श्रीशत्रुघ्नकवचम्
[[लेखकः :|]]

॥ श्रीमदानन्दरामायणांतर्गत श्री शत्रुघ्न कवचं ॥

अगस्तिरुवाच
अथशत्रुघ्न कवचं सुतीक्ष्ण श्रुणु सादरं ।
सर्वकाम प्रदं रम्यं रामसद्भक्ति वर्धनं ॥ १॥

शत्रुघ्नं धृतकार्मुकं धृत महा तूणीर बाणोत्तमं
पार्श्वे श्रीरघुनन्दनस्य विनयात्वा मेस्थितं सुन्दरं ।
रामं स्वीय करेण तालजलजं धृत्वातिचित्रं वरं
सूर्याभं व्यजनं सभास्थित महंतं विजयंतं भजे ॥ २॥

अस्य श्री शत्रुघ्न कवचमन्त्रस्य अगस्ति ऋषिः ।
श्री शत्रुघ्नो देवता ।
अनुष्टुप् छन्दः ।
सुदर्शन इति बीजं ।
कैकेयी नन्दनः शक्तिः ।
श्रीभरतानुज इति कीलकं ।
भरतमन्त्रीत्यस्त्रं ।
श्री रामदास इति कवचं ।
लक्ष्मणांशज इति मन्त्रः ।
श्रीशत्रुघ्न प्रीत्यर्थं सकलमनः
कामनासिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुळी न्यासः ।
ॐ शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः ।
ॐ सुदर्शनाय तर्जनीभ्यां नमः ।
ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ॐ भरतानुजाय अनामिकाभ्यां नमः ।
ॐ भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः ।
ॐ श्री रामदासाय करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः ॥
ॐ शत्रुघ्नाय हृदयाय नमः ।
ॐ सुदर्शनाय शिरसे स्वाहा ।
ॐ कैकेयीनन्दनाय शिकायै वषट् ।
ॐ भरतानुजाय कवचाय हुं ।
ॐ भरतमन्त्रिणे नत्रत्रयाय वौषट् ।
ॐ श्री रामदासाय अस्त्राय फट् ।
ॐ लक्ष्मणांशजेति दिग्बन्धः ॥

अथ ध्यानम् ॥
रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकं ।
कैकेयीनन्दनं सौम्यं मुकुटेनादि रञ्जितं ॥ १॥

रत्नकङ्कण केयूर वनमाला विराजितं ।
रशना कुण्डलधरं रत्नहार सुनूपुरं ॥ २॥

व्यजनेन वीजयन्तं जानकी कान्तमादरात् ।
राम न्यस्तेक्षणम् वीरं कैकेयी तोषवर्धनं ॥ ३॥

द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितं ।
सुभुजं सुन्दरं मेघश्यामळं सुन्दराननं ॥ ४॥

रामवाक्ये दत्तकर्णं रक्षोघ्नं कड्ग धारिणं ।
धनुर्बाणधरं श्रेष्ठं धृततूणीर मुत्तमं ॥ ५॥

सभायां संस्थितं रम्यं कस्तूरि तिलकाङ्कितं ।
मकुटस्थावतंसेन शोभितं च स्मिताननं ॥ ६॥

रविवंशोद्भवं दिव्यरूपं दशरथात्मजं ।
मधुरावासिनं देवं लवणासुरमर्दनं ॥ ७॥

एवं ध्यात्वा तु शत्रुघ्नं रामपादेक्षणम् हृदि ।
पठनीयं वरं चेदं कवचं तस्य पावनं ॥ ८॥

कवच प्रारंभः ॥
पूर्वेत्ववतु शत्रुघ्नः पातुयांये सुदर्शनः ।
कैकेयी नन्दनः पातु प्रतीच्यां सर्वदा मम ॥ १॥

पातूदीश्यां रामबन्धुः पात्वधो भरतानुजः ।
रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥ २॥

सर्वतः पातु मामत्र कैकेयी तोषवर्धनः ।
श्यामलाङ्गः चिरः पातु भालं श्रीइलक्ष्मणानुजः ॥ ३॥

भृवोर् मध्ये सदा पातु सुमुखोत्रावनीतले ।
श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥ ४॥

कर्णौ कुण्डलकर्णोव्यात् नासाग्रं नृपवंशजः ।
मुखं मम युवा पातु वाणीं पातु स्फुटाक्षरः ॥ ५॥

जिह्वां सुबाहुतातोव्यात्यूपकेतुपिता द्विजान् ।
चिबुकं रम्यचिबुकः कण्ठं पातु सुभाषणः ॥ ६॥

स्कन्धौ पातु महातेजाः भुजौ राघव वाक्यकृत् ।
करौ मे कङ्कणधरः पातु खड्गी नखान् मम ॥ ७॥

कुक्षिं रामप्रियः पातु पातु वक्षो रघूतमः ।
पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥ ८॥

जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः ।
कटिं भरतमन्त्री मे गुह्यं श्री रामसेवकः ॥ ९॥

रामर्पितमनाः पातु लिङ्गमूरू स्मिताननः ।
कोदण्डपाणिः पात्वत्र जानुनी मम सर्वदा ॥ १०॥

राममित्रः पातु झङ्घे गुल्फौ पातु सुनूपुरः ।
पादौ नृपतिपूज्योव्यात् आन्त्रौ पातु सुधार्मिकः ॥ ११॥

दिवसे सत्यन्धोव्यात् भोजने शरसत्करः ।
गमने कलकण्ठोव्यात् सर्वदा लवणान्तकः ॥ १२॥

एवं शत्रुघ्न कवचं मया ते समुदीरितं ।
ये पठन्ति नरास्वेतत् ते नराः सौख्य भागिनः ॥ १३॥

शत्रुघ्नस्य वरं चेदं कवचं मङ्गळप्रदं ।
पठनीयं नरैर्भक्त्या पुत्रपौत्र विवर्धनं ॥ १४॥

अस्य स्तोत्रस्य पठेन यं यं कामं नरोर्थयेत् ।
तं तं लभेन्निश्चयेन सत्यमेतद् वचो मम ॥ १५॥

पुत्रार्थी प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।
इच्छा कामं तु कामार्थी प्राप्नुयात् पठनादिना ।
कवचस्यास्य भूम्या हि शत्रुघ्नस्य विनिश्चयात् ॥ १६॥

तस्मादेतत् सदा भक्त्या पठनीयं नरैः शुभं ।
आदौ नरैर्मारुतेश्च पठित्वा कवचं शुभं ॥ १७॥

ततः शत्रुघ्न कवचं पठनीयमिदं शुभं ।
पठनीयं भ्रतस्य कवचं परमं ततः ॥ १८॥

इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे श्री शत्रुघ्नकवचं संपूर्णं ॥

"https://sa.wikisource.org/w/index.php?title=श्रीशत्रुघ्नकवचम्&oldid=32704" इत्यस्माद् प्रतिप्राप्तम्