादि श्रुतिस्मृतिषु वेदादिसास्त्राणामनन्तत्वोक्तेः पुरुषायुषा सर्वं शास्त्रं वेदितुमसक्यमिति भगवान् गीताचार्यो जीवेशभेद एव तात्पर्यं शास्त्राणामिति सर्वसाक्त्रार्तसंग्रहे गीतापञ्चदसेऽर्जुनायोपदिसति सर्वास्त्रार्थभूतं भेदमेव, अतः स एव सर्वसास्त्रार्थ अति सुधीभिराकलनीयम् । तत्र हि भगवानाह---
द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्तोऽक्षर उच्यते ।।
उत्मः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविस्य बिभर्त्यव्यय ईश्वरः ।।
यल्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मिंलोके वेदे च प्रथितः पुरुषोत्तमः ।।
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ।।
इति गुझतमं सास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुध्वा बुद्धिमान् स्यात्कृत्यस्च भारत ।।
(गी.15.13-20)
इति । श्लोकार्थस्तु---`7रः, अक्षरः, ईश्वर' इति त्रयः पदार्ताः, तत्र क्षरपदेन `क्षरः सर्वाणि भूतानि' इति अत्रैवोक्तेः क्षरणधर्मचेतनाचेतनपदार्थसामान्ये ग्राझम्, अक्षरपदेन 7रणधर्मशून्यं नित्यं वस्तु `कूटस्त' इत्यक्तेः । कूटम्थपदस्य `कूटस्थैरविचालिभिः' इति पस्पशाह्रिकमभाष्यदिशा नित्यार्थकत्वं संप्रतिपन्नम् । तादृसं वस्ति लक्ष्मीः, चेतनस्य क्षरणधर्मत्वं तु प्रकृतिकार्यदेहादिद्वारा पुरुषपदमेतदुभयार्तकम् । ततश्च --- लक्ष्मीतदितरचेतनाचेतनवर्गाभ्याम्; अन्यः पुरुषः यः स उत्तमः, सः क इति चेदाह---परमात्मेति । यः सास्त्रे तथा उदाहृतः स इत्यर्थः । तस्यासादारणधर्ममाह---य इति यः परमात्मा, लोकत्रयधारणपोषणादिकर्ता ईश्वरः सर्वस्वामी अव्यय इति चोदाहृतः । पुरूषोोत्तमपदप्रवृत्तिनिमित्तं स्प।्टमाहयस्मादिति । उक्ताशास्त्रार्ते.़संमूढंः व्यामोहरहितः सन् मां पुरुषोत्तमम् एवम् उक्तप्रकारेण जानाति, स सर्ववित् सर्वशास्त्रार्थवित्, सर्वशास्त्रे एवमेवोोक्तेः, सर्वभावेन पूर्वोक्तसर्वप्रकारेण (पुरुषोत्तमत्वादिन) भदति सेवते (एवं भजनीयमिति यावत्) इदमतिरहस्यं शास्त्रम् अवश्यकर्तव्यधर्मप्रतिपादकं शास्त्रं, शास्त्रशिष्टो धर्मो वा । एतत् उपदिष्टं शास्त्रं, बुद्ध्वा ज्ञात्वा, बुद्धिमान कर्तव्येषु प्रतिभावान्, अत एव कृतकृत्यः कर्तव्यं कृतवान् सच्छास्त्रश्रवणं तदर्थानुष्ठानं च कृतवान् स्यादिति संबन्दः, स्पष्टमन्यत् । चराचरप्रपञ्चजातात् भिन्नः पुरुषोत्तमपदवाच्यः परमात्मा शास्त्रप्रतिपाद्यः, तं तता जानतो भदतस्च जन्म सफलमिति भावः । सर्वभावेनेति कर्मदारयः भावशब्द उक्तपुरुषोोत्तमत्वादिप्रकारवाची . अत ेव पीर्वं भगवतः सर्वोत्तमत्वादिनिरूपणं सार्थकम् । यद्येवं न भजते मुमुक्षुः शास्त्रे तन्निरूपणं निरर्थकं, गुणनिरूपणस्य ज्ञानोपासनफलकत्वात् । अथ वा--सर्वभावेन पितृत्वादिना `पिता,़हमस्य जगत' (गी.9.17) इत्युक्तेः, संपूर्णप्रम्णा परमभक्त्येति यावदिति वार्थः । यत्तु सर्वस्य भाव इति षष्टीसमासः सर्वरूपेण भजतीति तदर्थः सर्वरूपेण भजतीति वाक्यार्थ इति नागेशीयपक्षपातिनां व्याख्यानं तत् नादर्तव्यम् । तथा सति पूर्मं सर्वरूपत्वमेव निरूपणूयं न तु पुरुषोत्तमत्वादि . ेवं च---जीवेशयोर्भेदः सर्वशास्त्रार्थ इति गीताचार्याणामाश्यः । पाणिनेरपि अयमेवासय इति पूर्वं निरुपितम् ।
रामानुजीये---क्षराक्षरपेदे मुक्तामुक्तवर्गपर् इति व्याख्यातम् ।
शांकरे---क्षरपदं विकारजातपरम्, अक्षरपदं तु क्षरपदवाच्यस्य पुरुषस्य उत्पत्तिबीजपरमिति ।
एवमन्यान्यपि अबेदपरतया प्रतीयमानानि श्रुतिस्मृतिवचनानि भेदपरतया योज्यानि, योजितानि च बहुप्रमाणोपन्यासेन, भेजपरतया ब्रझवादीबिरन्यत्र । किं च प्रतिवेदान्तं प्रतिविद्यं सृष्ट्यादिनिरूपणं, ब्रझडीवयोरुपास्योपासकभावादिनिरूपणे च वासुदेवस्योत्कर्,ादायकं ब्रझजीवभेदतात्पर्यकं चेति प्रपञ्चितं विस्तरेण तैरेव ।
एतेन ---`प्रतिवेदान्तं सृष्ट्यादिनिरूपणमात्मैकत्वव्युत्पादनायेति मञ्जू,ोक्तम्, `तत्तवमस्यादिवाक्यमखण्डार्तेन शुद्देनापि ब्रझणा आध्यासिकं तादात्म्यम्' इति तत्रोक्तम्, `चत्वारि श्रृङ्गा' (ऋ.3.8.10) इति ऋगर्थनिरूपणपरभाष्यकैयटव्याखयावसरं `शब्दःस्वाभेदमाविष्कृतवान्, `सक्तुमिव' इति श्रुतितात्पर्यनिरूपणावसरे समानख्यातयः भेदग्रहस्य निवृत्तत्वात् सर्वप्रमाणविरुद्दम्, व्यासपाणिनिपतञ्जलीनामसंमते च, सृष्ट्यादिनिरूुणस्य हरावुपास्यत्वप्रयोजकोत्कर्षव्युत्पादकत्वादित्युक्तत्वात् . अतत एव भगवान् व्यासः `जन्माद्यस्य यतः' (ब्रझ.सू.1.1.2) इति नये जिज्ञास्यस्य ब्रझणः सृष्ट्यादिकर्तृत्वं लक्षणमभिदाय तत एव उत्कर्षसद्भावात्, ब्रझ चेतनाचेतनजगद्विलक्षणमित्यसूचयत् । अनेन सूचितमेव वैलक्षण्यं प्रायेण प्रत्यधिकरणं जीवावृत्तिगुणवत्त्वबोधक `भेदव्यपदेसात्' इत्यादिना स्पष्टीकरोति । `महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम्' इत्यध्येतृणां भगवत्साम्यमेव फलमिति कण्ठतो भाष्यकारैः `चत्वारि' इति श्रुतेरभिप्रायवर्णनात्, सखायः सखयानीत्यनयोः त्यक्तबेदभावनाः, सायुज्यानीति भा,्यकारैरव्याख्यातत्वेन कैयटादौं तताव्याक्यानं चिन्त्यम् । सायुज्यमित्यर्तेऽपि नात्मैक्यलाभः अतिसूक्ष्मदर्शिभिरपि, विभागेन दर्शनायोग्यसंयोगविशेषस्यैव सायुज्यपदार्थत्वात् . एवं च --`सर्वमेकम्' इति कैयटः, `आत्माना सङ त्यक्तभेदभावना' इति नागेशश्च चिन्त्यः । तदुक्तार्तस्यक्षरमर्यादयालाभात्, भाष्यानुक्तेश्च । भाष्याक्षरार्थस्तु-अत्रेति विषयसप्तमी, षष्ठ्यर्थे वा सा । अत्र ब्रझणमि विषये, ब्रझण इति वार्थः, सखायः मित्राणि, ब्रझसख्यस्य फलमाह-सख्यानीति । `सख्युर्यः' (पा.सू.5.1.126) इति भावे कर्मणि वा यप्रत्ययान्तं सख्यपदम् । वासुदेवकानामिति शेषः । वासिदेवभक्तानां मैत्राणि, जानते प्राप्नुवन्ति । वासुदेवभक्तानामपि मित्राणि भवन्तीति यावत् । अत्र पदं व्याख्याति य एष इति ।। दुर्गः गुरुकुलवासशास्त्राभ्यासादिना गम्य इति दुर्गः, मार्गः अन्वेषणीयः, `सोऽन्वेष्टव्य' इति श्रुतेः, `मार्ग अन्वेषण' इति चौरादिकात्कर्मणि घञ् । एकगम्यः मुख्यत्वेन गम्यः, वाग्विषयः श्रुतिप्रतिपाद्यः, प्रशनप्रतिवचवाभ्यामाधिकारणमाह---के इत्यादि । तेषामधिकारित्वे हेतुं पृच्छति-कुत इति ।. हेतुमेवाह---भद्रति ।। एषाम् वैयाकरणानाम् अधिवाचि वागिन्द्रये, भद्रा मोक्षलक्षणशाश्वतिकसंपत्करी, लक्षमीः मोक्षसाधनवासुदेवोत्तमत्वज्ञानसाधन प्रकृतिप्रत्ययादिविभागपूर्वकश्रुत्यर्थसंवित्पूर्वकप्रवक्तृत्वरूपा संपत्, निहिता स्थापिता । यद्वा--वासुदेवोत्तमत्वज्ञानं मोक्षसाधनमिति या लक्षमीः, अधिवाचि श्रुत्यादौ, निहिता, सा लक्ष्मीः एषां भवतीतिं ।
अयं भावः -- वेदादौ यदुक्तं वासुदेवसर्वेतमत्वज्ञानं णोक्षसादनमिति तज्ज्ञानं तादृशज्ञानोत्पादकशास्त्रप्रवचनवेदुष्यं वैयाकरणानामेव, त एव हि वेदादिशास्त्रजन्यज्ञानसंपादने शास्त्रप्रवचतकरणे च प्रभवन्ति, यत एते तदुपकरणशब्दसास्त्रेऽधीतिनः, एते,्वेव भगवतो भागवतानां च प्रीतिरुत्पद्यते, एतेषां सच्छास्त्राध्ययनाध्यापनादौ मुख्यधिकारित्वादिति । सख्यानीति बहुवचनं तु निरूपकभेदात् । पाणुनेस्तु नेष्टं जीवपरमात्मैक्यमिति पूर्वमेव निरूपितम् ।
विरुद्दवत्प्रतीयन्त आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तषामर्थोऽन्ववेक्ष्यत ।।
इति वचनात्, `द्वा सुपर्णा' इत्यादिभेदागमैर्विरुद्धवदवभासमानानां तत्त्वमस्यादिवाक्यानां तत्सादृश्यादिपरतया भेद एव तात्पर्यावदारणेन प्रतीयमानविरोधः परिहरणीयः । दृष्टं प्रत्यक्षम् । प्रत्यक्षानुकूलागमाविरोधेन प्रतीयमानविरोधाः तत्त्वमस्याद्यागमा नेतव्याइत्यक्षरार्थः । प्रत्यक्षानुकूला आगमास्तु भेदपर `द्वा सुपर्णा सयुजा' इत्यादयो ज्ञातव्याः । इत्तमेव शुतिवाक्यानां योजना । वासुदेवस्य सर्वोत्तमत्वमभिप्रयतः पाणुनेरप्याचार्यस्य संमतेति अपरे फाणिनीयाः । `सुखदःखज्ञाननिष्पत्त्यविशेषात् ऐकात्म्यम्' (वै.3.2.12) `व्यवस्तातो नाना' (20) शस्त्रसामर्थ्याच्च (21) इति त्रिसूत्र्या आत्मैकत्वमाशङ्क्य आत्मनानात्वं सिद्दान्तितं कणादेन । अत्राद्येन एकत्वमित्याक्षेपः, द्वाभ्यामुत्तराभ्यां नानात्वमिति सिद्धान्त इति उपस्कारवृत्तिवितिकारौ । भाष्यकृच्चन्द्रकान्तस्तु आम्मैकक्वमेव सिद्दान्तः नानात्वं तु औपाधिकमिति त्रिसूत्रीं व्याचष्टे । परं, शंकरभाष्यादिषु कणादस्य भेदवादित्वेन परिगणनात् चन्द्रकान्तव्याख्यानं मूलविरुद्धम् ।
तत्त्वमस्यादिवाक्यानां नाभेदपरता ततः ।
तद्विरोधो नास्ति भेदे व्यासपाणिनिसंमते ।।
शब्दार्थयोरखण्डत्वनिरासः
ननु पदपदार्थौ वाक्यातदर्थौ चाऽखण्डौ, अखण्डमेव वाक्यं बोधकमऱण्डार्थस्य, `अख्यतदर्थौ शुद्देन ब्रझण' इति शक्तिविचारे मञ्जूषायाम्, `शुद्धचित्तस्य तूभयमपि बोधकमखण्डविषयस्य, एवं सर्वबोधकेषु ब्रझत्वबुद्दौ जातायां तेनैव दृष्टान्तेन सर्वपदार्तेषु ब्रझत्वबुद्धिर्वैयाकरणानाम,' इति `सक्तुमिव' इति श्रुत्यर्थविचारपरभाष्यव्याख्यावसरे पस्पशायामुद्योते चोक्तत्वात् ब्रझणोऽखण्डत्वेन, सर्वत्र ब्रझत्वबुद्ध्युदयेन च सर्वं ब्रझैव, ब्रझातिरिक्तं वस्तु किंचनन नास्त्येवेति सिध्यतीति `तत्त्वमसि' इत्यादिवाक्यानामभेदपरत्वेन योजनमेव युक्तमिति चेत्, अत्र वदन्ति---नैतद्युक्तं सूत्रभाष्यकाराभ्यां प्रकृतश्रुतेस्तथाऽव्याख्यानात्, तस्यार्थस्य प्रकृतशास्त्रप्रतिपाद्यविषयासंबद्धत्वेनानुपयोगात्, विषयाखण्डत्वस्य वेदे पाणिनीयं तन्त्रे ब्रझमीमांसायां च सिद्धान्ताऽकरणात्, वैयाकरणानां सर्वत्र ब्रझत्वबुद्देरभावात् प्रकृते तन्निरूपणस्याप्रसक्तेश्च । एतेन अखण्डार्थस्तु मानलबोधविषयः, `नेह नाना' - इति निषेधवाक्यसहकारेण धर्मोपलक्षिते शक्तिग्रहात् `तदुपलक्षिताखण्डार्थस्यैव बोध' इति शक्तिविचारे (म. 4.25) तता वृत्तिविचारे `यता वेदान्तिनां मञ्जूषायामुक्तम्, समर्थसित्रोद्योते `तस्माद्वेदान्तिमते तत्त्वमस्यादिवाक्यादावखण्डार्थबोध एव वृत्तौ' (पु.33) इत्युक्तिश्च चिन्त्यम् । `नेह नाना' इति वाक्यस्य ब्रझातिरिक्तपदार्थसामान्यनिषेधकत्वाभावस्योपरि वक्ष्यमाणत्वेन ब्रझवादिभिरन्यत्र तता सिद्धान्तितत्वेन च तत्सहकारेण ब्रझणोऽखण्डत्वाऽसिद्धोः, द्वितीयमानसबोधस्य सर्वत्र सर्वेषामनुदयात्, तथाबोधस्य पुरुषविशेषनिष्ठत्वेन `तत्त्वमसि' इत्यादौ सर्वेषां तादृशबोधाजननात्, भगवतो व्यासस्य, पाणिनेः, पतञ्जलेश्च वाक्यविषयव्यवस्थाऽयोगात् । तथा हि -- `यता वेदान्तिनाम्' इति दृष्टान्तस्तावदनुपपन्नः, तन्मते शब्दतदभिधेययोरकण्डत्वस्य दुर्वचत्वात्, ब्रझातिरिक्तस्तुन्मते मायिकत्वाभावात् । वेदान्तिपदेन भगवान् बादरायण एव मुख्यतो व्यपदेशमर्हति न त्वन्ये भाष्यकारा तवृत्तिकारा वा सर्वसंप्रतिपन्नत्वाभावात् सर्वसंमतपुरिषवचनं हि दृष्टान्ततां भजेत ।
तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्मः ।
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।।
उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ।
चतुर्धा व्यभजत्ताश्च चतुर्विशतिधा पुनः ।।
शताधा चैकदा चैव ततैव च सहस्त्रधा ।
कृष्णो द्वादशदा चैव पुनस्तस्यार्थवित्तये ।।
चकार ब्रझसूत्राणि येषां सूत्रत्वमञ्जसा ।
इत्यभियुक्तोदाहृतप्रमाणैः, `वादान्तकृद्वेदविदेव चाहम्' (गी.15.15) इति भगवद्वचनेन च व्यासस्यैव वेदान्तकृत्त्वेन सर्वैर्निर्दारितत्वात् । गीता वासुदेवस्य तत्त्वं वक्ति, न व्यासस्तेति मा शङ्कनीयम् । उभयोर्भगवतो नारायणस्यैव अवतारत्वात् । कृष्णास्य नारायणानतारत्वेन कश्चिद्विप्रतिपद्येत, `आदिकर्ता भगवान्नारायणाख्यो विष्णुः भौमस्य ब्रझणो ब्राझमत्वस्य च रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णाः किल संबभूव' इति गीताभाष्योपक्रमे श्रीशङ्कराचार्येक्तेः, अन्यैरप्याचार्यैः अन्यत्र च तथोक्तेः व्वासस्य तु `तैर्विज्ञापित' इत्.यादि पूर्वोदाहृतप्रमाणैः `को झन्यः पुण्डरीकाक्षान्महाभारतकृद्भवम्' इत्यादि प्रमाणैश्च नारायणावतारतावगमात् । अत एवोक्तं शाङ्करमतानुयायिना विपश्चिता ---
शंकरः शंकरः साक्षाद्व्यासे नारायणे हरिः ।
तयोर्विवादे संप्राप्ते किं कुर्मः किंकरा वयम् ।।
इति श्रीधरिये श्रीमद्भागवते `महामुनिकृत' इति पद्येकदेशव्याख्यानं `नारायणावतारेण व्यासेन मुनिना' इत्युक्तिश्च व्यासस्य नारायणावतारत्वमुपोद्बलयति । स च व्यासो गीतायामन्यत्र च ब्रझमीमांसायां च भगवतोो नारायणस्य जगत्कर्तृत्वाद्यनेकगुणनत्वं कथमङ्गीकुर्यात्? यदि तत्त्वं तदभिमतं तदा `विकारशब्दान्नेति चेन्न प्राचुर्यात् ' (ब्र.सू.1.1.13) इत्यादिना व्यात्पत्तिप्रदर्शनपूर्वं तत्तच्छब्दबोोधितधर्मवदर्थप्रत्यायनं न सेगच्छेत ।
किं च ---
यानि नामानि गौणनि विख्यात्नि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ।।
इति महाभारते भगवन्नाम्नां महर्षिप्रदर्शितनिरूक्तिबलात् प्रतीयमानगुणविशिष्टभगवन्नाम्नां कथनप्रतिज्ञानं, विष्णुपुराणे च---
शुद्धे महाविभूत्याख्ये परे ब्रझणि शब्द्यते ।
मैत्रेय भगवच्छब्दः सर्वकारणकारणे ।।
संभर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः ।
नेता गमयिता स्त्रष्टा गकारार्थस्तथा मुने ।।
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानविज्ञानयोश्चैव षण्णं भग इतीरणा ।।
वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि ।
स च भूतेष्वशेषेषु वकारार्थस्तथाव्ययः ।।
एवमेब महाशब्दो मैत्रेय भगवानिति ।
परमब्रझभूतस्य वासुदेवस्य नान्यगः ।।
अत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण झन्यत्र झुपचारतः ।।
(वि.पु.6.5.72-77)
इति भगवच्छब्दं निरुच्छब्दं निरुच्य तद्बलेन प्रतीयमानस्त्रष्टृत्वादिगुणविशिष्टभगवतो भगवच्छब्दवाच्यत्वाभिधानं च न संगच्छचेत । ततश्च नेष्टं शब्तार्थाखण्डत्वं तस्य भगवतो व्यासस्येति `वेदान्तिनाम्' इति दृष्टान्ताभिदानं न युक्तम् । श्रुतौ च--`स वा एष आत्मा हृदि, तस्यैतदेव निरूक्तं हृद्ययमिति, तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गंलोोकमेति' (छा.8.3.3) `तस्य ह वा एतल्य ब्रझणो नाम सत्यमिति (छा.8.34) इति `दानि ह वा त्रीण्यक्षराणि सीतयमिति तद्यत्सत्तदमृतथ यत्ति तन्मत्र्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति' (छा.8.35) इति दहरविद्यायां हृत्पुण्डरीकाकाशगतस्य भगवतो नाम्नोः हृदयसत्यशब्दयोः अवयवार्थमुक्त्वा, तद्विशिष्टभगवज्ज्ञानिनः फलस्य च निरूपणात्, `तदेतत्र्यक्षरं हृदयम्' (बृ.7.3.1) इति हृदयनाम्नस्त्र्यक्षरत्वमभिदाय तदक्षरत्रयोपासनस्य वाजसनेये फलनिरूपणाच्च, पदादीनामखण्डत्वव्युत्पादनं श्रुतिविरुद्धम् ।
महर्षिः पाणिर्निंरपि पदपदार्थानां वाक्यवाक्यार्थानां चाखण्डत्वं नेच्छति, यतोऽयमर्थविशेषे शास्ति कार्यणि । तथा हि -- `अन्तरं बहिर्योगोपसंव्यानयोः, मृषस्तितिक्षायाम्, प्रकाशनस्थेयाक्ययोश्च, पराजेरसोढछ, ध्वाङ्क्षेण क्षेपे, अपवर्गे तृतीया, येषां च विरोधः शाश्वतिकः, ओतावश्यके, लक्षणहेत्वोः क्रियायाः, हेतुहेतुमतोर्लिङ्, जानपदकुण्डगोण - इन्द्रवरुण - तुमुन्ण्वुलौ क्रियायं क्रियार्तायाम् । धातोरेकाचो हलादेः, क्रियासमभिव्याहारे यङ्, राजश्वशुराद्यत्, कौमारापूर्ववचने, देयमृणे, भूतपूर्वे चरट्, तत्र कुशलः पथः, प्रशंसायां रूपप्, कृभ्वस्ति, क्षय्यजय्यै शक्यार्थे, संपरिभ्यां करोतौ भूषणे, निवाचे वातत्राणे, पुत्रेऽन्यतरस्याम्, नाञ्चेः पूजायाम्, तुझोस्तातङ्ङाशिष्यन्यतरस्याम्, अञ्चेः पूजायाम्, वर्षस्यभविष्यति, भियो हेतुभ्ये षुक्, अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु, नित्यवीप्सयोः, राजन्वान् सौराज्ये, प्रष्ठोऽग्रगामिनि, वाहनमाहितात्' इत्येतैरर्थविशेषे सर्वनामसंज्ञादिकार्याणि उत्तरपदसंबन्दिकार्याणि च प्रयोगे बोद्धणामेतैः शब्दैरर्थविशेषोपस्थितिर्भूयादित्यभिप्रायेण विदधाति । शब्दार्थतत्त्वकोविदाः तमाचार्याभिप्रायं जानन्तो विपश्चितः तत्तच्छब्दप्रयोगस्थलेऽर्थविसेष बुद्धवा, प्रवचनादिसमये परानपि बोधयन्त आत्मानमन्यांश्चानन्दयन्ति । कात्यायनोऽपि `अर्थाच्चाऽसन्निहित' इत्यादिवचनैरर्थविशेषे प्रत्ययोत्पत्तिं नियमयति, `उपदेशेऽजनुनासिक इत्' (पा.सि.1.3.2) इति सूत्रे उपरेशपदं करणघञन्तं विवक्षितार्थविशेषबोधकं भवति अतः `उपदेशनेऽच्' इति कात्यायनवचनं नारम्भणीयम्, सर्वनामसंज्ञाया अन्वर्थत्वात् `संज्ञोपसर्जनीभूता' इति वचनं नारंभणीयम्, करोति कर्तृकर्मव्यपदेशानिति योगेन क्रियेत्यस्य लाभः, उपपदमिति महासंज्ञाकरणात् `कर्मण्यण्' (पा.सू.3.2.1) इत्यादि विधेरपि पदविधित्वसंभवेन `उपपदविदौ समर्थवचनं न वक्तव्यम्' इत्यादि वदति भाष्यकारः । अतो ज्ञायते पदवाक्ययोरखण्डत्वं, पदतो वाक्यतो वाऽखण्डार्तोपस्थितिर्भवतीत्येतत् सुनित्रयासंमतमिति ।
यदि शब्देनाखण्डस्यैवार्थस्योपस्तितिः न तत्र शास्त्रीयकार्योपाधिभूतार्थविशेषानुगतिरीत्युच्यते, तर्हि--अर्थविशेषोपाधिना कार्यानुशासनम्, अन्वर्थसंज्ञाकरणम्, संज्ञाया अन्वर्थत्वविवरणं च निरर्थकमेव स्यात् । शब्दस्वभावसामर्थ्यमज्ञात्वा शास्त्रमकरोत् आचार्य इति अज्ञता च आचार्यस्य कल्पिता स्यात् । प्रवचनादौ पाणिनीयं शास्त्रमनुसृत्य अर्थविशेषं वदन्तोऽशब्दमर्थं वदन्तीति निन्दनीया भवेयुः । किं च--राजपुरूषादिपदैरपि `तत्त्वमस्या' दिना वाक्येन निर्विशेषाखण्डब्रझबोधवत् भेदसेसर्गानवच्चिन्नपुरुषव्यक्तिमात्रबोदे विवक्षितार्ताप्रतीत्या व्यवहारोच्छेदः ।
ननु सर्वमिदंमायिकमिति वदतां न काचिदनुपपत्तिरस्माकमिति वात्यम्, ततावादे मुनित्रयवचनाभावात् । शब्दानां सावयवत्वं समर्थसूत्रोद्योते `केचिदित्यादिना प्राहुः' इत्यन्तेन ग्कन्तेन समर्तितं नागेशेन, तत्र किमिदं स्वमतम्, उतान्यदीयमिति विचारोऽन्यः ।
शब्दार्तयोरखण्डत्वं श्रुत्यादीनां न संमतम् ।
इत्याहुः कोविदास्तत्र शब्दानां योगदर्शनात् ।।
नानार्थोपाधिना कार्यं विदधानस्य पाणिनेः ।
कुर्वतोऽन्वर्थसंज्ञां च तयोर्नाखण्डता मता ।।
विवृण्वानोऽन्वर्थसंज्ञां योगादेव पतञ्जलिः ।
दर्शयन् वार्तिकार्थस्य लाभं नेच्छत्यखण्डताम् ।।
भेदनिरूपणम्
ननु `यद्यपि भेदो निरूपयुतुमशक्यः, तथा हि घटः पटाद्भिन्न इति भेदज्ञानं भिन्नत्वेन गृहीतधर्मिप्रतियोगिज्ञानपूर्वकं, तत्र स भेदोऽयमेव चेत् आत्माश्र्यः, भेदान्तरं चेत् तदपि भिन्नयोरेव धर्मिप्रतियोगिनोर्ज्ञातव्यम्, स चेत् पूर्वभेद एव तदा अन्योन्याश्रयः, तृतीयो भेदोऽन्यश्चेत् चक्रकापत्तिः, भेदपरंपरास्वीकारो.़नवस्था, अन्तिमभेदाऽसिद्द्या मूलभूतभेदपर्यन्तमसिद्धेर्मूलक्षयात् । अत एव-- भेदस्यासत्सामान्यशब्देन कैयटादौ व्यवहारः । असत्त्वमुक्तरीत्या, सामान्यत्वं च केवलान्वयित्वात्, ततापि अविचारितरमणीयेनैव मायिकेन भेदेन व्यवहार इति व्यावहारिकस्यैव सत्त्वेनाक्षतिः । घटाद्यर्थस्य घटादिपदवाच्यत्ववत् । अन्यथा--`घटत्वाश्रयत्वेन अयं घटः, घटवृत्तित्वेन च इदं घटत्वम्' इत्यन्योन्याश्रयत्वात् . पदार्तमात्रस्याविचारितरमणीयस्य अनिर्वचनीयस्यैव व्यवहारप्रयोजकत्वात् । अत एवोकितम श्रीहर्षेण---
`समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः ।
का तवास्तु गतिस्तर्कैर्वस्तुधीव्यवहारयोः ।।
अनिर्वक्तव्यतावादपसेवागतिस्तयोः ।
यथा सतोऽजनिर्नैवमसतोऽपि जनिर्न च ।।
इति ।
जन्यत्वमेव जन्यस्याऽनिर्वाच्यत्वसमर्पकम् ।
भदसत्यपरस्तर्को भेदमायापरोऽपरः ।।
भेदसत्यपरस्तर्को झसन् वेदविरोदतः ।
एक विज्ञाननिगमान्नेह नानेति च श्रुतेः ।।
इत्यलम्' इति ग्रन्तेन । एनिर्वचनियसर्वस्वाख्यश्रीहर्षकृतखण्डनखाद्यग्रन्थसंमतिप्रदर्शनपूर्वं पदार्थसामा4न्यं तत्रापि भेदस्वरूपमनिर्वचनीयं (मायिकं, मिथ्या) इति नञ्र्यवादे मञ्जूषयां समर्थितत्वेन, भेदपदार्थस्यैवाभावेन भेदपरतया श्रुत्यादीनां योजना न युक्तेति जीवेसभेदासिद्धरिति चेत् ---
अत्र वदन्ति--सत्यमुक्तमित्थं नागेसेन, अथापि तदुक्तिं नाद्रियन्ते प्रमाणशरणाः पदार्थतत्त्वविचारचतुरा मनीषिणः । तथा हि -- श्रीहर्षो नागेसश्च `समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः' इत्यादि वदन् अनुवदन् सत्त्वेन सर्वप्रमाणसिद्धस्य परिदृश्यमानसमस्तस्य प्रपञ्जस्य अनिर्वचनीयत्वं समर्तयते । ततश्च ब्रझातिरिक्तं निखिलं जगत् असदिति तयोरान्तयोभिप्राय इति तदीयग्रन्थतः प्रतिपद्यते । ततश्च तद्वचनैरेव तत्प्रणीतयोर्ग्रन्थयोः, तत्र साधितायाः सर्वानिर्वचनीयतायाश्च प्रथमतः अनिर्वचनीयता प्रान्पोति तद्ग्रन्थतत्प्रतिपादितसर्वानिर्वचतयोः सर्वपदार्ताऽन्तःपातित्वात्, सर्वानिर्वचनीयताया अनिर्वचनीयतासिद्धौ च सर्वेषां पदार्थानां भेदस्य च सत्यत्वं सिध्यतीति परेषामिष्टासिद्धिः, अस्माकमभिमतसिद्धिश्च भवति ।
किं च--भेदपदार्त एव नेति वदन् वादी प्रष्टव्यः, किं भवान् घटपटादीनां पदार्थानां सर्वेषामेकत्वात् (स्वतो भेदाभावात्ओ) भेदो नेति ब्रूते, अथ-न दानेऽहं वस्तूनां भेदम्, अतः स नेति ।
आद्ये-- `वैचित्रयेण पदार्थानाम्', इति सन् सूत्रे, `पदार्थानां विचित्रशक्तियोगात्' इति सरूपसूत्रे च, कैयटात्, `पादर्तानां विचित्रशक्तित्वात्', इत्तन्येषामभियुक्तानां व्यवहारात्, स्वाभाविकमेतदिति `हयवरट्' इति सीत्रीयमहाभाष्याच्य प्रतिपदार्तं तत्तत्पदार्थमात्रविश्रान्तस्वस्वातिरिक्तसर्वव्यावर्तकशक्तिस्वभावादिपदवाच्यधर्मविसेषो विद्यत इति प्रतीतेः प्रतिपदार्थं भेदः स्वत एव वर्तत इति सिद्ध्या सर्वेषामेकत्वबुद्देर्भ्रमत्वात् । न द्वितीयः - सत्यत्वेन सर्वप्रमाणसिद्धवस्तुमात्रस्यानिर्वचनीयत् साधनाय प्रवृत्तस्य भवतो, भवतः प्रमाणभूतस्य च प्रतीत्यप्रतीती, वस्तुसत्तातदभावनियामके न बवत इति भवदाद्यप्रतीतेरप्रयोजकत्वात् । भवान् स च नैपथ्यान्तरमास्थाय प्रच्छादितप्रकृतिः सर्वासत्त्वसाधनाय स्वैरं प्रावर्तत इति भवदीयग्रन्थपरिशीलिनां स्पष्टं विदितं भवति । तव त्वत्सखस्य चेयान् विशेषः --स्फोयाख्यं ब्रझैकं वस्तु वास्तवम्, अन्ये सर्वेऽनिर्वचनीयाः इति संगरिते इति । यदि भवदीयं मतमाश्रयन्ते लोकाः, तर्हि अयं ब्राझणोऽयमब्राझणः, इयं माता, इयं दयिता, एयं प्रजावती, इयं जाया, इदं पयः, इयं सुरा, इयं पतितः, इदं मुवर्णं इदं न सुर्णम्, इयं गम्या, इयं न गम्या, इदं भोज्यं, इदं न भोज्यम्' इत्यादि विविधलोकव्यवहारसिद्धभेदवद्वस्तुवुवेकशून्याः ---
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अन्ग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ।। (या.स्मृ.3.219)
इत्याद्यार्,वचनेषु, `सत्यं वद, धर्मं चर, न सुरां पिबेत्' इत्यादि श्रौतवचनेषु च प्रामाण्यबुद्दिहीनाः कर्तवायाकर्तव्यविवेकशून्यहृदयाब्रझहननाद्यकार्यं कुर्वाणा महान्तमनर्थमाप्नुयुः । ततश्च-श्रोतस्मार्तविधिनिषेधपराणां शास्त्राणाम्, तदनुसारितथाविधविविधप्रायश्चित्तविधीनां च विषयाभावप्रसंगेन शशविषाणमस्तीति वाक्यस्येव अविद्यमानार्थबोधकत्वरूपमप्रामाण्यं स्यात् । (अप्रामाण्यबुध्द्या तेषामनुष्ठानाभावेन, अननुष्ठानरूपाप्रामाण्यं च स्यात् ।) ननु सर्वानिर्व चनीय.तावादिनामस्माकं सर्वमिदमिष्टमेवेति चेत्, न । एवंवदतां मते स्फोटब्रझातिरिक्तपदार्थसामान्यस्य मिथ्यात्वेन श्रुतिस्मृतीतिहासाद्यगमस्याप्यनिर्वचनीयत्वात् (मायिकत्वात्, असत्यत्वात्) । स्फोटब्रझणोः सादकप्रमाणाभावेन स्फोटस्वरूपस्य, ब्रझणश्च (ईश्वरस्य च) असिद्ध्यापत्तेः । ततश्च स्फोटाख्यं शब्दब्रझैव जगदात्मना विवर्तते, स्वतःसिद्धे चिदात्मनि ब्रझतत्त्वे केवले भारमवलंब्य' (म.23.21) इत्यादिस्वस्वसखोक्तेरसंगतीः । न च `स्वतःसिद्ध' इत्युक्तत्वेन प्रमाणसापेक्षता तत्सिद्धौ वास्तीति वाच्यम् । का नाम तत्र स्वतःसिद्धतेति अनुयोगे सर्वानिर्वचनीयतावादिना सा निर्वक्तुमशक्येति । तस्याः तत्त्वासिद्धिः यदि निरुच्यचे तदा सर्वानिर्वचनीयतासिद्दान्तभङ्गेन अपसिद्धान्तः, स्वव्याहतिः, ब्रझस्वरूपस्यैवासिद्द्या शून्यवादिमतादवैलक्षण्यं च । न च जगति आरोपितं सत्त्वं ब्रझचाङ्गीकुर्मो वयम्, ते तु तद्द्वयं नाङ्गीकुर्वन्तीति अस्ति महद्वैलक्षण्यमिति वाच्यम् । सत्त्वस्यारोपे तन्नास्तीत्येवोक्तं भवति प्रमाणसामान्यस्य तव मतेऽसत्त्वेन ब्रझसत्ताबोधकप्रमाणाभावेन ब्रझापि नास्तीत्येवोक्तं भवतीति वैसक्षण्यस्य दुरुपपादकत्वात् । प्रमाणप्रमितं सत्त्वं प्रतिषिध्य आरोपितं सत्त्वं वदन् विसेषतः श्लाघनीयः । अगतिका हि गतीरारोपः । ननु मिथ्याबूतेनापि श्रुत्यादिप्रमामेन ईश्वरसत्त्वं बोध्यत इत्यभ्युपगच्चाम इति चेत्, अच्यते---शशविषाणादेरसतोऽसत्त्वमर्थक्रियाकारित्वाभावेनेति हि वदन्ति । ब्रझसत्त्वस्यार्यरूपत्वेन तत्कारिणः श्रुत्यादेरसत्त्वाङ्गीकारे असत्त्वलक्षणस्य वेदादावसत्त्वेनाऽव्याप्तिप्रसङ्गः, भ्रमप्रकारत्वं मिथ्यात्वमिति वदतोऽपि तस्यासत्त्वं वक्तुं न शक्यम्, असत्त्वस्योक्तरीत्यैव वक्तव्यतया उक्तदोषस्यैव प्रसङ्गात् । किं च मिथ्याबूतेनापि प्रमाणेन ब्रझसत्यता बोध्यत इत्यङ्गीकारे अविशेषात् सर्वेषामपि पदार्थानां तेन सत्यता वक्तुं शक्या । किं च सर्वमिथ्यात्वबोधकप्रमाणस्य मिथ्यात्वसाधकप्रमाणाभावात् स्फोटाद्यतिरिक्तस्य `नेह नाना' इति वाक्यस्य सत्त्वेन स्फोटादेरद्वितीयत्वासिद्धिः . न च `नहे नाना' इति श्रुतिः अन्येषां मिथ्यात्वं बोधयन्ती स्वस्यापि तत्त्वं बोधयतीति वाच्यम् । `पूर्वत्राऽसिद्धम्' (पा.सू. 8.2.1) इति सूत्रे `पूर्वत्राऽसिध्दम्' इति शास्त्रं स्वस्याऽस्द्दत्वं प्रतिपादयेत् यदि, तर्हि सर्वेषां सिद्धत्वात्सूत्रासम्भ एवाऽनर्थकः स्यात्' इति कैयटोक्तरीत्या सर्वमित्यात्वबोधकस्य स्वस्य मिथ्यात्वबोधने सर्वेषामितरेषां मिथ्यात्वासिद्धेः `नेह नाना' इति वाक्यस्य वैयर्थ्यापातात् । ननु अस्ति व्यावहारिको भेदः सर्वत्रेति चेत्, अत्र वक्तव्यम् - किं व्यावहारिकत्वमारोपितत्वम्, उत पुरुषव्यापारिधीनं धर्मान्तरम्? नोभय्ा - `स्वाभावसिद्धमेतत्' इति पूर्वोदाहृतमहाभाष्यादिना बेदस्य स्वाभाविकस्यैव सर्वत्र अस्तितासिद्देः आरेपितत्वपुरुषव्यापाराधीनत्वयोस्तत्राभाव ात् । ननु तेन भाष्षेण कथं भेदसिद्धिरिति चेत्, उच्यते तत्र भाष्ये---`समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते, अपरे न......तत्र किमस्मामिः कर्तु शक्यम्...स्वाभाविकमेचच् इति उक्तम् । फलानुकूले प्रयत्नेऽध्ययने च समानेऽपि लभते कश््चत्फलम्, कश्चिन्न लभते इति लोके सर्वेषामनुभवसिद्धम् तत्र प्राप्तावप्राप्तौ च साधकं प्रतिबन्धकं वा न कश्चिदीष्टे कर्तुम् । किं तु कारणमिति तद्भाष्यार्थः । तदेव वैलक्षण्यं व्यक्त्यन्तरात् व्यावर्तकं भेदशब्देन व्यवह्रियत इति पदार्तानां परल्परं भेदसिद्दिरिति । न च---भेदेन लोकव्यवहारात्त्सिद्धिरिति व्यावहारिकत्वं तस्येति वाच्यम् । विचित्रव्यवहारमूलभूतभेदे, अस्य व्यवहारस्य हेतुत्वे, व्यवहारसत्त्वे भेदसिद्धिः, भेदसत्त्वे व्यवहारसिद्धिरित्यन्योन्याश्रयात् । व्यवहारान्तरं पूर्वभेदे कारणं चेत्, भेदव्यवहारपरंपराकल्पनापत्याऽनवस्था . ततश्च -- भेदः पदार्थस्वभाव एवेति सिद्धम् । इदं सर्वमभिप्रेत्यैवोक्तमभियुक्तैः --`भिन्नाश्च भिन्नधर्मास्च पदार्तानिखिला अपि' (अनु.2.2.670) इति । निखिला अपि पदार्थाः, भिन्नधर्माः --स्वत एव परस्परव्यावर्तकल्वरूपभूतधर्मवन्तः, अत एव भिन्नाः -परस्परप्रतियोगिकभेदवन्त इति अद्वैतपरिभाषाव्याख्यातारोऽपि । एवं च न आत्माश्रयादिदोषावकाशः किं च भेदे व्यावहारिकत्वकल्पनाय तस्याभ्युपगन्तव्यतया तन्निरासप्रयासो विफलः । किं च भेदो नाम कस्चित्पदार्थोो न भवेत् तर्हि सर्वेषा तीर्थकरणां स्वपक्षपरपक्षसाधनदूषणयोः प्रवृत्तिर्व स्यात्; न स्याच्च बोधनीयपुरुषाणां स्वपरपक्षयोर्निर्दोषत्वसदोषत्वहेतुकप्राबल्यदौर्बल्यज्ञानाधीनग्राझत्वाग्राझत्वप्रत्ययः, न भवेतां च तत्र प्रवृत्त्यप्रवृत्ती, निर्दोषत्वादेर्भेदनिबन्धनत्वात् ।
किं च भेदरूपपदार्थानङ्गीकारे स्वपरपक्षसाधननिरसनयोराग्रहप्रयासौ विफलौ । अयं तु भेदो नेति बहुभिराचार्यैर्बहुदा निराकृतो विस्तरेण सास्त्रेषु ।
किं च बगवान् बादरायणः आनन्दमयाद्यधिकरणेषु आनन्दमयत्वादिकं जिज्ञास्यस्य ब्रझणोऽस्तीति सिद्दान्तयन् जीवब्रझणोोरबेदात् जीवस्यापि अस्ति आनन्दमयत्वादिकमिति चोद्यं `भेदव्यपदेशात्'(1.3.5) भेदव्यपदेसाच्चान्यः (1.1.21) शरीरश्चोभयेऽपि हि भेदेनैनमधियते (1.2.20) विशेषणभेदव्यपदेशाभ्यां च नेतरौ (1.2.22) भेदव्यपदेसात् (1.3.5) सुषुप्त्युत्क्रान्त्योर्भेदेन (1.342) इत्यादिभिरुभयोर्विभिन्नधर्मवत्त्वेन भेदाद्धातोः पराकुर्वन् भेदनाम कश्चित्पदार्थोऽस्तीति अभिप्रैति ।
किं च `तुल्यास्यप्रयत्नं सर्वर्णम् (पा.सू.1.1.9) स्तानिवदादेसः (पा.सू.1.1.56) पञ्चमी विभक्ते' (पा.सू.2.3.42) इति, आन्यभाव्यं तु देशकालव्यवायात्, युगुपद्देशपृथक्त्वात् । आकृतिग्कहणासिद्धम्, रूपसामान्याद्वा' (प्र.2.आ.) इति, तत्र तत्र `स्वाभाविकमेतत्' इति, अभिदधानाः पाणिनिकात्यायनपतञ्जलयः भेदस्वरूपमङ्गीकुर्वन्तीति प्रतीयते । अतो भेदस्वरूपनिराकरणं मुनित्रयवचनविरुद्धम् । तत्र सादृस्यमतिदेशश्चेति द्वयं भेद निबन्धनमिति सुव्यक्तम् । विभक्त इत्यस्य विभागो भेद इति व्याख्यानम् । आन्यभाव्यम् -- भेदः व्यक्तीनामानन्त्येन, बेदेन च, सर्वासु व्यक्तिषु शक्तिग्रहासंभवपरिहाकाय जातिपक्षः सादृस्यं चेति द्वयमाश्रितम् । आकृतिः जातिः, रूपसामान्यं सादृश्यम् । विस्तरस्तुभाष्यादौ बोध्यः । किं च भेदस्वरूपमेव नास्तीति ब्रवाणः तत्र मायिकत्वादिकं कल्पयितुं कथमीष्टे ? तस्य भेदरूपत्वात् । मायिकोऽयमिति तु ध्रुवागीतिः ।
ननु `नञिवयुक्तमन्यसदृशाधिकरणे झर्थगतिः' इति न्याये अन्यशब्दप्रयोगोऽभेदे।पि सादृश्यं गमयति । अन्यथा बेद एव सादृश्यसंभवेन `सदृशाधिकरण' इत्युक्त्यैव भेदलाभात् न्यायेऽन्यग्रहणं व्यर्थं स्यात् । किं च `अकर्तरि च' इति सूत्रभाष्येणाऽभेदेपि सादृश्यमिति रूचितम्' इति नञर्थवादमञजूषोक्तेः सादृश्योक्तिर्न भेदस्य ज्ञापिकेति चेत्, न `अभेदेऽपि सादृस्यम्' इत्युक्त्या सादृश्यं सर्वत्र भेदमूलकमेव । यत्र क्वापि व्यक्त्यभेदे सादृश्यं प्रामाणिकैरुच्यते तत्र कथंचित्तदुक्तिः संघयनीयेति प्रतीयते । संघयना च एकस्यैव पदार्थस्याऽऽवृत्त्या अनेकत्वं संपाद्य साधारणधर्मस्यानेकवृत्तित्वेन सादृश्यं युज्यत इति । ततश्च सादृश्यं बेदनिबन्धनमिति सादृश्यस्यं भेदज्ञापकत्वाक्षतेः । न चैवमन्यग्कहणवैयर्थ्यमिति वाच्यम् । अभेदेऽपि सादृश्यं युज्येतेति कस्यचिद्वचनं श्रुत्वा भ्राम्येयुः जना इति तद्भ्रमवारणाय भेदे सत्येव सादृस्यं संपन्नं भवतीति बोधनाय तस्यावशकत्वात् । यद्यभेदेऽपि सादृस्यं सुघटं, तर्हि इवार्थनिरूपणे `अनेकवृत्तिधर्मस्यैव साधारणधर्मत्वेन तत्राऽऽवृत्त्या एकस्याप्यनेकत्वात्' इति म़्जूषाग्रन्थप्रवृत्तिर्विफलैव । `अकर्तरि च कारक' इत्यादि तु नन युक्तं, तत्रत्यभाष्येण तताऽसूचनात्, तत्र भाष्योऽस्य विचारस्यैवाकरणात् ।
एतेन सर्वासत्त्वस्य (मायिकत्वस्य) दुर्वचत्वनिरूपणेन-- "अनेन सर्वस्य जनकत्वादेरवभास एव न वस्तु किंचिदस्तीति स्पष्टमेवोक्तम्, अनादिवासनावशात्, भ्रमविषयमेव तत्, `यतो वा' इत्यादि श्रुतयोऽपि अनुवदन्ति..... `सत्यं ज्ञानम्, आनन्दं ब्रझ' इति श्रुतयोऽपि शुद्धचितं प्रति `नहे नानास्ति' इत्यादि श्रुतिसहकारेण धर्मत्यागेन अद्वैतं शुद्दं ब्रझ बोधयन्ति" (1.प.30.31) इति ग्रन्तेन, प्रथमपरिच्छेदे जगदनिर्वचनीयतां प्रसाध्य, मञ्जूषाकृत्कृतः प्रपञ्चासत्वनिष्कर्ष-, उदाहृतमञ्जूषाग्रन्थमुपन्यस्य नञर्थवादे---पायुगुण्डीवैद्यनाथकृतप्रपञ्चासत्यत्वनिष्कर्षश्च दुराग्रहमूलकः स्वावालनामात्रकल्पितः । पदवाच्यत्वस्य अविचारितरणीयताप्रयोजकत्वे उपदिष्टार्थमात्रसायासत्त्वापत्या सर्वैरपि वाचेयमैरेव भवितिव्यं, व्यवहारस्याप्रयोजकत्वादिति सर्वव्यवहारोच्छेदप्रसङ्गः । `घटत्वाश्रयत्वेन' इतियादि दूषणमपि हेतुमात्रेण पदार्थान् साधयतो हेतुकान् प्रत्येव वक्तव्यं, न तु श्रुत्यादिप्रमाणसिद्दार्थानाश्रित्य व्यवहरतः प्रमाणशरणन् प्रति, एतैः (शब्दप्रमाणकैः) केवलेन हेतुना पदार्थस्यासाधनात्, घटादिरिति ज्ञानव्यवहारावित्यदोषाच्च । यदत्र भेदस्यासत्त्वे कैयटोऽप्यनुकूल इति `भेदस्यासत्सामान्यशब्देन' इत्यादि तदीयव्यवहारपन्यसनं, तच्चिन्त्यम्, तस्य कैयटस्य एतदभिमतार्थसमानार्थकत्वाभावात् । तथा हि -- `यदाऽसत्सामान्यवृत्तिर्नञ् ब्राझणदिभिर्विसेष्यते ब्राझणत्वेनाऽसन् अन्यथधासन् अर्थः क्षत्रियादिः' इति तदीयो ग्रन्तः । तत्र असत्पदार्थस्य `ब्राझणत्वेनासन्' इति तेनैव विवृतत्वात् भेदस्यासत्वं न स्वरूपतः, किं तु स्वप्रतियोगितावच्छेदकब्राझणत्वादेः स्वानुयोगिनि क्षत्रियादौ अविद्यमानतासमर्पत्वेनेति तदाशयोऽवगम्यते । अत्र स्वं भेदः । किं च भेदस्य स्वरूपतोऽसत्त्वे केवलान्वयित्वानुपपत्तिः, अस्यात्यन्ताभावा.़प्रतियोगित्वरूपत्वेन असत्त्वस्य च तत्प्रतियोगिस्वरूपत्वेन परस्परविरोदात् । ततश्च अस्य कथमनुकूलः कैयट इति विभावयन्तु सूरय इति । श्रुतिस्मृतीतिहासपुराणानां सर्वे,ामपि प्रमाणानां सगुणब्रझबोधकत्वेन, कस्मिन्नपि ब्रझदर्मे कस्यापि भ्रमानुदयोत्, ब्रझगतजगज्जनकत्वे धर्मे भ्रमाभावेन `यतो वा' इत्यादीनां तटस्थलक्षणबोधकत्वभ्रमविषयार्थानुवादकत्वाभावात्, `नेह नाना' इति श्रुतेर्ब्रझ तद्गुणयोकपृथक्स्थितिरूपभेदाभावप्रतिपादकत्वेन स्वगतभेदराहित्यार्तकत्वेन च ब्रझातिरिक्तपदर्थासत्त्वस्य, ब्रझणी धर्माभावस्य चाऽबोधकत्वात्, `यतो वा' इत्यादीनां श्रुतीनां मञ्जूषाकृदभिमतार्थपरतया सूत्रकृद्भ्यां श्रीव्यासपाणिनिभ्यामव्याख्यातत्वाच्य सर्वस्यास्य निर्मूलत्वात्, अतो दर्शिता 8ुतियोजना यिक्ता । एवं च घटपटादिपदार्थानां, भेदस्य च प्रमाणसिद्धत्वेन मायिकत्वे मानाभावात् `अविचारितरमणीयेन मायिकेन भेदेन व्यवहारः, अविचारितरमणीयस्यैव पदार्तमात्रस्य व्यवहारप्रयोजकत्वम्' इत्याक्तिरेव आपातरमणीया पृथक्जनमोहिकेति कृतं विस्तरेण ।
पदार्तानां मायिकत्वे प्रमाणं नास्ति किंचन ।
भेदे पदार्ते मानं तु सूत्रं भाष्यं च दर्शितम् ।।
तस्माग्भेदपदार्तश्च सूत्रकारादिसंमतः ।
तस्माद्भेदपरत्त्वेन श्रुतीनां योजना वरा ।।
असत्त्वे न्यायसूत्रसंमतिनिरासः
यच्च मञ्जूषयां तृतीयपरिच्छेदे---`गौतमोऽपि स्वप्नविषया भ्मानवदयं प्रमाणप्रमेयाभिमानः' (न्या.सू.4.2.21) `माया गन्धर्वनागरमृगतृष्णावद्वा' (व्या.सू.4.2.32) `हेत्वभावादसिद्धिः' (न्या.सू.4.2.33) इत्याहेत्यादिना, `अन्यत्र विस्तस' इत्यन्तेन ग्रन्थेन प्रपञ्चाऽसत्यत्वे गौतमसंमतिप्रदर्शनम् । अत्राहुः --`प्रत्यवतिष्ठते विज्ञानवादी' इति वाचस्पतिना.़वतरणात् आद्यसूत्रद्वयं पूर्वपक्षप्रापकम्, तृतदीयं तु सिद्दान्तसूत्रम् । यथा स्वान्पोऽभिमानः (ज्ञानं) निर्विषयः, तता जाग्कति प्रमाणप्रमेयाभिमानो.़पि निर्विषयः । स्वान्पादिवस्तुवत् जाग्कज्जशायामपि घटपटादिवस्तु मायिकमेवेति भावः । एवं प्राप्ते सिद्धान्तमाहहेत्विति । प्रबोदादावनुपलम्भरूपहेतुसत्त्वेन स्वान्पादीनामसत्त्वेऽपि जाग्रति प्रमाणादीनामुपलम्भेन अनुपलम्भरूपहेत्वभावात्, असिद्धिः- असत्त्वासिज्झिः, असत्वसत्वयोरनुपलम्भोपलम्भौ हेतू, तत्र बोधाबाधाविति भावः । स्वान्पादेरुक्तमसत्त्वमभ्यिपेत्य सिद्धान्तसूत्रार्थो वर्णितः, वस्तितस्तु अनुपलम्भहेत्वभावात् असिद्धिः - जाग्रति प्रतीयमानवस्तुनः असत्वाऽसिद्धिः, स्वान्पस्यापि उपलम्भात् णनुपलम्भरूपहेत्वभावात्, असिद्धिः-असत्त्वाऽसिद्धिः, स्वान्पस्यैवाऽसत्त्वाभावेन, हेत्वभावत् -- दृष्टान्ताभावात्, असिद्धिः -जाग्कज्वस्तुसत्त्वसाधकानुमानासिद्धिः, एवं च स्वप्ने, भ्रमे, जाग्रति च वस्तूनामसत्त्वं नेति गौतममतिमिति न्यायभाष्यादितो लाभात् नानिर्वचनीयतावादो गोतमसंमत इत्यवसेयम् । एवमक्षरार्थे सति `जाग्रदवस्थायां समीप एवोपसभ्यमानानां यावद्व्यवह्रमबाध्यमानदातीयानां समिप एवोपलभ्यमानानामं तत्त्वे (मायिकत्वे) न हेतुरिति भाष्यवार्तिकादौ सिद्दान्तत्वेन व्याख्यातम् । एवं च--अनिर्वचनीयतावादस्य सूत्रसंमतत्वमुक्तप्रायम्' इति अनिर्वचनीयत्वे गौतमस्य तात्पर्यकल्पनमयुक्तम् । तद्भाष्यादौ `यावद्व्यवाहारमबाध्यमानजातीयानाम' इति वाक्यस्य, एवमर्थकवाक्यान्तरस्य वाऽदर्शनात्, तत्राऽदृष्यवाक्याध्याहारेण सूत्रं व्याख्याय `भा,्यादौ व्याख्यातम्' इत्याभिधानं बोध्धृषु प्रद्वेषं सूचयति; विरुद्धार्थप्रतिपत्त्या विमुझन्तु इमे इति । वात्रिके च--`सर्व एव मिथ्या प्रत्याय भविष्यन्तीति ब्रुवाणाः प्रधानमनुयोक्तव्यः, न चाऽनिष्प्रधानं पश्याम' इत्युक्तम् । अनेन - यस्य कस्यचित्प्रत्ययस्य सद्विषयकत्वेन समीचीनप्रत्ययत्वमभ्युपेम्, एन्यथा अभिमतप्रत्ययस्य मिथ्यात्वासिद्धिरित्युक्तं भवति । किं च `स्मृतीसंकल्पवच्च स्वन्पविषयाभिमानः' (34) `मिथ्योपलब्धेर्विनाशास्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत्प्रतिबोधे' (35) इत्यत्तरसूत्राभ्यां स्मृतिसंरल्पस्वप्नभ्रमेषु विषयाणां सत्यत्वमेवोक्तं गौतमेन तत्र मिथ्योपलब्धिस्वप्नाभिमानयोर्नाष एवोक्तः, न तु विषयस्यासत्त्वम् । सूत्रर्थस्तु भाष्यादितो ज्ञातव्यः । अत एव कुसुमाञ्जलौ पञ्चमे स्तबके ग्रन्थोपसंहाके स्वाप्नज्ञानस्य स्मृतित्वं निरस्य `तस्मादनुभवोऽसौ स्वीकर्तव्यः, अस्ति च स्वप्नानुभवस्यापि कस्यचित्सत्यत्वं संबादात्' इत्यादिना उक्तं स्वाप्नस्य सत्यत्वम् ।
यदप्युक्तम् ---`तस्य च श्रुत्मूसत्वेन हेत्वभावादसिद्धिः' इत्यनेन `शण्डनासंभवाच्छ' इति श्रुतिमूलत्वमनिर्वचनीयत्वस्य, तदपि चिन्त्यम्, प्रपञ्चानिर्वचनीयरश्रुतेपभावेन तस्य तत्सिद्धत्वाभावात् । भगवता महर्षिणा व्यासेन द्वितीये समयपादे बाझार्थानामभाववादिमतस्य `नाभाव उपलभ्धेः' (2.2.27) इत्यादिपञ्चसूत्र्या प्रत्याख्यातत्वेन अस्य वादस्य श्रौतत्वाभावावगमाच्च । यद्ययं वादः श्रौतः स्यात् तर्हि श्रुत्यर्थनिर्णयाय प्रवृत्तो स महर्षिः श्रौतं तमर्थं कथं प्रत्याचक्षीत? तत्रापि समयपादे निरासात् वेदप्रमाण्यमनभ्युपयतः कस्यचिन्मतमुदमिति स्पष्टम् । `नेह नाना' (4-11) इति काठकवाक्यस्य, वाजसनेयवाक्यस्य च जगदनिर्वचनीयतायां न तात्पर्यं, सूत्रकाराभ्यां तथाऽव्याख्यातत्वादित्युक्तम् । किं च अक्षरमर्यादयापि न तादृशार्थलाभः । तथा हि---
नानाशब्दस्य भिन्नमित्यर्ते इहेत्यस्य परमात्मनीत्यर्थे च, इहब्रझणि, किंचन भिन्नं वस्तु नास्तीति वाक्यार्थो वाच्यः, एवं च सति पाऱ्थक्येन जगतः सत्ता नेति लभ्येत न तु प्रपञ्चो नेति । ततश्च ब्रझाश्रितमेव जगतिति भावः । एतच्चोक्तं भगवता---`मयि सर्वमिदं प्रोतं सूत्रे मणिगण इव' (गी.7.7) इति । एतेन --प्रतिपन्नोपादौ निषेधात् जगतोऽभाव एव सिद्ध इति परास्तम् । निषेधेनोक्तार्थालाभात् । असेय नियमस्य अन्यमतसिद्दत्वेन शाब्दिकपूर्वाचार्यैः पाणिनिप्रमुखैरीदृशार्तानङ्गीकारात् `भ्रमप्रकारत्वं मिथ्यात्वम्', इत्येव नागेशोक्तेः निषेधेन जगतः भ्रमप्रकारताऽलाभात् । नेहेत्यादिश्रुतीनां पाणिनिपतञ्जलिभ्यामव्याक्यातत्वेन नागेशाभिमत एवार्थः श्रुतेरिति राजाज्ञादेरभावेन श्रुतिकन्यथापि योजयितुं शक्या । तथा हि---श्रुतौ नानाशब्दो भावप्रधानो भेदपरः, `लोके च नानाळब्दस्य पृथग्भावाभिधायित्वात्' इति `विनञ्भ्यां नानाञौौ न सह' (पा.सू.5.2.27) इति सूत्रे कैयटोोक्तेः भेदपरत्वे न विप्रतिपत्तिः । `मनसैवेदमाप्तव्यम्' इति काठके पूर्ववाक्यम् । इदं बोध्यम्---`यतश्चोदेति' इति नवमेन मन्त्रेण प्राणपदवाच्यस्य परमात्मनः सर्वदेवाधारताऽभिहिता, `यदेवेह' इति दशमेन मन्त्रेण सर्वदेवादारस्यैव हरेः अत्रामुत्र च लोके सर्वाधारत्वं सर्वनियामकत्वं च बोधयता, लोकद्वयगतभगवद्रूपमभिन्नमेव तत्र भेदज्ञानिनो महदनिष्टमिति बोधितम् । अयमेकादशो मन्त्रः अभिन्नं ब्रझस्वरूपं ज्ञातव्यं तत्ल ब्रझणि अणुमात्रं भेदो नेति पूर्वमन्त्रसूचितमेव कण्ठतो वदन् भेदज्ञानिन उक्तमेवाऽनिष्टं फलं द्रढयति । पूर्वमन्त्रोक्तमभिन्न ब्रझस्वरूपमिदमापरामृश्यते । इदम् - अभिन्नं ब्रझस्वरूपं, मनसाशुद्देन चेतसा, आप्तव्यम्- चिन्तनीयम्, इह - अत्रामुत्र च विद्यमाने ब्रझणी, किंचन नाना-भेदलेशोऽपि नेति योजना । भगवत्स्वरूपाणां भेदो नेति तात्पर्यम् । भेदज्ञानिनः फलमाह---मृत्योिति । यः अधिकारी, इह - उभयत्र वर्तमाने परमात्मस्वरूपे, नानेव पश्यति-भेदोऽस्तीव पश्यति, सः, मृत्योर्मृत्युम् - मृत्योरपि मृत्युप्रदां कष्यतरां दशां प्रान्पतीत्यर्थः? । वाजसनेये तु मनसैवानुद्रष्टव्यं नेह (6.4.19) इत्यादि पठ्यते । तत्र---`ते निचिक्युर्ब्रझपूराणमग्य्रम्' इति पूर्ववाक्यात् ब्रझेत्यनुवृत्तं, प्रथमान्ततया विपरिणमयितव्यम् । `यस्मिन् पञ्चपधारतयोक्तं ब्रझ, मनसैव - गुरूपदेशपूर्वं शास्त्रमभ्यस्य ब्रझस्वरूपे न भेदलेश इति ज्ञानरूपसंस्कारसंस्कृतेन चेतसा, अनुद्रष्टव्यंचिन्तनीयम्, इह-द्रष्टव्ये ब्रझणि । शिष्टं स्पष्टम् । एवं च - `नेह नाना' इति वाक्यं ब्रझरूपयोर्भेदाभावज्ञापकं, न तु ब्रझातिरिक्तवस्त्वभावबोधनद्वारा डगतोऽसत्त्वबोधकमिति मन्तव्यम् ।
यद्वा---`विनञ्भायां नानाञौ नसह' इति सूत्रेण नसहार्थे विनानानाशब्दयोर्व्युत्पादनेन विनापर्यायो नानाशब्दः । नसहार्थश्च साहित्यभावः, `नानात्वं, सहत्वं यौगपद्यमिीत्यादौ नानाशब्दोऽसहभूते सहशब्दं सहभूते, वृत्तौ वर्तते, अतोऽसहभानादौ प्रत्यय' इति `तस्य भाव' इति सूत्रोद्योतोक्तेः । इहेति न ब्रझपरं किं तु प्रपञ्चपरम् । `मनसैवेदमाप्तव्यम्' इति पूर्ववाक्यादिदमित्यनुषज्यते । तच्चेह नानाशब्दयोगात् `पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' (पा.सू.2.3.32) इति सूत्रेण द्वितीयान्तम् । इह-प्रपञ्चे, किंचन वस्तु, इदं नाना-परमात्मना विनाभूतं न, किं तु ब्रझाऽविनाभूतमेवेति काठकवाक्यार्थः । वाजसनेये तु--`ते निचिक्युर्ब्रझपुराणमग्य्रम्' (13) इति वाक्यात् ब्रझपदमनुषज्यते तच्च नानाशब्दयोगात् द्वितीयान्तम् । योतना काठकवाक्यवत् । अत्र योोजनायामविनाभावः शाब्दः, पूर्वयोजनायां त्वार्थः सर्वपदार्थानां भगवदविनाभूततया वर्तनं `न तदस्ति विना यत्स्यान्मया भूतं चराचरम्' (भ.गी.10.39) इति भगवद्वचनसिद्धम् । मृत्योरित्युत्तरवाक्येऽपि इहपदं प्रपञ्चपरमेव । इह-प्रपञ्चे, नानेव भगवद्विनाभावोऽस्तीव यः पस्यतीत्यादिरर्थः । प्रपञ्चे भगवदविनाभावाभावं पश्यतो महदनिष्टमापततीति भावः । अत एव श्रुतौ इहपदं, नानापदं च सार्थकम् । अन्यथा `नेदमस्ति किंचन, अथ वा--नास्ति किंचन' इत्येतावतैव ब्रझणोऽन्यन्नास्तीत्यर्थलाभात् किं ताभ्याम् ।
अत्र नगोशपक्षपाती कशिचिदाह--नानाशब्दस्य `विनञ्भ्याम्' इति सूत्रेण नञो ना़्प्रत्यये निष्पन्नतया तत्सूत्रभा,्ये तस्य प्रत्ययस्य स्वार्थि-कत्वव्यवस्थापवात्, भिन्नसंबन्दोऽर्थः, तत्र संबन्धस्य समभिव्याहृतपदबलाल्लाभेन भेदाश एव चच्छक्य इति न विनाशब्दपर्यायत्वं तस्य, अतो `नेह नाना' इत्यस्य विनाभूतं नेत्यर्थवर्णनं न युक्तमिति । नागेशानुयायिभ्योऽन्ये वैयाकरणास्तु `विनञ्भ्यामसहवाचिभ्यां नाना़ौ भवतः स्वार्थे' इति तत्सूत्रभाष्यात् विनानानाशब्दयोरसहार्थे पर्यायत्वं सूत्रभाष्यकृत्संमतमिति `नेह नाना' इति श्रुतेर्विनाभूतं नेति व्याख्यानं युक्तं पाणिनिपतञ्जलिसंमतं च इति कथतन्ति । `नानाविष्णुर्मोक्षदो नास्ति देव' इत्यादौ भिन्नार्थेऽव्युत्पन्नोऽनेकार्थ इवेति शक्यं वक्तुम् । `भेदांश एव शक्यो भाष्ये स्वार्थिकत्वोक्तेः' इति वदता भेदार्थकार् नञो नाञ्प्रत्यय इत्युक्तं भवति । तच्चिन्त्यम् । सूत्रे `न' इत्येव वक्तव्यं न सहेति शब्दप्रयोगेण, भाष्ये भेदार्थादिति अविवृत्य `असहवाचिभ्याम्' इति तदर्थविवरणेन च, नञ्ोऽनेकार्थकत्वं तत्र असहवृत्तेर्नञो नाञप्रत्यय इत्यर्थस्य लाभेन तदिक्तार्तालाबात् । अनेन भाष्येण सूत्रोपात्तार्थवृत्तिभ्य इति नियमलाभेन सूत्रानुपात्तभेदार्थवृत्तेर्नञः प्रत्ययोत्पत्तौ तद्भाष्यस्यासाधकत्वात् । स्वार्थिकप्रकरणे क्वचित् `अनुकम्पायाम्' इत्यदिसूत्रविषये सूत्रोपात्तोऽनुकम्पादिरूपोऽर्थो विसेषणतया प्रकृतिबोध्यो भवति, क्वचित्तु--स्वातन्त्रेण (विशेष्यत्वेन) प्रकृतिबोध्यः यथा--- प्रकृतसूत्रविषये ।
यच्च--तत्रैव `अग्र' इत्यादिना अपवर्गेऽपि नैयायिकमते चित्तातिरिक्तसद्वस्त्वभावनिरूपणम्, तदपि मन्दम्। न्यायमते जीवानां नानात्वेन मुक्तौ मुक्तजीवान्तरणां, ब्रझणश्च सत्वेन तेषां च सत्यत्वेन, तदा तदभावनिरूपणायोगात् । `वास्तवौ भेदसामान्यौ (5.आ.) भिनानास्तावदात्मानः, आत्मज्ञानमपवर्गसाझनम्, मुक्तौ स्वरूपेण मुक्तानामवस्थितिः' इति न्यायमञ्जर्यां (9.आ) चयन्तभट्टोक्तेः । `तदभावश्चापकर्गे' (गौ.न्या.4.2.45) इति सूत्रेण मुक्तानां शरीरेन्द्रियाणामभावात् बाझार्थानामिन्द्रियसंयोगाभावेन बुद्ध्युत्पत्त्यभाव इत्यर्थकेन न मुक्तौ मुक्तानां ज्ञानाभावमात्रसिद्ध्या चित्तातिरिक्तपदार्थाभावासिद्धेः । भाष्यादाविदं सूत्रमित्थमेव व्याख्यातम् । सूत्राक्षरार्थस्तु न प्रसंग इति वर्तते, यत इति शेषः, प्रकृतत्वात् मुक्तानामिति लभ्यते । अपवर्गे-मोक्षे मुक्ता नाम्, यतः तदभावः -ज्ञानकारणशरीरेन्द्रियाभावः, तस्म्त्, न प्रसंगः -बद्द्युत्पादप्रसंगो नेति । किं च भाष्यवार्तिकतात्पर्यटाकाप्रभृतिप्रौढप्राचीनन्यायप्रबन्धान् समालोड्य पण्डितप्रकाण्डभट्टजयन्तप्रणीतन्यायमञ्जर्यां न्यायसूत्रतात्पर्यविवतौ पञ्चमसप्तमाष्टमनवमेष्वाह्निकेषु विज्ञानवादादिनाकुवादान्निरस्य विज्ञानाद्यतिरिक्तबाझसत्पदार्थस्य सप्रमाणं साधिततवेन `अनिर्वचनीयतावादो न गौतमसंमतः' । किं च---`सोऽश्नुते सर्वान्' (तै.उ.2) इत्यादि श्रुत्भिः, `संपद्य' इत्यादि ब्रझमिमांसातुर्याध्यायतुरीयपादेन च विरुद्धमिदम् । ततश्च जाग्रदादौ वस्तूनामसत्त्वमिति गौतमीयग्रन्थतोऽन्यग्कन्थतोऽपि निर्णेतुं न शक्यम् ।
ननु `यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिकि तिष्ठत्येको येनेदं पूर्णंपुरुषेण सर्वम्' (तै.उ.4.28, श्वे.5) इति मन्त्रेण पूर्णपुरुषात्परापरवस्तुमात्रप्रतिषेधेन ब्रझैकमेव वस्तु सत्, तस्मादन्यत्सर्वमसदिति सिध्यतीति चेत्. अवधीयतां मन्त्रार्थम् । अयमर्थो मन्त्रस्य---यस्मात् - पूर्णात्पुरुषात्, परं - उत्तमं न, अपरं किंचित् - अवरं वस्ति, अस्ति-वर्तते, वर्तमानवरं वस्तु किंपरिमाणेनाऽणीयः, उत ज्याय इति शङ्कायाम्ह - यस्मान्नाणीय इत्यादि . यस्मात् अणियो न, ज्यायश्च कश्चिन्न `अणोरणीयान्महतो महीयान्' (तै.उ.4.26.1,श्वे.3.20) इत्युक्तंः । कश्चिदिति लिङ्कव्यत्ययश्छान्दसः । एवं च पूर्वार्धे वाक्यचतुष्टयम् । न च द्वितीयेऽपि वाक्ये नञो।छ़नुषङ्गेण परमपरं च वस्तु नेत्येव मन्त्रतात्पर्यमिति वाच्यम्, `विभाषा मध्ये च ये विधयस्ते नित्या भवन्ति' इति `पङः कत्वा च' (पा.सू.1.2.10) इति सूत्रमहाभाष्योक्तन्यायेन नञ्दयमध्यपठिते द्वितीयवाक्ये नञनषङ्गो नेति वक्तुं शक्यत्वात् । अनुवृत्तौ तु संबन्धस्याविच्छिन्नतया उत्तरत्रापि एतदनुवृत्त्यैव निषेधलाभेन नञ्द्वयोपादानं व्यर्तं स्यात् । एत्न वाक्येन ब्रझातिरिक्तवस्तुमात्राभावं बोधिते वस्तनोऽभावेन तत्र अणीयस्त्वादिशङ्काया अनुदयेन `यस्मान्नाणीय' इत्यादि निषेधवाक्यानुत्ततिप्रसंगः, पुरूषातिरिक्तवस्त्वन्तरसत्ताबोधक `अणोरणीयान्' इति मन्त्रविरोदप्रसंगश्च । एतेन `यस्मात्परमपरं च न' इत्येकमेव वाक्यमिति परास्तम् . उत्तानुपपत्तेर्दुष्परिहरत्वात् . ननु पूर्वमन्त्रेषु रुद्रश्रतेः शिवपरोऽयं मन्त्र इति चेत्, आह-नात्र तथा मन्तव्यम् । `रुजं द्रावयते यस्माद्रुद्रस्तस्माञ्जनार्दन' इति निरूक्त्या रुद्रपदं शिवपरमिति वाच्यम् । `हिरण्यगर्भं पर्यत जायमानम्' अत्युत्तरार्धे एतन्मन्त्रप्रतिपाध्यस्य विरिञ्चपुत्रकत्वलिङ्गश्रवणात् तस्य रुद्रेऽसंभवेन, वासुदेव एव संभवेन च, निरवकाशविष्णुलिङ्गत्वात् तद्बलेन `योगाद्रूढेः' इति न्यायानवतारात्, श्रुतेश्च वासुदेवे सावकाशत्वात् । दिवि-स्वस्ताने वैकुण्ठे, एकः-समाभ्यधिकशून्यः, स्तब्धोो वृक्ष इव, तिष्ठति-आस्ते । एवं च-कुलालादिरिव न जगत्सृष्ट्यादौ व्यापारवात्, किं तु इच्छामात्रेण सृजतीति भावः । येनेति क्वचित् पाठः येन पुरुषेणेदं पूर्णं सत् तिष्ठतीति योजना । इदं बोध्यम् -- प्रथमपादेन परापरवस्तुमात्राभावबोधने `येनेदम्' इत्यादिवाक्यमनर्थकं, व्याप्यवस्तुनोऽभावेन व्याप्त्यादिकथनायोगादिति . एतेन `अखण्डार्तेन शुद्धेन ब्रझणा आध्यासिकं तादात्म्यं, तद्ग्रहश्च `नेह नाना' इति निषेधवाक्यमनने सतिः; `सत्यं ज्ञानमनन्तम्' इत्यादिश्रुतयोऽपि शुद्धचित्तं प्रति `नेह नाना' इत्यादि 8ुतिसहकारेण धर्मत्यागेन अद्वैतं सुद्दं ब्रझ बोधयति' (म.1.प्र) इत्यादि मञ्जूषाद्यक्तिवत् ।
भेदसत्यपरस्तर्को भेदमायापरोऽपरः ।
भेदसत्यपरस्तर्को झसन् वेदविरोधतः ।।
एकविज्ञाननुगमान्नेङ नानेति च श्रुतेः ।
इत्यादि श्रीहर्षोक्तिरपि परास्ता । एकविज्ञाननिगमस्य सादृश्येनोपपत्तेर्वक्तुं शक्यत्वात्, `नेह नाना' इत्यादि श्रुतीनां बेरझणो निर्थर्मकत्वं, जगदसत्यत्वादौ च न तात्पर्यमित्युक्तत्वाच्च । किं च वैशेषिकादयो वस्तुतत्त्वमपल्प्य भाषिण इति नागेशसिद्धान्तात् वस्तुनिष्ठं सत्त्वमपलप्य अनिर्वचनीयत्वमाह गौतम् इति शक्यं वक्तुम् ।
`तस्य भाव' (पा.सू.5.1.119) इति सूत्रे प्रकृतिप्रत्ययार्थयोर्भेद एव भावार्थप्रत्ययाः शिष्यन्त आचार्येरिति, अन्वर्थं खल्वपि निर्वजनं गुणसंद्रावो द्रव्यमिति' इत्यन्तेन भाष्येण तयोर्भेद एवेति निर्दारितम्, असत्त्वं च तस्य तत्र नाभाषि अतोऽसौ सन्नेवेति मुनित्रयस्याशयः । अतः पाणिनीयैः भेदस्यात्यत्वमन्यैरुकतं नाभ्युपेयं भाष्यादावनुक्तेः । `भेदस्यासत्त्वमपि तद्भाष्यादौ स्पष्टम्' इति नञर्थवादस्तकला तु `तात्त्विरभेदाभेदचिन्तां परिहाय लोकप्रसिद्धं भेदमाश्रित्य' इति कैयटम्, वास्तवबेदस्तु नास्त्येवेति तात्पर्यम् इत्युद्योतं चानुसृत्य प्रवृत्त्ेति तयोरेव निर्मूलत्वात् चिन्त्या । किं च स्वस्वाङ्गमङ्गलिपञ्चकवलोक्यमानं विभक्तेनैव रूुेणाऽवगम्यत इति सर्वप्रत्यक्षसिद्धं भेदमपह्नोतुं को वा शक्नुयात्, बाधादिहेत्वदर्शनेन असन्निति वक्तुं कस्य वा जिह्वा प्रवर्तेत ? अतोऽसौ नागेशो भगवता सूत्रकृता `नाभाव उपलब्धेः' 9ब्र.सू.2.2.27) इत्यादिसूत्रैः प्रतिक्षिप्तं वेदविरुद्धं विज्ञानवादिपक्षमाश्रित्य, श्रुत्यादौ महर्षिवचने च पर्द्वेषं प्रकाशयतीति भाति । अयमत्र संग्रहः ---
अनिर्वक्तव्यतावादपादसेवागतिस्तयोः ।
भेगसत्यपरस्तर्को झसन्वेदविरोधतः ।।
इत्येवंवादिनो वस्तुभेदसत्यतववादिभिः ।
एवं तु प्रतिवक्तव्या येनाऽऽत्मा संप्रसीदति ।।
एकविज्ञाननिगमो नेह नानेति च श्रुतिः ।
आत्मन्यभावं धर्मणां न बोधयति तत्वतः ।।
न वक्त्त्यसत्त्वं भावानां किंतु सत्यत्वमेव हि ।
ब्रूतेऽखिलं वेदवाक्यमिति विद्विद्विनिर्णयः ।।
अतोऽनिर्वचनीयत्ववादपादनिषेवणम् ।
न नो गतीः, किंत्वदुष्टं गतिः श्रुतिवचोऽखिलम् ।।
श्रुतिसिद्धं वस्तुसत्त्वं भवतः प्रतिषेधतः ।
विज्ञानवादिनां पादसेवनं शरणं विदुः ।।
अतःसत्यं सर्वमिति मतं युक्तं सता मतम् ।
नाभावाधिकृतौ सूत्रकृता व्यासमहर्षिणा ।।
प्रतिक्षिप्तं भाष्यकृतां पाणिनेरप्यसंमतम् ।
श्रुतिस्मृतिविरुद्धं च मतं विज्ञानवादिनः ।।
आश्रित्य नृत्यति झेष सखा श्रीहर्षधीमतः ।
अतः-भेदसत्यपरस्तर्को झसन्निति वदन् पुमान् ।।
असन्निति हि वक्तव्यो ब्रझासत्त्वं विदन् यथा ।
इति प्राहुर्गौतमीयास्तथैव ब्रझवादिनः ।।
तटस्थाक्षेपः
अत्र केचित्प्रत्यवतिष्ठन्ते --मञ्जूषायां `वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते' इति प्रतिज्ञाय जगन्मिथ्यातवादेः आत्मैकत्वस्य च निरूपणात्, तस्य च प्रमाणिकत्वव्युत्पादनाय श्रुतिस्मृतिपुराणानाम्, अन्येषां तीर्थकराणां वाक्यानां च प्रमाणतयोपन्यासात्, तत्रोक्तं सर्वं प्णिन्यादि महर्षिसंमतं प्रामाणिकं चेति निर्णयामः । न च अत्र जीवेशभेदपरैः प्रपञ्चसत्यत्वपरैश्च तन्त्रान्तरैः विरोधः शङ्क्यः । तेषां सर्वेषामात्मैकत्वादिप्रतिपादकाध्यात्मशास्त्राङ्गत्वमिति द्वितीयपरिच्छेदे ग्रन्थकृता सिद्धान्तयिष्यमाणत्वात् अङ्गाङ्गिनोर्विरोधस्य क्वाप्यदृष्टेः, शास्त्रकृद्भीस्तयोरविरोधस्यैवाङ्गीकारत् । न च प्रतिज्ञावाक्यगतवैयाकरणपदेन पाणिन्यादिरेव विवक्षणीय इति को निर्बन्धः, अन्यः कश्चिदिन्द्रादिरेव वैयाकरणस्तत्पदेन विवक्षितोऽस्तु इति वाच्यम् । एतैरेव भट्टाचार्यैः शेखरे संज्ञानसंप्रप्सेया तपस्यतः सनकादीनुद्दिश्य ब्रझविज्ञानार्तं महेश्वरेणोपदिष्टानाम्, `अइउणा' दीनां चतुर्दशसूत्राणां `श्रोतव्यः श्रुतिव्क्येभ्ये मन्तव्यश्चोपपत्तिभेः' इति श्रौतेन स्मातैन वा प्रमाणेन श्रुत्यैवन ब्रझणः श्रोतव्यत्वधानाच्छ्रुतित्वं व्यवस्ताप्य, तन्मूलकत्वात्पाणिनियस्य श्रुतिमूलकत्वेन, व्याकरणमप्यधीतं मयेत्यर्थकं `वेदानां वेदः' (छा.7) इति छान्दोग्यव्क्यमपि एतद्विषयकमेवेति श्रुत्यनुगृहीतत्वोक्त्या, अत्र ग्रन्थे --`अद्यत्वे साधुत्वबोधकं व्यारकणं पाणिनियमेवेति स्पष्टं भाष्ये' इति भाष्यकृता पतंजलिनाऽऽदृतत्वोक्त्या च निरतिशयं प्रामाण्यं प्रसाद्य, शास्त्रेण शब्दापशब्दविवेचनपूर्व शब्दप्रयोगेणाऽभ्युदयमभिलषतां पाणिनीयमेव व्याकरणमद्येयमिति व्यवस्थापितात्वेन तत्सिद्धान्तनिष्कर्ष एव सर्वैरपेक्षितः स्यात् इति तत्सिद्धान्तव्युत्पादनस्य न्याय्यतया तत्र तत्र महाभाष्योदाहरणेव च प्रतिज्ञावाक्यगतवैयाकरणपदेन पाणिन्यादय एवाऽष़चार्य विवक्षिता भवेयुः । इदं सर्वमभिप्रेत्यैव `वैयाकरणानां - पाणिन्यादीनाम्' इति कलायां वायखयातमिति ।
तटस्थसमाधानम्
अत्र वजन्ति -- नागेस्तावदन्यमुखेन स्वाभिमतमद्वैतसिद्धान्तं प्रतिपिपादयिषुः वाक्यपदीये भर्तृहरिणा प्रदर्शितेन पथा स्फोयस्वरूपं निरूपयन् --
अनादिनिधनं ब्रझ शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।।
इति आद्यपद्योक्तस्फोटलक्षणघटकब्रझत्व -- नामरूपात्मकप्रपञ्चविवर्तोपादानकारणत्वयोः समर्थनं दुष्करं तस्याऽद्वितीयत्वसाधनेन विना, तच्च प्रपञ्चस्य मायिकत्वसमर्थनमन्तरा दुःशकमिति निर्धार्य आत्मैकत्वसिद्धान्तस्थापकरमार्थसाराभिधे शास्त्रत्वेन तदभिमते ग्रन्ते कृतभूरिपरिश्रमः तत्र दृढतरसंस्कारः आत्मैकत्वमेव शास्त्रेषु सर्वत्र प्रतिपाद्यत इति अन्यथा जानन् भेदपराणामन्येषां तन्त्राणामद्वैतप्रतिपादकाध्यात्मशास्त्राङ्गत्वम्, सांख्यवैशेषिकगौतमादीनामपि अद्वैत एव तातापर्यम्, अतो न तद्विरोधोऽद्वान्तस्य, श्रीशङ्कराचार्यप्रभृतस्तु सांक्योगवैशेषिकादीनां मदुक्तं गूढमभिसंधिमजानाना एव सांख्यग्रन्थादौ प्रतीयमाने द्वैत तात्पर्यं तेषामिति कृत्वा तत्खण्डने प्रवृत्ताः । एवमेव तेषामन्येषां च स्फोटवादखण्डनेऽपि प्रवृत्तिरिति बोधयितुं तत्पराकृतस्य स्फोटस्य स्वरूपनिरूपणमग्रतःकृत्वा स्वाभिमतात्मैकत्वादि पाणिनेरप्यभिमतमिति बालानां मिथ्याप्रत्ययं जनयितुं `वैयाकरणसिद्धान्त' इति प्रतिज्ञां कृत्वा अद्वैततात्पर्यकं स्फोटवादापरनामानं मञ्जूषाभिधानं ग्रन्थमतनिष्ट ।
तत्र प्रथमपरिच्छेदे शक्तिलक्षणाव्यञ्जनाख्यवृत्तित्रयनिरूपणात्परम्, `ननु कोऽसौ शक्त्याश्रयः शब्द' इत्यादिना `जातेरप्यसंभवाच्चेति चेत्' इत्यन्तेन ग्रन्थेन वर्णानामुत्पत्तिरभिव्यक्तिरितिपक्षद्वयेऽपि वर्णानामभिव्यक्तीनां चोत्पत्तिविनाशसालित्वात् क्रमनिशिष्टवर्णसमुदायरूपपदस्य, तत्समुदायरूपवाक्यस्य च दुर्निरूपत्वेन पदादिप्रत्य7ाभावात् वाचकशब्दज्ञानाभावेन अर्थप्रत्ययानुपपत्तिरिति चोद्यमुद्भाव्य, `अस्ति कश्चित्स्फोटाभिधः शब्दोऽर्थवान् तज्ज्ञानेनार्थधीरुपजायत' इति समाधास्यन् स्फोटस्वरूपं निरूपयितुं तन्त्रान्तरोक्तं प्रलयं सृष्टिक्रमं च `अत्रोच्यत' इत्यादिना अतिसंकुचितेनग्रन्तेन ग्रन्तेन निरूप्य, प्रलये च्तन ईश्वरे लीनाय् लीनसर्वजगत्काया मायाया भगवत ईश्वरात् तस्य सिसृक्षाभावेऽपि प्राणिकर्मवशात् पुरु,ेण सह प्रादुर्भावः, तस्याश्च परमेश्वरस्य सिसृक्षात्मना परिणामः, ततस्तत्सकाशात् सत्त्वादिगुणत्रयात्मकशक्तितत्त्वाख्यबिन्दुरूपस्य वस्तुनः प्रादुर्भावः, तत्र चित्, अचित् तदुभयमिश्रं चेत्यस्त्यंशत्रयम्, तत्र अचिदंशः शब्दार्थोभयसंस्काररूपोऽविद्येत्युच्यते, चिदचिन्मिश्रो नादः, चिदंसो बिन्दुः, चिदंशाद्बिन्दुरूपात् वर्णविशेषरहितं ज्ञानप्रधानं सृष्ट्युपयोग्यवस्थाविशेषेपेतं चेतनमिश्र जगपादानकारणं शब्दब्रझापरनामधेयं नादमात्रं जायते, तत् ज्ञातमर्थं विवक्षोः पुरूषस्य इच्चाजन्यप्रयत्नसंयोगकूपसंस्कारवशात् नाभेरधोदेसे स्थितचक्राकारमूलाधारेदेशे जातपवनचलनेन, तत्र ततः क्रमात् नाभिह्ृदयकण्ठदेशान् गतेन तेन मरुता, तत्तद्देशेषु अभिव्यञ्जितं सत् क्रमेण परा, पश्यन्ती, मध्यमा, वैखरी इति नामानि भजते, तस्य पराभिधानस्य नादस्य सर्वास्ववस्थास्वनुवर्तनेऽपि मध्यमागतो नादो वैखरीनादाभिव्यङ्ग्यः स्फोटाभिधां धत्ते . स तु --"आकाशदेशः शब्द इति `अइउण्' इति सूत्रमहाभाष्यात् बाझाकाशगतः सर्वप्राणिहृदयाकासदेशश्च, स एवायं गकारः तदेवेदं पदं वाक्यमिति धीविषयत्वात् तत्तद्देशगतत्वेन ज्ञानविषयत्वाच्च नित्य एको विभुश्च । व्यञ्जकध्वनिगतवर्णसंस्कारक्रममनुरुध्यैव लोकसिद्धव्यञ्जकध्वनिगतगात्वादिधर्मरूषितो नानात्वमापन्न इव ध्वनिगतान्त्यवर्णाभिव्यक्त एव अर्थधियं जनयति ।
अनादिनिधनं ब्रझ शब्दतत्त्वं यदक्षरम् ।
विवर्ततऽर्थभावेन प्रक्रिया जगतो यतः ।।
क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् ।
प्रकृते बिन्दुरूपिण्याः शब्दब्रझाऽभवत्परा ।।
इत्यादि भर्तृहरिवचनात् पराभिधः शब्द एव नामरूपात्मकप्रपञ्चरूपेण विवर्तते, `एकस्यैव स्फोटस्य सर्वशब्दतदर्थोभयोपादानत्वेन उभयरूपतया उभयोरपि तत्कार्ययोरुभयरूपता, श्रोत्रग्राझवैखरीसंस्कृतान्तःकरणग्राजो भवतीति आन्तरस्फोट इति व्यवहारविषयश्च । एतेन तत्त्त्प्राणिहृदयाकास्थस्फोटस्य श्रोत्रग्राझत्वात्कथं तदुपलब्दिरिति शङ्कानवकाशः . एवं च बौद्ध एव शब्दोऽर्थस्य प्रत्यायकः, न तु बोझो वखैरीनामकः सर्वक्षोत्रग्राझ' इति व्यक्तिस्फोटस्वरूपं निरणैषीत् ।
"जातिस्फोटोऽतिनिष्कर्ष इति परमसिद्दान्तानुसारेण तत्स्वरूपं प्रतिपिपादयिषुः, `जातिर्नाम अनुगताकारप्रतीतिजनकः शब्देऽर्थे च विद्यमानो धर्मः, स च शब्दनिष्ठो वाचकः, अर्तनिष्ठस्तु वाच्यः । तत्र--शब्दनिष्ठनिरुक्तधर्मरूपजातेरेकत्वं नित्यत्वं विभुत्वं च सहतुकं व्यवस्थाप्य, तस्या ध्वनिगतवर्णोच्चारणक्रमानुसारिसंस्कारेण व्यञ्जकानेकगतगत्वकत्वादिनानारूपरूषिततया नानात्वेन भासमानाया नानाजात्यवच्छिन्नघटदिनापदार्थेपस्थापकत्वेन, युगपदनेकार्थोपस्थितेः, सरो रस इत्यनयोरविशेषस्य च प्रसंगो न, तत्तदर्थोपस्थापकतत्तद्धर्मरूषणरूपाभिव्यञ्जनसामग्ययभावात् । `अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता' इति हरिवचनात्" अत्यादिना सविस्तरं तत्स्वरूपं प्रपञ्च्य, स च स्फोट आन्तरोऽर्थवाचकः, वाच्योऽप्यर्थो बुद्धिसत्तासमाविष्टिः (बौद्धः) अन्यथा `शशश्रृङ्गं नास्ति, घट इत्यनेनैव तत्सत्तावगमेन घटोऽस्तीति गतार्थत्वात् अस्तीति प्रयोगानापत्तिश्च । बौद्धस्य पदार्थस्यागीकारे तु बुद्धसतो बाझसत्ता तदभावबोधनाय अस्ति नासितीति प्रयोग उपपद्यते । अतः सर्वे पदार्था बौद्धा एव, बाझसत्त्वं संवादमात्रमिति पदार्थसामान्यस्य बुद्धसत्तासमर्थनप्रघट्टके `भ्रमे ज्ञानाकारस्यैव विषये आरोप' इत्यादिना, भ्रमप्रकाररजतादेरसत्त्वमुक्त्वा `प्रपञ्चोऽप्येवमेव' इत्यादिना `अलं प्रसक्तानुप्रसक्त्या' इत्यन्तेन प्रबन्देन आत्मैकत्वं, ब्रझैकमेव यत् तदतिरिक्तं समस्तं जगत् मायिकं, जगतो ब्रझ विवर्तोपादानकारणम्, तत्त्वं च भ्रमाधिष्ठानत्वम्, जगतो मायिकत्वं च भ्रमप्रकारत्वमित्यादि प्रथमपिरिच्चेदे, इत्तरत्र परिच्छेदत्रयेऽपि तत्र तत्र आत्मैकत्वादि च न्यरूरुपत् । तत्र मायास्वरूपविचारप्रसङ्गे श्रीशङ्करभाष्टव्याक्यानदूषणं तन्मतसिद्धानाद्भावरूपाऽविद्याखण्डनं च विशेषतः कृतम् । तत्र प्रसक्तिस्तु चिन्त्या । प्रकृतमनुसरामः ।
तत्र ब्रझ सत्यमित्यत्र विना चार्वाकादिभ्यो नाऽन्यः कश्चिद्विप्रतिपद्यते । वस्तुसामान्यस्य मायिकत्वोक्तिं तु न क्षमन्ते लोकाः । प्रपञ्चितं चेदं सप्रपञ्चं परापरतत्त्वविचाराय प्रवृत्तैराचार्यैः स्वस्वप्रबन्धेषु । ननु भवतु नाम इदमन्येषामाचार्यणामनभिमतं, पाणिन्यादीनां तु अभीमतमिदमिति वदामो नागेसेन म़्जूषायां `वैयाकरणे' त्यादि प्रतिज्ञापूर्वं प्रतिपादनात् इति चेत्, अत्राप्याहु --आचार्यः पाणिनिरात्मैकत्वसिद्धान्तव्यवस्थापनाय न शास्त्रमिदं प्रारभतेति जानीमः, यतोऽयमादौ शब्दसंस्काशास्त्रोपयोगि संज्ञाकाण्डमेवारभत्, भगवान् भाष्यकारोऽपि `अथशब्दानुशासनम्. केषां शब्दानाम्' इत्यादिनाऽस्यशास्त्रस्य विषयः शब्दाः, तज्ज्ञानं च प्रयोजनमित्यभाषत । एतेन `अथातः शब्दान् व्याकरिष्याम' इति प्रतिज्ञां मनसिकृत्यैव शास्त्रमारभत आचार्य इति शेखरयोर्वदन्नागेशोऽपि शब्दा एवास्यशास्त्रस्य विषय इति मन्यते । यद्येवं तर्हि वासुदेवं सर्वोत्तमं मन्यते भगवान् पाणिनिरिति कथं परः प्रहेति तात्पर्यवन्त इति केचित् मन्वीरन् । माभूत्तादृशो।डभिमानः । आचार्याणां तु न तथा तात्पर्यं, हेत्वभावात् । आत्मभेद एव तेषां तात्पर्यं हेतुदर्शनात् इति समर्थयितुं पारयन्ति परेऽपि पण्डिता इति बोधनाय परवृत्तेः । मञ्जूषादौ प्रतिपादितात्मैकत्वादौ इदमत्र प्रमाणं भवतीति पाणिन्यादिवचनानिदाहकणमेव तस्य तत्संमतत्वाभावे प्रबलं वचनमिति औपनिषदः, नागेसादयो यद्भाष्यं स्वोक्तार्थे प्रमाणतयोपन्यस्यन्ति तदेव भाष्यमात्मैकत्वसिद्धान्तव्यवस्तापकमिति तु मनोरथमात्रम्, तस्य भाष्यस्य नागेशाद्युक्त एवार्थ इति राजशासनाद्यभावेन श्रुत्याद्यनुरोदेन अन्यथा योजयितुं शक्यत्वात् । सेखरादौ स्वाभिमतप्रक्रियासमर्थनाय प्रमाणतया उदाहृतं महाभाष्यमन्यथा योजयित्वा शेखराद्युक्तनिष्कर्षं निराकुर्वन्ति निपुणमतयः प्राञ्चोऽर्वाचीनाश्च पण्डिता इति प्रवचनपरायणा वैयोकरणा जानन्त्येव । एवं स्थिते परमास्तिकशिरोमणेः पतञ्जलेर्वाक्यस्य नागेशादिकृतां श्रुत्यादिप्रमाणविरुद्धां योजनामध्यात्मविद्यविशारदाः कथं साध्वीं मन्येरन् ।