श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः ४/आह्निकम् १

श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]

तृतीयाध्याये चतुर्थपादे प्रथममाह्निकम्।
अथ चतुर्थः पादः।।
धातुसम्बन्धे प्रत्ययाः ।। 1 ।।
इहवृत्ताबेकत्वस्यौत्सर्गिकत्वेऽपि सामर्थ्याह्वित्वावगतिः। सम्बन्धस्य सम्बन्धिभेदनियतत्वात्। धातोः सम्बन्धो सम्बन्धो धातुसम्बन्धः। धातुपदंच तदर्थपरम्। तत्र बिशेष्यविशेषणभावलक्षणसम्बन्धोपपत्तेः। धातोः स्वार्थोपस्थापकतयैवोपयोगेन वाक्यार्थानन्वयात्। शब्दोपहितार्थभानपक्षेऽपि स्वार्थ एव विशेषणत्वात्। परस्परं विशेषणत्वानुपत्तेः। नच सन्‌विधौ कर्मत्वसमानकर्तृत्वयोर्यथार्थद्वारकं विशेषणत्वं तथेहपि धातोरर्थद्वारकसम्बन्धोऽस्त्विति वाच्यम्। परस्परान्वितार्थबोधकानेकधातुप्रयोगे प्रत्यया इत्यर्थापत्त्या गोमानासीदित्यादेरसिद्धेः। अत्र वर्तमानकालेऽस्तेरप्रयोगात्। अप्रयुज्यमानस्य च सम्बन्धानुपपत्तेः। तथाच धात्वर्थयोः सम्बन्धे कालान्तरविहितानां प्रत्ययानां कालान्तरेऽपि साधुत्वाब्यनुज्ञानार्थं सूत्रम्। धात्वर्थसम्बन्धे यत्र काले प्रत्यया उक्तास्ते तद्भिन्नकालेऽपि स्युरिति वाक्यार्थः। प्रकृतिप्रत्ययोपपदानि तान्येव कालमात्रे तु वैषम्यमतो न सांकर्यम्। नच विनिगमकाभावः। वर्तमानसामिप्ये इत्यादौ कालविपर्तयस्यैव प्रतिपाद्यत्वात्। वसन् ददर्श भूते लट्। अग्निष्टोमयाज्यस्य पुत्रो भविता। भविष्यति णिनिः। सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृका वर्तमानप्रागभावप्रतियोगिन्युत्पत्तिरित्यर्थः। प्रत्ययग्रहणेऽनुवर्तमानेऽपि प्रत्ययग्रहणं प्रकृत्यन्तरविहितानामपि प्रत्ययानां परिग्रहार्थम्। तेन गोमानासीदित्यादौ वर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तार्थवृत्तिमतुप्प्रत्ययप्रकृत्यर्थस्य भूतभविष्यत्वेऽपि साधुत्वम्।
ननुविशेषण विशेष्यभूतयोः क्रिययोः विरुद्धकालवरुद्धत्वादनन्वयापत्तौ तदुद्धारार्थमयमारम्भः। सचान्यतरत्र कालवैपरीत्येनोपपाद्यः। ननुतिङन्तकालवैयरीत्येनापि संभवतीति सुवन्तार्थकालवाध एव किं नियामकमितिचेत्।
अत्राहुः तिङन्तवच्यिक्रियाया विशेष्यत्वात्तद्बाधापेक्षया गुणभूतक्रियावाचिप्रकृतिप्रत्ययार्थस्यैव कालस्य बाधः गुणानुरोधेन प्रधानानुरोधस्यायुक्तत्वात्। गुणे त्वन्याय्यकल्पनेति न्यायात्। स्यादेतत्। प्रथमान्तार्थमुख्यविशेष्यकबोधवादिनां नैयायिकानां कथमियं व्यवस्था क्रियाद्वयस्यापि विशेषणत्वादिति चेत् मैवम्। शाब्दे तस्य प्राधान्येऽपि अग्निष्टोमयाजित्वविशिष्टपुत्रोत्पत्तेर्विधेयतया तदुपपत्तेः। नचविशिष्टविधित्वाद्विशेषणस्यापि विधेयत्वमितिवाच्यम्। विशिष्टविद्यन्यथानुपपत्त्या विशेषणविधेः कल्पनादुपजीव्यत्वेन भवितेत्यस्यैव प्राधान्यात्।
ननु शाब्दान्वये शब्दस्यैव प्राधान्यस्य नियामकत्वं तथा चाप्रथमान्तार्थयोरन्वयस्यान्तरङ्गतया ज्योतिष्टोमयाजित्वविशिष्टे पुत्रे भवितेत्यस्यान्वयोऽत्रय प्रथमोपस्थितकालबाधापेक्षया भवितेत्यस्य कालबाध एव स्यादितिचेन्न। ज्योतिष्ठोमानुकूलकृतिविशिष्टे पुत्रे वर्तमानप्रागभावप्रतियोग्युत्पत्तिवैशिष्ठ्यबोधस्य बाधिततया ह्यत्र कालावरोधः। भवतिच अतीतोत्पत्तिकोऽस्यपुत्रोऽतीतोक्तकृतिमानिति बोधो बाधितः। ज्योतिष्टोमानूकूल भविष्यत्कृतिमानस्य पुत्रो भविष्यन् इति त्वबाधित इत्यस्यैव विनिगमकत्वादिति दिक्।
भाष्यकारास्तु विशेष्यभूतक्रियायाः स्वकाल एवावसानं विशेषणभूतायास्तूपलक्षण भावेनोपादानात्। भाविभूतव्यपदेशः। तथाच पदसंस्कारवेलायां भूत एव णिनिना व्युत्पन्ने विजिशब्दो भवितेत्येतत्समिभिव्याहारदशायां कालान्तरार्थः संपद्यते इति कालान्तरप्रतीतिर्बहिरङ्गा। साचान्तरङ्गपदसंस्कारे बाधितुमक्षमैवेति सूत्रमेतदनारभ्यम्। अवश्यंच स्वकालएव प्रत्ययविधिरेष्टव्यः। भाविकृत्यमासीदित्यत्र भाविशब्दस्य भूतकालत्वे भाव्यासीच्छब्दयोः पर्यायत्वाद्युगपत् प्रयोगानापत्तेरित्याहुः।
क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ।। 2 ।।
क्रियासमभिहारः पौनः पुन्यं भृशार्थश्च। तच्च प्रकृत्यर्थविशेषणं नतूपपदं केवलानां तदनापत्तेः। इह द्वौ पक्षौ संभाव्येते। हिस्वौ तिङादेशौ वा लकारादेशो वा। नचलोट इति स्थानिनिर्देशस्य प्रत्यक्षत्वादाद्यपक्षशङ्कानुपपत्तिः। स्वादेशस्थानिकत्वेनापि तदुपपत्तेः। तत्राद्ये इत्थमुपपत्तिः। सामान्यविहितानां तिङां शतृशानचाविव हिस्वावपि बाधकौ स्याता मतस्तिङादेशाः स्थानित्वेनात्र निर्देश्याः।
तदुक्तम्। `हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेर्थ'मिति। लादेशत्वे तु पदसंज्ञा न स्यात्। तिङन्तत्वाभावात्। यदि तु लस्य कृत्संज्ञतया स्थानिवत्त्वेन हिस्वयोरपि कृत्त्वात्तदन्तत्वेन प्रातिपदिकसंज्ञायां सुबुत्पत्त्या सुबन्तत्वादेव पदसंज्ञा। नच तच्छ्रवणापत्तिः। विभक्तिसंज्ञकहिस्वसदृशत्वादनयोर्हिस्वयोरव्ययत्वेन सुपो लुगुपपत्तेरिति कल्प्यते। तथापि स भावन् लुनीहि लुनीहीत्येवं प्रलुनाति इत्यत्र तिङ्‌ङतिङ इतिनिघातो नस्यात्। परस्मैपदिभ्य एव हिरात्मनेपदिभ्य एव स्व इति नियमश्च नस्यात्। लादेशत्वे लःपरस्मैपदमितिद्वयोरपि परस्मैपद संज्ञतया परस्मैपदिभ्य एव तयोरापत्तेः। अत एव वा च तध्वमोरिति वाक्यशेषः संगच्छते। लकारस्यैव हिस्वादेशविधाने हि लोट्‌स्थानिकयोस्तध्वमोरप्रसिध्या तयोः स्थानित्वेन निर्देशोऽनुपपन्नः स्यात्। इतिप्राप्ते--
सिद्धान्तः। लादेशावेव हिस्वाविति। पूर्वपक्षे तिप्‌सिप्‌मिपां आदेशस्य हेः स्थानिवत्त्वेन पित्त्वे ङित्वाभावात्। लुमीहि लुनीहि इति इत्वं नस्यात्। ब्रूहिबूहीत्यत्रेट् च स्यात्। भुंक्ष्वभुंक्ष्वेत्येवहि भूनजौइत्यत्र आडुत्तमस्य पिच्चेति परत्वादाडागमे ङित्वाभावे श्नसोरल्लोप इति अकारलोपो न स्यात्। द्वितीयलुनीहिशब्दे तस्यपरमाम्रेडितमनुदात्तंचेत्यनुदात्तस्येष्टत्वेऽपि प्रथमस्य हेः पित्वादनुदात्तत्वं चस्यात्। तृण्डीत्यत्र तृणहइम्‌च स्यात्। सामान्येन तिङःस्थाने विहितोयः स्थानिविसेषनियमाभावेनद्वयोरपि पदद्वयादेशत्वं च स्यात्। नच सिद्धान्तेऽप्ययं दोषः। लोडादेशौ यौ हिस्वौ तत्सदृशयोर्हिस्वयोरनेन विधानात्। तेन परस्मैपदिभ्यः कर्तरि हिः। आत्मनेपदिभ्यो भावकर्मकर्तृषु स्व इतिव्यवस्था। तिङां निघातस्याप्युपपत्तेः। पुरुषवचनसंज्ञे तु न भवतः। हिस्वयोरत्र विधानवैयर्थ्यापत्तेः। पुरुषवचनसंज्ञे तु न भवतः हिस्वयोरत्र विधानवैयर्थ्यापत्तेः। वचनान्तरेण तयोः सिद्धत्वात्। नच तध्वमेरिति वाक्यशेषविरोधः। विषयसप्तम्यातदुपपत्तेः। यादृशि विषये तध्वमौ संभावितौ तादृशस्य लोटो लक्षणया तध्वं शब्दाभ्यामुक्तत्वात्। लोट्‌शब्दस्योपक्रमस्थत्वेनासंजातविरोधितया तदपेक्षया वाक्यशेषे लक्षणाया युक्तत्वात्।
तदयमर्थः-उक्तार्थे गम्ये धातोर्लोट्। तस्यच पुरुषवचनमात्रे हिस्वौ स्तः। प्रकृत्यर्थयोर्व्यवस्थआतूक्तैव। उदाहरणान्युच्यन्ते। लुनीहि लुनीहित्येवायं लुनाति। लुनीहि। लुनामि वा। एवं वचनान्तरे लकारान्तरे चोदाहार्यम्‌। क्रियासमभिहारे इति द्वित्वम्। नच धातुनैव तस्योक्तत्वाद्द्विवचनानुपपत्तिरन्यथा यङन्तेऽपि स्यादितिवाच्यम्। लकारस्यात्र कर्त्रादिष्वेव विधानात्। द्विर्वचनसहितस्यैव तद्बोधकत्वात्। यङन्तस्थले तुशुद्धक्रियासमभिहारस्य यङैव द्योतितत्वान्नेति वैषम्यम्। यङन्तक्रियासभिहारविवभायां तु भवत्येव तत्रापि द्विर्वचनमिति प्रागुक्तम्।
समुच्चयेऽन्यतरस्याम् ।। 3 ।।
अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वास्यात्।
यथाविध्यनुप्रयोगः पूर्वस्मिन् ।। 4 ।।
क्रियासमभिहारे इतिसूत्रेण यत्र लोट् तत्र तत्प्रकृतिरेव धातुरनुप्रयोज्यः। उदाहृतं च तथैव। अत्रभाष्यम्। हिस्वान्तेन संख्याकालपुरुषांणामनभिव्यक्तत्वात्तदभिव्यक्त्यर्थमनुप्रयोगावश्यकत्त्वे तद्धातोरनुप्रयोगसिद्धिः। नच तदर्थकधात्वन्तरस्याप्यापत्तिः। उत्तरसूत्रे समुच्चय एव धात्वन्तरस्यानुप्रयोग इतिनियमात्। क्रियासमभिहारे यथाविध्यनुप्रयोगसिद्धेः। नच समुच्चये सामान्यवचनस्यैवेति विपरीतनियमात्क्रियासमभिहारे धात्वन्तरस्यानुप्रयोगापत्तिः। लाघवादुपस्थितत्वाल्लोट्‌प्रकृतेरेवानुप्रयोगात्। विपर्यासव्यवहितप्रयोगनिवृत्तेश्चात्रान भिमतत्वात्।
समुच्चये सामान्यवचनस्य ।। 5 ।।
समुच्चयेऽन्यतरस्यामिति सूत्रेण यत्रलोट् तत्र सामान्यार्थस्य धातो रनुप्रयोगः। सक्तून् पिब धानाः खादेत्यभ्यवहरति। अन्नं भुक्ष्व दाधिकसास्वादस्वेत्यभ्यवहरति। तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ। भुंग्ध्व मास्वादध्वमित्यभ्यवहरध्वे पक्षे हिस्वौ अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थसामान्येनाभेदान्वयः। तथाच सक्तुपानधानाखादनोभयाभिन्नाभ्यवहरणाक्रियेत्यर्थः। एतेन पुरीमवस्कन्द लुनीहि नंदनं मुषाण तत्रानि हरामराङ्गनाः। विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः। इति व्याख्यातम्। पुर्यवस्कन्दनाद्यभिन्न अतीताअस्वास्थ्यक्रियेत्यर्थात्। अनद्यतनपरोक्षयोर्लिडर्थयोः स्वरूपत एव प्रयोगनियामकत्वेन शाब्देविषयत्वानङ्गीकारात्। समानकर्तृकत्वस्याप्यत्र भानाभावात्। सामान्यविशेषयोर्भेदाभावेन व्यभिचारानवकाशात्।
इदमप्यत्रावधेयम्। समुच्चय इति द्वितीयेलोड्विधाने क्रियासमभिहार इत्यस्याप्यनुवृत्तिः। अतएव जायस्व म्रियस्वचेति संधावतीति न्यायवार्तिके वाक्ये पुनर्जायते पुनर्म्रियते जनित्वाम्रियते मृत्वाजायतेतदिदं संधावनं व्यापारप्रचय इतिवाचस्पतिमिश्रैर्विवृत्वात्। नच लोडन्तद्वित्वापत्तिः। विजातीयक्रिययोरिवसजातीयक्रियाणामप्यावृत्तेः समुच्चयस्य लोटैव प्रतिपादितत्वात्। नच नियमार्थत्वप्रदर्शकभाष्यविरोधः। क्रियासमभिहारमात्रे लोडन्तप्रकृतेः। समुच्चयविशिष्टक्रियासमभिहारे सामान्यार्थस्येति तदभिप्रायादिति दिक्।
छन्दसि लुङ्‌लिटः ।। 6 ।।
धात्वर्थसबन्धे कालसामान्ये। देवे देवेभिरागमत्। लोडर्थे लुङ्। अहं तेभ्यो करं नमः लडर्थेलङ्। अग्निमद्य होतारमवृणीतायं यजमानः। लडर्थे लङ्। अद्यममार। तत्रैवलिट्।
लिङर्थे लेट् ।। 7 ।।
विध्यादौ हेतुहेतुमद्भावादौच समिधो यजति।
उपसंवादासंकयोश्च ।। 8 ।।
उपसंवादः पणबन्धः। यदि मे भवानिदं कुर्यात्तदहमिदं कुर्यामिति। अहमेव पशूनामीशै। पुरवधार्थंदेवैः प्रार्थितस्य रुद्रस्य वाक्यम्। मदग्रा एव वो ग्रहा गृह्यान्तै। मद्देवसान्येव वः पात्राण्युच्यान्तै ब्रह्महत्या भागं गृहाणेतीन्द्रेणोक्तस्यादित्यस्येयमुक्तिः। कारणतः कार्यानुमानमाशङ्का। नेज्जिह्मायन्तो नरकं पताम। जिह्याचरणेन नरकपातः संभाव्यते समाभूदित्यर्थः। इच्छब्द आशङ्कार्थः। नचोभयत्र हेतुहेतुमद्भावेन सिद्धिः। उपसंवादे अवध्यवधिमद्भावस्यैव प्रतीतेः। आशंकायामपि हेतुहेतुमद्भावनिश्चयाभावात्।
तुमर्थे सेसेनसेअसेन्‌क्सेकसेन् अध्यैअध्यैन्‌कध्यैकध्यैन् शध्यैशध्यैन्‌तवैतवैङ् तवेनः ।। 9 ।।
तुमर्थो भावः। कर्तुस्तथात्वे कर्तरि कृदित्यनेनैव सिद्धे तुमर्थग्रहणवैयर्थ्यात्। क्रिययाकारकाणामक्षेपात्कर्मादिष्वेव तुमुन्‌प्रसङ्गात्। वक्षे रायः वचः सेः। तावामेषे। इणः सेन्। सर्वत्र नित्सु स्वरभेदः। शरदे। जीवसेधाः। जीवतेरसे। असेनः स्वरभेदः प्रेषे। इणः से। गवामिव श्रियसे। श्रयतेः कसेन्। उपाचरध्यै। अध्यै अध्यैनोस्तुल्यम्। स्वरेभेदः। आहुवध्यै। कध्यैकध्यैनोस्तुल्यम्। नाधसः सह मादमध्यै। मादयतेः शध्यै। वायवे पिबध्यै। पिबतेः शध्यैन् शित्वात्सर्वधातुकत्वे भावार्थत्वेन यक्‌प्रसङ्गेऽपि व्यत्ययेन शप्। यकालुक् छान्दस इति हरदत्तः एवंमादयध्यै इत्यत्र यकोलुक् शप् चेति केचित्। शध्यै सध्यैन्। पिबध्यै मादयध्यै इतिवृत्तिः। पातवैपिबतेस्तवै। दशमे मासि सूतवे। अत्राद्युदात्तं व्यत्ययेन बोध्यम्। तवोङो ङित्वान्न गुणः।
प्रयै रोहिष्यै अव्यथिष्यै ।। 10 ।।
प्रपूर्वाद्यातेः कैप्रत्यय आतोलोप इटिचेत्यालोपः। रुहेरिष्यै नञ्‌पूर्वाद्व्यथेश्च। प्रयातुं रोहुं अव्यथितुमित्यर्थः।
दृशे विख्येच ।। 11 ।।
दृशेः के। दृशे विश्वाय सूर्यम्। ख्यातेरातोलोपः। चक्षिङः ख्याते र्वा के प्रत्यय इतिन्यासकारः। विख्ये त्वाहरामि द्रष्टुं विख्यातुमित्यर्थः। योगविभागे फलंचिन्त्यमिति दीक्षिताः।
शकिणमुलकमुलौ ।। 12 ।।
शक्नोतावुपपदे एतौस्तः। विभाजं नाशकत्। अपलुपं नाशकत्। विभक्तुमपलोप्तुमित्यर्थः।
ईश्वरे तोसुन्‌कसुनौ ।। 13 ।।
ईश्वरो विरचितोः। ईश्वरोविलिखः। विरचितुंविलोखितुमित्यर्थः। क्त्वातोसुन्कसुन इत्यव्ययत्वात्सुपो लुक्। तेन प्रत्ययलक्षमनिषेधात्वसन्तस्येति न दीर्घः।
कृत्यार्थे तवैकेन्यत्वनः ।। 14 ।।
भावकर्मणोरेते स्युः। तयोरेवेति तत्रैव तेषां विशिष्य विधानात्। तेन भव्यादौ कर्तरि स्नानयिमित्यादौ करणे कृत्यस्वीकारेऽपि नक्षतिः। ब्राह्मणेन म्लेच्छतिवै। अवगाहे। दिदृक्षेण्यः। दृशेः सन्नन्तात्केन्यः। एवं शुश्रुषेण्यः। भूयं स्पष्टकर्त्वम्। करोतिस्त्वन्। कृत्यमित्यर्थः। कृञो विजन्तात्त्वप्रत्यय इति केचित्। तत्र विसर्गो दुर्वार इत्यन्ये।
अवचक्षे च ।। 15 ।।
रिपुणानावचक्षे। नावख्यातव्यमित्यर्थः। चक्षिङ एश्। शित्वात्सार्वधातुकत्वम्। अतो न ख्याञादेशः।
भावलक्षणेस्थेण्‌कृञ्‌वदिचरिहुतमिजनिभ्यस्तोसुन् ।। 16 ।।
आसंस्थातोः सीदन्ति। आसमाप्तेः सीदन्तीत्यर्थः। समाप्त्यादीनामवधित्वेन क्रियालक्षणत्वम्। पुरा सूर्यस्योदेतोराधेयः। पुरावत्सानापाकर्तोः। रासतेः पुराप्रदितोर्जुहोति। पुरा प्रचरितोः। आहोतोः संतिष्ठते। आतमितोस्तिष्ठति। काममाविजनितोः संभवाम्। जननपर्यन्तं पुरुषसंगमं प्राप्नुयामेति स्त्रीणां वरप्रार्थनम्।
सृपितृदोः कसुन् ।। 17 ।।
भावलक्षणे। पुराक्रूरस्य विसृपो विरप्शिन्। पुराजत्रुभ्य आतृदः। अत्र विसर्पितुमातर्दितुमित्यर्थ इति केचित्। सृपेरनित्वात्। भावलक्षण इत्यनुवृत्तेश्च। आतृदः रुधिरनिः सरणात्पूर्वमेवेति वेदभाष्यविरोधाच्चेति दीक्षिताः।
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ।। 18 ।।
प्रतिषेधार्थयोरनयोरुपपदत्वम्। प्राचामिति पूजार्थम्। अलंरोदनेनेत्यादेर्वासरूपविधिनैव सिद्धेः। ल्युटोऽपवादत्वे एव तन्निषेधात्। इहतु तस्यापवाद्यत्वात्। स्त्र्यधिकारार्द्ध्वं वासरूपविधेः प्रायिकत्वेऽप्यत्र तदभ्युपगमे बाधकाभावात्। तदभावाभिप्रायेण तु प्राचामिति विकल्पार्थमिति वृत्तिः। अलं विलङ्‌ध्य प्रिय विज्ञायाञ्चाम्। `खलूक्त्वा खलु वाचिकम्।' अमैवाव्ययेनेति नियमान्नोपपदसमासः। अनयोः किम्। माकार्षीत्। प्रतिषेधयोः किम्। अलङ्कारः।
उदीचां माङो व्यतीहारे ।। 19 ।।
मेङ्‌प्रणिदाने। अपमित्य याचते अपमाय वा। समानकर्तृकत्वेऽप्यपूर्वकालार्थ आरम्भः। ननु पूर्वकालत्वाद्याचतेरपि स्यादिति चेन्मैवम्। युगपदापाद्यते। पर्यायेण वा। नाद्यः। तत्रोदीचामिति व्यवस्थितविकल्पात्। नान्त्यः। याचित्वापमयते इत्यस्येष्टत्वात्। नचायं माङ्‌माने इत्यस्यैव निर्देशः। तस्य व्यतिहारार्थाभावात्। नच एजन्तत्वाभावादात्वानुपपत्तिः। नानुबन्धकृतमनेजन्तत्वमिति ज्ञाप्यत्वात्। फलंतु धुसंज्ञासूत्रे व्यक्तम्।
परावरयोग च।। 20 ।।
सम्बन्धिशब्दत्वात्परेण पूर्वस्यावरेण परस्य योगः। अप्राप्य नदीं पर्वतः। दक्षिमदेशात्। गङ्गापेक्षया संनिहितइत्यर्थः। अतिक्रम्यपर्वतं नदी। तस्मादेव विन्ध्यापेक्षयादूरेत्यर्थः। दैशिकयोःपरत्वापरत्वयो रिहोपादानम्। तयोश्चावध्याश्रयोभयपेक्षया तृतीयदेशापेक्ष्यत्वम्। अन्यथा दक्षिणदेशादपि नद्यन्तरापेक्षया विन्ध्यस्य दूरत्वात्। नद्य अपि हिमवदपेक्षया सन्निहितत्वाच्च अत्रविन्ध्यसंनिकर्षगङ्गाविप्रकर्षयोरुभयत्रसाम्येऽपि आद्येगङ्गापेक्ष संनिधानं विन्ध्ये प्रकारो द्वितीये विन्ध्यापेक्षदूरत्वं गङ्गायामिति बोधे विशेषः।
समानकर्तृकयोः पूर्वकाले ।। 21 ।।
धात्वधिकारात्तदर्थयोः समानकर्तृकत्वम्। नचभोजनव्रजनक्रिययोर्भिन्नैव शक्तिः साधनमिति तदैक्यानुपपत्तिः शक्तितद्वतोरभेदस्य विवक्षितत्वात्। भोजनव्रजनक्रियासाधनयोर्द्वयोः कर्तृशक्त्योरेकस्मिन् देवदत्तादौ सत्त्बेन तदैक्यनिर्वाहात्। निर्धारणे षष्ठी सप्तमीवा। एककर्तृकक्रिययोर्मध्ये पूर्वः कालो यस्य धात्वर्थस्य तस्मिन् क्त्वा स्यात्। भुक्त्वा व्रजति। तत्कर्तृकव्रजनक्रियापेक्षया पूर्वकालतायां क्त्वा। भोक्त्रन्तरकर्तृकभुजिक्रियापेक्षायां तु विभाषेत्यादिना वक्ष्यमाणौ क्त्वाणमुलाविति निष्कर्षः। आसित्वा भोक्तुमिति तुनुन्न भवत्यनभिधानात्। किन्तु लडादय एव। आसित्वा भुङ्क्ते इति। द्वित्वं चातंत्रं स्नात्वा पीत्वाभुक्त्वा व्रजति। स्नात्वा भुक्तवा पीत्वेत्यादि। नच मीषां पूर्वमानयेत्यादौ सर्वापेक्षयापूर्वस्यानयनवत् तस्मादेव क्त्वा स्यात्इति वाच्यम्। तिङन्तक्रियायाः प्राधान्येन सर्वासां तत्रैवान्वयेन परस्परंविशेष्यविशेषणभावविरहात्। गुणानांच परार्थत्वादसंबन्धः समत्वात्स्यादिति न्यायात्।
व्यादाय स्वपितीत्युपसंख्यानम्। अपूर्वकालत्वात्। उत्तरकाले क्त्वाप्रत्ययार्थमारम्भः। व्यादानानन्तरभाविश्वप्नक्रियापेक्षया व्यादानस्य पूर्वकालत्वादेवसिद्धमिति भाष्यम्। अव्ययकृतो भावे इति वार्तिकात्साध्यावस्तापन्ने भावेऽयम्। समानकर्तृकयोरिति सामानाधिकरण्यस्य संसर्गतालाभः। पूर्वकालइति बहुव्रीहिः। निर्धारणस्य सजातीयविषयतया तद्विषयस्यक्रियात्वलाभात्। तेनपूर्वकालस्य द्योत्यत्वं तथाच सामानाधिकरण्योत्तरकालोभयसंबन्धेन क्त्वाप्रकृत्यर्थक्रिया तिङन्तार्थक्रियायां विशेषणम्। धातुसबन्ध इत्यधिकारात्।
एतेनपूर्वकालसमानकर्तृकत्वयोर्वाच्यत्वमपास्तम्। प्रत्ययार्थतया तयोर्विशेष्यत्वापत्तेश्च। तथाच क्रियाप्राधान्याभावे आभीक्ष्ण्ये द्वित्वं न स्यात्। गुणीभूतक्रियया तदुक्तौ पाचक इत्यादावप्यापत्तेः। यथाविध्यनुप्रयोगइत्यादौ धातुसंबधइत्यस्य साक्षात्सबन्धपरतायाः क्लृप्तत्वेन तद्बाधापत्तेश्च। पूर्वकालस्य कत्वा वाच्यत्वाभावनाच्च। सप्तमीनिर्देशमात्रेण वाच्यत्वाङ्गीकारे कर्तृस्थे चाशरीरे कर्तरीत्यादावतिप्रसङ्गात्। अन्यलभ्यत्वस्य चात्रापि साम्यात्। कर्मप्रवचनीयाद्वैषम्यानापत्तेश्च।तद्वदत्रापि प्रकारतयैव संबन्धस्य भानोपगमादिति शाब्दिकरीतिः।
तत्रवदन्ति अव्ययकृतो भावे इत्यत्र व्याप्तिवाचिना भावशब्देन क्रियान्तरान्ययस्यैवानन्तर्यदिरुक्तत्वात्। धात्वर्थस्यान्यत एव लाभात्। अतएव भुक्त्वा व्रजतीत्यादितः शाब्दबोधे तत्कारकसंशयाभावः। पौर्वापर्यस्य संसर्गतायां तत्प्रकारकबोधाभावेन तत्प्रकारकसंशये बाधकाभावात्। आश्रयस्यान्यलभ्यतायां तत्र त्वन्मते कर्त्तृशक्त्यनापत्तेश्च कर्मत्वादेरपि संसर्गत्वे द्वितीयादीनां तत्तच्छक्तिविलयापत्तेश्च। तत्प्रकारकबोधस्यात्रापि तुल्यत्वात्। नच नामार्थ प्रकारबोधे विभक्तिजन्योपस्थितेर्हेतुत्वस्य तण्डुलः पचतीत्यादौ कर्मत्वसंसर्गकबोधवारणायावस्यकत्वाद्वैषम्यमितिवाच्यम्‌। सामान्यत उक्तौ प्रकृते व्यभिचारात्। क्त्वाप्रत्ययान्तस्यापि नामत्वात्। विभक्तिद्योत्येत्यक्त्त्यैव निर्वाहाच्च। पीत्वा तृप्त इत्यप्रयोगस्तु तात्पर्याभावात्। अन्यथा पौर्वापर्यस्य संसर्गतायामप्यनिर्वाहात्। समानकर्तृकयोर्मध्ये पूर्वकालेऽर्थे वर्तमानाद्धातोरित्यर्थात्सर्वोपपत्तेश्च। पूर्वकालस्तु क्रियायां विशेषणम्। एकत्वादेः प्रत्ययार्थस्यापि प्रकृत्यर्थविशेषणत्वोपगमात्। आनन्तर्थं क्त्वार्थइति पक्षेतु यद्यपि तस्य प्राधान्यं तथापि गुणीभूतक्रियामाश्रित्य द्विर्वचनोपपत्तेः। अनभिधानादतिप्रसङ्गभङ्गात्। आभीक्ष्ण्यं तिङन्तेष्वव्यसंज्ञकृदन्ते षुचेति वार्तिकाच्च। त्वन्मतेऽपि क्रियाया गुणीभूतत्वाच्च। प्रत्ययार्थे गुणीभूतत्वस्याप्रयोजकत्वात्। धातुसंबन्धेत्यत्र साक्षात्वप्रवेशे गौरवात्। अलं भुक्त्वा। अप्राप्यनदीं प्रर्वत इत्यत्र त्वायापि तत्परित्यागाच्च। कर्मप्रवचनीये संबन्धो विभक्त्यर्थ इहतु कृदर्थ इतिवैषम्याच्चेति।
किंच कर्मप्रवचनीयाद्वैषम्याभावे कोदोषः। समानार्थकत्वमात्रस्य दोषत्वाभावात्। अन्यथा तृतीया द्वितीयादेः कर्तृकर्माद्यर्थतया आख्यातानामपि तदर्थत्वं नस्यात्। नच द्वितीयापत्तिः। तत्संज्ञायामेव तद्विधानात्। अन्यथा लक्ष्यलक्षमभावस्य शतृप्रत्ययार्थतया तत्रापि तदापत्तेः। र्किच तत्र द्वितीयया सामान्यतोऽवगम्यमानसंबन्धं अनुशब्दो विशेषे व्यवस्तापयति। अत्रतु पदान्तरार्थत्वं संबन्धस्य नास्त्त्येवेति स्पष्टमेव वैषम्यम्।
किंच `आतुमुनः प्रत्ययाः समानाधिकरणे भवन्तीति वक्तव्यम्' अस्यार्थः एतद्वचनाभावे कर्तरिकृदिति सामान्यविधिना कर्तारि णमुल्‌प्रसङ्गात्। स्वादुंकारं यवागूर्भुज्यते देवद्त्तेनेति तृतीया न स्यात् कर्तुरभिहितत्वात्। नच भुजिप्रत्ययेन तदनभिधानात्तृतीया। अनभिहितेइति पर्युदासाश्रयणादिति वाच्यम् णमुलाकर्मणोऽनभिहितत्वाद्यवागूशब्देऽपि द्वितीयापत्तेः। नचाव्ययकृतः कर्मणीति वचनारम्भेण निस्तारः। स्वादुंकारं यवागूं भुंक्ते इत्यत्रापि द्वितीयानुपपत्तेः। एवं पक्त्वौदनो भुज्यते देवदत्तेन, भोक्तुमोदनः पच्यते देवदत्तेनेत्यादावपि योजनीयम्। उक्तवचनारम्भेतु सामानाधिकरण्यमेव क्त्वादेरर्थो नतु कर्त्रादिरिति नदोषः।
एतच्च प्रत्याख्यातम्। अव्ययकृतोभावे इतिवचनात्तुमर्थ इत्यनुवृत्तेर्वाभावे एव क्त्यादीना विधानात्कर्त्रादयोर्थानेति। यदि तूपूर्वकाल इत्यस्य पूर्वकालीनक्रियायां क्त्वेति भाष्याभिमतं स्यात्। तर्हिउक्तशङ्का, उक्तसमाधानत्रयंचेत्युभयमनुपन्नं स्यात्। भावार्थकतायास्त्बद्रीत्या पूर्वकालपदे एव तदलाभात्। उत्तरत्राप्येतदनुवृत्त्यैवोपपत्तेः। व्यवहिततुमुनर्थपदानुवृत्त्यपेक्षया संनिहितपूर्वकालपदानुवृत्तेरेव युक्तत्वात्। यदि तु पूर्वकालीनक्रियावाचकधातुस्तदर्थः, तर्हि पूर्वकालादिति स्यात्। तादृश धातोः क्त्वाप्रत्यय इति वाक्यार्थात्। तस्मात्पूर्वकालक्रियायामर्थे धातोः क्त्वास्यादित्येव तुमर्थो वाच्यः। उत्तरकालीनक्रियावाचक धातोश्चक्त्वाविधान तदनुपपत्त्याऽर्थात्पूर्वकालक्रियावाचकाद्धातोरेव क्त्वोपपत्तेः।
तथाच पूर्वस्याः कालः पूर्वकाल इतिषष्ठीसमासः। तत्र वहुव्रीह्यपेक्षया लाघवस्य सर्वतन्त्रसंमत्वात्। एककर्तृकयोः क्रिययोर्मध्ये या पूर्वा क्रिया तस्याः काले इत्यर्थः। सर्वनाम्नो वृत्तिमात्रे इति पुंवद्भावः। संबन्धिब्देष्वेकदेशान्वयस्य व्युत्पन्नत्वात्। यत्किंचित्क्रियापेक्षपूर्वत्वस्य सार्वत्रिकतया द्वयोरिति निवेशः। एवंच स्वशब्देन पूर्वकालोपादाने क्त्वा नभवतीति भाष्यव्याख्यायां पौर्वकाल्ये क्त्वादि विधीयते नतु विषये इति कैयटग्रन्थोऽपि संगच्छते। सूत्रस्थ पूर्वकालपदस्य क्रियापरत्वे तस्याविषयत्वशंकानुपपत्तेः।
यदितुस्वभिन्नपदवाच्यत्वमेव विषयत्वं तदा तत्प्रतिषेधानुपपत्तिः। धातुनैव तत्प्रतीवेर्वाच्यमेव विषयत्वं तदा धातुनैव लब्ध इति स्वयमेवोक्तत्वाच्च। ब्राह्मणानां पूर्वमित्यत्र पूर्वपदस्यैव निर्धारणविषयप्रतिपादकतयाऽत्रापि तथात्वाच्च। अन्यथादृषअटान्तदार्ष्टान्ति कयोर्वैरूप्यापत्तेः। कैयटादिग्रन्थात्तथैव लाभाच्च। तत्र दैशिकं पूर्वत्वं मत्र तु कालिकमिति परं विशेषः। किंबहुना त्वदुक्तार्थे कालपदस्य वैयर्थ्यम्। पूर्वे इत्यपर्याप्तेः। किंबहुना त्वदुक्तार्थे कालपदस्य वैयर्थ्यम्। पूर्वे इत्यपर्याप्तेः धर्मिपरतयैव निर्वाहात्। तस्मात्पूर्वकाले शक्तिरिति सूत्रवार्तिकभाष्यतात्पर्यम्। पूर्वे इत्येतावन्मात्रोक्तौ कालस्य वाच्यत्वालाभात्। पूर्वकालस्य कालमात्रपरत्वे च क्रियापेक्षनिर्धारणान्वयादिति कालपदसार्थक्यात्।
स्यादेतत्। समानकर्तृकत्वमेव क्त्वार्थः। उभयोर्नियतोपस्तितिकत्वेऽपि पूर्वकालस्याक्षेपलभ्यत्वात्म। यज्ञोपवीतं वहन् पन्थानमीक्षमाणोऽधीयानो गच्छतीत्येककर्तृकानेकक्त्रियाणां यौगपद्यदर्शनेऽपि प्रधानक्रियामनेकामेकः कर्ता युगपन्न करोति इति नियमेन तदाक्षेपात्। नन्वेक कालासंभवित्वरूपे प्रधानत्वेऽधीत्य गच्छतीत्यत्र पूर्वत्वधीर्नस्यादाक्षेपकत्वाभावात्। नचेयं भवतु मा वा इयंतु अवश्यं भवतुइत्येवं रूपं मुख्यत उद्देश्यत्वं प्रधानत्वं तथाचोक्तक्रिययोरप्येवं भावे पौर्वापर्य नियम इति वाच्यम्। अध्ययनगमनयोस्तुल्यवदुद्देश्यत्वेऽपि सहसंभवेन व्यभिचारात्। तथोद्देश्यतया नियन्तुमशक्यत्वात्। मैवम्। भिन्नकालीनप्रयत्नसाध्यत्वस्यैव प्रधानत्वात्। अतुल्यकालीनयत्नसाध्यक्रियाणामतुल्यकालत्वव्याप्यत्वात्। भिन्नपयत्नसाध्यतायास्तथात्वे सृष्ट्वा संहरति भगवानित्यादौ तदभावात्।
मिश्रास्तु प्रधानत्वेन समानकर्तृकत्वेनोपस्थआप्यमनेकां क्रियामेकः कर्ता एकदा नकरोति। तत्र पूर्वापरीभाव एव बहूनां तात्वर्यनियमः यथा मलिनं ते वपुः स्नायादित्यादि सिद्धसाध्यसमभिहारे हेतुहेतुमद्भावो व्युत्पत्त्या तत्तात्पर्यानुमानाब्दुध्यते तथा समानकर्तृकत्वेनोपस्थितायां क्रियायां पौर्वायर्ये तात्पर्याक्षेपादेव पूर्वत्वप्रत्यपान्न तत्र शक्तिरित्याहुः।
नचैवमपि ब्रजनक्रियायाः पूर्वकालत्वाक्षेपेणाप्युपपत्त्या क्त्वाप्रत्ययान्तक्रियाया नियमतः पूर्वत्वबोधो न स्यात्। व्रजतिभुक्त्वेत्यादेरपि दर्शनेन पूर्वोपस्तितेर्नियामकत्वस्य दुर्वचत्वादिति वाच्यम्। नहि भोजनव्रजनक्रिययोरेकः कर्तेत्यनुभवः। क्त्वार्थस्य समानकर्तृकत्वस्य प्रकृत्यर्थान्वयनियमेव ब्रजनक्रियायां विशेष्यत्वेनान्वयानुपपत्तेः।
अतएव भोजनव्रजक्रिये समानकर्तृके व्रजनक्रिया भुजिक्रियया सहैककर्तृकेत्यपि वा नानुभवः। किन्तु स्वभिन्नकालीनस्वसमानाधिकरणकृतिमज्जन्यत्वरूपस्य समानकर्तृकत्वस्य क्त्वावाच्यत्वात्स्वपदस्य समभिव्याहृतव्रजनपरत्वात्। व्रजनकृतिभिन्नकालीनसमानादिकरणकृतिमज्जन्यं भोजनमिति बोधे व्रजनस्य विशेषणत्वाद्भोजनस्य विशेष्यत्वात्। तत्रैव पूर्वत्वान्वयः। नच तत्र व्याप्तिपक्षधर्मतयोरेव तन्त्रत्वादन्यतरपौर्वापर्यावधारणेऽपि प्रधानमात्रे पूर्वत्वान्वये बीजाभावः। शाब्दान्वयबोधतथात्वादितित वाच्यम्। मीमांसकमते आक्षेपलभ्यस्यापि शाब्दप्रवेशोपगमात्।
वस्तुतो व्रजतीत्यस्य वर्तमानार्थकलट्‌प्रत्ययान्ततया व्रजनस्य वर्तमानसमयसंबन्धित्वेनोपस्थित्या व्रजनपूर्वत्वस्य बाधाद्भोजनस्यैव तथात्वं गम्यते एतेन भुक्त्वा जगामेत्याद्यपि व्याख्यातम्। नच भुक्त्वापाक्षीदित्यादौ अनुपपत्तिः। एकत्र तथाव्युत्पत्ता वन्यत्रापि तथात्वात्। पूर्वकालसंबन्धित्वेनोपस्थितस्य कालानाकांक्षत्वाच्च। नच तदा भूक्त्वा जगामेत्यादौ तदाशब्दोपात्तकालावरुद्धे भोजने पूर्वत्वधीर्न स्यादिति वाच्यम्। प्रकृतिप्रत्ययार्थान्वयस्यैव प्राथामिकत्वात्। तदाशब्दार्थस्य त्वनन्यगत्या तदभेदान्वयात्। कालानवरुद्धत्वेनोपस्थित एवान्वयसंभवे तदवरुद्धोपस्थितिकान्वयकल्पने बीजाभावात्। मुखं व्यादाय स्वपितीहुर्ति हुत्वा दक्षिणां दद्यादित्यादौ समानकर्तृकत्वस्यापि प्रतीतिर्नेति वाच्यम्। क्रियान्तराध्याहारेण समाधानस्य संप्रदापसिद्धत्वात्। तस्मात्समानकर्तृकत्वमेव क्त्वार्थो युक्त इति पूर्वपक्षः।
सिद्धान्तस्तु उक्तरीत्या नियतपूर्वत्वधीः सकलसिद्धा दुरुपपादैव। कदाचिदुत्तरस्यापि प्रत्ययापत्तेः। उपस्थित्यभावे तात्पर्यस्यैव दुर्ग्रहत्वात्। योग्यतायाश्चोभयत्र सत्त्वात्। किंच समानकर्तृकत्वेन पूर्वत्वक्षेपो दुर्वचः। तद्धि एककृतिसमाध्यत्वं वा। एकजातीयकृतिसाध्यत्वं वा कृत्याश्रयैक्यं वा। नाद्यः। भोजनव्रजनानूकूलकृत्योर्भेदात्। एककालिकानां नानाकृतीनामप्येकजातीयत्वात्। नान्त्यः। एककृतिसाध्ये युगपदुत्पन्ननानातृणच्छेदादौ व्यभिचारात्। (भोजनव्रजनकर्त्रोरभेदस्य विशेषणविशेष्यभावमहिम्नाः। तस्मात्क्त्वातः पूर्वत्वोपस्थितौ प्रत्ययस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वब्युत्पत्तिबलादेव तत्रान्वयनियमः सुस्थः। वाक्यार्थत्वेन तत्रशक्तेरयोगात्। क्त्वालकाराभ्यां कर्त्रभिधाने तदभेदस्य संसर्गत्वात्।
यद्वा तयोः कृतिमात्रवाचयकत्वेऽपि सामानाधिकरण्यमेव वाक्यार्थः। अन्यथा भोक्तुं व्रजतिपश्यन् व्रजतीत्यत्रानुपपत्तेः। तुमुन्‌लटोः समानकर्तृत्वानभिधायित्वात्। सुप्त्वाव्यादत्ते इत्यत्र व्यत्यात्प्रयोग इति वाचस्पतिमिघः। भूत्वा घटस्तिष्ठतीत्यादौ उत्पत्तिकालस्थितिकालत्वेऽप्यनुभावानुरोधात् स्थितिपूर्वकालविद्यमानविवक्षया न दोषः। तस्मात्पूर्वत्वं क्त्वार्थ इति सिद्धम्।
मिश्रास्तु अव्यवधानगर्भमेव तच्छक्यम्। प्रतीत्यनुरोधात्। प्रातर्भोजनसायंगमनयोरप्रतीतेः। भोजनापेक्षया विलम्बितस्तस्मिन् सत्येव प्रचलित इति बोधात्। अतएव क्त्वातः कारणताग्रहोपि। नजभोजनाव्यवहितात्तरक्षणे गत्यभावादसंभवः स्याननुकूलक्रियानन्तरितत्वस्याव्यवधानपदार्थत्वात्। तदनुकूलक्रियायास्तदव्यवधायकत्वादन्यथा व्यापारेण व्यवहितानामिन्द्रियादीनामजनकत्वापत्तेः।
अद्य स्थित्वेत्यादौ अव्यवहितपूर्वकालस्य क्त्वावाच्यस्य अद्येत्यनेनाभेदान्वयः। चिरतरापेक्षयाऽद्य दिनस्याव्यवहितत्वात्। अन्यथा पूर्वकालान्वितत्वेनोपस्थितिक्रियायां अनाकांक्षत्वादद्येत्यनेनान्वयानुपपत्तेः। नच सप्तम्यर्थावरुद्धस्याद्यपदप्रतिपाद्यतया कथं तस्य क्त्वावाच्यपूर्वकालमात्रेणाभेदान्वय इति वाच्यम्। सप्तम्यर्थावरुद्धस्यैव क्त्वावाच्यत्वादन्यथान्वयानुपपत्तेः नच प्रत्ययार्थस्य प्रकृत्यर्थान्वयात्पूर्वं नान्यपदार्थान्वय इति वाच्यम्। देवदत्तेन दृष्ट इत्यादौ देवदत्तकृतिविषयदर्शनगोचर इति प्रतितेस्तादृशव्युत्पत्त्यसिद्धेरित्याहुः।
मणिकृतस्य प्रधानक्रियानन्तर्यं क्त्वार्थः तन्निरूपकत्वेन पूर्वकालस्य जघन्यप्रतीतिकत्वात्। भोजनानन्तरं व्रजतीति भोजनप्रकारकव्रजनविशेष्यकबोधात्। पूर्वत्वेतु भोजनविशेष्यकोऽनुभवः स्यात्। तथाच सएव विनिगमकः। नचैवं प्रत्ययस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमभङ्गापतिः। सुब्विभक्तावेव तथा नियमात्। आख्यातोपात्तसंख्यायाः कर्तर्यन्वयस्वीकारात्। भोजन्यापि प्रतियोगितासंबन्धेनानन्तर्ये विशेषणत्वाच्च।
नन्वानन्तर्यं कृतिनिरूपितं क्रियानिरूपितं वा शक्यम्। नाद्यः। प्रतियोगित्वेनापि प्रकृत्यर्थान्वयाभावे व्युत्पत्तिभङ्गापत्तेः। नच कृत्यानन्तर्यं शक्यं कृतेः पदार्थैकदेशतया क्रियायामनन्वयापत्तेः। नान्त्यः। आनन्तर्यानन्वितत्वेनोपस्थइतक्रियाया निराकांक्षत्वेन कृत्यनन्वयापत्तेः। नच प्रथमंकृत्यैवभोजनान्वये स्वकृतिविषयभोजनान्तरव्रजनकृतिमानिति बोध इति वाच्यम्। एकस्वार्थान्वय मपरपदार्थे बोधयित्वा तद्विशिष्टापरस्वार्थान्वयबोधकत्वस्य पदेऽव्युत्पत्तेः। मैवं प्रथमं कृत्यैव तदाश्रयान्वयात्। तथाच भोजनकर्ता भोजनान्तरव्रजनकृतिमानित्यन्वयः। नच भोजनस्योभयान्वयित्वदोषः। घटेनेत्यादौ तृतीयोपस्ताप्यकरणत्वे एकत्वेच घटान्वयस्वीकारात्। अगत्यान्वयबोधोपगमादित्याहुः। नच युगपत्संभवेऽपि क्रमेणोभयत्रान्वयोदृष्ट इति वाच्यम्। विशेष्ये विशेषणं, तत्रच विशषणान्तरमिति न्यायेनयुमपदेवान्वय स्वीकारान्, अनन्वितान्वय बोधो पगमादित्याहुः।।
केचित्तुः व्यादाय स्वपिति अधीत्य तिष्ठति इत्यादेरध्ययनव्याप्यस्थित्यादिमत्येव प्रयोगान्मुखव्यादानोतरकालिकस्वापादिमत्यपि मुखं नव्यादायेत्यादिप्रयोगाच्च व्याप्तिरपि क्त्वार्थइत्याहुः।
अन्येतु तत्रशक्तौ मानाभावः। स्थितित्वावच्छेदेन तद्व्याप्त्यभावात्। तदीयस्थितिपरत्वे लक्षणापत्तेः। स्वापोत्तरं व्यादानेतत्प्रयोगानापत्तेः। तदीयस्वापत्वावच्छेदनापि तदीयव्यादानव्याप्तिविरहात्। एतेन प्याप्यत्वस्य संसर्गत्वमपि निरस्तमित्याहुः।
अपरे तु कृत्सामान्यशक्तिलभ्यव्यादानाश्रये स्वापाश्रयत्वस्य विशिष्टे वैशिष्ट्यमिति न्यायेनान्वयबोधः। तात्पर्यवशादौत्सर्गिकव्यादानस्वापाद्यो रेककालिकत्वलाभः। निरूढलक्षणया सुप्त्वा व्यादत्ते इतिवद्वा बोधइत्याहुः।
अन्येतु मुख्यादानोत्तरकालिकस्वापादिमति मुखं नव्यादाय स्वपिति इति न स्यात्। व्यादानाश्रये स्वापाश्रयत्वसत्त्वात्। मुखं व्यादत्ते त्वपितीत्यादितो मुखं व्यादाय स्वपितीत्यादेरविशेषश्च। धातुसम्बन्धाधइकारबाधश्च स्यादित्याहुः।
अथ महाभाष्यतात्पर्यार्थं बूमः। पूर्वकालीनभोजनविशिष्टाव्रजनक्रियेति बोधः। पूर्वकालस्य वृत्तित्वेन भोजने तस्यच सामानाधिकरण्येन व्रजनेऽन्वयः। क्त्वाप्रकृत्यर्थ क्रियायां पूर्व कालत्वान्वये तिङन्त क्रियाया अर्थादेवानन्तर्यलाभः। तत्क्रियाव्यक्तिघटकाद्यव्यापारप्रागभावाधिकरणकालवृत्तित्वस्य भोजनक्रियाघटकान्त्यव्यापारे लाभात्। अन्यथापचमाने भुञ्जानेच तत्प्रयोगापत्तेः भोजनक्रियायाश्च व्रजनक्रियायामेव विशेषणतया धातुसम्बन्धाधिकारस्य न संकोचः। आनन्तर्यंकृतिराश्रयो व्याप्तिर्वाकत्वार्थ इत्येतेषु पक्षेषु तस्य दुर्वारत्वात्। मुखं व्यादायेत्यादौ तु स्वापादिघटकव्यापारसमुदायापेक्षया पूर्वत्वाभावेऽपि यत्किञ्चित्तदपेक्षया पूर्वत्वं प्रयोगबलात्स्वीकार्यम्।
यत्तु तथात्वानुभवे मानाभावः। किञ्च पूर्वकालत्वं प्रागभावाधिकरणकालत्वं स्वध्वंसानधिकरणकालत्वं स्वध्वंसानधिकरणत्व वा, नाद्यः। प्रागभावानङ्गीकारे असम्भवात्। नद्वितीयः। पचमाने भुञ्जानेऽपि पक्त्त्वा भुंक्ते इत्यापत्तेः। नान्त्यः। तत् ध्वंसानधिकरण कालवृत्तित्वरूपानन्तर्यापेक्षया गुरुत्वात्। इति।
तदसत्। भाष्यादिसंमतानुभवस्यैव प्रामाणिकत्वात्। तत्पदेन यत्किञ्चिद्व्यापारग्रहणे पचमान इत्याद्यतिप्रसङ्गसाभ्यात्। चरमव्यापारोपादाने तु मन्मते भोजनध्वंसानधिकरणकालवृत्तित्वस्य पाकचरमव्यापान्वयस्वीकारेणानतिप्रसङ्गात्। पक्त्त्वौदनं भुङ्क्ते देवदत्तः पक्त्वौदनो भुज्यते देवदत्तेनेत्यादौ पाकक्रियानिरूपितकर्तृकर्मशक्त्यनभिधानेन तृतीयाप्रसक्तिस्तु नास्ति। प्रधानशक्त्यनभिधानेन व्यवस्थासम्भवात्। इति अनभिहित सूत्रे एव पल्लवितमिति दिक्।
आभीक्ष्ण्ये णमुल्‌च ।। 22 ।।
पौनः पुन्ये द्योत्ये पूर्वविषये णमूल् क्त्वाच। इमौच द्विर्वचनव्यतिरेकेणाभीक्ष्ण्यं द्योतयितुमसमर्थौ। शब्दशक्तिस्वाभाव्यात्। अत आभीक्ष्ण्येचेति द्वित्वम्। स्मारंस्मारं नमति शिवम्। स्मृत्वा स्मृत्वा।
न यद्यनाकाङ्क्षे ।। 23 ।।
पूर्वोत्तरक्रियावतो वाक्यस्येतरानाकाङ्क्षत्वे यच्छब्दे उपपदेपूर्वकाले यत्प्राप्तं तन्न स्यात्। तेन पूर्वसूत्रविहितस्य णमुलः पूर्वतनसूत्रविहितस्यापि क्त्त्वश्च निषेधः। नचानन्त रस्यविधिर्वा प्रतिषेधोवेति आभीक्ष्ण्य इति सूत्रप्राप्तस्यैव प्रतिषेधो युक्तो नतुसमानसूत्रविहितस्येति वाच्यम्। प्रकरणापेक्षया पूर्वकाले प्रतिषेधारम्भात्। यदयं भुङ्क्ते ततः पठति। अनाकाङ्क्षे किम्। यदयं भुक्त्वा व्रजति, ततोऽधीते। व्रजत्यन्तं वाक्यम् ततोधीते इत्येतत्साकांक्षम्। यत्तच्छब्दाभ्यां वाक्यद्वयैकवाक्यतोल्लासात्।
विभाषाग्रेप्रथमपूर्वेषु ।। 24 ।।
अग्रे इति सप्तम्यन्तानुकरणत्वेन विभक्तित्वाभावादस्यवामीयमित्यादिवन्न विभक्तेर्लोपः। एषूपपदेषु समानसूत्रविषये क्त्वाणमुलौ वा स्तः। नन्वियं प्राप्ते विभाषा अप्राप्ते वा। आभीक्ष्ण्यपदानुवृत्त्यननुवृत्तिभ्यां संदेहः। नाद्यः। आभीक्ष्ण्ये क्त्वाणमुलोः प्राप्तौ पक्षे तदभावविधाने आभीक्ष्ण्ये लडादीनामपि प्रसङ्गात्। आभीक्ष्ण्येक्त्वाणमुलौ हीष्येते। अग्रे भोजंभोजं व्रजति। भुक्त्वा भुक्त्वा। लडादयस्तु नेष्यन्ते। अग्रेभुङ्क्तेभुंक्ते व्रजतीति। एवमनाभीक्ष्ण्ये क्त्त्वाणमुलोरसिद्धेः। अग्रेभोजं व्रजतीत्यादेश्चेष्टत्वात्। नान्त्यः। आभीक्ष्ण्ये ग्रहणनिवृत्तौ अग्रादीनां प्रप्तविभाषायां नायं दोषः। आभीक्ष्ण्ये ग्रहणनिवृत्तौ अग्रादीनां प्रत्ययोत्पत्तौ निमित्तत्वादुपपदसंज्ञायामुपपदसमासप्रसङ्गात्। प्राप्तविभाषायां नायं दोषः। आभीक्ष्ण्यसूत्रेणैव प्रत्ययोर्विहिततयाऽग्रादीनां प्रत्ययनिषेधं प्रत्येव निमित्तत्वात्।
मैवम्। अप्राप्तविभाषेत्यस्य युक्तत्वात्। अमैवाव्ययेनेति नियमादेव समासप्रसक्त्यावात्। अमा तदन्येन च तुल्यविधानत्वात्। नचाभीक्ष्ण्ये प्राप्तौ अनाभीक्ष्ण्ये पूर्वविप्रतिषेधन नित्ययोरेव क्त्वाणमुलारिष्टत्वात्। नच णमुल्यप्राप्ते क्त्वाप्रत्यये तु समानादिसूत्रेण प्राप्ते विधानादुभयत्र विभाषात्वमिति वाच्यम् तद्विहितक्त्वापेक्षया विभाषाग्रहणानुपयोगात्। वासरूपन्यायादेव पक्षे लडादीनां सिद्धेः। ममुल्सहितक्त्वाविधौच विभाषाग्रहणं तयोः सहविधाने वासरूपविधिर्नास्तीति ज्ञापनार्थम्। तेनाभीक्ष्ण्ये पूर्वकाले लडादयो न भवन्तीतिदिक्।
अत्र साधनपौर्वकाल्यविषया अग्रादयो न क्रियापौर्वकाल्यविषयाः ततासनि तैरेव पौर्वकाल्यस्योक्तत्वात्क्त्वाणमुलोर्गतार्थत्वादनुपपत्तेः। नचारम्भसामर्थ्यम्। साधनपौर्वकाल्यविषयाणामग्रादीनां मुपपदत्वे चारितार्थ्यात्। पूर्वशब्देन क्रियापौर्वकाल्योक्तौ क्त्वानुत्पत्तेः समानादिसूत्रे भाष्ये एवोक्तत्वात्। र्किच क्रियापौर्वकाल्यविषयाणामग्रादीनां ग्रहणे प्राप्तविभाषानिश्चयात्तत्संशयोऽनुपपन्नः। आभीक्ष्ण्यसूत्रेण क्रियापौर्वकाल्ये एव क्त्वाणमुलोर्विधानात्। तस्यचाग्रादिशब्दैरुक्तावाभीक्ष्ण्यग्रहणानुवृत्तावप्यप्राप्तविभाषैव स्यात्। नचाभीक्ष्ण्यद्योतनार्थं तदुत्पत्तिः। द्विर्वचनं विना तयोरप्यसामर्थ्यात्। तस्मात्साधनपौर्वकाल्यविषयाणामेवाग्रादीनामिहोपादानम्। तथाचाग्रेभोजमित्यस्यान्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वाव्रजतीत्यर्थः। तदपेक्षया च भोजनस्यात्र पूर्वत्वाभावात्तत्साध्यभुजिक्रियापेक्षमेव तद्गम्यते। कारकव्यवहारस्य क्रियाविषयत्वात्। प्रभोरग्रे भुङक्ते इत्यादावग्रछब्दस्य देशविशेषार्थत्वेऽप्यत्र प्रथमपूर्वशब्दसाहचर्यात्समयवृत्तेरेवोपादानम्।
तदयमर्थः। द्विविधात्रपूर्वकालता समानकर्तृकव्रजिक्रियापेक्षा भिन्नकर्तृकभुजिक्रियापेक्षाच। आद्ययाः क्त्वाप्रत्ययेन द्वितीयायाश्चाग्रादिशब्दैरुपादानमिति। एवमाकरार्थव्यवस्थायां अग्रादिशब्दानामिव क्त्वाप्रत्ययस्यापि पौर्वकाल्यवाचकत्वम्। विषयशब्दस्योभयत्रापि प्रयोगात्।
कर्मण्याक्त्रोशे कृञः खमुञ् ।। 25 ।।
कर्मात्रोपपदम्। आक्रोशो गम्यः। खित्वान्मुम्। चोरंकार माक्रोशति। करोतिरुच्चारणार्थः। चोरोऽसीत्याक्राशवाक्ये चोरशब्दोच्चारणस्याक्रोशसंपादनार्थत्वात्। नतु चोरत्वसपांदनार्थत्वात्। तस्य वस्तुधर्मतया वचनानुपपाद्यत्वात्। तेन चोरोऽसीत्याक्रोशतीत्यर्थः।
स्वादुमि णमुल् ।। 26 ।।
स्वाद्वित्यर्थग्रहणमविच्छिन्नपारम्पर्यादाचार्योपदेशात्। मान्तत्वं निपात्यम्। नच प्रकृतः खमुञव क्रियतां र्किणमुलेति वाच्यम्। अस्वाद्वीं स्वाद्वीं कृत्वा भुंक्ते स्वादुकारं भुक्ते इत्यत्र बोतो गुणवचनादिति ङीषापत्तेः। मान्तत्वे भाविप्रत्ययविषये निवृत्तेः। खमुञाऽव्ययेषु मान्तत्वासिद्धेश्च। च्व्यन्तस्याव्ययत्वात्। नच मान्तत्वमात्रं निपात्यतां प्रत्ययस्तु खमुञेवास्त्विति वाच्यम्। मान्तनिपातन्सयाव्ययमात्रविषयत्वापत्त्या ङीषपत्तेः। णमुलितु मान्तत्वस्यपूर्वविधानादीकाराभावार्थतया तस्य मकारार्थत्वविज्ञानात्। उत्तरत्र णमुल्विधानावश्यकत्वाच्च। तत्रात्र वाणमुलुपादाने विशेषाभावात्। एवं संपन्नंकारं लवणंकारं वाभुक्ते। वासरूपविधिना वत्त्वापि। स्वादु कृत्वा भुंक्ते।।
अन्यथैवं कथमित्थंसु सिद्धाप्रयोगश्चेत् ।। 27 ।।
इत्थं सुइत्यन्तं द्वन्द्वोत्तरसप्तम्यन्तं एषु कृञो णमुल्। सिद्धः अप्रयोगः यस्य तादृशश्चेत् कृञ्। कृञः प्रयोगाप्रयोगयोरर्थविशेषप्रतीत्यप्रतीतिविरहे सतीत्यर्थः। अन्यथाकारं भुंक्ते। एवंकारम्। कथंकारं इत्थंकारं वा अन्यथा भुंक्ते एवंभुंक्ते इत्यादेः अन्यथाकारं भुंक्ते इत्यादेश्च समानोऽर्थः। सिद्धेतिकिम्। शिरोऽन्यथा कृत्वा भुंक्ते। अत्रकृत्वेत्यत्र शिरसः कर्मत्वम्। तत् कृञः प्रयोगं विना न प्रतियते, भुजिक्रियां प्रत्येव कर्मत्वप्रतीतेः। अन्यथात्वं तु तदा भुजिक्रिया गतमेव प्रतीयते, नतु शिरोगत मिति तत्प्रयोगस्यावश्यकत्वम्।
अत्रवदन्ति। सिद्धाप्रयोगश्चोदित्यनतिप्रयोजनत्वादुक्तम्। नतुसर्वथा निष्फलत्वादिति भ्रमितव्यम्। भेदनिबन्धनस्य पौर्वकाल्यस्य समानकर्तृकत्वस्य चाभावे णमुल एव दुर्लभत्वात्। धातुसंबन्धाधिकारबाधापत्तेश्च। नचवचनसामर्थ्याण्णमुल् तदन्तप्रयोगश्चेति वाच्यम्। वासरूपविधिना पक्षे इष्यमाणस्य क्त्वाप्रत्ययस्य दौर्लभ्यापत्तेः। अन्यथा कृत्वा चोदितमन्यथाकृत्वापरिहारः कथं कृत्वचित्यादिभाष्यप्रयोगात्। एतेन तेषामपशब्दत्वं भट्टपादोक्तंच निरस्तम् सूत्रबलाण्णमुलन्तस्येव भाष्यबलात्कत्वान्तस्याप्यनर्थकस्यापि साधुत्वोपपत्तेः।
वस्तुतस्तु अन्यथादिशब्दैः करोत्यर्थक्रियासामान्यगत प्रकारो बोध्यते तथाच णमुलन्ते गम्यार्थप्रकारविशेषविशिष्टक्रियाभुज्याद्युपात्तफलविशिष्टक्रियां प्रतिविशेषणम्। एकस्या अपि क्रियाया विशेषणोपरागेण भिन्नाया विशेषणविशेष्यभआवसंभवात्। नचौपाधिकभेदेन क्त्वानिर्वाहस्यासांप्रदायिकत्वं भाष्यकारादप्यधिकस्य सांप्रदायिकस्याप्रसिद्धेः।
यथातथयोरसूयाप्रतिवचने ।। 28 ।।
पूर्ववत् यथाकारमहंभोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन। प्रष्टमयोग्येन कथंभवान भोक्ष्यते इति पृष्टेऽसूययोत्तरमेतत्। असूययेति किम्। यथाकृत्वाहं भोक्ष्ये तथा द्रक्ष्यति। तत्वाखअयानमेतत्।
कर्मणि दृशिविदोः सा कल्ये ।। 29 ।।
आभ्यां कर्मण्यपपदे ण्मल्। बाहुल्यं कर्मणो विशेषणम्। कन्यादर्शं वरयति। सर्वाः कन्या इत्यर्थः। ब्राह्मणवेदं भोजयति विदीनां ज्ञानलाभविचारार्थनामेव ग्रहणं नसत्तार्थस्याकर्मकत्वात्। अत्रदर्शनविषयत्वावच्छिन्नाः कन्याज्ञानविषयत्वावच्छिन्नान्ब्राह्मणानिति साकल्यमतिशये तात्पर्यम्।
यावतिविन्दजीवोः ।। 30 ।।
यावद्वेदं भुंक्ते। यावल्लेभेत तावदित्यर्थः। अस्यासाकल्यार्थमारम्भः। यावज्जीवमग्निहोत्रं जुहोति। होमेजीवनव्यापकत्वं लभ्यते।
चर्मोदरयोः पूरेः ।। 31 ।।
पूरयतेर्ण्यन्तस्य निर्देशोऽन्यस्याकर्मकत्वात्। चर्मपूरं स्तृणाति। उदरपूरं भुंक्ते। उदरपूरणपर्याप्ता भुजिक्रियेत्यर्थः। पूर्वकालस्येह नसबन्धोऽसंभवादप्रतीतेश्च। एवमन्यत्रापि यथातथं बोध्यम्।
वर्षप्रमाण ऊलोपश्चास्यान्य तरस्याम्।। 32 ।।
कर्मण्युपपदे पूरयतेर्णमुल् धातूकारस्य विकल्पेन लोपश्च। प्रकृतिप्रत्ययोपपदसमुदायेन वर्षप्रमाणे गम्ये गोःपदप्रं वृष्टोदवः। गोः पदपूरणविशिष्टा वर्षक्रिया। अल्पत्वमात्रंगम्यम्।
प्रवर्षति प्रेयसि चन्द्रिकाभिश्चकारटञ्चूगुलुकप्रमिन्दुः।
अत्रभाष्यम्। ऊलोपश्चान्यतरस्यामित्यनारभ्यम्। प्रापूरणे इत्यस्मातकप्रत्ययेनैव गोः पदप्रमित्यस्य सिद्धेः। क्रियाविशेषणत्वात्कर्मत्वनपुंसकत्वे विभक्तेरपि एकेन गोः पदप्रेनेत्यादाविष्टत्वात्। इतिगोः पदप्रकल्पम्। गोः पदप्रंतरां इत्यादिकं तु नेष्टम्। लोपप्रत्याख्यानपरभाष्यसामर्थ्यात्ततानमानात्। ननुगोः पदपूरमित्यादेरपि घञासिद्धत्वाण्णमुलपि प्रत्याख्यायताम्। मैवम्। करणघञन्तेन षष्ठी समासे थाथादिसूत्रेणान्तोदात्तस्य भावे घञन्तेन बहुव्रीहौ पूर्वपदप्रकृति स्वरस्यापत्तेः। णमुलितु लित्स्वरेणऊ कारस्योदात्तत्वात् गोः पदप्रमित्यत्र तु न विशेषः। कप्रत्यये थाथादिस्वरेण न्तोदात्तत्वात्। णमुल्यूलोपेच पूर्वस्यो दात्तभाजोऽभावेन कृत्स्वरेणान्तोदात्तत्वात्। णमुल्यूलोपेच पूर्वस्यो दात्तभाजोऽभावेन कृत्स्वरेणान्तोदात्तत्वादिति कैयटः।
चेलेक्नोपेः ।। 33 ।।
चेलार्थेषु कर्मसूपपदेषु क्पोपेर्णमुल। अर्थग्रहणं व्याख्यानात्। चेलक्नोपं वसनक्नोपं वृष्टोदेवः। यावता तज्जलाभिधातेन वस्त्राणि शब्दायन्ते तावदित्यर्थः।
निमूलसमूलयोः कषः ।। 34 ।।
कर्मणीत्येव। अत्र प्रकरणे पूर्वकालस्य नसंबन्धः। निगतं मूलमस्य निमूलम्। सहमूलेन समूलं। णमुल्‌प्रकृत्यनुप्रयोगो वक्ष्यते। समूलाकाषं निमूलकाषं वाकषति। समूलं निमूलंच कषतीत्यर्थः। उपपदार्थविशिष्टो णमुल्‌प्रकृत्यर्थोऽनुप्रयोगार्थे विशेषणामेत्याहुः।
शुष्कचूर्ण रूक्षेषु पिषः ।। 35 ।।
शुष्कपेषं पिनष्टि। चूर्णपेषं पिनष्टि। रूक्षपेषम्।
समूलाकृतजीवेषु हन्‌कृञ्‌ग्रहः ।। 36 ।।
समूलघातं हन्ति। अकृतकारं करोति। जीवग्राहं गृण्हाति। जीवन्तमित्यर्थः।
करणे हनः ।। 37 ।।
पादघातं हन्ति। पादेन हन्तीत्यर्थः। यथाविध्यनुप्रयोगार्थं सन्नित्यसमासार्थमेतम्। हिंसार्थानामित्यस्य तु धात्वन्तरसंबन्धस्तृतीयाप्रभृतीन्यन्यतरस्यामिति समासविकल्पश्चेति बोध्यम्।
स्नेहने पिषः ।। 38 ।।
स्नेह्यते येन तस्मिन् करणे उपपदे पिपेर्णमुल्। उदपेषं पिनष्टि। पेषंवसित्यादिना उदादेशः। उदकेन पिनष्टीत्यर्थः। अतएव शुष्कादिसूत्रे स्नेहनग्रहणं नकृतम्। तत्र कर्मण एवानुवृत्तेः।
हस्ते वर्तिग्रहोः ।। 39 ।।
हस्त इत्यर्थ ग्रहणं व्याख्यानात्। हस्तवर्तं वर्तयति। करवर्तं वा। हस्तेन गुलिकां करोतीत्यर्थः। हस्तग्राहं गृण्हाति। हस्तेनेत्यर्थः।
स्वे पुषः ।। 40 ।।
करणे इत्येव। स्वइति स्वरूपपर्यायविशेषाणां ग्रहणमिति प्रागुक्तम्। स्वपोषं पुष्णाति। धनपोषं गोपोषं वा।
अधिकरणे बन्धः ।। 41 ।।
बध्नातेर्णमूल्। चक्रबन्धं बध्नाति। चक्रेइत्यर्थः।
संज्ञायाम् ।। 42 ।।
अनधिकरणार्थ आरम्भः। क्रौचबन्धं बद्धः। मयूरिकाबन्धम्। अट्टालिकाबन्धम्। बन्धविशेषाणां संज्ञाः।
कर्त्रोर्जीवपुरुषयोर्न शिवहोः ।। 43 ।।

जीवनाशं नश्यति। जीव इत्यर्थः। पुरुषवाहं वहति। पुरुष इत्यर्थः।
उर्ध्वे शुषिपूरोः ।। 44 ।।
कर्त्रर्थे ऊर्ध्वे उपपदे। उर्ध्वशोषं शुष्यति। वृक्षादिरूर्द्धोऽपतित एव शुष्यतीत्यर्थः। ऊर्ध्वपूरं पूर्यते। घटादिरूर्ध्वमुख एव वर्षोदकादिना पूर्यते इत्यर्थः।
उपमाने कर्मणिच ।। 45 ।।
चात्कर्तरि। मृधे निदाघघमर्शुंदर्शं पश्येति तंपरे। सपुनः पार्थसंचारं संचरत्यवनीपतिः। अत्र बोधोऽलंकारकौस्तुभे विचारितोऽस्माभिः।
कषादिषु यथाविध्यनुप्रयोगः ।। 46 ।।
णमुल्‌प्रकृतिरेव धातुः संख्याकालविशेषाद्यभिव्यक्त्यर्थमनुप्रयोक्तव्यः। त्च्चोदाहरणेषु स्पष्टम्।
उपदंशस्तृतीयायाम् ।। 47 ।।
अतःपरं पूर्वकालस्य संबन्धः। तृतीयाप्रभृतीन्यन्यतरस्यामिति समासविकल्पः। मूलकोपदंशं भुंक्ते। मूलकेनोपदंशम्। मूलकस्य भुजिं प्रतिकरणत्वात्तृतीया। नचैवमुपदंशिना सममसामर्थ्यात्प्रत्ययसमासयोरनुपपत्तिः। आर्थकर्मत्वमादाय तदुपपत्तेः। तृतीयोपादानसामर्थ्यात्। अन्यथा करणे इत्येव ब्रूयात्।
हिंसार्थानांच समानकर्मकाणाम् ।। 48 ।।
तृतीयान्ते उपपदे हिंसार्थेभ्यो णमूल्। तत्प्रकृतेरनुप्रयुज्यमानस्य च धातोः कर्मैक्ये। दण्डोपघातं गाः कलयति। दण्डेनोपघातम्। दण्डताडम्। दण्डेन ताडम्। कलविक्षेये। तड आघाते चरादिः। उभयत्र गोरेव कर्मत्वम्। समानेति किम्। दण्डेन चोरमाहत्य गाःकलयति। इहकर्मभेदः स्पष्टः।
सप्तम्यां चोपपीडरुधकर्षः।। 49 ।।
पीडादीनां समाहारद्वन्द्वे उपपूर्वः पीडादिरित्युत्तरपदलोपी समासः। पुंस्त्वं विभक्तिव्यत्ययश्च सौत्रत्वात्। उपपपूर्वेभ्यः सप्तमीतृतीयान्यतरान्ते उपपदे णमूल् स्यात्। पार्श्वोपपीडं शेते। पार्श्वयोरूपपीडम्। पार्श्वाभ्यामुपपीडम्। व्रजोपरोधं गाः स्थापयति। व्रजे उपरोधम्। व्रजेनोपरोधं वा। पाण्युपकर्षं धानाः संगृण्हाति। पाणावुपकर्षम्। कर्षेतिशपानिर्देशो गुणोच्चारणगम्यः तुदादिव्युदासार्थः। तस्यविलेपनार्थसाम्येऽपि क्षेत्रविषयकविलेखनमात्रार्थत्वात्। पञ्चभिर्हलैः कृषतीति प्रयोगात्। तेन तस्मात् क्षेत्रे उपकृष्य हले उषकृष्येति क्त्वैव नतु णमुलिति अभियुक्ताः।
समासत्तौ ।। 50 ।।
पूर्वोक्ते उपपदे धातोर्णमूल्‌संनिकर्षे गम्ये। केशग्राहं युधअयन्ति। केशेषु गृहीत्वा। हस्तग्राहम्। हस्तेषु ग्रहीत्वाकेशग्रहणमतन्त्रम्। संनिकर्षमात्रे तात्पर्यम्।
प्रमाणे ।। 51 ।।
उपदं पूर्वत्। द्व्याङ्गुलोत्कर्षं खण्डिकां छिनत्ति। द्व्यङ्गुलेवोत्कर्षम्। अङ्गुलिद्वयेन परिच्छिद्येत्यर्थः। ह्रस्वः खण्डःखण्डिका।
अपादाने परीप्सायाम् ।। 52 ।।
अपादाने उपपदे धातोणर्मुल् त्वरायां गम्यामानायाम्। प्रथममशकुनंशय्योत्थायं तवास्य विदर्भजा। शय्यात उत्थाय वा।
द्वितीयायांच ।। 53 ।।
त्वारायामित्येव। यष्टिग्राहं युध्यन्ते। लोष्टग्राहम्। अनुदात्तं पदमेकवर्जं इत्यत्नाप्यनुदात्तं अविलम्बेन कर्तव्यमिति तात्पर्यम्।
स्वाङ्गेऽध्रुव ।। 54 ।।
द्वितीयायामित्येव। धुवत्वं जीवनाभावप्रतियोगित्वम्। भ्रूविक्षेपं कथयति। भ्रुवं विक्षेपम्। अध्रुके किम्। शिर उत्क्षिप्य ब्रूते।
परिक्लिश्यमानेच ।। 55 ।।
सर्वावच्छेदेन पीड्यमाने द्वितीयान्तेस्वाङ्गे णमुल्। उरः प्रतिपेषं युध्यन्ते कृत्स्नमुरः पडियन्तीत्यर्थः उरोविदारे प्रतिचस्करे नखैः। अध्रुवार्थ आरम्भः।
मानासेव्यमानयोः ।। 56 ।।
द्वितीयायामेव विश्यादिभ्यो णमूल् व्याप्यमाने आसेव्यमाने चार्थे गम्ये। गेहानुप्रवेशमास्ते। गेहंगेहमनुप्रवेशंगेहमनुप्रवेशमनुप्रवेशम्। समासपक्षे न द्विर्वचनम्। तेनैव शब्दशक्तिस्वाभाव्येन तयोरुक्तत्वात्। असमासे तु उपपदणमुलन्तयोः पर्यायेण द्वित्वम्। आभीक्ष्ण्ये णमुलः पूर्वं विधानेऽपि उपपदसंज्ञार्थमासवायामिति पुनर्विधानम्। तेन समासविकल्पः। णमूल्‌प्रकृत्यर्थक्रियाभिरुपपदार्थानां साकल्येन संबन्धो व्याप्तिः। गेहादिपदानां तद्विशेषपरत्वात्। क्रियायाः पौनः पुन्यमासेवा।
अस्यतितृषोः क्रियान्तरे कालेषु ।। 57 ।।
क्रियामन्तरयति क्रियान्तरः। अनुप्रयुज्यमानार्थक्रियाव्यवधायकेऽर्थे वर्तमानादस्यतेम्तृषेश्च कालार्थेषु द्वितीयान्तेषूपपदेषु णमुल्। द्व्यहात्यासं गाः पाययति। द्व्यहेनात्यासम्। द्व्यहतर्षम्। अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः।
इहतु लिहते रात्रीतर्षं रथाङ्गविहङ्गमा
मध निजवधूवक्त्रांभोजेऽधुनाधरनामकम्।
इतिश्रीहर्षः।
नाम्न्यादिशिग्रहोः ।। 58 ।।
नामादेशमाचष्टे।
विरहविरलज्जिह्वा बह्वाह्वयं त्यतिविह्वला।
मिह सहचरीं नामग्राहं रथाङ्गविहङ्गमाः।
इति श्रीहर्षः।
अव्ययेऽयथभिप्रेताख्याने कृञः क्त्वाणमुलौ ।। 59 ।।
अयथाभिप्रेतेत्याख्यानविशेषणम्। अनभिमतप्रकारेणाख्याने इत्यर्थः। उच्चैः कृत्य उच्चैः कृत्वाष। उक्चैःकारं वा अप्रियमाचष्टे। प्रियाख्यानस्यानमिमतत्वेऽपि उच्चैष्ट्वादिरूपप्रकारांशेऽनभिमतत्वं बोध्यम्।
तिर्यच्यपवर्गे ।। 60 ।।
तिर्यक्‌शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम्। तिर्यक्‌कृत्य तियक्‌कारं वागतः। समाप्येत्यर्थः। अपघर्गे किम्। तिर्यक्‌कृत्वा काष्ठंगतः। अनृजुत्वादग्रतः स्थितंपार्श्वे क्षिप्त्वेत्यर्थः। तिर्यचीति सौत्रो निर्देश इति भाष्यम्। अनुक्रियमाणरूपविनाशप्रसङ्गस्तु नपरिहारो नहि प्रयोजनानुवृत्ति प्रमाणमिति कैयटः।
स्वाङ्गे तस्प्रत्यये कृभ्वोः ।। 61 ।।
तम्रूपे प्रत्यये परे यत्स्वांगं तस्मिन्नुपपदे तद्रूपप्रत्ययसमुदाये उपपदे इतियावत्। स्वाङ्गमात्रस्योपपदत्वाभावात्। मुखतः कृत्य मुखतः कृत्वा मुखतः कारं वा गतः मुखतोभूय मुखतो भूत्वा मुखतो भावं वागतः। आद्यदित्वात्सप्तम्यर्थे तसिः। प्रत्ययग्रहणं किम्। मुखे तस्यति मुखता। तसु उपक्षये किप्। मुखतः कृत्वा इति वृत्तिः। प्रत्ययग्रहणपरिभाषयैव सिद्धे प्रत्ययग्रहणं व्यर्थमेवेति केचित्। तस्यां प्रमाणाभाव इत्यन्ये।
नाधार्थप्रत्यये च्व्यर्थे ।। 62 ।।
नार्थौ नानञौ।। धार्था धमुञादयः। तत्र च्व्यर्थे विषये उपपदे कृभूवोःक्त्वाणमूलौ स्तः। नानाकृत्य नानाकृत्वा नानाकारम्। विनाकृत्य विनाकृत्वा विनाकारम् नानाभूय नानाभूत्वा नानाभावम्। एवमेकधा भूयेत्यादि। अप्रत्ययग्रहणं किम्। हिरुक् कृत्वा पृथक् कृत्वा। यद्यपि द्वित्र्योश्च धमुञित्यादौ प्रत्ययक्षेऽर्थग्रहणसार्थक्यम्। तद्विधौध इत्यनुवर्त्य तदादेशत्वपक्षे तु स्यानिवद्भावेन सिद्धम्। तथाच धमुञन्तात्स्वार्थे डदर्शनामिति डप्रत्यय उदाहार्यः। नाञ्‌संग्रहार्थमप्यर्थग्रहणम्। अन्यथानिरनुबन्धकपरिभाषया विनञ्‌भ्यां नानाञाविति अत्राद्यस्यैव ग्रहणं स्यादिति कैयटः।
तुष्णीमि भुवः ।। 63 ।।
तूष्णींभूय तूष्णींभूत्वा तूष्णींभावम्। भूग्रहणं कृञो निवृत्यर्थम्।
अन्वच्यानुलोम्ये ।। 64 ।।
अनूचीति प्राप्ते अन्वचीति सौत्रौ निर्देश इतिभाष्यम्। आनुलोम्यमानुकूल्यम्। अन्वग्‌भूयास्ते। अन्वग्भूत्वा अन्वग्भावम्। अग्रतः पार्श्वतः पृष्ठतश्चानुकूलो भूत्वास्ते इत्यर्थः। अन्वगित्यस्यानुकूल्यमात्रपरत्वे देशविशेषग्रहणे नियामकाभावात्। आनुलोम्ये किम्। अन्वग्भूत्वा तिष्ठति पृष्ठतो भूत्वा। प्रमाणान्तरेण क्वचिदानुकूल्यलाभेऽप्यन्वक्‌शब्दस्य तदबोधकत्वात् न णमुल् किन्तु क्त्त्वैवेति दीक्षिताः।
शकधृषज्ञाग्लाघटरभलभक्रम सहार्हास्त्यर्थेषु तुमुन् ।। 65 ।।
अक्रियार्थोपपदार्थ आरम्भः। भोक्तुं शक्नोति। धृण्णोति जानातीत्यर्थः। भुज्यर्थस्य विषयतयान्वये तत्र प्रावीण्यं गम्यते। ग्लायतीत्यत्र त्वशक्तिः। घटतेऽर्हतीत्यत्र योग्यता। आरभते उत्सहते प्रकमते इत्यत्र प्रयत्नः। लभते इत्यत्रान्यकर्तृकप्रत्याख्यानाभावः। अस्ति भवति विद्यते वेत्यत्र संभवमात्रमिति विवेकः।
पर्याप्तिवचनेष्वलमर्थेषु ।। 66 ।।
पर्याप्तिरन्यूनत्वमः। अलमर्थोऽत्र सामर्थ्यं व्याख्यानात्। सामर्थ्यविशिष्टत्वं पर्याप्तिवचनेषु बोधकत्वसंबन्धेन बोध्यम्। यद्वा अलमर्थोऽत्र बहुवीहिः सामर्थ्येबोधकत्वे सति पर्याप्तिबोधकत्वमर्थः। तथाच पर्याप्तिविशिष्टसामर्थ्यवाचकेषु उपपदेषु तुमुन्। पर्याप्ते भोक्तुं प्रवीणः कुशल इत्यादि। पर्याप्तीति किम्। अलं भुक्त्वा अलमर्थेषु किम्। पर्याप्तं भुङ्क्ते। प्रभूतत्वमात्रमिहगम्यते नतु सामर्थ्यम्। पूर्वसूत्रे शकिग्रहणं तु सौकर्ये संभवे वा तुमुन् यथा स्यात्।
कर्तरिकृत् ।। 67 ।।
कृत्प्रत्ययः कर्तरि स्यात्। पाचकः पक्तेत्यादि। उत्सर्गोऽयम्। ननु सूत्रमिदं नतावद्भावव्यवृत्यर्थम्। सामर्थ्यादेव विवक्षितार्थसिद्धेः। तथाहि-घञ् इत्येव सूत्रमस्तु सचनिर्दिष्टार्थत्वाद्भावे। तदुत्तरं पदरुजविशस्पृश इति पाठ्यम्। एवंचसिद्धे बावग्रहणं नियमार्थम्। घञेव भावे नान्य इति। ततो धात्वर्थाक्षिप्ते कर्तरि कृत्‌सिद्धेः। नच कर्मणोऽपि धात्वर्थेनाक्षेपात्तन्निवृत्यर्थः। धःकर्मणि ष्ट्रन् इत्यस्य ष्ट्रन्नेव कर्मणि नान्य इति नियमार्थत्वात्। नच प्रत्ययांनयमाभावे कारकान्तरेऽपि तत्प्रसङ्गः। विध्यन्तरे विध्यभावात्। कर्मण्येव ष्ट्रन्निति नियमान्तराद्वा। कारकान्तरेऽप्यभिमतानां प्रत्ययानां तु करणाधिकरणयोश्च, दाशगौघ्नौ संप्रदाने, भीमादयोऽपादान, इति विशिष्यैव विधानात्। तस्मात्पारिशेष्यात्। कर्तर्येव ण्वुलादयो भवन्ति। कारकान्तरे विहितेषु एतत्सूत्रप्रवृत्तेः सिद्धान्तेऽप्यनभिमतत्वात्।
नच कर्तरि भुवः खिष्णुच्‌खुकञौ कर्तरि चर्षिदेवतयोरिति कर्तुरपि नियमः स्यादिति वाच्यम्। उभयत्र करणे इत्यस्य निवृत्या कर्तृश्रुतेर्विध्यर्थत्वात्। मैवम्। बाह्यभावस्या तन्नियमेन तन्निवृत्तावपि आभ्यन्तरभावस्य एतद्व्यावृत्यर्थत्वात्। सार्वधातुके यगिति सूत्रे तद्भेदस्य दर्शितत्वात्।
स्यादेतत्। तथापि ख्युनादयः कर्तरि प्रसज्यन्ते। नचकरणाद्यर्थत्वात्तेषामेतदपवादत्वमिति वाच्यम्। नानावाक्यत्वात्। ब्राह्मणेभ्यो दधिदियतां तक्रं कौण्डिन्यायेति सहोच्चरितवाक्ये एव तक्रस्य दधिबाधकत्वात्। प्रातर्दधिदानेऽपराण्हेच तक्रदाने विहिते तु तदाभावात्।
नचैव मिक्‌परिभाषालोन्त्यपरिभाषयोरेकवाक्यत्वे तच्छेषपक्षः। भिन्नवाक्यत्वे तु तदपवादपक्षइति विरुध्यते इतिवाच्यम्। वैषम्यात्। अङ्गस्येति इगपेक्षावयवावयविभावसबन्धे षष्ठी। अङ्गावयवस्येक इति वाक्यार्थे स्थानषष्ठीरूप लिङ्गाभावादलोन्त्यस्येत्यनुपस्थित्या फलतस्तदपवादत्वात्। इहतु कृत्त्वेन सामान्येन तद्वूपविशेषणेच करणादौ ख्युनादीनां विधानसंभवाद्यगपदर्थद्वयानभिधानेऽपि पर्यायेणोभयसंभवात्। अतएव तयोरेवेति एवकारः संगच्छते। अन्यथाभावकर्मभ्यां कर्तृबाधसिद्धौ तद्व्यावर्तकतया तत्सार्थक्यानुपपत्तेः। तेनान्यत्र समावेशज्ञापनाद्भव्यगेयादिसूत्रे वाग्रहणं नकर्तव्यम्। कर्तरि तेषां विधानेऽपि भावकर्मणोः समावेशोपपत्तेः। कर्तरिचर्षिदेवतयोरिति सूत्रे चकारः करणसमुच्चयार्थः समावेशाभावं ज्ञापयति।
यद्यपि ऋषेः करणत्वे देवतायाश्च कर्तृत्वे प्रत्ययविधानात्समावेशविरहान्न ज्ञापकत्वम्। तथापि यथासंख्यं नविवक्षितामिति वार्तिकाभिप्रायः तयोरेवेत्येवकारस्तु समुच्चयार्थः। भावकर्मणोः कृत्या भवन्ति। भव्यादीनां कर्तरिचेति। वाक्यार्थः। भव्यादिसूत्रं च नकर्तव्यमित्येके। कृत्यादयोऽनभिधानात्कर्तरि नभविष्यन्तीत्यन्ये। तदेवं वार्तिकानूसारी सिद्धान्तः।
भाष्यकारास्त्वाहुः असमावेशस्यापवादेनोत्सर्गबाधस्य न्यायसिद्धत्वान्न ज्ञापकापेक्षा। उक्तरीत्या चकारस्य ज्ञापकत्वानुपपत्तेश्च। यत्तु नानादेशत्वादिति तदसत्। शास्त्रेभिन्नकालीनानामपिअवान्तरवाक्यानां आकांक्षावशादेकवाक्यत्वदर्शनात्। द्वितीये विहितस्य गोत्रेलुगचीत्यस्य लुकश्चतुर्थषष्ठयोरलुगुत्तरपदे इत्यपवादस्वीकारात्। तदुक्तंहरिणा।
अनेकाव्यातयोगेऽपि वाक्यं न्यायापवादयोः।
एकमेवेष्यतेकैश्चिद्भिन्नरूपमिवस्थितम्।।
नियमः प्रतिषेधश्च विशेषश्च तथासति।
द्वितीये यो लुगाख्यातस्तच्छेषमलूकं विदुः।।
एवकारस्तु समुच्चयार्थः। कर्तरिकृदित्येतदुत्तरं समावेशज्ञापनार्थः। भव्यादिसूत्रे च वाग्रहणं नकर्तव्यम्। नचैवं दाशगौघ्नौ संप्रदाने इत्यादौ समावेशापत्तिः। आदिकर्मणि क्तः कर्तरि इत्येतावतासिद्धेऽपि चकारेणातःपरं समावेशो नास्तीति ज्ञाप्यत्वात्।
इह सिद्धे शब्दार्थसंबन्धे इत्यतदुपपत्त्यर्थं भाष्ये विचारः। कार्यशब्दाभ्युपगमेनाद्यः सिद्धशब्दाभ्यपगमेन द्वितीयः पक्षः। नचैवं ख्युनादीनां कृत्संज्ञानापत्तिः। तत्रापि करणे ख्युन्‌वर्ततामिति वा। यत्स्वभावतो वर्तते तस्य साधुत्वमिति वेति विचारात् प्रतिप्रत्ययमधिकृतायाः कृत्संज्ञायाः ख्युनादौ प्रवृत्तेः। नाद्यः। काष्ठभिदब्राह्म्ण इत्यत्र दोषापत्तेः। तथाहिकाष्ठभेदइत्यण्‌प्रत्ययोऽपि वचनादेव कर्तृवाची अकाराणां चविशेषाभावाद् ब्राह्मणशब्दादेरकारस्यापि वचनात्कर्तृवाचित्वे कृत्संज्ञायां स्वाद्युत्पत्तिः। प्रत्ययसंज्ञायां तन्निमित्ताङ्गसंज्ञाश्रय आर्द्धधातुकनिमित्तगुणश्च स्यात्। नचधातोर्विहितत्वाभावान्नार्धधातुकत्वम्। काष्ठशब्दो ह्यत्र कर्मोपपदम्। भिदिर्धातुः। तस्माच्च परोऽकार इति काष्ठभेदशब्दाद्विशेषाभावादयंधातोर्विहितो नायमिति दुर्घटत्वात्। तस्यापि कर्तृवाचकताया दुर्वारत्वात्। स्ववाक्यविहितानां प्रत्ययानां अनेनार्थवशेषे नियम्यत्वात्। नचक्विपो लुप्तत्वाद्धातुरेव तत्र कर्त्रर्थे नियुक्तो नत्वकार इति वाच्यम्। यावकादिवद्विशिष्टस्यैव तदर्थतोपपत्तेः।
ननुसंज्ञानियमे दोषाभावः। नह्यत्राकारो लौकिकप्रयोगे कर्त्रर्थः किन्तु प्रितषेधार्थ इतिकृत्प्रत्ययसंज्ञयोरप्रवृत्तेरिति चेन्न। विभक्ता भ्रातरः पीतागाव इत्यादौ स्वभावतः कर्तृवाचकस्य क्तस्य भ्रातृभि गोभिश्च सामानाधिकरण्यात्कर्तरि साधुत्वापत्तेः। क्रियाकारकसंबन्धेन विभक्तानां कर्तरि वृत्तेरनभिमतत्वात्। प्रत्ययनियमपक्षेतु गत्यर्थाकर्मकेत्यत्र परिगणिताभ्यः प्रकृतिभ्यः परस्य क्तस्य कर्तरि नियोगाद्भजिपिबत्योश्च तत्रापरिगणितत्वान्न दोषः। मैवम्। संज्ञानियमपक्षेऽपि गत्यर्थाकर्मकेतिसूत्रव्यापारसद्भावात्। तेभ्यः परः क्तः स्वभावतः कर्त्रर्थः। कृत्प्रत्ययसंज्ञः इतिस्वीकारेण यथोक्तस्य क्तस्य कर्तरि साधुत्वानापत्तेः। तस्मात्स्वभावतस्तत्तदर्थेषु वर्तमानानां प्रत्ययसंज्ञाविधानद्वारासाधुत्वमन्वाख्यायते इतिसिद्धम्। विभक्तपीतशब्दयोस्तु कर्मव्युत्पन्नयोरेव अर्शआदेराकृतिगणत्वाद्विभक्तं धनं पीतमुदकं चास्त्योषामिति साधुत्वम्। अथवा धननिष्ठं विभक्तत्वं भ्रातृषु, उदकनिष्ठं पीतत्वंच गोष्वारोप्यते इतिदिक्।
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्यावा ।। 68 ।।
एते कृत्यान्ताः कर्तरिवा। निपात्यन्ते। पक्षेमावकर्मणोरपि। भवतीति भव्यः। भव्यमनेनवा। गायतीति गेयो माणवकः साम्नाम्। गेयानि माणवकेन सामानीति वा। रजनीयकोपनियमोहनीयेति भव्यगेयादि पाठात्कर्तरि कृत्य इति वाचस्पतिमिश्राः। यद्यपि भव्यगेयादीनां नियतानामेव सूत्रेण पाठान्नाकृतिगणोऽयम्। तथापि शिष्टप्रयोगप्राचुर्यात्तत्र पाठो द्रष्टव्यः। पाणिनिनैव कर्मप्रवचनीया इत्यनेन व्यभिचारस्य दर्शितत्वादित्युदयनाचार्याः। नच प्रवचनीयशब्दस्योक्तसूत्रे पाठादसंगतमेवैतदिति वाच्यम्। वर्तमानार्थ एवात्र तद्विधानात्। कर्मप्रवचनीयेत्यत्रतुभूते तस्येष्टत्वात्। अतएव तत्र बाहुलकाभ्दूते कतर्यनीयरिति कैयटादिभिर्व्याख्यातम्।
लः कर्मणि च भावे चाकर्म केभ्यः ।। 69 ।।
चकार उभयत्र कर्तरीत्यस्यानुकर्षणार्थः। लकाराः सकर्मकेभ्यः कर्मणि कर्तरिच। अकर्मकेभ्यस्तु भावे कर्तरिच स्युः। पच्यते पचति। भूयते भवति इहल इति प्रथमेतिकेचित्। आदेशापेक्षा षष्ठीति कंचित्। लकारो द्विधा तिङ्‌भाव्यतिङ्‌भाविभेदात। तत्रतिङ्‌भाविनः। कृत्संज्ञाविरहात्कर्तरि कृदित्यस्यानुपस्थित्या स्वार्थे भावे। अतिङ् भाविनस्तु कर्तरि कृदितिवचनात्कर्तर्येव साधुत्वे प्राप्तेऽयमारम्भः।
स्यादेतत्। भावकर्मणोरात्मनेपदस्य शेषात्कर्तरिपस्मैपदस्यच विधानाल्लकारस्य प्रयोगसमवायिनां तदादेशानां वा भावकर्मकर्तारोऽर्थो अनुमानस्यन्ते। पदद्वयव्यतिरेकेण च लकारस्याप्रसिद्धेः। आम्‌विषयस्य लस्य सत्त्वेऽपि तस्य लुकापहारात्। नच व्यवस्तापकाभावे सकर्मकेभ्योऽपि भावे लकारापत्या पच्यते यवागूं देवदत्तेनेति प्रसङ्गः। भावकर्मणोरकर्मकादिति न्यासेन तदनापत्तेः।
अकर्मकग्रहणंच सामर्थ्याद्भावार्थम्। अकर्मकाणां कर्मासंभवात्। तथाच लकारस्य भावोऽर्थोऽनुमीयमानोऽकर्मकविषय एवेतीष्टसिद्धिः। नच तत्राकर्मकग्रहणादेव गौरवम्। अत्रापि तत्सत्वात्। नच तयोरेवेत्येतदर्थमत्राकर्मकग्रहणमावश्यकं तदेव लकारेऽप्युपकरोति इति वाच्यम्। कर्मणि भावेचाकर्मकेभ्य हत्येतावतो द्वाभ्यामत्र पठनीयत्वात्। त्वयात्र ल इति पदं पाठ्यम्। मयातु भावकर्मणोरित्यत्राकर्मकपदमिति। पदद्वयोपादानसाम्यात्। मात्रालाघवस्य तावदविवक्षितत्वात्। नच शानचा आत्मनेपदसंज्ञात्वाद्भावकर्मणोरिति वचनात्तदुभयाभिधायित्वमात्रापत्तौ शयान इत्यादौ कर्तरि स न स्यात् आरम्भपक्षेतु कर्तर्य्यपि शानच् सिध्यतीति वाच्यम्। अनुदात्तङित इत्यादिसूत्रैः कर्तर्यात्मनेपदविधानार्थैः तत्सिद्धेः।
यद्वा भावकर्मणोरित्यस्यावकाशः आस्यते पच्यते तत्र कृत्संज्ञाविरहेण कर्तरि कृदित्यस्याप्रवृत्तेः। कर्तरिकृदित्यस्य तृजादिः आनस्य तूभयप्रसङ्गे परत्वात्कर्तर्येवोत्पत्तेः। नच परस्मैपादभ्योऽपि कर्तरि तत्प्रसङ्गः। अनुदात्तङित एवात्मनेपदं नान्यस्मादिति नियमात्तद्व्यावृत्तेः। नचैवमनुदात्तङित इत्यस्य धातुविशेषे शानचो नियामकत्वेऽनुदात्तङ्बिद्भ्यो विधायकाभावात्तङानौ न स्याताम्। एकवाक्यस्य विधिनियमोभयरूपत्वानुपपत्तेरिति वाच्यम्। अनुदात्तङित आत्मनेपदमित्येकस्य नियामकत्वात्। भावकर्मणोरित्यत्रानुवृत्तस्य द्वितीयवाक्यस्य च विधायकत्वात्।
नन्वेवं भावकर्मणोरित्यनेन सहानुदात्तङित इत्यस्यैकवाक्यतायां अनुदात्तङिभ्द्यो भावकर्मणोरात्मनेपदं स्यादित्येको वाक्यार्थः। तेनास्यते गुरुणाऽति शय्यते गुरुरित्यादि। स्वतन्त्रस्य तु अनुदात्तङित आत्मनेपदमित्यस्य नियामकत्वात परस्मैपदिभ्यो न शानच्। तथाच भूयते गम्यते इत्यादौ आत्मनेपदं नस्यात्। अनुदात्तङिद्भिन्नत्वात्। आस्ते शते इत्यादौच कर्तरि तन्न स्यात्। विधायकाभावात्।
नैवम्। योगविभागेन सिद्धेः। अनुदात्तङित आत्मनेपदं भावकर्मणोः, तदुत्तरं कर्तरितेचि। योगान्तरम्। इहानुदात्तङित इत्यस्यानुवृत्तिर्भावकर्मणोरिति निवृत्तम्। ततः कर्मव्यतीहारे कर्तरित्यनुवर्तते। भावकर्मणोरनुदात्तङित इत्युभयमपि निवृत्तम्। ततश्च कर्तरिचेति सूत्रेण अनुदात्तङिभ्द्यः कर्तर्यात्मनेपदविधानम्। नेर्विशइत्यादिवाक्यैस्तङानानां कर्तरिविधानात्सर्वमुपपन्नमितिप्राप्ते।
सिद्धान्तः उक्तविप्रतिषेधादानस्य कर्तर्येव प्रसङ्गात्। भूयमानं गम्यमानमित्यादौ भावकर्मणोस्तदनुपपत्तेः इह लग्रहणे क्रियभाणे तु तस्य षष्ठ्यन्तत्वपक्षेऽयावकाशस्तिङ् कर्तरिकृदित्यस्य तृजादिः परत्वादनेनैवानस्यार्थनिर्ढेश इति भावकर्मकर्तृषु व्यवस्थया तत्सिद्धः। प्रथमान्तत्वपक्षे तु अस्यावकाशस्तिङ् भावीलकारः। कर्तरि कृदित्यस्य पूर्वौक्त एव। आनभाविनस्तु लकारस्य परत्वादनेनैवार्थव्यवस्थेति न कश्चिद्दोषः। नचैवं भावकर्मणोग्पि शतृक्वसू स्यातां परत्वादस्यैव प्रवृत्तेरिति वाच्यम्। कर्तर्येवपरस्मैपदमिति नियमात्तदभावात्।
ननु लइति षष्ठीनिर्देशपक्षे आमइति लुग्विषयस्य लस्यार्थनिर्देशो नस्यात्। मैवम्। लुकोऽप्यादेशत्वेनार्तनिर्देशसिद्धेः। अचः परस्मिन्नित्यत्र लोपस्यप्यिजादेशस्य स्तानिवद्भावस्य दर्शितत्वात्। नचाभावरूपादेशस्यार्थाभिधानानुपपत्तिः। क्विबादिवत्प्रयोगसमवायाभावेऽपि प्रतिज्ञयार्थवत्त्वानुमानात्। अनुप्रयोगेण च तदर्थाभिव्यक्तेः। अन्यथा कर्तरिकृदित्यस्यापि क्विबादावप्यप्रवृत्तिप्रसङ्गात्।
यत्तु जसन्तत्वे श्रुतेनैव सबन्धः। षष्ठ्यन्तत्वे त्वादेशाध्याहारे गौरवमिति तदसत्। प्रयोगसमवायिनामर्थाधानप्रत्यासत्त्या आदेशशक्तिवादिनां तोषमादेशद्वारकस्यैवार्थनिर्देशस्वीकारेणच तस्यादोषत्वात्। तस्माद्भावकर्मकर्तारोऽर्थाः। अतएव तदनभिधानाभिधानप्रयुक्तविभक्तिव्यवस्थेति प्रपञ्चितमनभिहितसूत्रे इतिवैयाकरणानां सिद्धान्तः।
नैयायिकास्तु कृतिरेवाख्यातार्थः कृत्याश्रये शक्तौ कृतिः शक्यतावच्छेदिका कृतित्वं शक्यतावच्छेदकतावच्छेदकमिति गौरवम्। कृतेः शक्यत्वे तु कृतित्वं शक्यतावच्छेदकामीति लाघवम्। प्रथमान्तपदादेव तल्लाभाच्च। कृतेराश्रयत्वसंसर्गेण चैत्रादावन्वये कृत्याश्रयश्चैत्र इति वाक्यार्थतया कृत्याश्रयप्रतीतेः।
यत्तु शतृशानचादिनामपि लादेशत्वात् कृतिमात्रे शक्त्यापत्त्या नामार्थयोर्भेदान्वयानुपपत्त्याश्रयत्वंससर्गतया भानानर्हत्वात्कर्तृपरत्वं त्वयापि वाच्यम्। तथाच त्वन्मते स्थानिन एव वाचकत्वात्तिङन्ते तस्य कथं कृतिमात्रपरत्वमिति। तत्पस्पशायामेवानेकधा निरस्तम्।
यदप्युक्तम्। नामार्थयोरभेद एव संसर्ग इति कृतां कर्तृवाचकत्वे बीजम्। तत्पचतिकल्पं पचतिरूपमित्याद्यनुरोदात्तिङामप्यविशिष्टम्। तद्धितान्तस्य प्रातिपदिकत्वात्। तिङ्‌प्रत्ययस्य नामत्वं नेत्यभिधाने चाकस्यापि तदभावात्। अकान्तं नामेत्युक्तौ च कल्पबाद्यन्ते नामेति तुल्यत्वादिति।
तदसत्। यदन्तत्वं नामत्वप्रयोजकं तद्वाच्यत्वस्य नामप्रयोजकत्वात्। भेदान्वयो नस्यादिति तत्राश्रयपरत्वम्। पचतिकल्पमित्यादौतु तद्धितान्तत्वं नामत्वप्रयोजकं तद्वाच्यत्वं कृतेर्नास्ति किन्तु तिङ्‌वाच्यत्वमेवेति नामार्थत्वाभावादाश्रयत्वस्य संसर्गतायां बाधकाभावात्। नामसंज्ञापन्नसमुदायान्तर्गतयत्किञ्चिच्छब्दार्थत्वस्यैव नामार्थत्वेतु धातोः खण्डशक्तिस्वीकारेण फलस्य जनकत्वसंसर्गेण व्यापारे विशेषणत्वम्। तत्रच तिङर्थस्येति स्वसिद्धान्तोऽपि त्वया पचति कल्पमित्यादौ कथमुपपादनीयः फलव्यापाराश्रयाणां नामार्थत्वापत्त्या परस्परभेदसंसर्गेणान्वयानर्हत्वात्। तथाच।
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।
इत्यादि प्रस्थितं स्यादिति साधुस्वमतस्थापनम्।
यदप्युक्तं शाब्दिकमते आश्रयएवतिङर्थः फलव्यापारयोर्धातुत एव लाभात् तत्र क्वचिद्व्यापारस्यान्वयः क्वचित्फलस्य आश्रयत्वं चा खण्डमेव शक्तिरूपमवच्छेदकमिति नकृत्यादिप्रवेशप्रगौरवशंकेति।
तदप्यसत्। चैत्रः पचतीत्यत्र कर्मणश्चैत्रेण पच्यते इत्यत्रच कर्तरप्यभिधानापत्तेः। नच फलांशे विशेषणीभूत आश्रयः कर्मत्वपदस्य, व्यापारांशे विशेषणीभूतश्च कर्तृप्रत्ययस्यार्थ इति वाच्यम्। फलव्यापारविशिष्टाश्रयस्य वाच्यत्वे कर्मकर्त्रोर्वाच्यत्वापत्तेः। फलव्यापारयोरपलक्षणत्वे तु अनुगतोपलक्षतावच्छेदकाभावात्।
अथ वस्तुतः कर्तृशक्तिव्यतिरिक्ता कर्मशक्तिः तताचाश्रयपदेनोभयोरभिलापेऽपि कर्मकर्तृशक्तिरूपाश्रयाभिधानानभिधानाभ्यामेव व्यवस्थेति चेत्‌मैवम्। शक्तिगात्रस्य तदर्थत्वे चैत्रादेस्तद्धर्मिणस्तदभेदान्वयानर्हतया त्वदभिमतस्य युष्मद्युपपदेत्यादिप्रतिपाद्यसामानाधिकरण्यस्य विलयापत्तेः।
अथ शक्तिः कारकमिति पक्षस्यान्यमतत्वेनैवाकरग्रन्थेषूपन्यासो नसिद्धान्ततयेति सामानाधिकरण्यमुपपन्नम्। अन्यथा कर्तरि कृदित्युक्त्या शानजादेरपि शक्तिमात्रवाचित्वे सामानाधिकरण्यानपपत्तेः। नित्याः षड् व्यक्तयोऽन्येषामिति वाक्यपदीयेऽन्यतमत्वाबिधानाच्च। धातूपात्तव्यापाराश्रयस्य कर्तृत्वेनतादृशफलाश्रयस्य कर्मत्वेनोक्तत्वाच्च। स्वातन्त्र्येण शक्तिप्रतीतेरसिद्धेश्चेदुच्यते तर्हि तिङन्त आश्रयो नखण्ड इति गौरवं दुर्वारम्। आश्रयत्वस्याखण्डशक्तिरूपत्वं तु नाकरग्रन्थसिद्धम्। शक्तेरेवाखण्डताया भाष्यादिसिद्धत्वात्। तत्पक्षस्य चेदानीं त्वया परित्यागात्।
अथाधारत्वरूपमाश्रयत्वमिति रिक्तमिति पक्षेणेदमुक्तम्। नतुशक्त्यभिप्रायेणेतिचेत्। न। अखण्डसाक्तिरूपमिति स्वोक्तिविरोधात्। तृतीयादिविभक्तेरप्याश्रयमात्रार्थत्वे तस्याः कर्त्रादिवाचकत्वव्यवहारासिद्धेः। कर्तृकरणयोस्तृतीयेत्यादि शास्त्रविरोधात्त। व्यापाराश्रये फलाश्रयेच कर्तृकर्मपदवृत्त्या आश्रयमात्रपरत्वस्य त्वयाप्यङ्गीकारात्तिङन्तस्थले कृतिमात्रपरत्वादिनां मते दोषदानानुपपत्तेश्च। एकदेशपरताया उभयत्रापि सत्त्वात्। नचममोभयत्राप्येकदेशपरत्वं तव त्वेकत्रेति वाच्यम्। उभयत्र त्वेकदेशपरत्वापेक्षया एकत्र तत्परताया एव न्याय्यत्वात्। इत्यसाधु स्वमर्मोद्धाटनम्।
किञ्च शक्तिः कारकमिति पक्ष एवाकरे सिद्धान्तः। सप्तमीपञ्चम्याविति सूत्रे कारकमध्यतायाः सूत्रकृतैवोक्तत्वात्। भाष्यकृता तत्पक्षेणैव समाधानाच्च। समानकर्तृकेत्यादेः शक्तितद्वतोरभेदोपचारेणैव वृत्तिन्यासकैयटादिमहाग्रन्थेषूपपादनाच्च। अनभिहितसूत्रे शक्तिपक्षमाश्रित्यैव व्याख्यानाच्चेति स्पष्टमेवाकरज्ञानाम्।
एतेन सामानाधिकरण्यानुरोधेन कर्त्रादेर्वाच्यत्वमित्यपि निरस्तम्। शक्तेः कारकत्वे त्वन्मतेऽपि भिन्नाभ्यां धर्माभ्यां एकधर्मिबोधकत्वरूपसामानाधिकरण्यस्यानुपपत्तेः। एकनिष्ठधर्मवाचकत्वस्य मन्मतेऽपि सुलभत्वात्। कृतिमात्रवाचकत्वे कर्तुरनभिहितत्वात्तृतीयापत्तिरिति तु बालप्रलापः। आश्रयमात्रपरत्वेऽपि पर्यनुयोगसाम्यात् विशिष्टानभिधानस्योभयत्राप्यविशेषात्। आश्रयानभिधानमेवकर्त्रनभिधानमितिचेत् कृत्यनभिधानमेव तदिति सवचत्वात्।
एतेनाभिहितेप्रथमेत्यादिवार्तिकोक्त्या कर्तुर्वाच्यत्वमप्यपास्तम्। शक्तेरेवानभिधानस्य तत्राभिमतत्वात्।।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते।
इति वाक्यपदीयकैयटाद्याकरग्रन्थलेखात्। तस्माच्चैत्रेण पच्यते तण्डुल इत्यत्र तृतीयार्थो व्यापारो, धात्वर्थः कृतिः, आख्यातार्थः फलं,जन्यत्वं संसर्गः। चैत्रवृत्तिकृतिजन्यफलशाली तण्डुलइति बोधः।
आचार्यास्तु अनभिहितायां कर्तृसंख्यायां तृतीया कर्मसंख्यायां द्वितीया। कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति संख्याया विभक्त्य्रथत्वपक्ष एवानभिहिताधिकारस्य सार्थक्यात्। कर्मत्वादीनां विभक्त्यर्थत्वपक्षे एतत्प्रत्याख्यानस्य भाष्यसिद्धत्वात्। नच चैत्रस्तण्डुलं पचतीत्यत्र चैत्रसंख्यैवोच्यते इत्यत्र नियामकाभावः। चैत्रः शाकसूपौ पचति शाकसूपौदनान् पचति चैत्रेण शाकः पच्यते शाकसूपौ पच्येते इत्यादौ विरुद्धसंख्यावरोधदर्शनात्कर्तृकर्मणोर्यथाक्रममाख्यातार्थसंख्यान्वयदर्शनादुभयो रेकवचनान्तत्वेऽपि तदन्वयावधारणात्। एकत्र निर्णितः शास्त्रार्थोऽन्यत्रापि तथेति न्यायात्।
अतएव यवमयश्चरुर्भवति इत्यादौ वाक्यशेषाद्दीर्घशुकादिपरत्वेन निर्णितस्य यवादिपदस्य वैमतीभिरद्भिर्यूपं प्रोक्षति इत्यादौ वाक्यशेषाभावेऽपि तत्परत्वमेति सिद्धान्तः। नच प्रथमार्थसंख्यान्वयेनैवोपपत्तौ तिङां संख्यावाचकत्वे मानाभाव इति वाच्यम्। प्रथमायाः साधुत्वार्थतया तस्या एव संख्यानभिधायित्वापत्तेः। एकवचनत्वरूपवाचकतावच्छेदकसाम्यात्।
सुपां कर्मा दयोऽप्यर्थाः संख्या चैव तथा तिङाम्।
इति भाष्यवार्तिकरूपशक्तिग्राहकसत्त्वात। चैत्रमैत्रादयो गच्छन्तीत्यादौ सम्बोध्यस्यैकत्वाद्यनवगमप्रसङ्गाच्च। तत्राख्यातार्थसंख्यान्वयस्यानुन्मत्तेन दुर्वचत्वात्। उभयोरपि संख्यावाचकतायाः प्रामाणिकत्वात्(1)।
अन्यथोत्तरसूत्रे कर्तरिचेत्यस्यानुपपत्तेः। अकर्मकेभ्यो बावे सकर्मकेभ्यस्तु कर्मणीत्यर्थः। चैत्रेण शयितव्यम्। पक्तव्य ओदनः एवकारो व्याख्यातः।
आदिकर्मणि क्तः कर्तरिच ।। 71 ।।
निष्ठेतिसूत्रे आदिकर्मणि निष्ठोक्ता, सा कर्तरि यथायोगं भावकर्मणोश्च स्यात्। प्रकृतः कटं देवदत्तः। प्रकृतः कटश्चैत्रेण। शयितं देवदत्तेन।
गत्यर्थाकर्मकश्लिषशीङ स्थासवसजनरूहजीर्यतिभ्यश्च ।। 72 ।।
क्तः पूर्ववत्। गङ्गां गतः। गङ्गां प्राप्तः। पक्षे प्राप्ता गङ्गा तेन। `यत्र सुप्तो नकंचन कामं कामयते'। लक्ष्मीमाश्लिष्टो हरिः। पक्षे तु यथा प्रिययाश्लिष्टो न बाह्यं किंचनवेदाशेषमधिशयितः। अन्यथाऽकर्मकत्वादेव सिद्धेः। एवमन्यत्।
दाशगोघ्नौ संप्रदाने ।। 73 ।।
दाशन्ति तस्मै दाशः। गां हन्ति तस्मै गोध्नोऽतिथिः। तद्यथा राजन्यन्यस्मिन् वार्हत्यागत उक्षाणं वा वेहतं वाक्षदन्त इति श्रुतेः।
भीमादयोऽपादाने ।। 74 ।।
बिभ्यत्यस्मादिति भीमः। भीष्मः। भयहेतुरित्यर्थः प्रस्कन्दनः प्ररक्षः। चमूः। खलतिः।
ताभ्यामन्यत्रोणादयः।। 75 ।।
संप्रदानादपादानाच्चान्यस्मिन् कारके उणादयः स्युः। ततोऽसौ भवति तन्तुः। वृत्तं तदिति वर्त्म। चरितं तदिति चर्म।
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ।। 76 ।।
एभ्योऽधिकरणे क्तः स्यात्। पक्षे यथाप्राप्तम्। ध्रोव्येत्यकर्मकाणामुपादानम्। ध्रुवचेष्टितयुक्तीत्यत्र ध्रुवयुक्तिपदेनाकर्मकोपादानात्। आस्यतेऽस्मिन्नित्यासितम्। गम्यतेऽत्र गतम्। भुज्यतेऽत्र भुक्तम्। पक्षे आसितो मुकुन्दः। आसितं तेनेत्यादि।
लस्य ।। 77 ।।
वक्ष्यमाणादेशानां स्थानिनिर्देशोऽयम्। नच वर्णग्रहणेऽर्थवत्परिभाषानवकाशात् लुनाति चूडाल इत्यादावतिप्रसङ्ग इति वाच्यम्। धातोरित्यनुवृत्तेः। तच्च विहितविशेषणम् तेनाग्निचिल्लभते इत्यत्र नापत्तिः। नच शामामलिभ्यो ल इतिधातोर्विहिते लप्रत्ययेऽतिव्याप्तिः। अव्युत्पत्तिस्वीकारात्। नच चन्दन इत्यादौ ल्युटि दोषः। इत्संज्ञया बाधात्। लोपे कृते स्थान्यभावात्। अल्‌विधौ च स्थानिवत्त्वनिषेधात्। नचात्रापि इत्संज्ञापत्तिः। प्रयोजनाभावात्। नच लित्स्वर एव प्रयोजनम्। लइद्यस्येति बहुव्रीहिणा यदवयवस्य लस्येत्संज्ञा तादृशप्रत्ययस्योषादानात्।
नन कर्मधारयाश्रयणे इत्संज्ञायां कृतायामपि लानुवादेन तिबादिविधानसामर्थ्यात् लोपाभावात् भावाद्यनुवृत्या तदर्थस्य लस्यादेशविधानासंभवादकृतलोपानामेव तिबाद्यादेशाः सन्तु इति चेन्न। तथापीत्संज्ञावैयर्थ्यात्। यद्वा अनुनासिकस्य लकारस्यात्र स्थआनित्वेनोपादानम्। यद्द्वा ल इति लुप्तषष्ठीकम्। अस्येति सर्वनाम्ना भावाद्यर्थवाचकस्य परामर्शः।
तिप्‌तस्‌झिसिप्‌थस्थमिब्‌वस्मस्‌ तातांझथासाथांध्वमिङ्‌वहिमहिङ् ।। 78 ।।
एतेऽष्टादश लादेशाः स्युः। अत्र समाहारद्वन्द्वः। पृथक्पदत्वं वा। पकारोऽनुदात्तार्थः। ङित्वाभावार्थश्च। इटष्टकार इटोऽदित्यत्र विशेषणार्थः। इकारमात्रो पादाने वहिमहिङोरिकारस्याप्यदादेशापत्तेः। इकारमात्रो पादाने वहिमहिङोरिकारस्याप्यदादेशापत्तेः। ङकारस्तिङ्‌प्रत्याहारार्थः। समुदायस्यानुबन्धो नत्ववयवस्य व्याख्यानात्। तेन सुपःपकारस्यावयवानुबन्धस्यैव प्रत्याहारोपयोगेऽपि नक्षतिः तेन संपप्रच्छिमहे संवव्रश्चिमहे इत्यादौ नसंप्रसारणम्। इषेःर्कमण्याशीर्लिङि एषिषीमहीत्यत्र क्ङितिचेति गुणनिषेधो न।
टित आत्मनेपदानां टरे ।। 79 ।।
टितो लस्यादेशानामात्मनेपादानां टेरेत्वं स्यात्। एधते एधेते एधन्ते इत्यादि। अथ पवमान इत्यादौ एत्वापत्तिः। नचेङो गाङादेशस्य ङित्वेन सानुबन्धकस्यादेशवचने इत्कार्याभावस्य ज्ञापितत्वाददोषः। टित्वस्यात्र लकारविशेषणत्वेनोपादानात्। आत्मनेपदविशेषणत्वाभावात्। नच टितामात्मनेपदाना मित्यपि कैश्चित्पाठानिर्वाहः। अकुर्वित्यत्र उत्तमैकवचनस्यिटोऽपि एत्वापत्तेः। टितो लकारविशेषणत्वे तु लङादेशत्वे तत्र दोषाभावात्। ननु तस्य डित्वमेव इडोऽदित्येव पठनीयम्। अन्यथा लविषीष्टेत्यादाबागमस्यापीटोऽदादेशत्वापत्तेः। मैवम्। इषमूर्जमहमितआदीत्यत्रदाञो लङ उत्तमैकवचने छन्दस्युभयथेति इट आर्द्धधातुकत्वम्। तस्माट्टिदेवायम्। नचैवमागमत्वपत्तिः। टित्त्वस्यागमलिङ्गत्वादिति वाच्यम्। लस्येति सकृदुच्चरित षष्ठ्यावयवावयविभावसम्बन्धबोधकत्वे इट एवानुग्रहापत्त्या भूयसामनुग्रहस्य न्याय्यत्वात्। स्थान्यादेशभावसम्बन्धस्यैव बोधनात्। तदनुरोधेनेटोऽप्यादेशत्वात्। नचलविषीष्टेत्यत्र दोषः। वलाद्यर्धधातुकाङ्गापेक्षस्येटो बहिरङ्गस्य लिङ्‌सम्बन्धापेक्षेटोदित्यादेशे कर्तव्येऽसिद्धत्वात्। तस्मात्पवमान इत्यादौ एत्वं दुर्वारमिति पूर्वपक्षः।
सिद्धान्तस्तु तिबादीनामिहानुवृत्त्या आत्मनेपदरूपाणां तेषां टेरात्वं विधीयते। यद्वा प्रकरणवशात्तिबादीनामेवात्मनेपदशब्देनोपादानादिति कैयटः। एतेन टितस्तङामित्येव पठनीयमिति शङ्काव्याख्याता।।
अत्रवार्तिकम्।
आनेमुक्‌ज्ञापकं त्वेत्वे टित्तङामिशि सीरिच।।
डारौरस्सु टिदटितः प्रकृते तद्गुणे कथम्।
अस्यार्थः यद्येत्वमानस्य स्यात् तर्हि आनेमुगिति न स्यात्। आनयि मुगित्यापत्तेः। तेन टितः स्थाने ये तङस्तेषामेत्वम् नत्वानस्यापीति ज्ञाप्यते। एवमप्यध्येतेत्यादौ डारौरसां कुतो नभवतीत्याह। इशि सीरिच इति। लिटस्तझयोरेशिरेच् थासः स इति सूत्राभ्यां लाघवार्थं इशि सि इरि च इत्यादेश विधेयाः। एत्वस्य टित इत्येव सिद्धेः। तस्मादेकारविशिष्टादेशविधानं लादेशानामेत्वाभावज्ञापनार्थम्। टिदटित इति अकुर्वित्यत्र समाधानम्। अटितो लङः स्थाने यष्टित् इट् तस्य एत्वं न भवति। प्रकृते तङ्येतद्विधानादानस्य तङ् प्रत्याहारबहिर्भावात्। गुणेकथ मित्युत्तरार्थम्। पचावेदमित्यत्राद्गुणे कृते एतऐ इत्येत्वं कुतो न भवतीति प्रश्नः। उत्तरंतु तत्रैव वाच्यम्।
थासः से ।। 80 ।।
टिल्लकारादेशस्य थासः से स्यात्। एधसे। टितः किम्। एधथाः।।
लिटस्तझयोरेशिरेच् ।। 81 ।।
लिडादेशयोग्नयोः क्रमादेतौ स्तः। चक्रे चक्रिरे। शित्वं सर्वादेशार्थम्। चकारोऽन्तोदात्तार्थः।
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।। 82 ।।
लिडादेशानां नवानां तिबादीनां क्रमादेते स्युः। बभूव बभूवतुरित्यादि।।
"णलः शित्करणं सर्वादेशार्थम्" अन्यथाऽलोन्त्यस्य स्यात्। नच णकारेणानेकाल्‌त्वादेव तत्सिद्धिः विनिगमकाभावात्। नानुबन्धकृतमनेकाल्‌त्वमित्यभ्युपगमाच्च। इदं च प्राग्‌लादेशाद्धात्वधिकार इतिपक्षे। अन्यथा तु आदेः परस्येति प्रसंजनीयम्। यद्यपि णकारात्पूर्वंशकारोच्चारणे प्रत्ययादित्वाभावाण्णकारस्य मध्येतु शकारस्य अन्ते तु लकारस्य इत्संज्ञानापत्तिः। तथापि लश् विधेयः। लशत्तमो वेति पठनीयम्। णल्‌ शिद्वदित्यतिदेशो वा वाच्य इतिवार्तिकाभिप्रायः। नचवृध्यर्थं णित्वस्यावश्यकत्वम्। गोतोणित् लश् लश्च णिद्वद्भवति तत उत्तमोवेति। योगविभागेन सिद्धेः। मैवम्। लित्स्वरार्थमावश्यकेन लाकरेणैव सिद्धेः।
ननु प्रत्ययस्य पित्वादनुदात्तत्वे धातोरन्तोदात्तत्वे तदुत्तरंद्विर्वचनप्रवृत्तेरान्तरतम्यादन्तोदात्तादेशेनैव सिद्धेर्लित्स्वरस्यात्र प्रयोजनाभावः। नच व्यपदेशिवद्भावे(न) नान्तोदात्तत्ववाद्युदात्तत्वस्यापि सत्त्वात्तदापत्तिरितिवाच्यम्। स्थानिवदित्यस्य शास्त्रातिदेशतया धातोरिति शास्त्रेणान्तोदातस्यैवसिद्धेः। धातोराद्युदात्तविध्यभावात्। मैवम्। स्थानिवदिति कार्यातिदेश इति सिद्धत्वात्। द्विः प्रयोगो द्विर्वचनंषाष्ठमिति स्थानिनो द्विर्वचनाभावेनोभयोरन्तोदात्तापत्तेश्च। तस्माल्लित्स्वरोऽवश्यमपेक्ष्यः। अनेकाचि तु धातौ अन्तोदात्ते शेषनिघाते च प्रथमैकाचो द्विर्वचनं सर्वानुदात्तमिति विशेषाभावात्। एकाचि धातौ लित्स्वरो बोध्यः। मध्यमपुरुषबहुवचनादेशस्याकारस्य यथा सर्वादेशत्वं तथोक्तं धातिरित्यधिकारसूत्रे।
विदो लटो वा ।। 83 ।।
विदज्ञाने इत्यस्मात्परस्य लटो णलादयो वास्युः। वेद विदतुः विदुः। व्यवस्थितविकल्पान्न द्वित्वम्। पक्षे वेत्ति वित्तः विदन्ति इत्यादि।
ब्रुवः पञ्चानामादित आहो ब्रुवः ।। 84 ।।
ब्रूञ् व्यक्तायां वाचि। अस्मात्परेषां तिबादीनां पञ्चानां क्रमाण्णलादयः पञ्चादेशाः स्युर्ब्रुवश्चाहादेशः। आह आहतुः। आहुः। आत्थ आहथुः। अस्य भूतार्थे प्रयोगस्तु भ्रममूलक इति वामनागदयः।
लोटो लङ्‌त् ।। 85 ।।
लोट इत्युपमेये षष्ठीदर्शनाल्लङ इवेति षष्ठीसमार्थाद्वतिः। तेन लङो यत्कार्यं तस्यातिदेशो नतु लङि परे विहितस्येति। `लुङ् लङ् लृङ् क्ष्वडुदात्तः `आडजादीना' मित्यनयोर्लोटि न प्रवृत्तिः। स्यादेतत्। यान्तु पान्तु इत्यादौ लङः शाकटायनस्येति जुस्स्यात् नचोत्वं बाधकम्। स्थानिवत्त्वेनोपादानात्। वान्तो यिप्रत्यये इत्यादौ तथैव भाष्यदिभिः समाहितत्वात्। विशेषणविशेष्यभावव्यत्यासेन तदन्तविधिना सकारान्तस्य ङिल्लकारोत्तमस्येति व्याख्यायालोन्त्यपरिभाषया सकारलोपपर्यवसानस्य गौरवग्रस्तत्वात्।
(1) इतश्च ।। 100 ।।
ङिल्लकारादेशेषु परस्मैपदेषु इकारस्य लोपः स्यात्। नन्वेवं भवेदित्यादौ यासादेशस्य इकारस्य लोपापत्तिः। नचेयादेशव्याख्यानादत्रत परत्वन्न दोषोऽतएवाबोभवीदित्यावीटोऽपिलोपप्रसङ्गो नेति वाच्यम्। अरुदितामित्यादौ तथापि दुर्वारत्वात्। मैवम्। इत इत्यनुवर्त्य इद्रूपस्येतो लोप इत्यर्थात्। विशेषणस्य च अत्यन्तत्वमर्तस्तत्र तादृसस्यैव लोपविधानात्। अन्यथा विशेषणवैयर्थ्यात्। परस्मैपदेष्विति सप्तम्यन्तस्य षष्ठयैकवचनान्तत्वेन विपरिणामं कृत्वा इकारान्तं यत्परस्मैपदं तस्येति व्याख्याने विभक्त्यंशे वचनांशे च भङ्गाश्रणे गौरवात्।
तस्‌थस्‌थमिपां तांतंतामः ।। 101 ।।
ङित्सम्बन्धिनां तसादीनां क्रमात्तामादयः स्युः। अभवतां अभवतं अभवत अभवम्।।
लिङः सीयुटः ।। 102 ।।
परस्मैपदेविशेषविहितेन यासुटास्य बाधादात्मनेपदेऽस्य प्रवृत्तिः। नच यथा कृषीष्ठा इत्यादौ सूटी कृते सीयुड् भवति, तथा यासुटि कृतेऽपिस्यात्, यासुटो लिङ् भक्तत्वात्तदादेः सीयुटो विरोधाभावात् इति वाच्यम्। विशेषविधेर्विरोधाभावेपि सामान्यविधिबाधकत्वात्। दधितक्रयोस्तथा व्युत्पत्तेः। सुटि तु वैषम्यं वक्ष्यामः भवेत्। टकारो देशविशेषार्थ उकार उच्चारणार्थः।
यासुट् परस्मैपदेषूदात्तो ङिच्च ।। 103 ।।
लिङः परस्मैपदानां यासुट् स उदात्तो ङिच्च। चिनुयुः सुनुयुः। उदात्तवचनं आगमानुदात्तत्वज्ञापनार्थमिति प्रपञ्चितमाद्युदात्तश्चेति सूत्रे।
किदा शिषि ।। 104 ।।
आशिषि लिङो यासुट् कित्स्यात्। भूयात्। गुणनिषेधस्य ङित्वेन सिद्धावपिइज्यादित्यादौवचिस्वपियजादीनां कितीति संप्रसारणार्थम्। जागर्यादित्यत्र जाग्रोविचिण्णल् ङित्सु इति गुणार्थं च कित्वारम्भः।
झस्य रन् ।। 105 ।।
लिङो झस्य रन् स्यात। यजेरन्। झोन्त इत्यस्यापवादः।
इटोऽत् ।। 106 ।।
लिङुत्तमैकवचनस्येटोऽदादेशः स्यात्। लभेय। इडागमातिप्रसङ्गपरिहारः प्रागुक्तः। नच नविभक्ताविति तकारस्येत्संज्ञानिषेधापत्तिः। तकारस्योच्चारणार्ततयादेशानवयवत्वात्।
सुट्‌तिथोः ।। 107 ।।
लिङस्तकारथकारयोः सुट् स्यात्। इकार उच्चारणार्थः। भविषीष्ट। नच सीयुटो यासुटेवानेन बाधायत्तिः। लिङः सीयुट् तथयोः सुडिति विषयमेदात्। अतएव लिङो विशेष्यत्वं न व्याख्यातम्। सुटोऽपि लिङवयवत्वापत्त्या सुटा सीयुटो बाधापत्तेः।
झर्जुस् ।। 108 ।।
लिङो झेर्जुम् स्यात्। झोन्तापवादः। भवेयुः।
सिजभ्यस्तविदिभ्यस्च ।। 109 ।।
अलिङर्थ आरम्भः। वेत्तेरत्र ग्रहणम्। अन्यत्र विकरणव्यवधानेन झेः परत्वासंभवात्। लाभसत्तार्थयोस्त्वात्मनेपदित्वेन झेरेवासंभवात्। अभ्यस्तविदिग्रहणमसिजर्थम्। ङित इत्यनुवृत्या लडादावतिप्रसङ्गाभावः। सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्सबन्धिनो झेर्जुम्। अचेतिषुः अजुहवुः। अविदुः। इह वेत्तिसाहचर्यादभ्यस्तपरस्यापि लङादेशस्यैव झेरयमादेशः। परसाहचर्यस्य बलीयस्त्वात्। तेनापीपचन्निन्यादौ नेति प्रागुक्तम्।
आतः ।। 110 ।।
ननु सिचः परस्य झेराकारान्तात्परस्यैव जुसिति नियमे अकार्षुरित्यादि नस्यात्। नह्यं सिजाकारान्ताद्विहितो नापि परो रेफेण व्यवधानात्। नचैवं पूर्वसूत्रे सिचः परस्य झेर्जुस्‌विधानानर्थक्यम्। अगुरस्थुरित्यादौ सावकाशत्वात्। मैवम्। आकारान्तात्सिचश्चेत्युभाभ्यां परत्वस्य वाधात्सिचः परत्वं प्रत्ययलक्षणेन, आकारान्तात्तु श्रुत्येत्यवश्यं वाच्यम्। तथाच तुल्यजातीयविषयतया सिज्‌लुकि आदन्तात्यरस्यैव झेर्जुसादेश इति नियमवाक्यार्थः। अकार्षुरित्यादौ तु स्रिचः श्रूयमाणत्वान्न दोषः। ननु सिचं निवर्त्य विध्यर्थमेवेदं स्यात्। मैवम्। अभूवन्नित्यत्र प्रत्ययलक्षणेन सिजभ्यस्तेति जुसापत्तेः। लङादेशस्य झेरप्ययुरित्यादौ जुसादेशेऽनेनैव सिद्धे उत्तरसूत्रे एवकारःकर्तव्यः। अन्येषां मते अयान् इत्याद्यपि यथा स्यात्। सिजनुवृत्यास्य नियमार्थत्वे तु लङो झेर्जुस्भावस्याप्राप्त्या लङः शाकटायनस्येत्येतावतैव पाक्षिक जुस्‌भावोपपत्या एवकारस्यानुपादाने लाघवम्। नच नियमस्वभावादेवकारार्तलाभे तत्रैवकारग्रहणं मयापि नकार्यमिति वाच्यम्। लङ एव शाकटायनस्येति विपरीतनियमवारणार्थं तदावश्यकत्वात्। अन्यथा लुङि शाकटायनस्य जुसभावे विकल्पापत्तेः। लङि च जुसो नित्यत्वापत्तेः। किंच नियमपक्षे उत्तरसूत्रे लङ्‌ग्रहण मनावश्यकम्। तस्य ङित इत्यनुवृत्त्यैव सिद्धेः। नह्याकारान्तात्परो लङ्‌भिन्ना ङित्संभवति। लुङिअगुरित्यादेः पूर्वेणैव सिद्धेः। लिङ्‌लृटोश्च विकरणागमैर्व्यवधानात्। क्रियमाणं तु तदतिदेशेन लङ्‌वमाश्रित्य तद्विधेरप्रवृत्यर्थम्। तेन लोटो लङ्‌वदित्यतिदेशेऽपि झेर्जुसोऽनापत्तिः।
लङः शाकटायनस्यैव ।। 111 ।।
आतः परस्य लङो झेर्जुस्। अयुः। अयान् ।।
द्विषश्च ।। 112 ।।
द्विषः अप्रीतौ। अस्मात्परस्य लङो झेर्जुस् वा स्यात्। अद्विषुः अद्विषन् ।।
तिङ्‌शित्सार्वधातुकम् ।। 113 ।।
तिङो धत्वधिकारोक्ताः। शितश्चैतत्संज्ञाः वेत्ति। पुगन्ततिलघूपधगुणः। भवति शपमाश्रित्य सार्वधातुकेतिगुणः। तिपमाश्रित्यकर्तरिशप्। धात्वितिकिम्। हरीन्। शमोऽपि सार्वधातुकत्वे ङित्वापत्त्या घेर्ङितीति गुणः लिह इत्यादौ यक्च स्यात्। इति केचित्। तन्न। भावकर्मवाचिनि सार्वधातुके परे यको विधानात्। नच द्वितीया कर्मार्थेति पाठ्यम्। प्रकृत्यर्थवृत्तिकर्मत्ववाचित्वेऽपि प्रकृत्यर्थनिरूपित कर्मत्ववाचित्वाभावात्। धेर्ङितीत्यत्रापि कर्मधारयमाश्रित्य यस्मिन् विधिस्तदादाविति इत्संज्ञङकारादौ सुपीति व्याख्यानात्। नचैवं याडाप इत्यादौ ङित्पदेन प्रत्ययविशेषणानुपपत्तिः। तत्र शब्दाधिकारमाश्रित्य ङित्पदे बहुव्रीहेर्व्याख्यानात्। सार्वधातुकमपिदित्यनेन चङनतिदेशात्। गाङ्‌कुटादिसूत्रे ङित्पदस्य बहुव्रीहिपरत्वेन निर्णितत्वात्।
अन्येतु वारिणी इत्यत्र लघूपधगुणापत्तिः। नचक्ङितिचोति निषेधः। लघूपधेति कर्मधारयेण निर्दिष्टस्थानिकतया इग्लक्षणत्वाभावेन तदप्रवृत्तेः रलोब्युपधादित्यादिज्ञापकवशादनिग्लक्षणत्वेऽपि निषेधप्रवृत्तेश्च। धातुप्रत्ययमात्रविषयत्वात्। नच संनिपातपरिभाषाविरोधः। उपजीवकस्य उपजीव्यविघातककार्यनिमित्तत्वं नेत्यस्य तदर्थत्वात्। इहतु इगन्तत्वस्य नुमैव व्यवहितत्वात्परिभाषानुसारस्य पाटच्चरपरिलुण्ठिते वेश्मनि यामिकजागरणप्रायत्वादित्याहुः।
(1) एतऐ ।। 93 ।।
एधै एधावहै एधामहै। पचावेदमित्यादौ गुणे कृते एकादेशस्यान्तवद्भावादेत्वं कुतो नेति पूर्वं वार्तिककृतोक्तं असिद्धं बहिरङ्गामिति तत्परिहार्यम्।
लेटोऽडाटौ ।। 94 ।।
अट्‌ आट् एतावागमै स्तः। तौ च पितौ। प्रण आयूंषि तारिषत्। प्रियः सूर्ये प्रिया अग्ना भवाति। पिदित्यनुवृत्त्या यद्योग्या अश्नवैथे। विक्रन्दसीउर्वरासुव्रतैते इत्यादौ गुण इति दीक्षिताः। वृत्तिमते तु छन्दस्तुभयथेति सार्वधातुकत्काभावेन ङित्वाभावाद्गुणः।
आत ए ।। 95 ।।
लेट आकरस्य ऐ स्यात्। सुतेभिः सुप्रियसा मादयैते। आतः सम्बन्धिन आद्याकारस्य ऐकारः नतु द्वितीयस्य। नित्यतया टित आत्मनेपदानामित्येत्वस्यैव प्रवृत्तेः। कृताकृतप्रसङ्गित्वमात्रेणापि नित्यत्वोपगामात्। अन्यत्रेति वक्ष्यमाणलिङ्गाच्चविधानसामर्थ्यादाट ऐत्वं न। ऐट एव विधानापत्तेः। यो यजाति यजात इत्।
वैतोऽन्यत्र ।। 96 ।।
आत ऐ इत्यस्य विषयं विहाय लेट एकारस्य ऐवा स्यात्। पशूनामीशै। गृहा गृह्यान्तै। अन्यत्र किम् मादयैते। अत्रान्त्यस्य माभूत्।
इतश्च लोपः परस्मैपदेषु ।। 97 ।।
लोटस्तिङामितो लोपो वा परस्मैपदेषु। योषिषत्। परस्मैपदेषु किम्। ईशौ इत्यत्र इटो माभूत्।।
स उत्तमस्य ।। 98 ।।
लेट उत्तमसकारस्य वा लोपः। करवाव करवाम।
नित्यंङितः ।। 99 ।।
नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। ङिल्लकारोत्तमसकारस्य नित्यं लोपः। अपचाव पचेव पच्यास्व अपाक्ष्व अपक्ष्याव करवावनच भूयासमित्यादा वतिव्याप्तिः। पूर्वसूत्रे उत्तमपुरुषान्त्यावयवस्यैव सकारस्य लोपप्रतियोगित्वेन निर्णीतस्यार्थाधिकारादत्रापिपचन्त्वित्यादौ सावकाशत्वात्। मैवम्। लङ्‌वद्भावेन इतश्चेति लोपप्राप्त्या तत्रोत्वस्यावकाशाभावात्। नाप्राप्ते लङ्‌वद्भावे उत्वास्यारम्भात्। इकारलोपस्येव जुस्‌भावस्यापि बाधात्। नच जुसो वैकल्पिकत्वात्तदभावपक्षे उत्वावकाशान्पूरस्तादपवादन्यायाच्च न तद्बाध इति वाच्यम्। अतिदेशेन लङो जुस्‌भावो नेति वक्ष्यमाणत्वात्।
एरुः ।। 86 ।।
लोट इकारस्य उकारः स्यात्। तेस्तुः स्यादिति यावत्। तेन निघातसिद्धिरित प्रागुक्तम्।
सेर्ह्यपिच्च ।। 87 ।।
हिः स्यात्सोऽपिच्च। ब्रूहि। सार्वधातुकमपिदिति ङित्वान्न गुणः। `हिन्यो रुत्वप्रतिषेधः'। भवानि। इकारोच्चारणसामर्थ्यात्सिद्धम्। अन्यथा प्रक्रियालाघवार्थं हूनू पवादेशौ विदध्यात्। इकारोकारयोरुच्चारणे विशेषाभावात्।
वा छन्दसि ।। 88 ।।
मेर्निः ।। 89 ।।
लोटो मेर्निः। भवानि।
आमेतः ।। 90 ।।
लोट एकारस्याम्। एधतां एधेतां एधन्ताम्। आमादेशो नत्वागमः। मित्वाभावात्।
सवाभ्यां वामौ ।। 91 ।।
सकारवकाराभ्यां परस्य लोडेकारस्य वामौ स्तः। एधस्व। एधध्वम्। आमोऽपवादः।।
आडुत्तमस्य पिच्च ।। 92 ।।
लोडुत्तमस्याडागमः उत्तमश्च पित्स्यात्। नच समानाधिकरण्यश्रवणादाट एव पित्वं स्यादिति वाच्यम्। प्रयोजनाभावात्। अनुदात्तस्यागमस्वरेणैव सिद्धे आटः प्रत्ययस्वरेण गुणनिमित्तत्वाभावाद्‌गुणनिषेधस्यापि प्रतियोग्यप्रसक्त्यैव वैयर्थ्यात्। भवानि भावाव भवाम। पित्वान्न ङित्वम्।
(1)आर्धधातुकं शेषः ।। 114 ।।
शेषपदं भिन्नपरम्। प्रतियोग्यपेक्षायां च तिङ्‌शितौ उपस्थितत्वात्संबध्येत्। धात्वधिकारोक्तप्रत्ययत्वं तु अनुयोगिताबच्छेदकत्वेनान्वोति न तु प्रतियोगितावच्छेदकत्वेन। स्वादावतिव्याप्तेः। तिङो भेदप्रतियोगितया निवेशवैयर्थ्यापत्तेश्च। धात्वधिकारोक्तप्रत्ययभेदेनैव तिङ्‌भेदस्योपसंगृहीतत्वात्। तथाच तिङ्‌शिदन्यत्वे सति धातोरिति शब्दव्यापारेण विहितप्रत्ययत्वं आर्द्धधातुकत्वं तिङादौ शप्प्रभृतौ चातिव्याप्तिवारणाय सत्यन्तं स्वादिवारणाय धात्व दिवारणाय शब्दव्यापारोति। यथाचायमर्थोलभ्यते तथोक्तं धातोरिति सूत्रे।
लिट्‌च ।। 115 ।।
लिडादेशस्तिङार्धधातुकसंज्ञः। तेनन धातुकस्वराभावश्च। पवमुत्तरसूत्रेऽपि।
लिङाशिषि ।। 116 ।।
आशिषि यो लिङ् तदादेशस्तिङ्‌ पतत्संज्ञः। भूयात्।
छन्दस्युभयथा ।। 117 ।।
आर्धधातुकत्वाण्णिलोपः। विशृण्विरे। सार्वधातुकत्वात् श्नुश्रृभाकौ। हुश्नुवोः सार्वधातुक इति यण्।
इति शिद्धान्तसुधानिधौ तृतीयस्य चतुर्थपादे प्रथमाह्निकम्। पादोऽध्यायश्चायं समाप्तः।।
सद्विद्वत्पदवाक्यमाननिगमाकूपारपारङ्गम्-
श्रीलक्ष्मीधरलब्धबोधजनुषा विश्वेश्वरणोदिते।
श्रीसिद्धान्तसुधानिधौ सुधिषणैरध्याथमध्यायतं
ध्यायंध्यायमिहाभिधेयमधुना शोधाय धीर्दीयताम्।।
शुभम्।।