श्रीसीताकवचम्
[[लेखकः :|]]

             ॥ श्रीरस्तु ॥
॥ श्रीमदानन्दरामायणांतर्गत श्री सीता कवचम् ॥

अगस्तिरुवाच-
सम्यक् पृष्टं त्वया वत्स सावधानमनाः श्रुणु ।
आदौ वक्ष्याम्यहं रम्यं सीतायाः कवचं शुभम् ॥ १॥

या सीतावनि संभवाथमिथिलापालेन संवर्धिता
पद्माक्षनृपतेः सुता नलगता या मातुलिङ्गोत्भवा।
या रत्ने लयमागता जलनिधौ या वेद वारं गता
लङ्कां सा मृगलोचना शशिमुखी मांपातु रामप्रिया ॥ २॥

अथ न्यासः ॥

अस्य श्री सीताकवच मन्त्रस्य अगस्ति ऋषिः ।
श्री सीता देवता ।
अनुष्टुप् छन्दः ।
रमेति बीजम् ।
जनकजेति शक्तिः ऽवनिजेति कीलकम् ।
पद्माक्ष सुतेत्यस्त्रम् ।
मातुलिङ्गीति कवचम् ।
मूलकासुर घातिनीति मन्त्रः ।
श्रीसीतारामचन्द्र प्रीत्यर्थं सकल
कामना सिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुळी न्यासः ॥
ॐ ह्रां सीतायै अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं रमायै तर्जनीभ्यां नमः ।
ॐ ह्रूं जनकजायै मध्यमाभ्यां नमः ।
ॐ ह्रैं अवनिजायै अनामिकाभ्यां नमः ।
ॐ ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः मातुलिङ्ग्यै करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः ॥
ॐ ह्रां सीतायै हृदयाय नमः ।
ॐ ह्रीं रमायै शिरसे स्वाहा ।
ॐ ह्रूं जनकजायै शिकायै वषट् ।
ॐ ह्रैं अवनिजायै कवचाय हुम् ।
ॐ ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् ।
ॐ ह्रः मातुलिङ्ग्यै अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ॥

अथ ध्यानम् ॥
सीतां कमलपत्राक्षीं विद्युत्पुञ्च समप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौसेय वासिनीम् ॥ १॥

सिंहासने रामचन्द्र वामभाग स्थितां वराम् ।
नानालङ्कार सम्युक्तां कुण्डलद्वय धारिणीम् ॥ २॥

चूडाकङ्कण केयूर रशना नूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ ३॥

मयूरा भरणेनापि घ्राणेति शोभितांशुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ ४॥

बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेह मुत्तमम् ।
स्मिताननां गौरवर्णां मन्दार कुसुमं करे ॥ ५॥

बिभ्रन्ती मपरे हस्ते मातुलिङ्ग मनुत्तमम् ।
रम्यवासां च बिम्बोष्ठीं चन्द्र वाहन लोचनाम् ॥ ६॥

कलानाथ समानास्यां कलकण्ठ मनोरमाम् ।
मातुलिङ्गोत्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ ७॥

मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुंभ पयोधरां ॥ ८॥

सीतायाः कवचं दिव्यं पठनीयं सुभावहं ॥ ९॥

ॐ । श्री सीता पूर्वतः पातु दक्षिणेवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ १॥

अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु ।
मध्येवनिसुता पातु सर्वतः पातु मां रमा ॥ २॥

स्मितानना शिरः पातु पातु भालं नृपात्मजा ।
पद्मावतु भृवोर्मध्ये मृगाक्षी नयनेवतु ॥ ३॥

कपोले कर्णमूले च पातु श्रीराम वल्लभा ।
नासाग्रं सात्विकी पातु पातु वक्त्रं तु राजसी ॥ ४॥

तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ ५॥

पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कण मण्डिता ॥ ६॥

नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा ।
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ ७॥

पृष्ठदेशे वह्निगुप्ता वतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षस मोहिनी ॥ ८॥

गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रंभोरूः जानुनी प्रिय भाषिणी ॥ ९॥

जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ १०॥

पादाङ्गुळीः सदा पातु मम नूपुर निस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ ११॥

रात्रौ पातु कालरूपा दिने दानैक तत्परा ।
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ १२॥

एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तुयः ॥ १३॥

जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ १४॥

स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्य माप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ १५॥

अष्टभूसुर सीतायै नरै प्रीत्यार्पयेत् सदा ।
फलपुष्पादि कादीनि यानि यानि पृथक् पृथक् ॥ १६॥

सीतायाः कवचं चेदं पुण्यं पातक नाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ १७॥

पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ १८॥

तस्मात् सदा नरैर् जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥ १९॥

ततः पटेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥ २०॥

इति श्री शतकोटिरामायणांतर्गत श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे श्री सीताकवचं संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=श्रीसीताकवचम्&oldid=32709" इत्यस्माद् पुनः प्राप्तिः