श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः २/आह्निकम् १

श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

अथ द्वितीयपादः पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।। 1 ।।
एकत्वसंख्याविशिष्टेनावयविना सह पूर्वादयः समस्यन्ते। पूर्वं कायस्येति पूर्वकायः। अपरस्यार्धे पश्चभावो वक्तव्यः। पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायमिति कालिदासः। षष्ठीसमासव्यावृत्त्यर्थमेतम्। विशेषणसमासेनापि पूर्वकायशब्दसिद्धेः। समुदायवृत्ताः शब्दा अवयवेष्वपीति न्यायात् इत्याहुः।
न च दिशि दृष्टः शब्दो दिक्‌शब्द इत्यार्थाद्दिग्वाचकस्यापि पूर्वशब्दस्य योगे अन्यारादिति पञ्चम्या एव युक्तत्वात्षष्ठ्येव कथमिति वाच्यम्। तस्य परमाम्रेडितमिति लिङ्गेन अवयवयोगे षष्ट्या एवेष्यमाणत्वात्। यत्तु एकदेशिशब्दश्चावयवरुढोऽत एव मत्वर्थीय इत्याहुः। तन्न। एकगोपूर्बादिति ठञ इव न कर्मधारयादित्यस्यापि सौत्रत्वादेव बाधसिद्धेः। न्यायैकदेशिन इत्यादिकं तूभयथापि गौणम्। एकदेशस्वामिनि तु यद्येकदेशिशब्दोऽसाधुस्तदावयवावयविसम्बन्ध एवायं निपात इति कल्प्यम्। एकदेशिनेति किम्। पूर्वं नाभेः कायस्य। नाभेरिति दिग्योगे पञ्चमी। नाभिमेपक्ष्य पूर्वभागः कायसम्बन्धीत्यर्थः। अत्र पूर्वं प्रतिनाभेरवधित्वं नन्ववयवित्वमित्यसमासः। कायेन सह तु भवत्येव। नाभेः पूर्वकायः। पूर्वशब्दस्य नित्यसापेक्षत्वात्। एकाधिकरणेकिम्। पूर्वं छात्राणामामन्त्रयस्व। इह समुदाये षष्ठी। उद्‌भूतावयवभेदत्वाद्बहुत्वं एकत्वानवच्छिन्नत्वान्न समासः।
अत्र व्याख्यातारः संख्याविसायपूर्वस्येति ज्ञापकेन सर्वस्यैकदिशिवाचिनोऽह्नादेशः। अन्यथा सायपूर्वत्वानुपपत्तेः। अतोमध्याह्नः सायाह्न इत्यादि। ज्ञापकस्य सामान्यापेक्षतया च सर्वोप्यवयववाची कालेन समस्यते इति ज्ञाप्यम्। तेन मध्यरात्रः उपरताः पश्चिमरात्रगोचरादित्यादि सिद्धम्। अहः सर्वैकदेशेत्यादेराह्नोह्न इत्यादेश्चैकदेशिसमासमात्रविषयकत्वेन विशेषणसमासेनोभयत्राप्यनिर्वाहात्। ज्ञापकसिद्धं न सर्वत्रेतिन्यायाच्च दिनमध्य इत्यादिसिद्धिरित्याहुः।।
अर्धं नपुंसकम् ।। 2 ।।
नित्यक्लीबोऽर्धशब्द एकत्वाबच्छिन्नावयविना सह समस्यते। अर्धं पिप्पल्या अर्धपिप्पली। नपुंसकपदं च यत्रार्थे नियमेन नपुंसकत्वं तत्रैव समास इत्यर्थकम्। नचार्धमिति निर्देशादेव तत्सिद्धिः। सूत्रे लिङ्गवचनमतन्त्रमिति ज्ञापनार्थत्वात्। तेन तस्येदमित्यादोर्लिङ्गत्रयेऽपि प्रवृत्तिः। `भित्तं शकलखण्डे वा पुंस्यर्द्धोऽर्ध्ं समेंऽशके'इत्यमरः। समांशवाच्यर्धशब्दो नपुंसकमात्रलिङ्ग इत्यर्थः।
अत्राहुः--वापुंसीत्युभयान्वयी। तत्राद्ययोर्नपुंसकनिर्देशात्पुंस्त्वस्य स्त्रीत्वेन सह विकल्पस्यानुपपत्त्याऽस्त्रियामित्यर्थः। भिन्नलिङ्गानां न द्वन्द्व इति परिभाषितत्वेन खण्डस्य स्त्रीत्वायोगात्। शकलशब्दे च स्त्रीत्वाभावस्य निर्देशादेव निश्चितत्वात्। अर्धशब्दे तु निर्देशात्पुंस्त्वप्रतीत्या वा पुंसीत्यस्याविशेषात्स्त्रीनपुंसकपरत्वम्। तथाचार्धशब्दः स्त्रीलिङ्ग इति। तदसत्। अस्त्रियामित्यस्य पूर्वं निर्णीतत्वेनोत्तरत्रापि तदर्थस्य न्याय्यत्वात्। शब्दाधिकारस्य बहिरङ्गत्वात्। दैवतानि पुंसिवा। वापुंसि पद्मं। पुंसि वा हरिचन्दनम्। इत्यादौ पुंविकल्पे नपुंसकेनैव सह तल्लाभात्। क्लीबत्वस्य निर्देशात्पुंसिवेति स्त्रिया सह विकल्पापत्तेः। नचतत्र पुंस्त्वतदभावयोर्विधाने तदभावपक्षे निर्दिष्टलिङ्गग्रहणात्तथा। अत्र तु निर्देशविशेषविधिभ्यां सिद्धस्य पुंस्त्वस्य विध्यनर्हत्वात्तदभावविधेरविशेषात्तदन्यलिङ्गद्वयसिद्धिरन्यतरमात्रग्रहणे बीजाभावात् इति वाच्यम्। पूर्वोत्तरयोर्नपुंसकस्थितिसत्त्वात्। अन्यत्र तदभावपक्षे पकस्यैव विधानाच्च। त्रिष्वित्यस्य वक्तव्यत्वापत्तेश्च। यदि स्त्रीत्त्वमिष्टं तदा प्रमाणान्तरादस्तु अमरग्रन्थस्य तु द्विलिङ्गत्वे एव तात्पर्यम्। अवयववाची त्वभीधेयवशात्सर्वलिङ्ग इति कैयटः। क्षीरस्वामिनापि निर्देशात्पुंसिइत्युक्त्वा व्याख्यातम्-वाच्यलिङ्ग इत्येके। यट्टीका`खराडमात्रवृतितायामभिधेयर्लिग इति' इति दिक्।
न च विग्रहे नियतविभक्तिकत्वात्पिप्पलीशब्दस्योपसर्जनतया ह्रस्वापत्तिः। एकाविभक्तावषष्ट्यन्तवचनमिति। निषेधात्। एकाधिकरणे किम् अर्धं पिप्पलीनाम्। अर्धपिप्पल्य इति तु कृतसमासानामेकशेषात्। अर्थभेदस्तु स्पष्टः। एकदेशिनेति किम्। अर्धं पशोर्धेवदत्तस्य। देवदत्तस्यात्र पशुं प्रति स्वामित्वम्। पशुना सह तु भवत्येव समासः पूर्ववत्। नपुंसकं किम्। ग्रामार्धो नगरार्धः।
भाष्यकारास्त्वेतत्प्रत्याचख्युः। समुदायवृत्तीनां शब्दानामवयवेऽपि वृत्तिस्वीकारेणार्धपिप्पलीत्यादेः कर्मधारयादेव सिद्धेः। अन्यथा-अर्धाकारः अर्धजरतीयं अर्धोक्तमर्धविलोकितमित्यादौ समविभागविरहादनिर्वाहात्। नच षष्ठीसमासबाधार्थम्। तस्यापीष्टत्वात् इति। प्रेम्णा शरीरार्धहरां हरस्येति कालिदासः। एतेन-
पणार्धक्रीतताम्बूलचर्वणाद्गर्विताननाः।
अनभ्यासगलल्लाला यान्त्येते वारयात्रिकाः ।। 1 ।।
इत्यादि व्याख्यातम्।
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ।। 3 ।।
एतान्यवयविना वा समस्यन्ते द्रव्यैक्ये। द्वितीयं भिक्षाया द्वितीयाभिक्षा भिक्षाद्वितीयम्। एवमन्यत्। तुरीयस्यापीष्यते इतिवृत्तिः। अवयविना किम्। द्वितीयं भिक्षाया भिक्षुकस्य। अत्र स्वामिना भिक्षुकेण समासो माभूत्। द्रव्यैक्ये किम्। द्वितीयं भिक्षाणाम्। नचात्रापि पूर्ववत्कर्मधारयषष्ठीसमासाभ्यां सूत्रैवयर्थअयम्। पूरणगुणेति षष्ठीसमासनिषेधात्। नच सूत्रारम्भेऽपि तद्दोषसाम्यम्। विभाषाग्रहणसामर्थ्यान्निषेधाप्रवृत्तेः। नच पाक्षिकवाक्यार्थं तत्। महाबिभाषयैव तत्सिद्धेः। नच `पूरणाद्भागे तीयादन्नि,ति स्वार्थेऽनूप्रत्ययं कृत्वा षष्ठीसमासनिषेधो नास्तीति कल्पयितुं शक्यम्। स्वार्थिकानां प्रकृत्यर्थेनार्थवत्त्वादन्नस्यापि पूरणार्थत्वमिति। सिद्दान्तात्। न च पूरणाधिकारविहितत्वमेव पूरणार्थत्वम्। तत्र तदर्थत्वमात्रोपादानात्। नचैकं पूरणादिशब्दानामप्युदात्तानापत्त्या `कुम्भपूरणभवः पटुरुच्चै'रित्यादेरनुपपत्तिः। पादपूरणमित्यादिनिर्देशेन प्रत्ययानामेव ग्रहणात्। नचैवं षष्ठाष्टमाभ्यां ञचेति चकारेण विहितस्यानोऽपि पूरणत्वेन निषेधप्रवृत्तौ `तान्युञ्छषष्ठाङ्कितसैकतानि `इति कालिदासप्रयोग नुपपत्तिः। तस्य प्रामादिकत्वादिति केचित्। षष्ठशब्दात्तत्करोति तदाचष्टे इत्याख्यानण्यन्तात्पचादित्वादजित्यपरे। उञ्छेषु षष्ठः उञ्छात्मको वा षष्ठः। समुदायवृत्ता इतिन्यायादित्यन्ये।
प्राप्तपन्ने च द्वितीयया ।। 4 ।।
प्राप्तो जीविकां प्राप्तजीविकः। एवमापन्नजीविकः। पक्षे द्वितीयाश्रितेति समासः। जीविकाप्राप्तः जीविकापन्नः। नच बहुव्रीहिणा गतार्थत्वम्। समासान्तोदात्तत्वस्यासिद्धेः। प्राप्तसुखं इत्यादौ जातिकालसुखादिभ्य इति निष्ठायाः परनिपातापत्तेश्च। लिङ्गविशिष्टपरिभाषया प्राप्ता जीविकां प्राप्तजीविका स्त्री। न च जीविकाशब्दस्यैकविभक्तिचेति उपसर्जनत्वेन हस्वेऽपि प्राप्ताशब्दे स न स्यादिति वाच्यम्। अकारप्रश्लेषेण पूर्वपदस्याकारादेशस्यापि विधानादेति भाष्यम्। नच द्विविचनोत्तरं तत्प्रश्लेषे प्रकृतिभावापत्तिः। सौत्रत्वादिति प्राञ्चः। यद्वा समाहारे द्वन्द्वः। विषये समप्ती अकारादेशापेक्षा। प्राप्तापन्नशब्दयोरकारादेशो भवतीत्यर्थः। नचैवं प्रथमानिर्दिष्टत्वाभावात्तयोरुपसर्जनसंज्ञानापत्तिः सुबित्यनुवृत्त्या सन्निधानात्सूत्रारम्भसामर्थ्याद्वा तयोरेव तत्सिद्धेः। द्वितीयान्तस्य तत्सिद्धौ द्वितीयाश्रितेत्यादिना गतार्थत्वापत्तेरिति कैयटः। सूत्रान्ते प्रश्लेष इति दीक्षिताः।
कालाः परिमाणिना ।। 5 ।।
परिच्छेद्यवाचिना सूबन्तेन कालाः समस्यन्ते। मासो जातस्य यस्य स मासजातः। नच समासेऽपि षष्ठीश्रवणं नातशब्दे स्यादिति वाच्यम्। सम्बन्धस्य समासाभिहितस्य तत्रान्तर्भावात् उक्तार्थानामप्रयोगात्। मासजातस्य वस्त्रगित्यादौ तु स्वस्यामिभावसम्बन्धे षष्ठी। परिच्छेद्यपरिच्छेदकभावस्यैव वृत्तावन्तर्भावात्। अत एव बहुव्रीहौ तद्विग्रहे च विपरीतो विशेष्यविशेषणभावः। शब्दशक्तिस्वाभाव्यात्। अतो मासजातो दृश्यतामित्यादौ जातस्यैव क्रियायोगो नतु विग्रहे प्रधानस्यापि मासस्य। एकत्वं चात्र मासस्य गम्यते। शब्दस्वाभाव्यात्। द्वित्वादिसंख्यायाः सापेक्षत्वात्। अत एव हरिणोक्तम्-
शौर्पिके मासजातेच परिमाणं स्वबावतः।
उपाधिभूतमाश्रित्य संख्याभेदेन वर्तते।। इति।।
देवदत्तस्य परिच्छेद्यत्वं जननद्वारकम्। मासपरिच्छेद्यं यज्जननं तदाश्रय इत्यर्थात्। एवं च परिच्छेद्यत्वं संसर्ग इति फलितार्थः। तच्च तन्मासघटकदिनप्रागभावानाधिकरणकालवृत्तित्वम्। नतु तन्मासघटकक्षणप्रागभावानधिकरणकालान्तत्वम्। तन्मासाद्यदिनमध्याह्नोत्पन्नादावपि मासजातपदप्रयोगात्। तच्छद्बप्रयोगापेक्षया मासो व्युत्पत्तिबलसाध्यः। नचतन्मासोत्तरोत्पन्नेऽपि तत्प्रयोगापत्तिः। प्रत्ययार्थस्यातीतत्वस्यापि जनने भानात्। तथाच तन्मासघटकदिनप्रागभावानधिकरणकालवृत्त्यतीतं च यज्जननं तदाश्रय इत्यर्थः। द्व्यह्नजात इत्यादिकं प्राग्व्याख्यातम्।
नन्वेवं सति परिमाणिमात्रेण त्रिपद(?)तत्पुरुषः। अन्यत्र तु द्विपद एवेति स्थिते `त्रिलोकनाथेन सता मखद्विः`इति कालिदासः। `नवरसरुचिरा'मिति काव्यप्रकाशश्च कथम्। नचविशेषणसमासमाद्यपदद्वयस्य कृत्वा ततो द्विपदतत्पुरुष इति वाच्यम्। दिक्‌ संख्ययोः संज्ञायामेव तद्विधानात्। समाहारद्विगौ च ङीप्‌प्रसङ्गात्। `यदि त्रिलोकी गणनापरा स्या'दित्यादिर्शनेन पात्रादित्वस्य कल्पयितुमशक्यत्वात्। अत्राहुः-त्र्यवयवो लोकस्त्रिलोकः। शाकपार्थिवादिः लोकशब्दस्य समुदायपरत्वात्। इदं च भाष्ये स्पष्टम्।
नञ् ।। 6 ।।
अयं सुपा सह समस्यते। अब्राह्मणः अवृषलः। अत्र वदन्ति। आरोपितत्वं नञा द्योत्यते। तच्चोत्तरपदार्थतावच्छेदकनिष्ठं। तथाचारोपितं यद्ब्राह्मणत्वं तद्विशिष्टे समासः शक्तः। आरोप एव विशेषणविशेष्ययोः संसर्गः। ब्राह्मणभिन्नबोधस्त्वार्थः। अतएवानुपसर्जनत्वादतस्मिन्नित्यादि सर्वनामकार्यनिर्वाह इति।
तत्रेदं वाच्यम्। आरोपस्य नियमेनानुपपत्त्या कथं तत्संसर्गको बोधः प्रयोक्तृनिष्ठारोपस्य योग्यानुपलब्धिबाधितत्वात्। अन्यनिष्ठस्यच मानाभावग्रस्तत्वात्। नहि ब्राह्मणपदादारोपसंसर्गकबोधसंभवः। तदीयशक्तिज्ञानकार्यतावच्छेदकसमवायस्यैव संसर्गत्वात्। कालिकादिना ब्राह्मणत्ववति ब्राह्मणपदाप्रयोगात् समवायस्वाश्रयतादात्म्ययोः संसर्गतायामेव जात्यंशे निरवच्छिन्नप्रकारताकबुद्धेः मिश्रादिसंमतत्वेन आरोपस्य संसर्गतायां ब्राह्मणत्वांशेऽन्याप्रकारकज्ञानस्यासंभवाच्च। नच समवायेन स्वाश्रयतात्म्येन वा सबन्धेन विशिष्टस्यैवारोपस्य संसर्गत्वमत्रास्त्विति वाच्यम्। तथापि आरोपितत्वस्य नञ्‌द्योत्यत्वान्‌पपत्तेः। संसर्गस्य द्योत्यत्वानङ्गीकारात्। आरोपस्य संसर्गत्वे तदुत्तरमार्थिकभेदवोधानापत्तेश्च। नच ब्राह्मणत्वोपरि प्रकारत्वेनाप्यारोपितत्वभानं आरोपस्यच स्वाश्रयेऽनङ्गीकारेणार्थाद्भेदबोध इति वाच्यम्। आरोपसंसर्गतोक्तेर्व्यर्थत्वापत्तेः। ब्राह्मणत्वस्य ब्राह्मणत्वेनानुपस्थिततया तत्रारोपितत्वस्य प्रकारतया भानासंभवाच्च। ब्राह्मणत्वांशे निः प्रकारकानुभवविरोधाच्च।
किंचारोपितत्वं विशेषणमुपलक्षणं वा नाद्यः। तदानीमारोपे मानाभावात्। नान्त्यः क्षत्रियादावारोपितस्य तस्य ब्राह्मणेऽपि सत्त्वेन ततोभेदप्रतीतेरार्थिक्या असिद्धेः। तस्मादब्राह्मण इत्यत्र नञर्थभेदे ब्राह्मणत्वावच्छिन्नामतियोगितयाऽन्वयः भेदस्य विशेषणतयाऽऽश्रये इति युक्तम्। अतएव ब्राह्मणे तत्प्रयोगाभावः। नचैवं उत्तरपदार्थप्राधान्यं न स्यादिति वाच्यम्। अर्धापिप्पल्या दिवदिष्टापत्तेरिति नैयायिकाः। एतेनारोपमात्रं द्योत्यं विषयत्वं संसर्ग इत्यप्यपास्तम्।
नन्वेवं असः, असर्वस्मै इत्यादौ सत्वं स्मायादेशश्च न स्यात् उपसर्जनानामन्तर्गणकार्यस्य सर्वनामकार्यस्य चानङ्गीकारादितिं चेदुच्यते। `एतत्तदोः सुलोप'इत्यस्य एतत्तदर्थनिष्ठैकत्वाभिधायिनः सोर्लोप इत्यर्थः सिद्धान्ते त्वयापीष्टः। तथाच अनेषो ददाति असो ददाति इत्यत्र तदर्थस्य गुणीभूतत्वादेकत्वस्य तत्रानन्वयादेव लोपस्याप्रसक्त्या अनञ्समास इतिज्ञापनार्थम्। नञ्‌सगासे उपसर्जनस्यापि सर्वनाम्नस्तत्कार्यं भवतीति। नचैतत्तदोरित्यत्र सर्वनामत्वं नापेक्ष्यं मानाभावादिति वाच्यम्। अकोरित्यकच्सहितव्यावृत्यर्थविशेषणोपादानेन सर्वनाम्नोरेव ग्रहणात्। `सव्यतेऽनेकया सन्नतापाङ्गये'त्यत्र तु विशेष्यस्यैकत्वादेकवचनम्। अतएव `एतन्त्यनेके जलधेरिवोर्मव' इत्यादौ विशेष्यबोधाद्वहुत्वम्। एतेन `अनेकमन्यपदार्थे'इति व्याख्यातम्। सुवन्तमीत्यस्य जातिपरस्य तत्रापि विशेष्यत्वात्। एतेनाध्यारोपितैकत्वानां प्रकृत्यर्थत्वादनेक इति बहुवचनं नतु वास्तवप्रकृतिभेदाभिप्रायम्। यद्वाऽनेकश्चानेकश्चेत्येकशेष इत्यप्यनाश्रयणीयम्। इत्यास्तां विस्तरः। यत्तु मतं अन्यपदार्थप्रधानोऽयं समासः भावप्राधान्यमाश्रित्य नविद्यते ब्राह्मणत्वं यत्रे त्यर्थात्। उन्मत्तगङ्गादावब्ययीभावस्येह तत्पुरुषस्य बहुब्रीहिवाधकत्वादकर्ता अभोक्तेत्यादौ `नद्यृतश्चे'ति कवभावस्तत्फलमिति। तदपि भाष्ये निरस्तम्। अतस्मिन्नित्यादेरसिद्धेः। अवर्षा हेमन्त इत्यत्र हेमन्तवर्त्ताद्वशेषस्याप्येकवचनापत्तेश्च। अधनो ब्राह्मण इत्यादौ परवल्लिङ्गतापत्तेश्च।
मतान्तरंतु-
तपःश्रुतं चयोनिश्चेत्येतद्ब्राह्मणलक्षणम्।
तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः
इति वचनात्। ब्राह्मणादिशब्दाः तदीयगुणसमुदाये जातौ च शक्ताः अपूर्णो ब्राह्मणोऽब्राह्मण इतिसमासार्थ इति। तदप्यसत्। जातिब्राह्मणेऽप्यब्राह्मणशब्दप्रयोगापत्तेः।
जन्मना ब्राह्मणो ज्ञेयः संस्काराद्‌द्विज उच्यते।
इत्यादिवचनानुरोधेन तपः श्रुतयोरुत्कर्षमात्राधायकत्वेन ब्राह्मणपदप्रवृत्तिनिमित्तत्वाभावाच्च। अतेव `सुरापाननिषेधस्तु जात्याश्रय इति स्थिति'रिति कुमारवचनादिप्रामाण्याद् `ब्राह्मणो न सुरां पिवेत्'`ब्राह्मणं न हन्या'दित्यादीनां जातिमात्रपरत्वमितिसिद्धान्तः। अतएव छान्दाग्योपनिषदि संस्कारादिहीनेऽपि जाबाले नैतदब्राह्मणोविवक्तुमर्गतीत्यादिना गौतमस्य तत्संस्कारप्रवृत्तिर्ब्राह्मणत्वनिश्चयादित्युक्तम्। `तदभावनिर्धारणे च प्रवृत्ते'रितिवेदान्त(1)सूत्रेऽपि तत्स्पष्टम्।
प्रकृतमनुसरामः। यत्तु-
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
अप्राशस्त्यं विरोधश्च नञर्थाः षट्‌प्रकीर्तिता इति।
तत्रान्योन्याभावात्यन्ताभावयोः शक्तिः। अन्ये तु व्युत्पत्तितात्पर्यादिवशगम्याः। अब्राह्मण इत्यत्र ब्राह्मणभिन्न इति प्रतीतौ भेदप्रतियोगिवृत्तिप्रतियोगितावच्छेदकधर्मसाक्षाद्‌व्यापकधर्मावच्छिन्नानुयोगिताकत्वं भेदस्यावबुध्यते। घटादावब्राह्मण इत्यप्रयोगात्। अत एवाजपन्यूंखसामसु इत्यत्रजपादिवृत्तिप्रतियोगितावच्छेदकीभूतजपत्वव्यापकमन्त्रत्वावच्छिन्न एव जपादिभिन्ने एकश्रुतिविधानादूहिते इन्द्रशत्रुशब्दे तदभाव इति स्पष्टमाकरे। तथाच तद्धर्मेण मनुष्यत्वादिना प्रतियोगिसादृश्य मनुयोगिनो वस्तुगत्या भवतीत्यर्थो नतु तत्र सादृश्यस्यापि भानम्। तदल्पता पुष्करिण्यां जलं नास्तीत्यादौ प्रकृष्टजले जलपदस्य लाक्षणिकत्वात्। एतेनानुदरा कन्येति व्याख्यातम्। अपचसि त्वं जाल्मेत्यत्र नञो न लोपस्तिङि क्षेपे इति प्रशस्तपाके पचेर्लक्षणया तस्याभावान्यवये धातोरेव वा अप्रशस्तपाकपरतया पचेर्लक्षणया तस्याभावान्वये धातोरेव वा अप्रशस्तपाकपरतया नञस्तात्पर्यग्राहकतया तल्लाभः। एवमस्य ज्ञानं नास्तीत्यादौ योज्यम्।
विरोधोऽधर्म इत्यादौ धर्मभेदस्य तज्जन्काश्वमेधादिक्रियायामपि सत्त्वात्। धर्माजनकत्वरूपो विरोधो ब्रह्मवधादौ प्रतीयते। अतश्च प्रतियोगिविशेषगतया वा अन्यथा वा एषामर्थानाम्भानमिति दिक्।
इदंत्ववधेयम्। अविघ्नमित्यत्रापि परत्वात्तत्पुरुषः स्यात्। अव्ययीभावस्य निर्मक्षिकामित्यादौ सावकाशत्वात्। इति प्राप्ते उच्यते। `रक्षोहागमलघ्वसंदेहाः प्रयोजनं' `अथासंहितये'ति `अद्रुतायामसंहित'मितिच भाष्यवार्तिकयोः प्रयोगादुभयसमावेशो ज्ञाप्यते इति।
इदं चावधेयम्। न ब्राह्मणस्य भाव इति भावप्रतिषेधयोर्युगपत्सम्बन्धविवक्षायां नञ्‌समासस्य भावप्रत्ययस्यच प्रसङ्गे यदि परत्वात्प्रत्ययः स्यात्। पुनः प्रसङ्गविज्ञानाच्च पश्चात्समासः। तदा तत्पुरुषे तुल्यार्थतृतीयेति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वमब्राह्मणत्वपदे स्यात्। इष्यतेतु प्रत्ययस्वरेणान्तोदातत्वम्। तस्मासमास एव प्रथमम्। प्रकृत्यर्थस्य सापेक्षत्वेनासामार्थ्यात्प्रत्ययानुत्पत्तेः। नञ्‌समासस्तु प्रधानस्य सापेक्षत्वाद्भवत्येवेति वैषम्यम्। अतः सति शिष्टत्वात्प्रत्ययस्वरः। तल्‌प्रत्यये लितीतिपूर्वोदात्तत्वं च सिद्धमित्याहुः।।
ईषदकृता ।। 7 ।।
अत्र वार्तिकम्। ईषद्भुणवचनेनेति। अकृतेत्यपनीय तत्स्थाने गुणवचनेनेत्येव वक्तव्यमित्यर्थः। तेनेषत्पिङ्गलः ईषद्रक्तं ईषदुन्नतं इत्यादि सिद्धम्। ईषद्गार्ग्य इत्यादौच नातिव्याप्तिः। यद्यपि गर्गापत्यत्वे उत्कर्षापकर्षौ नस्तस्तदेकार्थवृत्तिक्रियागुणानां तत्संभवात् गार्ग्यकल्पो गार्ग्यपाशइत्यादौ तत्समानाधिकरणानामेव गुणानां तदर्थयोगात्।
षष्ठी ।। 8 ।।
षष्ट्यन्तं सुबन्तेन समर्थेन सह समस्यते। राज्ञः पुरुषो राजपुरुषः। इह षष्ठीलोपमजानतामप्यर्थबोधाद्राजपदं राजसबन्धिनि लाक्षणिकम्। तस्याभेदेन पुरुषेऽन्वयः इतिदर्शनान्तरम् शाब्दिकमते तु समासे शक्तिस्वीकाराद्राजसंबन्धप्रकारकाश्रयत्वसंसर्गकपुरुषावशेष्यको वाध इति प्रागुक्तम्। कृद्योगा च षष्ठी समस्यते इतिवाच्यम्। इध्मप्रव्रश्चनः। पलाशशातनः। प्रतिपदविधाना षष्ठी न समस्यते इति वक्ष्यमामस्यायमपपादः अन्यदग्रे वाच्यम्।
याजकादिभिश्च ।। 9 ।।
एभिः षष्ठी समस्यते। तृजकाभ्यां कर्तरीत्यस्यायं प्रतिप्रसवः। ब्राह्मणयाजकः। याजक पूजक परिचारक परिवेषक स्नातक अध्यापक उत्सादक उद्वर्तक होतु पोतृ भर्तृ रथगणक पात्तगणक वृत।
`गुणात्तरेण तरलोपश्चेति वक्तव्यम्' सर्वं गुणकार्त्स्न्ये इति सूत्रे पठितमेतदभाष्ये। तरबन्तस्य गुणवाचिना समासः तरब्‌लोपश्च। सर्वेषांश्वेततरः सर्वेषां महत्तरः सर्वमहान् पूरणगुणेति निषेधस्यापवाद इतिभाष्यम्। ननिर्धारणे इत्यस्येति वृत्तिः। गुणस्य स्वाश्रयेणैव समासनिषेधादिति तदाशयः।
न निर्द्धारणे ।। 10 ।।
निर्द्धारणे या षष्ठी सा न समस्यते। नृणां द्विजः श्रेष्ठः निर्द्धारणस्य द्विजापेक्षत्वात्तेन समासः प्राप्तः। अथ पुरुषोत्तम इति कथम्। तत्रकेचित्। निर्धारणविषयस्य तत्प्रतियोगिनश्चैकधर्मावच्छिन्नत्वेनिर्धारणम्। गवां कृष्णा बहुक्षीरेत्यत्र गोत्वस्योभयत्र सत्वात् अत्रतु सुखसमवायिकारणतावच्छेदकत्वेन सिद्धाया आत्मत्वजातेः परमात्मन्यवृत्तित्वान्न निर्धारणमवो न निषेधः। आत्मपदवाच्यतावच्छेदकसिद्धौ विभुसैन्धवादिष्वतिप्रसङ्गादित्याहुः। तन्न उक्तरित्या सिद्धस्यैवात्मत्वस्यात्मपदवाच्यतावच्छेदकत्वमिति जलपरमाणुष्वपि तत्सिद्धिः। अतएवेश्वरेऽपि श्रौतात्मपदप्रयोगः। संगच्छते।
अन्येतु निर्धारणविषयप्रतियोगिनोस्तन्निमित्तधर्मस्य शाब्दत्वे समासनिषेधः। जीवात्मभ्यः परमात्मनो निर्धारणेन नित्यज्ञानवत्वादिकं निमित्तं तत्प्रयोगाभावात्समास इत्याहुः। द्विबचनविभज्येतिसूत्रस्थकैयटस्वरसोऽप्येवम्। लीलावत्युपाये तु पञ्चमीतियोगविभागात्पञ्चमीसमासः।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदेच प्रथितः पुरुषोत्तमः।।
इतिभगवद्गीतोक्तोरित्युक्तम्।
द्वाविमौ पुरुषौलोके क्षरश्चाक्षरएवच।।
इति तत्रोक्तत्वात्तदर्थलाभइति तद्व्याख्यातारः। कुमुमाञ्जल्युपाये तु निर्धारणसप्तम्या समासः। नचैवंषष्ठीसमास निषेधवैयर्थ्यम्। तत्रान्तोदात्तत्वं, सप्तमीसमासे तु तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतित्वरइतिभेदादित्युक्तम्। यत्तु संज्ञायामितिसमासस्य नित्यत्वात्स्वपदविग्रहत्वमयुक्तमिति तदकिञ्चित्‌करम्। सप्तमीशौण्डै रित्यत्र सप्तमीतियोगविभागात्समासस्य वाच्यत्वात्। अतएव नरशूर इतिप्रयोगस्यापि सिद्धिस्तत्रव्याख्यातेतिदिक्। प्रतिपदीवधाना च षष्ठी न समस्यते इति वाच्यम्। सर्पिषो ज्ञानम्। ज्ञोविदर्थस्येति षष्ठी। षष्ठीशेष इत्यपहायान्यासर्वा षष्ठी प्रतिपदविधाना। नच न निर्द्धारणे इति अस्य वैयर्थ्यम्। यतश्च निर्द्धारणमिति सूत्रस्य सप्तमीमात्रविधायकत्वाद्विशेषविहितसप्तम्या सामान्यप्राप्तषष्ठ्या बाधो माभूदिति चकारेण तदभ्यनु ज्ञानेऽपि षष्ठीशेषे इत्यस्यैव तद्विधायकत्वात्। एवं स्वामीश्वरेत्यादावपीति गृहस्वामी सर्वेश्वर इत्यादिसिद्धम्।
अत्रायं सिद्धान्तः। ज्ञोऽविदर्थस्येत्यादि चतुर्दशसृन्र्या दिवस्तदर्थस्येत्यादिषट्‌मून्र्यां शेष इत्यनुवर्तते। तत्र च षष्ठी शेषइत्येव तत्सिध्या तद्विधानं नियमार्थम्। षष्ठीभवति श्रूयते एव। षष्ठीभवतीत्यत्यन्तायोगव्यच्छेदस्य शेषवचनादेव सिद्धेः। क्रियासंगतस्याप्येवकारस्यायोगव्यवछेदार्थत्वम्। ज्ञानमर्थंगृण्हात्येवेत्यादौ क्वचित्तथा व्युत्पत्तेश्च। यद्वा षष्ठयेव भवतीति नियमव्यावर्त्यस्य पूर्वप्राप्तस्य विभक्त्यन्तरस्याभावाल्लोपएव व्यावर्त्यः। तथा च षष्ठीलोपप्रयोजकः समास एव न भवतीति फलितार्थः। तस्य च तिङन्ते प्राप्त्यभावादेव व्यावर्त्त्यत्वानुपपत्या मातुः स्मरणमित्यादौ षष्ठीलोपाभावस्तदर्थः। मातुः स्मरतीत्युदाहरणं च वृत्तिकारादीनां कृदन्तस्यैवोपलक्षणमिति प्रामाणिकाः। नचैवं हरिस्मरणमित्यादीनामनुपपत्तिः। कर्मषष्ठ्या समासेन तत्संभवात्। नच विशेषाभावः। तत्र समासान्तोदात्तत्वं, कर्मषष्ठया समासेतु कारकपरत्वात्कृदुत्तरपदप्रकृतिस्वरत्वमिति विशेषात्। तदुक्तं वाक्यपदीये।
कारकैर्व्यपदिष्टेच श्रूयमाणाक्रिये पुनः।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये।।
इति। अपिच मातुः स्मृतमित्यत्र नलोकेति कर्मषष्ठीनिषेधात् शेषषष्ठ्याश्चोक्तरीत्या समासाभावाद्वाक्यस्यैव साधुत्वम्। तदुक्तम्।
निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते।
शेषलक्षणया षष्ठया समासस्तत्र नेष्यते।।
तथाच प्रतिपदविधानेति निषेधो व्यर्थः। तदपवादःकृद्योगाचेत्येतदपि व्यर्थमेव। कतूकर्मणोः कृनीत्यत्र तु शेष इत्यस्य निवृत्त्या कर्मणिषष्ठीमप्राप्तामेवेदं विधत्तेऽति तद्योगे षष्ठीसमासो भवत्येवेति दिक्।
पूरणगुमसुहितार्थसदव्ययतव्यसमानाधिकरणेन ।। 11 ।।
पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते। सतांषष्ठः। पूरणार्थाः प्रत्यया एव गृह्यन्ते इति प्रागुक्तम्। गुणोतिये केवलं गुणे गुणविशिष्टद्रव्ये च वर्तन्ते तेषामुपादानम्। चन्दनस्य गन्ध इत्यादौ हि वैयधिकरणयमेव। नतु कदापि चन्दनं गन्धइति सामानाधिकरण्यम्। शुक्लादीनां तु पटस्य शुक्लइति शुक्लःपट इति चोभयं व्युत्पन्नम्। यद्यपि मतुब्लोपादाश्रयलक्षणया वा सामानाधइकरण्यं तच्च गन्धवच्चन्दनमित्यादावपि। तदाश्रयांक्षेदप्रत्ययः समानः, तथापि मतुपे विना नास्तीत्ययमेव विशेषः। लक्षणायाश्च तत्पदेषु निरूढत्वाभावात्। आधुनिकलक्षणायाश्च निषेधात्। ननुभेदाभेदवादिमते गुणाभेदस्यैव द्रव्ये स्वीकारात्तत्ररूपादिपदेऽतिप्रसङ्गः स्यादितिचेन्न। तैरपिपटोरूपमितिप्रयोगप्रतीत्योरनङ्गीकारात्। रूपत्वादिव्याप्यधर्माणामेवाभेदप्रतियोगितावच्छेदकत्वमिति स्वीकारात्। तस्मादेकानुपूर्व्यवच्छिन्नस्य यस्य शब्दस्य गुणतद्विशिष्टद्रव्योभवबोधकत्वं तेषामेवायं निपेध इति चन्दनगन्धः पटरूपमित्यादौ भवत्येव समासः। नचपटस्यशौकल्यमित्यत्र निषेधो न स्यात्सर्वदा व्यधिकरणत्वादिति वाच्यम्। यत्प्रतिपाद्यगुणप्रतिपादकशब्दस्य सामानाधिकरण्यवैयधिकरण्याभ्यामन्वयबोधकत्वं तेनापि सह समासनिषेधात्। अस्तिच शुक्लगुणस्यप्रकृत्यर्थावच्छेदकधर्मवाचिभावप्रत्ययान्तगुणविशिष्टद्रव्यवाचि प्रकृतिकशौक्लयपदप्रतिपाद्यत्वं तत्‌प्रतिपादकशुक्लपदस्य चोभयथा बोधकत्वात्। नच रूपपदप्रतिपाद्यगुणप्रतिपादक शुक्लपदमादाय तस्यापि निषेधः स्यादिति वाच्यम्। समान प्रकारकत्वेनप्रतिपादकत्वस्योक्तत्वात्। नचैतावान् विशेषःकुतो लभ्यत इति वाच्यम्। तत्स्थैश्च गुणैः समासइति वार्त्तिकस्य मानत्वात्। गुणिनासह भदेनान्वयबोधकत्वस्य तदर्थत्वात्। तस्यचगुममात्रसाधारण्येन भेदमात्रेणान्वयबोधकत्वलाभात्। नच ब्राह्मणस्य शुक्ल इति नोदाहरणं दन्तादिनैव सह साकाङ्क्षत्वादिति वाच्यम्। प्रकरणादिना विशेष्यस्य निर्ज्ञातत्वेशुक्लेनापि सामर्थ्यात्। सेख्यायास्तु न निषेधः। शतसहस्रान्ताच्चनिष्कात् क्रोशशतयोजनशतयोरुपसंख्यानं खारीशतमपि ददातीति मुनित्रयोक्तेर्ज्ञापकत्वात्। अनित्यश्चायं गुणेन षष्ठीसमासनिषेधः। उत्तरपदार्थप्राधान्यमित्यादिमुनिप्रयोगात् तेन यत्नगौरवादिसिद्धिः। सुहितार्थास्तृप्त्यर्थाः। फलानां सुहिताः। करणस्य शेषत्वविवक्षायां षष्ठी। न लोकेति निषेधस्य कृद्योगलक्षणषष्ठीविषयकत्वात्।
नन्वेवं तृतीयासमासेन फलतृप्त इत्यादेरापत्तिः।
फलैर्नानाविधैश्चित्रैःस्वादुशीतैश्च वारिभिः।
तृप्तास्तां भ्राजथुमतीं पप्रच्छुः कस्य पूरियम्।
इतिभट्टिप्रयोगेण सुहितार्थयोगे शेषत्वविवक्षैवेति नियमस्य वक्तुमशक्यत्वात्। नचेष्टापत्तिः, निषेधवैयर्थ्यादिति चेन्न पष्ठ्या समासेऽन्तोदात्तत्व स्यात्। तृतीयया तु थाथादिस्वरापवादस्तृतीयाकर्मणीति पूर्वपदप्रकृतिस्वर इति विशेषात्। पितॄनतार्प्सीतइतिप्रयोगेणतृपेः सकर्मकस्या पिसत्त्वात्कर्मणिक्तप्रत्ययसंभवात् फलतर्पणमित्यत्र कारकात्परत्वेनकृदुत्तरपदप्रकतिस्वराच्च। अतएव सुहितार्थयोगे करणस्यशेषत्वविवक्षैवेत्याहुरितिहरदत्तेन तत्रापरितोष उद्भावित इत्याहुः।
सत् द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः। शेषेषष्ठी। चोरस्य द्विषन्। द्विषः शतुर्वावचनमितिपक्षे कर्मणि षष्ठी। ब्राह्मणस्य पश्यन्नित्यत्र तु न प्रसङ्गो लादेशप्रयोगे षष्ठ्या निषेधात्। ओदनाद्यपेक्षायाश्चशत्राद्यन्तेन सहासामर्थ्यात्। अव्ययं ब्राह्मणस्य कृत्वा। तादर्थ्यस्य शेषत्वविवक्षायांषष्ठी। ब्राह्मणसंबन्धिनी क्रियेत्यर्थः। एवं पुरा सूर्यस्योदेतोराधेयः। वक्ष्यमाणत्वात्। अत्र वृक्षस्योपरीति अव्ययत्वात्समासप्रतिषेध इति कैयटहरदत्तौ। पूर्वोत्तरसाहचर्यात्कृदव्ययेनैव निषेध इति रक्षितादयः। अतएवाव्ययपदेन कृन्मेजन्तः क्त्बातोसुन्कसुन इत्युक्त्वाअव्ययकृतो गृह्यन्ते इतिमाधेवेनोक्तम्। तेनयत्कृतेऽरीन्निगृण्हीमः। तत्पाणिमात्मोपरिपातुकं तु इत्यादिसिद्धम् सर्वपश्चादितिभाष्यप्रयोगोऽप्यत्रप्रमाणम्। तव्येति निरनुबन्धग्रहणात्तव्यतासह भवत्येव समासः। गतिकारकोपपदादिति कृदुत्तरपदप्रकृतिस्वरः। तव्यतस्तित्वेनान्तस्वरतत्वम्। तव्यस्य त्वाद्युदात्तत्वात्मध्योदात्तत्वं स्यादिर्ति विशेषः। समानाधिकरणेन शुक्लस्य माणवकस्य, राज्ञः पाटलिपुत्रकस्य, पाणिनेः सूत्रकारस्येति भाष्यम्। मारावि शद्बो माक्रियता मित्याह माराविकः। मारावीति माङ्‌युक्तस्य रावीति रुधातोर्भावोचिणन्तस्यानुकरणम्। तदाहेति माशब्दादिभ्य उपसंख्यानमितिठक्। माराविदस्येति पाठे उक्तशब्दं ददातीति न एवार्थः। एवं तक्षकस्य सर्पस्येत्यप्युदाहार्यम्। अन्यदग्रे वक्ष्यामः।
क्तेन च पूजायाम् ।। 12 ।।
मतिबुद्धीतिविहितक्तान्तेन षष्ठी न समस्यते। पूजार्थान्मत्याद्यर्थाच्च तद्विधानात्पूजया तत्सूत्रविहितक्तप्रत्यय उपलक्ष्पते। तेनगत्याद्यर्थप्रकृतिकक्तान्तस्यापि निषेधः। राज्ञां मतो बुद्धः पूजितो वा। क्तस्यच वर्तमाने इतिषष्ठी। कलहंसराममहितः कृतवानित्यादौ तु कर्तुः सेषत्वे षष्ठी ततः समासः। शेष षष्ठया समासेऽन्तोदात्तत्वम्। अन्यथाकारकपरत्वात्कृदुत्तरपदप्रकृतिस्वरइतिविशेषान्न निषेध इति केचित्। अन्ये तु भूते क्तान्तात्कर्तारि तृतीया। पूजितो यःसुरासुरैरिति दर्शनात्। कृर्तृकरणे कृताबहुलमिति समासः। तेनेत्यधिकारे उषज्ञात इतिनिर्देशेन वर्तमाक्तप्रयोगानुरोधेन सामान्यापेक्षत्वाश्रयणादित्याहुः।
अधिकरणवाचिना च ।। 13 ।।
क्तेन षष्ठी न समस्यते। इदमेषांमासितं गतं भुक्तं वा। क्तोऽधिकरणेचोतिक्तः। अधिकरणवाचिनश्चेतिकर्तरि षष्ठी। वाचिग्रहणं स्पष्टार्थम्। किंवृत्तं यद्वृत्तं मित्यादौ भावे क्तः व्यधिकरणे बहुब्रीहिः। तद्वाकर्तरि क्तः। तृतीयासमास इत्याहुः।
कर्मणि च ।। 14 ।।
चकार इतिशब्दार्थः। कर्मणीति सप्तम्यन्तानुकरणम्। तंशब्दमुच्चार्य विहिता षष्ठी न समस्यते। उभयप्राप्तौ कर्मंणीति सूत्रविहितेति यावत्। चित्रं गवां दोहोऽगोपेन। अत्र तन्नियमात्कर्मणि षष्ठी। अथशब्दानुशामनमित्यत्र तु कर्तृकर्मणोरित्येव षष्ठी। शब्दानामनुशासनं नत्वर्थानामित्यर्थे कर्तृविशेषनिवृत्तावतात्पर्यात्। अतो नायं निषेध इत्याहुः। एतदभिप्रायेणैव अथातोब्रह्मजिज्ञासेत्यत्र कल्पतरावुक्तम्-प्रकृते तुब्रह्मकर्मत्वमेबोपादीयते नतु कर्तृमतोऽतिशय इति उभयप्राप्त्यभावात्कर्तृकर्मणोः कृतीत्येव षष्ठी। तेन ब्रह्मजिज्ञासेत्युपपन्नः समासइति। केचित्तु तत्राकाकारयोः स्त्रीप्रत्यययोः प्रतिषेध इत्याश्रित्योभयप्राप्तावित्यस्य बाधात् कर्तृकर्मणोरिति षष्ठी। अतः समास इत्याहुः। प्रसक्तिमात्रमुभयोरपेक्षितं नतु शाब्दमुपादानमिति तदभिप्रायः। अतएवशेषषष्ठ्या समासइतिपक्षोऽपि कैयटादिभिरुक्तः। केचित्यविशेषेण विभाषेति पक्षस्यापि तत्रवक्ष्यमाणत्वान्नियमाप्रवृत्तिपक्षे इदमित्याहुः।
तृजकाभ्यां कर्तरि ।। 15 ।।
कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः तृचः कर्त्रर्थत्वाव्यभिचारात्। कर्तरीत्यकस्यैव विशेषणं अपां स्रष्टा वज्रस्यभर्ता। नचयाजकादित्वाद्भर्तृशब्दे समासः शङ्व्यः। पत्यर्थस्यैव तत्र ग्रहणात्। ओदनस्य पाचकः कर्तरि किम्। इक्षूणां भक्षणमिक्षुभक्षिका। पर्यायार्हर्णोत्पत्तिषु ण्वुच्। धात्वर्थनिर्देशे ण्वुल्‌वा। अथ कथं घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः निजत्निनेत्रावतरत्वबोधिकामित्यादि। अत्र न्यासकारः। तृन्समासोऽयम्। नचतत्र नलोकेति षष्ठीनिषेधः। प्रकृतसूत्रेऽनुबन्धनिर्देशेन तदनित्यत्वसिद्धोरित्याह-शेषषष्ठ्यासमास इति कैयटादयः। अन्येतु जनिकर्तुः प्रकृतिः, तत्प्रयोजको हेतुश्चेत्यादिनिर्देशादयं निषेधोऽनित्य इत्याहुः।
कर्तरि च ।। 16 ।।
कर्तृषष्ठया अकेन सह समासो न स्यात्। भवतः शायिका। पर्यायार्हर्णेतिण्वुच्। तृचो योगे कर्तुरभिधानेन कर्तृषष्ठयाऽनुपपत्त्या नात्र तृचोऽनुवृत्तिः।
नित्यं क्रीडाजीविकयोः ।। 17 ।।
अर्थद्वये षष्ठी नित्यं समस्यते। नचात्र निषेधस्यैव नित्यत्वान्वयः सन्निहितत्वादिति वाच्यम्। तस्य प्रतिषेधारम्भसामर्थ्यादेव नित्यत्वात्। विधेश्चवैकल्पिकत्वेन तस्यैव नित्यत्वान्वये वचनसार्थक्यात्। उदृलिकपुष्पभाञ्जिका। संज्ञायामिति भावे ण्वुल्। क्रीडाविशेषस्येयं संज्ञाकिर्मणि षष्ठी। जीविकायां दन्तलेखकः। क्रीडायां विकल्प जीविकायां तृजकाभ्यां मित्यत्र कर्तरीति षष्ठया विशेषणं नतु प्रत्यययोः। नच कर्त्रर्थकतृचा योगे कर्तृषष्ठया असंभवात्तद्‌ग्रहणबैयर्थ्यम्। तस्योत्तरार्थत्वात् कर्तरिचेति सूत्रे हि कर्तृग्रहणं तृजकयोर्विशेषणम्। कर्त्रर्थकाभ्यां तृजकाभ्यां षष्ठी न समस्यते इति। एतन्मतेऽपि फलितार्थः। प्रागुक्तार्थेन तुल्य एव। किन्तु सूत्रद्वयेऽर्थव्यन्यय इति विशेषः। नित्यं क्रीडेतिसूत्रे अकप्रत्ययमात्रमुदाहरणमिति तुल्यम्।
वामनस्तु रमणीयकर्तेति जीविकायामपि तृचा समासमाह। अकेजीविकार्थे इतिसूत्रेऽकइति किमित्युक्त्वा तत्प्रत्युदाहरणात्। क्रीडायां लक्षणाभावेन तृजभावेऽपि जीविकायां ण्वुल्‌तृचाविति तृचोऽपिसुलभत्वात्। अतएव तृजुत्तरार्थ इति व्याख्यातम्। अन्यथा कर्मणिचेति सूत्रे तद्विच्छेदेऽत्राप्यननुवृत्तिप्रसङ्गदित्याहुः।
कुगतिप्रादयः ।। 18 ।।
कुशद्वो गतिसंज्ञाः प्रादयश्च समर्थेन नित्यं समस्यन्ते। कुशब्दः पापार्थोऽत्रगृह्यते नपृथिव्यर्थः। अव्ययसाहचर्यात्। अव्यये नञ्‌कुनिपातानामिति वार्तिकोक्त्या तस्याप्यव्ययत्वात्। कुपुरुषः कुत्सितः पुरुषइत्यर्थः। ईषदर्थेचेति कोः कादेशविधानात्तत्रापि समासः। ऊरीकृत्य। प्रादिग्रहणमगर्त्यथम्। तत्र विषयविभागो वार्त्तिकैरुक्तः-स्वती पूजायाम्। सुभुजा। अतिराजा नपूजनादिति समासान्तनिषेधः। अतिसिक्तमेव भवतेत्यतिक्रमणेऽप्यतिः समस्यते इति कैयटः। अतिरतिक्रमणेचेति कर्मप्रवचनयित्वात्षत्वाभावः। सुष्टुवमिप्यत्रोपसर्गत्वातषत्वम्। दुर्‌निन्दायाम्। दुर्गवः। समासान्तष्टच्। आङीषदर्थे। आकडारः। क्रियायोगे तु गतित्वात्समासः। आमन्द्रैरिन्द्रहरिभिर्याहि मयूररोमभिरित्यत्र तु सामर्थ्येऽपिइन्द्रं प्रत्यगतित्वात्तद्गतेषदर्थत्वाभावाच्च न समासः।
प्रादयो गताद्यर्थे प्रथमया। प्रगत आचार्यः प्राचार्यः। प्रान्तेवामी प्रपितामहः। वृत्तिविषये गताद्यर्थवृत्तीनां प्रादीनां गतित्वाभावेऽपि प्रादिग्रहणसामर्थ्यात्समासः। अत्यादयः क्रान्ताद्यर्थे द्वितीयया। अतिक्रान्तो मालामतिमालः। अवादयः कृष्टाद्यर्थे तृतीयया। अवकृष्टः कोकिलयाऽवकोकिलः। पर्यादयोग्लानाद्यर्थे चतुर्थ्या। परिग्लानोऽद्यययनाय पर्यध्ययनः। अलं कुमार्यै अलंकुमारिः। एकविभक्तिचेत्युपसर्जनत्वात् ह्रस्वः नित्यसमासत्वेऽपि चतुर्थीविधानसामर्थ्यात्पक्षे वाक्यम्। अतएवतत्सूत्रेऽलंकुमार्यैअलकुमारिरीति भाष्यम्।
दीक्षितास्तु नायमेतद्विषयः। प्रादिसमासस्यायं प्रपञ्च इति सिद्धान्तात्। अलंशब्दस्य च प्रादित्वविरहात्। किन्तु द्विगुप्राप्तापन्नालंपूर्वेत्यनेन ज्ञाप्यमानोऽलपूर्वस्तत्पुरुषोऽत्रसूत्रे पृथग्गतिग्रहणात्पर्याप्त्यर्तेनापि तेन भवन्नभिधआनानुरोधाच्चतुर्थ्यन्तेनैव भवति। तस्य चानित्यत्वं निर्बाधमेवेत्याहुः।
निरादयः क्रान्ताद्यर्थे पञ्चम्या। निष्कान्तः कौशम्ब्या निष्कौशाम्बिः। नच प्रादिग्रहणस्यागत्यर्थत्वात्कर्मप्रवचनीयानामपि समासापत्तिः। कर्मप्रवचनीयानां प्रतिषेधो वक्तव्य इति वचनेन तद्वारणात्। वृक्षे प्रति विद्व्योतते विद्युत्। अथ कथमधीत्येति। अधिपरी अनर्थकाविति कर्मप्रवचनीयत्वादितिचेत् अत्र केचित्। अध्यापकधूर्तैरिति निर्देशादनित्यो निषेधः। अतएव सुस्तुतमतिस्तुतमिति षत्वाबावेऽपि समासः कैयटादावुक्तः इत्याहुः। अधीत्य स्नात्वेति खट्वाक्षेपेसूत्रगतभाष्यप्रामाण्यादिति तत्वम्। अव्ययंप्रवृद्धादिभिः समस्यत इतिवक्तव्यम्। पुनः प्रवृद्धं बहिर्भवति। पुनर्गवम्। पुनः सुखम्। इवेन विभक्त्यलोप इत्यादि। अव्ययमव्ययेन प्रपयज्ञपतिमिति। उदात्तवता गतिमता च तिङाऽव्ययं समस्यते इतिवक्तव्यम्। अनुव्यचलत्। यत्परियन्ति। एतत्तत्वं सहसुपेत्यत्रोक्तम्।
उपपदमतिङ् ।। 19 ।।
उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्च समासः। कुम्भकारः। अतिङिति किम्। मा भवान् भूत्। अन्यथा माङिलुङिति सप्तमीनिर्दिष्टस्य माङउपपदत्वाल्लुङन्तेन समासःस्यात्। यद्यपि इहसूत्रेऽतिङिति नोपपदविशेषणम्। किन्तुसमासस्यैवेति स्पष्टतया भाष्ये नोक्तम्। तथापि अनवक्लूप्त्येति सूत्रे किंवृत्तस्यानधिकारादर्किवृत्तग्रहणानर्थक्यमित्युक्त्वा उपपदंसंज्ञार्थमित्याशङ्वय अतिङिति समासप्रतिषेधात्संज्ञानर्थक्यमिति सिद्धान्तितत्वाल्लभ्यते। पूर्वसूत्रेऽपि गतीतिपृथक्‌कृत्यातिङिति पृथक्‌योज्यम्। तेनप्रपततीत्यादौ न समासः। नचसुप्सुपेत्यधिकारादेव तिङन्तव्यावृत्तिरिति वाच्यम्। सुप्सुपेत्यस्य निवृत्तिज्ञापनार्थत्वात्। सुबिति प्रथमान्तं त्वनुवर्तते एव। अन्यथा राजदर्शीत्यादौ पूर्वपदस्यासुबन्तत्वान्नलोपो नस्यात्। निर्गत इतिरुत्वम्। संय्यन्ते तिपरसवर्मविकल्पश्च न स्यात्। सुप्‌सुषेति निवृत्तमितिभाष्यस्य तु एकदेशनिवृत्तावेव तात्पर्यमिति केयटादयः।
ननु कारको गत इत्यत्र तुमुन्ण्वुलौ क्रियायां क्रियार्थायां इति कर्तुं गत इत्यर्थे गतशब्दे उपपदे ण्वुल्‌विधानात्समास निवृत्त्यर्थं अक्रियार्थभतिङ्ग्रहणमस्तु। अन्यथा गतकारक इति स्यात्। अक्रियेत्युक्ते तु प्रकृतिवाच्यक्रियाश्रयप्रत्ययोप्तत्या क्रियावाचित्वान्न समास इतिचेन्ना। अतिङिति सुबन्तविशेषणतया सुबन्तस्य द्रव्यवाचित्वेन क्रियार्थत्वाभावात्। कृदन्ते प्रकृत्यर्थस्य क्रियायाः प्रत्ययार्थे कर्तरि विशेषणत्वात्। अतएव गतशब्दे समास्याप्यप्रसक्तिः। धातुमात्रस्योपपदत्वात्। धातोश्च क्रियावाचित्वात्तदाश्रयप्रत्ययोत्पत्तेः। नच तर्हिधातोरेव समासः स्यादिति वाच्यम्। प्रत्ययार्थेन सह संसृष्टस्य निः कृष्य समासस्याशक्यत्वात् सुबन्तत्वाभावाच्च। नचकारकस्य गतिरित्यत्र भावप्रत्ययस्य क्रियावाचकत्वात्तदन्तेन समासनिषेधार्थं अतिङ्ग्रहणं स्यादिति वाच्यम्। तत्रापि प्रत्ययेन सत्त्वरूपतापन्नाक्रियाभिधानात्। साध्यरूपक्रियाया धातुमात्रबोध्यत्वात्। सुबन्तस्य क्रियावाचित्वाभावात्। क्रियावाचिनश्च सुबन्तत्त्वाभावात्। कृदभिहितो भावो द्रव्यवत्प्रकाशत इतिन्यायात्। द्रव्यधर्मान्लिङ्ग संख्यादीन् गृण्हातीत्यर्थात्। अन्यदग्रे वक्ष्यामः। तस्मात्सुपेत्यस्य निवृत्तिरेव तत्प्रयोजनम्।
तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राग्सुबुसत्तेरिति परिभाषा ज्ञाप्यते। एकदेशानुमतिद्वारा समस्तपरिभाषाया लक्ष्यानुरोधेन ज्ञापनसंभवात्। गतीनां यथा। व्याजिघ्रतीति व्याघ्री। आतोऽनुपसर्गे कः। नच पाघ्रोति शप्रत्ययापत्तिः। जिघ्रतेः संज्ञायां प्रतिषेधारम्भात्। विआइति उपसर्गद्वयस्य घ्रशब्दात् सुपोऽनुत्पत्तावेव तेन समासः। अन्यथास्वार्थद्रव्यलिङ्गसंख्याकारकाणां क्रमेण प्रत्यय इति प्रक्रियामाश्रित्य पूर्वं लिङ्गाकाङ्क्षाध्रौव्येण तन्निमित्तकप्रत्ययो लक्षणान्तराभावाट्टाबेव स्यात्। घ्रशब्दमात्रस्य जातिवाचकत्वाभावात्। ङीषश्च सूकरीत्यादौ सावकाशत्वात्। पश्चाद्रतिसमासे व्याघ्राशब्दस्य जातिवाचित्वेऽपि अदन्तत्वाभावात् ङीष् न स्यात् सुबुत्पत्तेः प्रागेव समासे तु व्याघ्रशब्दस्य पूर्वंसिद्धौ जातिलक्षणो ङीष् सिद्धः। नच तत्रसामान्यनिमित्तटाबापत्तिः। अन्तरङ्गत्वात्समासस्यैव प्रवृत्तैः तदुत्तरं ङीषैव तद्बाधात्।
एवं कारकाणां अल्पैरभ्रैलिंप्ताअभ्रलिप्ती कर्तृकरणेकृता बहुलमिति समासः। ततः करणपूर्वादित्यनुवर्तमाने क्तादल्पाख्यायामिति ङीप्। यदि सुबुत्पत्यनन्तरं स स्यात्तदा पूर्वंटाबुत्पत्तौ ङीष् न स्यात्। अत इत्यधिकारात्। नच वचनसामर्थ्यम्। अभ्रौर्विलिप्ताद्यौरिति वाक्यावस्थायामपि ङीषापत्तेः। पूर्वशब्दस्य व्यवस्थावचनत्वम्। अतइत्यस्य प्रातिपदिकादित्यस्य चाधिकारस्य वाधो वेति कल्प्यत्वात्। साहि तस्य धनक्रीतेत्याद्यनुपपत्तेः। ननुत्वद्रीत्यापि उक्तप्रयोगोऽनुपपन्न एव। एवंदधिसेचावित्यादौसात्पदाद्योरिति षत्वनिषेधश्च नस्यादिति चेत्।
अत्राहुः। क्वचित्सुबुत्पत्तावपि कारकसमासो भवतीति सुपेत्यस्यनिवृत्तावेव तात्पर्यं नतु सुपः प्रागेव समास इत्यत्र। तथाच कार्यानुरोधात्क्वचिदुत्पन्ने क्वचिच्चानुत्पत्रे सुपि समास इति। दधिमेचावित्यत्र तुनिरुपपदात्सेचयतेः क्वपि कृते षष्ठीसमासेऽपि सिद्धमिति प्रागुक्तम्।
उपपदानां यथा कच्छेन पिबति कच्छपी। सुपीतियोगविभागात्कः। आतोनुपसर्गे इति कप्रत्ययः। जातिनिमित्तत्वेनावयवार्थबाधस्यावश्यकत्वादिति कैयटः। व्याघ्रीवद्व्याख्येयम्। यत्तु अतिङित्युपपदविशेषणं तेन प्रधानहारको व्रजतित्यत्र नेति तन्न। प्रथमान्तमुब्‌ग्रहणस्यापि निवृत्तिप्रसङ्गात्।
अमैवाव्ययेन ।। 20 ।।
अम्मात्रविधायकसूत्रे यत्सप्तभीनिर्दिष्टं तदेवोपपदं अव्ययेन समस्यते इति नियमोऽयं। इदंचामैवेत्यस्यावृत्त्या निरूपित्वस्य तृतीयार्थत्वात्। तस्यचोपपदविशेषणत्वाल्लभ्यते। अम्मात्रनिरूपितं यस्योपपदत्वं तदव्ययेन समस्यते इति पर्यवसानात्। तावन्मात्रस्य च पूर्वेणैव सिद्धत्वान्नियमविधिस्वाभाव्यात्तदेव समस्यत इत्यर्थसिद्धिः। एवंच तुल्यविधानमित्यध्याहारो नाद्‌रणीयः। स्वादुंकारम्। संपन्नंकारम्। लवणंकारम्। स्यादुमिणमुलितिस्वा दुग्रहणस्यार्थंपरत्वात्। निपातनात्पूर्वपदे मान्तत्वम्। अत्र प्रत्ययान्तरविध्यभावात्स्वादुशद्वस्याम्‌मात्रनिरूपितमुपपदत्वम्। अतएवाव्ययान्तरं प्रत्युपपदत्वाभावादमैव समासः। अग्रेभोजम्। अग्रेभुक्त्वा। अत्र तु विभाषाग्रेप्रथमपूर्वोष्विति क्त्वाणमुलोर्विधानान्न तन्मात्रनिरूपितं तत् इति न समासः। उभयनिरूपितोपपदसंज्ञाया भिन्नत्वे मानाभावात्। नियमफलंतु कालसमयवेलासु तुमुन्। कालो भोक्तुमित्यादौ माभूत्। अव्ययेनेति किम्। कुम्‌भकार इत्यादौ कुम्भादेः समासनिवृत्तिर्माभूत्। अन्यथा अमं प्रत्येव यस्योपपदत्वं तदेवोपपदं समस्यते इतिनियमपर्यवसानप्रसङ्गात्। नच पूर्वसूत्रस्यानवक शत्वादव्ययपरत्वं नियमस्य भिविष्यतीति वाच्यम्। अमन्तेन सह य उपपदसमासः सोऽमैव तुल्यविधानस्येति नियमापत्तेः। अग्रेभोजमित्यादौ समासाभावेऽपि अग्रेभुक्त्वा काले भोक्तुमित्यत्र दुर्वारत्वात्।
तृतीयाप्रभृतीन्यन्यतरस्याम्।। 21 ।।
उपदंशस्तृतीयायामित्यादौ यान्युपपदानि तानि अव्ययेन सह वा समस्यन्ते। उभयत्र विभाषेयम्। मूलकोपदंशं भुङ्क्ते मूलकेनोपदंशं भुङ्क्ते इत्यत्रमाप्ते, अव्ययेयथा भिप्रेताख्याने कृञःक्त्वाणमुलावित्यत्रोभयविधौ उच्चैः कारमाचष्टे इत्यत्र त्वप्राप्ते विधानात्। इहसमासे गतिकारकोपपदादिति कृदुत्तरपदप्रकृतिस्वरः। असमासे तु उच्चैरित्यन्तोदात्तम्। आदिर्णमुल्यन्यतरस्यामितिकारमित्याद्युदात्तम्। अमा सहैवायम्। नेहापर्याप्तो भोक्तुम्। पर्याप्तिवचनेष्वितितुमुन्।
क्त्वाच ।। 22 ।।
तृतीयाप्रभृतीन्युपपदानि त्त्क्त्वाप्रत्ययेन वा समस्यन्ते। समासपक्षे ल्यप्। उच्चैः कृत्य उच्चैः कृत्वा। अव्ययेऽयथाभिप्रेतेतित्त्का। तृतीयेति किम्। अलंकृत्वेत्यादि।
शेषो बहुव्रीहिः ।। 23 ।।
अधिकारोऽयम् शेषः किम्। उन्मगङ्गम्। येषां पदानां यस्मिन्नर्थे संज्ञान्तरं नोक्तं तेषां तद्‌र्थे यः समासः स बहुव्रीहिः। नचाकडारादेका संज्ञेति निनवकाशत्वादब्ययीभावादिसंज्ञा भविष्यन्तीति वाच्यम्। प्राक्‌कडारात्परंकार्यमिति पाठे परत्वाद्बहुव्रीहिसंज्ञाप्रसङ्गात्। एकसंज्ञाधिकारे तु त्रिकतः शेषो भाष्ये व्याख्यातः। तथाहि। द्वितीयाश्रितेत्यारभ्य द्वितीयादीनां त्रिकाणां षष्णांसमासउक्तः। ततश्च प्रथमायाः शेषत्वे प्रथमान्तानां पदानां बहुव्रीहिरित्यर्थासमानाधिकरणानामित्यपि सिद्धम्। कण्ठेकालइत्यादौ तु सप्तम्याः पूर्वनिपातविधानाज्ज्ञापकाद्बहुव्रीहिः।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम्। श्रीः ।?