श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः १/आह्निकम् ४

← आह्निकम् ३ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ४
[[लेखकः :|]]
आह्निकम् ५ →

तृतीयाध्याये प्रथमपादे चतुर्थमाह्निकम्।। 4 ।।
च्लि लुङि ।। 43 ।।
धातोर्लुङि च्लिप्रत्ययः स्यात्। यद्यपि सिजादिभिरादेशैरपहारादस्य क्वापि न प्रयोगः। नापि क्विबादिवत् किमपि कार्यम्। तथापि मन्त्रे घसह्वरणशवृदद्वृच्‌कृगमिजनिब्यो लेरिति सूत्रे विधेयलोपप्रतियोगितया लेरिति सामान्यग्रहणार्थं च्लिविधानम्। अन्यथा चङङ्‌सिचां ग्रहणं कर्तव्यं स्यात्। धयतेरादन्तत्वात्तदर्तं चङो, घस् गम्यो लृदित्वात्तदर्थमङो धात्वन्तरार्थंच सिच इति विवेकः। जनेर्विहितस्य तु चिणो यदि मन्त्रे लुग् दृश्यते तदा चतुर्थस्य तस्यापि ग्रहणं कार्यमित्यभिप्रायेण भाष्ये `तत्रावरतस्त्रयाणां ग्रहण' मित्युक्तम्।
"व्यवहितस्य क्सविधाने चानिड्‌वचने च्लिसंप्रत्ययार्थम्।" अस्यार्थः। शल इगुपधादिति सूत्रेऽनिट इत्यनेन च्लेविंशषणार्थं च्लिविधानम्। अन्यथा तस्य धातुविशेषणापत्तेः तत्र को दोष इति चेत्।
तदाहि अनिट्‌त्वं प्रत्ययान्तरगतमाश्रयणीयम्। अन्यत्र यस्माद्धातोरिडागमो नास्तीति लुङादेशानां सार्वधातुकतया तेषामिट् प्रसक्तिविरहात्। तद्गतानिट्‌त्वस्य वक्तुमशक्यत्वात् ततश्च गुहादिभ्यः क्सो न स्यात्। वैकल्पिकेनेटातेषा मन्यत्र सेट्‌त्वात्। यदि तु पाक्षिकेणेडभावेन तेषामनिट्‌त्वमाभिधीयेत तदा नित्यं क्सः स्यात्। च्लिप्रत्ययस्य विशेष्यत्वे तु तस्यार्धधातुकतया गुहादि प्रकृतिकस्य तस्य प्रकृतेरूदित्वेन यदा इडभावस्तदा क्सादेशादघुक्षदिति त्विट् तदा सिजादेशादगूहीदिति सिद्धम्।
`घस्लृभावे वे'ति वार्तिकान्तरम्। तथा हिलुङि यदार्धधातुकं तस्मिन्नदेर्घस्लृभावो विधेयः। तत्र च्लौ परतो घस्लृभावे सति लृदित्वादङादेशः सिद्धः। अन्यथा सिच्येव परतो घस्लृभावः स्यादिति सिचः श्रवणापत्तिः। उत्सर्गस्यापि प्रवृत्तस्यापवादेन बाधितुमशक्यत्वात्। तदप्रवृत्तेरेवापवादकार्यत्वात्।
एवं `मन्त्रेधसे'ति सूत्रे सिचो लुग्विधाने `आदिः सिचो न्यतरस्या' मिति स्वरः स्यात्। लुमता लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेन तत्स्वरस्येष्टत्वात्। इदित्करणं तु मन्त्रेधसेति आम इति च सूत्रेलेरिति सामान्यग्रहणार्थम्। तथाच यथासंभवं च्लिलिटोर्लक्। तदविघातार्थश्चकारः अन्यथा लिटो ग्रहणं न स्यात्। च्लेः सिजित्यत्र तु लोरत्युक्तेऽपि नदोषः। लुङित्यनुवृत्त्यैव लिङ्लिटोरनतिप्रसङ्गात्। तयोर्लुङ्‌परत्वासंभवात्। तदनुबन्धकग्रहण मरिभाषया समाधानाच्चेति।
अत्र भाष्यकृतः। यथान्यासे 'च्लिलुङि' `च्लेःसिच्' `ले'रिति त्रीणि च्लिग्रहणानि। तदपेक्षमन्त्रे घसेतिसूत्रे चङङ्‌सिचां त्रयाणां ग्रहणेऽपि गौरवाभावात् सिज्लुङीति वाच्यत्वात्। नच यथान्यासे गातिस्थेति सूत्रे सिच इत्यपहाय लेरित्येव पठनीयम्। तस्यैव मन्त्रेघसेतिसूत्रेऽनुवृत्त्या तत्र लेरित्यस्य परित्यागालालाघवमिति वाच्यम्। घेटश्चातुः शबद्यप्रसङ्गात् विभाषाघ्राघेडित्य त्रापि लिग्रहणानुवृत्त्या लेरादेशेषु कृतेषु स्थानिवभ्दावात् च्लिग्रहणेन ग्रहणाल्लुकि कृते चङ्‌निमित्तद्वित्वप्राप्त्या अदधादित्यस्यापि प्रसङ्गात्। अदधत्। अधात्। अधासीदिति त्रयमेव त्विष्यते।
नच चङ्‌लोपस्य स्थानिवद्भावादातोलोप इत्यालोपेऽदधदित्येव रूपमिति वाच्यम्। क्विलुगुपधात्वे लुका लुप्तस्य स्थानिवत्त्वनिषेधात्। नलुमतेति प्रत्ययलक्षणनिषेधाच्चाकारलोपस्य दुर्लभत्वात्। अथ चङो लुकि न द्वित्वं न लुमतेति प्रत्ययलक्षणनिषेधादिति ब्रूषे, तथापि बहुवचनेऽधानित्यस्यापत्त्या रूपचतुष्टयस्य दुर्वारत्वात्। चङि सिज्लोपविकल्पे च अदधुः अधुः अधासिषुः इति त्रयमेव त्विष्टम्। नचनियमार्थत्वेनाभिमतस्याऽऽत इत्यस्य विध्यर्थत्वमाश्रित्य चङ्‌लोपेऽपि जुसा अदधुरित्येव रूपमिति वाच्यम्। तत्र सिज्‌ग्रहणानु वृत्त्या चङो लोपे जुसादेशानुपपत्तेः। सिजनुवृत्त्यनङ्गीकारे। अभूवन्नित्यत्रापि प्रत्ययलक्षणेन जुस्‌प्रसङ्गात्।
अथ लुक् सिजपवादो विधायिष्यते अतोऽकृतेष्वादेशेषु लेरेव लुक्। तेनाभूवन्नित्यत्र न जुस् आत इति अधुरदुरयुरित्यादि सिध्यर्थं अपूर्वविधिरिति चेत् मैवम्।
मा हि दातामित्यत्रादिः सिचोऽन्यतरस्यामिति स्वरानुपपत्तेः। लेरन्यतरस्यामिति न्यासे चङादावतिप्रसङ्गात्।
तस्मात्स्वरानुरोधेन च्लेरादेशानन्तरमेव लुगित्यवश्यं वक्तव्यम्। ततश्चाभूवन्नित्यतिप्रसङ्गवारणाय आत इत्यत्र सिजनुवृत्त्यावश्यकत्वे चङ्‌लोपपक्षे जुसादेशानुपपत्त्या अधानिति चतुर्थं रूपं दुर्वारमिति तदनुरोधेन गातिस्थेति सूत्रे सिज्‌ग्रहणमेव कार्यम्। तथाच मन्त्रेघसेति सूत्रे लेरिति पदमवश्योपादेयमिति च्लिग्रहणत्रयं दुर्वारमिति। तत्सूत्रे चङङ्‌सिचामुपादानेन यथा न्यासापेक्षया गौरवमिति तदनुरोधेन च्लेर्विधानं युक्तम्।
यदप्युक्तम् `क्सविधाने चानिड्‌वचने च्लिसंप्रत्ययार्थ' मिति तदप्यसत्। धातोरेव तत्रानिट इत्यनेन विशेषणीयत्वात्। नचेट आर्धधातुकभक्तत्वात्तस्यैव तदभावादनिडिति व्यपदेशो युक्तो नतु धातोः, प्रतियोगिप्रसक्तिपूर्वकत्वान्निषेधस्य। सामयिकात्यन्ताभावविशेषस्यैव तद्व्यपदेशनिमित्तत्वादिति वाच्यम्। धातोरिटश्च निमित्तनैमित्तकभावसत्त्वेन षष्ठीबहुव्रीहेरुपपत्तेः। अवयवावयविभावस्य प्रकृते प्रतियोगितावच्छेदकसबन्धत्वाभावात्। यद्वा पञ्चम्यर्थे बहुव्रीहिः। विशेषणसामर्थ्यात्।
ननु तथापि आर्धधातुकमात्रेऽनिट इत्यर्थे गुहादिभ्यो न स्यात्। ऊदित्वाद्विकल्पितेट्‌कत्वात्। निष्ठायामनिट इत्यर्थे गुहादिभ्योअपि नित्यं क्सप्रसङ्गः। नचेष्टापत्तिः। तत्र तद्विकल्पस्येष्यमाणत्वात्। क्त्वायां विकल्पितेट्‌कानामपि इषु रिषु श्रिषु प्रुष्वादीनां भूयसां शलन्तानामिगुपधानां निष्ठायामनिट्‌त्वात्। तेभ्योऽपि क्सप्रसङ्गश्च। लिटि अनिट इत्यर्थे तु कुतोऽपि न स्यात्। शलन्तानामिगुपधानां गूहत्यादीनामपि तत्र क्रादिनियमबलेन सेट्‌त्वात्। नच क्सेनानिट्‌त्वाश्रयेण भाव्यम्। क्सप्रत्ययेऽनिट इत्यर्थादिति वाच्यम्। तद्विषये लिटि प्राप्त्यभावादिति चेन्न। बलादावार्धधातुकेऽनिट इति व्याख्यानात्। विकल्पितेट्‌कानां गुहादीनामिटोभावाभावाभ्यां भेदात्। इड्‌विशिष्टेभ्यः सिच्। तद्रहितेभ्य क्स इति इष्टसिद्धेः।
यदप्युक्तम्। `घस्लृभावे वेति। तदप्यसत्। विषयसप्तमीमाश्रित्य आर्धधातुकीयाः सामान्येन भवन्तीति व्याख्यानात्। अङ्‌ प्रत्ययगतमार्धधातुकसामान्यमाश्रित्य घस्लादेशप्रवृत्तेरित्याहुः।
नन्वेवं च्लिप्रत्याख्याने मन्त्रेघसेति सूत्रेण सिचो लोपे आदिः सिच इति स्वारः स्यात्।
अत्राहुः-छन्दसि क्वचिदडाटोरुदात्तत्वेन भाव्यं क्वचिन्निघातेन यत्र त्वडाटोस्तिङ्निघातस्य निषेधः प्रत्ययस्वरश्चेष्यते सविषयच्छन्दसि नास्ति एतच्च भाष्यकारेण च्लेः प्रत्याख्यानाद्विज्ञायते। माहि लावीरित्यादौ तु सिच एव चित्त्वेनानन्यार्थेन चागमानुदात्तत्वं बाधिष्यत इति तद्‌र्थोऽप्यनुबन्धासङ्गार्थश्च्लिर्नकर्तव्य इति।
च्लेः सिच् ।। 44 ।।
च्लेः। सिजादेशः स्यात्। चित्वं तु न विशेषणार्थम्। सौ वृद्धिरित्यप्यग्निर्वायुरित्यादौ परस्मैभावेनानतिप्रसङ्गात्। पृथङ्‌निर्देशादङ्गाङ्गिभावनिर्णयेन समुच्चयशङ्कानुपपत्तेः। नापि स्वरार्थः। अनच्त्कत्वात्। नच माहि कार्ष्टामित्यत्र चितः सप्रकृतेरिति स्थानिवद्भावेन धातोरुदात्तार्थः। `आदिसिचोऽन्यतरस्या' मिति पाक्षिकोदात्तप्रवृत्त्या चित्स्वराविषयत्वात्। नचेटि कृते तस्योदात्तत्वार्थः। प्रत्ययस्वरेण सिद्धेः। तथापि इट आगमाअनुदात्ता इत्यस्य प्रसक्त्या तद्‌बाधेनोदात्तत्वविध्यर्थम्।
ननु स्थानिवत्त्वाच्चित्वं सिद्धं तदुक्तम्। सिचः चित्करणानर्थक्यं स्तानिवत्वादिति चेत्।
अत्र वार्तिकम्। अर्थवत्तु चित्करणंसामर्थ्याद्धीट उदात्तत्वमिति। अयमर्थः स्थानिवद्भावेन नेट उदात्तत्वसिद्धिः। येन नाप्राप्तिन्यायेन आगमानुदात्तत्वस्य प्रत्ययस्वरापवादत्वात्स्थानिवद्भावेनापि प्राप्तमुदात्तं बाधित्वानुदात्तत्वप्रसङ्गात्। पुनश्चित्करणसामर्थ्यात्तु प्रत्ययस्वर इति।
अत्र केचित्। प्रत्ययस्वरस्य द्वावपवादौ। आगमानुदात्तत्वं यासुडित्यत्र ज्ञापितं तत्समानदेशं चित्स्वरश्च षष्ठिकः तत्रापवादविप्रतिषेधाच्चित्स्वर एव भविष्यति। अतो व्यर्थं सिचश्चित्वमिति।
अत्र कैयटः। आगमानुदात्तत्वं चित्स्वरश्च न प्रस्ययस्वरापवादः। प्रकृत्यागमानामानुगागमादीनां कुण्डिनजादीनां च चितां तदप्रसङ्गात्। स्थानिवदित्ययं कार्यातिदेशो न रूपातिदेशः। परत्वमपि चित्स्वरस्य नास्ति। आगमानुदात्तत्वेन चाविशेषात्सर्वस्वरो बोध्यः। तस्मात्तदूबाधार्थं सिचश्चित्वमिति स्थितम्। इदित्करणं तु न तावदमस्तेत्यादौ नलोपवारणार्थम्। हनः सिजिति सिचः कित्त्वविधानेन सिजन्तस्य नकारलोपो न भवतीति ज्ञापितत्वात्। अन्यथेदित्वादेव नकारलोपनिषेधे कित्त्वेनापितल्लोपानुपपत्तेः।
ननु सिचमेव निमित्तीकृत्य लोपो यथा स्यात् नतु ततः परं यत्सार्वधातुकं तन्निमित्तीकृत्यैतदर्थं तत्। तथा सति हि अतोलोप इति सिचमाश्रित्याकारलोपः स्यात्। सिचं निमित्तीकृत्यनकारलोपे तु समानाश्रत्वादसिद्धवदत्राबादित्यसिद्धत्वान्नातोलोप इति चेन्न। बाह्यसार्वधातुकाश्रस्य नलोपस्य बहिरङ्गत्वादसिद्धं बहिरङ्गमन्तरङ्गे इत्यनेन निर्वाहात्। आर्धधातुकोपदेशकाले यदकारान्तं तस्य लोपविधानाच्च। अन्यथा हत इत्यादावनिस्तारात्। तदाहुः-अवयवलोपिनामतोलोपो नास्तीति। तस्मात्कित्करणं ज्ञापकमेवेति व्यर्थमिदित्वम्।
स्पृशमृशकृषतृपदृपां सिज्वेति वक्तव्यम्। त्रिभ्यः क्से द्वाभ्यां च पुषादित्वादङि प्राप्ते पाक्षिकसिज्विध्यर्थं वचनम्। अस्पृक्षत्। अस्प्राक्षीत्। अमृक्षत्। अम्राक्षीत्। अकृक्षत्। अक्राक्षीत्। अतृपत्। आत्रप्‌सीत्। अद्राप्‌सीत्।
नच च्लेः चित्करणप्रत्याख्यानात्प्रयोजनाभावाच्च ककरस्येत्संज्ञाविरहे च्लिरेव विधीयते नतु लिः। ततश्चलादित्वादनुदात्तस्यचर्दुपधस्येत्यमागमे निमित्ताभावात् क्सादेशानुपपत्तौ सिच्। अमभावपक्षेतु क्स इति सिद्धमिष्टम्। नचैवमन्त्यस्य सिजादयः स्युरिति ककारश्रवणापत्तिः। सिचो यकारादित्वेनानेकाल्त्वात्सर्वादेशसम्भवात्। यस्यच लोपोव्योरिति लोपात्। एवं चादेः परस्येत्यस्याप्रवृत्तिः।
नच तथापि चङङो सर्वादेशत्वानुपपत्तिः। चअङ्‌ अअङ् इति तयोरपि अनेकाल्त्वव्याखअयानात्। चिण्‌भावकर्मणोरित्यत्रापि चकारस्य नेत्संज्ञेति सर्वादेशत्वसिद्धिः। अन्तावयवत्वे हि न प्रत्ययसंज्ञा ततो नेत्संज्ञा ततो लोपाभाव इति लुटः प्रथमस्येति सूत्रे स्पष्टमेतत्। धातुग्रहणानपेक्षणादत्रादेः परस्येत्यस्यानवकाशः दीपजनेत्यादौ तु तदवकाशे प्रसक्तेऽपि दीपादिभ्यो विहितस्य च्लेश्चिणिति व्याख्येयम्। अत एतद्वार्तिकं व्यर्थमिति चेत्। न,
सामान्यग्रहणाविधातार्थत्वेन चकारे इत्संज्ञाया अनुक्तत्वात्। लकारस्य झल्‌त्वाभावादमागमाभावे क्सस्यैव प्रसङ्गात्। सिजर्थं वार्तिकस्यावश्यकत्वात्। तथाच क्से कृतेऽस्पृक्षत् सिचि च पाक्षिकेऽमागमेऽस्प्राक्षीदिति तदभावे वृद्धावस्पार्क्षीदिति त्रैरूप्यं सिद्धम्।।
शल इगुपधादनिटः क्सः ।। 45 ।।
शलन्तो य इगुपधस्तस्मादनिटश्च्लेः क्सादेशः। अघुक्षत्। ननु च्लिनिमित्तकगुणस्य पूर्वंप्रवृत्त्या न क्वापि इगुपधत्वम्। नच कित्वकरणसामर्थ्यात्पूर्वक्सस्याचीत्यत्र विशेषणार्थत्वेन ककारोपपत्तेः। अन्यथावत्साइत्यादावपि सलोपप्रसङ्गात्। भूतपूर्वगत्याश्रये विहितविसेषणाश्रये च सुप्रसिद्धेः। मैवम्। भूतपूर्वगत्याश्रये विहितविशेषणाश्रये च सुप्रसिद्धः। मैवम्। भूतपूर्वगत्याश्रये कित्त्ववैयर्थ्यात्। सस्याचीत्युच्यमानेऽपि प्रत्ययत्वादर्थबत्त्वाच्चास्यैव सस्य ग्रहणसंभवात्। उणादीनामव्युत्पन्नत्वाद्वत्सा इत्यादावदोषात्। अनुबन्धविशिष्टरूपस्यानवकाशत्वाद्‌गुणात्पूर्वमेवक्सादेशप्रवृत्तेः।
ननु च्लेरवश्यं सिचा भाव्यमितीडभावोपलक्षितमस्य स्वरूपं क्वापि नास्तीति विशेषणाप्रसिद्धिः। मैवम्। क्सस्यायं विषय इति सिचः पूर्वमप्रवृत्तेः। अपवादविषयपरिहारेणैवोत्सर्गप्रवृत्तेः। क्सस्यापि तावन्न प्रवृत्तिः। अनिट इति विशेषणानवधारणात्। अतोलिकारस्यैव वलाद्यार्धातुकत्वादिट्‌प्रसङ्गे तन्निषेधानिट्‌त्वमस्तीति क्सादेशः। इट्‌प्रतिषेधाभावे तु सिजेव भवत्यकोषीदिति।
श्लिष आलिङ्गने।। 46 ।।
अत्र `श्लिष' इति एको योगः। श्लिषः परस्य च्लेः क्सादेशः स्यात्। पुषादित्वात्प्राप्तस्याङो बाधनार्थमेतत्। तत `आलिङ्गने' इत्यपरः। पूर्वेण सिद्धे नियमार्थोऽयम्। आलिङ्गने एव वसो नतु प्रत्यासत्तिमात्रे। समाश्लिक्षत्कन्यां देवदत्तः। नेह समाश्लिषज्जतु काष्ठम्। नचात्मनेपदेऽपि चिणं बाधित्वा क्स एव स्यात्। ततश्च समाश्लेषि कन्या देवद्त्तेनेति न सिध्येदिति वाच्यम्। बाध्यविशेषचिन्तायां `मध्येपवादाः पूर्वान् विधीन् बाधन्ते नोत्रा'निति न्यायेन तदबाधात्। बाध्यसामान्यचिन्तायां तु चिण्ग्रहणं चिणेव यथा स्यात् यदन्यत् प्राप्नोति तन्माभूदित्यर्थमिति वक्ष्यमाणत्वात्।
ननु कर्मण्यनालिङ्गने आतांप्रभृतिषु शलइगुपधेति क्सः प्रसज्येत। तत आतां प्रत्यये यद्यपि वससिचोर्न विशेषः क्सस्याचीत्यतो लोपात्। एवं च समाश्लिक्षत जतूनि काष्ठैरित्यत्रापि, तथापि आश्लिष्ठा इतिरूपं सिचं विना न सम्भवति। आश्लिक्षता इति प्रसङ्गादिति चेत् मैवम्।
योगविभागसामर्थ्याच्छल इगुपधादिति क्सस्यापि नियमेन व्यावर्तनात्। श्लिष इत्यनेन प्राप्तस्यैव क्सस्य नियमेव व्यावर्तने तद्वैयर्थ्यात्। एकवाक्यतया विधावपि तादृशार्थसिद्धेः। तस्मादालिङ्गने चिण्विषयादन्यत्र सिजेव ततु क्स इति सिद्धम्।
न दृशः ।। 48 ।।
क्सो न स्यात्। इरितोवेति अङ्‌सिचौ। अदर्शत्। अद्राक्षीत्।।
णिश्रिद्रुस्रुभ्यः कर्तरि चङ्‌ ।। 48 ।।
ण्यन्तेभ्यो धातुभ्यः श्र्यादिभ्यश्च शुद्धेभ्यः परस्य च्लेश्चङादेशः। द्वित्वादि। अचीकरदित्यादि। अशिश्रियत्। अदुद्रुवत। असुस्रुवत्। अन्तरङ्गत्वादुवङ्। तदुक्तम्। `शचङन्तस्यान्तरङ्गलक्षणत्वा'दिति। `कमेरूपसंख्यानम्'। आर्द्धधातुके णिङो विकल्पेन विधानात्तदभावपक्षे सिचि प्राप्ते वचनम्। तत्पक्षे तु ण्यन्तत्वादेव सिद्धम्। तत्र व्यन्तत्वात्सन्वद्भावादित्वदीर्घौ। अचीकमत। सन्वल्लघुनि चङिति वक्तव्ये परग्रहणसामर्थ्यादन्यपदार्थो णिच्। अन्यस्यासम्भवात्। चङ्‌ परे णौ परतो यल्लघु तत्र परतोऽभ्यासस्य सनीव कार्यं स्यादिति तदर्थः। णिङभावपक्षे त्वचकमतेति रूपम्।
नाकमिष्ट सुखं यान्ति सुयुक्तैर्वडवारथैः।
अथ पत्काषिणो यान्ति येऽचीकमत भाषिणः।
अस्यार्थः-कमेंर्लुङि किंरूपमिति प्रश्ने यैरचकमतेत्युक्तं ते उक्तरथैरिष्टसुखं नाकं यान्ति, उक्तलक्षणस्मरणात्। यैस्त्वचीकमतेत्युक्तं ते पदभ्यामेव यान्ति। सामान्यलक्षणस्मरणेऽपि विशेषलक्षणस्मरणभावादिति निन्दार्थवादोऽयं लक्षणस्मरणादरार्थः इति कैयटः।
अन्येतु अकमिष्टेति रूपं भवति इति यैरुक्तं त एवोपचारादकमिष्टशब्देनोच्यन्ते। अनुकार्यानुकरणयोरभेदस्य विवक्षितत्वान्न विभक्तिः। ते स्थैरपि गच्छन्तः सुखं न लभन्ते। असाधूच्चारणात्। यैस्त्वचीकमतेत्युक्तं ते पदातयोऽपि सुखं यान्ति इति व्याचख्युः।
कर्मकर्तरि वोपसंख्यानम्। अचीकरत कटः स्वयमेव। उदशिश्रियत कटः स्वयमेव। कर्मकर्तर्यपि कर्तृत्वसद्भावाद्बाधकाभावाच्च सूत्रेणैव सिद्धम्। नच चिणेव तत्र बाधकः। यक् चिणोः प्रितषेधे हेतुमण्णिश्रिब्रूञासमुपसंख्यानमिति निषेधात्।
नन्वहेतुमण्ण्यर्थ मुपसंख्यानं कर्तव्यम्। यथा उदपुपुच्छतगौः। पुच्छमुदस्यति इत्युत्पुच्छयते गौः। यदात्वन्तर्भावितण्यर्थत्वाद्गोः कर्मत्वं तदोत्पुच्छयते गमिति पुच्छोदसनानुकूलगोनिष्ठव्यापारानूकूलव्यापारवानित्यर्थः। पुनर्गोरेव सौकर्यातिशयेन कर्तृत्वविवक्षायां भूतकाले च लुङ् इति चेन्न।
हेतुमदितयपहाय णिमात्रे प्रतिषेधारम्भात्। तथाच भारद्वाजीयाः पठन्ति `यक्‌चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानमिति।
विभाषा धेट्‌श्व्योः ।। 49 ।।
आभ्यां परस्य च्लेः चङ्‌ वा। अदधत्। सिच्‌पक्षे विभाषाघ्राधेडिति वा लुक्। अधात्। अधासीत्। टु ओश्वि गतिवृध्योः। अशिश्वियत्। अङोऽप्यत्र विकल्पः। अश्वत् अश्वयीत्। कर्तरीत्येव अश्विषातां गावौ वत्सेन।।
गुपेश्छन्दसि ।। 50 ।।
चङादेशो वा। इमान्मामित्रावरुणा (1)गृहानजूगुपतम्। अगोपिष्टं। अगोषायिष्टं वा। भाषायां तु चङन्तवर्जम्।।
नोनयति ध्यनयत्येलयत्यर्दयतिभ्यः ।। 51 ।।
ऊन परिहाणे। ध्वन शब्दे। इल प्रेरणे। अर्द गवौ याचने च। एभ्यश्चलेः छन्दसि चङ्‌ न। मात्वायतो जरितुः काममूनयीः। त्वमिच्छतः स्तोतुः काममूनं माकार्षीरित्यर्थः। मात्वाग्रिर्ध्वनयीध्दूमगन्धिः। वाममैलयीत्। मैनमर्दयीत् भाषायां तु औनिनत्(1)। आदिध्वनत्। एलिलत्। आर्दिदत्।।
अस्यतिवक्तिख्यातिभ्योऽङ् ।। 52 ।।
सिजपवादः। पर्यास्थत। उपसर्गदस्यत्यूह्येरित्यात्मनेपदम्। अस्यतेरिति थुक्। अवोचत्। वच उम्। अख्यत। आतोलोप इत्याकारलोयः। अस्यतिग्रहणमात्मनेपदार्थम्। परस्मैपदे पुषादित्वादेव सिद्धेः। अनतराले वृत्करणं रधादिसमाप्त्यर्थम्। आगणान्ताः पुषादय इति सिध्दान्तात्। अत्राप्यातिदेशिकस्य कर्मकार्यस्य कस्यचिदविधानाद्बाधकाभावात्स्वाश्रयं कार्यं कर्मकर्तरि प्रवर्तते एवेति। पर्यास्थेतां कुष्डले स्वयमेव। तस्मादुपसंख्यानं नारभ्यम्।।
लिपिसिचिह्वश्च ।। 53 ।।
लिप उपदेहे। षिच क्षरणे। व्हेञ् स्पर्धायां शब्देच। एभ्यः परस्य च्लेरङ्‌ स्यात्। अलिपत्। असिचत्। अह्वत्। अन्त्ये आतो लोपः।।
आत्मनेपदेष्वन्यतरस्याम् ।। 54 ।।
एभ्यश्च्लेरङ्‌वा स्यादात्मनेपदे। आद्ययोः स्वरितेत्त्वादन्त्यस्य च ञित्वात्कर्तृगामिनि क्रियाफले आत्मनेपदम्। अलिपत। असिचत। अह्वत। पक्षे सिच्। अलिप्त। असिक्त। झलोझलीति। सिज्लोपः। अह्वास्त।
पुषादिद्युताद्य्‌लृदितः परस्मैपदेषु ।। 55 ।।
श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ्‌ स्यात्परस्मैपदे। दिवादौ पुषपुष्टावित्यारभ्य गृधु अभिकाङ्क्षायामित्यन्ताः पुषादयः। अपुषत्।
स्यादेतत्। पुषपुष्टावित्यस्य भ्वादौ क्र्यादौ चुरादौ पाठात् दैवादिकानामेव पुषादीनां ग्रहणे किं बीजमिति चेत्सत्यम्। द्युतादीनां पृथगुपादानेन भ्वादीनामग्रहणात्। अन्यता पुषेरुत्तरमेव तेषां पाठेन पुषादित्वेनैव संग्रहसिद्धेः। क्र्यादावपि पुषेरुत्तरं चतुर्णामेव धातूनां सत्त्वात्। तेषां लृदीत्करणेनैवोपपत्तेः। नचानेकानुबन्धासञ्जने गौरवम्। त्रयाणामननुबन्धकत्वात्। ग्रहेस्तु लृकारेणापि स्वरितेत्त्वनिर्वाहात्। चुरादावपि णिज्विधानेन तदनन्तरस्स च्लेरसम्भवात्। अतो दैवादिकस्यैव पुषादेरुपादेयत्वात्।
अथ पुषादयो द्युतादयश्च लृदित एव पठ्यन्तामिति चेत्। न, तावत्सु लृकारपाठे गौरवस्य वैपरीत्यात्। नच तत्रत्यानुबन्धस्थाने लृकारपाठान्न गौरवमिति वाच्यम्। आदितामीदिता मूदितांच तत्र सत्त्वात्। पुषादौ ञिष्विदा, मिदी, शमु, सूति सूयति धूञूदितां वेत्यादिकार्यविशेषणामनिर्वाहात्। द्युतदीप्तवित्यारभ्य कृपूपर्यन्ता भ्वाद्यन्तर्गता द्युतादयः। तेभ्यो द्युद्‌भ्यो लुङीति परस्मैपदविकल्पः। परस्मैपदेऽङ्‌ आत्मनेपदे सिजिति विवेकः। अद्युतत्। अद्योतिष्ट। अश्वितत्। अश्वेतिष्टेत्यादि। लृदितो यथा गम्लृ गतौ अगमत्। घस्लृ अदेन। अघसत्। शक्लृ श्क्तौ। अशकीदत्यादि।
सर्तिशास्त्यर्तिभ्यश्च ।। 56 ।।
एभ्यश्च्लेरङ्। लुप्तशपा शासिना साहचर्यात्। ऋसृगाताविति जुहोत्याद्योरेव सर्त्त्यत्यो र्ग्रहणम्। असरत्। अशिषत्। शासइदङ्‌हलोरितीत्वम्। शासिवसीति षत्वम्। आरत्।
इरितो वा ।। 57 ।।
इरितो धातोः परस्य च्लेरङ् वा। श्च्युतिर् आसेचने। अश्च्युतत्। पक्षे अश्च्योतीत्।।
जॄस्तम्भुम्रुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।। 58 ।।
जॄष् वयोहानौ दिवादिः। स्तम्भुः सौत्रः। म्रुचुम्लुचु गतौ। ग्रुचुग्लुचुस्तेयकरणे। ग्लुञ्चु गतौ। श्विः प्रागुक्तः। एभ्यश्च्लेरङ् वा। अजरत्। ऋदृशोङीति गुणः। कित्वान्नलोपो गुणाभावश्च। अस्तभत्। अम्रूचत्। अम्रोचीदित्यादि। श्वेरङि श्वयतेर इत्यकारादेशे अश्वदिति रूपम्।
इह ग्लुचिग्लुञ्च्वोरन्यतरन्नोपादेयम्। ग्लुचिग्रहणे न्यग्लुचत्, न्यग्लीचीदिति रूपद्वयं तस्य न्यग्लुञ्चीदिति ग्लुञ्चेः। ग्लुञ्चिग्नहणेतु न्यग्लुचत्। न्यग्लुञ्चीत् इतिरूपद्वयं ग्लुञ्चेः। न्यग्लोचीदिति तु ग्लुचेरित्यन्यतरोपादानेन रूपत्रयसिद्धेः। नचार्थभेदः। धातूनामनेकार्थत्वात् इति भाष्यम्। एवं चोभयोपादानसामर्थ्यादग्लुचदित्यत्र नलोपो नास्तीति कल्पनं निर्मूलम्।
कृमृदृरुहिभ्यश्छन्दसि ।। 59 ।।
च्लेरङादेशो वा। अकरत्। अथोऽमरत्। अदरदर्थान्। अन्तरिक्षाद्दिवमारुहम्। छन्दसि किम्। अकार्षीदित्यादि।
चिण्ते पदः ।। 60 ।।
पद गतौ। आत्मतेपदी। अतस्तशब्द एकवचनं ग्राह्यम्। कर्तरि पदेः सिचो वा चिण् तशब्दे परे। चिणो लुगिति तशब्दलोपः। प्रत्यपादि। प्रतिपन्नवानित्यर्थः।
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।। 61 ।।
दीपीदीप्तौ। जनी प्रादुर्भावे। बुध अवगमने दिवादिः। पूर्वोत्तरयोर्नित्यात्मनेपदिभिः साहचर्यात्। तेन बुधिर्‌बोधने इति भौवादिकस्यानुपादानम्। सकर्मकत्वेऽपि भवत्येव। क्रमादमुं नारद इत्यबोधि स इत्यादिदर्शनात्। पूरी आप्यायने। तायृ संतानपालनयोः। ओप्यायी वृद्धौ। एकवचने तशब्दे परे एभ्यश्च्लेर्वा चिण्। पक्षे सिच्। अदीपि। अदीपिष्ट। अजनि। जनिव ध्योरिति न वृद्धिः। अजनिष्ट। अबोधि। अबुद्धेत्यादि।
चिण् भावकर्मणोः ।। 61 ।।
भावे कर्मणिच च्लेश्चिण्। अशापि देवदत्तेन। अपाचि तण्डुलश्चैत्रण। नित्यत्वार्थं पुनश्चिणुपादानम्। यद्वा यदन्यत्प्राप्नोति तन्माबूदित्येतदर्थम्।
सार्वधातुके यक् ।। 62 ।।
भावकर्मणोरित्यनुवर्तते। स्थीयते चैत्रेण। पच्यते तण्डुलस्तेन। `लः कर्मणिच भावेचाकर्मकेभ्य' इति लकारः। इह भावे एकवचनमेव। कर्मणि तु तदनुरोधेन त्रीणि वचनानीति विवेकः।
अथ क्रिया साध्यरूपत्वान्निवृत्तभदैव धातुना प्रत्याय्यते। तदुक्तम्।
निवृत्तभेदा सर्वैव क्रियाख्यातेऽबिधीयते।
श्रुतेरशक्यभेदानां प्रविभागप्रकल्पनेति।।
एवंच कर्तृकर्माख्यातयोरपि साधनभेदाद्द्विवचनबहुवचने भवतः। एवं भावाख्यातेऽपि ते स्याताम्। नच तत्राख्यातार्थकर्तृकर्मगतसंख्याबोधकत्वाद्द्विवचनादि। अत्र साधनस्य कर्त्रादे स्तिङन्तवाच्यत्वान्न तथेति वाच्यम्। पाकः पाकावित्यादावापि द्विवचनादेरनापत्तेः। कर्त्राद्यनभिधानस्य तुल्यत्वादिति चेत्। मैवम्। शक्तिः कारकमिति हि प्रागुक्तम्। तदाश्रयश्च द्रव्यमनेकम्। नचौदनः पच्यत इति कर्मलकारेण शक्तेरेवाभिधाने तदाश्रयौदनादिसामानाधिकरण्यानुपपत्तिरिति वाच्यम्। शक्तिशक्तिमतोरभेदोपचारेण तदुपपत्तेः। एवं स्थिते यद्यपि असत्वभूतत्वाद्भावस्यैकत्वसंख्याप्यन्वयानर्हा तथापि भेदाभावरूपमेकत्वमादायैकवचनमेव।
यद्वा `एकवचनं' `द्विबह्वोर्द्विबहुवचने' इति न्यासे एकवचनस्य द्विबहुत्वाभावमात्रेणोपपत्तिः। घञादिभिस्तु सत्त्वरूपो भावोऽभिधीयते इति द्रव्यभेदसंख्याभेदनिबन्धनो वचनभेदः। गुडतिलोद नाद्याश्रयभेदात्तदाश्रितपाकभेदात्।
नचाख्यातवाच्यस्यापि भावस्याश्रयभेदोऽस्तीति वचनभेदापत्तिः क्वचिदिष्टत्वात्। उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इति। उष्ट्रादिभेदाश्रयभेदानेकप्रकारयुक्तान्‌यासनादीनि भिन्नानि। उष्ट्राणां हि स्वत एव विलक्षणान्यासनानि। हताश्च नानाप्रकारं शेरते। उत्तानावतानावकीर्णकेशा विवस्त्राश्च। तथा च यादृशान्युष्ट्राणामामनानि ह्वतानां च शयनानि तादृशानि देवदत्तादिभिः क्रियन्ते इत्यर्थः। इवशब्दं विनापि तदर्थप्रत्ययात्। भवद्भिरास्यते इत्यत्रं त्वाश्रयभेदादेवाश्रितभेदप्रत्ययात् प्रयोजनाभावाद्भावभेदः सन्नपि न विवक्षितः। ताम्रः पलाशेषु बभूव राग इत्यादिवत्। नच सर्वत्राश्रयभेदादाश्रितभेदप्रतीतिः। घटान् पचतीत्यादावभिन्नस्यैव पाकस्यावगमात्।
वस्तुतो भाष्यप्रामाण्यादत्रैव बहुवचनं साधु।
केचित्तु कर्मण्ययं लकारः उष्ट्रासिकास्वरूपभावस्य कर्मत्वात्। गोदोहस्सूयते इतिवदित्याहुः।
केचित्तु उष्टासिका इति द्वितीयाबहुवचनम्। क्रियाविशेषणत्वात्। स्त्रीत्वबहुत्वयोः प्रतीत्या क्लीबत्वैकत्वयोरप्रवृत्तेः। तथाच तत्सदृशान्यासनानि क्रियन्ते इत्यर्थः। नचैवमसत्त्वोक्तिविरोधः। लिङ्गक्रियानाधारकारकयोगाभावमात्रे तात्पर्यादिति।
तच्चिन्त्यम्। किमाख्यातवाच्यस्य बहुत्वादुष्ट्रासिका इत्यत्र बहुत्वमुत तद्‌बहुत्वादास्यन्त इत्यत्र बहुत्वम्?। नाद्यः। प्रमाणाभावात्। आस्यते स्थीयते इत्यत्र संख्यानवगाहित्वांशे प्रतीत्यविशेषात्। किञ्च त्वन्मने सामानाधिकरण्यात्क्रियाविशेषणे द्वितीया। न चात्रोष्ट्रासिका इत्यस्याभेदेन धात्वर्थासनान्वयः। तादृशान्यासनानीति तदर्थविरोधात्।
न द्वितीयः। प्रमाणाभावात्। बहुवचनान्तस्यापि धात्वर्थान्वयसंभवात्। भिन्नसंख्यानवरोधस्य धात्वर्थे सत्त्वात्। नच चन्द्रो मुखमित्यादिवदुष्ट्रासिकानामभेदेनैव धात्वर्थामनान्वयः। सदृशानीति तु फलितार्थकथनमिति वाच्यम्। तत्रोभयोर्भिन्नधर्मावच्छिन्नोपस्थितिसत्त्वात्। उष्ट्रासिकाभिन्नान्यासनानीति बोधस्य निराकाङ्क्षत्वात्। अभेदान्वये भिन्नधर्मावच्छिन्नोपस्थितेस्तन्त्रत्वात्। विशेष्यतावच्छेकांशेऽधिकधर्मानवगाहिनो रक्तदण्डवान् दण्डवानित्यादिशाब्दस्यानङ्गीकारात्।
एवं च सादृश्यसंम्बन्धेनोष्ट्रासिकानां धात्वर्थान्वय इत्येव कैयटाशयः। तत्र च द्वितीयान्तत्वमनुपयुक्तमेव। तस्मादास्यन्त इत्यत्र धातूपादानं साधुत्वमात्रार्थम्। दघ्ना जुहोतीत्यादिवत्। उष्ट्रशब्दस्य तदासिकासदृशे लक्षणा। तस्याभेदेनासिकास्वन्वयः। उष्ट्रासिकाः क्रियन्ते इत्यनेन समानोऽर्थः। बहत्वस्य तु ण्वुलुपस्थाप्यभावे सत्त्वरूपतापन्नेऽन्वयः। नचैवमन्यत्रातिप्रसङ्गः। प्रामाणिकप्रयोगानुरोधादेव लक्षणादिकल्पनात्। अन्यथा प्रकारान्तरेऽपि तदापत्तेः।
तस्मादस्ति तिङभिहिताद्भावात्कृदभिहितस्य विशेषः पाकाइत्यत्रैकशेषः। न तिङन्तस्य। एकस्य तिङन्तस्यानेककालभावबोधकत्वात्। भिन्नकालावबोधकानां लकाराणां युगपदेकप्रयोगसमावायाभावात्। किञ्च कृदभिहितो भावो द्रव्यवत्प्रकाशते। लिङ्गसंख्याकारकयोगित्वात्। यद्यपि सर्वनामपरामर्षार्हत्वरूपं द्रव्यत्वमुभयत्र तुल्यं तथापि प्रसिध्यप्रसिद्धिभ्यां दृष्टान्तदार्ष्टान्तिकभावः। इह संख्यायोगित्वं संपातायातम्। पूर्ववाक्येनैव तस्य संपादितत्वात्।
अत एव `द्रव्यं क्रियाभिनिर्वृत्तौ साधनत्वमुपैति। तद्वच्चास्य कृदभिहितस्य भवति पाको वर्तते इति। क्रियावन्न भवतीति'भाष्ये कारकान्वयमात्रमत्रोदाहृतम्। एवंच द्वव्यविश्ष्यकां प्रतीर्ति जनयतीत्यर्थव्याख्यानं युक्तम्। द्रव्यं कारकान्वययोग्यम्। तद्विशेष्यकबोधस्य पाक इत्यादौ स्पष्टत्वात्। तदुपस्थाप्यपाकस्य कारकान्वययोग्यत्वात्। नचायमर्थः कृत्प्रत्यये संभवति नतु तदर्थे भावे इति वाच्यम्। विषयतया जनकत्वस्य तत्रापि संभवात्। शाब्दे विषयस्याहेतुत्वेऽपि शाब्दहेतुपस्थितिविषयत्वरूपजनकत्वसंभवात्। अतस्तत्रनिर्मूलमनुशासनविरुद्धं चेत्युद्भावनमभिप्रायानवगाहनप्रयुक्तमित्युपेक्ष्यम्।
नचौदनस्य पाक इत्यादौ षष्ठ्याद्यनन्वयापत्तिः। कारकाणां क्रिययैवान्वयित्वादिति वाच्यम्। पाक इत्यादौ प्रकृतिभागेनासत्त्वापन्नायाः प्रत्ययभागेन च सत्त्वापन्नायाः क्रियाया अभिधानात्। तदुक्तं हरिणा-
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता।
प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः।।
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना।
सत्त्वभावस्तु यस्तस्याः स घञादिनिबन्धनः इति।।
अतएव कृदन्तविशेषणत्वे स्तोकः पाक इति। धात्वर्थविशेषणत्वे तु स्तोकं पाक इत्यभ्युपगमः।
अत्रेदमवधेयम्। द्वाभ्यां क्रियाद्वयप्रतीतिर्न तदर्थः। किन्तु कदाचिद्धातुमात्रस्य पाके तात्पर्यं कदाचित्समुदायस्येति।
यत्तु रूपग्रन्थे घञन्तसमुदायस्य संयोगत्वविभागत्वविशिष्टवाचकत्वं निराकृत्य संयोगादिपदानां नैमित्तिकसंज्ञात्वं दीधतिकृता निराकृतं तत्प्रौढिमात्रमिति तार्किकाः।
यत्त्वमृतरसप्रस्यन्दमाध्वीकभूरिति कुसुमाञ्जलिश्लोकेऽमृतस्य रसो रस्यमानममृतमिति यावदिति व्याख्याय कृदभिहितो भाव इत्युपायकृतोपन्यस्तम्। तत्रायमाशयः रस इति भावे कृत्। अमृतस्येत्यत्र कर्मणि षष्ठी। कृद्वाच्यक्रियायाः सत्त्वरूपत्वात्कथं तत्र कारकान्वय इत्याशङ्कोपपत्त्यर्थं कृदभिहितेत्यादेरुल्लेखः। धातुवाच्यायां तदन्वय इति हृदयम्।
यद्वा भावमात्रार्थत्वे भावस्यासत्त्वभूतत्वात्कथं तत्र सुबाद्युत्पत्तिः इत्याशङ्कायां कृदभिहितेत्यादेरुपष्टम्भः। पूर्वोक्तशङ्कासमाधाने तु हृदयस्थे एवेत्यवधेयम्। तथाचामृतकर्मकं रसनमिति धीः। तत्रप्रस्यन्दपदार्थान्वयानुरोधात्। रस्यमानममृतीअमृतप्राधान्यसंपादनार्थम्। एतेन रस्यमानममृतमितिव्याख्यानविरोधाद्रसन इति कृन्न भावार्थ इति दूषणाभासो निरस्तः। पदद्वयव्याख्यान परत्वेन फक्किकायाः कृन्मात्रार्थानभिप्रायकत्वात्। एतेन कान्तासम्मिततयोपदेशयुजे इति काव्यप्रकाशकारिकायामुक्तन्यायेन युक्तोपदेशायेति व्याख्यातृवचनमपि व्याख्यातम्। इत्यास्तां विस्तरः।
प्रकृतमनुसरामः। ननु क्रियाया अपि क्रियायां कारकत्वमस्त्येव। पचति भवति। पश्य मृगो धावतीति दर्शनात्। अत्रकैयटः-करणादिरूपेण समवायं न गच्छतीति विवक्षितमित्याह। अयं त्वभ्युपगम्यवादः। कर्तृकर्मत्वयोः संसर्गमर्यादयैव भानोपगमात्। कारकविमक्तिप्रकृतित्वाभावस्य च कारकत्वाभावपदेन विवक्षितत्वात्। न च साध्यक्रियायाः कथं कर्तृकर्मत्वे इति वाच्यम्। विषयभेदादेकस्यार्थस्य साध्यसाधनभावसंबन्धसंभवात्। तदुक्तं हरिणा-
तत्र यं प्रति साध्यत्वमसिद्धं तं प्रतिक्रिया।
सिद्धा तु यस्मिन् साध्यत्वं तमेव तु पुनःप्रति।।
मृगो धावति पश्येति साध्यसाधनरूपता।
तथा विषयभेदेन सरणस्योपपद्यते।।
इति।। अस्यार्थः-क्रियासमूहस्य न दर्शनकर्मत्वम्। क्रमिकत्वादवयवानां लौकिक प्रत्यक्षासंभवात्। किन्तु येऽवयवाः सिद्धास्तेषामेव। तथाच समुदाये कारकान्वयोपयोगि साध्यत्वम्। अवयवेषु दर्शनोपयोगि सिद्धत्वमप्यस्तीति। कर्तृत्वकर्मत्वमाख्यातवाचयस्य भावस्य विरुद्धं यतो भवतिक्रियापेक्षमेव तस्य कर्तृत्वम्। सर्वश्चार्थः स्वरूपेण भवतीति भवने कर्तृत्वमुपपन्नम्। उत्पद्यमानस्यासिद्धस्यैव सर्वत्र भवने कर्तृत्वदर्सनेन साध्यत्वोपस्थितावपि भवनकर्तृत्वान्वयस्य युक्तत्वात्। कर्मण्यपि फले रूपे क्रियायाः प्रधान्यात्कर्मत्वमपि। करणत्वादीनां तु सर्वात्मना गुणाभावमन्तरेणानुपपत्त्या प्राधान्येऽत्यन्तविरोधित्वान्न भवन्तीति।
यत्तु अर्थाध्याहारवादे कर्तृत्वादिकं प्रकार एवेति तन्न। घटं पश्यतीत्यादेरपि साधुत्वापत्तेः। कारकशक्तेः विभक्त्यतिरिक्त शब्देन निष्कृष्य वक्तुमशक्यत्वात्। च। प्रकृतिमात्रस्य प्रत्ययमात्रस्य च योऽर्थस्तस्यार्थाध्याहारेणाप्यलाभात् द्वारमित्यादौ पिधानाद्यविशिष्टार्थस्यैव तद्दर्शनात्।
इदमप्यवधेयम्-पचति भवतीतिवत् पचति व्रजतीति नैकं वाक्यम्। शाब्दिकमते कियाया वाक्यार्थे प्राधान्यात्। पाकक्रिया व्रजतीत्यन्वयानर्हत्वात्। तार्किकमतेऽपि आख्यातार्थकृतिप्रकारकबोधे प्रथमान्तपदजन्योप स्थितेर्हेतुत्वात्। व्रजने तदन्वयवाबाच्च। पश्य मृगो धावतीत्यत्रापि मृगकर्तृकगमनस्य कर्मत्वेन दर्शनान्वयो योग्य एवेति दर्शनविषयको बोधः। तार्किकाणां तु मृगो धावतीति भिन्नं वाक्यम्। पश्येत्यत्र वाक्यार्थः कर्मेति तदुत्तरं न द्वितीया। वाक्यस्य प्रातिपदिकत्वविरहात्। एतेन धावति मृगं पश्येति स्यादिति निरस्तम्। कृतेर्द्वितीयान्तपदोपस्थाप्येऽन्वयानर्हत्वात्। तद्विशिष्टमृगस्य कर्मत्वे धावन्तं मृगं पश्येति शतृशानचोर्दुर्वारत्वाच्च।
यत्तु विशिष्टस्य कर्मत्वेऽपि तस्यानतिरिक्ततया विशेषणविशेष्ययोस्तत्त्वं दुर्वारमिति। तदसत्। पर्याप्तिसंबन्धेनोभयनिष्ठविषयताया एव विशिष्टपदार्थत्वात्। अन्यथा प्रत्येकप्रसिद्ध्या विशिष्टाप्रसिद्धिस्थलस्य दौर्लभ्यापत्तेः। तथाच प्रत्येकत्वस्य कर्मत्वपर्याप्त्यधिकरणतया न द्वितीया। तिङन्तात्तदसंभवाच्च। विशिष्टस्य च प्रतिपदिकात्वाभावादिति न दोषः।
एतेन नच वाचनिक्येव प्रथमेति वाच्यम्। तादृशवचनस्य पाणिनीयशास्त्रेऽभावात्। क्रियाविशेष्यकबोधानुभवानुमानादिति निरस्तम्। प्रातिपदिकार्थमात्रे प्रथमेत्यस्यैव सत्त्वात्। अन्यथाक्त्रियाविश्ष्यत्वपक्षेऽप्यनिस्तारात्।
एतेन दर्शनं मृगो घावति कल्पस्येति वाक्यं निरस्तम्। क्नाप्यभियुक्तेनानुपन्यासात्।
एतेन पश्य मृगो दावति तं पश्येत्यादिवाक्ययोर्वैलक्षण्यं न स्यादित्यपास्तम्। एकत्र मृगगमनस्यापरत्र च मृगस्य कर्मत्वेनैव वैलक्षण्यस्य स्पष्टत्वात्। मृगत्वस्य विशेष्यतावच्छेदकत्वेन पूर्वत्र भानाच्च। यो मृगो धावति तं पश्येत्पत्रापि गमनक्रियाविशिष्टस्य मृगस्य कर्मत्वाच्च। अत एव मृगो धावति तं पश्येति वाक्यस्य बोधकारणताया आवश्यकत्वे पश्य मृगो धावतीत्यस्य न हेतुत्वम्। गौरवात्।
यत्त्वेकविषयत्वाभावेन लाघवगौरवतर्कानवतार इति तदसत्। अवच्छेदकत्वकल्पने एव विषयैक्यस्यापेक्षितत्वात्। अतएव नलिधूमत्वं न व्याप्यतावच्छेदकं धूमप्रागभावत्वं त्ववच्छेदकं धूमत्वानधिकरणवृत्तित्वादिति दीधितिकारादयः।
प्रकृते तु उक्तवाक्यद्वयजन्यबोधस्यान्यादृशत्वकल्पने भानाभावादेकाकारकबोदं प्रत्येव हेतुत्वकल्पने बाधकाभावात्। एतेनापाक्षीद्देवदत्तोऽवेहि इत्यादौ शत्रादेः प्रसङ्ग एव नास्ति लट एव तद्विधानादित्यपास्तम्। पश्य मृगो धावतीत्यत्र शत्रादिप्रसङ्गान्मृगादेर्न द्वितीयेत्यस्य सार्थकतानुपन्यासात्।
पूर्वोदाहृतवाक्यपदीयकारिकायास्त्वयमर्थः। आख्यातशब्दे धावतीत्यादौ भागाभ्यां धातुस्वरूपं-पश्येत्यादिसमभिव्याहारश्चेति द्वाभ्यां साध्यत्वं-स्वस्मिन्नितरकारकाणामन्वयः स्वस्य कारकत्वेनान्यान्वयो वा। मृगो धावतीत्यत्र वाक्ये साधनत्वम्। कर्मत्वसंबन्धेनेतरक्रियान्वयश्च। पश्येत्येतत्समभिव्याहारे तस्य कर्मसाकाङ्क्षतया उपस्थितगमनाक्रियाया एव तत्त्वेनान्वयात्।
एतेन भागाभ्यां पश्य धावतीति तिङन्तशब्दाभ्यां पश्येति क्रियायाः साध्यत्वम्। धावतीत्यस्याश्च साधनत्वं कारकत्वेन क्रियान्तरान्वयः। न च-
असत्त्वभूतो भावश्च तिङपदैरभिधीयते।
इति वाक्यपदीयात्कथं कर्मीभूतभावनायास्तिङन्तार्थत्वमिति वाच्यम्। करणत्वादिनान्यान्वयित्वस्य तदर्थत्वादित्यपास्तम्। दृष्टान्ते तिङन्तद्वयस्य दार्ष्टान्तके च प्रकृतिप्रत्यययोर्भागशब्देन परमर्षे वैरूप्यप्रसङ्गात्। एकस्यैव साध्यसाधनोभयरूपत्वमित्यस्यासिद्धेः। मद्रीत्या कु एकस्यापि पदान्तरसमभिव्याहारतदभावाभ्यां गुणप्रधानभावस्येति उभयैकख्प्यसंभवात्। मृगो धावति पश्येति साध्यसाधनरूपतेति वाक्यपदीयस्य स्वव्याख्याने संमतिलेखनमप्यनादेयम्। मृगो धावतीत्युक्ते साध्यत्वमेव पश्येति समभिव्याहारे तु साधनत्वमपीति तदभिप्रायात्। अन्यथा यतासंख्येन विपरीतसाध्यसाधनभावलाभप्रसङ्गादित्यास्तां तावत्।
एवं घञादावपि प्रकृतिभागस्यासत्त्वरूपापन्नक्रियाबोधकत्वं यदन्वयादोदनस्य पाक इत्यादौ कर्तृकर्मवाचकषष्ठ्यादिविभक्तयः भोक्तुं पाक इत्यादौ क्रियायोगनिबन्धनास्तुमुनादयश्च। एतेन शेषषष्ठ्येव तत्र स्यादिति शङ्का निरस्ता। कर्तृकर्मणोः। कृतीति सूत्रवैयर्थ्यापत्तेश्च। प्रत्ययभागसमभिव्याहारात्तु सैव क्रियासत्त्वरूपत्वमापद्यते। यतस्तस्याः क्रियान्तरे साधनत्वान्वयः। अतएव तैलपाकेन तुल्यो घृतपाक इत्यादौ तद्रूपनिबन्धनास्तृतीयादय इति पञ्चमे कैयटादौ स्पष्टम्। तथाच घत्रादिसमभिव्याहारप्रयुक्तं सत्त्वरूपत्वं धातुस्वरूपनिबन्धनं चासत्त्वरूपत्वमिति उभयविधकार्यानिर्वाह इति भावः।
युक्तं चैतम्। क्रियाविषयकशाब्दबोधे धातुशक्तिज्ञानहेतुत्वस्यावश्यकल्प्यतया घञादीनां हेतुत्वान्तरकल्पने गौरवात्। नचैकस्या एव क्रियाया उभयरूपत्वं विरुद्धमिति वाच्यम्। निरूपकभेदेन तदभावात्। अन्यथा दृष्टान्तेऽप्यनिस्तारात्। तत्र रूप द्वयसमावेशस्यावश्यकत्वाद्वाचकभेदाभावाच्च। अन्यथा गमनक्रियायां कारकन्वयादिकं स्यात्। अतएव स्तोकं पाक इति स्तोकः पाक इति चोभयथा विशेषणं संगच्छते। एकस्याः एव क्रियायाः प्रकृतिप्रत्ययाभ्यां बोधने त्वनुभवविरोधः। अतएव तोयरभेदान्वयेन न निस्तारः। एकरूपावच्छिन्नोपस्थितेरभेदान्वयप्रतिकूलत्वाच्च।
अत एव भाष्ये द्रव्यवत्‌प्रकाशते इति चतिप्रत्ययः संगच्छते। केवलसत्त्वभूतार्थबोधकाघटादिपदवैलक्षण्यसूचकत्वात्। अन्यथा घञर्थभावस्य केवलसत्त्वरूपतया उपमानोपमेयभावानुपपत्तेः। एवंच प्रसिद्धिवशादुपमानत्वं घटादेपरिति कैयटपक्षाभ्युपगम्यवादत्वेनैव व्याख्येया। कृदभिहित इत्य्सय कृदन्ताभिहित इत्यर्थस्यावश्यकत्वात्। तिङभिहित इत्यत्र तथात्वे विवादाभावात्। प्रत्ययग्रहणे तदन्तग्रहणस्य च निरूढतया च गौरवाभावात्। अयं चार्थः साध्यत्वेन क्रियातत्रेत्युत्तरकारिकायां स्पष्ट एव तस्या इति धात्वर्थक्रियाया उत्तरार्द्धे उपादानात्।
अतएव कृष्णं नमेच्चेत्सुखं यायादित्यादौ चेच्छब्दादिसमभिव्याहारे उत्थिताकाङ्क्षावशेन हेतुहेतुमद्भावसंबन्धेन क्रियायाः क्रियान्तरान्वयः। अन्यथा कृष्णं नमेदित्यादावपि प्रसङ्गात्। पक्त्वा भुङ्क्ते इत्यादौ च समानकर्तृकत्वादिना प्रकृत्या प्रत्ययान्तस्यैव क्रियान्तराकाङ्क्षेति विशेषः। अतएव क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वं न साध्यत्वम्। पक्त्वेत्यादवप्यसत्त्वभूतक्रिया प्रतीयत इति सिद्धान्तविरोधात्।
एतेन धात्वर्थफलान्वये स्तोकादिभ्यो द्वितीया नपुंसकता च। धात्वर्थभावनान्वये ज्योतिष्टोमेन भक्तिपूर्वं यजेतेत्यादिवत्प्रथमा सामान्ये च नपुंसकत्वम्। घञर्थान्वये तु प्रथमा पुंल्लिङ्गता चेति विभागाय शक्त्यन्तरमावश्यकमिति निरस्तम्। एतेन-
क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता।
सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्‌विधिम्।।
इति वाक्यपदीयमपि व्याख्यातम्।
साध्यभूतायामपि क्रियायां साधनत्वोपपत्त्यर्थो घञ्‌विधिरित्यर्थात्। सिद्धत्वप्रकारकबोधार्थं घञादिरिति वक्तुमशक्यत्वात्। साध्यत्वसिद्धत्वयोर्धातुजन्यधीप्रकारत्वाभावेन वस्तुतस्तत्र यथासम्भवं साध्यत्वादिकमित्यत्रैव तात्पर्यात्। साध्यत्वेनाभिधीयते इत्यत्राप्येवम्। एवं-
यादृशी भावानाख्याते धात्वर्थश्चापि तादृशः।
नासौ तेनैव रूपेण कथ्यतेऽन्यैः पदैः क्वचित्।। इति भट्टकारिका व्याख्याता।क्रियान्तराकाङ्क्षानाकाङ्क्षयोश्च समभिव्याहारविशेष एव नियामकः।
यत्तु पचति पाकं उत्पादयति इत्यादौ उत्पाद्यत्वमेव कारकान्वयितावच्छेदकम्। अतएव पचतीत्युक्ते कस्मात् कस्मै कुत्र किमित्याकाङ्क्षातत्समर्पककारकाणां तस्यामेवान्वयश्च सङ्गच्छते। उत्पत्तिमत्वेनोपस्थितस्यैव कारकाकाङ्क्षत्वात्। तस्याः स्वयमुत्पाद्यतयावगमेनासिद्धत्वादन्यक्रियासाधनत्वेनान्वयश्च भाष्योक्तो युज्यते। सिद्धस्यैव क्रियासाधनत्वादिति।
तच्चिन्त्यम्। क्रियाजन्येत्यादौ उत्पाद्यत्वान्वयेऽपि कारकानन्वयात्। किञ्चैवमपाक्षीत्पपाचेत्यादौ कारकान्वयो न स्यात्। पाकानुकूलव्यापारमुत्पादितवानिति प्रतीत्या व्यापारस्य सिद्धत्वेन तदनाकाङ्क्षापत्तेः। अतीतोत्पत्तिकस्य सिद्धत्वनियमात्। उत्पत्तिप्रतियोगित्वमात्रस्य तदाकाङ्क्षानियामकत्वे तु घटादाव पिकारकाद्यन्वयापत्तिरिति दिक्।
कर्तरि शप् ।। 68 ।।
कर्त्रर्थे सार्वधातुके परे धातोः शप् भवति। ननु भावकर्मकर्तारो यक्‌शबदिविकरणानामेवार्थाः सन्तु अन्वयव्यतिरेकयोः सार्वदातुकस्याप्यभावात्। तद्व्यतिरेकेऽपि गच्छ ग्रामम्। अशायि भवता, अकारि कट इत्यादौ कर्त्रादिप्रत्ययात्। अत्तीत्यादौ विकरणाभावेऽपि तत्प्रत्ययाच्च। अजागर्भवानित्यादावुभयाभावेऽपि तद्‌बोधाच्च।
किञ्चैकत्वे एकवचनमित्यादियमस्तेषां सार्वधातुकार्थत्वे विरुद्ध्येत। एकत्वातिरिक्तस्य कर्त्रादेरपि तेन बोधात्। अतएव विभक्त्यन्तः सार्थकः शब्दः पदमिति लक्षणनिरामे खण्डनकृतोक्तम्-भवतीत्यत्रातिव्याप्तिरिति। शपः कर्तरि विहितत्वादिति तद्व्याख्यातार इति चेत्।
मैवम्। एकत्वे एकवचनमेवेति नियमस्य वाच्यतया विरोधाभावात्। एकत्वे एवेति नियमेऽपि द्वित्वादीनामेव व्यवच्छेदात्। धारय इत्यादौ च विकरणानुत्पत्तिप्रसङ्गात्। कृन्मात्रे विकरणानुत्पत्त्या कृतामेव कर्त्रर्थत्वस्यावस्यवक्तव्यत्वात्। लः कर्मणिचेत्युक्त्या कर्त्रादीनां लकारार्थत्वावश्यकत्वाच्च।
ननु कर्मादौ वर्तमानाद्विकरणाल्ल इति व्याख्येयम्। नच सार्वधातुकत्वस्य तिङादिवृत्तित्वात्तत्पूर्वं विकरणाभावान्निमित्तानुपपत्तिरिति वाच्यम्। सार्वधातुके इति विषयसप्तमीमाश्रित्य पूर्वं विकरणप्रवृत्तौ भावकर्मकर्तृवाचिनो विकरणात्परो लः साधुर्भवतीति व्याख्यानात्।
मैवम्। लिङ्‌लिटोरार्धधातुकत्वेन तत्र विकरणानुत्पत्त्या लादेशानामसाधुत्वप्रसङ्गात्। विधानसामर्थ्यात्साधुत्वे तु भावाद्यर्थानामनवगमप्रसङ्गात्। अथ गमिक्रियाया यथा कर्तृकर्मणी द्वे साधने तत्र कर्तरि लकारः कर्मणि द्वितीया ग्रामं गच्छतीत्यादौ तथा यदा भावकर्मणोर्लः तदा कर्तरि विकरणः यदा कर्तरि लः तदा भावकर्मणोः स इति स्यादिति चेन्न। कर्तृकर्मणोस्तत्र भिन्नपदवाच्यत्वात्तन्निबन्धनकार्यभेदसम्भवेऽपि एकपदे विरुद्धार्थयोर्विकरणसार्वधातुकयोर्विशिष्टार्थप्रतिपादने परम्परोपकारकत्वानुपपत्तेः। पचतीत्यत्र कर्मणो विकरणार्थत्वे तण्डुलादिपदात् द्वितीयानुपपत्तिप्रसङ्गाच्च। परिगणनस्य प्रत्याख्यात्वात्।
तस्प्रात्सार्वधातुकार्था एव कर्त्रादयः। अत एव मणिकृतोक्तम्-अनर्थकानामपि इट्‌नुमाद्यामानां षकारणकारादिवर्णविकाराणां श्यप्‌श्यनादीनां विकरणानां चानुशासनादिति। एतेन गच्छेत्यादौ विकरणस्यैव व्यापारवाचकत्वं तिङादिलोपशून्यानामपि बोधोदयादिति मीमांसाकौस्तुभोक्तमपास्तम्।।
दिवादिभ्यः श्यन् ।। 69 ।।

दीव्यति। शपोऽपवादाः श्यनादयः। ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वे श्यनः परस्य सार्वधातुकस्यानुदात्तत्वे लकारचतुष्टये आद्युदात्तानि रूपाणि। लङ्य्ट्स्वरेण तथात्वम्।
वाभ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।। 70 ।।
एभ्यः श्यन् वा। उभयत्र विभाषेयम्। अनवस्थानार्थस्य भ्रमेः क्लमित्रस्योश्च दिवादित्वान्नित्यं प्राप्तेऽन्येषां च तदभावादप्रासे विधानात्। भ्राश्रृभ्लाश्रृ दीप्तौ अनुदात्तेतौ। दन्त्यान्ताविति बोपदेवः। भ्रमुचलने। भ्वादिर्ज्वलादिः फणादिः। भ्रमु अनवस्थाने दिवादिः पुषादिः शमादिः। भ्वादेर्भ्रम्यति शमादेस्तु दीर्घे भ्राम्यति। श्यनभावेद्वयोरपि भ्रमतीति त्रैरूप्यम्। क्रमु पादविक्षेपे। क्लमु ग्लानौ। त्रसी उद्वेगे। त्रुट छेदने। लष कान्तौ।
यसोऽनुपसर्गात् ।। 71 ।।
अनुसर्गाद्वा श्यन्। यसुप्रयत्रे। यस्यति यसति। अनुपसर्गात्किम्। आयस्यति। प्रयस्यति। दिवादित्वान्नित्यम्।
संयसश्च ।। 72 ।।
संयस्यति। संयसति। पूर्वसूत्रेऽनुपसर्गादिति भाष्ये प्रत्याख्यातम्। अस्य नियमार्थत्वात्। सोपसर्गस्य यसः विकल्पश्चेत्तर्हिसमादेरेव।
स्वादिभ्यः श्नुः ।। 73 ।।
षुञ्‌ अभिषवे। अभिषवः स्नानमिति चान्द्राः।
वारांस्त्रिनभिषुण्वत विदधते वन्यैः शरीरस्थितीः।
इति मुरारिः। सोममभिषुणोतीत्यादौ संस्कारार्थः। संधानं स्यादभिषव इति सुराप्रकरणेऽमरः। शकारः सार्वधातुकसंज्ञार्थः तेन सार्वधातुकमपिदिति ङित्पात्सु इत्यस्य विकरणनिमित्तको न गुणः। तदन्तस्य तु तिङ्‌निमित्तको गुणः। एवमुत्तरत्र। सुनुत इत्यादौ तस्याङित्वान्न गुणः।
श्रुवः शृच ।। 74 ।।
श्रु श्रवणे। अस्य श्नुप्रत्ययः स्यात्तत्सन्नियोगेन शृभावश्च। शपोऽपवादोऽपम्। श्रृणोति, अश्रौषीदित्यादौ शपोऽप्रसक्त्या नायम्।।
अक्षोऽन्यतरस्याम् ।। 75 ।।
अक्षू व्याप्तौ। वा श्नुः अक्ष्णोति। अक्षति।।
तनूकरणे तक्षः ।। 76 ।।
श्नुर्वा। शपोविषये। तक्ष्णोति तक्षति। तक्षणमवयवविभागः। नेह। वाग्भिः संतक्षति। भर्त्सयतीत्यर्थः।।
तुदादिभ्यः शः ।। 77 ।।
तुदति। शित्वं लधूपधगुणबाधार्थम्। पित्वाभावादुदात्तत्वं धातोरन्तोदात्तत्वबाधकं सति शिष्टत्वात्। ततोऽदुपदेशात्परंलसार्वधातुकमनुदात्तमिति मध्योदात्तानि रूपाणि। तुदन्तीत्यत्र त्वन्तेरनुदात्तत्वे एकादेशस्वरेणाद्‌युदात्तत्वम्।।
रुधादिभ्यः श्नम् ।। 78 ।।
मित्त्वादन्त्यादचःपरः। आगमस्यापि प्रत्ययत्वम्। विरोधाभावात्। तेन प्रत्ययादित्वाच्छस्येत्संज्ञा। अथास्य शित्वं न गुणवारणार्थम्। (1)भिशब्दादेव श्नमोविधानात्। तदवयवभिशब्दस्याङ्गसंज्ञाविरहात्। इगन्तत्वस्य रुधादौ कस्यापि धातोरभावात्। अतएव नार्द्धधातुकत्वाभावार्थम्। अङ्गसंज्ञाविरहादेवेटोऽप्रसक्तेः। नच पॄमॄ इति क्र्याद्योच्छान्दसव्यत्ययेन श्नमिकृते पृणतीत्यत्र प्रादीनां शिति हस्वार्थम्। पृष्प प्रणिने इति तुदादौ पाठात्। एतेन श्रृणतीति व्याख्यातम्।
नच यत्र पृणसे इत्यत्र तदर्थम्। श्नोह्रस्वत्वेनोपपत्तेः। प्रत्यय इत्याद्यर्थं छन्दसि इस्वत्वस्यावश्यकत्वात्। नचादुपदेशात्परं लसार्वधातुकमित्यनुदात्तार्थं श्नमेव वक्तव्य इति वाच्यम्। श्नसोरल्लोपप्रसङ्गात्। उपधाया इत्यनुवृत्तौ अङक्ते अञ्जतीत्यत्रातिप्रसङ्गात्। नापि श्नान्नलोप इत्यत्र विशेषणार्थम्। अन्यथा यज्ञानामित्यादावपि नलोपापत्तेरिति वाच्यम्। दीर्घत्वस्य प्राक् प्रवृत्तेरिति चेन्न। परत्वान्नलोपप्रसङ्गात्। नच नामीति दीर्घस्याप्रवृत्तावपि सुपिचेति दीर्घत्वं भविष्यतीति वाच्यम्। सन्निपातन्यायेन तदप्रवृत्तेः। नच शित्करणेऽपि विश्नानामित्यादौ तत्प्रवृत्तिर्दुर्वारेति वाच्यम्। लक्षणप्रतिपदोक्तन्यायेन तद्वारणात्।
तनादिकृञ्‌भ्य उः ।। 79 ।।
तनोति। सार्वधातुकेति गुणः। अत्र वार्तिकम्।
तनादित्वात्कृञः सिद्धं सिज्‌लोपे च न दुष्यति।
चिण्वद्भावेऽत्र दोषः स्यात् सोऽपि प्राप्तो विभाषया।।
अस्यार्थः-कृञोऽपि तनादित्वादेव सिद्धतया पृथगुपादानवैयर्थ्यम्। नचानुदात्तोपदेशवनीततनोत्यादीना मित्यनुनासिकलोपरूपं तनादिकार्यं कृञो माभूदिति ज्ञापनार्थम्। अनुनासिकाभावादेव तदप्रसक्तेः। नच तनादिभ्यस्तथासोरिति सिच्‌लोपो माभूदित्येतदर्थम्। ह्रस्वादङ्गादिति तदावश्यकत्वे विशेषाभावात्। नच तेन लोपे पूर्वत्रासिद्धमिति सिज्‌लोपस्यासिद्धत्वाच्चिण्वद्भावसिद्धिः। तनादिभ्य इत्यनेन तु सिज्‌लुकि स न स्यादिति वाच्यम्। लुको वैकल्पिकतया तदभावपक्षे ह्रस्वाद्ङ्गादिति लोपप्रवृत्त्या तत्सिद्धेः। नच येन नाप्राप्तिन्यायेन लुको ह्रस्वादङ्गादिति लोपबाधकत्वात्कथमेवमिति वाच्यम्। अप्रवृत्तिपक्षे बाधायोगात्।
धिन्वि कृण्व्योर च ।। 80 ।।
धिवि प्रीणने। कृवि हिंसायाम्। इदित्वान्नुमागमः। इका तन्निर्देशः। अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शपो विषये। पूर्वं वाकारस्याकारादेशस्ततश्चानुकृष्ट उकारः। अतोलोपः। तस्य स्थानिवद्भावान्न लघूपधगुमः। धिनोति। उप्रत्ययस्य सार्वधातुकार्द्धधातुकयोरिति पिन्निमित्तको गुणः। धिनुत इत्यादौ ङित्वान्न। अत एव वकारस्य लोपो न विहितः। लघूपधगुणापत्तेः। नच तत्रापि नधातुलोप इति गुणनिषेधः। उकारसंनियोगशिष्टत्वेन उकारस्य वलोपनिमित्तत्वानुपपत्तेः। आर्द्धधातुकनिमित्तत्वाभावात् लोपस्य तादृशस्थले एव निषेधव्यवस्थापनात्। तत्सूत्रप्रत्याख्यानाच्च। नुम्‌विशिष्टनिर्देशस्तु नुमुत्तकमकारादेशो यथा स्यात्। अन्यथाकारोत्तरं(नुम्)स्यात्। तस्यान्त्याच्त्वात्।
भाष्ये तु परत्वात्पूर्वं नुम्। नच प्रत्ययोत्पत्तिसंनियोगशिष्टत्वादत्वमन्तरङ्गं प्रकृतिप्रत्ययावाश्रित्य नुमागमो बहिरङ्गः। तस्याङ्गाधिकरीयत्वादिति पूर्वमत्वमेव स्यादिति वाच्यम्। नुम्विधावुपदेशिवद्वचनं प्रत्ययविधर्यर्थमिति वक्ष्यमाणत्वानुमोऽप्यन्तरङ्गत्वात्। अन्यथा कुण्डेत्यादौ गुरोश्चहल इति अप्रत्ययानुपपत्तेरित्युक्तम्।
अत्रेदम्बोध्यम्। कृञ् हिंसायामितिस्वादौ। कृण्वेस्तस्यच कृणोतीत्यादिरूपाणि तुल्यानि। तङितु कृणुत इत्यादि। लिडादौ करोतिवत्। चकारेत्यादि। अनयोस्तु चकृण्वेत्यादि।
केचित्तु स्वादिष्विमौ पठन्ति। नच तत्र स्वादिपाठसामर्थ्यात् श्नुप्रत्ययप्रवृत्तावूठ्‌प्रसङ्गः श्नुविषय एवोक्तादेशप्रत्यययोर्विधानोपयोगात्। अन्यथा भ्वादिपाठे शपोऽपि दुर्वारत्वात्। अयंस्वादिष्विति वृत्तिस्वारस्याच्च। कृणोतिपरत्वेन तद्व्याख्याने मानाभावात्।
क्र्यदिभ्यः श्ना ।। 81 ।।
क्रीणाति।
स्तभुस्तुम्भुस्कभ्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ।। 82 ।।
चात्‌श्नाः स्तम्भ्वादयश्चत्वारः सौत्राः नाकरोपधा रोधनार्था इति केचित्। प्रथमतृतीयौ स्तम्भार्थौ। द्वितीयो निष्कोपणार्थः। चतुर्थोऽनवधारणार्थ इति माधवः स्कुञ्‌ आप्रवणे। स्तभ्नोति स्तभ्नातीत्यादि, स्कुनोति स्कृनुते।
हलः श्नः शानज्झौ ।। 83 ।।
हलःपरस्य शनः शानज्‌हौ परे। श्न इति निर्देश आदेशत्वप्रतिपत्तर्थः। अन्यथा स्वतन्त्रप्रत्ययान्तरत्वप्रसङ्गात्। गृहाण सौत्रेभ्यः शानच्‌ न। स्तभ्नीहीत्यादि इति केचित्। संकोचे मानाभावात्स्तभानेति माधवादयः। तत एव उद्दिवं स्तभान तेजसा दिवमुत्तभानेत्यादि वैदिकप्रयोगाः। एतेन मेदम्विनं नयनवारिगतं स्तभानेति मदीयो रुक्मिणीपरिणये प्रयोगो व्याख्यातः। शकारः सार्वधातुकत्वार्थः। तेन कुषाणेत्यादौ न गुणः। स्थानिवद्भावेन शित्वासिद्धः। नतु सार्वधातुकादेशानुबन्धाः स्थानिवन्नभवन्तीति ज्ञापनार्थम्। तेन तातङि ङकारो नानुबन्धनीयः। अपित्वादेवातिदेशिकङित्त्वसिद्धेः। एवं तप्तनप्तनथनाश्चेति तादेशानां अपित्सार्वधातुकादेशत्वप्रयुक्तं ङित्वं न भवति। तेन श्रृणोत ग्रावाणः। आस्मिन् हव्या जुहोतन इत्यादौ न गुणः इति चेन्न। अचिनवमित्यादौ पितादेशस्यामोऽपित्वापत्त्या गुणनिषेधप्रसङ्गात्। एवं वेद वेत्थेत्यादावपि योज्यम्। विदेःशतुर्वसुरिति शत्रादेशस्य वसोरशित्वप्रसङ्गाच्च। तातङादीनां च ङित्वादेः कृतत्वेन गोरवाभावादिति दिक्।।
छन्दसि शायजपि ।। 84 ।।
सर्वत्रेति वक्तव्यम्। हिभिन्नेऽपीत्यर्थः। जातवेदः प्रतिहव्या गृभाय जिह्वया मधु। गृहाणेत्यर्थः। यो अस्कभायदुत्तरं सधस्थम्। उद्‌गृभायत्। उन्मथायत। स्कम्भुः सौत्रः लङितिप् श्नःशायच्। अट्। अपिशब्दः शानजबाधनार्थः। बधान वत्सम्।
व्यत्ययो बहुलम् ।। 85 ।।
छन्दसीत्यनुवर्तते। योगविभागेन विकरणानामपि व्यत्ययः। आण्डा शुष्मस्य भेदति। भिनत्तीति प्राप्ते। न मरति म्रियते इति प्रप्ते। योअञ्जसानुशासति। शास्तीति प्राप्ते। ततः सर्वेषां विधीनां व्यत्ययः। सुपां यथा-युक्तानासीद्‌धुरि दक्षिणायाः। दक्षिणस्यामिति प्राप्ते। तिङा यथा चषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते।तक्षन्तीति प्राप्ते। वर्णस्य यथा-त्रिष्टुभौजः शुभितमुग्रवीरमिति। शुधितमिति प्राप्ते। लिङ्गस्य यथा-मधोस्तृप्ता इवासते। मधुन इति प्राप्ते। कालस्य यथा-श्वोऽग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन। आधाता यष्टा इति प्राप्ते। पुरुषस्य यथाअधास्व वीरै र्दशभि र्वियूयाः। वियूयादिति। प्राप्ते। उपग्रहस्य यथा-ब्रह्मवारिणमिच्छते। इच्छतीति प्राप्ते। प्रतीममन्य ऊर्भिर्युध्यति। युध्यत इति प्राप्ते।
सुप्तिङुपग्रहलिङ्गनराणां कालहलच्‌स्वरकर्तृयङां च।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलेकन।।
लिङ्याशिष्यङ् ।। 86 ।।
आशीर्लिङि अङ् स्याच्छन्दसि। शपोऽपवादः। प्रयोजनं स्थागागमिवीचविदयः। उपस्थेयं वृषभं तु प्रियाणाम्। अञ्जसासत्यमुपगेयम्। यज्ञेन प्रतिष्ठां गमेयम्। गमेम जानतो गृहान्। मन्तत्रं वोचेमाग्नये। वच उम्। विदेयमेनां (1)वचसि प्रतिष्ठाम्।
शकिरुहोश्चेति वक्तव्यम्। शकेम त्वा समिधम्। अस्रवन्ती आरुहेमास्वस्तये।
दृशेरग् वक्तव्यः। अङि तु गुणः स्यात्। पितरं च दृशेयं मातरं च। उपस्थेयामेत्याडपि वक्तव्यः। स्थाधातोर्लिङ्‌मस् यासुट् अङ् आलोपः। सलोपः अतोयेय इति इय्। मस आट्। अन्यथा यलोप उपस्थेमेत्यपि स्यात्।
भाष्यकृतस्तु सार्वधातुकत्वात्सलोप आर्द्धधातुकत्वादेत्वम्। छन्दस्युभयसंज्ञात्वादित्याहुः।।
इति श्रिसिद्धान्तसुधानिधौ तृतीयाध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्।।