श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः ३/आह्निकम् १

श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

अथ तृतीयः पादः प्रथममाह्निकम्।।
अनभिहिते ।। 39 ।।
अर्धिकारोऽयम्। द्वितीयादयो विभक्तयोऽनभिहिते कर्मादौभवन्तीत्यर्थः। अभिधानं प्रतिपादनं अश्वाभिधानीमादत्ते। अभिहितश्लोक इति बन्धनोच्चारणार्थयोः हिनोतेर्गतिवृध्द्यर्थयोरपि प्रकृतानुपयोगात्। तण्डुलं पचति चैत्रः। चैत्रेण तण्डुलः पच्यते। आद्ये कर्तर्याख्यातोत्पत्त्या कर्तृकर्मणोरभिहितत्वानाभिहितत्वाभ्यां तृतीयाविरहिद्वितीये। अन्ते च कर्मणोऽभिहितत्वात्कर्तुश्चानभिहितत्वात् द्वाभ्यां द्वितीयाविरहतृतीये।
अभिधानंच प्रायेण तिङ्कृत्तद्धितसमासैः। देवदत्तः पाचकः। कर्तरि ण्वुल्। देवदतेन पक्वस्तण्डुलः। कर्मणि क्तः। औरपगवः। चित्रगुः। तद्धितसमासाभ्यां जन्यजनकभावस्य स्वस्वामिभावस्य चोक्तत्वान्न षष्ठी। क्वचिन्निपातेनाप्यभिधानम्।
विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसाम्प्रतम्।
न युज्यते इत्यर्थः। अथकथं-
`स्मृत्वा वालिभुजौ न सांप्रतमवज्ञातुं च ते वानरा' निति मुरारिः। उच्यते। अवज्ञाननिरूपितं तत्र कर्मत्वम्। अतएवपक्त्वौदनं भुज्यते पक्त्वौदनो भुज्यते इत्युभयं प्रामाणिकम्।
`क्रमादमुं नारद इत्यबोधि सः'।
तथाहि। अयं नारद इति श्रीकृष्णसमवेतं ज्ञानं इतिशब्दश्च तदाकारपरामर्शकः अदःशब्दोत्तरद्वितीयाया विशेष्यत्वमर्थः। तथाचपूर्वोक्तव्यक्तिविशेष्यकनारदत्वप्रकारकज्ञानाश्रयः श्रीकृष्णइत्यर्थः। ज्ञानाकारपरमर्शकेतिशब्देन स्वपरामर्शनीयज्ञाने स्वाव्यवहितपूर्ववर्तिपदजन्यबोधप्रकारकत्वलाभात्। इदमेवकर्माभिधानम्।
अयन्तु विशेषः। द्वितीयाया ज्ञानार्थकधातुना योगे विशेष्यत्वमर्थः। घटत्वेन पटज्ञाने घटं जानातित्यादेरप्रयोगात्। इति शब्दस्य तु उक्तप्रकारबोधकत्वं पटं घट इति जानातीतिप्रयोगात्। अतश्च द्वितीयाया प्रकृत्यर्थावच्छेदकतदतिरिक्तधर्मप्रकारकत्वसाधारण्येन प्रकृत्यर्थविषयकत्वं इतिशब्देन च स्वपूर्वपदार्थतावच्छेदकधर्मातिरिक्तधर्मप्रकारकत्वं ज्ञानस्य नियमेव बोध्यते। विशेष्यं च पूर्वपदार्थोऽन्यो वेति न नियमः। अतएवामुमित्यत्र द्वितीया। विशेष्यत्वस्य इतिशब्देनानभिहितत्वात्। घटं जानातीत्यत्र तु प्रकारविशेष्ययोरेकपदोपात्ततया घटत्वापेक्षया घटपदे न द्वितीयाप्रसङ्गात्। नेदं प्रकृतोदाहरणं युक्तम्। तथापि व्यधिकरणप्रकारकस्थले तथात्वेऽपि प्रकृते ज्ञानस्य प्रमाणत्वात्। नारदविशेष्यतायाअपि तद्बोध्यत्वमित्यभिप्रायः।
नचैवममुमित्यत्रापि द्वितीया न स्यादिति वाच्यम्। अयं नारद इत्यबोधीत्यतो नारदविशेष्यकत्वस्य नियमतोऽनवभासनात्। इदंत्वावच्छिन्नविषयतातो नारदत्वावच्छिन्नविषयताया भेदादिति दिक्।
स्यादेतत्। कर्मादीनां तिङादिभिरभिधाने उक्तार्थानामप्रयोग इति न्यायेन द्वितीयादीनां प्रसक्त्यभावादयमधिकारो व्यर्थः। नचैको द्वावित्यादौ व्यभिचारः। तत्र प्रकृतिप्रत्ययार्थयोः संख्ययोर्भेदाभ्युपगमात्। यथा शतमित्यत्र प्रवृत्तिनिमित्तशतसंख्या द्रव्यादिनिष्ठान्या, विभक्त्यर्थभूता प्रातिपदिकार्थशतादिगतैकत्वसंख्या चान्या। तथात्रापि प्रवृत्तिनिमित्तं विभक्तिवाच्यम्चैकत्वं भिन्नमिति सम्भवात्। तदुक्तंहरिणा-
निमित्तमकमित्यत्र विभक्त्या नाभिधीयते।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते इति।।
अत्राहुः-गुणविशिष्टस्य कटस्य कर्मत्वं प्रतिपाद्यम्। द्वितीयोत्पत्तिं विना च कटस्य तद्विशिष्टत्वप्रत्ययाभावात्तस्यापि कर्मत्वं न स्यादिति सामानाधिकरण्यात् भीष्मादेर्द्वितीया। नच प्रथमैव स्यादिति वाच्यम्। विशेष्यपदोत्तरं द्वितीयाया एवोपस्थितत्वात्। पाठक्रमापेक्षया प्रथमायाः प्रमोपस्थितेरेतदपेक्षया बहिरङ्गत्वात्।
यद्वा विशिष्टस्य विधित्सायां धर्मिमात्रेण परितोषाभावाद्धर्माणामपिप्सिततमत्वात्तेषामपि कर्मत्वम्। तस्य चान्यवाचकपदोत्तरद्वितीययानभिधानात्। कृतः कट इत्यादौ तु क्तप्रत्ययस्य धातुत्तरवर्तित्वेन प्रातिपदिकार्थविशेषनिष्ठकर्मत्वमात्रानाभिधायकत्वादविशेषाद्धर्मधर्म्युभयनिष्ठतदभिधानात्सर्वेषां प्रथमान्तत्वमिति वैषम्यम्। अत एवारुणयैकहायन्येत्यादौ कारकविभक्तीनां क्रिययान्वयः शाब्दः। पार्ष्ठिकस्तु परस्परं विशेषणविशेष्यभावो, गुणस्य साक्षात्क्रयसाधनत्वाभावेऽपि तत्साधनगोरूपद्रव्यपरिच्छेदकत्वेनैव क्रपसाधनत्वनिर्वाहादिति मीमांसकाः। नीलं घटमित्यादावभेदः संसर्गः। भेदसंसर्गकनामार्थप्रकारकबुद्धावेव प्रत्ययजन्योपस्तितेहर्तुत्वात् विशेषणविभक्तिः साधुत्वार्था। एवमव्ययातिरिक्तत्वमपि नामविशेषणम्। चन्द्र इव मुखं, घटो नेत्यादौ अव्ययार्थे सादृश्येऽभावे च प्रतियोगितया चन्द्रघटादेः सादृश्यादेश्चानुयोगितया मुखादावन्वयात् इति नैयायिकाः। विशेषणविभक्तिरभेदार्था। अतो भेदसंसर्गकेति कार्यतावच्छेदके न देयम्। चन्द्र इवेत्यादौ चन्द्रादिपदोत्तराया विभक्तेः प्रतियोगित्वं, इवादिपदोत्तरायाश्चानुयोगित्वमर्थ इति तदेकदेशिनः।
स्यादेतत्। सूत्रारम्भपक्षेऽनभिहित इति प्रसज्यप्रतिषेधः, पर्युदासो वा। नाद्यः। असमर्थसमासवाक्यभेदयोरापत्तेः। प्रासादेआस्ते इत्यत्र प्रासादेक्रियाद्वियाधिकरणत्वात्। तस्य च सदिप्रकृतिकेन घञैवाभिधानात्तन्निबन्धनसप्तमीनीषेधप्रसङ्गात्। एतेन द्वितीयोऽपि निरस्तः। अभिहितस्याभिहितभिन्नत्वाभावात्। नच सदिक्रियानिरूपिताधिकरणशक्तेरभिधानेऽपि आसिक्रियानिरूपिताधिकरणशक्तेरनभिधानमाश्रित्य सप्तमीति वाच्यम्। आमने आस्ते शयने शेते इत्यादौ ततोऽप्यनिर्वाहात्। द्रव्यातिरिक्ते कारके प्रमाणाभावेन शक्तिरूपकारकभेदेनोभयोपादानस्यावश्यकत्वात्। द्रव्यस्वरूपातिरेकेण शक्तेः प्रत्यक्षानवगाह्यत्वात्। तत्पूर्वकानुमानस्यापि तस्यामप्रवृत्तेः। कार्यस्य द्रव्यान्वयव्यतिरेकमात्रानुविधायित्वेन कार्याभावप्रयोजकाभावप्रतियोगित्वेनापि तदसिद्धेः इति चेत्।
उच्यते। यदि द्रव्यमात्रं साधनं स्यात् तदातस्यैकरूपत्वात्तन्निबन्धनाबाधितप्रत्यभिज्ञानविषयत्वान्नानार्थक्रियाकरणनिबन्धनो व्यपदेशभेदो न स्यात्। दृश्यते चासौ क्व देवदत्त इति प्रश्ने असौ वृक्षे इत्युत्तरे अधिकरणत्वेन प्रतीयमानस्य वृक्षस्य कतरस्मिन्निति वृक्षविशेषप्रश्ने यस्तिष्ठतीत्युत्तरे कर्तृरूपतया प्रतीते। नह्यधिकरणतया कर्तृरूपतया च प्रतीत्योर्वैलक्षण्यमपलपितुं शक्यम्। तच्च विषयभेदायत्तं ज्ञानस्वरूपत्त्वे सौगतमतप्रवेशापत्तेः। अतस्तदुपपादकत्वेन कर्त्रादिरूपाः षट्‌शक्तयोऽवश्यमङ्गीकरणीयाः। यत्समावेशादेकस्मिन्नेव तत्तद्व्यपदेशभेदाः। अन्यथा कर्मकरणादीनां व्यवस्थैव स्यात्। तदेतदुक्तं वाक्यपदीये-नित्याः षट्‌शक्तयोऽन्येषामिति। ताश्च क्रियाभेदभिन्ना एव। अन्यथायं गमनस्य कर्ता नतु पाकस्येत्यादेरयोगात्। नतु द्रव्यव्यक्तिभेदेनापि तद्भेदो मानाभावात्। एवंच कर्तृत्वादिकं तासामनुगमकं शक्यतावच्छेदककमित्यप्यास्थेयम्। अन्यथा तदंशेऽनुगतव्यवहारोऽपि न स्यात्।
अथैवमासने आस्ते इत्यादि कथमिति चेत् अत्राहुः-आसनशयनकरणापादानसंप्रदानादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्‌भूतशक्तिकमभिधीयते। तत्र शक्त्युद्भवप्रतिपादनाय विभक्तिरवश्योत्पाद्या। ततश्चासिसाधनमितिभाष्यस्य साधनान्तरनिरासे तात्पर्यम्। शब्दव्युत्पत्तयेकेवलमत्रासिक्रियोपादीय ते इत्यर्थ इति। उद्भवश्चायमेव यदाधेयकालविशेषादिरूपनिरूपकविशीष्टत्वेन प्रतीतिः। आसनमित्यत्र कालविशेषस्याधेयविशेषस्य चानवगमात्। केवलस्य च लिङादेः प्रयोगानर्हत्वात्। धात्वन्तरप्रयोगे च क्रियान्तरनिरूप्याधिकरणानिरूपकस्यैवाधेयादेर्लाभादासिक्रियानिरूप्याधिकरणनिरूपकाधेयादेरनवगमतादवस्थ्यात्। अपि च प्रत्ययेनाधिकरणाभिधानेऽपि शक्त्यन्तरानाविष्टं शुद्धं शक्तिस्वरूपं न प्रत्याय्यते। आसनेनेत्यादौ कर्मादियोगानुभवात् विभक्तीनामेव शुद्धकारकशक्तिबोधकत्वात्।
उक्तं च भट्टपादैः। कृदन्तेन हि द्रव्यविशिष्टं कारकमुच्यते। नतु विभक्त्येव निष्कृष्टाशक्तिः। तथा च कारकं कारकेणेति स्यादिति। एवं च निष्कृष्टरूपप्रतिपत्तिरेव उद्भव इति दिक्।
नन्वेवमपि पक्त्वौदनो भुज्यते इति न स्यात्। क्त्वाप्रत्ययस्य कर्मार्थतायाः केनाप्यनङ्गीकारात्। आख्यातेन भुजिक्रियानि रूपितशक्त्याभिधानेऽपि पचिक्रियानिरूपितकर्मशक्तेरनभिधानेन द्वितीयापत्तेरितिचेत् मैवम्। प्रधानक्रियानिरूपितशक्त्यनुरोधेनैवाभिधानानाभिधानप्रयुक्तकार्याणां प्रवृत्तेः।
एतेन चैत्रेण भुक्त्वागच्छतीति भवत्येव। तद्वदित्यतिदेशेन प्रधानोक्तिप्रयुक्तकार्यातिदेशेऽपि स्वनिष्ठानभिधानप्रयुक्तनप्रयुक्तकार्यनिषेधाभावादतिदेशे तथैव व्युत्पत्तेरिति निरस्तम्। प्रधानानुरोधेनैव गुणकार्यप्रवृत्तेः कैयटादिविरोधाच्च। अतिदेशविरुद्धस्यैव स्वाश्रयस्य प्रवृत्तेः कर्मवत्सूत्रगतभाष्यादि सिद्धत्वात्। तदुक्तं हरिणा--
प्रधानेतरयो र्यत्र द्रव्यस्य क्रिययोः पृथक्।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते।।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते।
यदा गुणे तदा तद्वदनुक्तापि प्रतीयते।।
इति। अयमर्थः। वाक्यार्थे तिङन्तवाच्यैव क्रिया प्रधानम्। इतरत्वस्य प्रधानप्रतियोगिकत्वलाभायाजाद्यचदन्तस्यापतिरपदस्य परनिपातः। पृथक् इति शक्त्यन्वपि। क्रियाभेदेन कारकशक्तिभेदात्। अनुरुध्यते इति व्याचष्चे प्रधानेति। यदाभिधीयतेइत्यन्वयः। अनुक्तापि आख्यातेन। स्वप्रकृत्यर्थाक्रियानिरूपितशक्तिमात्राभिधानात्। क्त्वाप्रकृत्यर्थक्रियानिरूपितशक्तेरभिधातुमशक्यत्वात्। तद्वद्-उक्तवत्। गुणानां प्रधानमुखमेक्षितया एकस्मिन्नेव पदे प्रधानशक्त्याभिधानप्रयुक्तकार्यबोधेन स्वानभिधानप्रयुक्ततद्विरुद्धकार्यप्रयोजकत्वानुपपत्तेः। क्रियाद्वारकश्चतत्साधनयोः शक्त्योर्गुणप्रधानभाव इत्यर्थः। अङ्गुणविरोधन्यायोऽप्यत्रानुसंधेयः।
यत्तु मीमांसकैरुक्तम्। एवं सति ओदनं भुक्त्वा शास्त्रं पठ्यते `श्रुत्वाप्यर्थं नानुमतस्तेनसोऽर्थःकुबुद्धिने'त्यादिप्रयोगानुपपत्तिरतो यद्वृत्तिकारकत्वं स्वान्वयिक्रियाप्रतिपादकेन पदेन वृत्त्याप्रतीपाद्यं तत्वं प्रथमाप्रयोजकम्। अभिहितत्वं अन्वयश्च प्राथमिकः। तेनौदुंबरो यूपोभवति, स्वर्गकामो यजतेत्यत्र यूपम्भावयोदिति कर्मत्वलक्षणायामापि शक्तिजन्यबोधे कर्तृत्वस्योक्तत्वात्प्रथमोपपत्तिः। यत्र त्वन्वयानुपपत्त्यालक्षणाजन्यबोध एव प्राथमिकः। यथाऽग्निः पाके यतते चैत्रः इत्यत्राग्नेः करणत्वे तत्रयततिपदेनकरणत्वानभिधानात्प्रथमाया असाधुत्वमेव। पक्त्वौदनो भुज्यते इत्यादौ चौदनस्य पाचक्रियायां नान्वयः। किन्तुद्वितीयान्तौदनपदाध्याहार एवेति।
तदसत्। तत्र गुणप्रधानशक्तिभ्यांधर्मिभेदेनस्वानभिधानाभिधानप्रयुक्तकार्यारम्भे बाधकाभावात्। यत्पदोपस्थाप्यकारकनिष्ठशक्त्यभिधानं प्रत्ययेन तत्पदोपस्थाप्यकारकनिष्ठक्रियान्तरसाधनशक्तेरेव विरुद्धकार्यानारम्भकत्वाच्च। द्वितीये पदभेदेन तद्द्वेषाभावात्। नचैवं चैत्रेण भुक्त्वा चैत्रो गच्छतीति प्रयोगापत्तिः। समानकर्तृकत्वस्यव्यभिचाराभावेन गुणक्रियायां पृथक्‌कर्तृवाचकपदप्रयोगाभावात्। अतएव चैत्रोभुवत्त्वा चैत्रो गच्छतीति न प्रयोगः। कर्मैक्यस्यत्वनावश्यकत्वात्क्वचित्कर्मणः पृथक्‌प्रयोगोपीति अनेनजीवेनात्मनानुप्रविश्य नामरूपेव्याकरवाणीति वाक्यव्याख्यानप्रस्तावे तर्ककौतूहले विस्तरः।
प्रकृतमनुसरामः। यत्तु नव्यमीमांसकैरुक्तम्। पचतीत्युक्ते कीदृग्‌विधइति प्रश्नानुरोधेन तदुपपादकधर्मिज्ञानार्थंआख्यातस्यलक्षणयाकर्त्रादिपरत्वात् तादृशाभिधानादिकमेव विभक्तिव्यवस्तापकम्। नचैवं कृत्प्रत्ययेन शक्त्या तिङाच लक्षणया तदभिधानमिति उभयसाधारणाभिधानानुपपत्तिरितिवाच्यम्। वृत्त्या प्रतिपाद्यत्वस्य तदर्थत्वादिति। तदसत्। एवंसत्युभयापेक्षया कर्त्रादिशक्तेरेवानुशासनसिद्धायाः कल्पयितुमुचितत्वात्।
यदपि यत्रतु षष्ठोक्तन्यायेनाश्रयानेकत्वग्राहकं प्रमाणमस्ति। यथादम्पत्योः। तत्रयजेतेत्यादिविधिवाक्ये एववचनश्रवणान्नाख्यातेनाश्रयलक्षणा एकत्वानन्वयापत्तेः। द्वित्वलक्षणायांच प्रमाणाभावात्। अतस्तत्राख्यातेन कर्तृत्वत्वंलक्ष्यतावच्छेदककृत्यकर्तृत्वंलक्ष्यते नत्वाश्रयोऽपि। तस्पार्तादेववोधोपपत्तेः। स्वर्गकामादिपदस्यापि तत्र लक्षणया भाव्यमात्रपरत्वात्। प्रथमाप्रयोजकं तुसर्वत्रकर्तृत्वोक्तिरेव। साच यत्र कर्तारि लक्षणा तत्रकर्तृत्वप्रकारिकायत्र कर्तृत्वे लक्षणा तत्रकर्तृत्वविशेष्यकेतिभेदः।
अथवा कर्तृत्वादेः सामानाधिकरण्यसंसर्गेण कृतावन्वयात् तद्धटकतया संसर्गमर्यादयैवकर्त्रादेर्भानम्। तदादायैवानुशासनम्। एवं चाभिहितत्वलक्षणे वृत्त्येत्यपि नदेयम्। किन्तुसांसर्गिकविषयतासाधारण्येन शाद्बविधयाप्रतिपाद्यत्वमात्रमिति।
तदप्यमत्। लः कर्मणीत्याद्यनुशासनविरोधात्। संसर्गस्य शास्त्रतात्पर्याविषयकत्वात्। गुणाधिकरणे वैश्वदेवीत्यादौ प्रकृतिप्रत्ययार्थयोः संसर्गबलाद्देवतात्वप्रतीतिरिति पक्षदूषणाय संसर्गविधया भासमानस्य पदार्थानुशासनप्रवृत्तैरनुशासनानुपपत्तेरितिभीमांसाकौस्तुभे स्वयमेवाभिहितत्वात्। कर्तरिकृदित्यत्र वाच्ये इत्यर्थस्य वाप्यनुमतत्वादुत्तरत्रकथं चित् प्रतिपाद्ये इत्यर्थानुपपत्तेः। शब्दाधिकारस्याप्यनभ्यर्हितत्वात्। तज्जन्यप्रतीति विशेषस्यैवाभिहितपदार्थत्वाच्च। दण्डीत्यादिशाद्बेऽभेदस्य संसर्गत्वेऽपि तस्यदण्डिपदाभिधेयत्वव्यवहारविरहात्। यजेतेत्यादौ तु पदार्थतावच्छेदककर्तृत्वान्वयेऽपि संख्याया नक्षतिः।
तदाहुः। परस्परसापेक्षयोरेवाग्नीषोमयोरिवदेवतात्वं कर्तृन्वम्। कर्तृरूपैक्याच्चाख्यातोपात्तसंख्याग्नीषोमौ देवतेतिवत्सह प्रयोगेऽप्यविरुद्धेतिदिक्।
नैयायिकास्तु अनभिहितसंखअयाके इति अधिकारार्थः। चैत्रः पचतीत्यत्र कर्तृसंख्यायाः पच्यते तण्डुलइत्यत्रकर्मसंख्याया एचाख्यातेनाभिधानात्। नच कर्तृकर्मणोः समानवचनत्वे उभयसंख्याभिधानापत्तिः। साकाङ्क्षे एव तदन्वयात्। तदुक्तमाचार्यैः--
आक्षेपलभ्ये संख्येये नाभिधानस्य कल्पना।
संख्येयमात्रलाभेऽपि साकाङ्क्षेम व्यवस्थितिरिति।
नच सुपैव एकत्वप्रत्ययात्तिङो न तदर्थत्वं। चैत्रोश्च गच्छतित्यत्र द्वित्वप्रतीतेस्तिङ्‌मात्रसाध्यत्वात्। नच तत्र सुप एव द्वित्वेलक्षणा। सुब्विभक्तौ लक्षणाङ्गीकारे व्यत्ययानुशासनविरोधात्। नच विभक्त्यन्तरार्थ एव सुपो न लक्षणा, द्वित्वं तु तद्विभक्त्यर्थोऽपीति वाच्यम्। तथापि चैत्रद्वयादेरेवबोधप्रसङ्गादुभयनिष्ठद्वित्वप्रतीत्यनुपपत्तेः। प्रकृत्यर्थमात्रगतसंख्याबोधकत्वस्य तत्र व्यत्पत्तेः। नचैकत्वेनोपस्थिते कर्थ द्वित्वान्वयः। तस्यावविवक्षितत्वात्। द्वयोः प्रत्येकमेकत्वबोधेऽपि द्वौ गमनानुकूलकृतिमन्तावितिबोधोपपत्तेः। नच ब्राह्मणाः पठत इत्यत्र बहवो ब्राह्मणाः द्वौ पठनानुकूलकृतिमन्ताविति बोधापत्तिः। आख्यातजन्यद्वित्वबोधे ब्राह्मणाः पठत इत्यादिज्ञानस्य प्रतिबन्धकत्वात्। नच तथापि आख्यातैकवचनस्यैकत्वे शक्तौ न मानमिति वाच्यम्। तण्डुलं पचतीत्याद्यनुरोधेनद्वितीयाद्येकवचनानामेकत्वेशक्तवपिप्रर्थमैकवचनस्यैकत्वशक्तौ विनिगमकाभावात्।
तथाचाख्यातार्थसंख्याप्रकारकबोधे भावनाप्रकारतनिरूपितविशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितिर्हेतुः। भावनायाश्चविशेष्योऽन्याविशेषणत्वे सतिप्रथमान्तपदोपस्थाप्यः। भावनाया आश्रयाकाङ्क्षत्वात्पुरुषस्यापि क्रियाकाङ्क्षत्वात्।
तदुक्तमाचार्यैः। नह्यन्यतराकाङ्क्षान्वयहेतुः, किन्तूभयाकाङ्क्षा। प्रातिपदिकार्थो हि फलेनान्वयमलभमानः क्रियाम्बन्धमपेक्षते। भावनापि व्यापारभूता सतीव्यापारिमित्युभयाकाङ्क्षेति। तस्मात्तिङि संखअयाभिधानानभिधानाभ्यां कृत्प्रत्ययस्थलेतुकर्तृकर्मणोरभिधानानभिधानाभ्यां व्यवस्था। अनभिहितइत्यस्यचकर्तृकर्मसंख्यायाः कर्तृकर्मणो र्वानभिधाने इत्यर्थः। एतेन कर्त्रेकत्वत्वादिना शक्तौगौरवमित्यादिकमपास्तम्।
नव्यास्तु पच्यते तण्डुलइत्यत्र फलावच्छिन्नक्रियायाधात्वर्थत्वे कर्तृक्रियायाश्चाधेयत्वार्थत्वे मैत्रवृत्तिव्यापारजन्यफलशाली तण्डुलइति बोधो न स्यात्। शक्तिशाद्बयोर्विशेषणविशेष्यभावविपर्ययापत्तेः तस्माद्व्यापारो धात्वर्थः, फलमात्मनेपदार्थः, जन्यत्वं संसर्गः, मैत्रवृत्तिकृतिजन्यव्यापारजन्यफलशालीतिबोधः। एवंच पचतीत्यत्रकृतेः, पच्यतेइत्यत्रफलस्याभिधानानभिधानाभ्यआंव्यवस्था घटो ज्ञायतेइत्यादौ विषयताया घटो नश्यतीत्यादौचप्रतियोगिताया अपिभाक्तेकर्मत्वकर्तृत्वे तत्साधारणस्यैवाभिधानम्। कृत्प्रत्ययेचसामानाधिकरण्यानुरोधेन विशिष्टवाचित्वेऽपि विशेषणस्याप्यभिधानसत्त्वेन सर्वत्रैकरूप्योपपत्तेः। कृतामपि कृतावेवशक्तिः तद्विशिष्टे लक्षणेति तु न युक्तम्। क्वचिदपि कृतिमात्रबोधस्य कृत्प्रत्ययादभावादित्याहुः।
कर्मणि द्वितीया ।। 40 ।।
अनभिहितेकर्मणि द्वितीया स्यात्। ग्रामङ्गच्छति ओदनं पचतीत्यादि। द्वितीयादयः शब्दाः सुपां त्रिकेषु वर्तन्ते पूर्वाचार्यव्यवहारात्। एवं च सङ्केतविशेषसम्बन्धेन द्वितीयादिपदवत्त्वमेव द्वितीयात्वादि। अन्यथातिप्रसक्तत्वात्। कर्माद्यर्तत्वस्यान्योन्याश्रयग्रासात्। आख्यातादौ व्यभिचाराच्च। इह स्वादि सूत्रैकचाक्यतयाविधिः। वाक्यभेदेन नियमो वा। सोऽपि कर्माणद्वितीयेत्यादि प्रकृतार्थापेक्षः प्रत्ययनियमः। द्वितीयाकर्मण्येवेत्यादिरर्थनियमो वेति सर्वे पक्षा ग्रन्थारूढाः।
सुपां कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिङाम्।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा।। 1 ।।
इति भाष्योक्तेः। इह तिङामिति स्वारस्यात्सुपामपि कर्मादिकमेव वाच्यम्। नतु कर्मत्वम्। तिङां कर्मत्वार्तकत्वे तयोरेवेति सूत्रे तयोरेवानुवृत्तौ कृतामपि तत्परत्वापत्तौ कृतः कट इत्यादौ सामानाधिकरण्येनान्वयायोगात्। लः कर्मणि, कर्मणि द्वितीयेत्यादौ धर्मपरत्वालाभाच्च। घटामत्यत्र घटः कर्मेत्यभेदबोधात्कर्मत्वसंसर्गेम घटादेरानयनाद्यन्वयाच्च प्रकारत्वसंसर्गत्वाभ्यां कर्मत्वादिभानमिति न युक्तम्। अनुभवविरोधात्।
नच घट आनयनकर्म घटीयमानयनमित्यादिव्यवहारात् उभयमपि प्रामाणिकमिति वाच्यम्। पर्वतो वह्निसंयोगी पर्वतीयोवह्निरित्यादिव्यवहारेण पर्वतो वह्निमानित्यादौ पर्वते वह्निसंयोग्यभेदोऽथच संयोगसम्बन्धेन वह्निः प्रकारः इत्यस्यच प्रसङ्गात्। नचेष्टापत्तिः। वह्निसंयोगिनमनुमिनोमीत्यनुव्यवसायानुदयात्। वह्निसंयोग्यभेदस्य व्यापकतावच्छेदकसम्बन्धत्वाभावेनानुमितौ विषयत्वानुपपत्तेरन्यथातिप्रसङ्गात्। अनुमित्याकारकथने न तस्य तात्पर्यं किन्तु वस्तुगतिकथनमात्रे इत्यस्यापि तुल्यत्वात्।
नच वह्निसंयोगिनोऽपि लिङ्गान्तरेण प्रत्यक्षांदिना वा ग्रहणात्तथायुक्तं, इहतु घटस्य कर्मत्वसम्बन्धेन कुत्राप्यानयनानन्वये वस्तुतोऽपि तत्कथमिति वैषम्यमिति वाच्यम्। शाब्दबोधाभावेऽपि वस्तुत आनयने कर्मत्वेन घटसत्त्वेन तदुपपत्तेः। सदृशज्ञानान्तरमादायैव साम्यात्। यत्प्रकारकयत्संसर्गकयद्विशेष्यकशाब्दबोधो नभवति तादृशज्ञानान्तरमपि नभवति इति नियामकाभावात्। दण्डसंयोगेन पुरुषे शाद्बबोधानुदयेऽपि तादृशचाक्षुषादीनां सर्वसिद्धत्वात्। अत एव तण्डुलः पचतीत्यादौ तण्डुलादेः कर्मत्वसम्बन्धेन पाकान्वयापत्तिरित्यादिकं सङ्गच्छते। पटादेरभेदेन कर्मान्वये निराकाङ्क्षतया कर्मत्वसम्बन्धेन धात्वर्थान्वयानुपपत्तेश्च। घटकर्मकं घटवच्चानयनमितिबोधाभावाच्चेत्यास्ताम्।
आधार आधेयं वा द्वितीयार्थः। ओदनं पचतीत्यत्र ओदनरूपो य आधारस्तद्विशिष्टाया विक्लित्तेर्वोधात्। आधेयत्वं संसर्गः। ओदनाधेया वा विक्लत्तिरर्थः। आधेयरूपप्रत्ययार्थस्य प्रकृत्यर्थं प्रति विशेष्यत्वात्।
आधेयत्वमेव संसर्ग इति पक्षान्तरम्। तत्रापि आधेयत्वस्य संसर्गत्वं प्रकृत्यर्थप्रकारतानिरूपितप्रत्ययार्थाविशेष्यतायां प्रत्ययार्थप्रकारतानिरूपितधात्वर्थविशेष्यतायां वा। नाद्यः। स्वनिष्ठविशेष्यतायां स्वस्यैव संसर्गत्वानुपपत्तेः। नान्त्यः। स्वनिष्ठप्रकारतायामपि तदयोगात्। तस्मादोदनस्य निरूपकत्वसम्बन्धेन द्वितीयार्थैकदेशे आधेयत्वे तद्वतश्चाभेदेन धात्वर्थे विक्लित्तावन्वयादोदननिष्ठाधिकरणत्वनिरूपितं यदाधेयत्वं तद्वदभिन्ना या विक्लित्तिस्ततज्जनको मैत्रकर्तृको व्यापारइति वाक्यार्थ इति युक्तम्। आकृत्यधिकरणरीत्या आधारत्वमाधेयत्वं वाऽर्थ इति पक्षान्तरम्।
वस्तुतो मतद्वयेऽपि तण्डुलं पचतीत्यत्राधेयत्वं मैत्रेणपच्यते तण्डुलइत्यत्राधिकरणत्वरूपं कर्मत्वं द्वितीयाख्यातयो र्यथाक्रममर्थः। तथाच तण्डुलवृत्तिर्याविक्लत्तिरित्यादिः पूर्ववद्वोधः।
द्वितीये तु तण्डुलस्याभेदेनतिङर्थआधारे स्वरूपसम्बन्धरूपवृत्तित्वेनाधारत्वे वान्वयः। आधारस्य वृत्तित्वेन आधारत्वस्य स्वनिरूपकसम्बन्धेनधात्वर्थे विक्लित्तावन्वयः। ओदनरूपं यदधिकरणं तद्‌वृत्तिर्याविक्लितिः तण्डुलनिष्ठाधिकरणत्वनिरूपकाधेयत्ववती वा याविक्लित्तिस्तज्जनको व्यापार इति बोधे तात्पर्यम्। अत एवचैत्रेण पच्यते तण्डुल इत्यत्र तृतीयार्थो व्यापारः धात्वर्थः फलं अधिकरणं तिङर्तः व्यापारस्य जन्यत्वेन फलेऽन्वयः ततश्चैत्रवृत्तिव्यापारजन्यविक्लित्यधिकरणं तण्डुल इति सतमाख्यातदीधितौ परैरुपन्यस्तमिति विभावनीयम्।
मतान्तरन्तु संसर्गा पवैते विभक्तयस्तु तात्पर्यग्राहका एवेति। इदंच कारकातिरिक्तस्य प्रातिपदिकार्थत्वपक्षे कारकस्यापि नामार्थत्वे संसर्गत्वस्याप्यनुपयोगादिति दिक्।
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते।।
तसित्युभयान्वयि। तसिलन्तयोरुभसर्वशब्दयोर्योगे द्वितीया। वचने तु छान्दसत्वादुभेत्युक्तम्। अयमो नित्यत्वस्य पूर्वमुक्तत्वात्। धिगित्यविभक्तिकम्। जश्भाव आर्षः।
केचित्तु सप्तम्या अलुक्। प्रकृतिवदित्यतिदेशात्। अन्यथा गवित्ययमाहेत्यत्र वलोपस्येवात्रापि जश्त्वस्याप्रमक्तेः। नचाये गान्त एव `कस्यचद' इत्यस्याप्रवृत्तौ धकिदिति रूपस्य सर्वसंमतस्यानुपपत्तेरित्याहुः।
तच्चिन्त्यम्। छान्दसत्त्वस्योभयथाप्यविशेषात्। नच प्रकृतिवदित्यव्ययत्वातिदेशादेव लुगितिवाच्यम्। सप्तम्या एव तथा सत्यनुपपत्तेः। प्रथमैकवचनमात्रस्य ततोऽङ्गीकारात्।
नचकार्यविशेषपुरस्कारेण तत्प्रवृत्त्यप्रवृत्तिभ्यां निर्वाहः। अतिदेशस्यानित्यत्वादिति वाच्यम्। कल्पनायां लाघवानवतारात्। अतिदेशेन पदत्वस्यैवानेतुं युक्तत्वाच्च। नचधिगित्यस्योपर्यादिभिर्द्वन्द्वः। त्रित्वस्य धिक्‌शब्देऽनन्वयात्। कृतद्विवचनत्वार्थस्याम्रोडितान्तेषुइत्यस्य तत्राप्यन्वयप्रसङ्गात् च। उभयतः कृष्णं गोपाः। सर्वतः कृष्णम्। इह प्रतियोगित्वं द्वितीयार्थः तस्योभयपदार्थेऽन्वयः। कृष्णप्रतियोगिकोभयपार्श्ववर्तिन इत्यर्थः। धिक्‌कृष्णाभक्तमित्यत्र विषयित्वं द्वितीयायाः। धिक्‌पदस्य च निन्दार्थः। कृष्णाभक्तविषयिका निन्दा। द्वितीया प्रकृत्यर्थविशेषणस्यैव निन्दाया हेतुत्वं व्युत्पत्तिलभ्यम्। कृष्णभक्त्यभावेनैव निन्दाप्रवृत्तेः। सच निन्दायां विशेष्यतावच्छेदकत्वेन भासते। कृष्णभक्तिरहितत्वाच्छेदेन निन्दाप्रतीतेः।
क्वचित्तु विशेषणपदार्थानामेव निन्दानिमित्तत्वं धिक्करभमसतिदीर्घग्रीवमित्यादौ क्वचित्तात्पर्यगम्यानां धिक्‌तञ्च तां च मदनं चइमां चमांचेत्यादौ यां चिन्तयामि सततं मयिसानरक्ताइत्यादि विशेषणगम्यस्यस्वविषयकानुरागाभाववद्विषयकानुरागवत्त्वादेः।
कथं धिङ्‌मूर्खेति। अत्राहुः सम्बोधनस्य क्रियान्वयेन धिक् शब्दयोगो नास्ति। आक्षेपेण क्रियापदस्यात्रापि सुलभत्वात्। तत्त्वन्तु मूर्खत्वप्रयुक्तनिन्दाविवक्षायां द्वितीया। अत्र तु निमित्तान्तरप्रयुक्तानिन्दा। रत्नावलीव कान्ता मम हस्ताद्‌भ्रंशिताभवतेत्यादिना सागरिकाविच्छेदकारित्वेन निन्दाप्रतीतेः। एवमन्यत्रापि योज्यम्।
मीमांसकास्तु आधारत्वं द्वितीयार्थः तस्य च स्वनिरूपकधिक्काराश्रयसम्बन्धेनभावनायामन्वयः। धिङ्‌मूर्खेत्यत्र मूर्खस्य सम्बोधनद्वारा क्रियान्वये धिक्कारघटितसंसर्गेण तदनन्वयात्प्रथमेत्याहुः।
केचित्तु उपपदविभक्तेः कारकविभक्तिर्बलीयसीति सम्बोधनविभक्तिरेव। नच तस्य कारकत्वे मानाभावः। देव प्रसीदेत्यादौ वस्तुतः सम्बोध्यस्यकर्तृत्वेऽपि देव त्वांभजे इत्यादौ तदभावाद्वास्तवक्रियाश्रयत्वमात्रेण तथात्वेऽतिप्रसङ्गादिति वाच्यम्। उपपदविभक्त्यन्यविभक्तेरेव कारकविभक्तित्त्वेन विवक्षितत्वात्। उपपदविभक्तित्वंच-शब्दविशेषयोगेनविहितत्वम्। अतोनान्योन्याश्रयः। नच कर्त्रादिषडन्यतमार्थविहितत्वं कारकविभक्तित्वं तदन्यविभक्तित्वंचोपपदविभक्तित्वमित्येव किं न स्यादिति वाच्यम्। गुरुत्वात्। शब्दविशेषयोगस्य तत्तत्प्रत्येकोपपदविभक्तौ सुग्रहत्वात्। उक्तग्रहेच कर्त्रादिसर्वार्थानामुपस्थितेरपेक्षितत्वात्। अन्यथा तद्धटितान्यतमत्वग्रहायोगादित्याहुः।।
उपर्य्युपरि अध्यधि लोकं हरिः। नवानधोबृहतः पयोधरान् उपर्यध्यधसः सामिप्ये इति द्वित्वम्। एवंच वीप्साप्रयुक्तद्वित्वे न द्वितीयेतिकैयटाशयः। तेन उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः इत्यादिसिद्धम्। उपरिबुद्धीनामिति पृथक्‌पदमिति केचित्। इनपदस्यश्रेष्ठषरतया बुद्धिश्रेष्ठामिति द्वितीयान्तमेवेत्यन्ये।।
तन्न इनपदस्य विशेष्यलिङ्गत्वे प्रमाणाभावाद्बुद्धिमित्यध्याहारापत्तेश्च। तत्र सामीप्यविशिष्ट उपरितनो देश उपर्युपरिशब्दस्य, तादृश एवाधस्तनो देशोऽधोध इत्यस्यार्थः। निरूपितत्वं द्वितीयार्थः। लोकनिरूपितं यत्सामीप्यं तद्विशिष्टोर्ध्वदेशवृत्तिर्हरिः। एतेनाध्यधिलोकं हरिरिति व्याख्यातम्। अधिशब्दोऽत्रोपर्यर्थे वर्तते इति षष्ठी प्राप्नोतीति कैयटोक्तेः। पयोधरनिरूपितसामीप्यवान् योऽधोदेशस्तद्वृत्तिं नारदमित्यर्थः।
ततोऽन्यत्रापीत्युक्तान् परिगणयति वृत्तिकारः। `अभितः परितः समयानिकषाहाप्रतियोगेपी'ति। `पर्यभिभ्यां चे'ति तसिलन्तावभितः परितः शब्दौ उभयतः सर्वत इत्यनयोरर्थे वर्तेते। अभिमुख्यवृत्तेरप्यभितः शब्दस्य तिङन्तप्रतिरूपकनिपातस्यात्र ग्रहणमिति कैयटः।
यत्तु तसिलन्तस्य लाक्षणिकत्वान्न ग्रहणमिति तन्न। अन्यत्रेति शब्देन द्वयोरप्युपादानात्। स्वरूपेणोपादाने एव लक्षणप्रतिपदोक्तपरिभाषावतारात्। समयानिकषाशब्दौ समीपार्थौ। सर्वत्र षष्ठी प्राप्ता। ग्रामं समया। लङ्कां निकषा। अधिकरणप्रधानावेतौ। प्रतियोगित्वं द्वितीयार्थः। ग्रामलङ्काप्रतियोगिकसामीप्याश्रये देशे इत्यर्थः। हाशब्दः शोकार्थः। हा कृष्णाभक्तम्। तद्विषयकः शोक इत्यर्थः। हा तातेत्यादावन्तरङ्गत्वात्संबोधनविभक्तिरिति कैयटः।
बुभुक्षितं न प्रतिभाति किञ्चित्। क्रियायोगादुपसर्गोऽयं प्रतिशब्दो न कर्मप्रवचनीयः। अत्राधेयत्वं द्वितीयार्थः। विषयत्वमाख्यातार्थः। स्वरूपसंबन्धः प्रथमार्थः। तथा च किञ्चिन्निष्ठं प्रतिभाविषयत्वं बुभुक्षितवृत्त्यभावप्रतियोगिप्रतिभानिष्ठविषयतानिरूपितम्। यद्वा किञ्चिन्निष्ठाभावप्रतियोगिप्रतिभाविषयत्वं बुभुक्षितवृत्तिप्रतिभानिष्ठविषयतानिरूपितम्। यद्वा किञ्चिन्निष्ठाभावप्रतियोगिप्रतिभाविषयत्वं बुभुक्षितवृत्तिप्रतिभानिष्ठविषयतानिरूपितमिति नव्यमीमांसकाः।
तच्चिन्त्यम्। किञ्चिन्निष्ठप्रतिभाविषयत्वस्य बुभुक्षितनृत्त्यभावप्रतियोगिनी या प्रतिभा तद्विषयत्वस्य चैक्येन निरूप्यनिरूपकभावानुपपत्तेः। बुभुक्षितवृत्तिप्रतिभास्वीकारे प्रतिभाविषयत्वस्य किञ्चिन्निष्ठाभावप्रतियोगित्वानुपपत्तेश्च। प्रतिभाया ज्ञानरूपायाः सविषयत्वनियमात्।
वस्तुतस्तु बुभुक्षितवृत्तिनिरूपितत्वं स्वविषयकत्वं चेत्युभयसम्बन्धेन प्रतिभात्यन्ताभाववत्किञ्चिदिति धीः। यद्वा किञ्चिद्विषयकप्रतिभाविरहो बुभुक्षितवृत्तिः। एतेन स्त्रीरत्नलाभोचितयत्नमग्नमेनं हि न स्य प्रतिभाति किञ्चिदिति नैषधं व्याख्यातम्।
दृशिग्रहणादन्येऽपि चैत्रं यावच्छीतम्। तत्पर्यन्तकालनृत्त्यभावाप्रतियोगि शीतमितिधीः। उष्णत्वे एव तदभावप्रतियोगित्वसिद्धिः। पुरुषाराधनमृते। ऋतेद्वितीयाचेतिचान्द्रसूत्रम्। पञ्चमीत्वग्रे विधेया। अथस्तोकंपचतीत्यादौ क्रियाविशेषणे कथं द्वितीया विधायकाभावादिति चेत्।
अत्राहुः। विक्लित्यादेः फलस्य धातूपात्तभावनां प्रति कर्मत्वात् तत्सामानाधिकरण्यात् द्वितीया। अतएव सकृल्ल्वावित्यादौ कारकपूर्वत्वाद्यण्। नच विक्लित्यादेः क्रियाजन्यफलाश्रयत्वाभावेन कर्मत्वाभावात्तद्विशेषणे सुतरां द्वितीयानुपपत्तिः। विक्लित्तिवत्तदुत्पत्तेरपि विक्लित्तिमुत्पादयतीति विवरणानुरोधेन धातुवाच्यत्वात्क्रियाजन्योत्पत्तित्त्वेन विक्लित्तेर्मुख्यकर्मत्वात्। सुखंस्वपितीत्याद्यकर्मकधातुयोगेऽपि शरीरलाघवादेः सुखसाधनत्वात् सुखपदस्य सुखसाधने लक्षणा। सुखसाधनं शयनं करोतीत्यर्थः स्वव्यधिकरमफलहेतुव्यापारवाचित्वाभावेनाकर्मकत्वात्। धात्वर्थस्य चासत्त्वभूतत्वेन लिङ्गविशेषानन्वयात् तद्विशेषणे सामान्यविषयं नपुंस्कमेव। अतएवादिं पचतीत्यादौ नातिप्रसङ्गः। नियतलिङ्गेषु सामान्यप्रवृत्तानपकाशात्। कृद्योगषष्ठीकर्मलकारयोश्च मुख्यकर्मण्येव प्रवृत्तेः। अतस्तोकमोदनः पच्यते स्तोकमोदनस्य पक्ता इत्यादौ द्वितीया।
यत्र तु विधिवशाद्धात्वर्थस्य करणत्वं तत्र तद्विशेषणे तृतीया। ज्योतिष्टोमेन यजेतेति ज्योतिष्टोमाख्येन यागेन स्वर्गं भावयेदिति स्वर्गस्य भाव्यत्वेनान्वये धात्वर्थस्य तदभावात् करमत्वाङ्गीकारात्। तत्रापि समीचीनमित्यादिविशेषणंभावनाया नतु धात्वर्थस्य। अतएव सा प्रथमैव नतु द्वितीयेति।
वस्तुतस्तु अननुष्ठितम्य यागस्य फलसाधनत्वायोगात्तस्याप्यर्थाक्षेपेण भाव्यत्वाङ्गीकारात्तदवस्थामादाय द्वितीयान्तत्वेऽपि नक्षतिः। अतएवोद्भिदायजेतेत्यत्र गुणविधित्वपक्षेअर्थाक्षिप्तभाव्यत्वे करणत्वेनान्वयोपपत्तेर्मत्वर्थलक्षणा नास्तीति मीमांसकाः। नच सकलकारकाणां क्रियाविशेषणत्वादतिप्रसङ्गः। कारकाणां विभक्त्यर्थत्वादसत्तवरूपत्वाच्च। शक्त्याधारस्तु यद्यपि नामार्थः सत्त्वरूपश्च तथापि नक्रियाविशेषणम्। किन्तुतादृशकारकविशेषणमेव। अतएव नामार्थस्य भेदेन धात्वर्थान्वयो नास्तीति सिद्धान्त इति।
अत्र मीमांसकाः। व्यापारव्यधिकरणधातुवाच्यमुख्यफलाश्रयरूपकर्मण्येव लकारषष्ठ्योः प्रवृत्तौ चैत्रेणास्यते मासः, सुप्यते रात्रिरिनि कर्मलकारानापत्तिः। तादृशफलसत्त्वे तस्यप्राकृतमकर्मकत्वं न स्यात्। उत्पत्तिफलयोरन्यलक्ष्यत्वेन धातुवाच्यकल्पनानर्हत्वाच्च। अतस्ततोऽन्यत्रापि दृश्यते इत्यनेन तत्र द्वितीया। अतएव नकर्मणि लकारषष्ठ्यौ इत्याहुः।
तन्न। `देशकालाध्वगन्तव्याः कर्मसंज्ञाह्यकर्मणा'मिति भाष्ये कर्मसंज्ञाविधानस्य तत्प्रयुक्तलकारषष्ठीसिध्यर्थत्वात्। अन्यथा द्वितीयामात्रविधानापत्तेः। धातुक्रोडीकृतस्यकर्ममोलकारेण नाभिधानमपितु तद्वाह्यस्यैव विक्लित्यादेश्च धात्वर्थबाह्यत्वादित्यत्रदोषाभावाच्च।
इदंत्वत्रवक्तव्यम्। फलव्यापारयोर्धात्वर्थत्वेऽपि उत्पत्तिः कस्यार्थः यामादायफलस्य कर्मत्वं स्यात्। आख्यातस्येति चेत् न, तथात्वस्यान्यत्राकल्पितत्वात्। तत्प्रकारकबोधे धातुजन्यफलोपस्थितिहेतुत्वकल्पनापत्तेश्च। व्यापारएवधात्वर्थान्वयस्यान्यत्र क्लृप्तत्वात्। रत्नकोषकृन्मतेतुउत्पादनैवतिङर्थः। नतूत्पत्तिर्नवा तस्यापि विक्लित्तिविशेषणत्वं। नचाक्षिप्तोत्पत्तिरूपफलत्वेनैवकर्मत्वम्। कस्मात्त्वं नद्या इत्यादौ गम्यमानक्रियाया अपि विभक्तिनिमित्तत्वोपगमादिति वाच्यम्। तद्वदत्रानुभवाभावात्। विक्लित्तः स्वोत्पत्त्याक्षेपकत्वे मानाभावात्। व्यापारस्यापी तदाक्षेपकत्वापत्तेश्च। प्रत्युतओधनस्य निर्वर्त्यकर्मतयाविक्लित्तेरपि तत्स्वरूपान्तर्भावेण साध्यत्वोपस्थित्या तस्य चानुत्पन्नैकस्वभावत्त्वात् असत्त्वभूतफले कालकविभक्तेस्तावताप्यसिद्धौ तद्विशेषणेदूरापास्तत्वात्। स्वर्गकामोयजेतेत्यादौ तुभाव्यस्यभिन्नपदोपात्ततया धात्वर्थस्य करणत्वेनान्वये तस्य सिद्धैकस्वभावत्त्वादसिद्धस्य तदनुपपत्त्या अर्थाद्भाव्यत्वलाभ इति वैषम्यम्।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।
इति रीत्या फलजनकत्वस्य व्यापारे लाभात्। तच्छाद्बे फलस्य भाव्यत्वानवगाहनात्।
अभ्युपेत्यापि ब्रूमः। पच्यते ओदनः स्वयमेवेत्यादौ विक्लित्तिमात्रं धात्वर्थः। तद्रूपक्रियाश्रत्वादोदनस्य कर्तृत्वमित्याकरः। तदुक्तं वाक्यपदीये-
एकदेशे समूहे वा व्यापाराणां पचादयः।
स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः।। इति।
तद्विशेषणस्य स्तोकादेः कर्मत्वं न स्यात्। व्यापारस्य तत्समभिव्याहारे धात्वर्थत्वाभावे विक्लेत्तेः क्रियाजन्यफलाश्रयत्वाभावात्। एवं पश्यति भवः स्वयमेव, दर्शयते भव इत्यादौ विषयत्वापादनांशत्यागेन विषयत्वापत्तिमात्रस्य धात्वर्थत्वात्। तत्र विषयत्वा पादनस्यानवगमात् क्रियात्वाभावात् विषय(1)त्वापत्तेः कर्मत्वानुपपत्त्या तत्र क्रियाविशेषणानामपि तन्न स्यात्। नच तत्र न भवत्येव विशेषणान्वय इति वाच्यम्। मानाभावात्। एवं स्तोकमोदनः पच्यते इत्यादेरप्यनुपपत्तिः। पाकः। क्रियते इति विवरणानुरोधेन तत्र पाकवृत्तिकर्मत्वस्याभिहितत्वेन तद्विशेषणे द्वितीयानौचित्यात्। एवं च धात्वर्थान्तर्भूतस्य कर्मणो लकारेण नाभिधानमित्यप्यशास्त्रीयं वैधर्म्याभिधानम्।
तथाहि-तत्कर्मत्वप्रयुक्ताया विशेषमद्वितीयाया अप्यनुपपत्तेः। सामानाधिकरण्याद्विशेषणे विभक्तिरिति पक्षे द्वितीयान्तसामानादिकरण्याभावात्। कटोऽपि कर्मेत्यङ्गीकारे तु स्तोकादिकर्मणो धात्वर्थवहिर्भूतत्वाचदभिधानस्य दुर्वारत्वात्।
नचैवं ज्योतिष्टोमेनेत्यत्र तृतीयापि न स्यादिति वाच्यम्। तत्र तस्यैव प्राधान्यात्। एवमोदनं पचतीत्यस्य निर्वर्त्यकर्मतया फलविशष्टस्यैवौदनपदार्थतया पचति र्व्यापारमात्रार्थो नतु फलार्वाच्छन्नव्यापारार्थः। साध्यत्वाख्यविषयतयैवौदनस्य कर्मत्वात्। अतो नोक्तरीत्या प्रकृतसिद्धिः। तस्मात्ततोऽन्यत्रापि दृश्यते इत्येवाश्रयणीयम्।
केचित्तु`तत्प्रत्यनुपूर्वमीपलोमकूल'मिति सूत्रे तदिति नपुंसकद्वितीयकैवचनान्तेन तच्छद्बेन वर्तते इति प्रकृतवर्तनक्रियाविशेषोपादानं ज्ञापकम्। यद्यपि तदधीते इत्यादौ सौत्रं नपुंसकत्वं न विवक्ष्यते तथापि प्रकृते सङ्ग्राह्यलिङ्गान्तराभावात्तद्विवक्षेत्याहुः।
तृतीया च होरछन्दसि ।। 3 ।।
जुहोतेः कर्मणि तृतीयाद्वितीय स्तश्छन्दसि। यवाग्वाग्निहोत्रं जुहोति। अग्निहोत्रमत्र हविः। होमः प्रक्षेपः। विभक्तेर्भिन्नत्वेऽपि विरुद्धार्थकत्वाभावात् यवागुहविषोरभेदान्वयः।
भाष्यकृतस्तु अग्निहोत्रशब्दो ज्योतिष्यपि वर्तते। अग्निहोत्रं प्रज्वलितमिति दर्शनात्। जुहोतिश्च प्रीणने। अग्निषु हूयमानेष्विति दर्शनात्। यदा यवागूशद्बातृतीया तदा तयाऽग्निं प्रीणातीत्यर्थः। यदा तु द्वीतीया तदा यवाग्वाख्यं हविः प्रक्षिपतीत्यर्थः। अतः सूत्रं न कार्यमित्याहुः।
अन्तरान्तरेण युक्ते ।। 4 ।।
अन्तराशब्दो यद्यप्यन्तरायां पुरीति टाबन्तोऽप्यस्ति, अन्तरेण शब्दोऽपि तृतीयान्तोऽपि तथापि प्रतिपदाक्तत्वान्निपातयोर्ग्रहणम्। उद्भूताधारशक्तिके मध्ये इत्यर्थे विनार्थे चैतौ। द्यामन्तरा वसुमतीमपि गाधिजन्मा। मृणालमूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः, त्वामन्तरा तामरसायताक्षि, अन्तरेण हरिं नसुखम्। सम्बन्धित्वमाद्ययोर्द्वितीयार्थः। द्यावापृथिव्योश्चामरद्वयस्यच मध्ये इत्यर्थः। विनार्थे प्रतियोगित्वं द्वितीयार्थः। तदाद्ये संयोगविशेषवच्छिन्नं, द्वितीये भक्तिविशेषावच्छिन्नमित्याद्यवसेयम्।
किन्ते बाभ्रवशालङ्कायनानामन्तरेण गतेनेत्यत्र तु तेषां तारतम्येन ज्ञातेन किमित्यर्थः। द्वयोश्चैवान्तरा, अविद्यमाना अन्तरा येषामिति भाष्ये तु सम्बन्धमात्रे षष्ठी। मध्यापेक्षया अवधित्वविवक्षायामेव द्वितीयास्वीकारात्। सम्बन्धविवक्षायां हि न ज्ञायते किं तयोरेवावधित्वं उतान्यसहितयोरित्याहुः।
यत्तु अन्तरेण पुरुषमित्यादौ प्रतियोगित्वविवक्षायां षष्ठी न स्यात्। तद्विवक्षया द्वितीयासत्त्वेऽपि तयोरेवावधित्वं न त्वन्यसहितयोरिति निर्णयासम्भवाच्च। मानान्तरेण निर्णयस्य तुल्यत्वादिति तन्न। द्वितीयाप्रयोगस्यैव तादृशतात्पपर्ये ग्राहकत्वात्। मध्यस्यावधिनिरूप्यत्वेन सप्रतियोगिकत्वाभावाच्च। अवधित्वस्यैव तेन विवक्षायां तु विशेषाभावात्। मध्यम्योभयनिरूप्यतया तादृशप्रयोगाभावाच्च। निरूपकप्रतीत्यैव मध्यप्रतीत्युपपत्तौ तदतिरिक्तावधित्वनिराकाङ्क्षत्वाच्च।
यदपि तव ममच मध्ये कमण्डलुरित्यत्र षष्ठ्यन्तयोः कमण्डलावेवान्वयः, तन्निरूप्यत्वं मध्यमस्य मानान्तरस्यम्यम्। द्वितीयाप्रयोगे तु तदपेक्षयैव मध्यबोधो युक्तपदस्वारस्यात् इति। तच्चिन्त्यम्। सम्बन्धो हि मध्यनिरूपकत्वं, स्वस्वामिभावादिर्वा?। नाद्यः। त्वन्मन्निरूप्यमध्यवृत्तिः कमण्डलुर्मध्यवृत्तिरितिबोधस्य निराकाङ्क्षत्वात्। नान्त्यः। अन्यदीयेऽपि कमण्डलौ तव मम चेत्यादिप्रयोगात्। तव मम च कमण्डलुरन्तरेति वाक्यजन्यधियो वैलक्षण्याच्च।।
कालाध्वनोरत्यन्तसंयोगे ।। 5 ।।
द्वितीया स्यात्। कालो मासादिरूपस्तदुपाधिः। अध्वा गन्तव्यत्वेन प्रसिद्धः। क्रोशयोजनादिः। मासमधीते। क्रोशं शेते। अत्यन्तेति किम्। अमावास्यायां यजते। अत्यन्तो व्यापकः सम्बन्धः।, तन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति यावत्। तथा च कालिकसम्बन्धावच्छिन्नप्रतियोगिताको यो मासनिष्ठात्यन्ताभावस्तदप्रतियोग्यध्ययनमिति धीः। अवच्छेदकतासम्बन्धावच्छिन्नप्रतियोगिताकत्वं क्रोशनिष्ठात्यन्ताभावे निवेश्य पूर्ववदन्यद्वाच्यम्।
ननु द्वितीयामात्रविधाने आस्यते मासः, शय्यते क्रोश इति आसितो मासः आसितव्यः मास इत्यादौ कर्मणि लकारादयो न स्युरिति चेत्।
अत्र वार्तिककारः। कर्मवदिति वक्तव्यम्। तेन नोक्तदोषः। वत्करणन्तु स्वाश्रयमपि यथा स्यात्। आस्यते मासम्। शय्यते क्राशम्। अकर्मकत्वात् भावे लकारादय इति।
भाष्यकृतस्त्वाहुः प्राकृतमेवेदं कर्मोति। अयमर्थः। व्यापनादिविशिष्ट आसनादिर्मासमास्ते इत्यादौ धात्वर्थः। ततो विशेषणीभूतव्यापनादिक्रियापेक्षं स्वाभाविकमेतत्कर्म। ततश्चासनादेः करणत्वेनान्वयः। स्वर्गकामो यजतेत्यादिवत्। आसनेन मासं व्याप्नोतीत्यर्थः। प्रयोगस्य व्यवस्थितत्वाच्च कटे आस्ते इत्यादौ शुद्ध एवासनादौ वृत्तिरिति नातिप्रसङ्गः। तथाच वाक्यपदीये-
कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः।।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते।। इति।
सार्वत्रिकस्यासनादेरपेक्षया व्यापनादेः क्रियान्तरत्वम्। अकर्मकेत्युपलक्षणम्। मासमधीते इति भाष्योदाहरणात्। मासमास्ते कटे इत्यादौ कटशद्बात्तु न द्वितीया व्यापनकर्मत्वादिति हेलाराजः। देशकालाध्वगन्तव्या इति नियमादिति केचित्।
नचैवमपि भावे लकारादिकं न स्यादिति वाच्यम्। अकर्मकेभ्य इति धातुनामन्यपदार्थत्वात्तेषां प्रयोगान्तरे तदर्थानामेव कालादिसम्बन्धदर्शनात्तैरकर्मकत्वासम्भवात्सामर्थ्याद्विशेषाङ्गीकारेण द्रव्यरूपेण कर्मणा येऽकर्मकास्तेषां ग्रहणात्। अथवाऽन्तरङ्गेण द्रव्यकर्मणा बहिरङ्गस्य कालादोस्तिरोभावात्तदपेक्षसकर्मकाकर्मकव्येवहाराप्रवृत्तेः। अन्तरङ्गकर्मणोऽसन्निधाने तु बहिरङ्गेणापि कालादिकर्मणा सकर्मकत्वस्वीकारेण मासआस्यते इति कर्मण्यपि लकारादिः। उक्तंच वाक्यपदीये।
आधारत्वमिव प्राप्तास्ते द्रव्यगुणकर्मसु।।
अतस्तैः कर्मभिर्धातु र्युक्तो द्रव्यैरकर्मकः।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते इति।।
एतेन `सस्ने माघमघातिघाति यमुनागङ्गौघसङ्गे यये'ति नैषधं व्याख्यातम्। सस्नौ माघमिति सङ्गेनयोति च पाठकल्पनन्तु भ्रान्तिनिबन्धनत्वादुपेक्ष्यम्। सूत्रं तु क्रोशं कुटिला नदीत्यत्र गुणेनात्यन्तसंयोगे द्वितीयार्थम्। क्रोशस्य क्रियायोगाभावे कर्मत्वानुपपत्तेः। अवच्छिन्नत्वं द्वितीयार्थः। क्रोशावच्छिन्नकौटिल्याश्रय इत्यर्थः।
अपवर्गे तृतीया ।। 6 ।।
अपवर्गः क्रियाविरहः। सच द्वेधा। साधनवैकल्येनफलप्राप्त्या च। तत्र सामर्थ्यात्फलप्राप्तिनिबन्धन एवापवर्गोऽत्र ग्राह्यो नत्वशक्त्यादिकृतः। एतदभिप्रायेणैवापवर्गः फलप्राप्तिरिति व्याख्यातम्। तत्र तात्पर्ये कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात्। अह्ना क्रोशेन वानुवाकोऽधीतः। नेह। मासमधीतो नायातः। अत्रफलोपधानविशिष्टेऽघ्ययने धातोर्लक्षणा। अन्यत्पूर्ववत्। दिनादिव्यापकं फलोपधायकमध्ययनमिति धीः। प्रत्युदाहरणे नायात इति फलराहित्यद्योतनार्थम्।
सप्तमीप़ञ्चम्यौ कारकमध्ये ।। 7 ।।
कारकमध्यवर्तिनोः कालाध्वनोः एते स्तः। इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं निध्येत्। देवदत्ताधिकरणदेशस्य लक्ष्यरूपकर्मणश्चेति द्वयोः कारकयोर्मध्यवर्ती क्रोशः। ननु अद्य देवदत्तो भुक्त्वा द्व्यहान द्व्यहे वा भोक्तेत्यत्र द्रव्यस्य देवदत्तरूपकारकस्यै कत्वाद्भेदनिबन्धनो मध्यभावो नास्तीति चेत्। न, वार्तिकरीत्या क्रियामध्ये इति न्यासेनैवोपपत्तेः।
भाष्यकृतस्तु शक्तेः कारकत्वस्य पूर्वमुक्तत्वात् अद्यतनभोजनक्रियानिरूपितकर्तृत्वाद्व्यहोत्तरकालीनभोजनक्रियानिरूपितकर्तृत्वस्य भेदात् कारकमध्यत्वमस्त्येवेत्याहुः।
वस्तुतः क्रियाभेदेन शक्तिभेदो नतु कालभेदेन। अनवस्थापत्तेर्मानाभावाच्च। क्रियाभेदश्च क्रियाविभाजकोपाध्यविच्छिन्नप्रतियोगिताकः सच नाद्यतनद्व्यहकालीनभुजिक्रिययोः अतो वार्तिकमावश्यकं लाघवाच्चेति विभावनीयम्।
अधिकरणत्वं विभक्त्यर्थः। पञ्चम्यर्थो विधिः। अत्र मध्येभोजनाभावो विवक्षितः। मध्यस्य निरूपकानधिकरणत्वनियमात्। एतद्दिनाव्यवहितोत्तरदिनवृत्त्यभावप्रतियोगिभोजनकर्तोतिधीः। द्व्यहे भोजनाभात्रेऽप्युक्तप्रयोगात्। क्रोशोदाहरणे तु एतद्देशवृत्तेरेव क्रोशवृत्तिलक्ष्यवेधसामर्त्यं प्रतिपाद्यम्। नतु सन्निहितलक्ष्यवेधाभावोऽपकर्षपर्यवसानात्कैमुतिकत्वाच्च।
कर्मप्रवचनीययुक्ते द्वितीया ।। 8 ।।
कर्मप्रवचनीयसंज्ञाः प्रागुक्ताः तद्योगे द्वितीया स्यात्। जपमनु प्रावर्षत्। हेतुभूतजपोपलक्षितं वर्षणमिति धीः। अथ सामान्यतो लक्षणप्रणयने वृक्षं परि विद्योतते इत्यत्रापि विशेषविहितत्वात् `पञ्चम्यपाङ्‌पारभि'रिति पञ्चमी स्यात्। साधु देवदत्तो मातरं प्रतीत्यत्र परत्वात`साधुनिपुणाभ्यामर्च्चाया'मिति सप्तमी स्यात्। अप्रतेरित्यस्योपात्तत्वेऽपि तत्रैव गौरवात्। इति चेत्।
अत्र वार्तिकम्। प्रत्यादिभिश्च लक्षणादिष्विति वक्तव्यमिति। ततश्च तदर्थपुरस्कारेणैव द्वितीयाविधानान्नोक्तदोष इति भावः। अप्रतेरित्यस्योक्तत्वान्न सप्तमी। वर्जनार्थकापशब्दसाहचर्येण परेरपि तादृशस्यैव ग्रहणान्न पञ्चम्यपीति भाष्यम्।
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ।। 9 ।।
यदपेक्षयाधिक्यं कर्मप्रवचनीयद्योत्यं तस्मात्, ऐश्वर्यद्योतककर्मप्रवचनीययुक्ताच्च सप्तमी स्यात्। उप परार्धे हरेर्गुणाः। ततोऽप्यधिकाः। स्कस्वामिम्यां पर्यायेण। यस्येति षष्ठ्या निरूप्यत्ववृत्तित्बोभयपरत्वामाश्रित्य यच्छद्बस्योभयपरत्वात्। अधिभुवि रामो भूवृत्तिस्वत्वमप्रतियोगी। अधिरामे भूः। रामनिरूप्यस्वत्वाश्रयः। अधिकयोगे पञ्चमीसप्तम्यौ। `यस्मादधिकं' `तदस्मिन्नधिक'मिति च मौत्रनिर्देशात्। अधिको लोकात् लोके वाहरिः। स्वत्वादिसम्बन्धस्य वृत्त्यनियामकत्वात्सूत्रारम्भः।।
भाष्ये तु स्वस्वामिनोराधिकरणत्वविवक्षया पर्यायेण सप्तमीसिद्धेर्यस्यचेत्यंशः प्रत्याख्यातः। अधिरीश्वरे इति कर्मप्रवचनीयसंज्ञापि न कार्या। ऐश्वर्यविषयस्य अधेः क्रियायोगाभावादेव गत्युपसर्गसंज्ञयोरप्रसङ्गात्।
पञ्चम्यपाङपरिभिः ।। 10 ।।
कर्मप्रवचनीयैरेतैर्योगे पञ्चमी। अपविष्णोः परिविष्णोः संसारः। विष्णुनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः। परिर्वर्जनार्थ एवात्रेति प्रागुक्तम्।।
आङ् मर्यादावचने ।।
आपाटलिपुत्रात् वृष्टो देवः। तद्वर्जयित्वेत्यर्थः।।
प्रतिनिधिप्रतिदानेच यस्मात् ।। 11 ।।
तत्र कर्मप्रवचनीययुक्ते पञ्चमी। प्रद्युम्नः कृष्णात्मति। तिलेभ्यः प्रतियच्छति माषान्। `यस्मादि'त्यनेनैव पञ्चमी।
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ।। 12 ।।
अध्वन्यर्थग्रहणम्। तेन पर्यायाणामपि पर्युदासः। आस्थितप्रतिषेधश्च वक्तव्यः। भेदप्रतीयोगी अध्वा गन्त्रधिष्ठितत्वेन विशेषणीयः। तथाच गन्त्रधिष्ठिताध्वभिन्ने गत्यर्थानां कर्मणि एते स्तः चेष्टायां सत्याम्। ग्रामं ग्रामाय वा गच्छति। अध्वभिन्ने किम्, पन्थानं गच्छति। अध्वनो गन्त्रधिष्ठितत्वेन विशेषणं किम्, उत्पथात्पथ आक्रमितुमिष्यमाणत्वे चतुर्थी यथा स्यात्। उत्पथेन पथे गच्छति। गत्यर्थेति किम्। ओदनं पचति। कर्मणि किम्, अश्वेन व्रजति। चेष्टायां किम्, मनसा हिरं व्रजति।
अन्धवनीत्यस्य स्थानेऽसंप्राप्ते इति वक्तव्यम्। असम्प्राप्तं वस्तु गमनेन यत्संप्रेक्ष्यते तत्र कर्मणीत्यर्थः। तेन स्त्रियं गच्छतीत्यत्र न चतुर्थी। सम्प्राप्तत्वात्। ननु असम्प्राप्तत्वं केन सम्बन्धेन। स्वस्वामिभावसम्बन्धेन स्त्रियाः सम्प्राप्तत्वेऽपि धात्वर्थताव च्छेदकसम्बन्धेनासंप्राप्तेः। यत्किञ्चित्सम्बन्धेन ग्रामादेरपि प्राप्तत्वात्। मैवम्। तत्साक्षात्सम्बन्धाभावविशिष्टसंयोगादिनाऽसंप्राप्तेर्विवक्षितत्वात्। अत एवाजां नयतीत्यजायां न चतुर्थी। केचित्तु नयतिर्न गत्यर्थः। आक्षेपादेव तत्र गतिप्रतीतेरित्याहुः।
अत्र भाष्यकाराः गमनक्रियया ग्रामस्योप्सिततमत्वातक्रियाग्रहणं कर्तव्यमिति वार्तिकेन गतार्थमिदं सूत्रमिति।
अत्र कैयटादयः। यद्यपीदं वार्तिकं कर्मणा यमभिप्रैतीत्यत्र भाष्यकृता प्रत्याख्यातम्। तथापि तत्रत्यन्यायस्मरणार्थमिदमुक्तम्। सर्वापि क्रिया ज्ञानेच्छादिक्रिया(कर्म)तद्व्यतिरेकेणचेतनसाध्यक्रियानुत्पत्तेः। तदुक्तम्-पूर्वं हि सम्पश्यत्यध्यवस्यतीत्यादि। तत्र यदा गमनस्य संदर्शनादीनां च भेदविवक्षा तदा सन्दर्शनादिक्रियाभिराप्यमानत्वात् कर्मणा गमनेनाभिपेयमाणस्य ग्रामस्य सम्प्रदानत्वाच्चतुर्थी। यदा त्वभेदविवक्षा तदा गमनस्य कर्मत्वाभावा द्ग्रामः कर्मैव भवति इति द्वितीया। भेदाभेदविवक्षा च लौकिकप्रयोगानुसारेण, नियतविषये त्वारम्भप्रत्याख्यानयोर्नास्ति फलभेद इति। अत्र नव्यमीमांसकाः। नैतद्युक्तम्। पच्यादिभ्यो ज्ञानाद्यनुभवाभावात्। नियमेनारोपेऽपि प्रमामाभावात्। विध्यभावे कारणाभावेन प्रयोगगतसाधुत्वज्ञानाभावात्तेन भेदाभेदव्यवस्याप्रतीत्यनुपपत्तेश्च। अत एवात्र सूत्रे भाष्यकृतापि तद्वार्तिकस्य विधित्वमाश्रितम्। नचैवं गत्यर्थकर्मणीत्यादिसूत्रप्रत्याख्यानानुपपत्तिः। धात्वर्थतावच्छेदकफलशालित्वरूपे तत्समनियतेऽखण्डोपाधौच विवक्षिते द्वितीया। तदनवच्छेदकक्रियाजन्यफलशालित्वे विवक्षिते चतुर्थीत्यभिप्रायात्। गमनजन्यस्वास्थ्याद्याश्रयत्वेन ग्रामाय गच्छतीत्यस्योपपत्तेः।
नचैवमध्वादिरूपापवादविषयेऽपि प्रयोगद्वयापत्तिः। तदंशेऽप्रत्याख्यानस्य भाष्याभिमतत्वात्। भाष्यकारो हि-अध्वादीनां न स्वरूपेणापवादविषयत्वं। स्त्रियङ्गचछतीत्यत्र द्वितीयानियमानापत्तेः। अपि तु संप्राप्तत्वेन, प्राप्त एव पन्थाः स्त्रीच। तत्र पन्थानं गच्छति स्त्रियं गच्छतीति द्वितीयानियम इति प्रतिपादयन्न संयुक्ते कर्मणि द्वितीयाचतुर्थ्यौ भवत इत्याह। अतो वार्तिकप्रत्याख्याने न भाष्यतात्पर्यमित्याहुः।
अत एव वृत्तिकारेणात्र द्वितीयोपादानं अपवादविषयेऽपि द्वितीयाविधानार्थम्। अन्यथा चतुर्थीविकल्पमेव कुर्यात्। तेनैतत्सूत्रविषये कर्तृकर्मणोः कृतीत्वस्य न प्रवृत्तिः। अतो ग्रामं गन्तेति तृजन्ते द्वितीयैवेत्युक्तम्। सर्वात्मनैतत्सूत्रप्रत्याख्याने तु तत्र पष्ठ्या एव भाष्यसम्मतत्वापत्त्या वृत्तिग्रन्थानुपपत्तेः।
यत्तु द्वितीयेति सूत्रे ग्रामं गामीत्यत्रावश्यके णिनौ द्वितीयवेति वृत्तिमतं कैयटादौ एतत्मत्याख्यानोद्भावनेन हूषितं, तदपि स्वमतोपष्टम्भमात्रेणेति द्रष्टव्यम्।
चतुर्थी सम्प्रदाने ।। 13 ।।
विप्राय गां ददाति। तादर्थ्ये उपसंख्यानम्। तत्पदं कार्यपरम्। तस्मै इदं तदर्थमितिकार्यविशिष्टकारणलाभः। तदुत्तरभावप्रत्ययात्कार्यकारणभावसम्बन्धलाभः। कृत्तिद्धितसमासेभ्यः सम्बन्धाभिधानमितिन्यायात्। तस्योभयवृत्तित्वेऽपि राज्ञः पुरुष इत्यादौ षष्ठीव यूपाय दार्विति चतुर्थी विशेषणादेव। अत एव हेतुतृतीयापि दारुशब्दे न प्रवर्तते। प्रकृत्यैव हेतुत्वस्य प्रतिपादितत्वात्। हेतुत्वस्य प्रकृत्यर्थानन्तर्भावे एव तद्विधानात्। तदाहुः।
तस्मादित्युपकार्यं हि कार्यं प्रत्यवमृश्यते।
तदर्थशब्दात्सम्बन्धे भावप्रत्यय इष्यते।।
गम्यमानविभक्तित्वाच्चतुर्थी कार्यवाचिनी।
गुणे कृतास्पदा तस्मात्कारणं नावगाहते।।
नचोपसंख्यानेन सूत्रं गतार्थम्। हरये रोचते भक्तिरित्याद्यर्थं तदारम्भात्। उपकारापकारसाधाराणं तादर्थ्यम्। मशकेभ्यो धूमः। एतेन-
गोनासाय नियोजिता गदरजाः सर्पाय बद्धौषधिः।
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन् बिभ्रती।
भर्तुर्भूतगणाय गोत्रजरती निर्दिष्टमन्त्राक्षरा।
रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः।।
इति कविराजशेषप्रयोगा व्याख्याताः।
`क्लृपि सम्पद्यमाने च विकारवाचकाच्चतुर्थी'। सम्पद्यते प्रादुर्भवतीत्यर्थात्। भक्तिर्ज्ञानाय कल्पते। प्रकृतिविकृत्योरभेदविवक्षायां भक्तिर्ज्ञानं कल्पते इति प्रथमैवेति न चतुर्थीत्यन्ये। अपादानत्वविक्षायां भक्तेर्ज्ञानं कल्पते इति पञ्चमीति केचित्।
अन्येतु तत्रापि विरोधाभावाच्चतुर्थीत्याहुः। `उत्पातेन ज्ञापिते च'। शुभाशुभसूचको विकार उत्पातः। तज्ज्ञाप्ये स्वोत्तरकालभावित्वेन बोध्ये चतुर्थी। वाताय कपिला विद्युत्, आतपायातिलोहिनी। मांसौदनाय व्याहरति मृगः। हितयोगे चतुर्थी तत्समासविधानज्ञाप्या। ब्राह्मणाय हितम् सम्बन्धित्वं चतुर्थ्यर्थः।
क्रियार्थोपपदस्य च कर्मणिस्थानिनः।। 14 ।।
पारिभाषिकोपपदस्य क्रियार्थक्रियारूपस्य तुमुन्‌ण्वुल्‌निरूपितभिन्नस्यासम्भवात् सामर्थ्यात्तयोरेव विशेष्यत्वम्। स्थानिपदं यद्यप्यादेशप्रयोज्यनिवृत्तिप्रतियोगित्वेन प्रसिद्धं, तथाप्यप्रयुज्यमानत्वमत्र तदर्थः। फलेभ्यो याति। फलान्याहर्तुं फलान्याहारको वा यातीत्यर्थः। गम्यमानाहरणक्रियानिरूपितं कर्मत्वं चतुर्थ्यर्थः।।
तुमर्थाच्च भावचनात् ।। 15 ।।
भाववचनाश्चेति सूत्रेण तुमर्थे विहिता ये घञादयस्तदन्ताच्च चतुर्थी। यागाय याति। पाकाय पचनाय पक्तये। नच तादर्थ्येन गतार्थत्वम्। तुमुनेव घञादिभिरेव तादर्थ्यस्य द्योतितत्वात् प्रथमाया एव प्रसक्तेस्तद्बाधार्थत्वात्। नच तर्हि भानवचनाश्चेति सूत्रमेव व्यर्थं शुद्धभावे घञ व्युत्पाद्य तादर्थ्यचतुर्थ्यैव निर्वाहादिति वाच्यम्। क्रियार्थायां क्रियायामुपपदे विशेषविहितेन तुमुना घञो बाधापत्तेः।
नमः स्वस्तिस्वाहास्वधालंवषड्‌योगाच्च ।। 16 ।।
एभिर्योगे चतुर्थी स्यात्। हरये नमः। स्वापकर्षबोधानुकूलो व्यापारो नमस्कारः। अवधित्वं चतुर्थ्यर्थः। हर्यवधिकस्वापकर्षबोधनमित्यर्थः। स्वस्ति जाल्माय। अत्र स्वरूपकथनं जाल्मत्वादाशीलविवक्षा। स्वाहावषट्‌शद्बौ देवभ्यः, स्वधेति पितृभ्यो हविर्दाने। `तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकरं वषट्कारं च, हन्तकारं मनुष्याः, स्वधाकारं पितर'इति श्रुतेः। `स्रजा नमस्कृत्य तयैव शक्र'इत्यादौ कृञएव नमस्कारोऽर्थः, नमः शब्दस्तात्पर्यग्राहकः। अतो द्वितीया। उपपदविभक्तेः कारकविभक्तिर्बलीयसीति न्यायात्।
नमस्कुर्मो नृर्सिहाय, रावणाय नमस्कुर्यादित्यादौ `क्रियार्थोपपदस्ये'ति चतुर्थी। नृसिंह मनुकूलयितुमित्यर्थः। अलमिति पर्याप्त्यर्थग्रहणम्। अलं मल्लो मल्लाय। दैत्येभ्यो हरिः प्रभुः समथै इत्यादि। `प्रभुर्बुभूषुर्भुवनत्रयस्य य'इत्यादौ ऐश्वर्यमर्थः। पर्याप्तेस्तदभिभवसामर्थ्यरूपत्वात्। चकारः पुनर्विधानार्थः। तेनाशींर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थी। स्वस्ति गोभ्यो भूयात्। अन्यथा पूर्वोक्ते सावकाशायाश्चतुर्थ्याः स्वस्तिभिन्नकुशलार्थेषु सावकाशया षष्ठ्या पक्षे परत्वाद्बाधः स्यात्।
मन्यकर्मण्यनादरे विभाषाऽप्रणिषु ।। 17 ।।
अप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालभिन्नेष्विति वक्तव्यम्। एतत्स्फोरणार्थमेव भेदाश्रयन्वयिनोऽपि बहुत्वस्य प्रतियोगितावच्छेदकबहुत्वसूचनाय निर्देशः। मन्येति श्यनूप्रयोगस्तनादिनिवृत्त्यर्थः। नतु तद्विशिष्टयोग एव चतुर्थीत्येतदर्थः। `तृणाय मत्वा रघुनन्दनो थे'त्यादिप्रयोगविरोधात्। नच यक्‌निर्देश एव स्यादिति वाच्यम्। अनभिहिताधिकारात्। अनादर इत्येतदुत्तरं `उममाने'इत्यधिकमापिशलिसूत्रम्। तथाच यत्प्रतियोगिकसादृश्याश्रयत्वेन तदाभावाश्रयत्वेन वा प्रकृतस्य तिरस्कारविवक्षा तद्वाचकाच्चतुर्थी स्यात्। आद्ये तृणाय मत्वेत्यादि । द्वितीये न त्वां तृणाय मन्ये। एवं नत्वां शुने मन्ये इत्यादि। प्रकृष्य कुत्सितग्रहणं कर्तव्यमिति वार्तिकम्। साम्याभावविवक्षायामेव चतुर्थी नतु साम्यविवक्षायाम्। प्रतिकृष्येति पाठेऽप्ययमेवार्थः।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयाध्यायस्य तृतीये पादे प्रथममाह्निकम्।