श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः १/आह्निकम् १

श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

अथ तृतीयोऽध्यायः।।
प्रत्ययः ।। 1 ।।
अधिकारोऽयम्। पञ्चमसमाप्तिपर्यन्तम्। अत्र विधीयमानाः प्रत्ययसंज्ञाः स्युः। तेन प्रकृत्यादौ नातिव्याप्तिः। अथैवमपि हनस्त च, त्रपुजतुनोः षुक् इत्यादिविकारागमेषु अतिव्याप्तिर्दुर्वारा। नच परत्वाभावात्तेषां संज्ञा न भविष्यतीति वाच्यम्। श्रम्बहुजकक्षु परत्वं विनापि प्रत्ययत्वस्वीकारादिति चेत्।
अत्राहुः-प्रयोजनाभावान्न तेषां संज्ञेति। तथाहि-परविधानार्थं न तेषां तत्संज्ञा। षष्ठ्यैव स्थानसंबन्धावयवसंबन्धान्यतरस्य प्रतिपादितत्वात्। नाप्युदात्तत्वार्थम्। आगमानां विशिष्यानुदात्तस्वरविधानात्। विकाराणां तु निरच्कानां स्वरस्यैव विरहात्। साच्कानां तु प्रवृत्तिकालेएवान्तरङ्गत्वात्स्थानिस्वरप्रवृत्तेः। पञ्चमीनिर्देशाभावाच्च। नच तव्द्यतिरेकेणापि प्रत्ययसंज्ञाबलादेव परत्वं स्यादिति वाच्यम्। षष्ठ्यैव स्ववाक्योपात्तसंबन्धविशेषोक्तौ विरोधाद्वाक्यान्तरोपात्तपरत्वान्वयानुपपत्तेः।
नन्वेवं गापोष्टगित्यादावानन्तर्यसंबन्धे षष्ठीविज्ञानात्प्रत्ययविज्ञानोत्पत्तावपि। विकारागमस्थलेऽनुवाद्यस्य षष्ठीनिर्दिष्टत्वात् प्रत्ययविधिर्नस्यात्। पञ्चमीनिर्देशाभावात्। श्रुतयोरेवस्थान्यादेशयोराग मागमिनोश्च संबन्धप्रतिपादने। वाक्यस्योपयोगात्। वाक्यान्तरस्यच संबन्धविशेषकल्पकस्याभावात्। नच हनस्तचेत्यत्र धातोरितित्रपुजतुनोः षुगित्यत्रच प्रातिपदिकादिति पञ्चम्यन्तस्यानुवृत्त्या तेन प्रत्ययविधिः। श्रूयमाणेनच षष्ठ्यन्तेन स्थान्यादेशभावस्यागमागमिभावस्य च निर्वाह इति वाच्यम्। हन्तेरादेशविधावृपयोगात् विभक्तिभेदाच्च। तेनधातोर्विशेषयितुशक्यतया हन्तेस्तकारादेशो धातुमात्राच्च क्यप् इति वाक्यार्थप्रसङ्गात्। यद्वा हन्तेस्तो भवति धातोः क्यप् भवति कस्माद्धन्तेरिति वाक्यभेदेन हन्तिना धातुविशेषणात्। यद्वा महासंज्ञाकरणमन्वर्थत्वविधानार्थम्। तेन निरर्थकानां विकारागमानां न प्रत्ययसंज्ञा। विकारागमानांचानर्थकत्वमन्वयव्यतिरेकाभ्यां प्रकृतेरेव तदर्थत्वात् तरबादिवदर्थान्तरद्योतकत्वाभावान्निर्विवादम्। नच प्रत्ययसंज्ञासिद्धौ प्रकृत्यर्थेनैवार्थवत्त्वन्निर्वाह इति वाच्यम् अर्थवत्त्वाभावेन प्रत्ययत्वमेव नास्तीत्युक्तौ उक्तयुक्तेरन्योन्याश्रयग्रस्तत्वेनानुल्लासात्।
अथप्रत्याययतीति कर्तृसाधनः प्रत्ययशब्दः उत प्रत्याय्यते इति कर्मसाधनः? नाद्यः। स्वार्थिकेष्वव्याप्तेः। प्रकृत्यर्थातिरिक्तार्थविषयबोधस्य तैरजननात्। नान्त्यः। यस्यार्थः प्रकृत्या प्रत्याय्यते स प्रत्याय्यमानार्थ इति तदर्थात्। स्वार्थिकसन्‌प्रत्यये संगृहीतेऽपि इच्छार्थकसनादावव्याप्तेः। इच्छार्थानां तषां प्रकृतिबोध्यार्थबोधकत्वादितिचेत्।
उच्यते। एक एव शब्दोऽनेकशक्तियोगात्प्रवृत्तिनिमित्तद्वयावच्छिन्नोऽधिक्रियते इति वथासंभवमुभयत्र संज्ञाप्रवृत्तिः। ण्पन्तस्य निपातनादचि णेर्लुक्। नचागमेऽप्येवं स्यादिति वाच्यम्। प्रत्ययस्यागमव्यतिरेकेणापि प्रयोगादागमस्य तु तदभावादिति प्रत्ययस्यैवान्वयव्यतिरेकाभ्यामर्थवत्त्वपर्यवसानात्।
अनुन्यासकारस्तु प्रतियन्त्यर्थमनेनेति करणेऽच्प्रत्ययः। यद्वा पुंसि संज्ञायां घप्रत्यय इत्याह। नच ल्युटा बाधितत्वात्कर्णे कथमुक्तप्रत्ययौ। क्तल्युट्‌तुन्‌खलर्थे वासरूपविधेरभावादिति वाच्यम्। तत्र करणाधिकरणयोरित्यस्य ल्युटोऽनुपादानादिति अन्यत्र विस्तरः।
तत्सिद्धं यौगिकोऽयं प्रत्ययशब्द इति नचप्रकृत्यादावप्तिव्याप्तिः। अधिकारविशेषविहितत्वस्य प्रयोगोपाधित्वात् तत्प्रकारकबोधाभावेनोक्तधर्मे रूढ्यवच्छेदकत्वस्य वक्तुमशक्यत्वात् अत एव गोशब्दशक्तौ गोत्वं नोपाधिस्तत्प्रकारकबोधादिति न्यायचिन्तामणावुक्तम्।
नैयायिकास्तु---
यादृशार्थप्रकृत्यन्यो निपातान्यश्च वृत्तिमान्।
स तादृशार्थे शब्दः स्यात् प्रत्ययोऽसौ चतुर्विधः।।
यादृशार्थेत्यस्य वृत्तावप्यन्वयः। वृत्तिः शक्तिर्निरूढलक्षणा वा। प्राशस्त्ये मतुपो विधानात्। तथाच यादृशार्थप्रकृतिनिपातभिन्नत्वे सति यः शब्दो यादृशार्थे उक्तान्यतरवृत्तिमान् स तादृशार्थकप्रत्ययः। उक्तान्यतरवृत्त्या गुणगुणिनोः स्थितिप्रस्थानयोश्च बोधके शुक्लस्थादौ व्यभिचारवारणाय प्रकृतिर्भिन्नेति। शक्त्या समुच्चयादिबोधके चादिनिपाते तद्वारणाय निपातभिन्नेति। स्वरादयस्तु स्वपरतायामेव प्रकृतयो नत्वेकत्वादौ। तृतीयादौ सत्यापि कर्मत्वादेर्लक्षणा न निरूढा। प्रायशः प्रयोगविरहात्। पशुना रुद्रं यजते इत्यादौ त्वानुशासनिकत्वात्। स्वार्थिकप्रत्ययमात्रस्य स्वरूपमर्थः। तेन जुगुप्सते देवतेत्यादौ स्वार्थिक सन्‌तलादौ नातिव्याप्तिः। भावघञादीनामप्युक्तैव गतिः। भावपदस्य धात्वर्थस्वरूपपरत्वात्। अन्यथा पाकं पश्येत्यादौ धात्वर्थ स्य कर्मत्वान्वयो न स्यात्। सुबर्थे धात्वर्थान्वयस्याव्युत्पत्तेः। यद्वा
इतरार्थानवच्छिन्ने स्वार्थे यो बोधनाक्षमः।
तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते।
यःशब्दः शब्दान्तराविशेषिततया यादृशस्वार्थविशेष्यकतिङर्थप्रकारकान्वयवोधने स्वरूपयोग्यः स तादृशार्थे प्रत्ययः। चैत्रोस्तीत्यादौ पदान्तरार्थानवच्छिन्नस्वार्थे नाम्नि तिङर्थान्वयबोधकत्वमेवेति नातिव्याप्तिः। चैत्रत्वविशिष्टचैत्रस्यैकनामार्थत्वेन तत्रैव कृत्पन्वयात्। पदान्तरार्थं धर्मितावच्छेदकीकृत्य यदर्थप्रकारकवोधोन भवत्येव तत्त्वमित्यर्थात्। पदान्तरपदेन च प्रत्ययत्वाभिमतार्थप्रकारकबोधो विशेष्यतासंबन्धेन यच्छद्बार्थे भवति तद्भिन्नपदं ग्राह्यम्। अन्यथा तिङपेक्षया भेदस्य चैत्रपदेऽपि सत्त्वात्तदर्थचैत्रत्वधर्मितावच्छेदककचैत्रविशेष्यकतिङर्थकृतिप्रकारकबोधोदयेनातिव्याप्तिः। यजेत स्थीयते इत्यादौ तिङा, पुत्रीयतीत्यादौ क्यजादीनां, पाचकोस्तीत्यादौ कृतां, काश्यपिरित्यादौ तद्धितानां प्रकृत्यर्थावच्छिन्ने एव स्वार्थे कृत्यादौ तिङर्थस्य वर्तमानत्वादेर्बोधकत्वं नतु तदवच्छिन्न इति न तेष्वव्याप्तिः। निभनीकाशादीनांसमासमात्रप्रयोगभाजां तादृशस्वार्थे तिङर्थान्वयबोधं प्रति स्वरूपायोग्यत्वात् तद्वारणाय निभाद्यन्यत्वमपि निवेश्यमित्याहुः।।
परश्च ।। 2 ।।
स्वष्टोर्थः। ननुपञ्चमीनिर्देशपरशद्बाध्याहारेण गापोरित्यादिषष्ठीनिर्देशे च आनन्तर्याश्रयेण परत्वसिद्धौ व्यर्थमेतदितिचेत्। न, पञ्चम्याकाङ्क्षितस्यावधेः पूर्वशब्देनापि समर्प्पणसंभवात्। आनन्तर्यस्यापि पूर्वत्वेन निर्वाहसंभवात् नियमार्थतया सूत्रप्रवृत्तेः। नच बहुजकचोः पूर्वं मध्ये च विधेर्बहुजेव पूर्वमकजेव मध्ये इति नियमार्थत्वात् प्रत्ययान्तराणां तद्देशव्यावृत्त्या परत्वमेवार्थाद्भविष्यतीति वाच्यम्। मध्यस्यानियतत्वेन टेः प्रागित्येव मध्यविशेषस्य तेन नियमेऽपि मध्यान्तरस्य व्यावर्तयितुमशक्यत्वात्। बहुजकचोर्विधेयत्वेन पुरस्तादेव बहुच्। प्राक्‌टेरेवाकच्‌। प्राक्‌टेरेवाकच्‌ इत्यस्यैव नियमार्थतया प्रत्ययान्तरे देशभेदस्य व्यावर्तयितुमशक्यत्वाच्च। नच तस्मादित्युत्तरस्येत्यनेन निस्तारः। परस्य सतो यत्कार्यं तत्रैव तत्प्रवृत्तेः। धर्मिणः परत्वविधाने तस्यानुपयोगात्। नियमार्थस्यापूर्वविधौ अप्रवृत्तेः।
ननु नित्यशब्दपक्षे स्वभावत एव परस्य सनादेः साधुत्वमात्रं प्रतिपाद्यते। कार्यशब्दपक्षेऽपि न परग्रहणेनार्थः। तस्मादित्यस्य पञ्चमीनिर्देशलिङ्गेन प्रदेशेषूपस्थितस्य द्वेधार्थपर्यवसानात्। सत एव कार्यित्वेनोपादाने उत्तरस्य कार्यं भवतीति कार्यापेक्षा षष्ठी। असत एव विधाने उत्तरस्य भावो भवतीति भावापेक्षया कर्तृषष्ठीति ज्ञापनात्। नचैवं सन्नित्यादिप्रथमानिर्देशनैरर्थक्यमिति वाच्यम्। निर्देशमात्रार्थत्वात्। पश्चात्परस्य सनो भावो भवतीति षष्ठीकल्पनात्।
यद्वाऽनियतदेशे सनादेरुत्पत्तावपि कृत्कृत्यप्रत्ययादिसंज्ञाशास्त्रकार्यं यद्विधीयते तन्नान्यदेशस्य। यद्देशस्य च शास्त्रीयं कार्यं तद्देशस्यैव साधुत्वात्प्रयोगो भविष्यतीति न दोषः। विकारागमेषु च पूर्वोक्तरीतेरनुसर्तव्यत्वात्। गापोष्टगित्यादौ धातोरित्यधिकाराद्धातोः परष्टक् गापोस्त्वनन्तर इति व्याख्येथम्। नचप्रयोगासमवायिनां क्विबादीनां सर्वदा लोपप्रतियोगिनां तस्मादित्युत्तरस्येत्यस्यानुपस्थानादनियतदेशे लोपः स्यात्तद्वारणाय परभूतानामेव लोपो यथास्यादित्यवमर्थमिति वाच्यम्। अनुबन्धासंजनेन लिङ्गेन तेषां परभूतानामेव लोपनिर्णयात्। अनुबन्धासंजनेन लिङ्गेन तेषां परभूतानामेव लोपनिर्णयात्। अनुबन्धकार्यस्य कितीत्यादिविहितस्य परभूतप्रत्ययाश्रयत्वात्। तस्मिन्निति निर्दिष्टे पूर्वस्येति वचनात्। नचानियतदेशपक्षेऽपि पाक्षिर्की परतामुपपूर्वस्येति वचनात्। नचानियतदेशपक्षेऽपि पाक्षिर्की परतामुपजीव्यैवानुबन्दासङ्गस्य कृतार्थत्वात् कथं नियमेन परत्वसिद्धिरिति वाच्यम्। पाक्षिकवैयर्थ्यस्य तथापि दुष्परिहरत्वात्। स्पृशोनुदक इत्यादौ सकृत्श्रुतायाः पञ्चम्याः पूर्वपरान्पतराध्याहारेणोपपत्तौ यदा पूर्वशब्द एवाध्याह्वियते तदानुबन्धानर्थक्यस्य दुर्वारतया परभूतलोपलिङ्गत्वे बाधकाभावाच्चेति प्राप्ते।
सिद्धान्तः। प्रयोगनियमार्थं वेति। वाशब्दो वार्तिकमते क्विबाद्यर्थं परवचनमिति पक्षस्य स्थितत्वाद्विकल्पार्थे। भाष्यमते तु उक्तरीत्यान्यथासिद्धत्त्वात्तर्हीत्यर्थे परभूतानामेव प्रयोगो नत्वपरभूतानामेवेति। नियमार्थमिदम्। नचविपरीतप्रयोगस्यादर्शनान्न तथेति वाच्यम्। सदेवदत्तो बाभ्रव्यो माण्डव्यो लामकायन इति प्रयोक्तव्ये बभ्रुर्मण्डुर्लमक इति, किमस्य प्रमाणमिति वक्तव्ये कि मस्यद्वयसमिति च प्रयोगादर्शनात् तदसाधुत्वदर्शनाय नकेवला प्रकृतिः प्रयोक्तव्या, न केवलः प्रत्यय इति, नियमो बोध्यते। न च चन्द्रो मुखमीत्यादाविवाभेदोपचारात्कथमसाधुत्वमिति वाच्यम्। भृत्यादावपि तदभेदोपचारदर्सनादपत्यार्थस्य नियमेनानवैगमात्। तदुक्तं हरिणा--
सोऽयमित्यभिसंबन्धात्तद्धितेन विना यदि।
बभ्व्रादयः प्रयुज्येरन्नापंत्ये नियमो भवेत्।।
तस्मादपत्यविवक्षायामभेदोपचारव्यतिरेकेम गर्गा इति बहुवचनान्तवदेकवचनान्तानां बभ्वादीनां प्रयोगो माभूदिति नियमार्थं वचनम्। एतेन रघूणामित्यादौ अभेदलक्षणेति सांप्रदायिकग्रन्थो व्याख्यातः। अभेदोपचारेणैव प्रयोगनिषेधात्। अत एव शक्तिभ्रमेण गवि प्रयुक्तो गवयशब्दोऽसाधुः। सादृश्यलक्षणया तु साधुरेवेत्यभ्युपगमः। उभयनियमश्चायम्। तस्मादित्युत्तरस्येतिसिद्धे प्रकृतेः पर एव प्रयोगो नतु पूर्वं इति, माकदाचिदप्रयुक्तो भूदितिच। ननु वावचने परत्वोपलक्षितः सन् पक्षे भवति, पक्षे तु नैवोत्पद्यते इति पाक्षिकप्रत्ययानुत्पत्त्यर्थं परग्रहणमस्तु। परत्वस्य प्रयोगे नियतत्वेन निवृत्तौ तात्पर्यायोगात्। अन्यथा तत्र प्रत्ययानुवृत्त्या वावचनेन प्रत्ययर्संज्ञाया एव विकल्पः स्यादितिचेन्न। तत्र वृत्तिपक्षे सनो नित्यत्वात्। कर्तुमिच्छतीत्यवृत्तिपक्षे च तदनुत्पत्ते र्वावचनस्य प्रत्याख्यानात्। तस्मात्प्रयोगनियमार्थमेवेति स्तइतम्।।
आद्युदात्तश्च ।। 3 ।।
नन्वस्वरस्याच उच्चारणानुपपत्तेरन्तोदात्तमधअयोदात्तानुदात्तस्वरितानां च चित्त्वरित्त्व पित्त्वतित्त्वलिङ्गेन प्रत्ययविशेषे नियतत्वात्पारिशेष्यात्प्रत्ययान्तराणामाद्युदात्तत्वसिद्धिरिति चेत्। न, चिदादीनामनियतस्वरप्राप्तौ अन्तोदात्त एव चिदिति नियमो नतु चिदेवान्तोदात्तइति स्वरान्तरस्य तत्र व्यावृत्त्यनुपपत्तेः। तथा चताल्लिङ्गरहितानां प्रत्ययानामनियमेन स्वरप्राप्तौ नियमार्थमिदम्।
स्यादेतत्। ञ्नित्यादिर्नित्यं प्रत्ययस्यच अदुपदेशाल्लसार्वधातुकमनुदात्तं सुप्पितौ चेति स्वरान्तरसंनिधावेवाद्युदात्तानुदात्तत्वे विधीयेयाताम्। अलं प्रत्ययसंज्ञासंनियोगेन तद्विधानेन। एवमाद्युदात्तानुदात्तयोः सकृद्ग्रहणे लाघवमिति चेत्। मैवम्। तथासति प्रत्ययग्रहणे यस्मात्सविहितस्तदादेस्तदन्तस्य चेति परिभाषया प्रकृतिप्रत्ययसमुदायस्यादिरुदात्तोऽन्त श्चानुदात्तः स्यात्। आद्युदात्तश्चेत्यस्य तु प्रतियोगमुपस्थाने आद्युदात्तत्वविशिष्ट एव तव्यादिरुत्पद्यतेऽनुदात्तत्वविशिष्टश्चतिवबादिरिति नदोषः। उत्पन्नस्यैव प्रत्ययस्य तदादिग्रहणादिकार्यसंबन्धात् उत्पद्यमानस्य तदयोगात्।
स्यादेतत्। ञ्नित्यादिर्नित्यमित्यारम्भादेवात्र न तदादिग्रहणम्। अन्यथा प्रत्यस्यचेत्यनेनैव सिद्धौ तद्वैयर्थ्यापत्तेः। एवं धातुप्रातिपदिकयोरन्तोदात्तत्वविधानसामर्थ्या त्सुप्तितौचेत्यत्रापि न तदन्तग्रहणम्। अनुदात्तप्रत्ययपरत्वस्थले एव तयोरन्तोदात्तत्वविधेः सप्रयोजनत्वात्। यातीत्यादौ कृष्णतर इत्यादौच पिति प्रत्यये तच्छ्रवणात्। यात इत्यादौ सतिशिष्टेन प्रत्ययस्वरेण तद्बाधात्। नचास्ते, शेते इत्यादौ तास्यनुदात्तेदिति लसार्वधातुकानुदात्तत्वे धातुस्वरस्यावकाशोऽस्त्विति वाच्यम्। न्यायसाम्येन तत्रापि तदादिग्रहणप्रसङ्गात्। नच यथान्यासे लवितव्यमित्यादौ तव्यप्रत्ययस्योत्पत्तिशिष्टाद्युदात्तत्वप्रवृत्तेस्तदुत्तरं प्रवर्तमान इडागमः शेषनिघातेनानुदात्तो भवति। उक्तरीत्यातु तव्यप्रत्ययोत्पत्त्यनन्तरं आद्युदात्तत्वं बाधित्वा परत्वादिडागमे कृते पुनः प्रसङ्गविज्ञानात्प्रवर्तमानमाद्युदात्तत्वं इडागम एव विश्राम्येदिति वाच्यम्। आगमानामनुदात्तत्वस्यावश्यमारम्भणीयतया तेनैव गतार्थत्वात्।
तथाहि-लूञ्‌छेदने लुटि तिपो डा तासिः इट्। यद्यत्रेटोऽनुदात्तत्वं नस्यात्तदा तासिभक्तत्वादिडुदातः। शेषनिघातेन च तास्याकारोऽनुदात्तः। टिलोपे कृते तस्योदात्तलोपत्वाभावादाकारस्योदात्तत्वादुदात्तनिवृत्तिस्वरः सिद्ध्यति। अत्र ह्याद्युदात्तस्य इटश्च प्राप्तौ परत्वादिट्। कृताकृतप्रसङ्गित्वेन द्वयोर्नित्यत्वात्। नचेटि कृते शब्दान्तरप्राप्त्या तथात्वात्। आगमवत्स्वरस्याप शब्दभेदहेतुत्वात्। श्रुतिभेदस्योभयत्र साम्यात्।
अथान्तरङ्गत्वादाद्युदात्तत्वमेव पूर्वं प्रवर्तते। उत्पत्तिसंनियोगशिष्टत्वात्। उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्येडागम इति बहिरङ्गत्वात्। नचप्रत्ययग्रहणपरिभाषया प्रत्ययाश्रयणे प्रकृतिरप्पाश्रितैवेति वाच्यम्। प्रत्ययस्वरविधौ तदादिविधिर्नास्तीति अस्य समनन्तरमेवोक्तत्वात्। तथाचाद्युदात्तत्वानन्तरं प्रवर्तमान इट्‌ शेषनिघातेनानवुदात्त एव भविष्यतीति किमित्यागमानामनुदात्तत्वमारभ्यमितिचेत्। न। तथापि लविषीयेत्यत्रशीर्लिङि विशेषविहितत्वात्पूर्वं सीयुटि कृते पश्चाल्लादेशप्रवृत्त्या तत्र प्रवर्तमानामाद्युदात्तत्वं सीयुट एव स्यात्। आगमानामनुदात्तत्वविधाने तु सीयुटोऽनुदात्तत्वे कृते इटोदित्यकारादेशस्योदात्तत्वं सिद्व्यतीति तस्यावश्यमारभ्यत्वात्। एवंचागमे कृते तद्विशिष्टस्यैव प्रत्ययत्वं नतु केवलस्यापीति भाष्याभिप्रायो लभ्यते। अन्यथा सीयुटि कृतेऽपि इटः प्रत्ययत्वे तदुदात्तत्वस्य सिद्धावनुपपत्त्यभावादिति केचित्।
अन्ये तु आगमविशिष्टस्य केवलस्यच प्रत्ययत्वात्‌कदाचित्सीयुट ईकार एवोदात्तः स्यात् इति तव्द्यावृत्त्यर्थमागमानामविद्यमानवचनमावस्यकमेव। अतएव प्रत्ययादेर्झस्यान्तादेश इति व्याख्यानं निर्दोषम्। शयांतैरित्यत्र अडाटोः कृतयोरपि ढकारस्य प्रत्ययादित्वानपायादिति व्याचख्युः।
यत्तु आगमा अनुदात्ता इति विशेषवचनेन सीयुटोऽनुदात्तत्वे तत्रोदात्तत्वस्य न प्रवृत्तिरिति। तदसत्। तद्वचनानारम्भपक्ष एवोक्तापत्तेर्भाष्यकृद्भिरुपन्यासात्। उक्तदोषभयादेवागमानुदात्तत्ववचनस्याश्रितत्वात्। तच्च ज्ञापकबललभ्यम्। यासुट्‌परस्मै पदेषूदात्तो ङिच्चेति यासुट उदात्तवचनेनागमान्तराणामनुदात्तत्वानुमानात्। नचचिनुयादित्यादौ पिद्भक्तत्वाद्यासुटोऽनुदात्तत्वप्रसङ्गे उदात्तविधानार्थत्वमेव तस्योति वाच्यम्। अपिच्चलिङित्येवं यासुट्‌संनियोगेन लिङोऽपित्त्वविधानेनापि तादृशार्थसिद्धेः। यथान्यासे हि नवमात्राः। उक्तन्यासे षडेवेति लाघवसम्भवात्। तथाच गुरुतरन्यासकरणसामर्थ्यादागमा अनुदात्त इति ज्ञापनमव्याहतम्।
यद्यप्यागमैः स्वोत्तरस्याच आदित्वनिरासात्कथमाद्युदात्तत्वम्। आगमानामविद्यमानवद्भावातिदेशे तु अवादेशादिकं न स्यात्। स्वरविधावेवाविद्यमानत्वमितिचेत्। लवितेत्यत्रोदात्तादनुदात्तस्येति स्वरितो न स्यात्। तृन्नन्ताद्युदात्तं ह्ये तत्। शेषनिघातेन द्वयोरनुदात्तत्वम्। तत्राविद्यमानवद्भावेनेटः स्वरितत्वानुपपत्तेः। नचषाष्ठिकस्वरविधावेव तदतिदेश इति वाच्यम्। चिन्तित इत्यत्र निष्ठाच द्‌व्यजनादिति स्वरप्रसङ्गात्। तथापि प्रत्ययस्वरविधावुक्तातिदेशान्नदोषः। सचातिदेशो ज्ञापकसिद्धः। प्रत्ययाद्‌युदात्तत्वे कर्तव्ये यद्यागमानामादित्वविधातकत्वं स्यात् तदाचिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदात्तत्वमिति यासुट उदात्तत्ववचनं व्यर्थं स्यादतः प्रत्ययाद्‌युदात्तत्वे कार्ये आगमानामविद्यमानवद्भावं ज्ञापयतीति नानुपपत्तिः। तस्मादागमानुदात्तत्वानुरोधादपि प्रत्ययसंज्ञासंनियोगेनाद्‌युदात्तत्वं नारम्भणीयम्।
अथ स्रौघ्नी माथुरीत्यादौ विभज्यान्वाख्याने स्त्रौघ्न ई इति स्थिते आद्‌युदात्तत्वं वाधित्वा परत्वाद्यस्येतिचेति अकारलोपे कृते उदात्तनिवृत्त्यभावादुदात्तनिवृत्तिस्वरो न स्यात्। प्रत्ययसंज्ञासंनियोगेन त्वाद्युदात्तत्वविधानेऽणो लोपप्रवृत्तेः पूर्वमेवोदात्तत्वादनुदात्ते ङीपि परेच तल्लोपादुक्तस्वरासिद्धिरितिचेत्तदप्यसत्। स्वार्थादीनां क्रमेण प्रतीतिरितिन्यायेन स्त्रीत्वनिमित्तकप्रत्ययस्य बहिरङ्गत्वात्तन्निमित्तकस्य लोपस्यापि तथात्वेन प्रथममन्तरङ्गस्याद्युदात्तस्यैव प्रवृत्तौ उक्तस्वरसिद्धेः। एवमङ्गस्य भस्येत्यस्य चापेक्षितत्वादपि लोपस्य बहिरङ्गत्वमवसेयम्। अन्यथा औत्सी कंसिकी आत्रेयीत्यत्रापि लोपेन ञित् नित् कित् स्वराणां बाधापत्तौ उदात्तनिवृत्तिस्वरो न स्यात्। यद्यपि ञिदादिस्वराणां प्रत्ययस्वरापवादत्वादेव बलवत्त्वं कंसेन क्रीता कंसिकी। कंसाट्टिठाजिति ठचाश्चित्करणसामर्थ्यात्पूर्वमिकादेशः ततः प्रत्ययाद्युदात्तत्वं ततश्चादेरुदात्तत्वं अन्त्यस्य लोप इति नास्ति विप्रतिषेधः। तथाप्यात्रेयीत्यत्र इतश्चानिञ इति ढक्। आयनादिषूपदेशिवद्वचनं स्वरसिध्यर्थमिति पूर्वमेयादेशः ततो ङीप्। अत्रान्तरङ्गपरिभाषां विनोदात्तनिवृत्तिस्वरो न स्यात्। अतः प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तवचनं व्यर्थमिति पूर्वपक्षः।
सिद्धान्तस्तु उक्तन्यासे परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेतु यथान्यासे तु प्रत्ययस्वरं धातुस्वरो बाधते परत्वादिति। अस्मिन्नेव प्रदेशे आद्‌युदात्तविधानं युक्तम्। प्रामाणिकगौरवस्य न्याय्यत्वात्। तथाहि प्रत्ययाद्‌युदात्तस्यावकाशः समत्वमित्यत्र प्रकृतेरनुदात्तत्वे धातुस्वरस्य प्रत्ययो यत्रानुदात्तः तत्र पचतीत्यादौ गोपायति धूपायतीत्यत्र धातारेन्तइति भवति विप्रतिषेधेन। तत्रहिगुपित्यस्य पूर्वमन्तोदात्तः तत अन्तोदात्त एव। तथापचतीत्यादौ कार्यमित्यादौच सावकाशयोः पित्त्वतित्त्वनिबन्धनयोरनुदात्तस्वरितयोः कार्या हार्येत्यत्र टापि पूर्वमेकादेश कृते तस्य पूर्वं प्रत्यन्तवद्भाववात्तित्स्वरः परं प्रत्यादिवद्भावात्तु पित्स्वरः प्राप्नोति। विप्रतिषेधात्तित्स्वरः। पित्स्वराच्चित्स्वरो विप्रतिषेधेन। पित्स्वरस्यावकाशः पूर्वोक्तः। चित्स्वरस्य चलनः कम्पन इति युजन्तम्। आम्बष्ठ्या सौवर्येत्यत्र यङ श्चापि कृते उभयं प्राप्नोति। चित्स्वरो भवति परत्वात्।
वस्तुतस्तु नायं विप्रतिषेधो युक्तः। आयप्रत्ययस्य संनियोगशिष्टत्वादाद्युदात्तत्वे कृतेऽपि सति सिष्टस्वरबलीयस्त्वमितिरीत्या पश्चात्प्रवृत्तधातुसंज्ञानिबन्धनस्यान्तोदात्तस्य निर्बाधत्वात्। पित्स्वरतित्स्वरयोरपि तथा शब्दान्तरप्राप्त्या तयोरनित्यत्वेऽपि परत्वात्पूर्वं स्वरिते कृते एकादेशप्रवृत्तेः स्वरितानुदात्तयोरेकादेशोऽन्तरतमत्वात्तत्स्वरः। स्वरितेऽनुदात्तभागस्यापि सत्त्वात्। आम्बष्ठ्येत्यत्रापि चित्करणसामर्थ्यादन्तोदात्तसिद्धेः। नच(1) सामान्यविघातार्थश्चकार इति न समर्थ्यमिति वाच्यम्। तावन्मात्रार्थत्वे टाप्‌प्रकरणे एव तद्विधानप्रसङ्गात्। तस्मात्संज्ञासन्नियोगेन प्रत्ययानामाद्‌युदात्तत्वविधानं सार्थकमिति सिद्धम्।
अनुदात्तौ सुप्पितौ ।। 4 ।।
पूर्वापवादः। सुपः पितश्च प्रत्यया अनुदात्तः। सुप्त्वपित्वाभ्यामनुगमय्य सूत्रे द्वित्वम्। दृषद्‌दृषदौ दृषदः। पचति षठति।
गुप्तिच्‌किभ्द्यः सन् ।। 5 ।।
गुप् गोपने। तिज् निशाने। कितनिवासे रोगपनयेच। मानुत्तरसूत्रे वक्ष्यते एते अनुदात्तोतो निर्दिश्यन्ते इतिभाष्यम्। तत्स्वरसादेव `स्वाश्रयं कश्चिकित्सतु' इति खण्डनव्याख्यायां चिकित्सतामिति युक्तमिति वर्द्धमानः। कैयटस्तु क्रमदर्शनाय कितिपठितो नत्वयमनुदात्तेदिति व्याचख्यौ। वक्ष्यमाणेष्वेवार्थेषु एतेषामात्मनेपदित्वमर्थान्तरेऽननुबन्धाश्चुरादय एवैते बोध्याः। अयं चार्थावेशेषो मुनित्रयानुक्तोऽपि इच्छासन्विधौ श्रुतस्य वाग्रहणस्यैतत्सूत्रद्वये व्यवस्थितविभाषात्वेनार्थविशेषपुरस्कारेणैव सनोविधानाद्वृत्तिकारादिभिः प्रयोगानुसारादुपनिबद्धः। अत एतदर्थेषु धात्वन्तरत्वादेषां नित्यं सन्विषयत्वादनुदात्तरूपलिङ्गस्यावयवे चरितार्थत्वात्समुदायविशेषकत्वमिति सन्नन्ते च आत्मनेपदप्रवर्तकत्वम्। अयं विशेषः। गुपेर्निन्दायां सन्। तिजेः क्षमायाम्। कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च। मानेर्जिज्ञासायाम्। बधेश्चित्तविकारे। दानेरार्जवे। शानेर्निशाने इति। सनाद्यन्ता धातव इति धातुत्वम्। तङ् सन्यङोरिति द्वित्वम्। धातोरित्यविहतत्वान्नार्धधातुकत्वम्। तेनेड्‌गुणौ न। यद्यपि हलन्ताच्चेति सनः कित्वादापे गुणाभावः सुसाधः तथाप्युक्तरीत्या तत्प्रसक्तिरेव नास्तीति किन्तदनुसरणेन। जुगुप्सते। तितिक्षते। चिकित्सति। प्रत्ययान्तत्वादाम्। जुगुप्सां चक्रे इत्यादि।
मान्‌बधदान्‌शान्‌भ्यो दीर्घश्चाभ्यासस्य ।। 6 ।।
एभ्यः सन्‌स्यात् अभ्यासस्य दीर्घश्च। मान पूजायाम्। वध बन्धने। अत्र दानशानौ स्वरितेतौ। आद्यौ अनुदात्तेतौ। मीमांसते। बीभत्सते भष्‌भावचर्त्वे। दीदांसति। दीदांसते। शीशांसति। शीशांसते।
ननु दीर्घत्वमभ्यासाकारस्य प्राप्नोति। विशेषविधेः सामान्यबाधकतया सन्यत इतीत्वस्य दुर्लभत्वात्। अभ्यासस्येतिवचनादभ्यासप्रतीक्षायामपि इत्वापेक्षायां प्रमाणाभावात्।
उच्यते। ईच्चाभ्यासस्येति सूत्रयितव्यम्। नचैवं हलादिः शेषस्यापिबाधापत्तिः। ईचाच इति वाच्यत्वात्। हलादिशेषविनाऽभ्यासस्याजन्तत्वा भावेन तदबाधात्। यद्वा दीर्घश्चेतोभ्यासस्येति सूत्रणीयम्। तथाचानुवादसामर्थ्यादित्वप्रवृत्त्यनन्तरं दीर्घः। यद्वाऽऽभ्यासस्येति छेदः। अभ्यासस्य विकार आभ्यासः। सचार्थादित्वमेव। लोपस्याभावरूपतया तदादेशस्य विधातुमशक्यत्वात्। तत्प्रयोज्यनिवृत्तिप्रतियोगित्वं हि स्थानित्वम्। ह्रस्वाकारस्यैव दीर्घविधानेतु तद्धितनिर्देशवैयर्थ्यम्। दीर्घस्य वा दीर्घविधाने विशेषाभावात्। यद्वासन्निमित्तकविकारस्यैव ग्रहणात्।
वस्तुतस्तु अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्ते इति दीर्घोकित इत्यकिद्‌ग्रहणेनज्ञापयिष्यमाणत्वादित्वानन्तरमेव दीर्घ इति नदोषः। भामत्यां तु मीमांसाशब्दो माङ्‌माने इत्यस्मादुत्पन्नः। नच तस्य सूत्रेऽनुपादानात्सनोऽसिद्धिः। मानित्यनेनैव नकारन्तत्वं निपात्योक्तधातोर्ग्रहणसम्भवात्। मुण्डमिश्रादिसूत्रे हलकलयोरदन्तत्ववत् इति शब्दतात्पर्याभ्यामुक्तम्। नच सनिमीमेति इस्भावापत्तिः। घ्वादिसाहचर्येणेच्छासन्येव तद्विधानादिति दीक्षिताः। एवंच नान्तत्वनिपातनस्य स्वकल्पनायामन्तर्भावो न युक्तः। वाचस्पतिमिश्रैः स्वयमेवोक्तत्वात्। मानपूजायामिति वृत्तिग्रन्थो भङ्‌क्त्वाव्याख्येय इत्यपि मिश्रतात्पर्यकल्पनमयुक्तम्। तस्मादपि सन्प्रत्ययस्य मिश्रैरेव लिखितत्वात्। अतएव माङ्‌माने इत्यस्मान्मीमांसाशब्दे पूजितविचारार्थत्वं प्रसिद्धिवशात्। मानपूजायामित्यस्मात्तु स्मृत्यैवेति तत्र कल्पतरुकारैरुक्तमिति दिक्।
धातोः कर्मणः समानकर्तृकादिच्छायां वा ।। 7 ।।
अत्रार्थद्वारके कर्मत्वसमानकर्तृकत्वे तेच सन्निधानादिच्छनिरूपिते एव तथाच धात्वर्थविषयकेच्छायां धातोः सन्। सधात्वर्थ इच्छा च समानकर्तृके स्याताम्। इच्छाया धात्वर्थकर्तृसमेवतत्वे सतीति यावत्। अतएवजिज्ञासा इत्यादौ स्वसमानाधिकरणज्ञानेच्छायाः प्रतीतिः। पक्तुमिच्छति पिपक्षति चैत्रः। सन्‌प्रकृत्यर्थस्य सनर्थ इच्छायां विषयत्वेनान्वयः। चैत्राभिन्नकर्तृका पाकविषयिका इच्छेति सनर्थविशेष्यको बोधः। सन्नन्तस्य धातुत्वेनेच्छायाः प्रधानत्वात्।
न्यायमते तु सविषयार्थकधातूत्तराख्यातस्याश्रयलाक्षकिणत्वेनेच्छाया आश्रये तस्याभेदेन चैत्रेऽन्वयः। पाकविशेष्यकेच्छाश्रयाभिन्नः चैत्रः।
मणिकृन्मते तु इच्छाया एवाश्रयत्वसम्बन्धेन चैत्रेऽन्वयः। आख्यातं च धातुसाधुत्वार्थमित्युक्तेच्छाश्रयश्चैत्रइतिधीः। ओदनं बुभुक्षते इत्यत्रभोजनविशेष्यतया ओदनस्य इच्छाविषयत्वानुभवाद्धातोः सन्प्रत्ययाभिधेयेच्छाप्रकारवाचित्वं। पाकं चिकीर्षतीत्यत्रापि प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते नतुकृतेः इत्याहुः।
केचित्तु सकर्मकधातावपि कर्माविवक्षायामकर्मकेऽपि गृहे तिष्ठासतीत्यादौ धात्वर्थविषयकेच्छाया एवानुभवः। अतः स्थितप्रकारकगृहविशेष्यकेच्छाभिप्रायेण गृहं तिष्ठासतीति नप्रयोगः। नच विशेष्यत्वस्यौदनं बुभुक्षत इत्यादौ द्वितीयार्थत्वाभावे पाकत्वं चिकीर्षति शत्रुधननाशेच्छायां शत्रुधनं चिकीर्षतीत्यपि स्यादिति वाच्यम्। कृञ्‌ योगे साध्यत्वाख्योद्देश्यत्वाख्यविषयतयोरन्यतरस्यैव द्वितीयार्थत्वादित्याहुः।
स्यादेतत्। धातोरिति किमर्थम्। नचसोपसर्गात्तद्वारणार्थं तत्। अन्यथा द्विर्वचनाडागमावुपसर्गस्यैव स्यातामिति वाच्यम्। कर्मत्वसमानकर्तृकत्वयोरुपादानात्तयोश्च क्रियैकनिरूप्यत्वात्। क्रियायाश्च धातुमात्रवाच्यत्वात्। उपसर्गस्यच द्योतकमात्रत्वात्। धातोरेव तदुत्पत्तिसम्भवात्। वाचकत्वपक्षेऽपि विशेष्यमात्रस्य कर्मत्वं विशेषणात्तु सामानाधिकरण्यप्रयुक्ता द्वितीयेति पक्षे उपसर्गार्थस्य पृथगकर्मकत्वात्। कटोऽपि कर्म भीष्मादयोऽपीति पक्षेपि समुदायस्याकर्मकत्वात्तस्मादनुत्पत्तेः। अन्यथाधातोरित्युक्तेप्यनिस्तारात्। अर्थद्वारके हि समुदायस्य कर्मत्वे आश्रीयमाणेऽवयवस्याकर्मकत्वात्। ततः सन् प्रत्ययोन स्यात्। कर्मण इति पञ्चम्यन्तनिर्देशात्। नच कर्मण इतिषष्ठीमाश्रित्य कर्मणोऽवयवाद्धातोः सन् इत्यर्थ इति वाच्यम्। केवलाद्धातोस्तदनुत्पत्तिप्रसङ्गात्। तस्मात्।
अडादीनां व्यवस्थायै पृथक्त्त्वेन प्रकल्पनात्।
धातुपसर्गयोर्धातुः क्रियावाचीति निर्णयः।
नापि सुबन्तात्सनुत्पत्तिवारणार्थं तत्र विशेषविहितानां क्यजादीनां अपवादविधया बाधकत्वात्। नच सनो वैकल्पिकत्वात्तदभावपक्षे क्यजादीनां सावकाशत्वमिति वाच्यम्। उत्सर्गापवादयोर्द्वयोरपि वैकल्पिकत्वे अपवादनिमुर्क्ते उत्सर्गस्याप्रवृत्त्या वाक्यस्यैव प्रवृत्तेः। सुबन्तादुत्पद्यमानेन सना इच्छानवबोधादनभिधानेनापि तद्वारणस्य सुकरत्वाच्च। नच प्रातिपदिकात्सनुत्पत्तिवारणार्थम्। कर्मंणइति वाचनात् कर्मत्वेच सति सुबन्तताया आवश्यकत्वात्। तदेतदाह वार्तिककारः। "कर्मग्रहणात्सन्‌विधौ धातुग्रहणानर्थक्यम्"। सोपसर्गंकर्मेति चेत्। कर्मविशेषकत्वादुपसर्गस्यानुपसर्गं कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वादिति प्राप्ते-
सिद्धान्तः। यत्तावदुक्तम्। अनभिधानादिति तदगतिकगतिमात्रम्। लक्षणाश्रयणाद्धिलक्ष्यव्यवस्था न्याय्या। गत्यन्तराभावात्तु पचन्तीत्यादौ लक्ष्यानुरोधेन लक्षणव्यवस्थापनात्। यदप्युक्तम्। क्यजादीनामपवादत्वादिति तदप्यसत्। आत्मीयत्वेन सुबन्तेच्छायामेव क्यजादेर्विधआनाद्राज्ञः पुत्रमिच्छतीत्यादौ परकीयत्वेन तदिच्छायां सनो दुर्वारत्वात्।
अथात्र समानकर्तृकत्वग्रहणादेव न दोषः। सुबन्तेन सह समानकर्तृकत्वानुपपत्तेः। पुत्रादेः सत्त्वभूतार्थाभिदायित्वात्साध्यस्यैवसाधनसम्बन्धयोग्यत्वात्। नच कटं करोतित्यादौ कटादीनामपिसत्त्वभूतार्थपरत्वात्कथं साधनाकाङ्क्षेति वाच्यम्। शब्दान्तरसन्निधानादेव तत्र साध्यत्वप्रत्ययात्। तदुक्तं हरिणा-
निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः।
क्रियाणामेव साध्यत्वात्सिद्धरूपोऽभिधीयते।।
अतो नैतदर्थं धातुग्रहणमित्युच्यते तथापि आसितुमिच्छतिशयितुमिच्छतीत्यादौ तुमुनन्तस्य साध्यरूपाभिधायित्वात्कर्तृयोगसम्भवात्तत्र सनो दुर्वारत्वात्। क्यचि मान्ताव्ययप्रतिषेधस्य वक्ष्यमाणत्वात्। नन्वेत्रेच्छतीत्यनेन तुमुनो निमित्तेन इच्छाया अभिधानान्न सन्। उक्तार्थानामप्रयोगात्। तुमुन उपपदनिमित्तकत्वेन तदभावे तुमुनोऽसम्भवेन इच्छतीत्यस्य प्रयोगं बाधित्वा सन्विधेर्दुरुपपादत्वात् इति चेत्।
सत्यम्। तथाप्यासनमिच्छतीति ल्युटो भावमात्रविहितत्वादिच्छार्थोपपदनिमित्तत्वाभावात्सनो दुर्वारत्वात्। नचात्रपि ल्युडभिधेयभावस्य सत्त्वरूपत्वान्न समानकर्तृकत्वयोग इति वाच्यम्। धातुवाच्यक्रियाया असत्त्वभूतत्वात्तदपेक्ष्य समानकर्तृकत्वोपपत्तेः। अथ वृत्तिसमानार्थकेन वाक्येन भवितव्यम्। आसिसिषते इत्यस्य चासितुमिच्छतीति वाक्यं समानार्थम्। समानकर्तृकत्वस्योभयत्र प्रत्ययात्। आसनमिच्छतीत्यत्र तु स्वस्य परस्य वेति संशयात्समानकर्तृकत्वप्रतीतिनियमाभावात्सन्न भविष्यति। समानकर्तृकत्वस्य तत्र सनान्तर्भावयितुमशक्यत्वात्। अन्यथा धातुपदोपादानेऽपि संगतमिच्छति देवदत्तो यज्ञदत्तेनेत्यत्र सनो दुर्वारत्वात्। इह केवलस्य धातोः प्रयोगाभावात्क्त्वाप्रत्ययोपादानम् धातोरेवं सन्प्रत्ययस्यापाद्यत्वात्। समानकर्तृकत्वप्रतिपिपादयिषायां संजिगंसते वत्सो मात्रेति सन इष्टत्वात्।
एवं कर्मसमानकर्तृकग्रहणमपि व्यर्थम्। संकीर्णप्रयोगदर्शने साध्वसाधुविभागार्थं हि शास्त्रारम्भः। गमनेनेच्छति देवदत्तस्यभोजनमिच्छतीत्यर्थेच जिगमिषति बुभुक्षते इत्यादिप्रयोगादर्शनात्। इच्छायां सन्‌विधानेनैवोपपत्तेः। इच्छायाः कर्मणोऽवस्यंभावात्। संनिधानात्प्रकृत्यर्थस्यैव कर्मत्वाश्रयणात्। समानकर्तृकत्वस्यापि प्रत्यासत्त्यैव सिद्धिसम्भवादितिचेन्न। अङ्गपरिमाणार्थं कर्मणो धातोर्वित्यन्यतरस्योपादानावश्यकत्वात्। समानकर्तृकत्वस्य गुरुत्वात्। इच्छायां वेत्युच्यमाने प्रत्ययपरत्वेन प्रकृतेराक्षेपेऽपि प्राचिकीर्षदित्यादौ सोपसर्गस्याङ्गत्वं स्यात्। साक्षात्प्रकृतिविशेषनिर्देशेतु अंगस्वरूपस्य सुज्ञानत्वात्।
इदंच यद्यपि अन्यतरग्रहणेनापि सिध्यति तथापि धातुग्रहणमेवावश्यकम्। धातोरिति शब्दमुच्चार्यविहितत्वात्सन आर्धधातुकसंज्ञाया अपि सिद्धेः तेन शिशायिषते इत्यादौ गुण इट्च सिद्धः। पूर्वसूत्रद्वयविहतस्य तु सनो नार्धधातुकत्वमित्युक्तमेव। नचेकोझलिति सनः कित्त्वविधानं गुणनिषेधार्थं सत् स्वप्रयोज्यनिषेधप्रतियोगिप्रसंजकत्वेनार्धधातुकत्वं सन आक्षेप्स्यतीति वाच्यम्। सामान्येन ज्ञापकत्वे सर्वत्र तत्प्रसङ्गात्। विशेषविषयत्वे त्विगन्तान्यस्मिंस्तदनाक्षेपात्।
यदप्युक्तम्। सोपसर्गं न कर्मेति। तदप्यसत्। संघातेन क्रियाविशेषप्रक्रमादर्थद्वारकस्य कर्मत्वस्य समुदाय एव विश्रान्तेः। विशिष्टक्रियाया एव साधनार्नर्वर्त्त्यत्वात्। नहि विशेषणविशेष्ययोः स्वस्वकारणनिर्वर्त्यत्वान्नीलघटयोरिवात्रार्थः समाजः तत्रनीलत्वघटत्वयोर्भिन्नकारणप्रतियोगिककार्यतावच्छेदकतया विशिष्टस्यार्थसिद्धत्वादत्र तु प्रकर्षं प्रति कारणान्तरस्याकल्पितत्वात्। नचोपसर्गस्य द्योतकत्वाद्विशिष्टो धात्वर्थ एवेति। वाच्यम्। तथापि तादृशविशेषस्यात्र शब्दानुपात्तत्वेन संघातस्यैव विशिष्टप्रतीत्यन्वयव्यतिरेकप्रयोजकान्वयव्यतिरेकप्रतियोगितया तस्मादेव सन्‌प्रत्ययापत्तेः।
यत्तुपपदमतिङित्यत्रोक्तम्। साधनं हि क्रियां निर्वर्तयतितामुपसर्गो विशिनष्टि इति तदपि विशिष्टक्रियोत्पत्तिमाश्रित्यैवेत्यविरोधः। पूर्वं धातुः साधनेन युज्यते इति पक्षेऽपि प्रकृते विशिष्टक्रियाया एव कर्मत्वस्य प्रतिपिपादयिषितत्वात्सोपसर्गात्सन्प्रसङ्गसंभवाच्च।
यदपि विशिष्टात्सन्प्रत्ययो नस्यादिति तदप्यसत्। कर्मणोऽवयवाद्धातोरिति व्याख्यानात्। नचैवं केवलादप्रसङ्गः। व्यपदेशिद्भावेन केवलस्यापि स्वावयवत्वात्। अनुदात्तङित इत्यादौ ङिदन्तस्येति व्याख्यानावश्यकत्वे शीङादेर्ङिदन्तत्वस्य तथैव वाच्यत्वात्। नचैवं महान्तं पुत्रमिच्छतीत्यादौ क्यजपि स्यादिति वाच्यम्। सुबन्तात्क्यज्नविधानेन तस्य पदविधित्वात्समर्थपरिभाषोपस्थानेन सापेक्षत्वादसामर्थ्यात्। सन्‌विधौ तु पदविधित्वाभावात्सापेक्षत्वेऽपि सन्‌प्रत्ययः।
यद्वा धातुरेव विशिष्टक्रियावाची उपसर्गस्तु द्योतक इति नसापेक्षत्वम्। वावयनं तु व्यर्थम्। वृत्तेरेकार्थीभावविषयत्वात्। वाक्यस्यच व्यपेक्षाविषयत्वाद्भिन्नविषये बाध्यबाधकभावानुपपत्त्या वाक्यस्य सुस्थत्वात्। प्रत्युत वावचनेन एकार्थिभावपक्षेसनभावस्य विधातुमशक्यतया प्रत्ययसंज्ञाया एवाभावस्य विधेयत्वादानर्थक्यापत्तेः। तन्निबन्धनकार्यविकल्पापत्तेश्च।
अत्रवार्तिकम्। तुमुनन्ताद्वा, तस्य लुग्वचनमिति। अयमर्थः। तुमुनन्तात्सनिति लक्षणं कर्तव्यम्। समानकर्तृकधातुकर्मपदानामनुपादानेन लाघवात्। वचनसामर्थ्याच्चोपपदश्रवणं बाधित्वा पक्षे तदीयेऽर्थे सन्‌प्रत्ययो भवति। इच्छाग्रहणं प्रत्ययार्थनिर्देशायावश्यं कर्तव्यम्। तुमुनश्च लुग्वक्तव्यः। नन्वेवं तुमुनन्तस्य पदत्वात्तुमुन् लुकि वृत्ते जिघांसतीत्यादौ नलोपादिप्रसङ्ग इतिचेत्। अत्राहुः। असिद्धं बहिरङ्गमन्तरङ्गे इति लुकोऽसिद्धत्वान्नदोष इति। अस्मिन् सूत्रान्यासे इकोझलिति ज्ञापकाद्वार्धधातुकत्वमाक्षेप्यमिष्टसिध्द्यर्थम्। `लिङुत्तमाद्वा सन् उत्तमस्य च लोपो वक्तव्यः'। कुर्यामिति इच्छति चिकीर्षति। अत्र चैत्रश्चिकीर्षतीत्यत्र सन्‌प्रत्ययप्रकृतेस्तिङन्तवाचकस्य इषेरर्थे चायं विधीयते नतुश्राश्यन्विकरणयोरित्यवधेयम्।
`आशङ्कायामचेतनेषूपसंख्यानम्' श्वा मुमूर्षति। कूलं पिपतिषति। यद्यपि श्वा चेतन एव तथापि दुःप्रसक्तः दुःखाभावप्रयोजकत्वेन मरणेच्छायास्तत्रासंभवादिदमुक्तम्। अचेतनग्रहणं नकर्तव्यमिति यावत्।
भाष्यकारस्तु चेष्टादिना इच्छामनुमाय कटं चिकीर्षतीत्यादिप्रयोगवत् अवयवशैथिल्यलोष्ठपतनादिलिङ्गकेच्छानुमित्या उक्तस्थलेऽपि सन्‌प्रत्ययः। वस्तुतः कूलादौ इच्छाया असत्वेऽपि क्षतिविरहात्। नच लोष्ठपतनादाविच्छाकार्यत्वमेव नास्ति इतिवाच्यम्। आरोपेणैव भ्रमानुमितिनिर्वाहात्। `उपमानाद्वा सिद्ध'मिति तु प्रत्याख्यातम्। `नवै तिङन्तेनोपमानमस्ती'ति। अत्र व्याचक्षते। तिङन्तार्थेन नोपमानम्। क्रियायाः साध्यैकस्वभावत्वात्। अनिष्पन्नरूपत्वात्। इदं तदिति परामर्षाभावात्। तादृशपरामर्शविषयवस्तुगोचरत्वाच्चोपमानोपमेयभावस्य। नहि देवदत्तो गच्छतीत्यादौ देवदत्तादिशब्देन स गच्छत्ययं पचतीत्यादौ तदिदमाद्यैः पदैर्यथा देवदत्तादीनां परामर्षः तथा क्रियाया अस्ति। इयमित्यादिना क्रियायाः सिद्धरूपापन्नाया एवाभिधानात्। किं बहुना क्रियादिपदैरपि पचतीत्यादि समानाकारकप्रत्ययानुपधानात्। अत एवोक्तं मीमांसकैः-
पादृशी भावनाख्याते धात्वर्थश्चापि तादृशः।
नासौ तेनैव रूपेण कथ्यतेऽन्यैः पदैः क्वचित्।।
नच तथाप्युपमानोपमेयभावस्य कानुपपत्तिरिति वाच्यम्। साधारणधर्मनिबन्धनत्वादुपमायाः असिद्धायाश्च क्रियाया धर्मानाश्रयत्वात्। तदाश्रयत्वाङ्गीकारे तु सिद्धरूपत्वापत्त्या स्वरूपप्रच्यवप्रसङ्गादित्यभिप्रायस्य पञ्चमे वक्ष्यमाणत्वात्। नचासिद्धेऽपि घटादौ प्रोगभावप्रतियोगित्वादिधर्माणां सत्त्वादिदमयुक्तमिति वाच्यम्। प्रतीतिबलादन्यथानुपपत्त्या च तत्र तथात्वेऽपि प्रकृते मानाभावनात्। अत एवातीतघटादौ घटत्वं नास्तीति तार्किकाः। अपिच परिपूर्णेन चन्द्रादिना न्यूनधर्मस्य मुखादेरुपमानक्रिया च सर्वा स्वाश्रये परिसमाप्ता। उत्कर्षापकर्षहीनत्वात्। तदुक्तम्।
येनैव हेतुना हंसः पततीत्यभिधीयते।
अतो तस्य समाप्तत्वादुपमानार्थो न विद्यते।।
अधः संयोगहेतुत्वस्योभयसमवेतपतने साम्यमेवात्र समाप्तिपदार्थः। भिन्नजातीयानां च क्रियाणां सादृश्यं नास्ति। उभयानुगतधर्मस्यैवोपमानियामकत्वात्। क्रियात्वस्य त्वकिञ्चित्करत्वात्। तदेतदभिप्रेत्योत्प्रेक्षायां लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। इत्युदाहृत्याचार्यदण्डिनोक्तम्।
केषाञ्चिदुपमाभ्रान्ति रिवश्रुत्येह जायते।
नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम्।।
अयमर्थः किमत्रोपमानम्। न तावत्कर्ता। तस्य धात्वर्थभावनायां विशेषणत्वेन इवार्थे प्रकारत्वासम्भवात्। अन्यविशेषणस्यान्यत्रान्वयायोगात्। तदुक्तम्।
कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे।
स्वक्रियासाधनव्यग्रो नालमन्यद्व्यपेक्षितुम्।।
स्वविशेष्यक्रियायां साधनं विशेषणत्वेनान्वयः। तत्र व्यग्रः तदन्वये निराकाङ्क्षः। अन्यत्क्रियाभिन्नं व्यपेक्षितुं स्वप्रकारकान्वयबोधे विशेष्यतामापादयितुमसमर्थः। नच यथा पृथिव्यामेव गन्ध इत्यादौ सप्तम्यर्थविशेषणस्यापि पृथिव्यादेरेवकारार्थेऽन्योन्याभावेऽन्वयायोभयत्र युगपदेवान्वयो व्युत्पत्तिवैचित्र्यात्। यद्वा एवकास्स्य समभिव्याहृतपदार्थतावच्छेदकावच्छिन्नान्यत्वबोधकत्वमिति कल्प्यते। तथात्र कर्तुर्भावनायां सादृश्येच सममेवान्वयः। यद्वा इवपदस्य कर्तृमादृश्यपरत्वमिति वाच्यम्। तथापि लेपकर्तृसदृशं तम इति बोधासम्भवात्। धात्वर्थस्य कर्तरि विशेषणत्वानुपपत्तेः। क्रियाप्राधान्यभङ्गापत्तेश्च। नच लेपकर्तृसदृशतमःकर्तृका लेपक्रियेति बोधोऽस्त्वति वाच्यम्। विकल्पासहत्वात्। किमत्राख्यातार्थस्य कर्तुः सादृश्ये क्रियायां चान्वयः उत कर्तृविशिष्ट एवेवपदार्थः। नाद्यः। धात्वर्थे एव तदन्वयात्। नान्त्यः। सहि धात्वर्थलेपस्योभयत्रान्वयात्। लेपकर्तृसादृश्यस्येवपदार्थत्वाद्वा। नाद्यः। तस्य विशेषणत्वायोगात्। नान्त्यः। उपमानस्य इवादिपदार्थबहिर्भावनियमात्। उपमेयतावच्छेदकरूपानवच्छिन्नत्वेन प्रतियोग्युपस्थितेः। सादृश्यबुद्ध्यपेक्षितत्वाच्चलेपकर्तृत्वेनैव सादृश्यविवक्षायां धर्मोपमानयोरैक्यापत्तेश्च। धर्मान्तेरण च लेपकर्तृसादृश्यस्य प्रकृतानुपयोगात्। अप्रसिद्धसादृश्यस्थले तन्निमित्तधर्मोपादानावश्यकत्वाच्च। चन्द्र इव मुखमित्यादौ प्रसिद्धिबलादाह्लादकत्वादिप्रत्ययसम्भवेन धर्मलोपोपादानयोः स्वीकारेऽपि `त्रविष्टपं तत्खलु भारतायते'इत्यादौ`सुपर्वभिः शोभितमन्तराश्रितै' रित्याद्यनुपादाने सादृश्यानुल्लास स्याभियुक्तानुभवसिद्धत्वात् इत्यन्यत्र विस्तरः। नापि लेपनमेवोपमानम्। लेपक्रियातमसोः साधारणधर्माभावात्। लेपनस्यैव तद्धर्मत्वासंभवात्। धर्मधर्मिभावस्य भेदनिबन्धनत्वात्। धर्मधर्मितावच्छेदकरूपभेदस्य भेदाभेदवादिभिरप्यङ्गीकारात्। भेदमादायापौनरुक्त्यम्। अबेदमादाय सामानाधिकरण्यमिति तत्सिद्धान्तात्। अतएव कार्यादिस्थलेऽप्यन्यप्रकारेणैव भेदाभेदाभ्युपगमः। तदुक्तं भामत्याम्।
कर्यरूपेण नानात्वमभेदः कारणात्मना।
हाटकाद्यात्मना भेदः कुण्डलाद्यात्मना भिदेति।
तदिदमुक्तं-
यदिलिम्पनमेवेष्टं लिम्पतिर्नाम कोऽपरः।
स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते इति।
स्यादेतत्। `तेन तुल्यं क्रियाचे'दिति सूत्रे क्रियाया उपमेयत्वं सूत्रवार्तिकभाष्यसिद्धं उक्तयुक्त्यां तन्न स्यात्। उपमेयभूताया अपि क्रियायाः सामान्यधर्मश्रयत्वविवक्षायां सत्त्वरूपत्वप्रसङ्गादुपमानक्रियातो वैलक्षण्यनिरुक्तेरिति चेत्।
उच्यते। क्रियाया उपमानत्वं नास्तीत्यत्रैव ग्रन्थकाराणां तात्पर्यम्। सत्त्वरूपत्वप्रसङ्गस्तु युक्त्यन्तरस्योपलक्षणम्। तथाहि कूलं पिपतिषतीत्यत्रेवपदाध्याहारो विवक्षितः, अन्यतानुपपत्त्या लक्षणा वा? नाद्यः। पिपतिषायाः सादृश्यप्रतियोगित्वं, कूलस्य वा। नाद्यः। धात्वर्थस्य वाक्यार्थे प्राधान्योपगमात्। भावप्रधानमाख्यातमिति निरुक्तस्मरणाच्च। नच सत्त्वार्थकापेक्षयैव विशेष्यत्वं तदर्थ इति वाच्यम्। नहीदं वाचनिकं येनोक्तरीत्या व्यवस्थाप्येत किन्तु लाघवतर्कसहकृतानुभवसिद्धं तथाचान्यत्र तदन्वये कार्यकारणभावकल्पनावश्यकत्वम्। आख्यातार्थकर्त्रादेरपि लिङ्गसंख्यानन्वयित्वेन तत्रापि तद्विशेषणत्वापत्तेश्च। फलस्यापि तथात्वाच्च। नचाख्यातार्थापेक्षयैव प्राधान्ये तात्पर्यम्। प्रथमान्तस्य विशेष्यत्वप्रसङ्गात्। तस्मात्क्रियान्तरापेक्षया तिङन्तक्रियायाः प्राधान्यम्। अत एव पचति भवति पश्य मृगो धावति इत्यादौ कर्तृत्वकर्मत्वाभ्यां पाकधावनक्रिययोर्भवनदर्शनक्रियान्वयः। भोक्तुं पचतीत्यादौ सामानाधिकरण्येन तुमुन्प्रकृत्यर्थस्य तिङन्तार्थक्रियान्वयश्च सूत्रसिद्ध इत्यग्रे विस्तरः।
किञ्च क्रियासादृश्यस्य कूले नान्वयः। कूलसादृश्यस्यापि पिन्यस्य चानुपस्थितत्वात्। न द्वितीयः। कूलसादृश्यस्यापि पिपतिषायामाभावात्। एतेन इवद्योतकत्वेनाप्यनिस्तारः। नापि लक्षणेति द्वितीयः। पिपतिषासदृशे लक्षणायाः शङ्कितुमप्यशक्यत्वात्। क्रमिकव्यापारसमूहस्यैव क्रियात्वेन धातोस्तदतिरिक्तांशबोधने लक्षणयाप्यसामर्थ्यात्। अत एवेच्छाजन्यसदृशस्य सनर्थतया तस्यच पतनान्वयात्। कूलकर्तृकं इच्छाजन्यसदृशं पतनमिति बोधोऽप्यनाशङ्क्यः। प्रकृत्यर्थप्रकारकबोधंप्रति प्रत्ययजन्योपस्थितिहेतुतायाः क्लृप्तत्वात्। इच्छाजन्यत्वस्य पदार्थान्तरसाधारणतया उपमानविशेषानवधारणाच्च। तादृशपतनपरत्वेऽपि गौरवाधिक्याच्च।
ब्राह्मणवदधीते इत्यादौ तु ब्राह्मणपदस्य तदपादानकाध्ययनपरत्वेऽपि तिङन्तानुपस्थाप्यत्वादध्ययनस्य वतिप्रत्ययार्थे सादृस्ये प्रतियोगित्वेनान्वयः। तस्यच तिङन्तार्थाध्ययनक्रियायामिति नदोषः। रोदितीव गायतीत्यादौ तु सादृश्यसम्बन्धेन क्रियायाः क्रियान्तरेऽन्वयः। इवपदस्य तात्पर्यग्राहकत्वात्। अत एवासत्त्वरूपत्वनिर्वाहः। पदान्तरार्थे विशेषणत्वानापन्नत्वात्। कर्मत्वकर्तृत्वयोरपि संसर्गताया एवोक्तत्वात्। नचोपमेयक्रियाया अधिकरणत्वापत्तिरितिवाच्यम्। वृत्तिनियामकसंबन्धावच्छिन्नाधिकरणत्वस्यैव मुख्यत्वात्तस्यचात्रानवगमात्। वैशिष्ठ्यमात्रस्य तथात्वे पर्वतीयो वह्निरित्यादौ व्यभिचारात्। अतएव भट्टमते भूतलाभावयोस्तादात्म्याङ्गीकारे भूतले घटाभाव इत्यादावाकाङ्क्षेत्थापनार्थं सप्तम्या उपयोगो नत्वधिकरणत्वबोधार्थमिति सिद्धान्तः।
एवंच कारकविभक्तिप्रकृतिपदानभिधीयत्वादेवासत्त्वभूतत्वम्। लिङ्गानन्वयस्तु स्पष्ट एव। संख्या तु यद्यपि उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इति भाष्यप्रयोगबलात्प्रतीयते तथापि ण्वुलर्थे भाव एव तदन्वयो नतु धात्वर्थे। तस्य संख्यांशे निराकाङ्क्षत्वेन तदन्वयानुपपत्तेः। अन्यथा चैत्रेण स्थीयते इत्यादौ एकत्वस्याप्यन्वयापत्तेः। एतेन कारकसंख्याद्यन्वयेऽपि सर्वनामपरामर्षानार्हत्वादेवासत्त्वरूपतेत्यपास्तम्। संकोचे मानाभावादित्यग्रे विस्तरः।
प्रकृतमनुसरामः। यद्वा इच्छेवेच्छा इच्छाशब्दस्य सत्त्वभूतार्थाभिधायित्वात्तदर्थस्योपमानत्वात्। अत इच्छासदृशेऽपि व्यापारे। सन्विधिः। सच व्यापारोऽवयवशैथिल्यप्रयोजकत्वेन कूलावयवनिष्ठस्पन्दादिः। लक्ष्यानुरोधेन गौणमुख्यन्यायाप्रवृत्त्या ुभयत्र प्रत्ययः। यत्तु समाधानान्तरं भाष्ये सर्वस्य वाचेतनावत्त्वात्। आस्कन्दकपिलकेत्युक्ते तृणमास्कन्दयति, अयस्कान्तमयः संक्रामतिष श्रृणोत ग्रावाण इति लिङ्गाच्चेति।
यच्च व्याख्यातं आत्माद्वैतदर्शने एतत्। वैचित्र्येण च सर्वपदार्थानामुपलम्भात् सर्वत्रातिप्रसङ्गो नोद्भावनीय इति तत्प्रौढिवादमात्रम्। ब्रह्मैवेदं सर्वमित्यादौ बाधायागध्यासे वा सामानाधिकरण्यं नत्वभेदे इति वेदान्तिभिरभ्युपगमात्। अतएवोक्तम्।
अस्ति भाति प्रियं रूपं नामचेत्यंशपञ्चकम्।
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्।।
खवाताग्निजलोर्वीषु देवतिर्यङ्‌नरादिषु।
अभिन्नाः सच्चिदानन्दा भिद्येते रूपनामनी।। इति।
सांख्यैरपि अचेतनप्रकृतिपरिणामित्वाभ्युपगमात् इतिदिक्। ग्रामं गन्तुमिच्छतीत्यत्र ग्रामगमनयोरुभयोरपि इषिकर्मत्वे ग्रामाय गन्तुमिच्छतीति गत्यर्थकर्मणीति चतुर्थी न स्यात्। गतिकर्मत्वाभावात्। गमेर्ग्रामः कर्म इषेस्तु गमनमित्युक्तौ च इष्यते ग्रामो गन्तुमित्यत्र कर्मप्रत्ययेन ग्रामस्याभिधानं न स्यात्। तस्येषिकर्मत्वाभावात्। स्वप्रकृत्यर्थसाधनत्वप्रकारस्यैव प्रत्ययाभिधेयत्वात्। तस्माद्गमेर्ग्रामः कर्म इषेस्तु ग्रामो गमनं चेति सिद्धान्तः। इष्यते ग्रामोगन्तुमित्यत्र गमनस्य ग्रामार्थत्वादप्राधान्याद्भिन्नकक्षयोः कर्मणोरेकेनाभिधातुमशक्यत्वात्। प्रधाने कार्यसंप्रत्ययाद्ग्रामस्यैवाभिधानम्। इषिक्रियायाश्चख्यातान्तवाच्यतया प्राधान्यात्प्रधानशक्त्यभिधानेन ग्रामात्प्रथम्। गमिक्रियाया गुणत्वात्तदपेक्षया द्वितीयाचतुर्थ्योरनुपपत्तेः। गुणस्य प्रधानविरुद्धकार्यानारम्भकत्वादिति प्रागुक्तम्।
शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः।
सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते।।
यद्यपि सनैव इच्छाया अभिधानान्न पुनः सन्निति न वक्तुं शक्यम्। पाकेच्छायास्तेनाभिधानेऽपि पाकेच्छाविषयकेच्छाया अनुक्तत्वात्। अन्यथा प्रतीषिषतीत्यत्र इषेरपि सन्न स्यात्। तथापि वाचनिक एवायं निषेधः। इच्छासन्नन्ते चायम्। जिगुप्सिषते मीमांसिषते इत्यादौ स्वार्थसन्नन्तादिच्छासन इष्टत्वात्। शैषिकादित्यादावुदाहरणम्-शालायां भवः शालीयो घटः तत्र भवमुदकमिति पुनः छ प्रत्ययो न। विरूपस्तु भवत्येव। अहिच्छत्रे भव आहिच्छत्रः तत्रभव आहिच्छत्रीयः। दण्डोऽस्यास्तीति दण्डिकः सोस्यास्तीति पुनर्नठन्। विरूपस्तु भवत्येव दण्डिमती सेनेति। एवंच वह्निमद्वानिति तार्किकप्रयोगाः प्रामादिकाः। तसौ मत्वर्थेइति भसंज्ञात्वात्पदकार्यस्य जश्त्वस्य च दुर्लभत्वात्।
इति श्रीसिद्धान्तसुधानिधौ तृतीयाध्यायस्य प्रथमे प्रादे प्रथमाह्निकम्।