श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः ४/आह्निकम् २
← आह्निकम् १ | श्रीसिद्धान्तसुधानिधिः आह्निकम् २ [[लेखकः :|]] |
आह्निकम् ३ → |
यू स्त्र्याख्यौ नदी ।। 3 ।।
इवर्णौवर्णान्तौ नित्यस्त्रीलिङ्गौ नदींसंज्ञौ स्तः। दीर्घान्तयोरियं संज्ञा फलति, हस्वान्तयोर्घिसंज्ञया बाधाद् इति प्रागुक्तम्। तेन मते धेनो ``इत्यादौ अम्बार्थनद्योःइतिहस्वो न। यू इति न आबन्तव्यावृत्त्यर्थम्।
न च खट्वाबन्धुरित्यादौ ``नदीबन्धुनिइति पूर्वपदान्तोदात्तत्वम्, बहुखट्वक इत्यादौ नद्यृतश्चइति नित्यः कप्च प्रसज्येतेति वाच्यम्। ``ङेराम्नद्याम्नीभ्यः इत्यत्र पृथगाब्ग्रहणाज्ज्ञापकात्। तथा च खट्वाशब्दस्य तित्स्वरेणाद्युदात्तत्वात्पूर्वपदप्रकृतिस्वरेण खट्वाबन्धुरित्यादावाद्युदात्तसिद्धेः। तथऽपि मात्रे मातुरित्यादावाडगमः स्यात्। नचाख्याग्रहणेन तन्निरासः। जननीवाचिनो नित्यस्त्रीलिङ्गत्वात् परिच्छेत्तृवाचिनस्तदन्यत्वात्। नच ``नद्यृतश्चइति ऋकारस्य पृथगुपादानम् ऋदन्तानां नदीसंज्ञाविरहज्ञापकम्। बहुपितृक इत्याद्यर्थत्वात्।
``यू इति दीर्घयोरेव निर्देशःइति भाष्यम्। तत्र छान्दसत्वात्पूर्वसवर्णदीर्घः। नच ``ङिति हस्वश्चइत्यत्रान्वयानुपपत्तिः। ह्रस्वदीर्घयोरभेदान्वयानुपपत्त्या य्वोः सवर्णो यो हस्व इति व्याख्यानात् स्त्र्याख्यौ किम्। वातप्रम्ये।
ननु स्त्रियमाचक्षाते इति विग्रहे स्त्र्याख्यायाविति स्यात्। सुग्ल इत्यादौ सावकाशस्य ``आतश्चोपसर्गेइति कमत्ययस्य कर्मण्यणा वाधित्वात्।
अत्र भाष्यम्-`छान्दसमेतत्'।
अत एव-
यस्मिन्दशसहस्राणि पुत्रे जाते गवां ददौ।
ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति।। इतिप्रयोगः।
यद्वा स्त्रियामाख्यायेते विधीयते इति स्त्र्याख्यौ। घञर्थे कविधानम्। सप्तमीतिसमासः।
नन्वेवं तन्त्रीलक्ष्मीश्रीभूप्रभृतीनां नदीसंज्ञा न स्यात्। ङ्यूङोरिव तयोरीकारोकारयोः स्त्रियां विहितत्वाभावात्। एतेन आख्यानमाख्या ``आतश्चोपसर्गेइति अङ्। स्त्रियामाख्या ययोरिति बहुव्रीहिरपि परास्त इति चेत्।
सत्यम्। विच्प्रत्ययसम्भवात्। असरूपत्वादणा तदबाधात्। समुदायधर्मस्यावयव आरोपात् कृत्स्त्रिया अप्यत्र पक्षे संज्ञा। यद्वा मूलविभुजादित्वात्कप्रत्ययः। आख्याग्रहणं किमर्थमिति भाष्यम् विच्पक्षे यथाश्रुतमेव। कप्रत्ययपक्षे तु प्रवृत्तिनिमित्तनिर्देशः। यू स्त्रियामित्येव स्त्र्यर्थवृत्तित्वलाभात्। आख्याग्रहणसामर्थ्यादधि नियम आश्रीयते। स्त्रियमेव आचक्षाते न तु लिङ्गान्तरमपीत्यर्थः। तेन ग्रामण्ये सेनान्ये इत्यत्र नदीसंज्ञा न भवतिग्रामं सेनां च नयतीति क्रियाशब्दत्वाद् लिङ्गत्रयसाधारणतया स्त्रियामपि नदीसंज्ञाविरहः।
नन्वेवंइष्वशानेप्रभृतीनामुभयलिङ्गानां पट्वादीनां च गुणवचनानां सर्वलिङ्गानां स्त्रीविषयत्वाभावात् स्त्रियां वृत्तावपि ``ङिति ह्रस्वश्चइति नदीसंज्ञा न स्यात्। मैवम्। तत्राख्याग्रहणमपहाय स्त्रीशब्दमात्रस्यानुवर्त्तनात्।
अत्रेदं तत्त्वम्-लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वमिति कैयटः। शब्दान्तरसमभिहारं विनैव स्त्रियां वर्त्तमानत्वं तदिती हरदत्तः। नच सूत्राक्षरैरेतदर्थालाभः। आसमन्तात् चक्षाते इत्यतो लिङ्गान्तरानाभिधायकत्वस्येवास्यापि लाभात्। समन्ताद्भावस्य तन्मात्रपरतयेव नैरपेक्ष्यपरतयाऽपि नेतुं शक्यत्वात्।
यत्त्वाचारक्विबन्तात्कर्त्तरि क्विपि श्रिये ब्राह्मणोयत्यादावतिव्याप्तिः। नच महासंज्ञाकरणबलार्त्स्त्रावाचकस्येत्यर्थलाभः। तस्मादेव नित्यांशस्यापि लाभेन स्त्र्याख्यावित्यस्य वैयर्थ्यापत्तेः। ब्राह्मणार्थस्योक्तत्वेऽपि प्रकृत्यर्थस्याप्युक्तत्वेन स्त्रियां वर्त्तमानत्वानपायाच्च। नचेदं लिङ्गं विशेष्यनिष्ठं नेति वाच्यम्। पतद्बोधकपदस्य सूत्रेऽनुपादानादिति। तन्न। स्त्रियमाचक्षाते इति द्वितीयाया विसेष्यत्वार्थकनया सूत्रादेव तदर्थलाभात्। घटं जानातीत्यादौ विशेष्यत्वस्य द्वितीयार्थतायाः क्लृप्तत्वात् प्रकृत्यर्थोक्तिमात्रेणातिप्रसङ्गदाने प्रकृते लिङ्गान्तरानभिधायकत्वसद्भावात्कैयटमतेऽपि तस्य दुर्वारत्वाच्च।
नच हरदत्तमते ग्रामण्ये इत्यादावपि नदीसंज्ञापत्तिः। ग्रामणीखलपूकटप्रूशब्दानां मुख्यवृत्तेः पुंस्येव सत्त्वात्। शक्तत्वाद्भयरहित्वाच्च। कौशम्बीनिर्गमनादिकं च स्त्रीपुंससाधारणमिति नाव्याप्तिः।
किञ्च कैयटमते आध्यै ब्राह्मण्यै इति भाष्यविरोधः। आध्यानकर्तृत्वस्य लिङ्गत्रयसाधारण्याद्ग्रामणीशब्दादिवन्नदीत्वानुपपत्तेः।
ननु आसपन्ताद्धीर्यस्या इति बहुव्रीहौ उत्तरपदस्य नित्यस्त्रीत्वान्नदीत्वम्। ``प्रथमलिङ्गग्रहणं चइति वक्ष्यमाणत्वाद्। अतिलक्ष्म्यै ब्राह्मणायेतिवदिति चेन्न। यणो दुर्ल्लभत्वापत्तेः। ``गतिकारकपूर्वस्यैवेष्यते इत्यत्र गतिसाहचर्येण कारकपूर्वस्यापि नित्यसमासग्रहणम्। गतिसमासश्च प्रतिपदोक्त एव गृह्यते। तेन दुर्धियः निर्भियाः वृश्चिकभियेत्यादावनित्यसमासत्वाद् ``एरनेकाचःइति यण्नेति पुरुषोत्तमप्रभृतिभिर्व्याख्यानात्।
अत एव कृन्मेजन्तसूत्रे ``मानः समस्य दृढ्यःइति मन्त्रव्याख्यायां दुर्धिय इति कैयटः। अदूरविप्रकर्षेण चेदमर्थकथनम्। व्याख्येयमन्त्रे तु दुष्टं ध्यायतीति विग्रहे नित्यसमास एव। ततो यण्। ``दुरो नाशदाशदभध्येपूत्वमुत्तरपदादेश्च ष्टुत्त्वम्इति पृषोदरादिसूत्रस्तवार्त्तिकेन उत्वष्टुत्वे।
यत्तु तद्वार्त्तिकव्याख्यायां दुष्टं ध्यायतीति ``आतश्चोपसर्गे इति कप्रत्यय इति कैयटहरदत्तादयः। तच्चिन्त्यम्। अन्तःस्वरितानुरोधेनार्थानुरोधेन च ख्यत्यादिवत् कृतयणादेशानुकरणतयैव व्याख्येयत्वात्। सर्वस्य दुर्बुद्धेरंहतिरुपद्रवो नोऽस्मान्मा वधीदिति तृतीयचरणस्थेनान्वयः। अपवर्जनमंहतिरित्यमरादंहतिशब्दस्य दानरूढत्वे तु प्रद्वेप्रयुक्तमाभिचारिकाद्यङ्गभूतमेव तदिह ग्राह्यमिति दीक्षिताः।
वस्तुतस्तु प्रकृतमन्त्रेऽस्तु तथा, वार्त्तिके तु कप्रत्ययान्तस्यापि ध्यशब्दस्य ग्रहणं युक्तम्। तन्त्रादिनोभयपरत्वसम्भवात्। अत एव `येनासि कृत्ये प्रहिता दूढ्येनास्मज्जिघांसया'-इत्याथर्वणमन्त्रः सङ्गच्छत इति वृद्धानामभिप्रायः।
आध्यानमाधीरिति व्युत्पत्त्या गुणगुणिनोरभेदोपचाराद्भाष्यं समाधेयमिति तूपचारे मानाभावादुपेक्ष्यम्। तस्मात्कैयटमते आध्यै इति भाष्यविरोधः स्थितः।
अत्र वार्त्तिकम्-
``प्रथमलिङ्गग्रहणंच। प्रयोजनं क्विव्लुक्समासाःइति।
अयमर्थः-यः शब्दः प्रथमं स्त्रीत्वविशिष्टमर्थमाह पश्चात्तु प्रकारान्तरेण लिङ्गान्तरविशिष्टद्रव्यान्तरपरःष तस्य तदानीमस्त्र्यख्यत्वादप्राप्ता नदीसंज्ञाऽनेन विधीयते। कुमारीमिच्छति कुमारीयति, कुमारीवाचरति कुमारयति वा ततः किप्। अल्लोपयलोपौ। ``क्वौ लुप्तं न स्थानिवद्इति यमभावः। कुमारी ब्राह्मणः। ङ्यन्तत्वात्सुलोपः। कुमार्य्यै ब्राह्मणाय। ``आण्नद्याः' इत्याट्।
ननु कैयटमते क्यच्क्विपोः प्रकृतिभूतस्य ङीबन्तस्यापि नित्यस्त्रीत्वं नास्ति कुमारशब्दात् क्यजन्तात् क्वपि निष्पन्नेन कुमारीशब्देन त्रिलिङ्गेन समानाकारत्वादिति चेत्। न। अर्थभेदेन शब्दभेदाश्रयणात्।
अयं विशेषः-कुमार्यौ कुमार्यः। ``एरनेकाचःइति यण्। अमि शसि च कुमार्यं कुमार्यः। प्रध्यं प्रध्यं इतिवत्। नच `गतिकारकर्पूरस्यैव'इति निषेधः। `तदितरपूर्वस्यन'इत्यर्थात्। विशिष्टाभावस्य केवलेऽपि सत्त्वात् कुमार्यै इत्यादौ स्त्रीलिङ्गवत्। हे कुमारि ब्राह्मणेत्यादि। कुमारशब्दान्निर्वृत्तस्य तु कुमारीशब्दस्य कुमारीः। अङ्यन्तत्वान्न सुलोपः। अनदीत्वान्न संबुद्धिहस्वः, वातप्रमीवत्। पत्नीशब्दात्तु पत्नियौ पत्निय इत्यादावियङ्। कुमारमात्मन इच्छन्ती ब्राह्मणी कुमारीरित्यत्र कैयटमते पूंवद्रूपम्, हरदत्तमते तु लक्ष्मीवत्। अमिशसि च यणिति विशेषः। तदेवं क्विब्व्याख्यातः।
लुप्। खरकुट्यै ब्राह्मणाय। खरकुटीवेति इवार्थे कनो ``लुम्मनुष्येइति लुप्। यद्यप्यत्र ``लुपि युक्तवद्व्यक्तिवचनेइति स्त्रीत्वमप्यस्ति तथाऽपि स्वाश्रयस्य पुंस्त्वस्यानिवर्त्तनात्स्त्रीमात्रवृत्तित्वाभावादप्राप्ता स्वाश्रयस्य पुंस्त्वस्याननिवर्त्तनात्स्त्रीमात्रवृत्तित्वाभावादप्राप्ता नदीसंज्ञेति कैयटहरदत्तादयः।
दीक्षितास्तु-एवं `चञ्चाः पश्य'इत्यादौ शसो नत्वापत्तिः। तस्माल्लुबन्तैः खरकुटीचञादिशब्दैः स्त्रीत्वविशिष्ट एव लौकिकः पुमानभिधीयते इत्येव तत्त्वम्। एवं च लुपः प्रयोजनत्वेन गणनमपि चिन्त्यमित्याहुः।
वस्तुतो युक्तवद्भाववचनसामर्थ्यान्नत्वाभाव इति बोध्यम्। अतितन्त्र्यै ब्राह्मणाय। तन्त्रीमतिक्रान्त इति तत्पुरुषः। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी। ``ईयसो बहुव्रीहेर्नइति हस्वस्य ``ईयसश्चइति समासान्तस्य कपो निषेधः। एषां संबुद्धौ हस्वः, ङित्सु आडागमादिकं च नदीकार्यम् अवयवस्त्रीविषयत्वात्सिद्धम्। पूर्वमेवात्र स्त्र्याख्यत्वात्प्रवृत्ता नदीसंज्ञा पश्चादुपजायमानेऽपि बहिरङ्गे लिङ्गान्तरयोगे न निवर्त्तत इति अवयवस्त्रीत्वेनैवोपपत्तौ पूर्ववार्त्तिकमनारभ्यमित्यर्थः। वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात्कार्यसिद्धिः। तदन्तस्य नदीसंज्ञापक्षेतु ``अङ्गाधिकारे तस्य च तदुत्तरपदस्य चइतिवचनाद् अतितन्त्रबन्धुरित्यत्रापि पूर्वपदस्य नद्या विशेषणात् पूर्वपदान्तोदात्तत्वम्। क्विब्लुकोरपि एवं व्याख्येयम्।
अत्राक्षेपवार्त्तिकम्-
``इयङुवङ्स्तानप्रतिषेधेयण्स्थानप्रतिषेधप्रसंगोऽक्यवस्येयङुवङ्स्थानत्वाद्इति।
अवयवस्य स्त्रीविषयत्वात्समुदायस्य नदीसंज्ञावद् अवयवस्येयङुवङ्स्थानत्वात्समुदायस्य यण्स्तानस्यापि उत्तरसूत्रेण नदीसञ्ज्ञाप्रतिषेधः स्यात्। आध्यै ब्राह्मण्यै इति। इह ह्यवयवे इयङ् धिये इति, समुदाये तु लु ``एरनेकाचः इति यण।
अत्र सिद्धान्तमाह वार्त्तिककारः-सिद्धं त्वङ्गरूपग्रहणा द्यस्याङ्गस्येयुवौ तत्प्रतिषेधादिति।
अस्यार्थः-``अचि श्नुधातुभ्रुवाम्इत्यत्र इयङुवङ्भ्यामङ्गमाक्षिप्यते अङ्गाधिकारीयत्वात्। तेन यस्याङ्गस्येयङुवङौ निर्वर्त्येते तस्य नदीसंज्ञानिषेधः। आध्यै इत्यत्र चावयवस्याङ्गसंज्ञा नास्ति, समुदायस्य त्वियङुवङ्स्थानत्वं नास्ति यणा बाधादिति न दोषः। एतदर्थमेव तत्र स्तानग्रहणम् इयङुवङोर्यदास्थितिस्तदा प्रतिषेधो यथा स्यात्। यदा त्वपवादेन बाधस्तदा मा भूदिति।
``ह्रस्वेयुवस्तानप्रवृत्तौ च स्त्रीवचने इति वाक्यान्तरम्। ``अवयवग्रहणात्सिद्धम् इत्यस्यायमपवादः। हस्वेयङुवङ्स्थानानां प्रवृत्तिरर्थान्तरसंक्रान्तिः, तस्यां सत्यां स्त्रीवचन एव संज्ञा न लिङ्गान्तरवचने।। चशब्दादप्रवृत्तौ चेत्यर्थः. शकट्यै अतिशकटये ब्राह्मणाय, श्रियै अतिश्रिये ब्राह्मणाय। इह तु स्यादेव अतिश्रिये अतिश्रियै वा ब्राह्मण्यै इति भाष्यम्। नचेह स्त्रीत्वं नास्तीति वाच्यम्। हरदत्तमते सत्त्वात्। कैयटमतेऽपि ``ङितिहस्वश्चइत्यत्र आख्याऽननुवृत्तेरुक्तत्वात्। एवं च सुधीस्वयम्भ्वतिलक्ष्म्यतिचमूशब्देषु रूपद्वयं बोध्यम्। निष्कौशाम्बिः पुमानित्यत्र तु नदीसंज्ञायामपि न विशेषः। हस्वादेशेन नद्या अपहाराद् न सम्बुद्धिहस्वः, वर्णस्य नदीत्वात्। स्त्र्याख्यत्वं तु शक्त्याश्रयतामात्रात्, पर्याप्त्यधिकरणत्वस्याविवक्षणात्। तदन्तस्य नदीसंज्ञापक्षेऽपि `सर्वेसर्वपदादेशाः' इति न्यायेन सर्वादेशत्वात्। नच स्थानिवद्भावः, विशेषणतयाऽप्यलाश्रयणे निषेधस्योक्तत्वात्। ``ङिति हस्वश्च इति विकल्पस्तु भवत्येवेति कौस्तुभः।
नेयङुवङ्स्थानावस्त्री ।। 4 ।।
इयङुवङोः स्थितिर्यत्र तावीदृतौनदीसंज्ञौ न स्तः स्त्रीशब्दं विना। स्थानं निरपवादा प्रसक्तिः। हे श्रीः, हे भ्रूः। अस्त्रीति किम्। हे स्त्रि। नदीत्वात् सम्बुद्धिहस्वः। अथ कथं विमानना सुभ्रु कुतः पितुर्गृहे इति कालिदासः, हा पितः कासि हे सुभ्रु बह्वेवं विललाप स इति भट्टिः। मुकुलयति च नेत्रे सर्वथा सुभ्रु खेद इति भवभूतिः। प्रसूननाराचशरासनेन सहैकवंशप्रभवभ्रु बभ्रु इति श्रीहर्षश्च।
अत्राहुः प्रमाद एवेति हरदत्तादयः।
दुर्घटवृत्तिकारस्तु भ्रूशब्दाद् ``अप्राणिजातेःइत्यूङि समासे उपसर्जनह्स्वेन ``ऊङुतःइत्यूङि तस्य समुदायभक्तत्वान्नोवङ्स्थानत्वमित्याह।
दीक्षितास्तु नेदं युक्तम्-प्रत्ययस्य भक्ततायां प्रमाणाभावात्। एकादेशस्यान्तवद्भावेन भ्रुशब्दावयवताया अप्यनपायात्। अङ्गाधिकारे तदुत्तरपदग्रहणस्य निर्विवादतया समुदायभक्तेऽप्युङ्प्रवृत्तेश्च सुभ्रुवावित्यादीनां सर्वसम्मतत्वादित्याहुः।
सामान्ये नपुंसकमिति केचित्।
यथासंभवं क्रियाविशेषणत्वमित्यन्ये।
वाऽऽमि ।। 5 ।।
पूर्वोक्तवामि नदीसंज्ञौ वा स्तः। श्रीणां श्रियां भ्रूणां भ्रुवाम्। अस्त्रीत्येव। स्त्रीणाम्। द्वितीयैकवचनस्य तु नेह ग्रहः। विशेषाभावात्।
ङिति ह्रस्वश्च।। 6 ।।
इयङुवङ्स्थानौ हस्वौ च यू नदीसञ्ज्ञौ वा स्त्रियां ङिति परे। श्रियै श्रिये भ्रुवै भ्रुवे कृत्यै कृतये धेन्वै धेनवे। नदीसंज्ञापक्षे ``आण्नद्याःइत्याट् ``आटश्चइति वृद्धिः। अस्त्रीत्येव। स्त्रियै। स्त्रीलिङ्गाविति किम्। अग्नये वायवे। इह प्रथमलिङ्गग्रहणाभावान्निष्कौशाम्बिर्हरिवदित्युक्तम्। अतिस्त्रिरित्यत्र तु विशेषः। अतिस्त्रियावित्यादौ ``स्त्रियाःइति इयङ् स च गौणत्वेऽपि।
किं तु-
गुणनाभावौत्वनुट्भिः परत्वात्पुंसि बाध्यते।
क्लिबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम्।।
``जसि चइति गुणः। अतिस्त्रयः। ``वाम्शसोः अतिस्त्रिम् अतिस्त्रियम्, अतिस्त्रियः, अतिस्त्रीः। औट्शसोः रियङ्। ``आङो नाऽस्त्रियाम् अतिस्त्रिणा। ``घेर्ङिति। अतिस्त्रये इत्यादि। ओसि अतिस्त्रियोः। हस्वेति नुट्। अतिस्त्रीणाम्। ``अतिस्त्रौ।
औकार ओसि नित्यं स्यादम्शसोस्तु विभाषया।
इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने।।इति कौस्तुभः।
क्लीबे नुम्। अतिस्त्रिणी इत्यादि वारिवत्। स्त्रियां तु ``ङिति हस्वश्चइति सञ्ज्ञाविकल्पः। नचास्त्रीति निषेधः। इयङुवङ्स्थानयोरेव तेन विशेषणात्। पूर्वसूत्रे तत्संबद्धत्वात्। नचाष्टत्त्योभगविशेषणत्वम्, मानाभावात्। तेनातिस्त्रियै अतिस्त्रये। औत्वं बाधित्वा परत्वादिदुद्भ्यामिति ङेराम्। अतिस्त्रियाम्। पक्षे अतिस्त्रौ इति।
अत्र `वाऽचि हस्वश्च'इत्येव सूत्रणीयम्। नतु ``वामिङिति हस्वश्चइति सूत्रद्वयम्। गौरवात् तस्मात्सूत्रद्वयै सन्निपातपरिभाषाज्ञापनार्थम्। अजादित्वस्य नदीसंज्ञाप्रयोजकत्वे हि नदीसंज्ञां निमित्तीकृत्य नुट् न स्यात्। भ्रूणामिति आमोऽजादित्वव्याघातपत्तेरिति कौस्तुभः।
शेषो घ्यसखि।। 7 ।।
हस्वौ यौ इउवर्णौ तदन्तं सखिभिन्नम् अनदीसंज्ञं घिसंज्ञं स्यात्। हरये भानवे। हस्वौ किम्। ग्रामण्ये खलप्ये। यूकिम्। मात्रे। असखीति किम्। सख्ये। अनदीसंज्ञं किम्। मत्यै। सुसखेरित्यादौ भवत्येव समुदायस्य सखिशब्दभिन्नत्वात्। नच तदन्तविधिः। विशेष्यसम्बन्धाभावात्।
नन्वेवं सखीत्यत्र ङीषन्ते ``यस्येति चइति इकारलोपव्याख्यानवैयर्थ्यम्। सवर्णदीर्घेऽपि दोषाबावात्। नचातिसखेरागच्छतीत्यत्र सर्वणदीर्घस्य पूर्वं प्रत्यन्तवद्भावाद् घिसंज्ञानिषेधः स्यादिति वृत्त्युक्तप्रयोजनसम्भवः। सत्यप्यन्तवद्भावे समस्तस्य सखिशब्दादन्यत्वानपायेन निषेधतादवस्थ्यादिति। मैवम्। सखी सख्यौ सख्य इत्यादौ अनङ्णित्वयोर्वारणाय लोपस्यावश्यकत्वात्। नच लिह्गविशिष्टपरिभाषया दोषतादवस्थ्यम्। विभक्तौ लिङ्गविशिष्टाग्रहणात्।
पतिः समास एव ।। 8 ।।
पतिशब्दः समास एव घिसंज्ञः। भूपतये। नेह पत्या पत्ये। समासे पतिशब्दस्यैव घिसंज्ञेति विपरीतनियमं वारयितुमेवकारः। तेन दृढमुष्टिनेत्यादि सिद्धम्।
इह पतिगृहे इत्यत्र घिसंज्ञत्वात् पूर्वनिपातनियमार्थं पृथक् सूत्रम्, अन्यथा ``शेषो ध्यसखिपति इत्यसूत्रयिष्यत्। बहुच्पूर्वस्य तु घिंसज्ञा सुसखिवत्। साखिना वानरेन्द्रेण, क्लीबे च पतिते पतौ, सीतायाः पतये नमः, कृष्णस्य सखिरर्जुनः इत्यादिकं तु छान्दसम्।
आख्यानण्यन्तात्कर्मणि ``अच इः। लाक्षणिकत्वात् पर्युदासे ग्रहणं नेत्यन्ये।
वचो वाचस्पतेरपीत्यादौ ``तत्पुरुषे कृतिइति बहुलग्रहणादलुक्। एतेन दिवस्पतेरादरदर्शिना रसादिति नैषधं व्याख्यातम्। एवं च वास्तोष्पतिरपि। ``षष्ठ्याःपति-इत्यादिना सत्त्वम्। श्रियः पतिरित्याद्यनुरोधात्तत्र छन्दसीत्यनुवर्त्तते। पारस्करादित्वात्सुट् इति केचित्। ``द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छचइति सामान्यापेक्षज्ञापकादलुक्। कस्कादित्वात्सत्त्वम्। इणः परस्य तु षत्वमित्यन्ये।
`वाचस्पतिं विश्वकर्माणमूतये', `वास्तोष्पते प्रति'इत्यादौ पृथक्पदपाठो वैदिकानाम्।।
षष्ठीयुक्तश्छन्दसि वा ।। 9 ।।
पतिशब्दो घिसंज्ञः। क्षेत्रस्य पतिना वयम्।
इह ``चइति योगविभागः। छन्दसीत्यनुवर्त्तते। तेन सर्वे विधयश्छन्दसि विकल्प्यन्त इत्यर्थः। ``बहुलं छन्दसि इत्यादिकं प्रपञ्चार्थम्।
ह्रस्वं लघु शश ।। 10 ।।
चेति। चिती संज्ञाने। लघूपधगुणः। नच ह्रस्वप्रदेशेष्वपि लघुसंज्ञया व्यवहारः। सर्पिष्ट्वमित्यादौ ``ह्रस्वात्तादौ तद्धितेइति षत्वाभावापत्तेः। गुरुसंज्ञया लघुसंज्ञाया बाधात्। तस्मादेकसंज्ञाऽधिकारात् पूर्वमेव ह्रस्वसंज्ञारम्भः।
यत्तु भाष्ये तत्र ह्रस्वसंज्ञाया दीर्घप्लुतसंज्ञाभ्यां समावेशमाशङ्व्य एकसंज्ञाऽधिकारेऽयं योगः करिष्यत इत्युक्तम्, तत्र चकारादिना ह्रस्वसंज्ञायागुरुलघुसमावेशः करिष्यते इत्यभिप्रायः। यद्वा अत एव तत्र पक्षान्तरोपन्यास इति बोध्यम्।।
संयोगे गुरु ।। 11 ।।
हस्वं गुरुसंज्ञं संयोगे परे। शिक्षा भिक्षा। ``गुरोस्च हलः इत्यप्रत्ययः।
दीर्घं च ।। 12 ।।
गुरुसंज्ञं स्यात्। ईहांचक्रे। ``इजादेश्च गुरुमतःइत्याम्।।
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।। 13 ।।
यस्मात्प्रत्ययो विहितस्तदादिः शब्दः प्रत्यये परेऽङ्गसंज्ञः स्यात्। रामेण। प्रत्ययेति किम्। स्त्री इयती। इदंशब्दाद्वतुपो वस्य घादेशः, प्रकृतेरीश्भावः, ``यस्येति चइति तल्लोपः। स्त्रीशब्दात्सुशब्दस्य तल्लोपस्य च विधिरस्तीति अङ्गसंज्ञा स्याद्भसंज्ञा चेति संज्ञाद्वयनिमित्तो ``यस्यइति लोपः स्यात्। नच इदमादेशलोपस्याभीयत्वादसिद्धत्वमिति प्रत्ययपरत्वभावः। प्राग्भादसिद्धत्वमिति कैश्चिदभ्युपगमात्। नापि स्थानिवद्भावः। पदान्तरनिरपेक्षपदसंस्कारपक्षे स्त्रीशब्दस्थैकारस्यानादिष्टादचः पूर्वत्वाभावात्। विधिशब्दस्यापि तदेव प्रयोजनम्। तस्मिन्नसति परशब्दस्याप्य्याहारप्रसङ्गात्।
यत्तु भाष्ये दधि अधुनेति प्रत्युदाहृतम्, तत्तु अधुनेति प्रत्ययो निपात्यते इदमश्च लोप इति पक्षे, इदमोऽशभावो धुना च प्रत्यय इति पक्षे तदसम्भवादिति कैयटः। नच विधिग्रहणेऽपि स्त्रीशब्दात्सुप्रत्ययविधानाद्दोषतादवस्थ्यम्। प्रत्यासत्त्या यस्माद्यः प्रत्ययोविहतस्तस्मिन्नेव प्रत्यये परे तद् अङ्गसञ्ज्ञमित्याश्रयणात्। तेन स्त्री अं पश्यतीत्यत्र नेयङ्। अशब्दाद् ``अमि पूर्वःइत्येकादेशस्य परादिवद्भावेन प्रत्ययत्वेऽपि अमः स्त्रीशब्दादविहितत्वात्। एवम् अततेईप्रत्यये टिलोपे च अशब्दस्य स्वतः प्रत्ययत्वेऽपि न दोषः डप्रत्ययस्याततेरेव विहितत्वेन स्त्रीशब्दप्रकृतिकत्वाभावात्। प्रत्ययापेक्षया यावान्पूर्वो भागस्तावतोऽङ्गसंज्ञा न तु प्रत्ययोत्पत्तिवेलायां यावतः प्रकतित्वं तन्मात्रस्येत्यर्थः। तेन वदामि वदिष्यामीत्यादौ विकारणान्तस्याङ्गसंज्ञायाम् ``अतोदीर्घो यञिइति दीर्घः। नचारम्भसामर्थ्यम्, पयवय गतौ। यङ्लुकि ``लोपो व्योःइति यलोपे च पापामि पापाव इत्यादौ चरितार्थत्वात्। कुण्डानि। यदा नुम् परादिस्तदा ``सुपि चइति दीर्घः। दधीनीत्यादौ त्वकारान्तत्वाभावान्न। पूर्वान्तपक्षे सामानीत्यादिवत्सिध्यति। यदा त्वभक्तत्वपक्षस्तदेदं प्रयोजनमादिग्रहणस्य। पूर्वान्तपक्षस्यैव स्थापितत्वादप्रयोजनमेतत्। प्रत्यये किम्। प्रत्ययविशि,्टस्य ततोऽप्यधिकस्य वा मा भूत्। तथा सति च वव्रश्चेत्युरदत्त्वस्य परनिमित्तत्वं न लभ्येत। तथा च स्थानिवद्भावाप्रवृत्त्या वकारस्य संप्रसारणं स्यात्। अल्विधित्वेन ``स्थानिवदादेशःइत्यस्य प्रवृत्तेर्दुर्वचत्वात्।
यत्तु ``प्रकृत्यादि प्रत्योऽङ्गम्इत्येव लाघवाद्वक्तुं युक्तम्। प्रकृतिमात्रस्य तु कर्त्ता कारक इत्यादौ व्यपदेशिवद्भावात् सिद्धमिति। तच्चिन्त्यम्। अङ्गातिरिक्तप्रकृतेर्दुर्वचत्वादात्माश्रयापत्तेः। नहि प्रत्ययाव्यवहितपूर्ववर्त्तित्वं प्रकृतित्वतम्। स्त्री इयतीत्यादावतिव्याप्तेः। बहुगुड इत्यादावव्याप्तेश्च। स्फुटं चेदं भूषणे इत्यास्तां विस्तरः।
इह`यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'इति योगाविभागः। परिभाषेयम्। प्रत्यये गृह्यमामपदाध्याहारात्सूत्राणां सोपस्कारत्वात्। तेन ``ञ्नित्यादिर्नित्यम्इत्यादौ यत्र प्रत्ययः सप्तम्या निर्दिश्यते तत्र तदादेर्ग्रहणात् `देवदत्तो गार्ग्यः'इत्यादौ सङ्घातस्याद्युदात्तत्वं न भवति किंतु गार्ग्यशब्दस्यैव। ``सुप आत्मनःक्यज्इत्यत्राप्यनेन तदादिनियमः। सुपा कर्मणस्तदादेर्वा विशेषणात्तदन्तविधिः। तेन महान्तं पुत्रमिच्छतीत्यादौ समुदायान्न क्यच्। समुदायस्यासुबन्तत्वात्। अवयवस्य सापेक्षत्वाद् असामर्थ्यात्। देवदत्तश्चिकीर्षतीत्यत्र सङ्घातस्य न धातुसंज्ञा। देवदत्तो गार्ग्य इति संघातस्य न प्रातिपदिकसंज्ञा। देवदत्तो गार्ग्यायण इति संघातस्य तद्धितोत्पत्तिः। अन्यथा वृद्धिस्वरौ संघातस्य स्याताम्, पूर्वस्य च सुपो लुक् स्यात्। तस्मात् प्रत्ययग्रहणे यस्मात्सविहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषा वाचनिकीति सिद्धम्। यत्र पूर्वः कार्यित्वेनाश्रीयते तत्र तदादेः कार्यं भवति। यत्र तु प्रत्ययान्तः संघात आश्रीयते तत्र तदादेः प्रत्ययान्तस्य ग्रहणमित्यर्थः।
केचित्तु उक्तयोगविभागलभ्यत्वे एतत्परिभाषायां तदन्तस्येत्यंशस्य निर्मूलत्वप्रसङ्गः। तदन्तशब्दस्यात्रानुपादानाद् इत्याहुः।
तन्न। एकदेशानुमतिद्वारा पूर्वाचार्येक्तस्यांशान्तरस्यापि सङ्ग्रहसिद्धेः। ज्ञापकस्थल एव तथात्वमित्यत्र बीजाभावात्। इष्टसिधर्यर्थताया ज्ञापकवद्योगविभागेऽपि तुल्यत्वात्।
नन्वेवम् अवतप्तेनकुलस्थितं त एतत्, उदकेविशीर्णं त एतत् इत्यादौ च गतिकारकाधिकेन समासो न स्यादिति चेद् न। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषया तत्सिद्धेः।
प्रयोजनंसमासतद्धितविधिस्वराः।
सांकूटिनम्, व्यावक्रोशी, इत्यादौ``अणिनुणःइति सोपसर्गादण्। यदि तु कूटिन्नित्यस्मादण् स्यात्तदा तस्यैवादिवृद्धिः स्यात्। दूरादागतः। आगम्यते स्मेति कर्मणि क्तः। गतिस्वरेणाद्युदात्त आगतशब्दः। ततो दूरशब्दस्य ``स्तोकान्तिक-इति समासः। ``पञ्चम्याः स्तोकादिभ्यःइत्यलुक्। इह थाथादिस्वरेणान्तोदात्तत्वम्। नच समासस्वरेम सिद्धिः। ``गतिरनन्तरःकर्मार्थकक्तान्ते परे अव्यवहितगतिः प्रकृत्येति आद्युदात्तस्य तदपवादत्वात्। तंथाच दूरादागतशब्दो मध्योदात्तः स्यात्। सत्यां तु परिभाषायां ``गतिकाकोपपदात्कृद्इति कृत्स्वरापवादं कृत्स्वरं बाधित्वा ``थाथघञ्क्ताजवित्रकाणाम्इति कृत्स्वरापवादं कृत्स्वरं बाणेन गतिकारकपूर्वस्यापि ग्रहणात्। नच थाथादिस्वरस्यापि गतिस्वरोऽपवाद इति वाच्यम्। गतेरुत्तरस्य क्तान्तस्य यदन्तोदात्तत्त्वं तस्यैव सोऽपवादः। कारकादुत्तरस्य थाथादिस्वर एव भवतीति सिद्धान्तात्।
नन्वागतशब्दस्याद्युदात्तत्वेऽपि दूरशब्देन समासे सतिशिष्टत्वात्समासान्तोदात्त एव भविष्यतीति चेत्।
अत्र कैयटादयः-अन्यार्थं कृतया परिभाषया कृदुत्तरपदप्रकृतिस्वरेणाद्युदात्ते आगतशब्दे प्राप्ते सगतेरपि क्तान्तत्वात्स्थानान्तरप्राप्तत्वाद्गतिस्वरस्य बाधकस्यापि बाधेन थाथादिस्वरो भवतीत्येवाभिप्रेतम्, नतु स्वर एवानन्यथासिद्धम् उदाहरणमिति। अस्यां च ``गतिरनन्तरःइत्यनन्तरग्रहणं ज्ञापकम्। तद्धि अभ्युद्धृतमित्यत्र अभिशब्दस्य प्रकृतिस्वरो मा भूदित्येतदर्थम्। यदीयं न स्यात्तदा उद्धृतशब्दस्य क्तान्तत्वाभावात् क्तान्ते उत्तरपदेऽनन्तरे परे गतेः स्वरो विधीयमानो नैव प्राप्नोतीति तद् व्यर्थं स्यात्।
सुप्तिङन्तं पदम् ।। 14 ।।
सुबन्तं तिङन्तं च पदसंज्ञं स्यात्। ब्राह्मणाः। ऊचुः। यद्यपि प्रत्ययग्रहणे तदन्तग्रहणात्सिद्धन्तथाऽपि `सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति'इति ज्ञापनार्थमन्तग्रहणम्। तेन कुमारी चासौ गौरितरा चेति विग्रहे कुमारगौरितरेति सिद्धम्। तरबन्तस्य घसंज्ञायां कुमारीशब्दस्य पुंवद्भावं परत्वाद्बाधित्वा``घरूप-इति ह्रस्व एव स्यात्। गौरीशब्दस्य च तरपि परे ह्रस्वो न स्यात्।
नन्वेवं ``सनाद्यन्ताःइत्यत्रान्तग्रहणं कार्यमिति गौरवम्, अन्यथा सनादेरेव धातुसंज्ञायां तदादेरेवाङ्गत्वात्ततः पूर्वमट्स्यात्, ``कसंज्ञा स्यात्। ततश्च भिद् छिद् इत्यादौ न स्यात्। नाप्यर्थवत्सूत्रेण सिद्धिः। अधातुरिति निषेधात्। नापि प्रत्ययलक्षणेन। प्रत्ययनिमित्तमन्यस्य यत्किञ्चित्कार्यं विधीयते तत्रैव तत्प्रवृत्तेः। प्रत्ययस्यैव यत् कार्यं तस्य तेन दुर्लभत्वात्। असतो वचनशतेनापि कार्यित्वानुपपत्तेः। एवम् औपगव इत्यत्र केवलस्य तद्धितस्य प्रातिपदिकसंज्ञायां षष्ठ्याः प्रातिपदिकानन्तर्गतत्वाल्लुक् न स्यादिति चेत्।
अत्र भाष्यं ``सनाद्यन्ताःइत्यत्र कृतमेवान्तग्रहणम्,``कृत्तद्धित-इत्यत्र त्वर्थवद्ग्रहणमनुवर्त्तते कृत्तद्धितान्तं चार्थवद् न केवलाः कृतस्तद्धिता वा इति।
स्यादेतत्। यद्यर्थवत्ता पारमार्थिकी सा कृत्तद्धितान्तस्यापि नास्ति। पदस्य वाक्यस्य वा तथात्वात्। अथ प्रक्रियादशायाम् अन्वयव्यतिरेकाभ्यां कल्पिताऽर्थवत्ता तदा कृत्तद्धितयोरप्यस्तीति चेत्।
अत्राहुः-अर्थवद्ग्रहणानुवृत्तिसामर्थ्याद् लौकिकार्थप्रत्यासन्नोऽभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते स आश्रीयत इति। प्रकृतिप्रत्यययोर्मिलित्वा यदर्थबोधकत्वं स इति यावत्।
नः क्ये ।। 15 ।।
क्यङि क्यचि च नान्तमेव पदसंज्ञम्। नियमार्थमिदम्। सुबन्तात्तदुत्पत्तेर्वक्ष्यमाणत्वात्। राजेवाचरति राजायते। ``नलोपः प्रातिपदिकान्तस्यइति नलोपः। क्यषन्तं तु भाष्यमते नोदाहरणम्। ``नायं नकारान्ताद्विधीयतेइति भाष्योक्तेः। लोहितादिडाज्भ्य एव तद्विधानाच्च। नान्तमेवेति किम्। वाच्यति। स्रुच्यति। पदत्वाभान्न कुत्वादि। न च विपरीतनियमापत्तिः। ``नङि सम्बुद्ध्योःइति ``नलोपः प्रातिपदिकान्तस्यइति च ज्ञापकात्। अन्यथा `नलोपः क्ये'इत्येवावक्ष्यत्।
सिति च ।। 16 ।।
सिति प्रत्यये परे पूर्वं पदसंज्ञम्। भंसज्ञाऽपवादः। ``भवतष्ठक्छसौ। भवदीयम्। पदत्वाज्जश्त्वम्। ऋतुः प्राप्तोऽस्य ऋत्वियः। ``ओर्गुणःइति गुणाभावः।
स्वादिष्वसर्वनामस्थाने ।। 17 ।।
कप्रत्ययावधिषु सर्वनामास्थानभिन्नेषु स्वादिषु परेषु पूर्वं पदसंज्ञम्। राजभ्याम्। सर्वनामस्थाने तु राजानौ इत्यादि।
नन्वेवं राजा इत्यत्र नलोपो न स्यात्। प्रत्ययलक्षणेन सर्वनामस्थानपरत्वाद् उक्तनिषेधेन पदसंज्ञाया दुर्लभत्वाद् इति चेत् न। असर्वनामस्थाने इत्यस्य पर्युदासत्वात्। ``सुप्तिङन्तम्इति प्राप्तपदसंज्ञाया बाधाभावात्। अस्तु वा प्रसज्यप्रतिषेधः। एतत्सूत्रप्राप्तेरेव प्रतिषेधान्न दोषः। अनन्तरस्येति न्यायात्। न च परत्वादनया सुप्तिङन्तमित्यस्य बाधः। अस्याः प्रतिषिद्धत्वात्। तदुक्तम्-``नोत्सहते प्रतिषिद्धा सती बाधितुम्इति। ``स्वादिषुइति हि प्राप्तिः किं पूर्वस्याः प्राप्तेर्बाधिकाऽस्त्वथ निषेधस्य बाध्या। तत्र प्राप्तबाधस्यानुचितत्वाद् अप्राप्त्यनुमानस्य बाधत्वाद् अपवादविषयपरिहारेणोत्सर्गस्य प्रवर्त्तनात् ``स्वादिषुइत्यस्य सर्वनामस्थानांशे प्रवृत्त्यभावात् तस्याः ``सुप्तिङन्तम्इत्येतद्बाधकत्वानुपपत्तेः। अत एव वृक्षा इत्यत्र ``नादिचिइति प्रतिषेधविषये पूर्वसवर्णदीर्घस्य प्रवृत्त्यभावे ``वृद्धिरेचिइत्यस्य प्रवृत्तिः।
यद्वा ``स्वादिषुइति योगो विभज्यते-स्वादिषु पूर्वं पदसंज्ञं भवति। सर्वनामस्थानेऽयचीत्यन्यो योगः। `असर्वनामस्थाने' इत्यत्र श्रुतो नञ् यचीत्यनेन सम्बध्यते। यकारादि सर्वनामस्थानं नास्तीति यकारग्रहणं उत्तरार्थम्। तथाचाऽजादौ सर्वनामस्थाने पदसंज्ञानिषेधो न तु हलादौ इति राजेत्यत्र पदसंज्ञासिद्धिः। ततो भसंज्ञायां नञः सर्वनामस्थानेनैव सम्बन्धः। असर्वनामस्थाने यकारादावजादौ च पूर्वं भसंज्ञमित्यर्थः।
ननु सावपि पदव्याख्याने `भद्रं करोषि गौः'इत्यत्र ``पूर्वस्यार्द्धस्यादुत्तरस्यतेदुतौइत्यस्य प्रसङ्गः। तत्र पदान्तग्रहणेनापि दुर्वारत्वात्। मैवम्। वाक्यपदयोरन्त्यो य एच् तस्य तद्विधानाद्, अत्र तु वाक्यस्य विसर्जनीयोऽन्यत्यो न त्वौकारः। ``भुवद्वद्भ्यो धारयद्वद्भ्य इत्यनयोरुवपसंख्यानम्। ``तसौ मत्वर्थेइति भसंज्ञाप्राप्तौ पदसञ्ज्ञाविधानम्। शतृप्रत्यये व्यत्ययेन भवतेः शपो लुक् उवङ् ततो मतुप्।
यचि भम् ।। 17 ।।
यकारोऽज्वा इत्येतदन्यतरादिषु स्वादिष्वसर्वनामस्थानेषु कप्रत्ययावधिषु परतः पूर्वं भसंज्ञम्। पदसंज्ञापवादः। गार्ग्यः। ``यस्यइति लोपः। राज्ञः। ``अल्लोपोऽनः।
भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः।
अनुकम्पितः षडङ्गुलिदत्तः षडिकः। ``बहूचो मनुष्यनाम्नःइत्यनुकंपायां ठच्। ``ठाजादावूर्द्धम्इति ङ्गुलिशब्दस्य लोपः। ``यस्येति चइति अकारलोपः। अत्र तुल्यावधिकया भसंज्ञया प्रत्ययलक्षणेन सुबन्तत्वात्प्राप्तायाः पदसंज्ञाया बाधाज्जशत्वं न स्यादित्यारम्भः। सिद्धमचः स्थनिवत्त्वात्। भसंज्ञायां विधीयमानायां अकारलोपस्य स्थानिवद्भावादकारान्तमेतद्भसंज्ञां प्रतीति भिन्नवधिकत्वाद्भपदसंज्ञयोर्न बाध्यबाधकभावः। नच ``न पदान्त-इति स्थानिवत्त्वनिषेधः। पदान्तस्य विधेयत्वेतत्प्रवृत्तेः। कानि सन्ति कौ स्त इत्यत्र पदान्तयोर्विधेयत्वात्। इह तु जश्त्वस्य पूर्वमेव प्रवृत्तत्वात्।
नन्वेवं अनुकम्पितो वागाशीर्दत्तो बाचिक इत्यत्रापि कुत्वं स्यात्। मैवम्। सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचनात्। तस्य च हलजादेशत्वाद् न स्तानिवद्भाव इति तुल्यावधिकया भसंज्ञया बाधात्, ``षषष्ठाजादिवचनाद्इत्यकारस्य पृथग्लोपान्न दोषः।
``नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्।
नभस्वत्, अङ्गिरस्वत्, मनुष्वत्। पदसंज्ञायां तु रुत्वंस्यात्, न सत्त्वम्। अपदान्तस्येति वचनात्।
``वृषण्वस्वश्वयोः।
वृषण्वसुः। वृषणश्वस्य यच्छिरः। पदान्तस्येति निषेधाण्णत्वं न स्यात्। नलोपश्च स्यात्। नच भत्वादलोलोपापत्तिः। अङ्गसंज्ञाया अभावात्, तस्याङ्गधिकारीयत्वात्। उपसंख्यानान्येतानिच्छन्दोविषयाणीति कौयटः।
तसौ मत्वर्थे ।। 18 ।।
तान्तसान्तौ भसंज्ञौ मत्वर्थे प्रत्यये। तडित्वान्। यशस्वी। नच यशस्वानित्यत्र न स्यादिति वाच्यम्। मतुपोऽपि मत्वर्थवृत्तित्वात्। देवदत्तशालायां ब्राह्मणा आनीयन्तामित्युक्ते हि ब्राह्मणत्वस्य देवदत्तवृत्तित्वे तस्यापि कार्यान्वयः। उद्देश्यतावच्छेदकरूपावच्छिन्नत्वात्। देवदत्तशाला भेद्यतामित्युक्ते तु न, शालात्वस्य देवदत्तावृत्तित्वात्। अत एव च्व्यर्थेष्वित्युक्त्वा अच्वाविति प्रतिषेधः सङ्गच्छते।
अयस्मयादीनि छन्दसि ।। 19 ।।
संज्ञाद्वयाधिकाराद् यथासम्भवं तदुभयद्वारैषां साधुत्वविधायम्। ``उभयसंज्ञान्यपि इति वार्त्तिकात्। ``मयड्वैतयोर्भाषायाम्इत्युक्ते छन्दसि कथं मयडित्याशङ्व्य अस्मादेव निपातनादिति न्यासकृत्। ``द्व्यचः छन्दसिइतीत्यन्ये। अत्र भत्वाद्रुत्वाभावः। स सुष्टुभा स ऋक्वतागणेन। पदत्वात्कुत्वं भत्वाज्जशत्वाभावः। कुत्वविध्येकवाक्यतापन्नपदत्वस्य भत्वेन बाधात्।
बुहुषु बहुवचनम् ।। 20 ।।
बहुत्वे एतत्स्यात्। वृक्षाः। दारा इत्यादौ अधयवनिष्ठबहुत्वस्यावयविन्यारोपः। प्रकृत्यर्थवृत्तित्वस्य तावताऽपि निर्वाहात्। जलपरमाणावष्याप इति प्रयोगस्तद्गुणानादायेति वर्द्धमानादयः। नच घटेऽपि घटा इत्यापत्तिः। तत्रारोपे प्रमाणाभावात्। दारा इत्यादौ तु बहुवचनान्तत्वनियमप्रतिपादककोशवृद्धव्यवहारादेर्नियामकत्वात्।
द्व्येकयोर्द्विवचनैकवचने ।। 21 ।।
वृक्षौ वृक्षः। द्व्येकशब्दौ भावप्रधानौ, अन्यथा बहुवचनापत्तेः। पूर्वसूत्रऽपि बहुपदं बहुत्वपरम्। धर्मिगतबहुत्वस्य धर्मे आरोपाद्बहुवचनम्। अनेकपर्याप्तसंख्यारूपबहुत्वस्य ग्रहणं यथा स्यात्। तच्च वैपुल्यवाचिनो बहुशब्दस्य ग्रहणवारणार्थम्। तेन बहुः सूप इत्यादौ न।
अत्र श्लोकवार्त्तिकम्-
सुपां कर्मदयोऽप्यर्थाः संख्या चैव तथा तिङाम्।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा।
``कर्मणि द्वितीयाइत्यादौ प्रकरणस्य संख्याशास्त्रस्य च स्वादिसूत्रेण सहैकवाक्यतया विधायकत्वम्। एकस्मिन् कर्मणीत्येवं गुणगुणिनोः सामानाधिकरण्येन संम्बन्धे संख्याकर्मादयः सुपामर्था भवन्ति। संख्याशास्त्रस्य तिबादिवाक्येनाप्येकवाक्यत्वम्। अत एव संख्याचैवेत्यस्य पृथगुपादानम्। तृतीयचरणेनार्थनियम उक्तः। चतुर्थेन प्रकृतार्थापेक्षः प्रत्ययनियमः उक्तः। तुल्यजातीयस्य नियमेन व्यावर्त्तनादव्ययेभ्यः स्वादीनामुत्पत्तिः। एकत्व एवैकवचनमिति नियमेन द्वित्वादेरेव व्यावर्त्तनात्। भवतु वा प्रत्ययानां सामान्ये नियमः, तथाऽपि ``अव्ययादाप्सुपः इति लोपविधानाज्ज्ञापकादव्ययेभ्यः स्वादिसिद्धिरतः पदत्वाद्रूवाद्युपपत्तिरिति भाष्यम्।
इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य चतुर्थे पादे द्वतीयमाह्निकं समाप्तम्।।