श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् ३

← आह्निकम् २ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ३
[[लेखकः :|]]
आह्निकम् ४ →

वृद्धिरादैच्‌ ।

आताक ऐकार औकारश्च आदेशानादेशसाधारण्येन वृद्धिसंज्ञः स्यात् । प्रदेशा विधौ "वृद्धिरेचि" इत्यादयः । अनुवादे तु "वृद्धिर्यस्याचाम्" इत्यादयः । अत्र छन्दोवत्सूत्राणि भवन्तीत्यतिदेशाद् "अयस्मयादीनिच्छन्दसि" इति भसंज्ञत्वात्पदान्तनिमित्तककुत्वाभावः । जश्त्वोपयोगिनी तु पदसंज्ञाऽस्त्येवेति "वृद्धिरादैजदेङ्‌गुणः" इति संहितया पाठे जश्त्वं भवत्येव । यथा ससुष्टुभा स ऋक्वता गणेनेत्यत्रेति भाष्यम् । दृष्टान्ते कुत्वोपयोगिनी पदसंज्ञाऽस्ति, न तु जश्त्वोपयोगिनीति तु विशेषः । इह तपरत्वमैजर्थम् । तेन त्रिमात्रादीनां न संज्ञेति पूर्वमुक्तम् ।
नचैवं पदान्तत्वाभावाद्दत्वं न स्यादिति वाच्यम् । असन्देहार्थतया पूर्वशेषत्वस्यापि सम्भवात् । दकारस्य तत्कालग्राहकत्वमपि पूर्वं निर्णीतम् ।
स्यादेतत् । कृतमनयोः साधुत्वमितिभाष्यस्वरसाद् आदैच्‌ इति समस्तमेव । अनयोः पदयोरिति तदर्थात् । यद्यपि वृद्धिः आत् ऐजिति पस्पशायां पृथक्‌पदत्वमप्युक्तम्, तथाऽपि तदभ्युच्चयमात्रम् । अनयोः सूत्रखण्डयोरिति व्याख्यानापत्तेः । तस्य च "वृधिरस्मै अविशेषेणोपदिष्टः प्रकृतिपाठे तस्मात्स्त्रियां क्तिन्प्रत्ययः, आदैचोऽप्यक्षरसमाम्नाये उपदिष्टाः" इतिभाष्यविरुद्धत्वात् । चकाराध्याहारप्रसङ्गाच्च । तथा च समाहारे "द्वन्द्वाच्चुदषहान्ताद्" इति समासान्तस्य, इतरेतरयोगद्वन्द्वे तु द्विवचनस्यापत्तिरिति, सत्यम् । समासान्तविधेरनित्यत्वात् समाहारद्वन्द्वस्यैव निर्दोषत्वात् । तत्र ज्ञापकं तु "प्रतेरंश्वादयस्तत्पुरुषे" इतिसूत्रे अंश्वादिगणे राजन्‌शब्दपाठः । प्रतेः परे अंश्वादयोऽन्तोदात्ता इति तदर्थः । "राजाहः सखिभ्यः" इति टचो नित्यत्वे तु चित्त्वादेवान्तोदात्तत्वं स्यात् ।
एवमपाच्चेत्यनुवर्तमाने "स्फिगपूतवीणाञ्जोध्वकुक्षिसीरनामनाम च" इत्यन्तोदात्तविधौ अध्वशब्दोपादानमपि लिङ्गम् । "उपसर्गादध्वनः" इति समासान्तस्य नित्यत्वे अचैव सिद्धेः ।
केचित्तु "द्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ" इतिसूत्रे समा सान्तरहितमूर्द्धग्रहणमिह लिङ्गम् । द्विमूर्द्धा त्रिमूर्द्धा इत्यत्रान्तोदात्तत्वविकल्पार्थं हि तत् । "द्वित्रिभ्यां ष मूद्‌र्ध्नः" इतिसमासान्तस्य नित्यत्वे तु नान्त उक्तबहुव्रीहिरप्रसिद्ध एव स्यात् । द्विमूर्द्ध इत्यादेरकारान्तत्वात् । समासान्तानां समुदायावयवत्वात् । न च समासान्तानानुत्तरपदान्तावयवत्वद्वारा समासान्तत्वमित्यस्यापि भाष्यरूढत्वात् षप्रत्ययविशिष्टस्यापि मूर्द्धन्‌शब्देन ग्रहणं सम्भवत्येवेति द्विमूर्द्धास्त्रिमूर्द्ध इति अकारान्तएव बहुव्रीहौ विकल्पार्थं तदिति वाच्यम् । तत्पक्षस्याभ्युच्चयमात्रत्वात् । मूर्द्धेष्वित्यपहाय बहुब्रीहिगर्भगुरुन्यासारम्भात्सूत्रकृत्‌संमतत्वाभावाच्च । न च द्वौ पादयति द्विपात् द्वयोर्दन्तान् द्विदतः पश्येति तत्पुरुषवारणाय ब्रहुव्रीहिग्रहणावश्यकत्वे मूर्द्धेषु इतिन्यास एव गौरवमिति कथं ज्ञापकत्वमिति वाच्यम् । समासान्तविशिष्टमूर्द्धशब्दसाहचर्येण पाद्दच्छब्दयोरिप बहुव्रीह्यवयवयोरेव ग्रहणसम्भवे बहुव्रीहिग्रहणस्यानावश्यकत्वात् ।
एतेन "द्वित्रिभ्यां पाद्दन्" इतिसूत्रे बहुव्रीहिग्रहणमेवोक्तपरिभाषाज्ञापकम् । अन्यथा पाद्दन्मूर्द्धेष्वित्येव निर्द्देशेत् । कृतसमासान्तशब्दप्रक्रमाच्च । बहुव्रीहिभिन्नं च समासान्तविरहादेव वारयिष्यते, इति कौस्तुभोक्तिर्निरस्ता ।
यथान्यासेऽपि षप्रत्ययान्ते उक्तसूत्रस्याप्रवृत्तेरुक्ततया तस्य लक्ष्यत्वमङ्गीकृत्य बहुव्रीहिग्रहणस्य ज्ञापकत्वोक्तेरङ्गतत्वात् । लक्ष्यभेदाभ्युपगमेन ज्ञापकत्वोक्तेरसाम्प्रदायिकत्वात् ।
यदपि द्विदतः पश्येत्यत्र कथं दद्भावः, "पद्दन्नोमास्" इति सूत्रे तदन्तविध्यभावादित्याशङ्क्य ष्यङः सम्प्रसारणसूत्रस्थपूर्वपक्षन्यायेन "सिद्धं त्ववयवानन्यत्वाद्" इत्याष्टमिकभाष्यवार्त्तिकन्यायेन चावयवस्य कार्यलाभादिति तत्रोक्तम् । तदपिचिन्त्यम् । शसादिषु परतः पूर्वेषां पादादीनां पदाद्यादेशविधानाच्छङ्कोत्तरयोरसङ्गतत्वात् ।
एतेन "द्वित्रिभ्यां ष मूद्‌र्ध्नः" इति षचं विहाय षप्रत्ययविधानमपि ज्ञापकम् । तद्धि षचश्चित्त्वसामर्थ्यलभ्यमन्तोदात्तत्वम् "बहुव्रीहौ प्रकृत्या" इति पूर्वपदप्रकृतिस्वरवत् "द्वित्रिभ्यां पाद्दन्‌मूर्द्धसु" इति अन्तोदात्तविकल्पमपि मा बाधिष्टेत्येतदर्थं विकल्पस्य क्वचित् सावकाशत्वे सत्येव सङ्गच्छते । अवकाशश्च समासान्तानामनित्यत्वएव लभ्यते । त्रिमूर्द्धानं सप्तरश्मिं गृणीषे इतियथा इत्यपि परास्तम् ।
द्विमूर्द्ध इत्यादौ कृतसमासान्ते तत्सूत्रस्य न प्रवृत्तिरित्युक्तत्वात् । चित्त्वसामर्थ्यलभ्यान्तोदात्तत्वस्य तद्विकल्पबाधकत्वशङ्कानुपपत्तेः । अस्तु वा तत्र विकल्पप्रवृत्तिः, तथाऽपि नोक्तज्ञापकत्वम् । चित्स्वरस्य "बहुव्रीहौ सक्थ्यक्ष्णोः" इतिपूर्वसूत्रविषये फलकसक्थो विशालाक्ष इत्यादौ चरितार्थत्वाद्विकल्पबाधकत्वानुपपत्तेः । न च "द्वित्रिभ्याम्" इति षचो यच्चित्त्वं तदचरितार्थमेवेति वाच्यम् । पूर्वसूत्रीयस्यैवात्रानुवृत्तेः । अन्यथा प्रत्याहाराह्निके "आत" इति कप्रत्ययकित्त्वमाकारैकदेशस्यातो लोपो न भवतीत्यत्र न ज्ञापकम्, "तुन्दशोकयोः परिमृजापनुदोः" इत्युत्तरसूत्रे चरितार्थत्वाद् इतिभाष्योक्त्यनुपपत्तेः । न चैवं षप्रत्ययविधानवैयर्थ्यमेव स्यादिति वाच्यम् । उक्तान्तोदात्तविकल्पस्य समासान्ताभावपक्षएव प्रवृत्तेर्व्यवस्थापितत्वात् । "द्वित्रिभ्याम्" इत्यत्रापि षट्‌प्रत्ययविधाने चित्त्वबललभ्यान्तोदात्तत्वस्य निरपवादत्वात् द्विमूर्द्ध इत्यादौ तदेव स्यात् । षप्रत्यये तु पूर्वपदप्रकृतिस्वर एवेति वैषम्येन तत्सार्थक्यादित्याहुः ।
तत्रेदं चिन्त्यम् । समासान्ताभावपक्षएवोक्तान्तोदात्तविकल्प इति तावदाकरविरुद्धम् । यद्यत्र षच्‌ स्यात्तदा नित्यमन्तोदात्तत्वं स्यात् । "द्वित्रिभ्याम्" इति विभाषाऽन्तोदात्तत्वं तु यदा समासान्तविधेरनित्यत्वात् द्विमूर्द्धेति समासान्ताभावः, तदा सावकाशम् । षे तु सति समासान्तपक्षेऽपि पक्षेऽन्तोदात्तत्वम् पक्षे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वमिति स्वरद्वयसिद्धिरिति तत्रत्यभाष्यकैयटयोरुक्तत्वात् । तथा चोक्तकल्पनं निर्मूलत्वादेव हेयम् । मूर्द्धस्विति निर्देशस्योक्तज्ञापकत्वं तु भाष्यादावेव स्पष्टम् । अत एव मूर्द्धेष्विति न्यासानारम्भादुत्तरपदावयवाः समासान्ता इतिपक्षस्य सूत्रानभिमतत्वमिति निरस्तम् । समासान्ताभावपक्षेऽपि विकल्पप्रवृत्त्यर्थतया तादृशन्यासपरित्यागोपपत्तेः । अत एव षप्रत्ययविधानादपि तत्पक्षस्य सूत्रानभिमतत्वमित्यपास्तम् । समासान्तपक्षेऽप्यन्तोदात्तविकल्पार्थत्वात् ।
यदप्युक्तम्---"समासान्ताः" इतिसूत्रे समासान्तानां साक्षादेव समासान्तत्वमितिपक्षस्य भाष्ये व्यवस्थापितत्वात् द्विधुरी त्रिधुरीत्यत्र "अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते" इतिवार्त्तिकानुरोधेन समासार्थादुत्तरपदात्समासान्तः क्रियतइतिपक्षस्य लिखितत्वेऽपि "समासान्ताः" इतिसूत्रे अकारान्ताद् द्विगोरित्युत्तरपदशब्दरहितवार्त्तिकपाठेन द्विधुरीत्यादेः साक्षात्समासान्तत्वपक्षेऽपि साधितत्वात् । वार्त्तिकगतोत्तरपदशब्दमात्रमूलकस्य समासान्तानामुत्तरपदावयवत्वपक्षस्याश्रयेण द्विमूर्द्ध इत्यादावन्तोदात्तविकल्पप्रवृत्तिकल्पनमपेक्ष्य साक्षात्समासान्तत्वपक्षमाश्रित्य द्विमूर्द्ध इत्यादौ कृतसमासान्ते तद्विकल्पप्रवृत्तिर्नेत्येव कल्पयितुमुचितत्वादुक्तरीत्यैव गुरुसूत्रन्यासषविधानयोः सार्थक्यमिति ।
तदप्यसत् । तत्पक्षावलम्बनेन कृतसमासान्तेऽपि विकल्पप्रवृत्त्यैव भाष्याद्युक्तया गुरुन्याससार्थक्यात् । "सरूपाणाम्" इतिसूत्रे उत्तरपदान्ताः समासान्ता इतिपक्षस्यापि भाष्यसंमतत्वेन कैयटोक्तत्वाच्च । "गोस्त्रियो" इतिसूत्रे "कपि प्रतिषेधः" इतिवार्त्तिकप्रत्याख्यानाय भाष्यकृता उक्तपक्षस्य साक्षादेव लिखितत्वाच्च ।
यदप्युक्तं "द्वित्रिभ्यां पाद्दन्‌" इतिसूत्रभाष्यपर्यालोचनया तत्पक्षस्य द्विमूर्द्ध इत्युदाहरणस्य च भाष्यानभिमतत्वं स्पष्टमेव । तथा हि । अकारान्तस्य ग्रहणे नकारान्तस्योपसंख्यानम्, नकारान्तग्रहणे त्वकारान्तस्य । उत्तरपदस्य कार्यित्वे समासान्ते कृते उत्तरपदे विधीयमानस्यान्तोदात्तत्वस्य प्रत्यये प्राप्त्यभावादित्युक्त्वा द्वितीयपक्षे उत्तरपदान्तोदात्तत्वे शेषनिघातेन प्रत्ययस्यानुदात्तत्वे टिलोपे उदात्तनिवृत्तिस्वरेण प्रत्ययोदात्तत्वम् । न चोत्तरपदान्तोदात्तत्वात्पूर्वमेव परत्वाट्टिलोप इति वाच्यम् । समासान्तार्त्पूमेव परत्वादन्तोदात्तप्रवृत्तेः । तदा च टिलोपप्राप्त्यभावात् । न च कृताकृतप्रसङ्गितया नित्यत्वात्पूर्वं समासान्तः । अन्तोदात्तस्यापि तथात्वात् । न च कृते समासान्ते उत्तरपदान्तोदात्तत्वं न प्राप्नोति, परत्वात् टिलोपेन बाधादिति वाच्यम् । लोपेन तन्निमित्तविघातेऽपि समासान्तेन तदविघातात् । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यत्वमिति स्वीकारादिति ।
तदपि चिन्त्यम् । किमत्र उत्तरपदान्ताः समासान्ता इतिपक्षो नास्तीत्यभिमतम्, किं वा द्विमूर्द्ध इत्यादौ नोक्तविकल्प इति । नाद्यः । यदा कृते समासे समासान्त इतिपक्षः, तदेयं सम्प्रधारणा, यदा तु समासार्थादुत्तरपदात्समासान्तः क्रियते इतिपक्षः तदा सम्प्रधारणैव नास्तीति कैयटेनैवोक्तत्वात् । नान्त्यः । तदुत्तरमेव हि कैयटेन व्याख्यातम्---
यदि नित्यः समासान्तः स्यात्तदा कार्यिविशेषसन्देहव्यावृत्तये प्रक्रमाभेदाय वा समासान्त एवोच्चार्येत । तदनुच्चारणात्तु समासान्तस्यानित्यत्वं ज्ञाप्यते । तत्र यदा समासान्तो नास्ति तदा समासस्योत्तरपदस्य वा कार्यित्वे विशेषाभावः । यदा तु समासान्तः क्रियते तदा समासस्य कार्यित्वे समासान्तस्योदात्तत्वम् । यदाऽप्युत्तरपदस्य कार्यित्वम्, तदा परत्वादन्तोदात्तत्वे कृते समासान्तः । तत्र टिलोपे उदात्तनिवृत्तिस्वरेणापि सिद्धम् । ननु प्रत्ययस्वरेण समासान्तस्य भाव्यम्, नैतदस्ति । बहुव्रीहिस्वरेण तस्य बाधात् । बहुव्रीहिस्वरस्याप्यनेनेति ।
अनेन च द्विर्मूर्द्ध इत्यादौ पाक्षिकोदाहरणत्वस्यापि लाभात् ।
अत एव षप्रत्यये पूर्वपदप्रकृतिस्वर एवेत्यपि कल्पनं निरस्तम् ।
यदप्युक्तम् । मूर्द्धसु बहुव्रीहौ" इति गुरुनिर्देशस्योक्तपक्षावलम्बनेन कथंचित् सार्थक्येऽपि षप्रत्ययविधानस्य तदसम्भवः । षचिश्चित्त्वसामर्थ्यलभ्यान्तोदात्तस्य पूर्वसूत्रविषये चरितार्थस्य द्विमूर्द्ध इत्यादौ परेणान्तोदात्तविकल्पेन बाधसम्भवात् । न च चित्त्वप्रयुक्तमान्तोदात्तत्वं पूर्वपदप्रकृतिस्वरमेव बाधते न तूक्तविकल्पमित्यत्र विनिगमकाभावः । कक्षया कक्षा निमातव्येतिभाष्योक्तन्यायेन तत्सिद्धेः । पूर्वकक्षाप्राप्तानामुत्तरकक्षाप्राप्ता बाधका इति तदर्थात् । अत एव प्रथमकक्षाप्राप्तयोर्यण्‌गुणयोः सवर्णदीर्घः, तस्य च "अतो गुणे" इति तृतीयकक्षाप्राप्तं पररूपं बाधकम् । प्रकृतेऽपि प्रथमकक्षायां "समासस्य" इत्यन्तोदात्तत्वम्, द्वितीयायां पूर्वपदप्रकृतिस्वरत्वम्, तस्य च षचश्चित्त्वसामर्थ्यलभ्यमन्तोदात्तत्वम् उक्तविकल्पश्चेति तृतीयकक्षागतं बाधकद्वयम् । तत्रापवादविप्रतिषेधे परत्वादत्तोदात्तविकल्प एव भविष्यतीति प्रकृतेन षचैव सिद्धेरिति ।
तदपि चिन्त्यम् । षचो विधाने तस्य च नित्यत्वे विकल्पस्य चित्स्वरनिर्मुक्तविषयाभावेन विप्रतिषेधायोगात् । समासान्ताभावपक्षे विकल्पस्य सावकाशत्वमित्युक्तौ तु तस्य समासान्तपक्षविषयकत्वे प्रमाणाभावात्समानविषयकत्वाभावेन तदयोगात् । नित्यविधेर्वैकल्पिकविधिविषये प्रवृत्त्यसम्भवात् । तथा च निरवकाशत्वादेव विकल्पसिद्धौ षप्रत्ययविधानं विकल्पस्य सावकाशत्वमाक्षिपत् तत्प्रयोजकतया समासान्तविधेरनित्यत्वं ज्ञापयतीति दिक् ।
नन्वत्र कुत्वप्राप्तिरेव नास्ति । लौकिकवैदिकशब्दानामेव व्युत्पाद्यत्वाद् इति चेत् अत्राहुः---
अनेकशक्तेः शब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वादादैच्छब्दस्यानुकरणशब्दत्वाज्जातिशब्दत्वाद्वा शास्त्रप्राप्तिरस्तीति ।
लौकिकत्वादादैच्छब्दस्य शास्त्रप्राप्तिरस्तीति सम्बन्धः । तत्र नित्यत्वादिति हेतुः । आदैच्छब्दस्य आकारादौ तद्भिन्ने च साङ्केतिकशक्तेः सत्त्वात् । नन्वेवं संज्ञाविधानवैयर्थ्यम् । अतः शक्त्यवच्छदेनेति । स च शक्तिसङ्कोचः । इदं पदमेतदर्थं बोधयत्वितिव्यक्तिविशेषबोधकत्वप्रकारकेच्छाविशेष्यत्वमिति यावत् । संज्ञिनि उक्तेच्छायां विशेष्यतासम्बन्धेन विशेषणीभूते बोधे विशेष्यतासम्बन्धेन विशेषणीभूतायां व्यक्तौ विनियोगात् । उक्तसङ्केतज्ञानसहकारेण तद्विषयकशाब्दधीजनकत्वव्यवस्थापनात् । उक्तं च---
व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित् ।
नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ।।
वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ।।
तथा चात्र शास्त्रे वृद्धिशब्देनादैच एव बोध्या इतिनियमार्थं संज्ञाविधनमित्यर्थः । नित्यत्वादित्युपपादयति---अनेकशक्तेरिति । अनेकस्मिन्ननेका वा शक्तिर्यस्य अर्थगतप्रवृत्तिनिमित्तविशेषानपेक्षतया वक्तृतात्पर्यविषययत्किञ्चिद्व्यक्तिबोधनसमर्थस्य । न च "न कोपधायाः" इति पुंवद्भावनिषेधः । तद्धितवुग्रहणस्य तत्र वक्ष्यमाणत्वात् । अनेकविषया शक्तिर्यस्येति विवरणवाक्यं तु सप्तम्यर्थो विषयत्वमित्यभिप्रायकम् । अवच्छेदकभेदेऽपि लाघवादेकैव शक्तिः । औपाधिकभेदस्योपाधिभेदमात्रे पर्यवसानादित्याद्यः पक्षः । शक्तिभेदपक्षे द्वितीयः । ननु न सन्ति यदृच्छाशब्दा इति ऋल़क्‌सूत्रे वार्त्तिके व्यवस्थितत्वात्कथमेतत्---
अतः अनुकरणेति । नन्वनुकार्यानुकरणयोरभेदविवक्षायां सुवनुत्पत्तौ पदत्वाभावात्कुत्वाप्राप्तिः । भेदविवक्षायां तु प्रदेशान्तरप्रयुक्तस्यैबादैच्छब्दस्यात्र प्रत्ययादाकारादीनामग्रहणात्संज्ञित्वानुपपत्तिः---अतः जातिशब्दत्वादिति । ऐकारादिव्यक्तिद्वये ऐजित्यनुगतप्रत्ययादैच्‌त्वम् ऐकारादिनिष्ठप्रातिस्विकजातिद्वयव्यापकः सामान्यविशेषः । द्रव्यत्वादिवदेतत्स्वीकारेऽपि बाधकाभावादिति । तन्न । देवदत्तीयत्वाद्यनुमापकजातिविशेषैः सह साङ्कर्यात् । गुणगतजातौ तन्न दोष इत्यस्य निर्मूलत्वात् । अनुगतप्रत्ययस्य "आदिरन्त्येन" इत्येतत्‌सूत्रविहितसंज्ञौपाधिकत्वेनातिरिक्तविषयकत्वाभावाच्च ।
यदपि सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जातित्वस्वीकारादिहापि साऽस्तु । व्यक्तिविशेषाश्च स्वरूपसत्ताऽतद्भेदेनानुगतीकृताः ।
सत्तोपधायकास्तस्यां सर्वे शब्दा व्यवस्थिताः ।
इति हरिवचनादिति, तदपि तथैव । तन्मतेऽपि जातिबाधकानामनुसरणीयत्वात् । कल्पकस्यापेक्षणीयत्वाच्च । न हि तार्किकाणामेव स कुलधर्मः । सौगतैरप्युपगमात् । तदुक्तं कुसुमाञ्जलौ---
जात्योरतद्व्यावृत्त्योर्वा समाविष्टयोः परापरभाव एवेति । न चानुमापकजातीनां नानात्वस्वीकारपक्षे सङ्करोऽनवकाश इति वाच्यम् । तथाऽप्यतिरिक्तजातिकल्पने मानाभावात् । तस्मादनुकार्यनिष्ठामैत्वादिजातिमेवादाय जातिशब्दत्वम् । ऐत्वादिसामान्यमस्तीति विवरणस्याप्यत्रैव तात्पर्यम् । कुत्वशब्देऽपि कुशब्दस्य तद्वर्गीयवर्णमात्रे संकेतितत्वेन तदुत्तरत्वप्रत्ययस्य कत्वादिजातिपञ्चकं वाच्यम् । प्रकृत्यर्थप्रकारस्य त्वशब्दार्थत्वात् । तथा च प्रकृते केतरासमवेतत्वे सति सकलककारसमवेतत्वरूपकत्वत्वेन कत्वोपस्थितौ बाधबलाच्चकारे कत्वजातेरापादयितुमशक्यत्वात् स्वाश्रयव्यक्तिद्वारैवाऽऽपत्तिपर्यवसानात् चकारस्य ककार आदेशः कुतो न भवतीति भाष्यार्थः । एवं सर्वत्रावप्तेयम् ।
स्यादेतत् । शाब्दबोधे प्रथमनिर्दिष्टमुद्देश्यम् परनिर्दिष्टं विधेयमिति सर्वसिद्धम् ।
यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ।
तच्छब्दयोगः पश्चात्त्वं साध्यत्वं च विधेयता ।।
इत्यभियुक्तोक्तेः । तत्कथमत्र आदैजुद्देशेन वृद्धिसंज्ञा विधीयतइति चेत्, उच्यते । आदैच्‌शब्देन प्रदेशेषु व्यवहाराभावात् तस्य निर्ज्ञातार्थत्वात् वृद्धिशब्दस्य च वैपरीत्यात् उद्देश्यत्वासम्भवात् वृद्धेरेव संज्ञात्वे निर्णीते विपरीतानुपूर्वीकल्पनेन वृद्धिसंज्ञाविधानम् । न चैवं पौरुषेयत्वेन तस्याप्रामाण्यापत्तिः । शास्त्रतात्पर्यविषयत्वस्यैव तत्प्रयोजकत्वात् । अन्यथाऽश्वाभिधानीमादत्तइत्यादेर्गर्दभाभिधान्यादिव्यावृत्तौ प्रामाण्यानापत्तेः । "डः सि धुट" इत्यादावुभयनिर्द्देशे पञ्चमीनिर्देशो बलीयानिति पञ्चम्या कल्पितस्य सप्तम्यन्ते सीतिशब्दे षष्ठ्यन्तत्वस्य तथात्वापत्तेश्च । मङ्गलार्थं चात्र वृद्धिशब्दस्य प्राक्‌प्रयोगात् । न चाचार्यस्य मिथ्याज्ञानवासनाराहित्येन दुरितसामान्यशून्यत्वात्तद्विशेषविघ्नसन्देहस्याप्यभावाच्च किमर्थं तदिति वाच्यम् । तथाऽपि परमकारुणिकतया सर्वसिद्धशिष्टत्वकस्वाचारविषयत्वेन हेतुना शिष्याणामभिमतकर्मारम्भसमये मङ्गलस्यावश्यकर्त्तव्यत्वानुमितिसिद्ध्यर्थं तेषामेवाऽऽनुषङ्गिकमङ्गलसम्पत्तिनिबन्धनस्वग्रन्थाघ्ययनसिद्धिमूलकवैदुष्यवशात् पूर्वोक्तरीत्याऽनेककर्माधिकारे यजमानस्य ऋत्विक्‌प्रयुक्तदृष्टादृष्टानेकफलसम्पत्त्यर्थं निष्कामकृतैश्च तैरेव कर्मभिरन्तः करणशुद्धिद्वारा परमपुरुषार्थापवर्गसिद्ध्यर्थं च तदुपपत्तेः ।
यत्तु "व्यवहाराय नियमः" इतिपक्षे अत्र शास्त्रे वृद्धिशब्देनादैच एव बोध्या इति यथाश्रुतमेव सम्यगिति । तन्न । विधिसामानानुपूर्वीकत्वस्य नियमेऽप्यपेक्षितत्वात् । प्राप्तार्थत्वेन तदितरव्यावृत्तौ तात्पर्यमित्येतावतैव तत्र भेदात् । अन्यथा "अदेङ्गुणः" इत्यादौ विपरीतानुपूर्वीकल्पनापत्तेः । व्रीहीनवहन्तीत्यादावपि व्रीह्युद्देशेनैवावघातस्य विधेयत्वात् ।
यदपि "यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते" इतिपक्षेऽपि कार्यकालपक्षमाश्रित्य "मृजेर्वृद्धिः" आदैचो भवन्तीत्यर्थाद् यथाश्रुतमेव साधु । तत्र च तपरत्वमनुपयुक्तमेव । भाव्यमानत्वेन सवर्णग्राहकत्वाप्रसक्तेः । यथा ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेव सामानादिकरण्यान्नामधेयत्वावगतिः न तु वाक्यान्तरेण, तथा अस्मिन् पक्षे वृद्ध्यादिशब्दानामपि । "वृद्धिरादैच्‌" इति तु "इको गुणवृद्धी" इतिवत् पदोपस्थापकम् । उपस्थाप्यस्य संज्ञितया तु संज्ञासूत्रत्वव्यवहारः । न च "वृद्धिर्यस्याचाम्" इत्यादावनुवादे आदैचां सवर्णग्राहकत्वं स्यादिति वाच्यम् । तादृशलक्ष्याभावात् । अनेकशक्तिकल्पनापत्तेश्च । विधिवाक्यस्य प्राधान्यात्तत्र निर्णीतस्यैवार्थस्यान्यत्र ग्रहणाच्चेत्यादि ।
तदपि चिन्त्यम् । ऋकारस्थाने त्रयाणामादेशानां प्रसङ्गात् । अन्यथा विध्यर्थानिष्पत्तेः । अत एव "भाव्यमानत्वादैचो ग्राहका न भविष्यन्ति, नैतदस्ति, नह्यत्र संज्ञाविधावैचो भाव्यन्ते" इति कैयटः । "कार्यकालपक्षाश्रयेण शङ्का, यथोद्देशपक्षेण परिहारः" इति विवरणकृतः । तस्मादत्र यथोद्देशपक्ष एव ग्राह्यः ।
अत्रेदमवधेयम् । वृद्धिशब्दो वृद्धिशब्दवाच्ये लाक्षणिकः । न च तस्य प्रथममनुपस्थितिः । वृद्धिपदं किञ्चिदर्थवाचकमितिज्ञाने कश्चिदर्थो वृद्धिशब्दवाच्योऽस्तीति सामान्यतस्तदुपस्थितिसत्त्वात् । तस्याभेदः संसर्गः । तथा च आदैचो वृद्धिशब्दवाच्याभिन्ना इतिधीः । ततश्चास्यां बुद्धौ वाच्यत्वं यत्र विशेषणं स संज्ञी । वाच्यत्वे यद्विशेषणं सा संज्ञा । "इन्द्रो मरुत्वान्मघवा" इत्यादावप्ययमेव प्रकारः । एकपदशक्तिग्रहस्य प्रकारान्तरेणावश्यमपेक्षितत्वात् । तत्पर्यायमात्रशक्तिज्ञानशून्यस्य कोशादितोऽपि शक्तिग्रहाभावात् ।
यत्तु आकारादयो वृद्धिं प्रत्यभेदसंसर्गेण विशेष्या इति । तन्न । वृद्धिं प्रतीत्यस्य हि कोऽर्थः । वृद्धिशब्दं प्रति वृद्धिशब्दार्थं प्रति इति वा । नाद्यः । लक्षणां विना तदलाभात् । लक्षणां विनैवोपपत्तेरित्युत्तरग्रन्थासङ्गतेश्च । न च वृद्धिशब्दवाच्यं किञ्चिदस्तीतिज्ञाने शब्दस्य विशेषणत्वेनोपस्थित्या तस्य लक्षणां विनाऽपि लाभ इति वाच्यम् । स्वतन्त्रोपस्थितये तदावश्यकत्वात् । अभ्युपेत्यापि ब्रूमः । वृद्धिशब्दस्य विशेषणतायामभेदस्य च संसर्गत्वे आदैचो वृद्धिशब्दाभिन्ना इतिबोधः स्यात् । न चेष्टापत्तिः । अयोग्यत्वात् । न च वाच्यत्वं संसर्गः । समविभक्तिकपदोपस्थाप्ययोर्भेदान्वयासम्भवात् । अत एव न द्वितीयः । न च वृद्धिशब्दवाच्यत्वस्याप्युक्तरीत्योपस्थितिसत्त्वात्तस्यैवाभेदेन विशेषणमस्त्विति वाच्यम् । तस्याप्यर्थविशेषं प्रति विशेषणीभूतत्वात् ।
वस्तुतस्तु शाब्दिकमतेऽपि पदस्यैव प्रकारताऽभ्युपगमाद्‌ वाच्यत्वस्य च संसर्गत्वात् वृद्धिपदजन्यः सामान्यशक्तिग्रहमूलको बोधो वाच्यत्वसंसर्गक एव । तथा च वृद्धिपदजन्यायामुपस्थितौ संसर्गतापन्ने वाच्यत्वे पदार्थानामाकारादीनां कथमन्वयः । वाच्यत्वस्य पदजन्योपस्थित्यविषयत्वात् । अन्यथा पर्वतो वह्निमान्गुण इत्यपि स्यात् । संसर्गतापन्ने संयोगे गुणस्याभेदान्वयसम्भवात् ।
ननु वृद्धिशब्दस्य आदैज्वाचकताया अनेकशक्तेरितिन्यायेन सत्त्वाद् घटो नील इत्यादिवत्तदर्थस्यैवाभेदसम्बन्धेनादैचोरन्वय इत्युक्तग्रन्थाभिप्राय इतिचेन्, मैवम् । तथा सत्युद्देश्यतावच्छेदकविधेययोरभेदापत्त्या निराकाङ्क्षत्वाद् घटो घट इतिवाक्यवत् । अत एव शब्दाश्रय आकाशमित्यादिवाक्ये आकाशपदं तद्वाच्यपरम् । व्युत्पन्नं प्रति तद्वाक्यानुपयोगादित्युपायादावुक्तम् ।
यदप्युक्तम् । लक्षणाऽङ्गीकारे विशिष्टविधिपक्षे मत्वर्थलक्षणादोषम् उक्त्वा नामधेयत्वमुद्भिदादिपदानां व्यवस्थापितम् । तन्न स्यात् । नामधेयत्वेऽपि लक्षणायास्तुल्यत्वादिति । तदपि मन्दम् । गुणविधिपक्षे मत्वर्थलक्षणायां गुणांशस्य तद्गतलिङ्गसंख्याकारकादेश्च प्रमाणान्तरानवगतत्वात् तत्सिद्ध्यर्थं विशेषणविधिकल्पनप्रसङ्गात् । नामधेयस्य तु श्रोत्रोपस्थितस्यैव नामार्थत्वाभावाद्वाच्यत्वसम्बन्धेन धात्वर्थयागान्वय इति न तदंशे विधिकल्पनमितिपक्षे शङ्काया एवानवकाशात् ।
नामलक्षणापक्षेऽपि उद्भिच्छब्दस्य तृतीयार्थे वाच्यत्वे तस्य धात्वर्थे यागेऽन्वयकल्पनेऽपि विशेषणविधिकल्पकत्वाभावेन लाघवात् । अन्यथा त्वत्पक्षे सोमेन यजेतेत्यादावपि मत्वर्थलक्षणाऽपेक्षया लक्षणां विनैव नामत्वसिद्धिरिति सोमादिपदमपि नामधेयमेव स्यादिति गुणविधिमात्रोच्छेद इत्यलम् पल्लबितेन ।
वृद्धिपदशक्तिज्ञानस्य चैतत्त्रितयवृत्तितत्तद्धर्मान्यतरप्रकारकज्ञानत्वं कार्यतावच्छेदकम् । न तु तदन्यतरप्रकारकत्वाभाववदवृत्तितदन्यतमप्रकारकत्ववज्ज्ञानत्वम् पुष्पवन्तपदस्येव सूर्यत्वप्रकारकत्वाभावावदवृत्तिचन्द्रत्वप्रकारकत्ववज्ज्ञानत्वम् । तत्र---
एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ।
इति प्रमाणसत्त्वादत्र च तदभावात् । प्रत्युत "वृद्धिरेचि" इत्यादौ "एकः पूर्वपरयोः" इत्येकस्यैव विधेयत्वावगमात् । "वृद्धिर्यस्याचामादिः" इत्यादेश्च । नह्युक्तवर्णत्रयमव्यवधानेन कस्यचित् पदस्यादौ वर्त्तते । "मालादीनां च" इति विरोधाच्च । अन्यथाऽवृद्धत्वात् पूर्वसूत्रेणैव पूर्वपदप्रकृतिस्वरसिद्धेः । एवमुत्तरत्रापि । इदमेव "प्रत्येकं वाक्यपरिसमाप्तिः" इत्युच्यते । यत्र तु समुदायपर्याप्तशक्तिप्रमाणम्, यथा "उभे अभ्यस्तम्" इति, तत्र नावयवमात्रस्य वाच्यत्वम् । किं त्वेकवर्णविषयकत्वाभाववदवृत्त्यन्यवर्णविषयकत्ववज्ज्ञानत्वमेव कार्यतावच्छेदकम् । अत एव तत्र उभेग्रहणम् । अन्यथौत्सर्गिकत्वेन मिथोऽनपेक्षयोर्द्वयोरेव तत्संज्ञाप्रसङ्गात् । अतस्तात्पर्यग्राहकप्रमाणान्तरसत्त्वएव समुदाये वाक्यपरिसमाप्तिरिति सिद्धम् ।
प्रकृतमनुसरामः । ननु आदैचां स्वरूपेण वृद्धिसंज्ञा, उत तन्त्रावृत्त्येकशेषामामन्यतमेन वृद्धिशब्देन ये विहितास्तेषामेव । नाद्यः । सर्वभास इत्यादौ "उत्तरपदवृद्धौ सर्वं च" इति पूर्वपदान्तोदात्तत्वापत्त्या समासान्तोदात्तत्वस्यासिद्धेः । तावती भार्याऽस्य तावद्भार्य इत्यादौ" वृद्धिनिमित्तस्य च तद्धितस्य" इति पुंवद्भावनिषेधापत्तेश्च । "आ सर्वनाम्नः" इत्यात्वं प्रतिवतुपो निमित्तत्वात् । नान्त्यः । शालीयो मालीय इत्यादौ "वृद्धाद्‌" इतिच्छप्रत्ययासिद्धेः । आम्रमयं शालमयमित्यादौ "नित्यं वृद्धशरादिभ्य" इति मयट्‌प्रत्ययानुपपत्तेश्च ।
किं च आम्रगुप्तायनिः शालगुप्तायनिः इत्यत्र "उदीचां वृद्धादगोत्राद्‌" इति वृद्धलक्षणः फिञ्‌ न स्यात् ।
यद्यपि "प्राचामवृद्धात् फिन्‌ बहुलम्" इति फिनाऽपीष्टसिद्धिः । "ञ्नित्यादिर्नित्यम्" इति स्वरेऽपि भेदाभावात् । आम्रगुप्तायनीभार्य इत्यत्र प्रागुक्तसूत्रेण पुंद्भावनिषेधस्तु नावश्यकः । "जातेश्च" इत्यतोऽपि सिद्धेः । "गोत्रं च चरणैः सह" इति पारिभाषितजातेस्तत्र सत्त्वात् । आम्रगुप्तायनेश्छात्रा इति वृद्धाच्छप्रत्ययविवक्षायां "फक्‌फिञोरन्यतरस्याम्" इति लुग्विकल्पेन आम्रगुप्तीयाः आम्रगुप्तायनीयाः इति द्वैरूप्यं तु सिद्धान्तेऽपि नेष्टम् । "फक्‌फिञोः" इत्यत्र यूनीत्यनुवृत्तेः । "शिवादिभ्यः" इत्यण्णन्ताद्यास्कशब्दाद् "अणो द्व्यचः" इति फिञ्‌, यास्कस्यापत्यं युवा यास्कायनिः, तस्यच्छात्रा यास्कीया यास्कायनीयाः इत्येव तत्रोदाहृतत्वादिति फिञो न कश्चिद्विशेषः । तथाऽपि प्राचामुदीचामिति आचार्यविशेषमतगर्भसूत्रस्वारस्यभङ्गात् । "ऋतो भारद्वाजस्य" इतिसूत्रे प्रकारान्तरेण समाधाने अयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवतीतिभाष्योक्तेर्मतप्रच्यवस्यापि दूषणत्वात् ।
किं च फिन्पक्षे आम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे फिञन्तात्सौवीरगोत्रादपत्येऽर्थे छठकौ कुत्सने गम्ये इत्यर्थकेन "फेश्छ च" इतिसूत्रेण छठकोरप्रवृत्तौ आम्रगुप्तायनीयः आम्रगुप्तायनिकः इतिरूपद्वयं न स्यात् । वृद्धादत्यधिकारेण फिञ एव तत्रोपादानात् ।
यमुन्दश्च सुषामा च वार्ष्यायणि फिञः स्मृताः ।
इतिपरिगणनस्य पौरुषेयत्वात् । अन्यथा सौवीरगोत्रतपदप्रत्युदाहरणत्वेन तैकायनिः इतिग्रन्थलेखनविरोधात् । उक्तत्रयमध्ये तैकायनिशब्दस्य तत्रापरिगणितत्वात् ।
  अपि च आम्रगुप्तायनेरपत्यं युवा "प्राग्‌ दीव्यतोऽण्‌" तस्य "ण्यक्षत्रियार्षञितो यूनि लुगणिञोः" इति लुकि आम्रगुप्तायनिः पिता आम्रगुप्तायनिः पुत्र इतिरूपद्वयं फिना न स्यात् । ञित्त्वाभावेनोक्तलुगप्रवृत्तेः । अब्राह्यणगोत्रमात्राद्युवप्रत्ययोपसंख्यानस्य च ब्राह्मणगोत्रे प्रवृत्त्यभावात् । एवमेतत्पक्षे "मालादीनां च" इति व्यर्थं स्यात् । अवृद्धमित्येव सिद्धेः । एवं वृद्धिशब्दे तन्त्राद्याश्रयणेऽपि गौरवम् । संज्ञाया विधानं विहितानां च संज्ञेतिपरस्पराश्रयवारणाय सूत्रशाटकवद्भाविसंज्ञाविज्ञानेऽपि गौरवमिति प्राप्ते उच्यते---
आदैचामविशेषेण वृद्धिसंज्ञा । उक्तदोषाप्रवृत्तेः । "उत्तरपदवृद्धौ सर्वं च" इत्यत्रोत्तरपदाधिकारविहिताया एव वृद्धेर्ग्राह्यत्वात् सर्वभासादौ दोषाभावात् । अन्यथा सर्वः कारकः सर्वकारक इत्यादौ वृद्धिशब्देन विहिता या वृद्धिस्तद्वत उत्तरपदस्य सत्त्वादुक्तस्वरापत्तेः । उत्तरपदग्रहणमेव च तदधिकारविहितवृद्धिग्र हे लिङ्गम् । अन्यथा आदैज्मात्रस्योत्तरपदत्वाभावात्सामर्थ्यादेव वृद्धिमदुत्तरपदलाभे तद्वैयर्थ्यापत्तेः । तस्मात्सर्वपाञ्चाल इत्यादावेव तत्प्रवृत्तिः । "सुसर्वार्द्धाज्जनपदस्य" इति वृद्धेः । तावद्भार्येऽपि नातिप्रसङ्गः । वृद्ध्यात्मकतद्धितस्याभावेनाभेदान्वयानापत्त्या वृद्धितद्धितस्येत्येतावन्मात्रेणापि वृद्धेस्तद्धित इति षष्ठीसमासेन वृद्धिनिमित्तत्वलाभेऽपि निमित्तशब्दोपादानसामर्थ्याद्वृद्धेर्निमित्तं यस्मिन्निति व्यधिकरणबहुव्रीहिमाश्रित्य ञकारणकारककाररूपेत्संज्ञाप्रतियोगित्वसम्बन्धेन वृद्धेर्निमित्तं यत्रास्ति अण्‌ अञ्‌ फक्‌ इत्यादौ तस्यैव तद्धितस्य तत्र पुंवद्भावनिषेध इतिव्याख्यानात् । आकारस्य च स्वरूपतो विधानेऽपिवतुप्रत्ययस्योक्तवृद्दिनिमित्तत्वाभावात् ।
न च अर्शसा भार्याऽस्येत्यत्र मत्वर्थाच्‌प्रत्ययोत्तरटाबन्ते अर्शसाशब्दे तद्धितस्त्रीप्रत्यययोरेकादेशस्य परं प्रत्यादिवद्भावात्तद्धितग्रहणेनापि ग्रहणात् तत्र वृद्ध्यात्मकस्तद्धितः सम्बवत्येवेति कथं निमित्तशब्दोपादानसामर्थ्यमिति वाच्यम् । तथाऽप्यरक्तेतिपर्युदाससामर्थ्यात्कर्मधारयशङ्काऽनुपपत्तेः । रक्तविकारार्थकप्रत्ययस्य वृद्ध्यात्मकत्वाभावेन तत्र प्रसक्त्यभावात् ।
अन्ये तु वृद्धिशब्देन विहिताया वृद्धेर्यन्निमित्तमिति त्सयार्थः । वृद्धिशब्दे तन्त्राद्याश्रयणात् । तादृशी च ञिण्णित्किन्निमित्ता सर्वैव वृद्धिः । न च वैयाकरणभार्यः सौवश्वभार्य इत्यादावतिप्रसङ्गः, अणो यथोक्तवृद्धिनिमित्तत्वादिति वाच्यम् । फलोपहितत्वस्य निमित्तशब्दार्थत्वात् । तत्र च "न य्वाभ्याम्" इति वृद्धिनिषेधात् । न च एचौ आदायात्रापि फलोपधानम् । स्वरूपेणैव तयोर्विहितत्वादित्याहुः ।
अपरे तु यावद्वृद्धिजननयोग्यत्वे सति किञ्चित्फलोपहितस्तद्धितो निमित्तशब्देन विवक्षणीयः । वैयाकरणभार्य इत्यादौ तु ऐज्‌भ्यामणो न फलोपधानम् । वृद्धिनिषेधसन्नियोगशिष्टयोस्तयोरण्‌निमित्तकत्वे मानाभावात् । निषेधप्रतियोगिवृद्धिनिमित्तकत्वेऽपि ऐजागमं प्रत्यणो निमित्तत्वायोगादित्याहुः ।
तदुभयमपि चिन्त्यम् । योग्यत्वं हि योग्यतावच्छेदकरूपवत्त्वमेव । तच्चात्र शास्त्रमात्रगम्यतया ञित्त्वणित्त्वकित्त्वरूपमेव । फलोपधानमपि तद्रूपेणैव वाच्यम् । फलोपहितनिष्ठान्यथासिद्ध्यनिरूपकधर्मावच्छेदेन योग्यताग्रहनियमात् । तथा च वैयाकरणभार्य इत्यत्र कथं नातिप्रसङ्गः । अणो णित्त्वेन प्रकृत्यन्तरे वृद्धिरूपफलोपहितत्वात् । न च यत्प्रकृत्युत्तरं या अणादिव्यक्तिः प्रयुज्यते, तत्र तफलोपधानं विवक्षितमिति वाच्यम् । यावद्वृद्धिजननयोग्यत्वस्य दुर्ग्रहत्वापत्तेः । न हि दाक्षिरित्याद्रौ इञादिव्यक्तेः स्वप्रकृतिपुरस्कारेण तद्व्यक्तित्वेन फलोपधानविवक्षायामौपगवादिशब्दगतवृद्धौ तत्स्वरूपयोग्यत्वं ग्रहीतुं शक्यम् । अदन्तभिन्नानां तत्प्रकृतित्वाभावात् । धर्मान्तरेण योयत्वं धर्मान्तरेण च फलोपधानमित्यस्य वक्तुमशक्यत्वात् । अत एव विशेष्यभागवैयर्थ्यम् । क्वचित्फलानुपधाने योग्यताया एवाभावातद् । एवं च क्वापि पुंवद्भावनिषेधो न स्यात् । ञिदादिप्रत्ययत्रयमध्ये सर्वेषामन्यतमप्रकृतिकत्वनियमाभावात् । अत एव वृद्धिशब्दविहिताया वृद्धेर्निमित्तमित्यपि प्रागुक्तमतं परास्तम् । फलोपधानस्य योग्यतावच्छेदकधर्मावच्छेद्यत्वनियमेन तत्राप्युक्तदोषावतारादिति ।
तस्मादिदमत्र तत्त्वम् । अनिषिद्धवृद्धिप्रकृतिकत्वे सति वृद्धियोग्यत्वं वृद्धिनिमित्तत्वम् । तेन विशेष्यभागेन तावद्भार्ये विशेषणभागेन च वैयाकरणभार्येऽतिप्रसङ्गाभावः । इदं च विशेषणांशानुरोधेन प्रकृतिविशेषोत्तरतादृशतद्धितमात्रसाधारणमिति दिक् ।
इदमप्यत्रावधेयम् । "व्यक्तिः पदार्थो भेदकाश्च गुणाः" इतिदर्शने यद्गुणविशिष्टस्योच्चारणं तदन्यगुणभाजां संज्ञा । नन्वयं प्रसङ्गाद्गुणान्तरयुतानामपि संज्ञार्थं तपरत्वमिति वार्तिकमतम् । तपरसूत्रस्यात्र पक्षेऽनणामपि ग्राहकत्वमति विध्यर्थत्वात् । वेदे ह्युदात्ते कर्त्तव्येऽनुदात्तोच्चारणे दृष्टादृष्टदोषदर्शनात् नियमतो गुणानां भेदकत्वात् ।
भाष्ये तु "एकोऽयमात्मा उदकं नाम तस्य गुणभेदादन्यत्वं भवति, अन्यदिदं शतिमन्यदिदमुष्णम्" इत्युक्तम् । तत्र जलत्वजात्यभिप्रायेणैक्यं न विवक्षितम् । व्यक्तिभेदादेवान्यत्वसंभवे गुणभेदप्रयुक्तभेदोदाहरणत्वानुपपत्तेः । अन्यो घट इत्युक्ते घटान्तरप्रतियोगिकस्यैव भेदस्य बोधात् ।
किं त्वेकभाजनस्थत्वेन तत्तदुपाध्यवच्छिन्नएव तत्र गुणान्तरयोगाद्भेदव्यवहार इत्यर्थ इति कैयटः ।
क्वचिदभेदकत्वपि । मुण्डेन चौर्ये कृते कुन्तलित्वावस्थायामपि चौरोऽयमिति व्यवहारात् । एतच्छास्त्रे तु किं न्याय्यमित्याकाङ्क्षायां सिद्धान्तमाह भाष्यकारः---
अभेदका एव गुणा इति ।
अत एवानङुदात्त इत्यादि सङ्गच्छते । गुणरहितस्योच्चारयितुमशक्यत्वान्नान्तरीयकतयोच्चार्यमाणोऽपि गुणः प्रभत्नविशेषं विना न विवक्ष्यते । अन्यथा ह्युदात्तमेवोच्चारयेत् इति वाक्ये च न तूदात्तग्रहणं कुर्यादिति शेष एवकारस्यार्थ इति केचित् ।
अन्ये तु एकश्रुत्या सूत्रपाठः । अवच्छेदकत्वेनानुपात्तश्च स्वरूपमात्रेण सन्नपि गुणो न भेदकः । अरुणया क्रीणातीत्यादावेव तस्य अवच्छेदकत्वम्, न तु गां दद्यादित्येतावन्मात्रोक्ता विति निर्विवादत्वात् ।
भाष्ये च एवकारस्य "न त्वेकश्रुतिमुच्चार्योदात्तग्रहणं कुर्यात्" इति शेषे तात्पर्यम् । अन्यथा स्पष्टार्थमुदात्तग्रहणं न कुर्यादित्येव ब्रूयात् । हन्त्यदेशस्य वधेः स्थानिवद्भावादनुदात्तत्वादिट्‌प्रतिषेधे प्राप्ते वध्यादेशे उदात्तनिपातनं करिष्यते । "एकाच उपदेशे" इति सूत्रे एकाज्‌ग्रहणं च न कर्त्तव्यमिति भाष्यासङ्गतेश्च । चतसर्याद्युदात्तनिपातनं करिष्यतइति भाष्यविरोधाच्च ।
एतेन "स्थानेऽन्तरतमः" इतिवचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नेवोच्चारणीये उदात्तोच्चारणं यत्नाधिक्याद्विवक्षार्थमिति कैयटकल्पनमपास्तम् । चतुर्‌शब्दस्य अव्युत्पत्तिपक्षे "त्रः संख्यायाः" इति व्युत्पत्तिपक्षे तु उरन्‌प्रत्ययान्ततया "ञ्नित्यादिर्नित्यम् " इत्युभयथाऽप्याद्युदात्तत्वात् । अस्थ्यादीनामप्याद्युदात्तत्वाच्छेषनिघातेन इकारस्यानुदात्ततया तदादेशस्यानङोऽप्यनुदात्तत्वस्यैव प्राप्त्या उदात्तोच्चारणं विवक्षार्थं स्यादित्युदात्तग्रहणवैयर्थ्यञ्च । प्रत्युत यत्नाधिक्येऽप्यविवक्षाज्ञापकत्वापत्तिः । एकश्रुत्या सूत्रपाठे तु स्वरविशेषोपादानं विवक्षार्थमेवेत्यदोषः ।
यत्तु कौस्तुभे उदात्तग्रहणस्य स्वशब्दानुपात्तो गुणो न भेदक इति त्राप्यम् उत यत्नविशेषविरहेण तथेति । नाद्यः । निपातनस्वरस्य विवक्षापत्तेः । नान्त्यः । उदात्तोच्चारणस्यैव विवक्षाहेतौ यत्नविशेषे स्थिते मूलशैथिल्येन ज्ञापकानुन्थानात् । स्वोपादानवैयर्थ्यप्रयोजकस्यार्थस्य ज्ञाप्यत्वात् । उपात्तगुणानां भेदकत्वस्य लोकसिद्धत्वात् । भाष्ये तथैवोक्तत्वाच्च । उपादानं चात्र द्वेधा । स्वरूपेण शब्दविशेषावच्छेदकतया उदात्त इत्यादिशब्दैश्च ।
एतेन वैकल्पिकमैकश्रुत्यमङ्गीकृत्य "पक्षान्तरैरपि परिहारा भवन्ति" इतिन्यायेन तत्राद्युदात्तनिपातनं करिष्यते इत्युक्तम् । इह तु त्रैश्वर्येण सूत्राणां पाठमाश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वादविवक्षाप्रसङ्गादुदात्तग्रहणं ज्ञापकमित्युक्तम् । अतो न पूर्वोत्तरभाष्ययोर्विरोध इत्यपास्तम् गुणानां भेदकत्वस्याप्यवश्याश्रयणीयत्वात् । एकश्रुत्या सूत्रपाठेनैव प्रकृतभाष्यस्य योज्यत्वात् । अत एव गुणभिन्नानां यवलानां संग्रहाय ग्रहणकशास्त्रेऽण्‌ग्रहणं सङ्गच्छते । अत एवाष्टन आत्वे इदमस्त्यदाद्यत्वे च नानुनासिकः । इदं च सर्वमेकश्रुत्या पाठपक्षं पश्चादुपन्यस्यता कैयटेनैव ध्वनितमित्यास्तां विस्तरः ।

अदेङ्‌ गुणः 2 ।

अकार एकार ओकारश्चाविशेषेण गुणसंज्ञः स्यात् । प्रदेशा विधौ "आद्गुणः" इत्यादयः । अनुवादे "अतो गुणे" इत्यादयः । अन्यत्पूर्ववदूह्यम् ।

इको गुणवृद्धी 3 ।

गुणवृद्धिशब्दयोर्यत्र विधेयसमर्प्पकत्वं तत्र स्थानिविशेषानभिधाने इक इति षष्ठ्यन्तं पदं स्थानिसमर्पकमुपस्थितं बोध्यम् ।
इदं च गुणवृद्धिशब्दयोः प्रकृतत्वेऽपि पुनर्गुणवृद्धिग्रहणात्‌ शब्दव्यापाराश्रयेण लभ्यते । अन्यथा इक इत्येव ब्रूयात् ।
यत्तु तथाऽपि "इकस्तौ" इत्येव वक्तव्यम् । वस्तुत इक इत्येव । संपूर्णं पूर्वसूत्रद्वयमनुवर्त्त्य वृद्धिरित्यादैचौ यत्र विधीयेते गुण इति च अदेङौ तत्र इक इति षष्ठ्यन्तं पदमुपतिष्ठते इति व्याख्यानात् । तत्र च लिङ्गम् "इतोऽत्सर्वनामस्थाने" इत्यत्र इद्ग्रहणम् । अकारस्य स्वरूपेण विधानेऽपि इक्‌पदोपस्थितौ तद्वैयर्थ्यादिति, तच्चिन्त्यम् । सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शितया तच्छब्देन गुणवृद्ध्योर्ग्रहणानुपपत्तेः । औत्सर्गिकव्युत्पत्त्यनुसारेणैवापत्तेः कल्प्यत्वात् । उक्तलिङ्गस्य च ऋभुक्षिशब्दगतऋकारोकारव्यावृत्त्यर्थतयाऽन्यथासिद्धत्वात् । वाक्यानुवृत्तौ च तस्य विशिष्टार्थान्तरपरत्वेन प्रकृतार्थान्वयानुपपत्तेः । न च शब्दाधिकारेण निर्वाहः । पदमात्रे तदङ्गीकारात् । वाक्यार्थस्य परमतात्पर्यविषयतया तद्भङ्गस्यानुचितत्वात् । पदार्थस्य तु स्वातन्त्र्येण तदविषयतया वाक्यान्तरान्वयेऽपि तद्भङ्गाभावात् । तद्वाक्यार्थबुद्धावेतत्समभिव्याहारस्य प्रतिबन्धकत्वे गौरवात् । तत्तत्‌पदार्थान्तरनिरूपिताकाङ्क्षादिज्ञानान्तरकल्पने गौरवाच्च ।
इग्ग्रहणं किमर्थमिति भाष्यादिकं तु अवयवद्वारा सूत्राक्षेपपरम् । प्रधानाक्षेपे गुणाक्षेपस्यार्थसिद्धत्वात् । अत एव "प्राक् कडारात्समासः" इत्यत्र प्राग्वचनं किमर्थमितिभाष्ये अवधित्वद्योतकाक्षेपद्वारेणावधेरप्ययमाक्षेप इति कैयटः । गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणसामर्थ्यादितिभाष्यादिस्वरसाच्च ।
एतेन सम्पूर्णसूत्रद्वयानुवृत्तिसामर्थ्यपरतया उक्तग्रन्थं व्याख्याय पूर्वोक्तव्याख्याने शब्दस्वारस्याननुगुणत्वदोषोद्भावनमपास्तम् । विपरीतत्वात्स्वरसस्येति दिक् ।
इदं च सूत्रं न विध्यात्मकम् । पुनर्गुणवृद्धिग्रहणवैयर्थ्यात् । नाप्यधिकारः । तथा सति नञोऽप्यत्रैव पाठापत्तेः । प्रतियोगिभूतयोर्गुणवृद्ध्योरत्रोपादानं निषेधस्य तूत्तरत्रेतिवैषम्ये बीजाभावात् । इक्‌स्थानिकगुणवृद्धिनिषेधस्योत्तरत्र विधेयतयोपस्थितिसिद्ध्यर्थत्वे विशिष्टस्यैवाधिकर्त्तुमुचितत्वात् "सर्वस्य द्वे" इत्यादिवत् । "प्रत्ययः" "परश्च" इत्यादौ विभज्य पाठस्तु विधेयभेदादुपपन्नः । आद्येन प्रत्ययसंज्ञा विधीयते परेण तु प्रकृत्यपेक्षया परत्वमिति । तस्मात्परिभाषैवेयम् ।
एतदुपस्थितौ लिङ्गं च गुणवृद्धिशब्दाभ्यां तद्विधानं स्थान्यन्तरनिर्देशाभावविशिष्टम् न तु गुणवृद्धिपदमात्रम् । "अचोञ्णिति" इत्यादावतिप्रसङ्गादित्यग्रे निरूपयिष्यामः ।
उदाहरणं चेता स्तोता कर्त्ता अचैषीत् अस्तौषीत् अहार्षीत् इति । प्रत्युदाहरणं तु याता ग्लायति उम्भिता इति अत्र आकारस्य अकारः ऐकारस्य एकारः मकारस्य स्थानसाम्यादोकारश्च गुणो मा भूत् । यद्वार्त्तिकम्---
इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् इति ।
स्यादेतत् । पचतीत्यादौ धात्वकारस्य शपमाश्रित्य "पुगन्तलघूपधस्य" इति, प्रत्ययाकारस्य च "सार्वधातुकार्द्धधातुकयोः" इति तिपमाश्रित्य गुणे कृतेऽपि विशेषाभावः । न च चिकीर्ष अक इतिस्थिते अकारस्य वृद्ध्यापत्तिः । "ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन" इति वार्त्तिकोक्त्या अतो लोपस्य बालवत्त्वात् । सिद्धान्तेऽपि" अचो ञ्णिति" इति वृद्धेर्निर्दिष्टस्थानिकत्वेन उक्तपरिभाषाया अप्रवृत्त्या उक्तरीत्यैव समाधेयत्वात् । अयासीदित्यादौ तु आकारस्य "सचि वृद्धिः" इति वृद्धावपि न दोषः । "यमरमनमातां सक् च" इति सगिड्‌भ्यां परत्वेन तद्बाधाच्चेति केचित् ।
येननाप्राप्तिन्यायेनापवादत्वात्तद्बाध इत्यन्ये ।
याता वातेत्यादौ गुणस्तु गापोष्टकः कित्त्वेन ज्ञापकेनैव वर्णैकदेशानां वर्णग्रहणेन ग्रहणमितिपक्षप्रस्तावोक्तरीत्या निरस्त एव । अन्यथा द्वयोरकारयोः पररूपेणैव सिद्धौ आतोलोपप्रवृत्त्यर्थकित्त्वस्य वैयर्थ्यापत्तेः । अतो लोपेन तु न तत्र निर्वाहः । "अनुदात्तोपदेश" इत्यत उपदेशपदानुवृत्त्या आर्द्धधातुकोपदेशकाले यददन्तं तस्यैव लोपविधानात् । गाधातोस्तु टप्रत्ययोत्पत्तिवेलायामादन्तत्वात् । अन्यथा गत इत्यादौ मकारलोपे कृतेऽदन्तत्वेन लोपापत्तेः ।
अथात्र आभीयत्वेन मलोपादेरसिद्धत्वमाश्रीयेत, तथाऽपि अय पय गतावित्याभ्यां क्विपि अत् पत् इतिरूपं माधवादिसंमतं न सिद्ध्येत् । "लोपो व्योः" इत्यस्य आभीयत्वाभावात् । नचैवं धिवि प्रीणने कृवि हिंसाकरणयोश्चेत्येतयोरिदित्त्वान्नुमागमे "धिन्विकृण्व्योर च" इति वकारस्याकारादेशे उप्रत्यये च कृते अतो लोपो न स्यात्, उप्रत्ययोत्पत्तिवेलायामदन्तत्वाभावादिति वाच्यम् । उप्रत्ययवेलायामेव तत्संनियोगशिष्टतया अस्यापि बुद्ध्यारोहात् इति केचित् ।
यौगपद्येऽपि उप्रत्ययोपदेशवेलायामदन्तत्वं नास्त्येवेत्येतदस्वरसेन निर्देशक्रमात्प्रथममत्वं ततश्चशब्दाकृष्ट उप्रत्यय इत्यन्ये ।
तस्मादाकारनिवृत्त्यर्थं नैतत्सूत्रमारभ्यम् ।
नापि ऐज्‌निवृत्त्यर्थम् । ऐकारोपदेशसामर्थ्यादेव तद्वारणात् । अन्यथा एकारमेवोच्चारयेत् । न चैवमायादेशोऽपि न स्यादिति वाच्यम् । गुणं प्रति ह्यैकारोपदेशः स्ववैयर्थ्यापत्त्या बाधकः आयादेशे तु ऐकार एव निमित्तमिति वैषम्यात् । तदाहुः---
यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते इति ।
न च ग्लाय् इत्येव पठितुं शक्यम् । त्वया ग्लायते इत्यादौ यकारद्वयापत्तेः । आदन्तत्वाभावे जग्लावित्यादेरसिद्धेश्च । नन्वेवम् "आदेच उपदेशेऽशिति" इत्यात्वमपि बाध्येत । एङन्तत्वोपदेशेऽपि आत्वसम्भवेन ऐजुपदेशस्य तन्निमित्तत्वाभावात् । शिति प्रत्यये गुणस्य शिद्भिन्ने त्वात्वस्य ऐज्विरोधित्वे तुल्ये ऐजुपदेशेन गुण एव बाध्यते न त्वात्वमिति विनिगन्तुमशक्यत्वात् । धेट् पानइत्याद्येङन्तेषु आत्वविधेरपि सावकाशत्वात् । आत्वविधाबेज्ग्रहणस्य तु "मीनातिमिनोतिदीङां ल्यपि च" इत्युत्तरार्थत्वात् । वार्त्तिकमते एजन्तानां दीङादीनामात्वविधानस्य घुसंज्ञासूत्रे वक्ष्यमाणत्वात् ।
अत्र कैयटादयः । "न ध्याख्या" इतिसूत्रे कृतात्वस्य ध्यायतेर्निर्देश एव आत्वं न बाध्यतइत्यत्र विनिगमक इति ।
यत्तु एज्ग्रहणसामर्थ्यादप्यात्वं भवति । न हि तस्योत्तरार्थत्वं शङ्क्यम् । भाष्यमते "मीनाति" इतिसूत्रेण गुणवृद्धिनिमित्ते प्रत्यये विवक्षिते सत्युपदेशावस्थायामेवात्वं विधीयते न तु गुणवृद्ध्योः कृतयोरितिसिद्धान्तात् । अन्यथा दाय इत्यत्र इकारान्तत्वाद्धञं बाधित्वा अच्‌ स्याद्, ईषदवदान इत्यादौ " आतो युच्" न स्यात्, अवदाय इति "श्याद्व्यध" इति आदन्तत्वलक्षणो णश्च न स्यात् । इदं च एङ्‌निमित्तप्रत्ययविवक्षायां दीङादीनामात्वविधानेनापि सिध्यति । न च ञितां णितां च प्रत्ययानां वृद्धिनिमित्ततया एङ्‌निमित्तत्वं नास्तीति घञ्‌णिजादि विवक्षायामात्वं न स्यादिति वाच्यम् । वृद्ध्या गुणबाधेऽपि तेषां गुणं प्रति स्वरूपयोग्यत्वानपायात् । एज्विषये प्रागेवात्वाभ्युपगमे फलोपधानविवक्षायामसंभवादिति । तन्न । अपवादविषयपरिहारेणैवोत्सर्गप्रवृत्त्या णिजादेरेचं प्रति स्वरूपयोरयत्वे मानाभावात् । तस्मादैचो न गुण इति सिद्धम् ।
नापि व्यञ्जननिवृत्त्यर्थम् । "सप्तम्यां जनेर्डः" इति डप्रत्ययस्य डित्करणेन व्यञ्जनस्य गुणो न भवतीतिज्ञापितत्वात् । अन्यथाऽर्द्धमात्रिकव्यञ्जनस्थाने अकारे गुणे मातृके कृते पररूपेण सिद्धौ तद्वैयर्थ्यात् । न च नकारस्य सानुनासिक एवाकारो गुणः स्यादिति वाच्यम् । पर इत्येव सिद्धे रूपग्रहणस्य यद्गुणविशिष्टं परस्य रूपं तादृगेव यथा स्यादित्येतदर्थत्वात् । अत्र भाष्यम्---
डित्करणं न ज्ञापकम् ।
"अन्येभ्योऽपि दृश्यते" इत्यनेन "गमश्च" "अन्तात्यन्ताध्वदूरपार" इतिप्रकरणाधीतेन वार्त्तिकेन गमेरपि डप्रत्ययस्य वाच्यत्वात् । तत्र च गुणस्वीकारे मकारस्य स्थाने ओष्ठस्थानतया ओकारस्य गुणस्यापत्तौ नगोऽग इत्यादीनामसिद्धेः ।
यद्यपि "सप्तम्यां जनेर्डः" इतिप्रकरणादन्यत्रैवायं डप्रत्ययः, तथाऽपि "जनेर्डः" इतिप्रकरणे "अन्येष्वपि दृश्यते इतिसूत्रस्थापिशब्दगर्भित एवार्थो वार्त्तिकेनोक्तो न त्वपूर्वः ।
अस्तु वा तद्वार्त्तिकमेव व्यर्थमिति भाष्याभिप्रायः इति केचित् ।
ननु "गमेर्डोः" इति डोप्रत्ययविधानं मकारस्य ओकारो गुणो न भवतीति ज्ञापकम्, अन्यथा विचैव गुणे कृते गोरूपसिद्धेः, यद्वा इदमेव व्यञ्जनस्य गुणाभावज्ञापकं स्यादितिचेन्, मैवम् । मकारस्थाने सानुनासिकस्य अकारस्य व्यावृत्तये डोप्रत्ययविधेः सार्थक्यात् ।
अथ तथाऽपि "तनोतेर्डउः सन्वच्च" इति डित्करणं ज्ञापकं व्यञ्जनस्य गुणो न भवतीति । अन्यथा नकारस्य गुणेन प्रत्ययाकारेण सह पररूपेण च सिद्धौ तस्य वैयर्थ्यात् ।
किं च स्थानप्रयत्नाभ्यामन्तरतमे चेता अचैषीदित्यादौ चरितार्था गुणवृद्धिविधयः केवलस्थानकृतान्तर्येण व्यञ्जनादिषु न प्रवर्त्तिष्यन्ते । न चैवं नेता अनैषीदित्यादौ स्थानगुणप्रमाणैस्त्रिभिरान्तरतम्यात्तत्र चारितार्थ्ये, ह्रस्वे तत्प्रवृत्तिर्न स्यादिति वाच्यम् । "सृघस्यदः क्मरच्" इति कित्करणेन प्रमाणत आन्तर्यस्याविवक्षितत्वज्ञापनात् । न च ईहिता ईशितेत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयोः स्थानगुणाभ्यामान्तरतम्याददेतौ स्यातामिति वाच्यम् । ऊष्मणामीषद्विवृतत्वस्य वक्ष्यमाणत्वात् । इकारादीनां विवृतत्वमेव । एकारादीनां विवृततरत्वस्य शिक्षान्तरोक्तत्वेऽपि सूत्रभाष्याद्यसंमतत्वात् । उक्तकित्त्वेन इकारादिषु गुणप्रवृत्त्यनुमानाद्वा । तस्मादात्संध्यक्षरव्यञ्जनानां गुणवृद्ध्योरभावस्योक्तरीत्यैव सिद्धौ सूत्रमेतद्व्यर्थमिति पूर्वपक्षः ।
सिद्धान्तस्तु "ङ्किति च" इतिसूत्रे निषेध्याया वृद्धेरिग्लक्षणत्वसंपादनायेदम् । न ह्येतत्परिभाषां विना इग्लक्षणगुणवृद्धिनिषेधः शक्यः । प्रतियोगितावच्छेदकाप्रसिद्धेः । सति त्वस्मिन् इक इतिशब्दमुच्चार्य विहितत्वलक्षणमिग्लक्षणत्वं प्रसिद्ध्यति । तत्रत्यचकारस्य इतिशब्दार्थकतया तदर्थलाभात् । न च तदविशेषितयोरेव तयोः स निषेधोऽस्त्विति वाच्यम् । "नडादिभ्यः" फकि लैगवायन इत्यत्र ओर्गुणस्यापि निषेधापत्तेः । न च विधानसामर्थ्यम् । औपगव इत्यादौ तस्य चरितार्थत्वात् । पौरोहित्यमित्यादौ तु यकि परे "किति च" इति आदिवृद्धिर्भविष्यत्येव । विधानसामर्थ्यात् । निषेधस्य तद्धितभिन्ने किति चरितार्थत्वात् । अत एव इक्‌स्थानिकगुणनिषेधेनापि न निर्वाहः । उक्तगुणस्य उकारस्थानीयतासत्त्वात् । तस्मान्निषेधे प्रतियोगितावच्छेदकीभूतमिग्‌लक्षणत्वं तत्प्रसिद्ध्यर्थमिदम् । गुणवृद्धी पुनः सर्वत्रैव तद्व्यतिरेकेणापि इकस्थानिके एव पर्यवस्यतः ।
तथा हि । "सार्वधातुकार्द्धधातुकयोः" "जुसि च" इति गुणश्च अलोऽन्त्यपरिभाषया अन्त्यवर्णे प्राप्तौ पूर्वोक्तज्ञापकवशादिक्ष्वेव विश्राम्यतः । "मिदेर्गुणः" "पुगन्तलघूपधस्य च" इत्यादिषु तु स्थान्यपि निर्दिष्ट एव । मिद इर्मिदिस्तस्य गुणः । पुकि अन्तः पुगन्तः । पुकीति विषयसप्तमी । पुकि विवक्षिते सति योऽन्त इत्यर्थः । तेन पुगव्यवहितपूर्ववर्त्तिन इति पर्यवसितम् । लघ्वी चासावुपधा चेति कर्मधारयः । ततः पुगन्तश्च लगूपधा चेति समाहारद्वन्द्वे क्लीबत्वम् । वापयतीत्यादौ त्वादन्तसन्निपातकृतस्य पुकस्तद्विघातकगुणाप्रवर्त्तकत्वात् । "ऋच्छत्यॄताम्" इत्यत्रापि ऋशब्दऋच्छब्दयोर्द्वन्द्वः, ऋच्छतिशब्दस्य ऋकारेण षष्ठीसमासं कृत्वा पूर्वपदे तत्पुरुषगर्भ उत्तरपदे द्वन्द्वगर्भो द्वन्द्वः ।
यद्वा उक्तरीत्या पूर्वपदे तत्पुरुषगर्भ ऋकारेण ऋच्छशब्देन च त्रिपदो द्वन्द्वः । तेन ऋच्छतेर्ऋकारस्य स्थानित्वलाभः । आरिवानित्यादौ गुणसिद्ध्यर्थमृधातोः संग्रहाय मध्ये चतुर्थोऽपि ऋकारः प्रश्लेष्यः । अन्यथा क्वसोः कित्त्वसामर्थ्याद् गुणो न स्यात् । प्रश्लेषे तु विशिष्य विधानसामर्थ्याद् गुणसिद्धिः । "ऋदृशोऽङि" इत्यत्र "उरङि गुणः" ततो "दृशः" इति पृथग्योगः । उरित्यनुवृत्त्या व्यधिकरणषष्ठ्या च दृशिसंबन्धिन ऋकारस्य गुण इत्यर्थः । "स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः " इत्यत्र योगविभागः । "स्थूलदूरयुवह्रस्वानां यणादिपरम्" इत्येको योगः । "क्षिप्रक्षुद्रयोः पूर्वस्य च गुणः" इति द्वितीयः । युवपर्यन्तानां लकाररेफवकाराणां स्वोत्तरवर्त्त्यकारेण सह लोपे "ओर्गुणः" इत्युकारस्य गुणे अवादेशे च स्थवीयान् दवीयान् इत्यादि सिद्धम् । यण आदिर्यणादिः ततः परमिति समासः । तेन क्षिप्रक्षुद्रयोर्यण आदीरेफपूर्वौ पकारदकारौ, ततः परस्य रशब्दस्य लोपस्ताभ्यां पूर्वस्य इकारस्य लकारस्य च गुण इत्यर्थः ।
एवं गुणमात्रमिक्षु विश्रान्तम् । "मृजेर्वृद्धिः" इत्यत्र तु अचः इत्यपकृष्य मृजेः संबन्धिनः अचो वृद्धिः स्यात् । ततो "ञ्णिति" इति । अच इत्यनुवृत्त्या यथान्यासवदेवास्य योगस्यार्थः । अमर्ट्‌ इत्यादौ अटो वृद्धिस्तु न भवति । लादेशोत्तरमडितिपक्षे परत्वाद्वृद्धेः प्रवृत्तेः । सकृदेव शास्त्रस्य चरितार्थत्वात् । यदा तु लावस्थायामेवाट्, न चैवमध्यैयातामित्यत्र अधि आ इ आतामितिस्थिते "अचि श्नुधातुभ्रुवाम्" इति इयङं बाधित्वा "एरनेकाचः" इति यण्‌ स्यात्, आटो धात्वाद्यवयवत्वेनानेकाच्‌त्वादिति वाच्यम्, "एरनेकाचः" इति विभज्य "इणो यण्‌" इत्यनुवर्त्त्य अनेकाचश्चेद्यण्‌ तर्हि इण एवेतिनियमेन तद्वारणादितिपक्ष आश्रीयते, तदा "ङ्किति च" इति निषेधाद् वृद्धेर्लावस्थायां दुर्लभत्वेनान्तरङ्गत्वादडागमस्यैवोत्पत्त्या तस्य वृद्धिप्रसङ्गेऽपि "अन्त्यबाधेऽन्त्यसदेशस्य" इति परिभाषया समाधानसंभवात् ।
तत्प्रत्याख्यानपक्षे तु अङ्गाक्षिप्तेन प्रत्ययेनाज्विशेषणात्प्रत्यये परे तद्विधानात् । अव्यवहितप्रत्ययाभावेनैकवर्णव्यवधानेऽपि ऋकारस्यैव वृद्धिर्न त्वटः । अनेकव्यवधाने प्रवृत्तौ मानाभावात् । "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्" इतिन्यायात् । "सिचि वृद्धिः परस्मैपदेषु" इत्यत्रापि अचिकीर्षीदित्यकारवृद्धिनिषेधार्थँ नैतत्सूत्रम् । अल्लोपस्य विप्रतिषेधेन बलवत्त्वस्य उक्तत्वात् । आकारेऽप्युक्तः समाधिः । एजन्तं तु नास्त्येव । अनैमित्तिकस्य आत्वस्य प्रागेव प्रवृत्तेः । रैनौग्लौशब्दानामाचारक्विबन्तानां वृद्धिसत्त्वासत्त्वयोर्न विशेषः ।
न च उदबोढामित्यत्र पूर्वं ढलोपे तत्र ओदन्तत्वाद् वृद्धिप्रसङ्गः । तस्यासिद्धत्वात्पूर्वं हलन्तलक्षणा वृद्धिः, ततो ढलोपः, "असिद्धं बहिरङ्गमन्तरङ्गे" इत्यसिद्धत्वान्न ओदन्तत्वमितिसमाधानात् । न च गोशब्दात्क्विपि अगवीदित्यत्र वृद्धिनिषेधार्थः । "ऋत इद्धातोः" इत्यतोऽनुवृत्तेन धातुना सिजाक्षिप्तस्य धातोरभेदेन विशेषणाद्धातुरेव यो धातुर्न तु कथंचित्प्रातिपदिकमितिव्याख्यानादिति कौस्तुभे ।
माधवस्तु कविविधुपितृशब्दानां क्विपि लुङि अकवायीत् अविधावीत् अपितारीदित्याह ।
तस्यायमाशयः---धातुरेवेत्यस्य कोऽर्थः, प्रत्ययान्तरेऽपि धातुसंज्ञक एव, धातुत्वानिबन्धनप्रत्ययप्रकृतित्वाभाववान्वा । नाद्यः । तत्र हि भेदप्रतियोगितावच्छेदकतया प्रत्ययत्वसाक्षाद्व्याप्यो धर्मो निवेश्यते उत कथञ्चित्प्रत्ययत्वव्याप्यः । न प्रथमः । तिङ्‌त्वाद्यवच्छिन्नभेदवति कृत्प्रत्ययादौ क्विबन्तस्यापि धातुत्वात् । नान्त्यः । तिप्त्वावच्छिन्नभिन्ने तसादावपि तस्य धातुत्वात्तद्व्यावृत्तेरभावात् । न द्वितीयः । क्विबन्तानां हरतिकरोत्यादीनां स्वादिप्रकृतित्वेन व्यावृत्त्यापत्तेः । न च तुग्विशिष्टानामेव स्वादिप्रकृतित्वमिति वाच्यम् । तावताऽपि धर्मिभेदानुपपादनात् । लू इत्यादिक्विबन्तसमानाकाराणां शुद्धल्वादीनामप्यलावीदित्यादौ वृद्ध्यनापत्तेश्च । न च प्रातिपदिकत्वानुत्तरधातुसंज्ञाकइति वाच्यम् । "उपदेशे एवानुबन्धलोपे कृते ततो धातुसंज्ञा" इतिग्रन्थदर्शनाद्धातुप्रत्ययभिन्नत्वे सत्यर्थवत्त्वोत्तरमेव हृप्रभृतीनामपि धातुसंज्ञत्वात् । अनुबन्धसत्त्वासत्त्वयोस्त्वकिञ्चित्करत्वात् ।
अथौपदेशिकधातुग्रहणार्थं द्वितीयधातुग्रहणमिति नामधातुव्यावृत्तिरितिकैयटोक्त्यनुसारेणोच्यते, तथाऽपि इगन्ते क्विबन्तधातौ सिचि वृद्धिर्वारयितुं न युक्ता । इक्‌परिभाषारम्ये तस्या इष्टतया तदनारम्भेऽपि तथात्वात् । तादृशस्यैवार्थस्य प्रकारान्तरेण साधनीयत्वात् । तस्मादोकारान्तव्यावृत्त्यर्थमेव यतनीयमितिस्थिते केचित्तावदाहुः---
धातोरितिवद् "ओतः" इत्यप्यनुवर्त्त्य ओदन्तस्य धातोश्चेद्‌ वृद्धिर्भवति तर्हि धातोरेव धातोर्न तु नामधातोरिति व्याख्येयमिति । तच्चिन्त्यम् । नामधात्वन्यस्य ओदन्तस्य धातोरप्रसिद्धेः । तेषामात्वस्य प्रागेव प्रवृत्तेः । ओदन्तत्वोपलक्षितस्य आकारान्तत्वदशायां वृद्धौ सत्यामसत्यां वा विशेषाभावस्योक्तत्वात् । तस्माद्‌ "नेटि" इत्यत्र नेतियोगं विभज्य "ओतः" इत्यनुवर्त्य ओकारान्तस्य वृद्धिनिषेधः ।
यद्वा बहुलग्रहणमनुवर्त्त्य ओदन्तस्य वृद्ध्यभावो बाहुलकेन साधनीय इत्येव तावद्रमणीयम् । एवं हलामपि न सिचि वृद्धिप्रसङ्गः । येननाप्राप्तिन्यायेन हलन्तलक्षणवृद्धेस्तावद्बाधकत्वसम्भवात् । न चैवमकोषीदमोषीदित्यादौ "वद्‌व्रजहलन्तस्याचः" इति वृद्धेः "नेटि" इति निषेधेन निरपवादत्वात् "सिचिवृद्धिः" इतिसूत्रेण हलो वृद्धिप्रसङ्ग इति वाच्यम् । वृद्धिमात्रस्य "नेटि" इति नेषेध इत्यभ्युपगमात् । तस्मात् "क्ङिति च" इति निषेधे इग्लक्षणत्वस्य वृद्धिविशेषणत्वलाभार्थमियं परिभाषेति सिद्धम् ।
अथ तथाऽपि कृतं छिन्नमित्यादौ "सार्वधातुकार्द्धधातुकयोः" इति पुगन्तेतिगुणस्य च निषेधाय गुणग्रहणमेवास्तु, न तु वृद्धिग्रहणम् । न च मृष्ट इत्यादौ वृद्धिनिषेधाय तस्या इग्लक्षणतां सम्पादयितुं तदिति वाच्यम् । "मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते" इति भाष्योक्त्या "अजादौ क्ङिति वा' इतिवचनस्य "मृजेर्वृद्धिः" इत्येतदुत्तरमावश्यकतया तत्र "अदाजौ ङ्किति" इतियोगं विभज्य ङ्किति चेद्भवत्यजादावेवेतिनियमेन तद्वायवृत्तेः साध्यत्वादितिचेत्, अत्राहुः---
णू स्तुतौ धू विधूनने इति कुटादिपठितयोर्लुङि अनुवीत् अधुवीदितिरूपमिष्टम् । तत्र "गाङ्कुटादिभ्यः" इति । ङित्त्वातिदेशेन "ङ्किति च" इति सिचिवृद्धेर्निषेधार्थं तस्या इग्लक्षणत्वसंपादनाय वृद्धिग्रहणमिति ।
स्यादेतत् । अन्तर्भूतसिज्मात्रापेक्षत्वात्सिच्‌परस्मैपदेत्युभयसापेक्षबहिरङ्गवृद्ध्यपेक्षयाऽन्तरङ्गस्योवङो वृद्धेः प्रागेव प्रवृत्तौ हलन्तत्वाद् "नेटि" इति वृद्धिनिषेधस्सिद्ध एव । न च "सिच्यन्तरङ्गं नास्ति" इतिसिद्धान्तान्नैवमिति वाच्यम् । तस्य निर्युक्तिकत्वात् । न चैवमचैषीदित्यादौ अन्तरङ्गत्वात्सिचि वृद्धिं बाधित्वा गुण एव स्यादिति वाच्यम् । तस्यैव वृद्दिसंभवेनेष्टापत्तेः । पूर्वपक्षे वृद्धेरिक्‌स्थानिकत्वे नियमाभावात् । उक्तपरिभाषायां वृद्धिग्रहणानुपादानस्यैव प्रक्रान्तत्वात् ।
नन्वस्तौषीदित्यादौ गुणस्य न वृद्धिसंभवः । ओकारान्ते वृद्धइनिषेधस्य स्थापितत्वात् । बाहुलकेनानिगन्तस्य वृद्धिर्नेतिपक्षे तु पूर्वीक्तेऽपि तथैवेतिचेद्, मैवम् । ओतो धातोरेव धातोर्न तु नामधातोरितिपक्षे दोषाभावादिति केचित् ।
तच्चिन्त्यम् । तस्य दूषितत्वात् । न च वृद्ध्यवस्थायामोदन्तो नामधात्वन्यधातुरत्रैव प्रसिद्ध इति वाच्यम् । प्रत्ययोत्पत्तिवेलायां ह्योदन्तत्वमपेक्षितं न तु याकदाचित्, अविधावीदित्यादावपि निषेधापत्तेः । तस्यापि विधवतीत्यादौ ओदन्तत्वात् । सिच्यन्तरङ्गस्वीकारे तत्रैव ओदन्तत्वाच्च । नचेष्टापत्तिः । पूर्वोक्तदोषग्रस्तत्वात् । अन्यथा तत्कृतस्य कैयटमाधवयोरविरोधस्याप्यनुपपन्नत्वात् ।
तस्मादेव व्याख्येयम् । "सिचि" इतियोगं विभज्य "ओत" इति "बहुलम्" इति चानुवर्त्त्य व्यवस्थितबाहुलकं चाश्रित्य सिचि ओदन्तस्य वृद्धिः स्यात् व्यवस्थितत्वाच्च बाहुलकस्य नामधातौ न भवतीति । एवं चाकवयीत् अकवायीत् इति मतद्वयपुरस्कारेण रूपद्वयदर्शनं सिद्धान्तकौमुद्यां निर्युक्तिकमेव । तदंशे उभयोरप्यैकमत्यस्यैव व्यवस्थापितत्वात् । न चैवम् अविधावीदित्यनुपपत्तितादवस्थ्यम् एतत्पक्षे तत्रापि प्रागेव गुमस्य वाच्यत्वादिति वाच्यम् । स्वाभाविकौदन्तस्यैव निषेधोपगमादिति । अकार्षीदित्यादौ गुणे कृते " वदव्रजहलन्तस्य" इति वृद्धिः ।
न चैवमतारीदित्यादौ गुणे कृते "नेटि" इति हलन्तलक्षणवृद्धिनिषेधात् "अतो हलादेर्लघोः " इति वृद्धिविकल्पापत्तिरिति वाच्यम् । तदपवादभूताया "अतो ल्रान्तस्य" इतिनित्यवृद्धः सम्भवात् । न च तथाऽपि अलावीदित्यत्र विकल्पापत्तिरेवेति वाच्यम् । "ल्रान्तस्य " इत्यत्र "लोपो व्योः" इति वकारं प्रश्लिष्य तदन्तस्यापि नित्यवृद्धिविधानस्य वाच्यत्वात् । न चैवं मा भवानवीदमवीदित्यादावपि नित्यवृद्ध्यापत्तिरिति वाच्यम् । "ह्‌म्यन्तक्षण" इतिसूत्रे णिश्विग्रहणमपहाय तत्स्थाने अविमव्योः प्रक्षेपेण निषेधसिद्धेः । एतत्पक्षे औनयीदश्वयीदित्यादावन्तरङ्गत्वाद् गुणायादेशयोः कृतयोः यान्तत्वादेव निषेधापत्त्या तत्रेष्टविकल्पासिद्धिरिति वाच्यम् । वकारप्रश्लेषनिबन्धननित्यवृद्धेरेव अविमव्योः प्रक्षेपेण निषेधात् । "अतो हलादेः" इति विकल्पस्य मवेः संभवात् । "मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्" इतिन्यायात् ।
न चैवमजागरीदित्यत्रापि विकल्पापत्तिः, एकसूत्रोपात्ततया तदंशेऽपि "अतो हलादेः" इत्यस्य बाधायोगादिति वाच्यम् । तत्र बाध्यसामान्यचिन्तया स्वविषयप्राप्तस्य वृद्धिमात्रस्य बाधात् । अगत्या वैषम्यस्य सह्यत्वात् । यद्वा "अतो ल्रान्तस्य" इति वृद्धेरेवास्तु निषेधः । न चैवमजागरीदमवीदित्युभयत्रापि "अतो हलादेः" इत्यस्यापत्तिः । तदपवादनित्यवृद्धिनिषेधेऽपि मवतौ उत्सर्गभूतविकल्पप्रवृत्तिः जागर्त्तौ तु नेति स्वीकारात् । अपवादनिषेधे पुनरुत्सर्गप्रवृत्तर्लक्ष्यानुरोधेन वैकल्पिकत्वात् । तस्मात्सिच्यप्यन्तरङ्गपरिभाषाप्रवृत्तिस्वीकारादुवङेव । अनुवीदित्यादौ "ङ्किति च" इतिनिषेधप्रवृत्त्यर्थं सिचिवृद्धेरिग्लक्षणत्वसंपादकत्वेनापि नात्र वृद्धिग्रहणसार्थक्यमितिचेत् अत्राहुः---
अतो ल्रान्तस्य इत्यत्र वकारस्य प्रश्लेषे शवधातोरपि नित्यं वृद्धिप्रसंगः । न च तत्र मानाभावः । शवतिर्गतिकर्मा कम्बोजेषु भाष्यते, विकारएनमार्या भाषन्ते इति भाष्यनिरुक्तकृद्‌भ्यामुक्तत्वात् । न च अविमविवत्तस्यापि तत्र पाठः कार्य इति वाच्यम् । णिश्वीतिद्वयं त्यक्त्वा त्रयप्रक्षेपे गौरवापत्तेरिति दिक् ।
अत्रेदं बोध्यम् । नैतदनुरोधेन "सिच्यन्तरङ्गं नास्ति" इति स्वीकारो न्याय्यः । वकारप्रश्लेषानभ्युपगमात् । न चालावीदित्यत्र विकल्पापत्तिः । "वदव्रज" इत्यत्र वदअव्‌व्रजेति प्रश्लिष्य अवादेशस्यापि वृद्धिविधानस्य व्याख्यातुं शक्यत्वात् । न च धातुसाहचर्याद्धातोरेव अचो ग्रहणं स्यादिति वाच्यम् । "द्विस्त्रिचतुर्" इतिसूत्रे कृत्वोऽर्थग्रहणेन साहचर्यस्य सर्वत्रानियामकत्वस्य ज्ञापितत्वात् । "नेटि" इतिनिषेधस्य च हलन्तलक्षणवृद्धिमात्रप्रतियोगिकत्वस्य सर्वसिद्धत्वात् । एतेन अविधावीदित्यादावपि नित्यवृद्ध्या प्रागुक्तग्रन्थमतविरोधोऽपि निरसितुं शक्यः । एवं च "ह्‌म्यन्तक्षण" इति सूत्रे णिश्विग्रहणं न कर्त्तव्यमेव । सुतरां तत्‌स्थाने अविमव्योः प्रक्षेपः । प्रागेव तु शवतेः, प्रयोजनाभावात् । गुणे कृते यान्तत्वेनैव णिशव्योर्निषेधसिद्धेः । अव्यादिप्रक्षेपस्य च वकारप्रश्लेषकृतातिप्रसङ्गवारणमात्रमूलकत्वेन तत्परित्यागे मूलोच्छेदेनैव छिन्नत्वात् । एवं च तत्रत्यम् अंशभेदेन बाध्यसामान्यविशेषचिन्ताश्रयणवैषम्यमपि नापद्यते ।
यदपि कैयटादयः । चिरि जिरि इति हिंसायां स्वादौ पठ्येते । ताभ्यां सिचि अचिरायीदजिरायीदितीष्टम् । एवं चिनोतेर्नयतेश्च यङ्‌लुगन्तात्सिचि अचेचायीदनेनायीदिति । सिच्यन्तरङ्गस्वीकारे तु गुणायादेशाभ्यां यान्तत्वापत्त्या "ह्‌म्यन्तक्षण" इति वृद्धिनिषेधे अचिरयीदित्यादिकमेव स्यादतः सिज्विषयेऽन्तरङ्गपरिभाषा न प्रवर्त्ततइत्यावश्यकमिति ।
तदपि चिन्त्यम् । हकारमकारसाहचर्येण यकारस्याप्यौपदशिकस्यैव ग्रहणेन अयादेशे तन्निषेधो न प्रवर्त्ततइति कल्पयितुं शक्यत्वात् । णिश्विग्रहणं च तत्सूत्रे स्थाप्यतएव । तदेव च औपदेशिकयकारान्तस्यैव निषेध इत्यत्र ज्ञापकम् । अन्यथा गुणायादेशयोः कृतयोः यान्तत्वादेव निषेधसिद्धौ तद्वैयर्थ्यापत्तेः । एवं चः साहचर्यस्य नियामकत्वं न सार्वत्रिकमित्यादि कुचोद्यमप्यनवकाशम् । एवं च णिश्विग्रहणस्य "सिच्यन्तरङ्गं नास्ति" इत्यत्र ज्ञापकत्वेनोपन्यासोऽप्यनुपपन्नः । अस्मद्रीत्याऽपि तद्वैयर्थ्याभावात् ।
एतेनोक्तलिङ्गोपष्टम्भेनैव "सत्यपि संभवे बाधनं भवति" इतिन्यायमाश्रित्य अन्तरङ्गं वृद्ध्या बाध्यते । अन्यथा तक्रेण दधि न बाध्येत । श्रमकजादिभिश्च शप्‌कप्रत्ययादयो न बाध्येरन् । "मिदचोऽन्त्यात्परः" इति श्रमो धातोरन्त्यादचः शपश्च प्रकृत्यवयवमात्रात्परत्र संभवात् । अकचश्च टिमध्यगतत्वेन कप्रत्ययस्य च तद्बहिर्भावेन देशभेदसत्त्वात् । न च मध्येऽपवादन्यायेन उवङेव वृद्ध्या बाध्येत न तु गुणः तस्य पश्चात्पठितत्वादिति वाच्यम् । बाध्यसामान्यचिन्तायां स्वविषयप्राप्तस्यापवादभिन्नस्य सर्वस्य बाधाभ्युपगमात् । अन्यथा "अचि र ऋतः" इति तिसृचतसृ इत्यनयोर्ऋकारस्य रेफादेशः प्रथमयोः पूर्वसवर्णदीर्घमुत्वं च बाधेत, न तु "ऋतो ङिसर्वनामस्थानयोः" इतिगुणम् । परपठितत्वात् । बाध्यसामान्यविशेषचिन्ते च लक्ष्यानुरोधाद्व्यवतिष्ठेते इत्यादिकमप्यपास्तम् ।
प्रकृते कल्पकस्यान्यथैवोपपादितत्वात्कल्पनाया मूलोच्छेदलक्षणबाधग्रहस्तत्वात् । यदपि भवदद्भिर्भाष्यकारचरणैरुक्तम् ।
यच्च करोत्यकारग्रहणं लघोरिति कृतेऽपि इति ।
तस्यायमाशयः । "अतो हलादेर्लघोः" इत्यत्र अद्ग्रहणं तावन्न संध्यक्षरव्यावृत्त्यर्थम्, लघोरित्यत एव सिद्धेः । इकारोकारऋकारास्त्ववशिष्यन्ते अचेतीत् अमोषीत् अनर्त्ती दित्यादौ ।
यदि तु सिच्यन्तरङ्गं स्यात्तर्हि अन्तरङ्गत्वेनैव गुणसिद्धौ तत्र वृद्ध्यप्रवृत्त्यर्थम् "अत " इति व्यर्थं स्यात् । पारिशेष्यादेव तस्याकारमात्रविषयकत्वसिद्धेः । तत्रापीदं चिन्त्यम् अकुटीदपुटीदित्यादौ "गाङ्‌कुटादिभ्यः" इति ङित्त्वेन गुणस्याप्रवृत्त्या तत्र वृद्धिर्मा भूदिति अद्ग्रहणं सार्थकमेव । न च तत्र वृद्धिरपि ङित्त्वेनैव न भविष्यतीति वाच्यम् । "लघोः" इति निर्दिष्टस्थानिकतया इग्लक्षणत्वाभावेन तदप्रवृत्तेः ।
यत्तु वृद्धावन्तरङ्गेण गुणेन बाधितायां ङित्त्वेन गुणबाधेऽपि न वृद्धेः प्रवृत्तिः । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य पुनरुन्मज्जनं भवतीति न्यायादिति । तन्न । यदि अकारसार्थक्ये आग्रहस्तर्हि अपवादनिषेधे पुनरुत्सर्गस्य प्रवृत्तिरित्याश्रयताम् । अन्यथा तु तत्परित्यागेऽपि क्षतिविरहात् । अत एव "वदव्रज" इत्यत्रास्मत्पक्षे वकारप्रश्लेषाधिक्यमपि न दोषावहम् । वृद्धिग्रहणस्य त्यागेन लाघवात् । "नान्तः पादम्" इत्यत्र तु सुजातेएश्वसूनृते इत्येतत्सिद्ध्यर्थं पूर्वरूपे निषेद्वे अयादीनामप्रवृत्तिरित्युक्तम् । अत्र त्वचिरायीदित्यादीनां फलानामन्यथैव साधितत्वेन वैषम्यात् । फलव्यतिरेकेणापि शब्दसार्थक्यमात्राय यत्किञ्चिदर्थज्ञापनोक्तेश्चानुचितत्वादित्यलमतिप्रसङ्गेन ।
तस्मादिह वृद्धिग्रहणं नोपयुज्यतएवेतिस्थितम् । इदं तु गुणग्रहणसाधारण्येन ।
वस्तुतस्तु सिद्धान्ते यता तथाऽस्तु । इक्‌परिभाषायां वृद्धिग्रहणानुपादानपक्षे तु इग्लक्षणवृद्धेरप्रसिद्ध्या अकुटीदित्यादौ वृद्धिवारणायैवात इत्यस्य सार्थक्यम् । पूर्वपक्षे वृद्धिमात्रस्यैव निषेध्यत्वात् । हलादेरित्यस्य च कुटादिभिन्नस्थले सावकाशत्वादित्यलमतिप्रसङ्गेन ।
इदं तु गुणग्रहणसाधारण्येन वाच्यम् । उक्तरीत्याऽनेककुसृष्टिकल्पनया गुणवृद्ध्योरिक्‌स्थानिकत्वसिद्धावपि तदपेक्षया "इको गुणवृद्धी" इत्येवाश्रयितुमर्हम् । "सेयं महतो वंशस्तम्बाल्लट्‌वाऽनुकृष्यते" इतिन्यायसाम्यादिति सूत्राद्यभिप्रायः ।
परमप्रकृतमनुसरामः । शब्दव्यापाराश्रयणं किम् । द्योः पन्थाः इममित्यादौ "दिव औत्" पथिमथ्यृभुक्षामात्" "त्यदादीनामः" इत्यौत्वमात्वमत्वं च अलोऽन्त्यपरिभाषया अन्त्यस्यैव यथा स्यादिति ।
यत्तु भाष्ये स इममित्युदाहृतम्, तत्र स इमं मन्त्रमफस्यदितिब्राह्मणवाक्यावयवत्वेन स इत्यंशः संपातायातः । न तूदाहरणप्रविष्टः । तच्छब्दे इकोऽसंभवान्नियमप्रवृत्तिशङ्काऽनुत्थानादिति केचित् ।
अन्ये तु "त्यदादीनामः" इत्यत्र इक इत्यस्योपस्थितौ द्विशब्दे इदंशब्दे च अत्वं स्यान्न त्वन्येषाम् । गणनिर्देशस्य "तदोः सः सौ" इत्यत्रानुवृत्त्यर्थत्वसंभवात्स इत्यप्युदाहरणमेवेत्याहुः ।
वस्तुतस्तु तथा सति "इदमो मः" इतिसूत्रं व्यर्थं स्यात् । तस्य मकारस्थाने त्यदाद्यत्वबाधमात्रार्थत्वात् । उक्तरीत्या च मकारेऽत्वप्रसक्तिविरहात् । एवम् "इदोऽय्‌ पुंसि" इत्यपि व्यर्थम् । इकारस्य त्यदादित्वादत्वे दो य्‌ पुंसि इति विधानादेव सिद्धेः । द्विशब्दमात्रार्थत्वे तु अलोऽन्त्यपरिभाषयैव गतार्थत्वम् ।
अस्यां च परिभाषायां तच्छेषतदपवादपक्षौ पूर्वपक्षतया संभाव्येते पदोपस्थितिपक्षस्तु सिद्धान्त इति । तत्राद्यो यथा "सार्वदातुकार्द्धदातुकयोः" इत्यत्र अङ्गगुणशब्दयोरनुवृत्त्या अङ्गस्येति षष्ठीनिर्देशाल्लिङ्गादलोऽन्त्यपरिभाषा गुणपदाच्च इक्‌परिभाषोपतिष्ठते । तत्र इक्‌पदमङ्गस्य विशेषणम् इगन्तस्याङ्गस्य गुणो भवतीति । स च भवन् "अलोऽन्त्यस्य" इत्यनयाऽन्त्यस्य भवतीति । तदाऽलोऽन्त्यपरिभाषा अस्याः शेषः ।
अथ त्वङ्गस्येतिषष्ठी अलोऽन्त्यपरिभाषया अन्त्ये अलि स्थापिता, अङ्गान्त्यस्य गुण इति, पश्चादिका अन्त्यो विशेष्यते अङ्गान्त्यस्य इको गुणः स्यादिति, तदा इयमेव तस्याः शेषः । सोऽयं तच्छेषपक्षः ।
तत्पदम् अलोऽन्त्यपरिभाषापरमिति पक्षद्वयसंग्रहः । बहुव्रीहितत्पुरुषाभ्यामुभयपरत्वात् । तत्प्रवृत्त्युत्तरप्रवृत्तिकत्वं तच्छेषत्वमुभयसाधारणं बोध्यम् । एतेनोक्तपरिभाषाद्वयैकवाक्यत्वस्य तच्छेषशब्दार्थत्वे राजकीयमित्यादौ अलोऽन्त्यपरिभाषाप्रवृत्त्यनापत्तिः, भिन्नदेशयोः परस्परनिराकाङ्क्षयोर्विध्युपकारकयोरेकवाक्यताऽनुपपत्तिश्चेत्यपास्तम् । द्वयोरेकविधौ प्रवृत्तिसंभवे तदितरपरिष्‌कृतविधिपरिष्कारकत्वस्य विवक्षितत्वात् ।
अथ गुणवृद्धिविधौ अङ्गस्येति न स्थानषष्ठी, किं त्विक इत्यपेक्षयाऽवयवषष्ठी, अङ्गावयवस्य इक इति, तदा स्थानषष्ठीरूपलिङ्गाभावादलोऽन्त्यपरिभाषा नोपतिष्ठते । ततश्चाङ्गावयवस्य यत्र तत्र स्थितस्य इको गुणवृद्धी स्त इति तदपवादपक्षः । न हि वस्तुतः शास्त्रेण प्राप्तस्य बाधसंभवः, किं तु बाधकत्वाभिमतशास्त्रेण बाध्यत्वाभिमतशास्त्रस्य स्वविषये प्राप्त्यभाव एव ग्राह्यते असत्यस्मिन्नत्रापि तत्प्रवर्त्तेतेति । उत्सर्गस्य स्वविषयाविषयकत्वकल्पनमेव बाध इति सर्वसिद्धान्तः ।
समुच्चयस्तु न संभवति, अन्त्यस्य इकश्च द्वयोरपि गुणः परिभाषाद्वयप्रामाण्यात्, तथा च "मिदेर्गुणः" इत्यत्र अन्त्यस्य इकश्च द्वयोरपि गुण इति । अङ्गस्येति सकृदुच्चरितषष्ठ्याः स्थानेयोगावयवयोगरूपार्थद्वयबोधनासंभवात् । स्थानेयोगव्यतिरेकेण च लिङ्गाभावादलोऽन्त्यपरिभाषाऽनुस्थानात् । आवृत्त्यादौ च प्रमाणाभावात् ।
अत एव मिदेरन्त्यस्य इको वा गुण इति विकल्पोऽप्यनुपपन्न इत्याशयेन भाष्ये नैतावाशङ्कितौ । तत्राद्ये "मिदेर्गुणः" इत्यादौ दोषः । अन्त्यस्य इक्‌त्वाभावात् इखश्चान्त्यत्वाभावात् । ततश्च भवतीत्यादौ परिभआषाद्वयस्य सावकाशत्वादत्र विनिगमकाभावादुभयपरित्यागे गुणस्य सर्वादेशत्वापत्तिः । यद्वार्त्तिकम्---
वृद्धिगुणावलोऽन्त्यस्येतिचेन्‌मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं कर्त्तव्यम् । सर्वादेशप्रसङ्गश्चानिगन्तस्येति ।
उक्तस्थलेषु सर्वादेशप्रसङ्गात्तत्तत्‌स्थलेषु इग्ग्रहणं कर्त्तव्यम् । चकारस्य हेत्वर्थकत्वात् ।
यदि त्वत्रपूर्वोक्तकुकल्पनाऽनुसारेण सर्वत्र इकां स्थानित्वं परिशेष्येत, तदा प्रतिपत्तावत्यन्तं गौरवम् । भिन्नमित्यादौ इग्‌लक्षणत्वाभावाद्गुणनिषेधानापत्तिश्च ।
यदि तु क्नोः कित्त्वाज्ज्ञापकादिग्लक्षणत्वाभावेऽपि लघूपधलक्षणस्य निषेधः, न तु गुणमात्रस्य, अतो लैगवायन इत्यादौ गुणस्य न निषेध इति कल्प्यते, तर्हि तदपेक्षया लाघवात्पदोपस्थितिपक्ष एव स्वीक्रियताम् । तदपवादपक्षेऽपि अजुहवुरित्यादिवत् अनेनिजुः पर्यवेविषुरित्यादावपि "जुसि च" इति गुणः स्यात् । भवतीत्यादिवदीहितेत्यादावपि "सार्वधातुकार्द्धधातुकयोः" इति गुणः स्यात् । अग्ने इतिवदग्निचिदित्यादावपि "ह्रस्वस्य गुणः" इति संबुद्धिगुणः स्यात् । अग्नय इतिवदग्निचित इत्यादावपि "जसि च" इति गुणः स्यात् । कर्त्तरीतिवत्सुकृतीत्यादावपि "ऋको ङिसर्वनामस्थानयोः" इति गुणः स्यात् । अग्नये इतिवदग्निचिते इत्यादावपि "घेर्ङिति" इति गुणः स्यात् । बाभ्रव्य इतिवत्सौश्रुत इत्यादावपि "ओर्गुणः" इति गुणश्च स्यात् । तथा च वार्त्तिकम्---
इङ्‌मात्रस्येतिचेज्जुसिसार्वधातुकार्द्धधातुकह्रस्वाद्योर्गुणेषु अनन्त्यप्रतिषेध इति ।
ह्रस्वादीति तद्गुणसंविज्ञानो बहुव्रीहिः । आदिपदं "जसि च" इत्यादिगुणत्रयपरम् । तथा च तदपवादपक्षे उक्तातिप्रसङ्गवारणायानन्त्यस्येको गुणो न भवतीति वचनान्तरं कल्प्यं स्यादिति गौरवमित्यर्थः ।
ननु सम्बुद्धिजसिगुणयोः "ऋतो ङि" इति गुणस्य च ह्रस्वस्येति ऋत इति च निर्दिष्टस्थानिकत्वात्कथामिक्‌परि भाषोपस्थितिः । अग्निचिते इत्यत्र च चिच्छब्दस्य घिसंज्ञाविरहादेव नातिप्रसङ्ग इतिचेत् अत्राहुः---
आद्ययोर्ह्रस्वेनेग्विशेषणात् । च चात्र परिभाषोपस्थानमेव दुर्लभम्, तस्या अनियमप्रसङ्गे नियमार्थत्वात्, अकारस्य गुणप्रवृत्तावपि वर्णान्तरापत्त्यभावेन क्षतिविरहादिति वाच्यम् । ह्रस्वस्याङ्गे विशेषणतया तस्य चावयवावयविभावसम्बन्धेन इग्विशेषणतया ह्रस्वान्तं यदङ्गं तदवयवस्य इको गुणः स्यादिति तदा सूत्रार्थः स्यात् । ततश्चाग्निचिदित्यादौ ह्रस्वान्तत्वाभावात् । अतिप्रसङ्गाभावेऽपि उपगोरित्यादौ उकारादेरपि गुणः स्यात् ।
यद्वा ह्रस्वाङ्गयोर्विशेषणविशेष्यभावनिरासार्थमङ्गपदोत्तरषष्ठ्याः स्थानेयोगत्वाबाधनायानन्त्यस्यापि गुणसिद्ध्यर्थमिक्‌परिभाषोपस्थितिः स्यात् । तथा च अङ्गं ह्रस्वं च इक एव विशेषणम् । आद्यस्यावयवत्वमन्त्यस्याभेदः संसर्ग इतिविशेषः । ततश्चाङ्गावयवस्य ह्रस्वाभिन्नस्य इको गुणः स्यादित्यर्थः । तथा च "ह्रस्वस्य" "जसि च" ित्युभयोरतिप्रसङ्गः सुघटः । एवम् "ऋतो ङि" इत्यत्र अङ्गावयवस्य ऋदभिन्नस्येति । "ओर्गुणः" इत्यत्र अङ्गावयवस्य उकाराभिन्नस्य इक इत्यर्थः । अग्निचिते इत्यादौ तु वर्णनिष्ठैव घिसंज्ञा न तु पदनिष्ठेतिपक्षे "घेर्ङिति" इत्यस्यातिप्रसङ्ग इति ।
नन्वङ्गावयवस्य इको गुण इतिपक्षे भेत्तेत्यादावपि गुणे सिद्धे "पुगन्तलघूपधस्य" इति नियमार्थम्, तथा च ईहितेत्यादौ न दोष इति चेत्, अत्राहुः---
यदि सार्वधातुकार्द्धदातुकयोर्लघूपधस्यैवेतिनियमः, तर्हि "ह्रस्वस्य गुणः" ओर्गुणः" इत्यत्र अतिप्रसङ्गदोष एव । न हि तत्र गुणः सार्वधातुकादिनिमित्तः ।
अथ लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति, तर्हि ईहितेत्यादौ दोष एव । न ह्यत्र गुणो लघूपधस्य । न च नियमद्वयेन निस्तारः । एकस्मिन्वाक्ये तदलाभात् ।
अथावृत्त्यादिकमाश्रीयते, तथाऽप्यनेनिजुरित्यत्रातिप्रसङ्कः । लघूपधाङ्गस्य सार्वदातुकस्य च तत्र सत्त्वात् । हे बुद्धे बुद्धयः पिचव्य बुद्धये इत्यादीनां लङूपधत्वाभावात् तत्रातिप्रसङ्गस्य सर्वथैव दुर्वारत्वाच्चेति कैयटः । तस्मात्तदपवादपक्षो दुष्ट एवेति स्थितम् ।
अत्र वदन्ति---अङ्गाक्षिप्तेन प्रत्ययेन अङ्गमेव विशेष्यतइति उक्तदोषप्रसङ्गः ।
यदि तु प्रत्ययेन श्रूयमाणेन जुसादिना च इग्विशेष्यते यथाश्रुति प्रत्ययपरस्य जुसादिपरस्य च इको गुणः स्यादिति, एवं ङिसर्वनामस्थानपरस्य ऋतदन्ताङ्गावयवस्येक इत्यादि, तदा न कोऽपि दोष इति, तच्चिन्त्यम् । अङ्गप्रत्यययोः परस्परमुत्थिताकाङ्क्षत्वात् । न च अङ्गस्य इग्विशेषणतापन्नत्वेन तदन्वयापेक्षया प्रत्ययस्य विशेष्ये इक्येवान्वय उचित इति वाच्यम् । विशिष्टस्य वैशिष्ट्यमित्यन्वयात्, सर्वनामस्थानपरं यदृदन्तमङ्गं तदवयवस्य इक इति । अन्यथा रक्तत्वादेरपि दण्डाद्यन्वयानापत्तेः । स्वसमवायिसंयोगेन पुरुषएवान्वयापत्तेः ।
अथ लक्ष्यानुरोधेन आकाङ्क्षां कल्पयित्वा इगन्वयः कल्प्येत, तथाऽपि पदोपस्थितिपक्षेण सह तारतम्यविचारदशायां गौरवस्य दुर्वारत्वात् । कथंचिदुपपत्तिमात्रस्याकिञ्चित्करत्वात् । प्रतिपक्षापेक्षलाघवस्यैव पक्षव्यवस्थापकत्वाच्च । एतेन मिद इः मिदिरित्यादिकल्पनाभिप्रायेण तच्छेषपक्षोपपत्तिकथनमप्यपास्तम् ।
अथास्तु पूर्वविप्रतिषेधेनालोऽन्त्यपरिभाषाबाधिकेयमिक्परिभाषेति क्रोष्ट्रीयाचार्यसंमतः पक्षः । न च विषयान्तरे लब्धावकाशयोरेव द्वयोर्विप्रतिषेधः, इक्‌परिभाषा त्वनवकाशा, अलोऽन्त्यपरिभाषानिर्मुक्तविषयाभावादिति न तत्सम्भव इति वाच्यम् । रामेभ्य इत्यत्र एकस्य स्थानिन आदेशद्वयस्येव मेद्यत इत्यत्र द्वयोः स्थानिनोरेकस्यादेशस्याप्यसम्भवादसम्भवमात्रस्यापि विप्रतिषेधपदार्थत्वादिति, तन्न । परिभाषाद्वयेन इकारदकारयोर्भिन्नविषयावच्छेदेन प्राप्त्या अस्ति च सम्भवो यदुभयं स्यादितिपक्षे तच्छेषादिपक्षाविशेषात् । सत्यपि सम्भवे बाधनं भवतीतिपक्षे तु एतत्परिभाषाऽनारम्भे "अलोऽन्त्यस्य" इति दकारस्यैव गुणः स्याद् । अतो येननाप्राप्तिन्यायेन तदपवादत्वमेवेति उत्सर्गापवादयोः विप्रतिषेधासम्भवात् । अप्रसिद्धविप्रतिषेधपदार्थकल्पनाया अनुचितत्वाच्चेति ।
तस्मात्पदोपस्थितिपक्ष एव श्रेयान् ।
इक इतिपदस्य "जुसि च" इत्यादावुपस्थाने पदैक्यवाक्यतया तदन्वयोऽन्तरङ्गः । अलोऽन्त्यपरिभाषा तु विधाववान्तरवाक्यार्थबोधोत्तरं वाक्यैववाक्यतया तत्र सम्बध्यतइति तदन्वयो बहिरङ्गः । अवान्तरवाक्यार्थबोधं विना स्थानषष्ठीत्वनिर्णयाभावादित्याहुः ।
तच्चिन्त्यम् । विधिवाक्येष्ववान्तरवाक्यार्थबोधाभावे इक्‌परिभाषोपस्थितेरपि दुर्घटत्वात् । गुणादिपदमात्रस्य तदुपस्थापकत्वे स्थानिविशेषनिर्देशस्थलेऽपि प्रवृत्त्यापत्तेः । अङ्गस्य गुणः स्यादित्यवान्तरवाक्यार्थबोधेऽङ्गगुणयोरुद्देश्यविधेयभावावगतौ सत्यामेव तत्प्रवृत्तेः । न च तथाऽपि तद्दोषतादवस्थ्यम् । स्थानिविशेषस्योपलक्षितत्वात् । न चैवं "सार्वधातुकार्द्धधातुकयो" इत्यादावङ्गस्येतिस्थानिनिर्देशादिक्परिभाषोपस्थित्यनुपपत्तिः । स्थान्यन्तरजिज्ञासानुत्थापकस्थानिनिर्देशाभावस्य विवक्षितत्वात् । नचैवं गुणपदादिक्परिभाषोपस्थितिरितिग्रन्थविरोधः । विशिष्टस्यैव तेनाभिमतत्वात् । अत एव गुणवृद्धिपदाभ्यां यत्र गुणवृद्धी विधीयेते इति व्याचख्युः ।
एतेनानुवादे परिभाषाऽनुपस्थानादेव "वृद्धिर्यस्य" इत्यादावनुवादे इक्पदानुपस्थितिसम्भवात् फलितार्थकथनमात्रं तदित्यपास्तम् । विधेयत्वाक्षिप्तस्य उक्ताभावस्य लिङ्गताऽवच्छेदकतया लिङ्गकोटौ प्रवेश इति तदभिप्रायात् । तस्मात्प्रथममवान्तरवाक्यार्थबोधः । तत इक्परिभाषोपस्थितिः । तत इक्पदैकवाक्यतया महावाक्यार्थबोधः । तत्र तु प्रथमं विधिवाक्यार्थबोधः । ततः स्थानषष्ठ्या अलोऽन्त्यपरिभाषोपस्थितिः । ततो विधिवाक्ये श्रुतायाः स्थानषष्ठ्या अन्त्ये अलि उपसंहारः । न तु शाब्दमेकवाक्यत्वम् । तथा चावान्तरवाक्यार्थबोध उभयोरप्युपजीव्यः ।
नन्वेवम् "मिदेर्गुणः" इत्यादौ इक्‌परिभाषाया एव बहिरङ्गत्वापत्त्या अलोऽन्त्यपरिभाषाया एवोपस्थितिः स्यात्, सत्यम् । स्थानत्वस्यादेशनिरूपिततया तत्रापि विधेयविशेषस्य लिङ्गान्तर्भावावश्यकत्वात् । आदेशविशेषानवगाहिनः स्थानत्वुप्रत्ययस्यानुपपत्तेः तत्परिभाषाप्रवृत्त्यनुपयोगित्वाच्च । न चैवमपि इक्‌परिभाषामात्रस्य तत्र प्रवृत्तौ नियामकाभाव इति वाच्यम् । उक्तरीत्या अन्तरङ्गबहिरङ्गभावाभावेऽपि अलोऽन्त्यपरिभाषाऽपवादस्य वाच्यत्वात् तावदपवादपरिहारपूर्वकप्रवृत्तिकतया तावदपवादप्रवृत्तिनिश्चयं विना तद्विषयपरिहारज्ञानस्यानुपपत्त्या तदधीनत्वादलोऽन्त्यपरिभाषाप्रवृत्तिनिश्चयस्य तस्या बहिरङ्गत्वानपायात् । एतेन "अलोऽन्त्यस्य" इत्यत्रापि पदोपस्थितिपक्षस्वीकारे उभयोः साम्यमिति निरस्तम् । तत्पक्षस्य भाष्याद्यनारूढत्वाच्च ।
केचित्तु तत्पक्षे "आदेः परस्य" इत्यत्राल्पदस्यार्थपरत्वं न स्यात् । तथा चासमासनिर्देशवैयर्थ्यम्, द्वीपमित्यत्र समस्ताप्‌शब्दस्य ईत्वापत्तिश्च, "आदेः परस्य" इत्यत्रापि पदोपस्थितिपक्षस्यैव तेन वाच्यत्वात् अल्पस्यार्थपरत्वानुपयोगात् न कोऽपि दोष इति वाच्यम् । तथाऽपि पदद्वयान्वयस्य वाच्यतया बहिरङ्गत्वानपायादित्याहुः ।
तत्र इकोऽङ्गस्येतिसामानाधिकरण्यान्वयस्य न्याय्यत्वादिक्पदार्थस्याङ्गविशेषणत्वे इगन्तस्याङ्गस्येतिवाक्यार्थे स्थानेयोगार्थकषष्ठीरूपलिङ्गस्य तादवस्थ्यादलोऽन्त्यपरिभाषोपतिष्ठतएव । "मिदेर्गुणः" इत्यादौ तु हलन्तत्वात् इको मिद इतिसामानाधिकरण्यायोगात् मिदेरवयवस्य इक इति वैयधिकरण्येनान्वये स्थानेयोगषष्ठीरूपलिङ्गाभावादलोऽन्त्यपरिभाषोपस्थित्यभावात् अनन्त्यस्यैव गुणसिद्धिः । न चात्रापि इक इति स्थानषष्ठ्यैवालोऽन्त्यपरिभआषोपस्थितिः स्यादिति वाच्यम् । तत्र इक इत्यस्योपस्थित्यनन्तरमलोऽन्त्यपरिभाषोपस्थाने अन्त्यस्य इक इत्यस्य इगवयवस्यान्त्यस्येत्यस्य चार्थस्य बाधितत्वात् । मिदेरन्त्यस्य इक्‌त्वाभावात् । अन्त्यस्य दकारस्य इगवयवत्वासम्भवाच्च । इकः स्थानित्वबोधे स्वातन्त्र्येणान्त्यस्य गुणविधाने चोपजीव्यविरोधात् । अङ्गस्येत्यादौ त्ववयवद्वारा अङ्गस्य स्थानित्वनिर्वाहान्नोपजीव्यविरोध इति वैषम्यम् । तस्मात्प्रकृत्यर्थनिष्ठस्थानित्वाविरोधिन्येव षष्ठी अलोऽन्त्यपरिभाषायां लिङ्गमिति सिद्धम् ।।
इति श्रीसिद्धान्तसुधानिधौ प्रथमाध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ।।


************************--------------------