श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः ३/आह्निकम् २

← आह्निकम् १ श्रीसिद्धान्तसुधानिधिः
आह्निकम् २
[[लेखकः :|]]

अनुदात्तङित आत्मनेपदम् 12 ।
(1.3.2)

"भूवादयः" इत्यतोऽनुवृत्तस्य "धातवः" इत्यस्य पञ्चम्यन्तत्वेन विपरिणामः । सादृश्यमात्रेण परिणामव्यवहारो वस्तुतो योग्यस्य शब्दान्तरस्यैव सन्निधानादिति कैयटः । आत्मनेपदेनैव धातुलकारयोराक्षेपः "इको झल्‌" इत्यत्र सना धातोरिवेति कौस्तुभः । ङिता धातोर्विशेषणात्तदन्तविधिः । द्वन्द्वान्ते श्रूयमाणस्य इत्पदस्य द्वाभ्यां सम्बन्धः । अनुदात्तांशे तदन्तविधेः फलाभावात् । "उपदेशे" इत्यनुवृत्तम् । तथाच अनुदात्तेत्कादुपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदमेव स्यात् । एधते । स्पर्द्धते । बोभूयते । ऋतीयते शीङस्तु व्यपदेशिवद्भावात् ङिदन्तत्वम् । विधीयते इत्यादौ त्ववयवेऽचरितार्थेन ङकारेण क्यङन्तं ङित्, ततो व्यपदेशिवद्भावेन ङिदन्तत्वाम् । उपदेशे किम् । चुकुटिषति । "गाङ्‌कुटादिभ्यः" इति अतिदेशात्सनो ङित्त्वम् । धातोरिति किम् । चङङ्‌भ्यां मा भूत् । अदुद्रुवत् । अच्युतत् ।
एतेन चिनुतः सुनुत इत्यादि व्याख्यातम् । "सार्वधातुकमपिद्" इति ङित्त्वस्यातिदेशिकत्वात् ।
ननूपदेशदातुशब्दयोरनुवृत्तिर्व्यर्था । विकरणेभ्यो नियमो बलीयान् इत्यस्य "वृद्ध्यः स्यसनोः" इत्यत्र ज्ञापयिष्यमाणत्वात् । प्रथममेवात्मनेपदनियमस्य प्रवृत्तेरिति चेत् ।
अत्राहुः---
उपसञ्जनिष्यमाणेनापि ङिता उपसञ्जातनिमित्तस्यापि परस्मैपदस्य बाधः स्यात् । विकरणव्यवधानेऽपि नियमप्रवृत्तिरित्यस्यापि ज्ञापनसम्भवात्, नियमस्य बलवत्तायाः पाक्षिकत्वाच्च ।
हरदत्तस्तु ङित इत्येव व्याचख्यौ । धात्वनुवृत्तौ प्रयोजनाभावात् । नियमस्य बलवत्त्वादेव चङादावदोषात् ।
नच भाविना ङिता बाधः । परस्मैपदस्य परत्वात् ।
अत एव प्रसादकृतोक्तं चङङोस्तु परस्मैपदप्रवृत्त्यनन्तरं प्रवृत्तत्वेन ङित्त्वेऽपि तङ्‌ नेति ।
केचित्तु यङीयङोर्ङकारस्य गुणवृद्धिनिषेधेन चरितार्थत्वमाशङ्क्य यङः प्रागनुदात्तमकारं प्रश्लिष्य अनुदात्तेत्त्वादेव तङ्‌ । न च यङन्ताद्‌ "अनुदात्तेतश्च हलादेः" इति युच्प्रसङ्गः । "जुचंक्रम्यदन्द्रम्य" इति ज्ञापकात्तदभावात् । ईयङः प्रागिकारमीकारं वाऽनुदात्तं प्रश्लिष्य आद्ये अन्तेदित्त्वाभावान्न नुम्, द्वितीये एकाच् इत्यनुवृत्तेः "श्वीदितो निष्ठयाम्" इति नेण्‌निषेध इति कल्पयांचक्रुः ।
ननु यङ्‌लुक्यतिव्याप्तिः, प्रत्ययलक्षणेन ङिदन्तत्वात् ।
अत्र प्राञ्चः---"बोभूतेतिक्ते" इति तिजेर्यङ्‌लुगन्तादात्मनेपदविधानं ज्ञापकं यङ्‌लुगन्तात्प्रत्ययलक्षणेनात्मनेपदं नेति । अत एव "चर्करीतं च" इति अदादौ पठितस्य चकारात्पदस्मैपदमिति व्याख्यानं ज्ञापकसिद्धार्थस्फुटीकरणार्थम् इत्याहुः ।
यद्वा ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणतया प्रत्ययलक्षणेनात्मनेपदं नेति । अत एव न तत्प्रयुक्तात्मनेपदप्रवृत्त्यभावः । अत एव गोहितमित्यादाववादयो न । शोभना दृषदो यत्र तत् सुदृषत् इत्यत्र "सोर्मनसी इति स्वरः" "अत्वसन्तस्य" इति दीर्घश्च न भवतीति सिद्धान्तः ।
अथ पास्पर्द्धीत्यत्रात्मनेपदं स्यात् स्पर्द्धेरनुदात्तत्वात् । द्विः प्रयोगो द्विर्वचनं षाष्टम् इति सिद्धान्तात्प्रकृत्यन्तरत्वाभावात् ।
मैवम् । "स्तिपा शपाऽनुबन्धेन" इति निषेधात् । अनुबन्धनिर्देशो हि द्वेधा विशिष्य सामान्यतश्चाआद्यः---"शीङः सार्वधातुके गुणः" इत्यादौ, द्वितीयः "अनुदात्तेतः" इत्यादौ । "आङोयमहनः" इत्यादौ उपसर्गानुबन्धस्यैव निर्द्देशो न प्रकृत्यनुबन्धस्येति यङ्‌लुकि भवत्येव । उक्तनिषेधस्य प्रकृतिग्रहणे यङ्‌लुगन्तस्य ग्रहणमित्येतदपवादत्वात् । अत एव चेत्तितः मरीमृष्ट इत्यादौ "क्ङितिच" इति निषेधप्रवृत्तिः ।
अनुदात्तेत्त्वलक्षणं चात्मनेपदमनित्यं चक्षिङो ङित्करणात् । विचक्षणः प्रथयन्नित्यादावन्तोदात्तपाठानुरोधेन "अनुदात्तेतश्च हलादेः" इति युचो वक्तव्यत्वात् अनुदात्तेत्त्वनिर्णयात् । अत एव स्फायन्निर्मोकसन्धिप्रचलदविगलत्संमदस्वेदपूरा इति मुरारिः । स एवायं नागः सहति कलभेभ्यः परिभवमिति तु आधृषाद्वेति विकल्पितणिचः सहे रूपम् ।
इदं च प्रकरणं नियमार्थम् । लस्य तिबादयः, "लटः शतृशानचौ", "लिटः कानज्वा", "क्वुसुश्च", "लृटः सद्वा" इत्यात्मनेपदपरस्मैपदानां विहितत्वात् ।
स्यादेतत् । विकरणानामवकाशो लादेशभिन्नाश्चानशादयः । नियमस्य आशीर्लिङ्‌लिटौ, तदादेशानामार्द्धदातुकत्वात् तत्र विकरणानवकाशात् । लुक्‌श्लुश्नमश्च । आद्ययोर्विकरणयोपेनान्त्ये च मध्यपातित्वेन व्यवधानविरहात् । स्पर्द्धते इत्यादावुभयप्रसङ्गे परत्वान्नित्यत्वाच्च विकरणानां पूर्वमुत्पत्त्या तैर्व्यवधानान्नियमो न प्रवर्त्तेत । तस्मादेकवाक्यतया विधिरवास्तुः तथा हि आत्मनेपदपरस्मैपदाभ्यां लिङ्गाभ्याम् इदं प्रकरणं लादेशविधावुपतिष्ठते तत्र महावाक्येन विहितेषु लादेशेषु सार्वधातुकमाश्रित्य पश्चाद्विकरण इति न दोषः ।
नन्वेवमपि स्यादीनां लावस्थायामेव विधानात्तद्व्यवधानाद्दोषतादवस्थ्यमिति चेत् ।
न । लमात्रापेक्षत्वादन्तरङ्गा लादेशाः लकारविशेषापेक्षया बहिरङ्गाः स्यादय इति लादेशानां पूर्वमेव प्रवृत्तेः । लादेशानन्तरमेव स्यादीनां प्रवृत्तिः, अन्यथा तासेः परस्य लसार्वधातुकस्यानुदात्तविधिना विकरणस्वरस्सार्वधातुकस्वरं न बाधते इत्येतज्ज्ञापनानुपपत्तेरिति तृतीये वक्ष्यमाणत्वाच्च । येननाप्राप्तिन्यायेन शबादीन्बाधित्वा, शबादिविधावनुवर्त्तनाद्वा ।
ननु संज्ञया विधानं विहितानां च संज्ञेत्यन्योन्याश्रयः । एकवाक्यतापक्षे पूर्वं लादेशविध्यभावेन विहितानुवादेनात्मनेपदपरस्मैपदसंज्ञयोर्विध्ययोगादिति चेत् ।
मैवम् । परस्मैपदानुक्रमणपरित्यागेन तत्रेतरेतराश्रयाभावात् । नचैवमनुदात्तङिद्भ्योऽपि तत्प्रसङ्गः । तेषामात्मनेपदसम्बन्धावगमेन परस्मैपदसम्बन्धस्य बाधनात् । नच "अनुपराभ्यां कृञः" इत्यात्मनेपदनिषेधार्थँ तदनुक्रमणस्यावश्यकत्वम् । "स्वरितञितः" इत्यनन्तरं कर्तर्यनुपराभ्यां कृञो नेतिसूत्रणीयत्वात् । आत्मनेपदेषु च भाविसंज्ञाविज्ञानात् ।
अत्र भाष्यम्---"पुषादिद्युताद्य्‌लृदितः परस्मैपदेषु" "आत्मनेपदेष्वन्यतरस्याम्" इत्यादि ज्ञापयति "विकरणेभ्यो नियमो बलीयान्" इति कृतनियमानामसङ्करेण स्थितानामेव निमित्तत्वोपपत्तेः अतो न दोषः ।
अथ नियमात्प्रागपि सम्भवमात्रेण निमित्तत्वं स्यादितिचेत्तर्हि "अनुपसर्गाद्विभाषा" इति ज्ञापकम् ।
नन्वेतदपि लिङ्‌लिडर्थं स्यात्---चक्रमे, चक्राम, क्रम्यात्, क्रंसीष्ट इति चेत् ।
अत्र कैयटादयः---"वृद्ध्यः स्यसनोः" इति स्ये विकल्पविधानं ज्ञापकम् । अन्यथा पूर्वं विकरणे प्रत्यये कृते तेन व्यवहितत्वान्नियमाप्रवृत्तौ पदद्वयं सिद्धमेवेति किं विकल्पविधिना । तस्मान्नियम एव युक्तः । भाविसंज्ञाविधाने गौरवात् ।
स्यादेतत् । अनुदात्तङित एव आत्मनेपदं भवतीति प्रत्ययनियमोऽयम्, उतानुदात्तङित आत्मनेपदमेव, भावकर्मणोरात्मनेपदमेवेति प्रकृत्यर्थनियमः । नच पूर्वेण नियमाद् "भावकर्मणोः" इत्यस्य विध्यर्थत्वमेवेति वाच्यम् । समस्तमात्मनेपदप्रकरणम् एवं वाक्यमित्याशयात् अनुदात्तङिद्‌भ्योऽपि परस्मैपदापत्तेः । उक्तनियमेन अनुदात्तङिदन्येभ्य आत्मनेपदस्य निवृत्तावपि अनुदात्तङिद्भ्यः परस्मैपदस्य दुर्वारत्वात् । तदर्थं "शेषात्कर्तरि" इति नियमारम्भे च गौरवम् ।
किञ्च "वा क्यषः" इति परस्मैपदे विकल्पिते आत्मनेपदस्यानुदात्तङित्सु नियतत्वात्त्वत्पक्षे लकारमात्रश्रवणं स्यात् ।
न द्वितीयः । अनुदात्तङिद्‌भ्यस्तृजादीनामनुत्पत्तिप्रसङ्गात् । भावकर्मणोरात्मनेपदमेवेत्यर्थनियमेऽप्येवम् ।
अत्र सिद्धान्तः---शेषात्परस्मैपदमेवेति नियमादाद्यपक्षे नातिप्रसङ्गः । नच तत्सूत्रारम्भादेन गौरवम् । प्रामाणिकत्वात् । नच कर्तरीत्युक्तेः कर्तरि परस्मैपदमेवास्तु, भावकर्मणोस्तु जागर्यते अद्यते इत्यादौ परस्मैपदं स्यादिति वाच्यम् । तत्रात्मनेपदमेवेति नियमात् । किञ्चेत्याद्यपि न । लादेशेषु कृतेषु नियमप्रवृत्तेः, आत्मनेपदस्य विकल्पेन विधानात् । शेषवचनेनैव परस्मैपदसिद्धेः ।
अथ कीदृशस्तत्र नियमः कर्तरि परस्मैपदं शेषादेवेति वा शेषात्कर्त्तर्येवेति वा ।
नाद्यः अशेषात्कर्तरि तद्व्यावृत्तावपि भावकर्मणोः शेषादशेषाच्च तस्य दुर्वारत्वात् ।
नान्त्यः । शेषाद्भावकर्मणोस्तद्व्यावृत्तावपि अशेषाद्भावकर्मकर्तृषु तस्य दुर्वारत्वात् ।
मैवम् । योगविभागेन नियमद्वयाश्रयणात्---शेषादेव परस्मैपदं कर्तर्येवेतिच । एवं कृत्यर्थनियमोऽप्यदोषः । तृजादीनामनवकाशत्वात् । परस्मैपदमेवेति नियमेन तत्राप्यवकाशायोगात् । तयोरेवेति भावकर्मणोस्तव्यदादिविधेरप्यनवकाशत्वात् । चिणोऽप्यनवकाशत्वात् । वस्तुतो भावकर्मणोः सार्वधातुकार्थत्वात् ।
नचैवमपि घञ्‌ न स्यादिति वाच्यम् । अकर्तरीतिविहितस्यापादानादिषु सावकाशत्वेऽपि भावकर्मणोर्विहितस्यानवकाशत्वात् । नाप्यत्रात्मनेपदस्यानियतत्वादत्तीत्यादौ प्रसङ्गः । शेषात्परस्मैपदमेवेति नियमात् । नच तेन कर्तर्येवात्मनेपदव्यावृत्तावपि शेषाद्भावकर्मणोः परस्मैपदं दुर्वारमिति वाच्यम् । तत्रात्मनेपदमेवेति नियमात् । तस्मान्नियमद्वयमपि स्थितम् ।
अत्रेदमवधेयम्---प्रकृत्यर्तनियम एव युक्तः । तथाहि---शेषात्कर्तरीत्यपाहय परस्मैपदमित्येव सूत्रणीयम् । यत्र परस्मैपदमात्मनेपदमपि प्राप्तं तत्र परस्मैपदमेव स्यात् । प्रत्ययनियमपक्षे तु "शेषाद्‌" इति "कर्तरि" इति च वाच्यम् । योगश्च विभजनीय इति गौरवम् । तिबादिवाक्येन सह वाक्यभेदः । परिसंख्याप्रयुक्तदोषत्रयं च नियमद्वयेऽपि समानम् । तदसहने तु लस्य तिबादय इत्यनेन सहैकवाक्यत्वादिदं प्रकरणं विधायकमेव शेषात्कर्तरीतिच कर्तव्यमेव अन्योन्याश्रयपरिहारायच भाविसंज्ञा विज्ञेया । एवं च विकरणेषु न दोषः । लादेशोत्तरं सार्वधातुकमाश्रित्य विकरणप्रवृत्तेः । न च स्यादिषु दोषः । लमात्रापेक्षतयाऽन्तरङ्गेषु तिबादिषु कृतेषु लकारविशेषापेक्षतया बहिरङ्गाणां स्यादीनां प्रवृत्तेरिति कौस्तुभकृतः ।

भावकर्मणोः 13 ।

विहितस्य लस्यात्मनेपदं स्यात् । सुप्यते । क्रियते । एकवाक्यतया विधिर्भिन्नवाक्यतया नियमो वेति पूर्वत् । सोऽपि द्विधा---प्रत्ययनियमोऽर्थनियमश्चेति । नचान्त्ये को भवता लाभो लब्ध इत्यत्र घञोऽसिद्धिः । सजातीयस्य परस्मैपदस्यैव व्यावृत्तेः ।
ननु भिद्यते कुशूलः स्वयमेवेत्यत्र कर्मकर्तरि परस्मैपदं प्राप्नोति । "कर्मवत्कर्मणा" इति हि शास्त्रस्य, व्यपदेशस्य वाऽतिदेशः । तथाच तेन तेन शास्त्रेण तत्तत्कार्यं कर्तव्यम् । कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता, कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मैपदमिति ।
मैवम् । प्राधान्यात्कार्यातिदेश एव सः । सर्वातिदेशानां कार्यार्थत्वात् । पक्षान्तरे तु "शेषात्कर्तरि" इति सूत्रे "कर्तरि कर्मव्यतिहारे" इत्यस्मात् "कर्तरि" इत्यनुवर्त्त्य कर्तैव यः कर्ता तत्र परस्मैपदम् । व्यपदेशान्तरस्याविषय इति यावत् । तत्र तु स्वाश्रयं कर्तृत्वमातिदेशिकं तु कर्मत्वमिति न परस्मैपदम् ।

कर्तरि कर्मव्यतिहारे 14 ।

विनिमयविषयभूतायां क्रियायां वर्त्तमानाद्धातोः कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते ।
ननु क्रियाणां साध्यैकस्वभावत्वात्कथं व्यतिहार इति चेत् ।
अत्राहुः---योग्यतावशादस्येयं क्रिया साध्या अस्या इदं साधनमिति निर्ज्ञातसाध्यसाधनभावयोर्व्यत्यासः क्रियाव्यतिहारः । यथा संप्रहरन्ते राजान इति । अत्रैकैव क्रिया संचारिणीव संलक्ष्यते इति । कर्तृग्रहणमुत्तरार्थम् ।

न गतिहिंसार्थेभ्यः 15 ।

पूर्वेण प्राप्तं न स्यात् । व्यतिगच्छन्ति । व्यतिघ्नन्ति ।
"प्रतिषेधे हसादीनामुपसंख्यानम्"।
व्यतिहसन्ति । आदिपदं प्रकारार्थम् तेन शब्दार्थानां ग्रहणम् । व्यतिजल्पन्ति ।
"हरतेरप्रतिषेधः" ।
सम्पहरन्ते राजानः । अर्थग्रहणसामर्थ्याच्छब्दान्तरनिरपेक्षा एव ये गतिहिंसयोर्वर्त्तन्ते तेषामेव निषेधः । हरतिस्तूपसर्गयोगादेव हिंसावृत्तिरत इदं लभ्यते इत्याहुः ।
ततः संप्रहरिष्यन्तौ दृष्ट्वा कर्णधनञ्जयावित्यत्र कर्मव्यतिहारो न विवश्रित इति कैयटः । `वहेरनिषेधः' प्रापणार्थत्वात् । आक्षेपेण गतिप्रतीतेः । संविवहन्ते गर्गाः ।

इतरेतरान्योऽन्योपपदाच्च 16 ।

आत्मने पदं न स्यात् । "परस्परोपपदाच्चेति वक्तव्यम्" इतिरेतरस्य व्यतिलुनन्ति । लौकिकव्यवहारे शब्दलाघवस्यानादरादितरेतरादिशब्दा उपसर्गाश्च कर्मव्यतिहारद्योतनाय प्रयुज्यन्ते तद्वदात्मनेपदमपि स्यादिति निषेधारम्भः । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् इत्यत्र क्रियाविनिमयस्याविवक्षा ।

नेर्विशः 17 ।

निपूर्वाद्विश आत्मनेपदं स्यात् । निविशते । नेः किम् । प्रविशति ।
अथ कथं न्यविशत न्यविक्षत इति । नच स्वाङ्गमव्यवधायकमिति वा समाधेयम् । अङ्गभक्तस्याटो विकरणान्तं प्रत्यवयवत्वेऽपि धातुं प्रत्यनवयवत्वात् ।
अत्राहुः---लावस्थायामेवाडागमः । "लुङ्‌लङ्‌---" इत्यत्र द्विलकारको निर्देशः इति भाष्ये वक्ष्यमाणत्वात् । लकारविशेषापेक्षमडागमं बाधित्वा लमात्रापेक्षत्वादन्तरङ्गेषु तिबादिषु कृतेषु नियमस्य प्रवृत्तेश्च । "विकरणेभ्यो नियमो बलीयान्" इति सिद्धान्तात् । अथ तज्ज्ञापकेन विकरणव्यवधानेऽपि नियमप्रवृत्तिरिति ज्ञाप्यते तथाऽप्यदोषः । अन्तरङ्गत्वात्तिवादिषु सत्सु शब्दान्तरप्राप्त्याऽनित्ययोरड्‌विकरणयोर्मध्ये परत्वादट्‌प्रवृत्तेः । नच विकरणः शब्दान्तरात्प्राप्तो न तु शब्दान्तरस्येति वाच्यम् । नहि शब्दान्तरस्येति वाचनिकं किन्तु न्यायः । तथा च शब्दान्तरस्य प्राप्नुवत इव शब्दान्तरात्प्राप्नुवतोऽप्यनित्यत्वम् । यद्व्यक्तिसम्बन्धितया पूर्वं प्राप्नोति तद्व्यक्तिसम्बन्धितया पुनः प्राप्तेस्तुल्यत्वात् । अत एव "उपसर्गपूर्वनियमेऽड्‌व्यवाये उपसंख्यानम्" इति वार्त्तिकं "शदेः शितः" इति सूत्रे भगवता प्रत्याख्यातमिति दिगिति केचित् ।
केचित्तु विकरणेभ्यः पूर्वमेव परत्वादडागमे तस्य धातुभक्तत्वान्न व्यवधायकत्वम् । विकरणेभ्यो नियमस्य बलवत्त्वेऽपि अडामाद्बलवत्त्वाभावेनाडागमात्पूर्वं "नेर्विशः" इति बहिरङ्गस्य नियमप्रवृत्त्ययोगाच्च । नच विकरणात्पूर्वं नियमो भवतीत्यत्रैव तात्पर्यं नत्वडागमादपि पूर्वम्, तथा च परत्वादडागमे कृते तस्य धातुभक्तत्वेनाव्यवधायकत्वान्नियमप्रवृत्तिरित्यभिप्राय इति वाच्यम् । नियमस्य विकरणाद्बलीयस्त्वेऽपि नित्यस्य विकरणास्याडागमात्परस्य दुर्बलत्वस्यानुक्तत्वेनाडागमात्पूर्वं प्रवृत्तेरनिवारणात् । अडागमाभावस्थले तत्परिभाषायाः सार्थक्याच्च । विकरणव्यवधानेऽपीत्यादिकमप्ययुक्तम् । विकरणस्यानित्यत्वे मानाभावात् । अन्यस्य प्राप्नुवत एवानित्यत्वमिति भाष्यकृता व्यवहारात् । शब्दान्तरस्य प्राप्नुवन्विधिरनित्य इति वचनमूलन्यायस्याप्रसिद्धेः । भाष्यकृता अटो नित्यत्वोक्तावपि विकरणानामनित्यताया अनुक्तत्वात् । कृताकृतप्रसङ्गित्वमात्रेण न्यायान्नित्यत्वमाश्रित्य भुवो वुको नित्यत्वादिन्धेः छन्दोविषयत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति "इन्धिभवतिभ्याञ्च" इतिसूत्रं प्रत्याचक्षाणेन भगवता तत्सूत्रावयवभवतिग्रहणज्ञापितस्यान्यस्य प्राप्नुवन्विधिरनित्य इति वचनमाश्रित्य न्याय्यमड्‌विकरणयोर्नित्यत्वमाश्रित्यैव परत्वादटः पूर्वं प्रवृत्तिमभ्युपेत्य वा नेरित्यस्य षष्ठ्यन्तत्वमाश्रित्य तद्वार्त्तिकस्य प्रत्याख्यातत्वात् । एतेन वृत्तिसीरदेवग्रन्थावप्यपास्तावित्याहुः ।

परिव्यवेभ्यः क्रियः 18 ।

एभ्यः क्रीणातेरात्मनेपदं स्यात् । क्रिय इत्यत्र प्रकृतिवदनुकरणमिति धातुत्वादियङ्‌ । अकर्त्रभिप्रायार्थोऽयमारम्भः । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । परस्परसाहर्यात्पर्यादय एव उपसर्गा गृह्यन्ते । नेह वे क्रीणासीति । एकदेशविकृतस्यानन्यत्वात्प्राप्तिः । नच विभक्तिविशिष्टस्य विरित्यस्यायं विकारो न तु विशब्दस्येति कैयटेन वक्ष्यमाणत्वान्न दोष इति वाच्यम् । विभक्तेर्लोपात्प्रकृतिभागस्यैव विकारात् । पक्षिवाचिनो विशब्दस्य सम्भवे तु साहचर्यादुपसर्गग्रहणमिति कैयटेन वक्ष्यमाणत्वाच्चेत्याहुः ।
वस्तुतः परत्वान्नित्यत्वाच्च पूर्वं गुणे कृते पश्चात्सुलोपः । अन्यथा तत्र एङ्‌ग्रहणवैयर्थ्यात् तदा च विस् इत्यस्य वेस् इति विकार इति विशब्दस्य न वे इति विकार इति बोध्यम् ।

विपराभ्याञ्जेः 19 ।

विजयते । पराजयते । जयाभिभूत्यर्थयोर्द्वयोरपीह ग्रहणम् । बहवो वयः पक्षिणो यत्र तत् बहुवि जयति वनम् इत्यत्र तु न भवति । जहत्स्वार्थायां वृत्तावनर्थकत्वात् । अजहत्स्वार्थायामपि तदर्थस्योपसर्जनत्वात् । सम्बोधने तु प्रागुक्तम् ।
नच वी जयत इत्यत्रैकादेशस्य पूर्वं प्रत्यन्तवद्भावाद्विशब्दपरो जिरस्तीति वाच्यम् । पूर्वस्य कार्ये कर्तव्ये एवान्तवद्भावात् । परा जयति सेना । उत्कृष्टेत्यर्थः । प्रकृतिवदित्यतिदेशस्यानित्यत्वात् जेरित्यत्र इयङभावः ।

आङो दोऽनास्यविहरणे 20 ।

आङ्‌पूर्वान्मुखविकासनभिन्नार्थवृत्तेर्दाञ आत्मनेपदं स्यात् । आस्यवृत्तित्वाभावादन्येषां दारूपाणामग्रहणमिति कैयटः । विद्यामादत्ते । आस्यग्रहणं विशेषोपलक्षणार्थम् । मुखं व्याददाति । विपादिकां व्याददाति । नदीकूलं व्याददाति । पराङ्गकर्मकादनास्येति निषेधो नेष्यते "स्वाङ्गकर्मकाच्च" इति वार्त्तिकात् । स्वमङ्गमिह स्वाङ्गं न त्वद्रवं मूर्त्तिमदिति परिभाषितम् । व्याददते पिपीलिकाः पतङ्गस्य मुखम् । आङिति ङितो ग्रहणान्नेह भिक्षामाददाति । स्मृतावयमाकार इत्याहुः ।
अकर्त्रभिप्रायार्थोऽयमारम्भः । कर्त्राभिप्राये तु आस्यकर्मकादपि भवत्येव । व्यादत्ते विहगपतिर्मुखं स्वकीयम् । मुखं व्यादाय स्वपितीत्यस्य सुप्त्वा मुखं व्यादत्ते इति व्यत्ययेनार्थिति वाचस्पतिमिश्राः ।

क्रीडोऽनुसंपरिभ्यश्च 21 ।

क्रीड्ट विहारे । चकारादाङ्‌ । अनुक्रीडते इत्यादि । उपसर्गेण समा साहचर्यात् अनोः कर्मप्रवचनीयान्न । माणवकमनुक्रीडति । तेन सहेत्यर्थः । "तृतीयार्थे" इत्यनुः कर्मप्रवचनीयः ।
"समोऽकूजने" ।
मयाऽस्य संक्रीडति चक्रिचक्रे इति श्रीहर्षः । क्रीडते नागराज इति तु प्रमादः ।
"आगमेः क्षमायाम्" ।
आगमयस्व तावत् । सहस्व कंचित्कालं मा त्वरिष्ठा इत्यर्थः । यावदागमयतेऽथ नरेन्द्रानिति श्रीहर्षः ।
"शिक्षेर्जिज्ञासायाम्" ।
विद्यासु शिक्षते । इह शकिः सन्नन्तो गृह्यते इति विध्यर्थमिदम् । क्रियाविषयश्च शकिः प्रयुज्यते । भोक्तुं शक्नोतीत्यादिदर्शनात् । इह जिज्ञासाविषयः शकिर्गृह्यते । विद्यां जिज्ञासितुं घटते इत्यर्थः । नच तत्प्रयोगापत्तिः । आत्मनेपदेनैव जिज्ञासाप्रतीतेरिति केचित् ।
अन्ये तु "शिक्ष विद्योपादाने" इत्यस्य नियमार्थं ग्रहणमित्याहुः । नचाद्ये ज्ञानविशिष्टशक्तेरिच्छाविषयतया ज्ञानविषयकेच्छार्थकं जिज्ञासायामित्यसङ्गतमिति वाच्यम् । ज्ञानस्यापि विशेषणतया विषयत्वानपायात् । इच्छा सन्वाच्या शक्तिर्धात्वर्थः, इच्छाया ज्ञानविषयकत्वं त्वात्मनेपदेन द्योत्यते इति ।
"किरतेर्हर्षजीविकाकुलायकरणेषु उपसंख्यानम्" ।
किरतिर्विक्षेपार्थः, हर्षादयस्तु विषयत्वेनोपात्ताः । एतेष्वेवार्थेषु "अपाच्चतुष्पाद्‌" इति सुटो विधानात् । अपस्किरते वृषोहृषः, कुक्कुटो भक्षार्थी, श्वा आश्रयार्थी वा । हर्षादिषु किम् । अपकिरति कुसुमम् । यद्यप्यात्मनेपदविधौ यतुष्पाक्छकुनिकर्तृकत्वं निमित्ततया नोपात्तं तथाऽपि सुटा सह समानविषयोऽयं तङ्‌ । तेन गजोऽपकिरतीत्येव भवतीत्याहुः ।
"हरतेर्गतताच्छील्ये" ।
गतं प्रकारः । पैतृकमश्वा अनुहरन्ते मातृकं गावः । पित्रादेर्गतं प्रकारं सततं शीलयन्तीत्यर्थः । मातुरनुहरतीति तद्धितार्थसूत्रगतभाष्ये सादृश्यमात्रं विवक्षितमिति कैयटः ।
"आङि नुप्रच्छ्योरुपसंख्यानम्" ।
आनुते । उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः । णु स्तुतौ । अदादिः । आपृच्छते गुरुम् ।
"आशिषि नाथः" ।
नियमार्थमेतत् । नचानुदात्तेत्त्ववैयर्थ्यम् । नाथन इति युजर्थत्वात् । सर्पिषो नाथते । सर्पिर्मेभूयादित्याशास्ते इत्यर्थः । "आशिषि नाथः" इति कर्मणि षष्ठी । दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथा इत्यत्र नाधसे इतीत्याहुः ।
"शप उपालम्भने" ।
शप आक्रोशे---स्वरितेत् । अकर्तृगफलार्थ आरम्भः । देवदत्ताय शपते । त्वत्पादौ स्पृशामि नैतन्मया कृतिमित्येवं शपथं करोतीत्यर्थः । "श्लाघह्‌नुङ्‌स्थाशपां ज्ञीप्स्यमानः" इति सम्प्रदानसंज्ञा । यस्मै आख्यायते स ज्ञीप्स्यमान इत्येके । य आख्यायते स इत्यन्ये । सख्यः शपामि यदि किं चिदपि स्मरामि इत्यत्र तु स्वाभिप्रायाविष्करणमात्रविवक्षा ।

समवप्रविभ्यः स्थः 22 ।

सन्तिष्ठते इत्यादि । "आङः प्रतिज्ञायमुपसंख्यानम्" अस्तिं सकारमातिष्ठते । आगमौ गुणवृद्धी आतिष्ठते । अस्यार्थः---आपिशलिः "अस भुवि" इत्यत्र सकारमात्रं पठति । अस्ति आसीदित्यादावडाटावागमौ विधत्ते ।

प्रकाशनस्थेयाख्ययोश्च 23 ।

गोपी कृष्णाय तिष्ठते । स्वाभिप्रायं प्रकाशयति । स्थेयो विवादपदनिर्णेता । बाहुलकादधिकरणे अचो यत् । तत्त्वाय तिष्ठ स्वमुखे स्व एवेति श्रीहर्षः । तत्त्वनिर्णयार्थमाश्रयेत्यर्थः ।

उदोऽनूर्ध्वकर्मणि 24 ।

उर्ध्वसंयोगफलकत्वाभाववक्त्रियावृत्तेरुत्पूर्वात्तिष्ठतेस्तत्प्राग्वत् । "उद ईहायाम्" इति वार्तिकं कर्मपदप्रयोजनकथनार्थम् । कायपरिस्पन्दात्मिकायां चेष्टायामिति यावत् । अन्यता अनूर्ध्व इत्येवावक्ष्यत् । धातोः क्रियावाचित्वनियमात् तल्लाभात् । उत्तिष्ठमानस्तु परः । अनूर्ध्वेति किम् । जवेन पीठादुद्‌तिष्ठदच्युतः । ईहायां किम् । उत्तिष्ठति सेना । जायते इत्यर्थः ।

उपान्मन्त्रकरणे 25 ।

मन्त्रकरणकार्थवृत्तेरुपपूर्वकात्तिष्ठतेः प्राग्वत् । ऐन्द्र्या गार्हपत्यमुपतिष्ठते । मन्त्रेति किम् । भर्तारमुपतिष्ठति यौवनेन ।
"उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वक्तव्यम्" ।
अमन्त्रकरणार्थमेतत् । आदित्यमुपतिष्ठते ।
बहूनामप्यचित्तानामेको भवति चित्तवान् ।
पश्य वानरसैन्येऽस्मिन्यदर्कमुपतिष्ठते ।।
मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम् ।
कपेस्तदपि कापेयं यदर्कमुपतिष्ठति ।।
इति भाष्यम् । देवपूजां मत्वा पूर्वमात्मनेपदं परत्र तु चापलमेतन्न पूजनमिति तदभाव इति कैयटः । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती । देवतात्वारोपात् । रथिकानुपतिष्ठते । उपश्लिष्यतीत्यर्थः । अश्वारोहानुपतिष्ठते । अनुपश्लिष्टस्यापि मैत्रीसंबन्धः । अयं पंथाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ।
"वा लिप्सायामिति वक्तव्यम्" ।
भिक्षुको ब्राह्मणमुपतिष्ठते उपतिष्ठति वा । लिप्सयोपगच्छतीत्यर्थः ।

अकर्मकाच्च 26 ।

भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ।

उद्‌विभ्यान्तपः 27 ।

अकर्मकादित्येव । उत्तपते । त्विषां वितपते पतिरिति मुरारिः । दीप्यते इत्यर्थः ।
"स्वाङ्गकर्मकाच्च" ।
उत्तपते वितपते पाणिम् । नेह देवदत्तो यज्ञदत्तस्य पाणिं वितपति । सन्तापयतीत्यर्थः । सुवर्णमुत्तपति । सन्तापयति, विलापयति वा । उद्विभ्यां किम् । निष्टपति । "निसस्तपतौ" इति षत्वम् ।
ननु उद्विभ्यां तप आत्मनेपदमेवेति यक्‌चिण्‌निवृत्त्यर्थमिदं वचनं स्यात् । तथा च निष्टपते इत्युदाहार्यम् । दीप्यते इत्यर्थेऽकर्मको हि तपिः अन्तर्भावितण्यर्थतया तापने वर्तमानश्च सकर्मकः । पुनः प्रयोजकव्यापारविवक्षायां कर्तुः कर्मवद्भावादात्मनेपदसिद्धेः ।
मैवम् । अर्थभेदे कर्मवद्भावं विनाऽपि सकर्मकाणामकर्मकत्वदर्शनात् । नदी वहति, भारं वहति इत्यादिप्रयोगात् । तस्माद्विध्यर्थमेव सूत्रम् ।

आङो यमहनः 28 ।

आङ्‌पूर्वकाभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्याञ्च यमिहनिभ्यामात्मनेपदं स्यात् । आयच्छते । आहते । आयच्छते पाणिम् । आहते शिरः । एतेन मोहादाहध्वं मारघूत्तममिति भट्टिप्रयोगो व्याख्यातः । पराङ्कर्मकाभावसत्त्वादात्मनेपदस्य सुस्थत्वात् । अकर्मकेति किम् । आयच्छति रज्जुं कूपात् । आहन्ति वृषलं पादेन । स्वाङ्गेति किम् । परशिर आहन्ति । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्ष इति भारविप्रयोगस्तु प्रामादिक इति केचित् । नच आजेति पदं छित्वा घ्ने हननायेति हन्तेर्भावे क्विपि चतुर्थ्येकवचनं शङ्क्यम् । अजेर्वीभावे विवायेति रूपस्वीकारात् ।
शिवस्य समीपमेत्य मल्लसंप्रदायेन स्वं वक्ष आस्फालितवानिति केचित् ।
यद्वा उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य वाणनद्याः । गाण्डीवी स्थित इत्यध्याहारः । आजघ्ने इति कर्मणि लकारः । तेनेत्यध्याहारः ।
यद्वा गाण्डीवमात्मन इच्छन् गाण्डीवी क्यजन्तात् क्विप् । कनकशीलेति । आचारक्विबन्तात्कर्तरि क्विपि तृतीयाः । द्वयोः कर्मधारयः । नितरां भा यत्रेति वक्षोविशेषणम् । उन्मज्जन्मकर इति कर्मधारयात्सति सप्तमी । लकारः कर्मण्येव ।

समो गम्यृच्छिभ्याम् 29 ।

सम्पूर्वाभ्यामकर्मकाभ्यामाभ्यां प्राग्वम् । सङ्गच्छते । समृच्छते । अकर्मकाभ्यां किम् । खगः सङ्गच्छति यद्दिनाधिपम् । तच्चैक्यं समगच्छतेति त्वार्षम् । स्वार्थे ष्यञ्‌ । एकं समपद्यतेत्यर्थो वा ।
"विदिपृच्छिस्वरतीनामुपसंख्यानम्" ।
परस्मैपदिभ्यां साहचर्याद्विदेर्ज्ञानार्थस्य ग्रहणम् । लाभार्थस्य स्वरितेत्त्वात्, सत्त्वाविचारणार्थयोस्त्वात्मनेपदित्वात् । संवित्ते । संविदाते । संविद्रते । संपृच्छते । संस्वरते ।
"अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्" ।
अर्तीति भ्वादिजुहोत्यादेर्ग्रहणम्। मा समृत मा समृषातां मा समृषतेति भाष्यात्‌ । समारत समारेतां समारन्तेति वृत्तेश्च । "सर्तिशास्ति---" इत्यङ्‌विधौ तु लुप्तविकरणेन शास्तिना साहचर्याज्जौहोत्यादिकस्यैव ग्रहणम् । परस्मैपदिष्वित्यस्योत्तरार्थमनुवृत्तावपि योगविभागसामर्थ्याङ्‌विधौ न सम्बन्धः । तेन भाष्यमुपपन्नम् । संशृणुते । सम्पश्यते । रक्षांसीति पुराऽपि संश्रृणुमहे इति मुरारिप्रयोगस्तु चिन्त्यः । अकर्मकादित्यनुवृत्तेः ।
केचित्तु रक्षांसि सन्तीति कथयद्भ्यः इत्यध्याहारः । हितान्नयः संशृणुते स किं प्रभुरितिवदविवक्षितकर्मकत्वान्न दोषः ।
वस्तुतो रक्षासि सन्तीति वाक्यार्थस्य कर्मत्वात् द्वितीयान्तपदसमभिव्याहारविरहान्न दोषः ।
"उपसर्गादस्यात्यूह्योर्वेति वक्तव्यम्" ।
"अकर्मकाद्" इति अतः परं न सम्बध्यते इति कैयटादयः । निरस्यति । निरस्यते । समूहति । समूहते । उपसर्गात्किम् । अस्यति । ऊहते । अनुक्तमप्यूहति पण्डितो जन इति तु प्रमादः । ओहतीति सोपसर्गपाठे वा ।

निसमुपविभ्यो ह्वः 30 ।

निह्वयते इत्यादि । अकर्त्रभिप्रायार्थ आरम्भः । नच आकारान्तस्यानुकरणात् निह्वास्यते इत्येवोदाहरणम् विकृतिग्रहणे प्रकृतिग्रहणाभावादिति वाच्यम् । एङन्ते एवानुक्रियमाणे लक्षणवशादात्वनिष्पत्तावपि आत्वस्याविवक्षितत्वात् ।

स्पर्द्धायामाङः 31 ।

आङ्‌पूर्वाद्‌ ह्वयतेः स्पर्द्धायां प्राग्वत् । मल्लमाह्वयते । स्पर्द्धमानः सन्नाह्वयति । स्पर्द्धायां किम् । पुत्रमाह्वयति । स्पर्द्धाया एतद्धात्वर्थत्वेऽपि आङ्‌पूर्वस्य शब्दनार्थत्वात्स्पर्द्धायां विषये विधिरयम् ।

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः 32 ।

सप्तस्वर्थेषु । अकर्त्रभिप्रायार्थ आरम्भः । गन्धनं सूचनं हिंसासादृश्यात् । उत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणं भर्त्सनम् । श्येनो वर्त्तिकामुदाकुरुते । हरिमुपकुरुते । सेवते इत्यर्थः । परदारान्प्रकुरुते । सहसा तेषु प्रवर्तते इत्यर्थः । एधो दकस्योपस्कुरुते । एधशब्दोऽकारान्तोऽपि । एधान् हुताशनवत इति दर्शनात् । सान्तत्वं व्याख्याने । दकशब्द उदकार्थो ग्राह्यः । जीवनीयं दकं चेति हलायुधोक्तेः । तस्य गुणान्तराधानं करोतीत्यर्थः । प्रकथनं प्रकर्षेणोक्तिः । गाथाः प्रकुरुते । उपयोगोऽप्रतिषिद्धविनियोगः । शतं प्रकुरुते । एषु किम् । कटं करोति ।

अधेः प्रसहने 33 ।

कृञ इत्यनुवर्तते । प्रसहनमभिभवः क्षमा च । षह मर्षणेऽभिभवे चेति पाठात् । छन्दसीत्यस्य प्रायिकत्वात् । तमधिकुरुते । भवादृशाश्चेदधिकुर्वते परान् इति भारविः । क्षमत इत्यर्थः ।

वेः शब्दकर्मणः 34 ।

शब्दस्य कर्मकारकत्वे विपूर्वात्कृञ आत्मनेपदम् । स्वरान्विकुरुते । उच्चारयतीत्यर्थः । नेह चित्तं विकरोति कामः ।

अकर्मकाच्च 35 ।

वेः कृञ इति प्राग्वत् । प्रवृद्धानि विकुर्वते । विकृतानि भवन्तीत्यर्थः ।

संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः 36 ।

एषु बोध्येषु नयतेरात्मनेपदम् । उत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । अन्ये तु प्रयोगोपाधयः । शास्त्रे नयते । सोपपत्तिकान् शास्त्रसिद्धान्तान् शिष्येभ्यः प्रापयतीत्यर्थः । शिष्याणामिष्टार्थसिद्ध्या संमानननिष्पत्तिः । प्रयोगोपाधित्वं तु तज्जन्यशाब्दबोधाविषयत्वे सति प्रयोगनियामकत्वम् । उत्सञ्जनमुत्क्षेपणम् । दण्डमुन्नयते । माणवकमुपनयते । विधिना स्वसमीपं प्रापयतीत्यर्थः । तत्फलं माणवकसंस्कारः । तस्याचार्यगामित्वाभावादात्मनेपदविधानम् । अध्यापनार्थत्वे तु उपनयनस्येदं व्यर्थं स्यादिति मीमांसकाः । उपनीय वदेद्वेदमाचार्यः स उदाहृत इति स्मृत्या तदेवाचार्यपदप्रवृत्तिनिमित्तम् । विनिन्युरेनं गुरवो गुरुप्रियम् इत्यत्राचार्यकरणमविवक्षितम् ।
वस्तुतस्तु आचार्यकरणम् उपशब्दसमभिव्याहृतनयतेरेव प्रयोगोपाधिः । प्रयोगोपाधेः स्वरूपसत एव नियामकतया तद्विवक्षाया अनुपयोगात् । तत्त्वं नयते । विश्चिनोतीत्यर्थः । कर्मकरानुपनयते भृतिदानेनात्मसमीपं प्रापयतीत्यर्थः । विगणनम् । ऋणादेर्निर्यातनम् । करं विनयते । राजांशं ददातीत्यर्थः । शतं विनयते । धर्माद्यर्थं विनियुङ्क्ते इत्यर्थः । नेह घटं नयति ।

कर्तृस्थे चाशरीरे कर्मणि 37 ।

नयतेः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । शरीरपदमत्र तदवयवपरम् । चैत्रत्वादिजातीनां शरीरवृत्तितया तत्तादात्म्यापन्नस्यैव जीवस्य कर्तृतया शरीरस्य शरीरस्थत्वासम्भवात् । यद्यपि शरीराद्विविच्च लौकिकैरनिश्चयेऽपि वस्तुतः शरीरतादात्म्यापत्तेः कर्तृत्वानुपयोगः । कृतिसमवायित्वरूपस्य तस्यात्ममात्रवृत्तित्वात् । शरीरस्य त्ववच्छेदकतयैव तदाश्रयत्वात् । तथाप्यत्रोभयसाधारणमेवाश्रयत्वं विवक्षितम् । चैत्रः कर्तेति व्यवहारात् । क्रोधं विनयते । स्वकीयं क्रोधं निरस्यतीत्यर्थः । क्रोधापगमफलस्य चित्तप्रसादादेः कर्तृगत्वेऽपि नियमार्थमिदम् । नेह गडुं विनयति । शरीरावयव एवायम् । विगणय्य नयन्ति पौरुषं विहितक्रौधरया जिगीषव इति भारविप्रयोगस्तु कर्तृगत्वाविवक्षायाम् । करोतीत्यर्थे प्राप्त्यर्थे वाऽत्र कृञो वृत्तिरित्यन्ये । सम्पदस्तव गिरामपि दूरात् यन्न नाम विनयं विनयन्ते इति श्रीहर्षे विनयन्तीत्येव पाठ इति नारायणः । णय गतावित्यस्यान्तर्भावितण्यर्थस्य प्रयोगोऽयमिति व्याख्यातमस्माभिः ।

वृत्तिसर्गतायनेषु क्रमः 38 ।

वृत्तिरप्रतिबन्धः । ऋच्यस्य क्रमते बुद्धिः । सर्ग उत्साहः । येनेन्द्रलोकावजयाय सृष्ट इति दर्शनात् । अध्ययनाय क्रमते । तायनं स्फीतता । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ।

उपपराभ्याम् 39 ।

सोपसर्गे नियमार्थमिदम् । वृत्त्यादिषूपपरा इत्युपसर्गद्वयपूर्वकादेव क्रमेः आत्मनेपदम् । उपक्रमते । नियमान्नेह । संक्रामति । वृत्त्यादिष्वेव नेह---उपक्रामति । पराक्रामति ।

आङ उद्‌गमने 40 ।

"ज्योतिरुद्गमने इति वाच्यम्" । आक्रमते आदित्यः । उदयते इत्यर्थः । उद्गमनार्थः क्रमिरकर्मकः । नेह । आक्रमति धूमो हर्म्यतलात् । हर्म्यतलमिति भाष्ये तूद्गमनपूर्विकायां व्याप्तौ क्रमिर्बोध्यः । नभः समाक्रामति चन्द्रमाः क्रमादित्यत्र व्याप्तिरेवार्थो नतूद्गमनमिति कैयटः ।

वेः पादविहरणे 41 ।

साधु विक्रमते वाजी । क्रमेः पादविक्षेपवृत्तित्वेऽपि धातूनामनेकार्थत्वादर्थान्तरे आत्मनेपदवारणायार्थनिर्द्देशः । नेह विक्रामति अजिनसन्धिः । स्फुटतीत्यर्थः ।

प्रोपाभ्यां समर्थाभ्याम् 42 ।

समर्थत्वं समानार्थत्वम् । शकन्ध्वादिः । संशब्द एव वा तदर्थः । प्रक्रामते । उपक्रमते । आरभते इत्यर्थः । आरम्भे किम् । प्रक्रामति । उपक्रामति । इह गमनागमने अर्थौ । उपपराभ्यामित्यस्यापि न प्रवृत्तिः । वृत्त्यादेरत्राविवक्षितत्वात् ।

अनुपसर्गाद्वा 43 ।

क्रामति क्रमते । अप्राप्तविभाषेयम् । "उपपराभ्याम्" इत्यस्य नियमार्थतया "वृत्तिसर्ग---" इत्यादेरनुपसर्गविषयत्वात् ।

उपह्नवे ज्ञः 44 ।
शतमपजानीते । अपलपतीत्यर्थः ।

अकर्मकाच्च 45 ।

सर्पिषो जानीते । सर्पिषा उपायेन प्रवर्त्तते इत्यर्थः । जानातेरत्र ज्ञानपूर्वकप्रवृत्तिपरत्वात् । "ज्ञोऽविदर्थस्य" इति करणे षष्ठी । सकरणादिति तु नोक्तम् । स्वरेण पुत्रं जानातीत्यत्राऽतिव्याप्तेः ।

संप्रतिभ्यामनाध्याने 46 ।

शतं सञ्जानीते । अवेक्षत इत्यर्थः । अनाध्याने किम् । मातुः संजानाति । "अधीगर्थ---" इति षष्ठी । नच तत्र शेषानुवृत्तेः "अकर्मकाच्च" इति पूर्वेण आत्मनेपदापत्तिः । अनाध्यान इति विभज्य पूर्वशेषतयापि तस्य व्याख्यानात् इत्याहुः ।

भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः 47 ।

उपसम्भाषोपमन्त्रणे वाच्ये, अन्ये प्रयोगोपाधयः । शास्त्रेवदते । भासमानो ब्रवीतीत्यर्थः । शिष्यैः स्तूयमानो हि भासते । तेजोभङ्गे तु न शक्नुयाद्वदितुमिति भासनं हेतुभूतं सद् विशेषणमित्याहुः । कर्मकरानुपवदते । उपसान्त्वयतीत्यर्थः । शास्त्रे वदते । उक्तिविषयकज्ञानवानित्यर्थः । क्षेत्रे वदते । तद्विषयकोत्साहं स्फुटयतीत्यर्थः । आविष्करणरूपस्य वदत्यर्थस्य यत्नः कर्मेति केचित् । विशिष्ट एव वदत्यर्थ इत्यन्ते । क्षेत्रे विवदन्ते । विमत्या हेतुभूतया नानाविधं भाषन्ते इत्यर्थः । एतेषु किम् । यत्किञ्चिद्वदति ।

व्यक्तवाचां समुच्चारणे 48 ।

व्यक्ता वाचि वर्णा येषां ते मनुष्यादयः । व्यधिकरणबहुव्रीह्याश्रयणात् । समुच्चारणं सम्भूयोच्चारणम् । सम्प्रवदन्ते ब्राह्मणाः । नेह वरतनु प्रवदन्ति कुक्कुटाः । शुकसारिकादीनां न सर्ववर्णविषयकं व्यक्तवाक्त्वम्, अपि तु पुरुषप्रयत्नवशेन कतिपयवर्णविषयमिति तत्रात्मनेपदं नेति कैयटः ।

अनोरकर्मकात् 49 ।

अनुवदते कठः कलापस्य । अनुः सादृश्ये । तुल्यार्थयोगे शैषिकी षष्ठी । अकर्मकात् किम् । अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः । व्यक्तवाचामित्येव । अनुवदति वीणा ।

विभाषा विप्रलापे 50 ।

विप्रलापो विरोधोक्तिः । विप्रवदन्ते विप्रवदन्ति वा वैद्याः । युगपत्परस्परविरुद्धं वदन्तीत्यर्थः । विप्रलापे किम् । सम्प्रवदन्ते ब्राह्मणाः । व्यक्तवाचां किम् । विप्रवदन्ति शकुनयः । समुच्चारणे किम् । क्रमेण विप्रवदन्ति ।

अवाद्ग्रः 51 ।

अवगिरते । अवात् किम् । गिरति । गृणातेस्त्त्ववपूर्वस्य प्रयोगो नास्तीति भाष्यम् ।

समः प्रतिज्ञाने 52 ।

नित्यं शब्दं सङ्गिरते मीमांसकः । शब्दो नित्य इति प्रतिजानीते इत्यर्थः । नेह सङ्गिरति ग्रासम् ।

उदश्चरः सकर्मकात् 53 ।

धर्ममुच्चरते । उल्लङ्घयतीत्यर्थः । द्वे तिस्रो रणीयमंबरमणेर्द्यामुच्चरन्ते इति मुरारिः । सकर्मकात्किम् । क्षितेस्तदा यः स्वन उच्चचार। उत्पन्न इत्यर्थः ।

समः स्तृतीयायुक्तात् 54 ।

पद्भ्यां नृपः सञ्चरमाण एषः । तृतीयेति किम् । उभौ लोकौ सञ्चरसि इमं चामुं च देव ।

दाणश्च सा चेच्चतुर्थ्यर्थे 55 ।

सम्पूर्वाद्दाणस्तृतीयायुक्तादात्मनेपदं सा तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । कामुकः सन् तस्यै ददातीत्यर्थः । तृतीयाऽप्यनेनैव चतर्थ्यर्थे विधीयते चेच्छब्दस्य चकारार्थत्वादिति सम्प्रदायः । अशिष्टव्यवहारे चतुर्थ्यर्थे तृतीयेति वार्त्तिकं तदंशेस्पष्टीकरणार्थम् । भाष्ये त्विदं सूत्रमपि प्रत्याख्यातम् । तदुक्तम्---
सहयुक्ते तृतीया स्याद्व्यतिहारे तङो विधिः ।
यो ह्यस्या दत्तं भुङ्क्ते स्वयं च तस्यै ददाति तत्रायं प्रयोग इष्टः । तत्र सहयोगतृतीया कर्मव्यतिहारे चात्मनेपदमिति सिद्धम् । दास्यै विश्राण्य तया सहोपभुक्ते इति कैयटः ।

उपाद्यमः स्वकरणे 56 ।

अस्वस्य सतो यत्स्वीयत्वसम्पादानं तत्रेदम् । च्विप्रत्ययस्तु "समर्थानां प्रथमाद्वा" इति विकल्पान्न कृतः । भार्यामुपयच्छते । नेह स्वं शाटकमुपयच्छति । पाणिग्रहण एवेदमिति वृत्तिः । तद्‌भाष्यानुक्तत्वाद्धेयम् । उपायंस्त महास्त्राणीत्यादिविरोधाच्च ।

ज्ञाश्रुस्मृदृशां सनः 57 ।

सोपसर्गाणआं यत्रार्थे आत्मनेपदं पूर्वमुक्तं तद्भिन्नार्थमारम्भः । स्मरतेस्तु अप्राप्तावेव । धर्मं जिज्ञासते शुश्रुषते सुस्मूर्षते दिदृक्षते ।

नानोर्ज्ञः 58 ।

पुत्रमनुजिज्ञासति । पूर्वप्राप्तेरयं निषेधः । अनन्तरस्येति न्यायात् । तेन सकर्मकस्येति निषेधः । अकर्मकात्तु "पूर्ववत्सन" इति भवत्येव । "अकर्मकाच्च" इत्यनेन केवलाद्विधानात् । तेन औषधस्यानुजिज्ञासते । औषधेन प्रवर्तितुमिच्छतीत्यर्थः ।

प्रत्याङ्‌भ्यां श्रुवः 59 ।

आत्मनेपदं नस्यात् । प्रतिशुश्रूषति आशुश्रूषति । परस्परसाहचर्यादुपसर्गग्रहणान्नेद देवदत्तं प्रति शुश्रूषते । "लक्षणेत्थंभूत--" इति प्रतिः कर्मप्रवचनीयः ।

शदेः शितः 60 ।

शितः प्रकृतिभूतात् शदेरात्मनेपदं स्यात् । शीयते । शितः किम् । शत्स्यति । अशत्स्यम् । "शेषाद्‌" इति परस्मैपदम् ।
"उपसर्गपूर्वनियमे ड्‌व्यवाय उपसंख्यानम्" ।
न्यविशत । व्यक्रीणीत । यद्यपि विकरणेभ्यो नियमो बलीयानित्युक्तम्, तत्र च विकरणोत्पत्तेः प्रागेव नियमः ततो नित्यत्वाद्विकरणः ततोऽडागम इति वार्त्तिकं गतार्थं तथापि तदनाश्रित्यायमारम्भः । नच धात्ववयवत्वादटो न व्यवधायकत्वम् । विकरणान्तस्याङ्गत्वात्समुदायावयवस्याटो धातुग्रहणेनानुपादानात् । न च परत्वादट्‌ । कृताकृतप्रसङ्गित्वेन विकरणानां नित्यत्वात् । अटश्च शब्दान्तरस्य प्राप्नुवन्विधिरित्यनित्यत्वात् । नच कृतेऽपि अन्यस्मात्प्राप्त्या विकरणोऽप्यनित्यः । शब्दान्तरात्प्राप्नुवतोऽनित्यत्वानुक्तेः । नच लादेशात्पूर्वं परत्वादडागमः । लादेशस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात् । कृतेऽप्यटि धातुग्रहणेन तद्ग्रहणादव्यवधायकत्वात् । अडागमस्त्वनित्यः । लादेशोत्तरं विकरणैर्नित्यतया स्वपूर्वं तत्प्रतिषेधात् । विकरणोत्तरं च शब्दान्तरप्राप्तत्वात् । यद्यपि लादेशे कृते स्थानिवद्भावेन लुङादिव्यपदेशादटो निमित्तसद्भावेऽपि विकरणेन नित्यत्वादट् बाध्यते तथापि यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्, उभयोर्नित्ययोः परत्वादट्‌ प्राप्नोति । नव तथापि तस्य धात्ववयवत्वाद्व्यवधायकत्वं नास्तीत्यात्मनेपदं सिद्धमिति वाच्यम् । लादेशोत्तरं नियमात्पूर्वं नित्यत्वात् विकरणोत्पत्त्याऽडागमस्य विकरणान्तभक्तत्वाद्धातुव्यवधायकत्वान्न्यादिभ्यः परे अव्यवहिता विश्यादयो न भवन्तीत्यात्मनेपदं न स्यादिति वार्त्तिकाभिप्रायः ।
भाष्यकारास्तु लमात्रापेक्षतया लादेशा अन्तरङ्गा अडागमस्तु तद्विशेषापेक्षत्वाद्बहिरङ्गः । अथ लादेशेन समं न सम्प्रधारणा किन्तु नियमेन सहैव । लादेशोत्तरं हि विकरणः, अडागमो, नियमश्चेति त्रयं प्राप्नोति । तत्र यदि सर्वतो नियमो बलवान्स्यात् तदा वार्त्तिकं विनैवेष्टसिद्धिः स्यात् । नच विकरणेभ्यो नियमो बलीयानिति निर्वाहः । कृतोऽपि विकरणो नव्यवधायक इति ज्ञापनेनापि तज्ज्ञापनस्यान्यथासिद्धेः । नचैवं नित्य एव नियमः । निवेक्ष्यते निविशते इत्यादौ केवलविकरणस्य व्यवधायकत्वस्थले नियमप्रवृत्तावपि कृते विकरणेऽडागम इत्यटो व्यवधायकत्वात्तदप्रवृत्तेः । नहि विकरणात्पूर्वम् अट्‌ कर्त्तुं शक्यः । अङ्गात्पूर्वं विकरणानां वाच्यत्वात् । अन्यथा तरतः तरन्तीति न स्यात् । शपं विना गुणाभावात् तसादेर्ङित्त्वात् । ततश्च पूर्वमित्त्वमेव स्यात् । अडाड्‌भ्यामप्यन्यदाङ्गं पूर्वमप्येषितव्यम् । अन्यथा उपार्च्छदित्यत्र आटः पूर्वमुक्तौ तद्विशिष्टस्यैव ऋच्छिभावापत्तेः । वर्णमात्राश्रयत्वादृच्छिभावं बाधित्वा वृद्धेरेव पूर्वं प्रवृत्तेः । नच वाणादाङ्गं बलीयः । समानाश्रयत्वात् । एकादेशस्य चादिवद्भावादृच्छिभावे ऋच्छदिति स्यान्न त्वार्च्छदिति । नच शब्दान्तरस्याकृत आडिति कृत्वा पुनर्भविष्यति । पुनर्ऋच्छिभावः पुनराडित्यव्यवस्थाप्रसङ्गात् । तस्माद्वार्त्तिकमावश्यकमिति चेत् ।
न । तरत इत्यत्र ह्यनित्यमित्त्वं विकरणस्तु नित्य इति तस्यैव प्रवृत्तेः । तरतीत्यादौ गुणस्यापि नित्यत्वात्स एव परत्वात् । उपार्च्छदित्यत्रापि उक्तरीत्या पुनराट्‌ । नच पुनर्ऋच्छिभावापत्तिः । इष्टतो व्यवस्थासम्भवात् । इदञ्चाभ्युपगम्योक्तम् । वस्तुतः । परत्वादृच्छिभावः पश्चादेवाट्‌ । तस्माल्लादेशेषु कृतेषु परत्वादडागमः । नचाडागमो नित्यः । शब्दान्तरस्य प्राप्ताविव शब्दान्तरात्प्राप्तावपि अनित्यत्वस्य युक्तत्वात् । कृताकृतप्रसङ्गित्वस्य साधारणत्वात् । अङ्गत्वजात्याश्रयणाद्वाऽडागमस्य शब्दान्तरप्राप्तिविरहात् । यद्वा नेरिति षष्ठ्येव न तु पञ्चमी । व्यवहितस्याप्यर्थद्वारेण विशेष्यत्वात्सम्बन्धोपपत्तेः । यद्वा निशब्दात्परमात्मनेपदान्तं विशत इति पदं साधु भवतीति "नेर्विशः" इत्यस्यार्थः । सत्यप्यडागमे नेः परमनन्तरमेवेति दोषाभाव इत्याहुः ।

म्रियतेर्लुङ्‌लिङोश्च 61 ।

शितो लुङ्‌लिङोश्च प्रकृतिभूतो यो म्रियतिस्तत एवात्मनेपदं नान्यस्मात् । शित्प्रकृतित्वं शिदुत्पत्तेः प्रागेव योग्यतया ग्राह्यम् । लुङ्‌लिङोस्तु सत्यामेवोत्पत्ताविति भेदः । म्रियते । म्रियते । म्रियताम् । अम्रियत । अमृत । मृषीष्ट । नियमः किम् । ममार । मर्त्तासि । मरिष्यति । अमरिष्यत् । मृङो ङित्त्वं तु स्वरार्थम् । मा हि मृतेत्यत्र ङिदुपदेशात्परं "लसार्वधातुकम्" इति निघातो यथा स्यात् । नच सिज्‌लोपस्यासिद्धत्वम् । ङित्त्वसामर्थ्यात् । नच निघातः । हिचेति प्रतिषेधात् ।

पूर्ववत्सनः 62 ।

शुद्धादात्मनेपदे यन्निमित्तं तत्सन्नन्तादप्यात्मनेपदं प्रवर्तयतीत्यर्थः । एतावतैव निमित्तातिदेशोऽयमिति व्यवहारः । पूर्वेण तुल्यमिति तृतीयान्ताद्वतिः । पञ्चम्यन्तात् विधानाभावात् । पूर्वस्मादिवेति तु गम्योऽर्थः। ब्राह्मणेन तुल्यं वैश्यादधीत इतिवत् । तत्र ब्राह्मणपदं तदपादानकाध्ययनपरम् । आसिसिषते । शिशयिष्यते । निविविक्षते । मुमुक्षत इत्यादि । नेह शिशत्सति । मुमूर्षति । नह्येषा शदिम्रियतिव्यक्तिः शित्प्रकृतिः, अतो नात्मनेपदनिमित्तम् । सनि कृते तु सन्नतमेव शित्प्रकृतिः, शिशयिष्यत इत्यादौ तु प्रकृतौ ङित्त्वानपायान्निमित्तताऽतिदेश इति वैषम्यम् । नचैवमनुचिकीर्षतीत्यत्रातिप्रसङ्गः गन्धनादेरर्थस्य ञित्त्वस्य चात्मनेपदनिमित्तस्यातिदेशापत्तेरिति वाच्यम् । "अनुपराभ्यां कृञः" इति पर्यालोचनया अनुपूर्वकत्वाभावविशिष्टस्यैव तस्यात्मनेपदनिमित्तत्वात् ।
यद्वा प्राक् सनो येभ्य आत्मनेपदं तेभ्यः सन्नन्तेभ्योऽपि भवतीति कार्यस्यैवातिदेशः । सर्वातिदेशानां कार्यार्थतया कार्यातिदेशस्य प्राधान्यात् । नच शदिमृङोरतिप्रसङ्गः । "शदेः शितः" "म्रियतेर्लुङ्‌लिङोश्च" इति सूत्रद्वयेऽपि सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्यानात् । जुगुप्सते इत्यादौ तु नित्यसन्नन्ततया प्राक्सन आत्मनेपदादर्शनादेतदतिदेशस्य न प्रवृत्तिः । तथाऽप्यनुबन्धासञ्जनादेव तत्रानुदात्तङित इत्यात्मनेपदमिति वक्ष्यते, अवयवेऽचरितार्थमिति न्यायात् । नच जुगुप्सयतीत्यादावतिव्याप्तिः । सन्पर्यन्तविशेषणेन चरितार्थत्वे तदतिरिक्तविशेषणे मानाभावात् । नच गोपयतीत्यादावतिव्याप्तिः, सनेव विशेषणीयो नतु णिजित्यत्र बीजाभावादिति वाच्यम् । यत्रार्थे निन्दादौ सन्निष्यते तदर्थकानामेवानुदात्तेत्त्वात् अर्थान्तरे त्वननुबन्धकाश्चुरादावेव गुपादय इति सिद्धान्तात् ।

आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य 63 ।

आम्प्रकृतिधातोरिवानुप्रयुज्यमानात्कृञोऽप्यात्मनेपदम् । आम्प्रत्ययो यस्मादित्यतद्‌गुणो बहुव्रीहिः । अकर्त्रभिप्रायार्थं सूत्रम् । ईहां चक्रे । नच इन्दांचकारेत्यत्र प्रसङ्गः । पूर्ववदित्यनुवृत्तेः । पूर्ववदेवात्मनेपदं नतु तद्विपरीतमिति नियमार्थतयाऽपि वाक्यभेदेन व्याक्यानात् । कृञः किम् । भ्वस्त्योर्मा भूत् । कृञ्‌ग्रहणसामर्थ्यान्नात्र कृञ्‌प्रत्याहारः । अत एवानुप्रयोगविधौ कृञ्प्रत्याहारग्रहो वक्ष्यते ।

प्रोपाभ्यां युजेरयज्ञपात्रेषु 64 ।

"युजिर् योगे" इत्यस्य स्वरितेतो रुधादेरकर्त्रभिप्रायार्थोविधिः । "युज समाधौ" इति दिवादेरनुदात्तेत्त्वात् । यज्ञपात्रविषयतायास्तत्रासम्भवाच्च ।
"स्वराद्यन्तोपसृष्टादिति वक्तव्यम्" ।
प्रोपाभ्यामित्यपहाय यस्योपसर्गस्यादावन्ते वाऽजस्ति तत्पूर्वादिति पठनीयमित्यर्थः । तेन हलन्तभिन्नोपसर्गसंग्रहः । उद्युङ्क्ते । नियुङ्क्ते । अयज्ञेति किम् । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति ।

समः क्ष्णुवः 65 ।

"समो गम्यृच्छिभ्याम्' इत्यतो विच्छिद्य पाठः सकर्मकादपि विधानार्थः । संक्ष्णुते शस्त्रम् । वक्षः पीठे घनास्त्रव्रणकिणकठिने सङ्‌क्ष्णुवानः पृषत्कानिति मुरारिः ।

भुजोऽनवने 66 ।

"भुज पालनाभ्यवहारयोः" । "अनवने" इति पर्युदासाद्भक्षणार्थे आत्मनेपदविधानम् । तेन "भुज कौटिल्ये" इत्यस्य न ग्रहणम् । संयोगवद्विप्रयोगस्यापि विशेषनिर्णयहेतुत्वात् । अत एव सशङ्खचक्रो हरिरित्यत्रेवाशङ्खचक्रो हरिरित्यत्रापि हरिपदं नारायणपरम् । तदुक्तम्---संयोगो विप्रयोगश्चेत्युपक्रम्य विशेषस्मृतिहेतव इति । तच्चान्यत्र सविस्तरं व्याख्यातम् । ओदनं भुङ्क्ते । अनवने किम् । महीं भुनक्ति । बुभुजे पृथिवीपाल इत्यादौ उपभोगः, आत्मसात्करणं वाऽर्थः । नेह विभुजति पाणिम् । तेन "अनवनकौटिल्ययोः" इति वार्त्तिकं स्पष्टार्थम् ।

णेरणऔ यत्कर्म णौ चेत्सकर्ताऽनाध्याने 67 ।

ण्यन्तादात्मनेपदं स्यादनाध्याने । अणौ यत्कर्म णौ चेदिति द्वितीयं वाक्यम् । यच्छब्देन तच्छब्दाक्षेपः, यत्तदोर्नित्यसम्बन्धात् । धर्मान्तरस्य चानिर्देशात्कर्मत्वमेव सन्निधानात्प्रतिनिर्द्दिश्यते । अणौ यत्कर्म णौ चेत्तत्कर्मेति प्रतिनिर्द्देशेन च कर्मान्तरव्यावृत्तिः क्रियते । न त्वणौ कर्मणो णौ कर्मत्वसद्भावः प्रतिपाद्यते । स कर्तेति वाक्यान्तरेण तस्य कर्तृत्वप्रतिपादनात् । एकक्रियापेक्षया युगपदेकस्य कर्मकर्तृत्वोभयविरोधात् । यथेष्टं वाक्यशेषपरिकल्पनादणौ यत्कर्म णौ चेत्तदेव कर्मेत्येवकाराध्याहारात्कर्मान्तरनिवृत्तिलाभः । ततः स कर्तेति तृतीयं वाक्यम् अणौ कर्मणो णौ कर्तृत्वप्रतिपादनपरम् । एषामेकवाक्यत्वे महावाक्यम्---लक्ष्यस्य संस्कारकं महावाक्यं सम्पद्यते । नचैवं दर्शयते भृत्यान्राजेति भाष्योदाहरणविरोधः । अणौ कर्मणो राज्ञोऽन्यस्य भृत्यानिति कर्मणः सद्भावादिति वाच्यम् । अण्यन्तावस्थायां ये कर्तृकर्मणी तदतिरिक्तस्यैव कर्मणो व्यावर्तनात् । यथा आरोहमाणो हस्ती स्थलमारोहयति मनुष्यानिति । इहतु अण्यन्तावस्थायां कर्तॄणां भृत्यानामेव णौ कर्मत्वमिति भवत्येवात्मनेपदम् । अत एव स्मरयत्येनं वनगुल्मः स्वयमेवेति प्रत्युदाहरणं सङ्गच्छते इति कैयटानुसार्यर्थः । नच यदित्यनेन कर्मैवोपात्तं नतु कर्ताऽपीति कथं कर्तृकर्मातिरिक्तकर्मव्यवच्छेद इति वाच्यम् । "कर्तरि कर्मव्यतिहारे" इत्यतः "कर्तरि" इत्यनुवृत्तं प्रथमान्तत्वेन विपरिणमय्य यच्च यश्चेति "नपुंसकमनपुंसकेन" इत्येकशेषमेकवद्भावं च कृत्वा व्याख्यानात् । एवं च करेणुरारोहयते निषादिनमिति आद्यप्रयोगोऽप्युपपद्यते ।
अत्रेदमवधेयम्---अण्यन्ते यत् कर्म तदन्यकर्त्रभावे तत्र कर्तृत्वे च कर्मकर्तृत्वादेवात्मनेपदं सिद्धम् । तथा हि---लुनाति केदारं देवदत्तो लूयते केदारः स्वयमेवेति । यथा केदारः कर्मकर्ता तथा लावयते केदारः स्वयमेवेति ण्यन्तेऽपि । लुनातिर्हि द्विधाभवनोपसर्जने द्विधाभावने वर्त्तते । फलावच्छिन्नव्यापारवाचित्वस्य सकर्मकाणामावश्यकत्वात् । लुनाति केदारं देवदत्तः द्विधा भवन्तं द्विधा भावयतीत्यर्थः । सौकर्यातिशयविवक्षायां द्विधाभवनमात्रं तदर्थः । धातूनामनेकार्थत्वात् ।
वस्तुतोऽर्थभेदेन धातुभेदः सारूप्यात्तु तत्त्वाध्यवसायः । तत्र द्विधाभवने कर्तः केदारस्य "कर्मवत्कर्मणा तुल्यक्रियः" इति कर्मकार्याणामतिदेशात् लूयते केदारः स्वयमेवेति प्रयोगः । स्वयमिति वचनं कर्त्रन्तरव्युदासार्थम् । आत्मनेत्यर्थे तु तदपेक्षया कर्मत्वमस्त्येवेति कर्मणि लकारेणैव सिद्धं स्यात् ।
यद्वा तेनात्मनः करणत्वमात्रं प्रतिपाद्यं प्रकृते तु द्विधाभवनमात्रवृत्तेर्लुनातेर्यदा देवदत्तादिप्रयोजकव्यापारे णिजुत्पद्यते तदा लुनाति केदारं देवदत्तः लावयति केदारं देवदत्त इत्यनयोस्तुल्योऽर्थः । पुनः सौकर्यातिशयविवक्षायाम् अविवक्षिते देवदत्तव्यापारेद्विधाभावनमात्रं लावयतेरर्थः । तत्र लूयते केदारः स्वयमेवेत्यनेन समानो लावयते केदारः स्वयमेवेत्यस्यार्थः । नच प्रयोज्यप्रयोजकभावनिवृत्तौ णिचो निवृत्तिः । उपायनिवृत्तावप्युपेयानिवृत्तेः । सिद्धशब्दव्युत्पत्तये प्रकृतिप्रत्ययविभागस्य अर्थोपादानत्यागयोश्च स्वीकारात् । अत एव शिखी नष्ट इत्यादौ विशेषणध्वंसमात्रपरत्वेऽपि मत्वर्थीयस्य न निवृत्तिः ।
तदुक्तम्---
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते । इति ।
सोऽयं निवृत्तप्रेषणपक्षे कक्षाचतुष्टयम्, तासु प्रथमतृतीये द्वितीयतुर्ये च तुल्यार्थे इति विवेकः । अथाध्यारोपितप्रेषणपक्षः लुनाति केदारं देवदत्तः लुनन्तं देवदत्तं सौकर्यातिशयात्केदारः प्रयुङ्क्ते इति केदारव्यापारे णिच्‌---लावयति केदारो देवदत्तेनेति देवदत्तनिष्ठो यो लवनानुकूलो व्यापारस्तदनुकूलव्यापारवानित्यर्थः । स च व्यापारो लवनसौकर्यप्रयोजकः शालिपाकादिः । पुनः प्रयोज्यप्रयोजकभावाविवक्षायां प्रकृत्या णिचा योपात्तयोः प्रेषणयोर्युगपत्त्यागे लावयते केदारः स्वयमेवेति तिस्रो भवन्ति कक्षाः । पक्षेऽध्यारोपितप्रेषणेऽत्र निवृत्तप्रेषणसमकक्षातुल्य एवार्तः । एवं स्थिते निवृत्तप्रेषणक्रियायां "कर्मवत्कर्मणा" इत्यात्मनेपदं सिद्धम् । लावयति केदारं देवदत्त इति लावयतौ यादृशी कर्मावस्थायां केदारस्य द्विधाभवनकरणा क्रिया तादृश्येव तस्मिन् धातौ कर्त्रवस्थायामिति 'णेरणौ" इति सूत्रमनारभ्यम् ।
नचाध्यारोपितपक्षे आरोहयतीत्यत्र हस्तिनः कर्मत्वाभावात्समानधातौ कर्मत्वं नास्तीति पचत्योदनं देवदत्तो राध्यत्योदनः स्वयमेवेतिवत्कर्मवद्भावो न स्यादिति वाच्यम् । अध्यारोपितप्रेषणपक्षपरित्यागेऽपि न स्यादिति वाच्यम् । अध्यारोपितप्रेषणपक्षपरित्यागेऽपि क्षतिविरहात् । निवृत्तमेषणक्रिययैव सर्वेष्टसिद्धेः । नच यक्‌चिणोर्निवृत्त्यर्थमिदम् । अणौ यत् कर्म णौ चेत्स कर्ता तदा णेरात्मनेपदमेव नान्यदिति नियमार्थत्वादिति वाच्यम् । "यक्‌चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञामुपसंख्यानम्" इतिवार्त्तिकस्यावश्यकतया तत एव तत्सिद्धेः ।
ननु उदपुपुच्छत पुच्छं स्वयमेवेत्यदेतुमण्णौ यक्‌चिणोः प्रतिषेधार्थं सूत्रम् । नच पुच्छशब्दस्य द्रव्यवाचकतया अण्यन्तावस्थायां कर्मण एवाभावात्प्रकृतसूत्रेणापि तद् दुर्वारम् । पुच्छशब्दस्य पुच्छकर्मिकायामुदसनक्रियायां वृत्तेः । तस्मात्स्वार्थेणिङ्‌ । यदा भ्राम्यमाणं पुच्छं संस्कारवशाच्चक्रमिव भ्रमणक्रियायां भूतायां स्वातन्त्र्येण विवक्ष्यते तदा उदपुपुच्छतेत्यात्मनेपदमेव णिङताद्यथा स्यादिति नियम इति चेत् । न इहहेतुमत्पदमपहायैव वार्त्तिकस्य भावद्वाजीयैः पठ्यमानत्वाम् । अन्यथा गणयति गणं गोपालकः । गणयति गणः स्वयमेवेत्यत्र यक्‌चिणोः प्रतिषेधार्थं वचनान्तरमारभ्यं स्यात् । गणस्य णावेव कर्मत्वात्प्रकृतनियमेन तत्र यक्‌चिणोर्दुर्वारत्वात् ।
नन्वत्र कर्मबद्भावस्यैव दौर्लभ्यम् । तथाहि---कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवद्भावः क्रियाभावयोश्च परिस्पन्दतद्विरहान्यतरविशिष्टसाधनसाध्यत्वाद्भेदव्यवहारः । गणनं च संख्यानिमित्तः परिच्छेदो ज्ञानविशेषात्मकः कर्तरि वर्तते न तु कर्मणीति चेत् न । भागशो व्यवस्थापनेऽपि गणयतिर्वर्तते । भागशोऽवतिष्ठमानङ्गणं गोपालकोऽवस्थापयति । तत्रानुकूलत्वाद्गणस्यैव कर्तृत्वविवक्षायां कर्मस्थभावकत्वात्कर्मवद्भावप्रसक्तेः ।
अत्र विवरणकाराः---पुच्छशब्दस्याणौ कर्मत्वेऽप्येतत्सूत्रस्य न तत्र प्रवृत्तिरिति भाष्यकैयटग्रन्थावभ्युपगम्यवादमात्रं वस्तुगत्या पुच्छशब्दस्य तत्कर्मकक्रियायामवृत्तेरनुभवविरोधात् ।
अत एव णेरिति सामान्यग्रहणेऽपि पुच्छभाण्डादिणिङो न ग्रहणम् । अणौ कर्मणोऽसम्भवादिति हरदत्तेनाप्युक्तमित्याहुः।
अथाणौ कर्मणो णौ कर्मत्वे आत्मनेपदं यथा स्यात् णौ तु कर्मणो णौ कर्तृत्वे मा भूदित्येतदर्थमिदं सूत्रमिति चेत् न। अत्राप्यात्मनेपदस्येष्टत्वात् । नित्यत्वाण्णिचः केवलानां चुरादीनां प्रयोगाभावादणौ कर्मणोऽसम्भवापत्तेरिति हेतुमण्णिचो ग्रहणम् । अणाविति प्रतिषेधोऽपि तस्यैव प्रत्यासत्त्या न्याय्यः इत्यहेतुमण्णौ गणस्य कर्मत्वं हेतुमण्णौ कर्तृत्वमिति प्रकृतसूत्रेणाप्यात्मनेपदस्य दुर्वारत्वात् ।
नन्वनिर्दिष्टविषयस्य प्रतिषेधस्य विधातुमशक्यत्वात् अनाध्याने इति प्रतिषेधार्थँ सर्वं सूत्रमारभ्यते । स्मरति वनगुल्मं कोकिलः स्मरयत्येनं वनगुल्मः स्वयमेवेत्यत्रात्मनेपदं मा भूदिति चेत् । न । कर्तृस्थभावकत्वादत्र कर्मवद्भावस्य प्रसक्त्यभावात् इति प्राप्ते सिद्धान्तः---
कर्मस्थभावकेषूक्तरीत्या कर्मवद्भावेन सिद्धावपि कर्तृस्थभावकेष्वात्मनेपदविधानार्थं सूत्रम् । तथाहि---रुहिर्गतिविशेषवचन इति "यद्धितुपरं छन्दसि" इत्यत्र वक्ष्यति भाष्यकृत् । नच न्यग्भावरूपस्य फलस्यात्रापि कर्मस्थत्वमस्त्येवेति वाच्यम् । तस्य फलत्वाभावात् । तदुक्तं वाक्यपदीये---
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ।। इति ।
अतः क्रियाकृतविशेषदर्शनेन शब्दार्थानुसारेण वा क्रियायास्तात्स्थ्यं व्यवतिष्ठते । अतः पच्यादिधातूनां क्रिया कर्मस्था विक्लित्त्यादिमत्तया तण्डुलादेरुपलम्भात् । क्रियानिवृत्तावपि यत्र तत्कृतो विशेषः कर्मण्युपलभ्यते तत्रैव क्रियायाः कर्मस्थत्वम् । जानातीत्यादौ तु न तथेति स्पष्टमेव । आरोहतीत्यत्राप्युपरिगमनानुकूलव्यापार एव धात्वर्थो न तु हस्त्यादिन्भग्भावानुकूलः । उपरि गच्छेयमित्येव ह्युपदेशो न तु हस्तिनो न्यग्भावो भवत्विति । अत एव भूमिष्ठे शाखां नमयत्यारोहतीति न प्रयोगः । तस्मादारोहत्यादीनां कर्मस्थभावकत्वाभावात्तत्रात्मनेपदमनेन विधीयते ।
तथाहि आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्‌ भावयन्तीत्यर्थः । ततो हस्तिपकव्यापारपरित्यागे आरोहति हस्ती । न्यग्‌ भवतीत्यर्थः ।
तदुक्तं हरिणा---
निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्त्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ।। इति ।
निवृत्तप्रेषणं कर्तृव्यापारजन्यफलाश्रयत्वेनाविवक्षितम् । स्वनिष्ठे विशिष्टक्रियावच्छेदकतया क्रियावयवे फलात्मकेस्थितं स्वातन्त्र्येण विवक्षितम् । तादृशसमभिव्याहारे फलस्यैव क्रियात्वात् तदाश्रयस्य कर्तृत्वं विशिष्टव्यापारस्यात्राक्रियात्वात्तदाश्रयस्य न कर्तृत्वम् । विशिष्टपरत्वे तु व्यापारस्यैव क्रियात्वात्फलाश्रयस्य कर्मत्वमेवेत्यर्थः । ततो निवृत्तप्रेषणणिचि आरोहयन्ति हस्तिनं हस्तिपकाः । आरोहयन्तीत्यर्थः । पुनर्ण्यर्थत्यागे आरोहयते हस्ती । न्यग्भवतीत्यर्थः ।
तदुक्तम्---
न्यग्भावनं न्यग्भवनं रुहौ शुद्धे प्रतीयते ।
न्यग्भावनं न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते ।।
अवस्थां पञ्चमीमाह ण्यन्तं तत्कर्मकर्त्तरि ।
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते ।।
यद्यपि प्रथमकक्षायां फलावच्छिन्नव्यापारप्रतीत्या न्यग्भवनमपि प्रतीयते एव, तथाऽपि विशेष्यत्वं न्यग्भावनस्यैवेत्यर्थः । ततः शुद्ध एव व्यापारांशपरित्यागे न्यग्भवनमेव प्रतीयते इति द्वितीयकक्षा । ततो ण्यन्ते प्रथमकक्षावदेव न्यग्भावनं बुध्यते इति तृतीयकक्षा, अयं तु विशेषः---शुद्धे उभयमपि रुहेरर्थः, ण्यन्ते तु रुहेर्न्यग्भवनं णिचश्च व्यापारोऽर्थ इति । ततो णिजर्थव्यापारविवक्षायां द्वितीयकक्षावदेव चतुर्थकक्षा । अत्र शुद्धण्यन्ते न्यग्भावनं शक्त्या प्रतीयते न्यग्भवनं तु लक्षणयेति विवेकः । प्राकृतेऽर्थ इत्यस्य शक्यलक्ष्योभयसाधारणे प्रकृतिसम्बन्धिनीत्यर्थ इति केचित् ।
निवृत्तप्रेषणात्प्रयोज्यमात्राभिधायिनः प्राकृते प्रकृतिवाच्ये इति तु विवरणकाराः ।
तेषामयम्भावः---फलावच्छिन्नव्यापारे धातुशक्तिस्वीकारे फलमात्रबोधो लक्षणयैव । विशिष्टवाचकानां विशेषणमात्रपरत्वे लक्षणाया एव स्वीकारात् । फले व्यापारे च खण्डशक्तिस्वीकारे तु तात्पर्यविरहात् व्यापारानवबोधे फलप्रतीतिः शक्त्यैवेति । यदि तु एकोच्चारणान्तर्भावेनैव खण्डशक्तेर्वाच्यतया प्रत्येकरूपेण बोधने लक्षणैव, अत एव पुष्पवन्तादिपदाच्चन्द्रत्वसूर्यत्वान्यतरमात्रप्रकारको बोधो लक्षणयैवेति सिद्धान्तः इति नव्यरीतिराश्रीयते, तदा न्यग्भवनबोधो लक्षणयैवेति बोध्यम् ।
स्यादेतत् । कक्षाचतुष्टयस्यैवोक्तत्वात्पञ्चमी अवस्था कथमिति चेत् ।
अत्राहुः---उक्तरीत्या चतुष्टयबोधे ततः प्रकृतसूत्रेणात्मनेपदं प्रतिपाद्यते इति व्युत्पत्तिक्रमापेक्षया पञ्चमत्वम्, प्रयोगार्हं तु कक्षाचतुष्टयमेवेति केचित् ।
कौस्तुभकृतस्तु विशिष्टवाचकयोः शुद्धण्यन्तयोर्वाच्यावंशौ वाचकभेदाद् द्वेधा गणयित्वा तृतीयकक्षायामवस्थाचतुष्टयं चतुर्थकक्षायां पञ्चम्यवस्थेति विवक्षितमित्याहुः ।
एवं विषयत्वापत्त्युपसर्जनविषयत्वापादनार्थो दृशिः । पश्यन्ति भवं भक्ताः । चाक्षुषविषयं कुर्वन्तीत्यर्थः । भक्तव्यापारत्यागे पश्यति भवः । चाक्षुषविषयो भवतीत्यर्थः । अयं तु विशेषः लुनात्यादेर्निवृत्तप्रेषणाद्वितीयकक्षायां कर्मस्थभावक्रियत्वात्कर्मवद्भाव प्रवृत्तिः, न त्वत्रोभयत्रेति । तथा च वृत्तिः---रुहिः कर्तृस्थक्रियः दृशिः कर्तृस्थभाव इति । तच्च प्रागेव व्याख्यातम् । ततः पश्यन्तं प्रेरयतीति णिचि दर्शयन्ति भवं भक्ताः । प्रथमकक्षावदर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । द्वितीयकक्षावदर्थः । प्रकृतसूत्रेण त्वात्मनेपदमिति दिक् ।
अत्र दीक्षिताः---एवं वर्णयतां कैयटादीनां प्रकृतसूत्रभाष्यवार्त्तिकग्रन्थविरोधः आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यानित्यत्रातिव्याप्तिशङ्कायां मनुष्यानिति कर्मान्तरसद्भावान्नेति हि प्रथमे प्रघट्टके "कर्मकर्तृत्वात्सिद्धम्" इति शङ्कायां "यक्‌चिणोर्निवृत्त्यर्थम्" इति द्वितीये " कर्तृस्थभावकार्थम्" इति तृतीये स्थितम् । तत्राद्यो विरुद्धः । मनुष्याणामणौ कर्तृत्वात् । मनुष्यस्थलयोरणौ कर्तृकर्मणोरेवेह कर्मतया यदतिरिक्तकर्माभावादात्मनेपदस्य दुर्वारत्वात् । द्वितीयोऽपि विरुद्धः । तदुक्तरीत्या कर्मवद्भावस्यैवाभावात् । "कर्मवदकर्मकाणाम्" इति हि वार्त्तिकम् । अत एव न तृतीयोऽपि । तथा चोद्देश्यविस्मृतिरेवापततीति महानयं महतामपि प्रमादः ।
किञ्च कर्मान्तरनिवृत्तिपरवाक्यस्य निष्फलत्वमेव स्यात् उदाहरणदौर्लभ्यात् । नह्यणौ ये कर्तृकर्मणी तद्भिन्नं कर्मणौ सम्भवति यदनेन व्यावर्त्येतेति ।
तत्र केचिदाहुः---प्रतमप्रघट्टके तावन्मनुष्यानिति कर्मणः सत्त्वान्नातिव्याप्तिरित्यस्य हरदत्तादिभिरुक्तत्वेऽपि कैयटेनानुक्तत्वात् । स्थलरूपस्य कर्मणः सत्त्वान्नातिव्याप्तिरित्येव तदभिप्रायात् । वार्त्तिककाराभिमतं नियमार्थत्वं दूषयित्वा सूत्रस्य विध्यर्थत्वव्यवस्थापनपरभाष्यानुसारिणः कैयटस्य द्वितीयप्रघट्टकवार्त्तिकविरोधस्याकिञ्चिरत्वात् । कर्तृस्थभावक्रियेषु सूत्रस्य विध्यर्थतायास्त्वयाऽपि स्वीकाराच्च । न तृतीयः । तृतीयप्रघट्टकभाष्यानुसारेणैव कैयटेन तथाऽर्थस्य वर्णितत्वात् एवं वदतः स्वस्यैवोद्देश्यविस्मरणात् ।
तदयं निष्कर्षः---कर्तृस्थक्रियार्थं सूत्रारम्भ इत्येव हि भाष्यकाराभिप्रायो न तु यादृशस्थले कर्म कर्ता कर्तृस्थक्रियश्च धातुस्तत्रैवैतत्सूत्रप्रवृत्तिरित्येतत्पर्यन्तमपि । मानाभावात् । कैयटव्याख्याने तु `दर्शयते भृत्यान्राजा' इत्युदाहरणस्य तात्पर्यग्राहकत्वात् । नच कर्मकर्तृत्वात्सिद्धमिति शङ्कितत्वादकर्मकमेवोदाहरणमिति वाच्यम् । तस्य लावयते केदार इत्येतन्मात्रविषयकत्वात् । अन्यथा स्मरयत्येनं वनगुल्मः स्वयमेवेति प्रत्युदाहरणमसङ्गतं स्यात् ।
यत्तु कैयटादिभिरुक्तं कर्मेह न विवक्षितम् । अत्र ह्येनमिति कर्मणः सत्त्वात् कर्मवदकर्मकाणामिति वचनात् कर्मवद्भावस्य प्राप्तिर्न्नास्ति । न त्वेतत्सूत्रेणात्मनेपदस्य कर्मान्तरसद्भावात् । तस्मात्स्मरयति वनगुल्मः स्वयमेवेति प्रदर्शनीयम् । स्मृ आध्याने घटादिः । उत्कण्ठापूर्वकस्मूतौ विषयो भवतीत्यर्थः । यच्च व्याख्यातं गभीरायां नद्यां घोष इत्यत्र गभीरनदीपदार्थयोरभेदबोधानन्तरं तीरलक्षणायामपि प्राथमिकबोधमादाय गभीरपदसार्थक्यवदिहाप्यध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मण्यन्विते ततो णिजर्थस्येव कर्मणोऽपि परित्यागे णिचः कर्मपदस्य च प्राथमिकबोधमादाय कथञ्चित्सार्थक्यं स्वज्ञाप्यसम्बन्धो लक्षणेत्यभ्युपगमात् । ज्ञाप्यस्य चेह विशिष्टवाक्यार्थरूपत्वात् । एषैव चार्थवादैः प्राशस्त्यल7णाया गतिः । स एष सिद्धानां व्याख्योपायः । स्वाधीने तु शब्दप्रयोगे कर्मविनिर्मुक्तमेव प्रयोक्तुमुचितम् । तदभ्युपगम्य वादमात्रम् वार्त्तिकमतानुसारेणोक्तत्वात् । सूत्रशेषे कैयटेनोक्तरीत्या कर्मविवक्षायां स्वयमेव प्रतिपादितत्वात् ।
एतेन कर्मकर्तरि मूलोदाहरणानि कर्मवद्भावस्तु कर्तृस्थभावक्रियत्वान्नेति सिद्धान्तशरीरं भाष्यवृत्त्यादिनिष्कर्षे स्थितमिति निरस्तम् । अकर्मकमात्रपरत्वे मानाभावस्योक्तत्वात् । कर्मवद्भावाविषये कर्तृस्थभावादाविव तथाविधे सकर्मकेऽपि प्रवृत्तौ बाधकाभावात् ।
एतेन गभीरायाम् इत्यादिकमप्यपास्तम् । तद्वाक्ये गबीरपदस्य जनितान्वयबोधतया प्रकृतवाक्ये च त्वद्रीत्या कर्मणोऽन्वयबोधानुपधानेन वैषम्यात् ।
यत्त्वध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मान्वय इति ।
तदसत् । वाक्यान्तरेऽन्वितत्वेऽपि तद्वाक्येऽन्वितत्वं विना सार्थक्याभावात् । णिचस्तु स्वार्थिकत्वेनाप्युपपत्त्या न वैयर्थ्यमिति वैषम्यम् । वाक्यान्तरेषु सर्ववाक्यानामन्वितत्वाद्वाक्यविशेषेऽनन्वितपदोपादानापत्त्याऽतिप्रसञ्जकत्वाच्च । अर्थवादस्थले तु "वायुर्वै क्षेपिष्ठा देवता" इत्यादौ अर्थस्याबाधितत्वेन शक्यार्थज्ञानजन्यशाब्दविषयीभूतक्षेपिष्ठत्वगुणको वायुः स्वदैवत्यकर्मजन्यफलं शीघ्रं प्रयच्छतीत्येवंरूपवाक्यार्थसम्बन्धादेव स्तुतिरूपं प्राशस्त्यं लक्ष्यते । यजमानः प्रस्तर इत्यादौ तु यथाश्रुतस्य बाधात् गौण्या यजमानकार्यकारित्वसजातीयकार्यकारी प्रस्तर इति शाब्दे जाते तदन्तरं स्वकार्यकर्तृरूपवाक्यार्थसम्बन्धात्प्राशस्त्यं लक्ष्यते । न त्वनन्वितश्रूयमाणपदार्थकस्यैव वाक्यार्थस्य तदिति न किञ्चिदेतत् ।
स्यादेतत् । एवं सत्यध्यारोपितप्रेषणपक्षद्वितीयकक्षायामप्यात्मनेपदमेव भवतीति पर्यवसाने लावयति केदारो देवदत्तेनेत्यत्र परस्मैपदं कैयटेनैव प्रयुज्यमानमसङ्गतं स्यादिति ।
अत्राहुः लेखकप्रमादादेव तथा पाठ इति ।
यत्तु विवरणकारैरुक्तं णौचेद्‌ग्रहणं समानक्रियार्थम् । नचाण्यन्तेन समानक्रियत्वं ण्यन्तस्येत्यात्मनेपदं न कृतमिति, तद्वक्ष्यमाणहरदत्तग्रन्थश्रद्धाजाड्यमात्रप्रयुक्तत्वादुपेक्ष्यमिति । अधिकमग्रे वक्ष्यामः ।
यत्तूक्तं कर्मान्तरनिवृत्तिपरवाक्यस्य व्यावर्त्यं नास्तीति ।
तदसत् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यानित्यस्य वार्त्तिकभाष्यकाराभ्यामेव व्यावर्त्यत्वोक्त्या तदभावकथनस्य साहसमात्रत्वात् ।
अयं तु विशेषः---वार्त्तिककृता यथाश्रुतसूत्रार्थमादाय "णेरात्मनेपदविधाने अम्यन्तस्य कर्मणस्तत्रोपलब्धिरितरथा हि सर्वप्रसङ्गः" इति हि वचनमारब्धम् । अम्यन्तस्य यत्कर्म यदाण्यन्ते तदेव कर्म भवति तदाऽऽत्मनेपदमिति तदर्थः । भाष्यकृता तु पूर्वोपन्यस्तकैयटोक्तरीत्याऽवान्तरवाक्यभेदमाश्रित्य सूत्राक्षरैरेव तत्रातिव्याप्तिर्वारितेति । नच णौ ये कर्तृकर्मणी तदन्यकर्मव्यवच्छेदे तात्पर्यस्य कैयटेनोक्तत्वाद्‌, अत्र च आरोहन्तिस्थलं मनुष्या इत्यणौ क्रतृकर्मणोरेव मनुष्यस्थलयोर्ण्यन्ते कर्मत्वात्स्यादेवात्मनेपदमिति चेत् । न । आरोहन्ति हस्तिनं हस्तिपका इत्यत्राऽणौ कर्तृकर्मभ्यां हस्तिहस्तिपकाभ्याम् अन्यस्य स्थलमितिकर्मणः सत्त्वात् । नचारोहन्ति स्थलं मनुष्या इत्यण्यन्तावस्थामादायाऽतिप्रसड्ग एवेति वाच्यम् । तस्यामवस्थायां यत्कर्मस्थलरूपं तस्योक्तण्यन्तावस्थायां कर्तृत्वविरहात्तृतीयवाक्यार्थेनैव तद्वारणात् । आरोहन्ति हस्तिनं हस्तिपका इत्यण्यन्तावस्थायां ये कर्तृकर्मणी तदतिरिक्तकर्माभावं चादायातिप्रसङ्गस्यापादयितुमशक्यत्वात् । तथा च यस्यामण्यन्तावस्थायां कर्मणो ण्यन्ते कर्तृत्वं तस्यामेव ये कर्तृकर्मणी तदतिरिक्तकर्मव्यवच्छेदे तात्पर्यमिति पर्यवसन्नम् । आरोहयमाणो हस्तीत्यत्र तु भवत्येवात्मनेपदम् । अध्यारोपितप्रेषणपक्षतृतीयकक्षायां विशेष्याभावादेव तदतिरिक्तकर्माभावसत्त्वात् । `दीर्शयते भृत्या न्‌ राजा' इत्यत्र तदीयद्वितीयकक्षायां तु पश्यन्ति भृत्या राजानमित्यण्यन्तावस्थायां कर्तॄणामेव भृत्यानां कर्मत्वात्कर्तृकर्मातिरिक्तत्वाभावप्रयुक्तविशिष्टाभावादिति नकोऽपि दोषः ।
एतेन स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुतामिति भारविप्रयोगोऽपि व्याख्यातः । अत एव "हृक्रोरन्यतरस्याम्" इत्यत्र "अभिवादिदृशोरात्मनेपदे उपसंख्यानम्' इति वार्त्तिकव्याख्यायां पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजा, दर्सयते भृत्यैराजा इत्यत्र "णेरणौ" इति आत्मनेपदमिति भाष्यकृद्भिर्व्याख्यातम् ।
न च कर्मसञ्ज्ञाविरहपरमेव तद्भाष्यतिति वाच्यम् । सङ्कोचे मानाभावात् ।
एतेन द्वितीयवाक्यार्थः प्रत्यासत्त्यैव गतार्थः । ण्यन्तादात्मनेपदं स्यादणौ यत्कर्म णौ चेत्स कर्त्तेत्युक्ते प्रत्यासत्तेरेतद्गम्यते येन णिचा ण्यन्तादात्मनेपदं विधित्सितम् अण्यन्ते तत्प्रकृतौ यत्कर्म तदेव चेत्तस्मिन्नेव ण्यन्ते कर्तेति । इह तु यत्रायमुपाधिः कृतमेव तत्रात्मनेपदम् आरोहयमाण इति । स्थलमारोहयतीत्यत्र त्वणौ कर्मणः स्थलस्य णौ कर्तृत्वाभावादयमुपाधिरेव नास्तीति नात्मनेपदप्रसङ्ग इति ।
तदप्यसत् । आरोहन्ति हस्तिनं हस्तिपका इत्यत्र शानच्प्रकृत्यन्तर्गतस्येव तिङ्‌प्रकृत्यन्तर्गतस्यापि णेरभावसत्त्वात् तत्र कर्मणो हस्तिनः स्थलमारोहयति मनुष्यानिति ण्यन्ते कर्तृत्वसद्भावादतिप्रसड्गस्य दुर्वारत्वात् । ननु मनुष्याः स्थलमारोहन्तीत्यण्यन्ते कर्मणः स्थलस्य तत्र कर्तृत्वं नास्तीति चेत्किं यावतामणौ कर्मत्वं तावतां णौ कर्तृत्वमित्यमभिमतं प्रत्यासत्तिवादिनः । ओमिति चेन्न । आरोहयमाणो हस्तीति अध्यारोपितप्रेषणतृतीयकक्षायामपि आत्मनेपदाभावप्रसङ्गात् । मनुष्याः स्थलमारोहन्तीत्यण्यन्तावस्थायां कर्मणः स्थलस्य तृतीयकक्षायां कर्तृत्वाभावात् । एतेन णित्वेनैक्यं गृहीत्वा शानच्प्रकृत्यन्तर्गतस्य णेरभावे कर्मणो हस्तिन एव तिङ्‌प्रकृतिभूतण्यन्तार्थे कर्तृत्वादुक्तस्थलेऽतिप्रसङ्गशङ्कोपपत्तिरित्यपि निरस्तम् । तिङ्‌प्रकृत्यन्तर्गतणिजभावस्यापि तत्र सत्त्वेनोक्तरीत्यैवातिप्रसङ्गोपपत्तौ णित्वेनैक्यविवक्षायां प्रयोजनाभावादिति केचित् ।
स्यादेतत् । येन णिचा ण्यन्तादात्मनेपदं विधित्सितं तत्र ये कर्तृकर्मणी तस्य णेरभावे यत्र तयोः कर्मत्वं कर्तृत्वं च तादृशण्यन्तादात्मनेपदमिति प्रत्यासत्त्यर्थ इति चेत् न । अध्यारोपितप्रेषणतृतीयकक्षायां निवृत्तप्रेषणस्य च चतुर्थकक्षायामव्याप्तेः । ९तत्र कर्मणोऽप्रसिद्धत्वात् । अथ यथासम्भवं ण्यन्ते कर्तुरणौ कर्मत्वं ण्यन्ते कर्मणोऽणौ कर्तृत्वं चेति चेन्न । उक्तस्थलेऽतिप्रसङ्गतादवस्थ्यात् । ण्यन्ते कर्मणो मनुष्याणामणौ कर्तृत्वसत्त्वात्, निवृत्तप्रेषणतृतीयक्षायामप्यतिप्रसङ्गाच्च । ण्यन्ते कर्मणो हस्तिन आरोहति हस्ती इति द्वितीयकक्षायां कर्तृत्वसद्भावात् ।
स्यादेतत् । येन णिचा ण्यन्तादात्मनेपदं विधित्सितं तस्य णेरभावे धात्वर्थताऽवच्छेदकं यत् फलं तदेव यस्मिन् ण्यन्ते धात्वर्थताऽवच्छेदकं धात्वर्थो वा भवति तस्मादात्मनेपदम् । आरोहन्ति हस्तिनं हस्तिपका इत्यत्र हि धात्वर्थत्वावच्छेदकं न्यग्भवनम्, स्तलमारोहयति मनुष्यानित्यत्र तु न्यग्भवनानुकूलो यो मनुष्यनिष्ठव्यापारस्तदनुकूलव्यापारश्च णिजर्थः । तथा च न्यग्भवने स्थलस्य तदनुकूलव्यापारवान्हस्तीति धीः । तत्र न्यग्भवनं ण्यन्तधात्वर्थतावच्छेदकतावच्छेदकमेव भवति नतु धात्वर्थतावच्छेदकं धात्वर्थो वा । व्यापारद्वयस्यैव क्रमेण तथात्वादिति नातिप्रसङ्गः । चरमकक्षायामकर्मकतया धात्वर्थतावच्छेदकमप्रसिद्धमिति धात्वर्थो वेत्युक्तम् । नच दर्सयते राजा भृत्यानित्येतत्संग्रहो न स्याद्धात्वर्थतावच्छेदकत्वाभावाद्विषयत्वापत्त्युपसर्जनविषयत्वापादनं हि पश्यन्ति भृत्या राजानमित्यत्र दृशेरर्थः । प्रेषणान्तरारोप तु विषयत्वापत्त्यनुकूलो यो भृत्यनिष्ठो व्यापारश्चक्षुः संयोगादिस्तनुकूलो यो व्यापारश्चक्षुः संयोगादेरनुकूलदेशावस्थानादिस्तदाश्रयो राजेत्यन्वयबोधः । विषयत्वापत्तौ राजनिष्ठत्वमर्थाद्‌ गृह्यते, तत्र च चक्षुः संयोगादिरेव ण्यन्तत्वर्थतावच्छेदको न तु विषयत्वापत्तिरिति वाच्यम् । ण्यन्तत्वाभावदशायां धात्वर्थतावच्छेदकफलाश्रयो यस्तदन्यवृत्तित्वेनानवगम्यमानत्वे सति धात्वर्थे प्रकारत्वमात्रस्य साक्षात्परम्परासाधारणस्य धात्वर्थतावच्छेदकफलाश्रयो यस्तदन्यवृत्तित्वेनानवगम्यमानत्वे सति धात्वर्थे प्रकारत्वमात्रस्य साक्षात्परम्परासाधारणस्य धात्वर्थतावच्छेदकपदेन विवक्षितत्वात् । अत्र च विषयत्वापत्ते राजान्यावृत्तित्वेनानवगम्यमानत्वसत्त्वानातिव्याप्तिः । आरोहन्ति हस्तिनं हस्तिपका इत्यत्र धात्वर्थतावच्छेदकन्यग्भवनाश्रयाद्धस्तिनोऽन्यस्मिन्स्थले वृत्तित्वेन न्यग्भवनस्य स्थलमारोहयति मनुष्यानित्यत्र प्रतीयमानत्वान्नातिप्रसङ्ग इति चेत् । न । प्रत्यासत्त्याहि यदन्तादात्मनेपदं यत्प्रतियोगिकाभावाश्च कर्मोपलक्षणम् । यदन्तत्वं च कर्तृविशेषणम्। सा णिज्व्यक्तिरेका ग्राह्या इत्येतावन्मात्रे सिद्धे ण्यन्तत्वाभावदशायां धात्वर्थतावच्छेदकफलाश्रयो यत्र ण्यन्तावस्थायां णिजर्थव्यापाराश्रयस्तत्र ण्यन्तादात्मनेपदं स्याद् इत्येव सूत्रार्थो यथोक्तस्थलेऽपि प्रसक्ते एव सिद्ध्यति, नतूक्ततदन्यवृत्तित्वेनाप्रतीयमानपर्यन्तमिति तादृशार्थलाभायोक्तरीत्या द्वितीयवाक्यार्थाश्रयणमावश्यकमिति तत एवोक्तार्थः सिध्यति इति भगवदभिप्रायात् । तस्माद्‌ द्वितीयवाक्यार्थबलाद्यावानर्थो विवक्षितः वाक्यैक्येऽपि स लभ्यते प्रत्यासत्त्येति साहसम् ।
तदयं भाष्यमतनिष्कर्षः---अण्यन्ते सति यत्र यौ किल फलव्यापारयोराश्रयौ ण्यन्ते तत्र तदन्यकर्मविरहस्तत्कर्मणः कर्तृता धातोः स्यात्तत आत्मनेपदमनाध्यानार्थकादिति । असौ पन्था वार्त्तिकभआष्यकैयटमुखग्रन्थाशयग्रन्थिगः ।
वृत्तिकारमते त्वयमर्थः---ण्यन्तादात्मनेपदं स्यादनाध्याने अणौ यत्कर्मेत्यस्य कर्मान्तरनिवृत्तिरर्थः । व्याख्यानं कैयटोक्तरीत्यैव । एतावांस्तु विशेषः---तत्र णौ चेदित्यन्तेन कर्मान्तरनिवृत्तिलाभः, अत्र तु अणौ यत्कर्मेत्येतावतैव । सामर्थ्याण्णेरिति सन्निहितत्वाच्च ण्यन्तावस्थायामेव अणौ कर्मणो णौ कर्तृत्वविधानसिद्धिः । अणौ यत्कर्मेत्यनुवादसामर्थ्यादेवाणौ कर्मत्वसिद्धेस्तत्रैव तद्विधानस्यानुपयोगात् । कर्मपदं कर्ममात्रपरं नतु कर्तृकर्मोभयपरमिति ।
"णौ चेद्" इति तृतीयं वाक्यम् । अणौ यदित्यनुवृत्त्या अणौ यत् प्रतिपाद्यं वस्तु णौ चेत्तदेव प्रतिपाद्यमित्यर्थः । णौचेद्ग्रहणं समानक्रियार्थमिति वृत्तिग्रन्थस्वरसात् ।
स कर्तेति---चतुर्थम् । अणौ यत्कर्म णौ चेत्स कर्तेति तदर्थः । अनाध्यान इत्यपि प्रसज्यप्रतिषेधपक्षे पञ्चमं वाक्यम् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयते हस्तीस्वयमेव । सिञ्चन्ति हस्तिनं हस्तिपकाः । सेचयते हस्ती स्वयमेव । पश्यन्ति भृत्या राजानम्, दर्शयते राजा स्वयमेव । णेरिति किम् । आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती साध्वारोहति । अणाविति किम् । गणयति गणं गोपालः, गणयति गणः स्वयमेव । गणसंख्याने चुरादावदन्तः । अतो लोपस्य स्थानिवत्त्वान्न वृद्धिः । गण्यमानो गणो यदा गणनक्रियायामानुलोभ्यं प्रतिपद्यते तदा तद्व्यापारमात्रवृत्तेर्हेतुमण्णिच् । पुनर्निवृत्तप्रेषणदशायां प्रत्युदाहरणम् । णावेव गणः कर्म तत्रैव च कर्तेति नात्मनेपदम्। नापि कर्मवद्भावेन, कर्तृस्थक्रियत्वात् । संख्यानिमित्तकज्ञानविशेषात्मकस्य गणनस्य कर्तर्येव वृत्तेः । कर्मग्रहणं किम् । लुनाति दात्रेण, लावयति दात्रं स्वयमेव । अण्यन्तावस्थायां दात्रस्य करणत्वात् । णौचेद्ग्रहणं समानक्रियार्थम् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयमाणो हस्ती भीतान् सेचयति मूत्रेण । प्रयोज्यप्रयोजकभावलक्षणेऽपि क्रियाभेदे मा भूण्णिच् । प्रकृत्युपात्तक्रियायामेव यथा स्यादित्यर्थात् । यद्यपि प्रयोज्यप्रयोजकभावक्रियाभेदेऽप्यनेनात्मनेपदं वार्यत एव, तथाऽपि अत्यन्तभेदप्रदर्शनार्थं सेचयतीति धातुभेदः प्रत्युदाहृतः । भीताश्चात्रारोहयतेः कर्म न सेचयतेः । आरोहयमाण इति णिचश्चेत्यात्मनेपदम्, चानश् वा । भीता ह्यारोहयमाणा भीत्या मूत्रयन्ति । तेन हस्ती सिच्यते । कर्मणोऽविवक्षितत्वात्सेचयतेरकर्मकत्वम् । यत्सग्रहणमनन्यकर्मार्थम् । तथाहि---
उद्देशप्रतिनिर्देशाल्लब्धे यत्संग्रहे पुनः ।
तद्ग्रहो वाक्यभेदेन कर्मान्तरनिवृत्तये ।।
तेनारोहन्ति हस्तिनं हस्तिपकाः । आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् इत्यत्र नात्मनेपदम्, मनुष्यरूपस्य कर्मान्तरस्य सत्त्वात् ।
यद्यपि भावकर्मणोरात्मनेपदस्य सिद्धत्वात्कर्तर्येवानेन भवितव्यम्, तथाऽप्यणौ यत् कर्म तस्मिन्नेव कर्तरि यथा स्यात्, कर्त्रन्तरे मा भूदित्येवमर्थं कर्तेत्युक्तम् । तेन आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयति महामात्र इत्यत्र न । रुहेर्गत्यर्थत्वाद्धस्तिपकानां कर्मसंज्ञा । यद्येवं कर्मान्तरसद्भावादेवात्र न भविष्यति । नैतदस्ति । अस्ति ह्यत्राणौ कर्मणो हस्तिनो णावपि कर्मत्वेनान्वयः । नचासति कर्तृत्वविधौ कर्मान्तरव्यावृत्तिर्लभ्यते । यद्वा प्रयोजकव्यापारे तात्पर्याद् यदा हस्तिपकाः कर्मत्वेनाविवक्षितास्तदेदं प्रत्युदाहरणम् । अनाध्याने किम् । स्मरति वनगुल्मं कोकिलः । स्मरयत्येनं कोकिलं वनगुल्मः । वृत्तौ वनगुल्मस्येति षष्ठी तु कर्मत्वोपलक्षणार्था । वनगुल्मस्य रमणीयत्वप्रतिपादनाय प्रयोजकत्वविवक्षायां णिच् । एनमिति बुद्धिस्थार्थत्वात्कोकिलस्य कर्मसंज्ञा । एतदप्युपलक्षणं कर्मान्तरसत्त्वादेव प्राप्त्यभावात् । तस्मात् कर्माविवक्षायां प्रत्युदाहरणं द्रष्टव्यमिति हरदत्तानुसारी तदर्थः । अधिकमग्रे वक्ष्यामः ।
कौस्तुभकारास्तु व्याचख्युः---णेरित्येकं वाक्यम् । अर्थः पूर्ववत् । अणौ यत्कर्म णौ चेदिति द्वितीयम् । अणौ या क्रिया सैव चेण्ण्यन्तेनोच्यते इति तदर्थः । "कर्तरि कर्मव्यतिहारे" इत्यादिवत् कर्मशब्दस्य क्रियापरत्वाश्रयणात् । स कर्तेति तृतीयम् । अणावित्यादेरनुवृत्त्या णिच्‌प्रकृत्यर्थं प्रति यत् कर्मकारकं स एव चेण्ण्यन्ते कर्तेत्यर्थः । शब्दाधिकाराश्रयणेन कर्मपदस्यात्र कारकविशेषपरतया व्याख्यानात् । भाष्यवार्त्तिकयोरपि द्वितीयवाक्यगतं कर्मपदं क्रियापरतयैव व्याख्येयम् । द्वितीयवाक्यप्रयोजनं तु अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां मा भूत् । तत्र प्रेषणाधिक्यान्नातिव्याप्तिः । तृतीयवाक्यप्रयोजनं तु निवृत्तप्रेषणपक्षे तृतीयकक्षायां मा भूत् । तत्राणौ कर्मत्वमेव न तु कर्तृत्वमिति नातिव्याप्तिः । निवृत्तप्रेषणपक्षे चतुर्थकक्षायां प्रथमकक्षामादाय तृतीयवाक्यार्थस्य द्वितीयकक्षामादाय च द्वितीयवाक्यार्थस्य समन्वयान्नातिव्याप्तिरिति ।
अत्रेदं वक्तव्यम्---अध्यारोपितप्रेषणद्वितीयकक्षायामप्यात्मनेपदस्य भाष्यकारैरभ्युपगमेन तद्वारणमनुपपन्नम् । एवं तृतीयकक्षायामप्यव्याप्तिः । आरोहन्ति हस्तिनं हस्तिपका इत्यत्र न्यग्भवनावच्चिन्नव्यापारस्य आरोहयते हस्तीत्यत्र च न्यग्भवनमात्रस्य प्रतीत्या समानक्रियत्वाभावात् ।
यत्तु क्रियाया आधिक्यमात्रं व्यवच्छिद्यते नतु न्यूनत्वमपीति । तन्न । प्रकृत्युपात्ता या क्रिया सैव चेण्ण्यन्तेनोच्येत इत्यतो न्यूनाधिक्यव्यवच्छेदस्यैव प्रतीयमानत्वात् । प्रकृत्युपात्तक्रियात्वं विशेष्यतावच्छेदकीकृत्य तदवच्छिन्नान्यस्मिण्‌ण्यन्तवाच्यत्वव्यवच्छेदस्येव तदवच्छिन्ने ण्यन्तवाच्यत्वस्यापि प्रतीतेः । एवकारार्थान्योन्याभावप्रतियोगितावच्छेदकधर्मस्य व्यवच्छेद्यधर्मप्रकारकबोधो विशेष्यतावच्छेदकतया च भानमिति नियमात् । अत एव `पार्थ एव धनुर्धरः' इत्यादौ पार्थान्यस्मिन्धनुर्द्धरत्वव्यवच्चेदः, पार्थे धनुर्द्धरत्वं च प्रतीयते । अन्यथा "पार्थो धनुर्द्धरो न वा" इति संशयस्य तद्वाक्यार्थबोधादनिवृत्तिप्रसड्ग इति सम्प्रदायः ।
स्यादेतत् । आरोहति हस्ती इत्यत्र निवृत्तप्रेषणद्वितीयकक्षायां न्यग्भवनमात्रस्य प्रकृत्युपात्तक्रियात्वात् तद्रूपविशेष्यतावच्छेदकसामानाधिकरण्यमात्रेण ण्यन्तवाच्यत्वप्रतीतावपि चरमकक्षायामात्मनेपदं सुलभमेवेति उक्तविशेष्यतावच्छेदकावच्छिन्नयावत्क्रियासाम्यस्यासम्भवादेव विवक्षानुपपत्तेरिति चेन्न । अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामप्यात्मनेपदस्य दुर्वारत्वात् । आरोहतीत्यत्रापि ण्यर्थस्यान्तर्भावयितुं शक्यतया आरोहति हस्तिपकान् हस्ती इत्यत्र न्यग्भवनानुकूलहस्तिपकनिष्ठव्यापारानुकूलव्यापारवान् हस्तीति बोधस्य आरोहयति हस्तिपकान् हस्तीत्येतद्वाक्यजन्यबोधस्य च तुल्यतया ण्यन्ताण्यन्तयोः समानक्रियत्वसाम्यात् । अध्यारोपितप्रेषणतृतीयकक्षायामपि निवृत्तप्रेषणद्वितीयकक्षामादायैव क्रियासाम्योक्तेः । अणौ कर्मणो णौ कर्तृत्वं नास्ति प्रथमकक्षाकर्मणो हस्तिन एव तत्र कर्मत्वात् । हस्तिपकानामेवोभयत्र कर्तृत्वादिति नातिव्याप्तिरिति वैषम्यम् । इयं कक्षा न ग्रन्थकारैरुक्तेति चेन्न । न्यायाविशेषे तस्याकिञ्चित्करत्वात् । ण्यन्तसमानार्थकत्वमात्रस्य बहिर्भावबीजत्वे निवृत्तप्रेषणप्रथमद्वितीयपक्षयोरप्युच्छेदापत्तेः । अपिच ग्रन्थकारैर्नोक्तेत्यसिद्धम्, शुद्धेऽपि णिजर्थमन्तर्भाव्य बहुषु व्याख्यायमानत्वात् ।
अवस्थां पञ्चमीमाह ण्यन्तं तत्कर्मकर्तरि । इति---
वाक्यपदीये आरोहयते हस्तीत्यवस्थायाः पञ्चमीत्वस्य साक्षादेवोक्तत्वाच्च । पूर्वोक्तकुसृष्टिव्याख्यानस्यानुपादेयत्वात् । तथा---
न्यग्भावनं न्यग्भवनं रुहौ शुद्धे प्रतीयते ।
इत्यत्र न्यग्भावनपदेन न्यग्भवनानुकूलव्यापारो न्यग्भवनानुकूलव्यापारानुकूलव्यापारश्चेत्युभयमादाय कक्षाद्वयमभिमतम् । ण्यन्तस्य पुनर्ण्यन्तस्य च न्यग्भावनपदे व्याख्यानात् । तथा चारोहन्ति हस्तिनं हस्तिपकाः । हस्तिनिष्ठं यन्न्यग्भवनं तदनुकूलव्यापारवन्त इत्यर्तः इति प्रथमकक्षा । ततोऽन्तर्बावितण्यर्थतायाम् आरोहति हस्तिपकान् हस्ती । न्यग्भवनानुकूलो यो हस्तिपकनिष्ठो व्यापारस्तदनुकूलव्यापारवानित्यर्थ इति द्वितीया । ततो व्यापारद्वयस्याप्यविवक्षायाम् आरोहति हस्ती इत्यादिकं पूर्ववदिति भवति आरोहयते हस्ती इत्यात्मनेपदार्हा कक्षा पञ्चमाति द्वितीयकक्षायामेव प्रेषणनिवृत्तिरित्यस्याप्रयोजकत्वात् । नन्वत्राणौ कर्मणो णौ कर्तृत्वाभावादेव नातिप्रसङ्गः । आरोहति हस्तिपकान् हस्ती आरोहयति हस्तिपकान् हस्तीत्युभयत्रापि सत्त्वात् । नच यामवस्थामादाय क्रियासाम्यं तत्कर्मण एव णौ कर्तृत्वं विवक्षितमिति वाच्यम् । अध्यारोपितप्रेषणपक्षतृतीयकक्षायामव्याप्तेः । द्वितीयकक्षामादाय हि तत्र क्रियासाम्यम् तत्र त्वकर्मणोऽप्रसिद्धत्वात् । निवृत्तप्रेषणतृतीयकक्षायां तु प्रथमकक्षामादाय क्रियासाम्येऽपि उक्ततृतीयवाक्यार्थानन्वयान्नातिव्याप्तिरिति स्पष्टमेव वैषम्यात् । वृत्तिकारस्याप्ययमेवाभिप्रायः । आरोहयमाणो हस्तीस्थलमारोहयति हस्ती मनुष्यानित्येतद्व्यावृत्त्यर्थं कर्मान्तरनिवृत्तेस्तेन व्याख्यातत्वात् । अन्यथा आरोहन्ति हस्तिनं हस्तिपका इत्येतदपेक्षया तत्र प्रेषणान्तरप्रतीत्या क्रियासाम्याभावादेवातिप्रसङ्गानुपपत्तेः । णौचेद्ग्रहणं समानक्रियार्थमिति तन्मतेऽपि स्वीकारात् ।
अयं तु विशेषः---त्वन्मते अणौ यत्कर्म णौ चेदित्येतेन समानक्रियत्वलाभः । तन्मते तु णौचेदित्यनेन पूर्वानुवृत्तिसहितेनेति ।
एतेन कर्मपदं क्रियापरमिति क्वाप्याकरग्रन्थे नोक्तमिति परास्तम् ।
उक्तरीत्या तु न्यग्भवानानुकूलव्यापारस्य आरोहति हस्तिपकान् हस्तीत्यत्रेव स्थलमारोहयति मनुष्यानित्यत्रापि सत्त्वेन क्रियासाम्यसत्त्वादतिप्रसङ्गापत्तौ कर्मान्तरनिवृत्तिवाक्येन तद्वारणं सम्भवतीति । स्थलमित्यादिकर्मान्तिराभावे तु अर्थादेव न्यग्भवनं हस्तिनिष्ठतयैव गम्यते इति । एतेन समानक्रियत्वाभावादध्यारोपितप्रेषणद्वितीयकक्षायां नात्मनेपदमिति विवरणग्रन्थोऽपि चिन्त्यः । एतेनारोहन्ति हस्तिनं हस्तिपकाः, तानारोहयति हस्तीत्यत्र मा भूदिति हरदत्तोऽपि व्याख्यातः । अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामपि यथाव्याख्यातनिवृत्तप्रेषणद्वितीयकक्षामादाय क्रियासाम्यस्य सत्त्वात् । एतेन निवृत्तप्रेषणपक्षे आद्यकक्षाद्वयस्य ण्यन्तत्वाभावात् तृतीयस्यां तु हस्तिनः कर्तृत्वाभावात्, चतुर्थ्यां तु कर्मान्वयात् अध्यारोपितप्रेषणपक्षे च द्वितीयकक्षायां समानक्रियत्वाभावात्, प्रथमायां च ण्यन्तत्वाभावात्, तृतीयस्यां च कर्मानन्वयात् हरदत्तोक्तिरनुक्तसम्भवग्रस्तेति कौस्तुभोक्तमप्यपास्तम् । तस्मात्समानक्रियत्वाविवक्षायामपि अध्यारोपितप्रेषणद्वितीयकक्षायामात्मनेपदं दुर्वारमेवेति सिद्धम् ।
केचित्तु कौस्तभोक्तार्थस्य सूत्रकाराभिमतत्वे "कर्मवत्कर्मणा तुल्यक्रियः" इति सूत्रादनन्तरं "णेरणावनाध्याने" इत्येव सूत्रं कुर्यात् । अनाध्याने समानधातावणौ कर्मणा तुल्यक्रियो ण्यन्तस्य कर्ता कर्मवदिति व्याख्याने तदभिमतार्थलाभात् । त्वद्रीत्या कार्यातिदेशाश्रयणेनैव सिध्या तदभिमतपूर्वविप्रतिषेधज्ञापनक्लेशाभावाच्च । कर्तृस्थभावक्रियार्थं सूत्रारम्भ इत्यस्य तुल्यत्वात् । यक्‌चिणोश्च कर्मस्थभावक्रियेष्विव कर्तृस्थभावक्रियेष्वपि विशेषवचनेनैव वारणीयत्वात् । किञ्च आरोहयमाणो हस्ती पर्वतमारोहयति इति निवृत्तप्रेषणतृतीयकक्षायामप्यात्मनेपदं स्यात् प्रथमकक्षामादाय क्रियासाम्यस्य, आरोहन्ति हस्तिनं हस्तिपका इत्यणौ कर्मणो हस्तिनः कर्तृत्वस्य च सत्त्वात् । कर्मान्तरनिवृत्तिवाक्यस्य त्वयाऽनभ्युपगमात् । नच यां कक्षामादाय क्रियासाम्यं तत्कक्षायमेव यत् कर्म तस्य णौ कर्तृत्वं विवक्षितमिति वाच्यम् । असम्भवापत्तेः । निवृत्तप्रेषणपक्षे द्वितीयकक्षामादाय क्रियासाम्यस्य प्रथमकक्षामादाय चाणौ कर्मणो णौ कर्तृत्वस्य स्वयमेव व्याख्यानात् । द्वितीयकक्षायां कर्मणो णौ कर्तृत्वस्य स्वयमेव व्याख्यानात् । द्वितीयकक्षायां कर्मण एवाप्रसिद्धत्वात् । नचेष्टापत्तिः । भाष्यकारादिमतविरुद्धत्वात् । यस्यामण्यन्तावस्थायां कर्मणो ण्यन्ते कर्तृत्वं तस्यामेव ये कर्तृकर्मणी तदन्यकर्मव्यवच्छेदे कर्मान्तरनिवृत्तिवाक्यस्य तात्पर्यमिति व्यवस्थितत्वात् । वृत्तिकौस्तुभोभयमतेऽप्यकर्मकाणामेवोदाहरणत्वस्वीकारात् इत्याहुः ।
स्यादेतत् । आरोहन्ति हस्तिनं हस्तिपका इत्येतत्समानार्थिकायाम् आरोहयन्ति हस्तिनं हस्तिपका इत्यस्यामपि निवृत्तप्रेषणपकक्षायामात्मनेपदं स्यात् । आरोहति हस्तिपकान्हस्तीत्यणौ कर्मणां हस्तिपकानां णौ कर्तृत्वात् । तत्र ये कर्तृकर्मणी तदतिरिक्तकर्माभावाच्च अध्यारोपितप्रेषणद्वितीयकक्षाविशेषस्य दुर्वचत्वात् इति चेत् ।
न । क्रियासाम्यस्य भाष्यमतेऽपि विवक्षितत्वात् । उक्तण्यन्तनिवृत्तप्रेषणकक्षायां च क्रियायां न्यूनत्वेन तदभावात् । अध्यारोपितप्रेषणद्वितीयकक्षायां चोक्तोपाधिविशिष्टक्रियासाम्यसत्त्वादात्मनेपदोपपत्तेः । पक्षद्वयस्यापि चरमकक्षायां पूर्वोक्तविशिष्टाभावसहितस्य `आरोहति हस्ती' इत्येतदवस्थामादाय क्रियासाम्यस्य सत्त्वादात्मनेपदमुपन्नम् । क्रियासाम्यं च हरदत्तोक्तरीत्यैव व्याख्येयम् । कैयटस्याप्यत्रैव तात्पर्यम् । समानक्रियत्वं भाष्यकैयटसंमतमित्यस्य कौस्तुभकारेरङ्गीकाराच्च ।
अयं तु विशेषः---तन्मतेऽध्यारोपितप्रेषणद्वितीयकक्षायामतिव्याप्तिवारणाय तथोक्तम् । अस्माभिस्तु यथोक्तनिवृत्तप्रेषणतृतीयकक्षायामिति । अत एव विवरणकारैः णौचेद्ग्रहणं समानक्रियाप्रतिपत्त्यर्थमिति तत्रोपन्यस्तम् । एतेन तद्विवरणं पदमञ्जरीश्रद्धाजाड्यमात्रप्रयुक्तमित्यपि निरस्तम् । उक्तरीत्या भाष्यादिसंमतत्वात्, परं त्वध्यारोपितप्रेषणद्वितीयकक्षायाम् अण्यन्तधात्वर्थक्रियासाम्यं नास्तीत्यंशे एव विवरणस्य चिन्त्यत्वमिति रहस्यम् ।
अत एव भाष्यमते "कर्मवत्कर्मणा" इत्यनन्तरं पूर्वोक्तरीत्या नैतत्सूत्रारम्भापत्तिः । अध्यारोपितप्रेषणद्वितीयकक्षायामात्मनेपदानुपपत्तिप्रसङ्गात् । कौस्तुभमते तु तस्या अलक्ष्यतया तद्दोषः कैश्चिदुक्त इति वैषम्यम् । एतादृशभाष्याभिप्रायव्यवस्थापनार्थमेव वृत्तिकृता चतुर्थवाक्यार्थो व्याखम्यातः `दर्शयते राजा भृत्यान्' इत्यत्र । तेनाप्यात्मनेपदोक्त्या भाष्यवृत्त्योर्मतैक्यनिर्णयात् । `दर्शयते राजा भृत्यान् स्वयमेव' इति चतुर्थकक्षाया भाष्यमतेऽपि लक्ष्यतया तदुदाहरणेनाध्यारोपितप्रेषणद्वितीयकक्षाया वृत्तिमतेऽप्यलक्ष्यत्वासिद्धेः । ननु `कर्मकर्तरि' इत्यादिवृत्तिग्रन्थस्तु वार्त्तिकमतानुसारेण, `कर्तृस्थक्रियार्थम्' इत्यादितद्ग्रन्थो भाष्यवदत्यन्तायोगव्यच्छेदार्थको न त्वन्ययोगव्यवच्चेदार्थको न्यायसाम्यात् । `गणयति गणः स्वयमेव' इति ग्रन्थोऽपि वार्त्तिकमतानुसारेणैव । भाष्यकारैर्णिग्रहणेन हेतुमण्णिच एव ग्रहणात् । तत्राप्यात्मनेपदस्योदाहृतत्वात् । अत एव हेलाराजेनोक्तं गणयति गणः स्वयमेवेत्यत्र त्वात्मनेपदनिवृत्त्यर्थं नियमार्थतया "णेरणौ" इति सूत्रं वार्त्तिककृता व्यवस्थापितमिति । आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती भीतान्सेचयति मूत्रेणेति प्रत्युदाहरणस्य त्वयमर्थः---भीता मूत्रेण हस्तिनं सिञ्चन्ति इति प्रथमकक्षा । संयोगानुकूलद्रवद्रव्यनिष्ठक्रियानुकूलव्यापारश्च सेकपदार्थः । हस्तिनिष्ठसंयोगानुकूला या मूत्ररूपद्रवद्रव्यनिष्ठक्रिया तदनुकूलव्यापारवन्त इत्यर्थः । ततो ण्यर्थान्तर्भावे हस्ती भीतैर्मूत्रेण सिञ्चति । संयोगानुकूलद्रवद्रव्यक्रियानुकूलव्यापारानुकूलव्यापारवानित्यर्थः । एतत्समानार्थायाम् अध्यारोपितप्रेषणद्वितीयकक्षायां हस्ती भीतैः सेचयते मूत्रेणेति । तत्रात्मनेपदं भवत्येव । गतिबुद्द्यादिसूत्रस्यानवकाशाद्भीतानां कर्मत्वाभावात्कर्तरि तृतीया ।।

भीस्म्योर्हेतुभये 68 ।

भयेति विस्मरणस्याप्युपलक्षणम् । आभ्यां ण्यन्ताभ्यामात्मनेपदं प्रयोजकस्यैव तज्जनकत्वे । मुण्डो भीषयते । "भियो हेतुभये" इति षुक् । "बिभतः" इति वैकल्पिकात्वपक्षे भापयते । षुग्विधावीकारप्रश्लेषादत्र तदभावः । जटिलो विस्मापयते । हेतुभये किम् कुञ्चिकया भाययति, रूपेण विस्माययति । अत्र "नित्यं स्मयतेः" इति आत्वं न भवति । उक्तार्थकहेतुभयपदस्य तत्रानुवृत्तेः । यद्यपि हेतुव्यापारे णिज्विधानं तस्यापि भयहेतुत्वं तथाऽपि विशेषणसामर्थ्याद्धातुस्वरूपमेवान्यनिरपेक्षन्धात्वर्थप्रयोजकं चेत्यर्थः ।
एतेन मनुष्यवाचा मनुवंशकेतुं विस्माययन्निति व्याख्यातम् । विस्मापयन्निति पाठः प्रामादिकः । णिजन्तरेण वाचेत्यस्य करणार्थत्वमपहाय प्रयोज्यकर्तृपरतया वा समाधेयः ।

गृधिवञ्च्योः प्रलम्भने 69 ।

ण्यन्ताभ्यामाभ्यां वञ्चनार्थाभ्यामात्मनेपदम् । माणवकं गर्द्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्द्धयति । कुत्रचित्तस्येच्छामुत्पादयतीत्यर्थः । अहिं वञ्चयति वर्जयतीत्यर्थः ।

लियः संमाननशालीनीकरणयोश्च 70 ।

चकारात् प्रलम्भनग्रहणम् । लीङ्‌ प्रश्लेषणे । दिवादिः । अङित् क्रयादिः । द्वयोरप्युपादानम् । निरनुबन्धकपरिभाषाया "वामदेवाड्‌ ड्यड्‌ड्यौ" इति डित्करणज्ञाप्यतया प्रत्ययविषयकत्वात् । जटाभिरालापयते । पूजां प्राप्नोतीत्यर्थः । श्येनो व्र्तिकामुल्लापयते । न्यक्करोतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः । "विभाषालीयतेः" इत्यात्वम् एतद्विषये नित्यं व्यवस्थितविभाषात्वात् । नच "लीयतेः" इति श्यना निर्देशात् लीनातेरात्वं न स्यादिति वाच्यम् । उभयार्थको निर्देशोऽयमिति सिद्धान्तात् । संमाननादिष्विति किम् । बालमुल्लापयति । आश्लेषयतीत्यर्थः ।

मिथ्योपपदात् कृञोऽभ्यासे 71 ।

ण्यन्तात्कृञो मिथ्योपपदादात्मनेपदं स्यात्पौनः पुन्ये । पदं मिथ्या कारयते । सापचारं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । कृञ्‌ अत्राकर्मक उच्चारणार्थः । ण्यन्तस्तु उच्चारणार्थः सकर्मकश्च । मिथ्येति किम् । पदं सुष्ठु कारयति । कृञः किम् । पदं मिथ्या वाचयति । अब्यासे किम् । सकृत्पदं मिथ्या कारयति ।

स्वरितञितः कर्त्रभिप्राये क्रियाफले 72 ।

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले । क्रियाफलमत्र यदुद्देशेन तत्क्रियाप्रवृत्तिस्तत् । नत्ववान्तरफलं यत्तद् । तदुक्तम्--- यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।
तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ।।
तेन दक्षिणावेतनादिकमादाय नात्मनेपदम् । अत्र क्रियाफलस्यातिरिक्तगामित्वविवक्षायामात्मनेपदमसाधु, न तु कर्तृगामित्वाविवक्षायाम् । अत एव कर्त्रभिप्राये इति किम् कर्तृभिन्नगामित्वे मा भूदिति व्याख्यातं नतु कर्तृगामित्वाभाव इति । तेन भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणेत्यत्रात्मनेपदमनर्थकमिति काव्यप्रकाशः सङ्गच्छते । अन्यथा च्युतसंस्कृतावेवान्तर्भावः स्यादिति प्रदीपकारादयः । यद्गतफलकामनया कर्म क्रियते तद्गतमेव फलमिति नियमात् गयाश्राद्धं पितरि, जातेष्टिः पुत्रे स्वर्गपूतत्वे जनयतः । मातापित्रादिस्वर्गकामनाकृतं च पुष्करणीयागादिकं मातापित्रादिस्वर्गजनकम् । "स्वर्गकामः" इत्यादौ स्वपरसाधारणस्वर्गस्य फलत्वकल्पनात् । यजेतेत्यात्मनेपदं च क्रियाफलस्य कर्त्रनिष्ठत्वेऽपि कर्त्रभिप्रेतत्वमात्रेण साध्विति मणिकृतः । मिश्रास्तु पुरुषविशेषस्य फलार्थं विशिष्य यत् कर्मोक्तं तत् तन्निष्ठफलेच्छया कृतं पुरुषान्तरे फलजनकमस्तु इत्थं च परपुत्रादिपूतत्वार्तमपि जातेष्ठ्यादिकमस्तु यद्गतं फलं शास्त्रदेशितं तद्गतत्वेनैव फलकामना प्रयोजिकेत्यर्थे "स्वर्मकाम" इति श्रुतौ स्वत्वस्यौत्सर्गिकत्वान्मातापित्रादिस्वर्गार्थं पुष्करणीयागादिकरणविरोधः । दद्यादहरहः श्राद्धं पितॄणां प्रतिमावहन्नित्यादौ परपित्रादिलाभापत्तिः । आत्मनेपदमपि फलस्य कर्तृगतत्वे एव साधु । कर्तारं चेत् क्रियाफलमभिप्रैति अभिसंबध्नातीति व्याख्यानात् । अत एव कर्त्रभिप्रायक्रियाफलयोः सामानाधिकरण्यं सूत्रे सङ्गच्छते । अभिप्रायपदस्य विषयलक्षणायां गौरवात् । अत एव यजन्ति याजका इति प्रत्युदाहरणम् । नच तेषां वेतनमात्रेऽभिप्रायः । साङ्गे फले सत्येव वेतनमिति वेतनोपरागेण फलाभिप्रायस्यापि सत्त्वात् । तस्मात्परार्थं पुष्करिणीयागमहादानादेः शिष्टैरविगानेनाचरणात्स्वपरसाधारणस्वर्गादिकामः पुष्करणीयागादिकं कुर्यादिति विशिष्यैव श्रुतिः कल्प्यते इत्याहुः ।
केचित्तु तदपेक्षया प्रत्यक्षविधेरेव शिष्टाचारबलात्सामान्यपरत्वावधारणादौत्सर्गिकस्वपरताबाधो युक्तः । पितृभ्य इत्यादौ तु स्वपितृभ्य इत्यादिवचनान्तरैकवाक्यतया शिष्टाचारेण च संबन्धित्वेनौत्सर्गिकस्वपितृपरत्वमेवेति मणिकृदुक्तं युक्तम् । आत्मनेपदमपि कर्तृभिप्रेते क्रियाफले एव । विषयसप्तम्या क्रियाफलविषयके कर्त्रभिप्राये, अभिप्रेयते इति कर्म व्युत्पत्त्यावा उक्तार्थलाभात् । अत एव दक्षिणाद्युपरागेणापि यजमानस्वर्गादेः कामत्वे यजन्ते याजका इति । दक्षिणादेरेव तथात्वे तु यजन्ति याजका इत्येवेति ग्रन्थकारैरुक्तम् ।
न विमुञ्चन्ति सामर्थ्यं वाक्यार्थेषु पदानि वः ।
यज्ज्वलन्ति हि काष्ठानि तत् किं पाकं न कुर्वते ।।
इति कर्त्रनभिप्रायेऽप्यात्मनेपदस्य भट्टाचैर्यैः प्रयुक्तत्वाच्चेत्याहुः ।
केचित्तु इदमात्मनेपदं संविधानवृत्तिभ्यो भवति । पचते पाचयतीत्यर्थः । एवं यजते इत्यादि । धातूनामनेकार्थत्वात्प्रकृतिरेव यदा संविधाने वर्त्तते तदा तस्य द्योतकमात्मनेपदं भवति, यदा तु प्रकृत्या न विहितं संविधानं तदा तदभिधानाय णिजुत्पद्यते पाचयतीति । यदा तु "णिचश्च" इति ण्यन्तादात्मनेपदं भवति तदा द्वितीये संविधाने ण्यन्तस्य वृत्तिः । यथा राजा पाचयते इति । कर्त्रभिप्राये क्रियाफले इत्यनेन संविधानात्मक एव क्रियाविशेष उपलक्ष्यते । तदुक्तं वाक्यपदीये---
क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता ।
असती वाऽसती वाऽपि विवक्षितनिबन्धना ।।
केषांचित्कर्त्रभिप्राये णिचा सह विकल्प्यते ।
आत्मनेपदमन्येषां तदर्था प्रकृतिर्यथा ।।
क्रीणीष्व पचते धत्ते चिनोति चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते ।।
असतीवेत्यनेन कमलवनोद्‌घाटनं कुर्वते ये इत्यादयः समर्थिताः । तत्रापि स्वार्थताविवक्षायाः सम्भवात् । केषाञ्चिदिति श्लोकेन ण्यर्थस्य वाचकं द्योतकं वाऽऽत्मनेपदमिति मतद्वयं संगृहीतम् । चिनोति चिनुते इति चिनोति चाययतीति क्रमेणार्थ इत्याहुः ।
अत्रायं विवेकः---ण्यर्थे आत्मनेपदमिति मतेऽपि संविधाने शब्दशक्तिस्वाभाव्यात्स्वरितञित एव वर्त्तन्ते नान्ये धातव इतिस्वरितञिद्ग्रहणं भाष्ये प्रत्याख्यातम् ।
येऽपि स्वार्थं क्रियारम्भे आत्मनेपदं परार्थक्रियारम्भे परस्मैपदम् । सा च स्वार्थपरार्थता विवक्षानिमित्ता लौकिकप्रयोगे स्वरितञिद्विषयैव नतु यातीत्यादि विषयेत्याहुः, तन्मतेऽपि स्वरितञिद्ग्रहणं प्रत्याख्यातम् । इदं मतं क्रियाप्रवृत्ताविति कारिकयोक्तम् । पञ्चभिर्हलैः कृषतीत्यत्र "विभाषोपपदेन प्रतीयमाने" इति पाक्षिक आत्मनेपदाभावः । स्वामिदासौ पचत इत्यत्र क्रियामात्रविवक्षायां परस्मैपदम् । स्वामिगतधर्मस्य दासे आरोपे त्वात्मनेपदं भवत्येवेति कैयटः ।

अपाद्वदः 73 ।

पूर्वविषये आत्मनेपदम् । न्यायमपवदते । कर्त्रभिप्राये किम् । अपवदति ।

णिचश्च 74 ।

पूर्वविषये ण्यन्तादात्मनेपदम् । कटं कारयते । "कृतश्मश्रुरपि श्मश्रूणि कारयति" इति भाष्यं तु संविधानपक्षे, कर्तृगामित्वाविवक्षायां वा ।
अत्र कश्चिद्‌ इदं चुरादिण्यन्ते न प्रवर्त्तते लक्षेः स्वरितेत्त्वकरणात् ।
तदाह---
स्वरितेत्स्याद्ग्रहिः कर्त्रादौ लक्षिश्चैकश्चुरादिषु । इति---व्याचष्ट । णिजभावपक्षे स्वरितेत्त्वं सार्थकमिति नोक्तार्थज्ञापकमिति चन्द्रः । लक्षेः स्वरितेत्त्वं निर्मूलमिति मैत्रेयः । तदेतत्सर्वं हरदत्तेनोक्तम् । एष विधिर्न चुरादिणिजन्तात्स्यादिति कश्चन निश्चनुते स्म । आप्तवचोऽत्र न किञ्चन दृष्टम् । लक्षयतेः स्वरितेत्त्वमनार्षम् ।

समुदाङ्‌भ्यो यमोऽग्रन्थे 75 ।

सर्वं प्राग्वत् । नतु ग्रन्थविषये । आङ्‌पूर्वकस्य विधानं सकर्मकार्थम् । अकर्मकत्वे "आङो यमहनः" इत्येव सिद्धेः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति चिकित्सायां वैद्यः । अधिगमनपूर्वकमुद्यमनं धात्वर्थः । चिकित्सामधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव । संयच्छति,त उद्यच्छति, आयच्छति ।

अनुपसर्गाज्ज्ञः 76 ।

प्राग्वत् । "अकर्मकाच्च" इति सिद्धे सकर्मकार्थमारम्भः । गां जानीते । अनुपसर्गात्किम् । स्वर्गं न प्रजानाति । इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्येत्यत्र नृपेणेति विपरिणामात्कर्मणि लकारो बोध्यः ।

विभाषोपपदेन प्रतीयमाने 77 ।

उपपदमत्र समीपे श्रूयमाणं पदम् । तेन क्रियाफलस्य कर्तृगामित्वप्रतीतौ स्वरितेत्प्रभृतिभ्यो वाऽऽत्मनेपदम् । उपपदेन कर्तृगत्वे प्रतीते उक्तार्थानामप्रयोगादात्मनेपदस्याप्राप्तौ अप्राप्तविभाषेयम् । स्वं यज्ञं यजति यजते वा । एवमन्यत् ।

शेषात्कर्तरि परस्मैपदम् 78 ।

आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । कर्मकर्तर्यपि परस्मेपदं स्यात्, सति तु कर्तृग्रहणे उत्तरत्र शेषग्रहणस्य कर्तृग्रहणस्य चानुवृत्तौ सत्यां शेषे कर्तरि परस्मैपदविधानात्कर्मकर्तरि न भवतीति चेत् ।
अत्र भाष्यं "कर्तरि कर्मव्यतिहारे" इत्यत्र `कर्तरि' इत्यस्य प्रत्याख्यानात् तस्येहानुवृत्त्या कर्तैव यः कर्ता तत्र परस्मैपदं न तु कर्मकर्तरीति न दोष इति ।

अनुपराभ्यां कृञः 79 ।

यत्रार्थे आत्मनेपदमुक्तं तत्रापीदम् । अनुकरोति । पराकरोति ।

अभिप्रत्यतिभ्यः क्षिपः 80 ।

"क्षि प्रेरणे" स्वरितेद् । अभिक्षिपतीत्यादि । एभ्यः किम् । आक्षिपते । कर्तरीत्येव । अतिक्षिप्यते सूक्षम् । कर्मकर्तर्यपि एवम् ।

प्राद्वहः 81 ।

वह प्रापणे । स्वरितेत् । प्रवहति । प्रात्किम् । आवहते ।

परेर्मृषः 82 ।

मृष तितिक्षायाम् । स्वरितेत् । परिमृष्यति । परेः किम् । आमृष्यते । "परेः" इति योगविभागाद्वहेरपीदमिति केचित् ।

व्याङ्‌परिभ्यो रमः 83 ।

रमु क्रीडायाम् । अनुदात्तेत् । विरमतीत्यादि ।

उपाच्च 84 ।

यद्यप्युपपूर्वो रमिर्निवृत्तिविनाशार्थत्वादकर्मकः, तत्र च विभाषाया वक्ष्यमाणत्वात् सकर्मकार्थं कथमयमारम्भः, तथाऽप्यन्तर्भावितण्यर्थत्वात्सकर्मकत्वं बोध्यम् । यज्ञदत्तमुपरमिति । उपरमयतीत्यर्थः ।

विभाषाऽकर्मकात् 85 ।

उपरमति उपरमते वा । निवर्तते इत्यर्थः ।

बुधयुधनशजनेङ्‌प्रुद्रुस्रुभ्यो णेः 86 ।

एभ्यो ण्यन्तेभ्यः परस्मैपदम् । "णिचश्च" इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुः खम् । जनयति सुखम् । अचित्तवत्कर्तृकत्वाद् "अणावकर्मकाद्" इत्यनेन नेह सिद्धिः । अध्यापयति । प्रावयति, द्रावयति, स्रावयति । क्रमेण प्रावयत्यादीनां प्रापयति विलापयति स्यन्दयतीत्यर्थः । चलनार्थत्वाभावे इदं वचनम् । नच स्यन्दयतीत्यर्थे "निगरणचलनार्थेभ्यः" इति सिद्धम् द्रवत्वजनय्चलनस्य स्यन्दनपदार्थत्वादिति वाच्यम् । द्रवत्वजन्यतावच्छेदकचलनत्वव्याप्यजातिविशेषशक्ततयाऽस्य विशेषशब्दत्वेऽप्यपर्यायत्वादित्याहुः ।

निगरणचलनार्थेभ्यश्च 87 ।

भक्षणकम्पनार्थेभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । निगारयति आशयति भोजयति चलयति चोपयति कम्पयति । सकर्मकार्थोऽचित्तवत्कर्तृकार्थश्चारम्भः ।
"आदेः प्रतिषेधो वाच्यः" ।
आदयते देवदत्तेन ।
निजास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीमादयमानमिन्दुमिति श्रीहर्षः ।
गतिबुद्व्यादिसूत्रेण प्राप्ताया देवदत्तस्य कर्मसंज्ञाया "आदिखाद्योः प्रतिषेधः" इति वक्तव्यादभावः ।
कथं तर्हि---
इमा किमाचामयसे न चक्षुषी
चिरं चकोरस्य भवन्मुखस्पृशी ।
इति श्रीहर्षः ।
न पीयतां नाम चकोरजिह्वया
कथंचिदेतन्मुखचन्द्रिका सदा---इति पूर्वार्द्धानुसारेण पानार्थत्वोक्तावपि तस्य भक्षणविशेषतया सामान्यग्रहणेन ग्रहणस्य दुर्वारत्वात् । अन्यथाऽत्रैव सूत्रे चोपयतीत्यसङ्गतं स्यात् । चोपयतेर्मन्दगत्यर्थत्वात् । प्रत्यवसानार्थत्वं विना गतिबुद्ध्यादिसूत्रेण इमामित्यत्र कर्मत्वासङ्गतिप्रसङ्गाच्च ।
अत एव "न पादमि" इति सूत्रे पाग्रहणम् धेट उपसंख्यानं च सङ्गच्छते । अन्यथा पाधेटोरपि आचमिवत्पानार्थत्वेन निषेधवैयर्थ्यं स्यात् ।
अत्र दीक्षिताः---आचामयेति लोङन्तम् । `से' इति संबोधनं दमयन्त्याः । ई लक्ष्मीः तया सह वर्त्तमाने इति व्याख्यानात् ।
केचित्तु चकोरस्य चक्षुषी भवन्मुखस्पृशी वर्त्तेते । अत एव इमां किं नाचायमसे चक्षुर्भ्यामित्याहुः ।
यद्वा इः कामः तस्य मा लक्ष्मीः तस्या अङ्किमा दृश्यतां त्वयेति शेषः । चकारः पूर्वोक्तनिषेधसमुच्चयार्थः । एतद्वृत्तिशोभायां कामशोभासादृश्यादेतद्दर्शने तद्दर्शनमपि प्रसक्तम्, तच्चात्र त्वदनुरागाभावात्कामसादृश्यविषयदर्शनेच्छाविरहान्माऽस्तु, सामान्यतो रमणीयत्वेन दर्शनं तु क्रियतामिति भावः । आमयसे योजयसि बोधयसि वा । अमेर्बुध्यर्थत्वाद् "गतिबुद्धिः---" इति कर्मत्वमिति नैषधभावप्रदीपे विस्तरः ।

अणावकर्मकाच्चित्तवत्कर्तृकात् 88 ।

णेः पूर्वमकर्मकात् चित्तवत्‌कर्तृकाद् ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णः तं शाययति गोपी । अणाविति किम् । आरोहयमाणं प्रयुङ्क्ते आरोहयते इत्यत्र णावकर्मके मा भूत् । "णेरणौ" इति सूत्रे निवृत्तप्रेषणाध्यारोपितप्रेषणयोश्चरमकक्षायामकर्मकत्वव्यवस्थापनात् । अकर्मकात् किम् । कटं कुर्वाणं प्रयुङ्क्ते कारयते । चित्तवत्‌कर्तृकात्किम् । व्रीहीन्शोषयते ।
केचित्तु अणाविति णिमात्रस्य पर्युदासाच्चुरादिण्यन्ताद्धेतुमण्णौ अणावित्यस्य प्रत्युदाहरणमाहुः ।
अत्र भाष्यम्---बुधादिसूत्रादिह णेरित्यनुवर्त्तते, स च हेतुमण्णिजेव, बुधादिभ्यस्तस्यैव सम्भवात् । तेनायमर्थः---अहेतुमण्ण्यन्तो योऽकर्मकश्चित्तवत्कर्तृकश्च तस्माद्धेतुमण्ण्यन्तात्परस्मैपदं भवतीति । तेन चेतयमानं प्रयुङ्क्ते चेतयतीत्यादि सिद्ध्यतीति ।
एतेन "अणावकर्मकाद्" इति चुरादिणिचो ण्यन्तात्परस्मैपदवचनमिति वार्त्तिकं व्याख्यातम् । तस्मात्केषां चिन्मतम् एतदुभयविरुद्धम् ।
यत्तु रूपयन्तं प्रयोजयति रूपयते इति केषां चित्प्रत्युदाहरणं तत् प्रयोजयतीति विग्रहस्वारस्यात् चुरादिण्यन्ताद्धेतुमण्णिचि । सौकर्यविवक्षायां प्रयोज्यव्यापारमात्रवृत्तावकर्मकत्वाद्, द्वितीयो हेतुमण्णिजिति बोध्यम् ।
एतेन चेतयमानं प्रयुङ्क्ते चेतयते इत्यपि व्याख्यातम् ।

न पादम्याङ्‌यमाङ्‌यसपरिमुहरुचिनृतिवदवसः 89 ।

एभ्यो ण्यन्तेभ्यः परस्मैपदं न स्यात् । अत्र पिवतिर्निगरणार्थः, इतरे चित्तवत्कर्तृकाः । नृतिश्चलनार्थोऽपि । अतो "निगरणचलन---" इति "अणआवकर्मकाद्" इति च प्राप्तं परस्मैपदं निषिध्यते । पाययते । पा रक्षणे इत्यस्य न ग्रहणं लुग्विकरणत्वात् । तेनाणावकर्मकत्वविवक्षायां पालयतीत्येव । दमु उपशमे । दमयते । आङ्‌पूर्वो यम उपरमे । आयामयते । "यमोऽपरिवेषणे" इति मित्त्वनिषेधः । ङकारविशिष्टोपादानम् उपसर्गप्रतिपत्त्यर्थम् । तेनान्यान्वितादाकारात्परस्य न । आङ्‌पूर्वो यसुः प्रयत्ने । आयासयते । परिपूर्वो मुह् वैचित्ये । प्रत्येकमेष परिमोहयमाणबाणः । रोचयते । नर्तयते । सरस्वती वादयते विपञ्चीम् ।
चिरादनध्यायमवाङ्‌मुखी मुखे
ततः स्म सा वासयते दमस्वसा ।
"वस आच्छादने" इत्यस्य न ग्रहणं लुग्विकरणत्वात् । धेट उपसंख्यानम् । धापयेते शिशुमेकं समीची । प्रथमाद्विवचनेन "वा च्छन्दसि" इति पूर्वसवर्णदीर्घः । अयं च कर्तृगे फले प्राप्तस्यात्मनेपदस्यापवादतया विहितस्य परस्मैपदस्यैव निषेधः ।
यत्त्वकर्त्रभिप्राये "शेषाद्" इति परस्मैपदं तद्‌ भवत्येव । तेन वत्सान् पाययति पयः, दमयन्ती कमनीयतामदम् अवीवदद्वीणां परिवादकेन, भिक्षा वासयतीत्यादि सिद्धमिति ग्रन्थकृतः ।

वा क्यषः 90 ।

क्यषन्तात्परस्मैपदं वा । लोहितायति लोहितायते । पटपटायति पटपटायते । प्रकृत्यर्थनियमपक्षे एकवाक्यतया विधिरिति पक्षे च परस्मैपदस्यायं विकल्पः । भिन्नवाक्यतया नियमपक्षे तु पूर्वसूत्रे प्रतिषेधेनापवादमपनीयात्मनेपदस्याप्रवर्तनात् । तत्प्रतिषेधस्यैवात्रानुवृत्त्या तत्सामर्थ्यादात्मनेपदविकल्पः । आत्मनेपदप्रवृत्तिं विना तन्निषेधायोगाद्, आत्मनेपदस्य लक्षणयोपस्थितौ तस्यैव विकल्पसिद्धेः ।

द्युद्‌भ्यो लुङि 91 ।

द्युतादिभ्यः परस्मैपदं वा स्याल्लुङि । अद्युतत् अद्योतिष्ट । अलुठत् अलोठिष्ट । लुङि किम् । अन्यत्रानुदात्तेत्त्वान्नित्यं तङ्‌ यथा स्यात् । नन्वत्र वाग्रहणानुवृत्तिर्व्यर्था । अनुदात्तेत्त्वान्निषिद्धस्य परस्मैपदस्यानेन प्रतिप्रसवे कृते "लस्य" इत्युत्सर्गेणैव पाक्षिकस्यात्मनेपदस्य सिद्धेरिति चेद् ।
अत्रानुपराभ्यामिति सूत्रवार्त्तिकम्-
"न वा द्युतादिभ्यो वा वचनाद्" इति ।।
अस्यार्थः---अशेषत्वात्कृञः "स्वरितञितः" इति पूर्वेण नियमादप्राप्तस्य परस्मैपदस्य "अनुपराभ्याम्" इत्यनेन विधानेऽपि अनुपरापूर्वात्करोतेर्मौलेन विधिवाक्येनात्मनेपदमपिस्यात् । नियमांशकरणेन परस्मैपदस्य प्रतिप्रसवेऽपि आत्मनेपदस्य निषेधाभावाद् इत्याशङ्कायां समाधानं नवेति । "द्युद्‌भ्यो लुङि" इत्यत्रान्तरेणापि वावचनानुवृत्तिं परस्मैपदप्रतिप्रसवादुभयस्मिन्सिद्धे स्वरितत्वे नवावचनानुवृत्तिर्लिङ्गं परस्मैपदप्रतिप्रसवे आत्मनेपदाभावस्येति ।
यद्वा आत्मनेपदापवादः परस्मैपदं विधीयते नतु प्रतिप्रसवद्वारेण नियमः प्रतिपाद्यते । एवं च यथा कर्त्रभिप्राये क्रियाफले परस्मैपदं न भवति तथा परस्मैपदविधावात्मनेपदमपि, येननाप्राप्तिन्यायेन बाधकत्वादिति । अस्मिन्नपि पक्षे पाक्षिकात्मनेपदप्रवृत्यर्थमिह वाग्रहणानुवृत्तिरिति ध्येयम् ।

वृद्भ्यः स्यसनोः 92 ।

वृतुवृधुशृधुस्यन्दूभ्यः पदस्मैपदं वा लस्यात्स्ये सनि च । वर्त्स्यति अवर्त्स्यत् विवृत्सति । "न वृद्भ्यः श्चतुर्भ्यः" इति नेट् । पक्षे वर्त्तिष्यते इत्यादि । स्यसनोः किम् । वर्त्तते ।
स्यादेतत् । लुङि पूर्वेण विकल्पो न सिद्ध्येत् । द्युतादावेव वृतादीनां पाठात् । तक्रकौण्डिन्यन्यायेनास्याः प्राप्तेः पूर्वप्राप्तिबाधकत्वात् । अत एवोत्तरसूत्रे चकारः । लुटीति विशेषविधिनास्यसनोरिति प्राप्तेर्बाधो यथा न स्यात् । अन्यथा क्लृपेरपि वृतादित्वादनेनैव स्यसनोर्विकल्पसम्भवे चकारवैयर्थ्यादिति चेत् ।
मैवम् । द्युतादिपाठसामर्थ्याद् वृतादिभ्योऽपि लुङि विकल्पसिद्धेः ।
यद्वा लुङीत्यस्य स्वरितत्वादिहाप्यनुवृत्तिः ।

लुटि च क्लृपः 93 ।

लुटि स्यसनोश्च कृपेः परस्मैपदं वा । कल्प्तासि कल्प्स्यति । चिक्लृप्सति । "तासि च क्लृपः" इति नेट् । पक्षे कल्पितासे कल्प्तासे कल्पिष्यते कल्प्स्यते अकल्प्स्यत् अकल्पिष्यत अकल्प्स्यत । चिकल्पिषते चिक्लृप्सते । अत्र ऊदित्वात्पाक्षिक इडभावः न तु पूर्ववन्निषेधः । तत्र परस्मैपदानुवृत्तेः । "द्युद्भ्यो लुङि" इत्यत्र विभाषाया इव स्वरितत्वप्रतिज्ञानादिह स्यसनोरित्यस्य स्वरितत्वादेवानुवृत्तिः । एवं च तदर्थाश्चकाराः प्रत्याख्यायन्ते इति भाष्यम् ।

इति सिद्धान्तसुधानिधौ प्रथमाध्यायस्य तृतीयपादे द्वितीयमाह्निकं पादश्चायं समाप्तः । (1.3.2)


*******************-------------------