← प्रथमः भागः श्रुतप्रकाशिका
द्वितीयः भागः
[[लेखकः :|]]
तृतीयः भागः →

1.1.1

अथाविद्यां दूषयितुं तद्विषये परोक्तमर्थमनुवदति । यदपीति । निर्विशेषस्य कथं भ्रमसंभव इत्यत्राह - दोषेति । ब्रह्मव्यतिरिक्तदोषोऽस्ति चेत्, अद्वैतहानिरित्यत्राह - दोषश्चेति । अस्मिन्नर्थे परोक्ताः श्रुतिस्मृत्यर्थापत्तीर्दर्शयति अनृतेनेति । सदसद्विलक्षणत्वमुपपादयति - सा त्विति । भ्रान्तिबाधयोरयोगात्- भ्रान्तिविषयत्वबाधविषयत्वयो-रयोगात् । प्रमितिभ्रान्तिबाधान्यथानुपपत्त्या सदसदनिर्वचनीयत्वमित्यर्थः । "सद्भाव एवं भवतो मयोक्तः" इतिवत्, न परमतमिति दर्शयितुं - तत्त्वविद इत्युक्तम् ।

दूषयति - तदयुक्तमिति । आश्रयानुपपत्ति-तिरोधानानुपपत्ति-स्वरूपानुपपत्ति-अनिर्वचनीयत्वानुपपत्ति-प्रमा-णानुपपत्ति-निवृत्त्यनुपपत्तिभिर्दूययिष्यन् प्रथममाश्रयानुपपत्तिमाह - सा हीति । किमाश्रित्य । न किञ्चिदपीत्यर्थः । किं जीवमाश्रित्य, उत ब्रह्म इति विकल्पाभिप्रायेणाह - न तावदिति । जीवे सिद्धे अविद्यासिद्धिः, अविद्यासिद्धौ जीवसिद्धिरित्यन्योन्याश्रय इत्यर्थः । जीवाज्ञानवादनिरासः उत्तरत्र विस्तरेण वक्ष्यत इति अत्र संक्षेपः । अथ ब्रह्मा-श्रयत्वपक्षं दूषयति - नापीति । विरोधित्वं कथमित्यत्राह - सा हीति । ब्रह्मविषयाज्ञानस्य तत्प्रकाशबाध्यत्वात् विरोधः ।

अत्र नाथमुनिभिरुक्तान् श्लोकानाह - ज्ञानरूपमिति । स्वप्रकाशत्वं विवक्षितम् । ज्ञाननिवर्त्यत्वे हेतुमाह - मृषात्मकमिति । न हि स्वरूपज्ञानमज्ञानविरोधि, अपि तु प्रमाणज्ञानमेवेति पक्षमनूद्य दूषयति - ज्ञानमिति । ब्रह्म-वत् तत्प्रकाशत्वात्-स्वरूपानतिरिक्तप्रकाशत्वादित्यर्थः । न हि शुक्लभास्वरद्रव्ये गृहीते, आप्तवाक्यादिभिः शुक्ल-भास्वरद्रव्यमित्येतावति शतशः प्रतिपन्नेऽपि भ्रमनिवृत्तिः । दूषणान्तरञ्चाह - ज्ञानमिति । ततः किमित्यत्राह - ब्रह्मण इति । एषु श्लोकेषु प्रथमश्लोकस्यार्थः पूर्वं ज्ञानबाध्याभिमतेत्यन्तेन भोष्येणोक्तः । द्वितीयश्लोकं व्याचष्टे - ज्ञानस्वरूपमिति । ब्रह्मस्वरूपप्रकाशत्वे सति - स्वरूपविषयज्ञानत्वे सतीत्यर्थः । विशेषानवगमात्-विषयवैष-म्याभावादित्यर्थः । कथं विशेषानवगमः; प्रमाणजन्यत्वं विशेषोऽस्तीति चेत्-किं तेन ? विषयवैषम्यं हि न विद्यते । किं स्वरूपभूतज्ञानान्निवर्तकज्ञानस्य विषयवैषम्यम् ? अस्ति वा । न वा । अस्ति चेत्-सविशेषत्वम् । नो चेत्-स्व-रूपमेव निवर्तकं स्यात् । प्रमाणजन्यज्ञानमनिवर्तकं वा स्यात्, पुरोऽवस्थितभास्वरवस्तुविषयज्ञानवत् । प्रमाणजन्य-ज्ञानत्वं न निवर्तकत्वे प्रयोजकम्; इदं शुक्लभास्वरद्रव्यमिति वाक्यजन्यस्य ज्ञानस्य निवर्तकत्वाभावात् । तस्मात् भ्रमसहकारादतिरिक्ताकारविषयत्वं निवर्तकत्वे प्रयोजकम् ।।

ननु विषयवैषम्याभावेऽपि कस्यचित् ज्ञानस्य भ्रमाविरोधित्वं कस्यचिद्भ्रमविरोधित्वं च दृष्टमभिज्ञाप्रत्यभिज्ञयोः। अयमेको देवदत्त इत्यभिज्ञाया एकविषयत्वेऽपि, पूवर्दृष्टादयमन्य इति पुरुषद्वित्वभ्रमो दृष्टः; प्रत्यभिज्ञायास्तु सोऽय-मेको देवदत्त इति देवदत्तैक्यविषयत्वेऽपि द्वित्वविरोधित्वं दृष्टम्-इति विषयवैषम्याभावेऽपि प्रमाणज्ञानस्य भ्रमनिर्व-तकत्वं युक्तमिति शङ्कायामाह - एतदुक्तमिति । सत्यत्वज्ञानत्वादिस्वभावोऽस्तीति चेत्-स च स्वरूपानतिरिक्त इति दर्शयितुं स्वभावशब्दः । अनेनाभिज्ञाप्रत्यभिज्ञयोरपि विषयवैषम्यमुक्तं भवति । अभिज्ञायामेकस्य धर्मिणि एकदेश-कालसंबन्धित्वं प्रतिपन्नम्, न तु कालद्वयदेशद्वयसंबन्धित्वम् । तत्तु प्रत्यभिज्ञायां प्रतिपन्नम् । एकदेशकालसंबन्धित्व-प्रतीतिर्न द्वित्वविरोधिनी । एकस्य धर्मिणः कालद्वयदेशद्वयसंबन्धित्वं ह्यैक्यम् । तत्तु द्वित्वविरोधीति तत्प्रतिपत्तिर्द्वि-त्वभ्रमं निवर्तयति । अतस्तत्रापि विषयवैषम्यमस्तीति फलितम् ।

अथ तृतीयश्लोकार्थस्य विपर्यये पर्यवसानमाह - किञ्चेति । प्रमाणज्ञानत्वं निवर्तकत्वव्यापकम् । अतोऽधिष्ठान-भूतब्रह्मस्वरूपस्य प्रमाणज्ञानत्वाभावान्न भ्रमनिवतर्कत्वम् । अधिष्ठानत्वात् शुक्तयादिवत् ब्रह्मस्वरूपं न भ्रमविरोधीति प्रमाणान्तरज्ञानमपेक्षत इति शङ्कयामाह - शुक्तयादयस्त्विति । अधिष्ठानत्वस्य ज्ञानान्तरविषयत्वं व्यापकम् । अतो

व्यापकनिवृत्त्या अधिष्ठानत्वनिवृत्तिरिति, अधिष्ठानत्वादेव ब्रह्मस्वरूपस्फुरणेऽपि प्रमाणान्तरमपेक्षेत । नैवम् । जड-त्वादेव हि शुक्तयादेः स्वरूपस्फुरणेऽपि प्रमाणान्तरापेक्षा, नाधिष्ठानत्वात् । अतोऽधिष्ठानत्वं सोपाधिकम् । अत्र त्वजडत्वात् स्वरूपस्फुरणे प्रमाणान्तरापेक्षा नास्तीति चेत्-तर्हि जडत्वादेव भ्रमनिवृत्तौ शुक्तयादेर्ज्ञानान्तरापेक्षा, नाधिष्ठानत्वात् । अतस्तत् सोपाधिकम् । तस्मादजडे तु प्रमाणान्तरापेक्षा भ्रमनिवृत्तौ च न स्यादित्यभिप्रायः । शु-क्तयादयस्त्वित्यत्र तुशब्दो ब्रह्मणः शुक्तयादिव्यावृत्तिपरः ।

द्वयी ह्यद्वैतिनां गतिः-ब्रह्मविषयप्रमाणज्ञानं भ्रमनिवर्तकम्, प्रपञ्चमिथ्यात्वविषयज्ञानं भ्रमनिवर्तकमिति च । तत्र प्रथमपक्षो दूषितः । अथ द्वितीयपक्षं दूषयितुं शङ्कते अथोच्येतेति । दूषयति - नेत्यादिना । इदमिति । ननु कथं प्रप-ञ्चसत्यत्वमज्ञानमित्युच्यते ? अज्ञानं हि ज्ञानप्रतिबन्धकम् । न हि प्रपञ्चसत्यत्वं कस्यचित् ज्ञानं प्रतिबध्नाति । सत्यम्; आच्छादकाज्ञानमेवम्भूतम् । प्रपञ्चसत्यत्वं तत्प्रतिभासश्च विक्षेपरूपाज्ञानमिति पराभ्युपगमादेवमुक्तम् । प्रथमं शिरो दूषयति - अतदिति । कथमतद्विषयत्वात् ब्रह्मस्वरूपाज्ञानाविरोधित्वमित्यत्राह - ज्ञानाज्ञानयोरिति । विरोधे हि निवृत्तिरित्यर्थः । द्वितीयं शिरो दूषयति - प्रपञ्चेति । प्रपञ्चमिथ्यात्वज्ञानेन ब्रह्मस्वरूपाज्ञाननिवृत्तेः फलितत्वमाशङ्कते ब्रह्मस्वरूपेति । सद्वितीयत्वम्- सद्वितीयत्वज्ञानमित्यर्थः । न हि सत्तया सद्वितीयत्वं ब्रह्मस्वरूपाज्ञानं भवति, अपारमार्थ्यात् । सद्वितीयत्वविशिष्टब्रह्मगोचराज्ञाने निवृत्ते विशेष्यांशगोचरमपि ज्ञानं निवृत्तमिति स्वरूपसिद्धिः कथमित्यत्राह - स्वरूपं त्विति । दूषयति - नेति । अद्वितीयत्वं किं स्वरूपम्, उत धर्मः इति विकल्पाभिप्रायेण प्रथमं स्वरूपपक्षं दूषयति - नेति । धर्मपक्षे अपसिद्धान्तमाह - अद्वितीयत्वमिति । आश्रयानुपपतिं्त निगमयति -अत इति । विरोधादेव-पूर्वोक्तादेवेत्यर्थः । एवमाश्रयानुपपत्तिरुक्ता ।।

अथ तिरोधानानुपपत्तिमाह किञ्चेति । ननु भवत्पक्षेऽपि क्षेत्रज्ञानां नित्यं स्फुरणमस्ति । तथापि तेषां स्वरूप-तिरोधानेन विना न देहात्मभ्रम इति तुल्या अनुपपत्तिः । सत्यम् । स्वरूपस्फुरणमस्त्येव । न तस्य तिरोधानमभ्युप-गम्यते । न च स्वरूपस्फूरणं भ्रमविरोधि; किं तु नित्यत्वाणुत्वनिरवयवत्वादीन्येव भ्रमविरोधीनि । तान्यागमगम्यानि तेषां तिरोधिः तद्विषयज्ञानप्रसराभावरूपः सङ्कोचः । अतः स्वारूपातिरिक्ताकारान्तरतिरोधानाभ्युपगमात् नाऽऽत्मनो नाशप्रसङ्गः । ज्ञानस्यात्मासाधारणाकारस्य स्फुरणाद्भ्रमानुपपत्तिरिति चेन्न; तस्यासाधारणत्वास्फुरणात् । असाधार-णतया स्फुरतो हि धर्मस्य भ्रमविरोधित्वं दृष्टम् । यथा शुक्तित्वादेः । शुक्तित्वं हि शुक्तयसाधारणतया पूर्व ज्ञातं पश्चात् भ्रमं निवर्तयति । न तावत् ज्ञानं देहातिरिक्तात्मासाधारणधर्मत्वेन क्वचिद्दृष्टचरम् । अतो भ्रमः संभवति । आत्मासा-धारणधर्मत्वादर्शनादध्यासः, अध्यासादसाधारणधर्मत्वाग्रहणमित्यन्योन्याश्रयोऽनादितया परिहृतः । धर्मभूतज्ञानस्य नित्यत्वं तिरोधानं च भवद्भिरभ्युपगम्यते, तदा ज्ञाननाशप्रसङ्ग इति चेन्न । ज्ञानं हि द्रव्यम् । तस्य स्वरूपातिरेकेण सङ्कोचविकासात्मकमवस्थाद्वयमभ्युपेतम् । अतस्तत्तिरोधानं कमर्णा तत्सङ्कोचः । तन्निवृत्तिस्तु प्रसरः । स एव प्रकाशः । स चानित्यः । तस्यानित्यत्वेऽपि नित्यस्य ज्ञानद्रव्यस्य स्वप्रकाशत्ववादः स्वप्रकाशनरूपप्रसरणार्हत्व-निबन्धनः । अतोऽवस्थाद्वयस्याऽऽगमापायित्वात् द्रव्यं नित्यमेव । अस्मदवस्थास्थानीयो हि भवतः प्रकाशः । स एव स्वरूपम् । तस्मात् तिरोधानं तन्निवृत्तिरेव-इतीममर्थमभिप्रेत्य प्रकाशैकस्वरूप ब्रह्मेत्युक्तम् । अतः स्वरूपातिरेकिप्रकाशतिरोधानाख्यावस्थाद्वयानभ्युपगमात् स्वरूपनाश एव तिरोधानं स्यादित्यर्थः ।।

अथ स्वरूपानुपपत्तिमाह अपिचेपि । ज्ञातृत्वादीनामपरमार्थतया हि दोषान्तरापेक्षा । तद्वदिहापीति दृष्टान्ततया वक्ष्यमाणनवस्थोपयोगित्वेन निर्विषयेत्यादिपरिपाटीप्रकटनं कृतम् । यद्वा विषयाश्रयभेदानामसत्त्वप्रतिभासयोरुक्ति-र्दोषकल्पनाकारणत्वेन कृता । अनभ्युपगमादिति । परमाथर्त्वे ह्यद्वैतहानिप्रसङ्ग इति भावः । अपरमार्थपक्षं दूषयितुं

कोटित्रयमेव संभावितमित्याह - तथासतीति । अपरमाथर्त्वात् मूलदोषान्तरापेक्षयाऽनवस्थेति दूषणं कोटित्रयस्यापि साधारणम् । दृशित्वपक्षे अधिकं दूषणमस्तीति दर्शयति । न तावदिति । किमनवच्छिन्ना दृशिः, उतावच्छिन्ना ? दृशेरनवच्छिन्नत्वे किं स्वरूपातिरिक्ता, उत स्वरूपमेवेति विकल्पमभिप्रेत्य, अनवच्छिन्नपक्षे स्वरूपातिरिक्तपक्षं दूषयति - दृशिस्वरूपभेदानभ्युपगमादिति । अनवच्छिन्नदृशिद्वयानभ्युपगमादित्यर्थः । अनवच्छिन्नपक्षे स्वरूपदृ-शिपक्षं दूषयति - भ्रमेति । अवच्छिन्नदृशिदूषणत्वेन वक्ष्यमाणानवस्था अनवच्छिन्नपक्षेऽपि समाना; अत्राधिकदू-षणद्वयसद्भावात् सा नोक्ता । अवच्छिन्नदृशित्वेन द्रष्टृत्वेन दृश्यत्वेन चाभ्युपगमं दूषयति - द्रष्टृदृश्ययोरिति । काल्प-निकत्वेन - अपरमार्थत्वेनेत्यर्थः । दोषान्तरापेक्षाहेतुरिदं काल्पनिकत्वम् । अवच्छिन्नदृशिपक्षेऽपि स्वरूपतद्वयति-रिक्तविकल्पे स्वरूपपक्षेपि तुल्यमनभ्युपगमदूषणम्; ब्रह्मस्वरूपस्यावच्छिन्नत्वापारमार्थ्यानभ्युपगमात् । अतोऽव-च्छिन्नपक्षे न विकल्पितम्; स्वरूपातिरिक्तपक्षेऽनवस्थोक्ता । अथैतदिति । अपरमार्थत्वेऽनवस्था, परमार्थत्वे अद्वैत-हानिरित्येतद्दोषपरिजिहीर्षयेत्यर्थः । अनुभूतेरेव दोषत्वान्नाद्वैतहानिः, तस्याः पारमार्थ्यात् नानवस्थेति च भावः । एत-द्दूषयति - ब्रह्मैवेति । अपारमार्थ्याद्दोषान्तरसापेक्षत्वसाम्यमभिप्रेत्य प्रपञ्चतुल्यशब्द उक्तः । अतः - प्रतिशिरोऽभि-हितैर्दूषणैरित्यर्थः । अनिर्मोक्षप्रसङ्गपरिहाराय ब्रह्मव्यतिरिक्तत्वम्, अनवस्थापरिहाराय पामार्थिकत्वम् ।

परैरनवस्था त्रिधा परिहृता । जीवज्ञानवादिना बीजाङ्कुरन्यायात् प्रवाहानादित्वेन परिहृता; अविद्यया जीवः जीवादविद्येति हि तन्मतम् । ब्रह्मज्ञानवादिना स्वरूपानादित्वेन परिहृता । उभाभ्यां च दुर्घटत्वेन परिहृता - दुर्घट-त्वमविद्या भूषणम्, न तु दूषणमिति । परमार्थस्य ह्युपपत्त्यपेक्षा । प्रासादनिगरणादिष्वल्पास्येन विपुलप्रासादनिगर-णमनुपपन्नमिति युक्तिर्न प्रवर्तते । अत उपपत्तिनिरपेक्षत्वमपारमार्थ्यसाधकम् । दोषस्य स्वपरनिर्वाहकत्वेन दोषान्त-रनैरपेक्ष्याच्च नानवस्थेति ।

अत्रोच्यते-प्रवाहानादित्वं ब्रह्माज्ञानवादिनैव दत्तोत्तरम्, जीवनित्यत्वश्रुतिभिरकृताभ्यागमकृतविप्रणाशादिरूप-श्रुत्यर्थापत्त्या च आमोक्षाज्जीवस्य स्थायित्वमिष्टं हीयेतेति । अपारमार्थ्ये स्वरूपानादित्वमपि नानवस्थापरिहारः; तथासति माध्यमिकपक्षविजयप्रसङ्गात् । तत्र, "अधिष्ठानस्य भ्रान्तिसिद्धत्वे तस्याः भ्रान्तेरधिष्ठानान्तरापेक्षा स्यात्, तस्यापि भ्रान्तिसिद्धत्वे अनवस्था स्यात्" इत्यनवस्थया ह्यधिष्ठानपारमार्थ्यं साधितम् । माध्यमिकेनापरमार्थाधिष्ठा-नस्य स्वरूपानादित्वे स्वीकृते अनवस्था परिहृतेत्यधिष्ठानापारमार्थ्यमेव स्यात् । किञ्च स्वरूपानादित्वेऽपि मूलदो-षापेक्षाऽस्त्येव, जीवस्यानादित्वेऽप्यविद्यापरिकल्पितत्वस्य भवद्भिरङ्गीकृतत्वात् ।

दुर्घटत्वं चानुपपन्नम् । दुर्घटत्वं नाम उपपत्तिनिरपेक्षत्वम् । तत् अपारमार्थ्यसाधकं चेत् अपरमार्थस्य प्रपञ्चस्य दुर्घटत्वेनोपपत्तिनिरपेक्षत्वान्मूलदोषापेक्षा च न स्यात् । निवर्तकज्ञाने सत्यपि साऽवतिष्ठेत । विरोधान्न तिष्ठतीति चेत्; तर्ह्युपपत्त्यनुवर्तिन्वविद्या स्यादिति । परमार्थत्वप्रयुक्तोपपत्तिरपरमार्थत्वप्रयुक्तोपपत्तिरिति द्विविधा उपपत्तिः; तत्र दुघर्टत्वं नाम परमार्थत्वप्रयुक्तोपपत्तिनिरपेक्षत्वम्; अपरमार्थत्वप्रयुक्तोपपत्तिर्हि दोषानेक्षा; अतः प्रपञ्चस्य मूलदोष-परिकल्पनं युक्तमिति चेत्-तर्ह्यपरमार्थत्वप्रयुक्तोपपत्तिरूपदोषापेक्षा अपरमार्थभूतदोषस्यापि स्यात् । ततोऽनवस्था तदवस्थैव । दुर्घटत्वमनवस्थापरिहारश्चेत्-अधिष्ठानापारमार्थ्येप्यनवस्था परिहृता स्यात् । तत्रापारमार्थ्यप्रयुक्तोपपत्ति-रवर्जनीयेति अधिष्ठानापेक्षा स्यादेवेत्यनवस्थितिरिति वक्तव्यम् । तदत्र दोषेऽपि तुल्यमित्यनवस्था दुष्परिहरा । प्रवा-हानादित्वपक्षेऽप्यधिष्ठानापारमार्थ्येऽप्यनवस्था सुपरिहारा; पितृपुत्रादिपरम्परावदधिष्ठानपरम्परानादित्वाभ्युपगमात् ।

जीवाज्ञानवादिनं प्रति ब्रह्माज्ञानवादिना यत् दुर्घटत्वे दूषणमुक्तम्, तद् ब्रह्मज्ञानवादेपि तुल्यम् । यथा-अविद्याया दुर्घटत्वं चेत्-मुक्तान् परं ब्रह्म चाश्रयेदविद्या । शुद्धस्वरूपं ब्रह्म अशुद्धस्वरूपा अविद्या विरोधान्नाश्रयतीति चेत्-

तर्ह्युपपत्तिमती अविद्या । तस्मादुक्तान्योन्याश्रयणादिदूषणानि आपतेयुरिति ह्युक्तम् । तत् तवापि तुल्यम् । मोक्षेऽपि ब्रह्माश्रयेदविद्या । न हि बाधकज्ञाने सति अपरमार्थभूता अविद्या तिष्ठतीति चेत्-बाधकसंनिधौ न बाध्यसिद्धिरित्ये-वंरूपोपपत्तिमत्येवाविद्येति अस्मदुक्तानि अनवस्थादिदूषणान्यापतेयुरिति हि वक्तुं शक्यते ।

दोषस्य स्वपरनिर्वाहकत्वे अधिष्ठानमपि तथा स्यात् । परं प्रत्यधिष्ठानत्वे सिद्धे हि स्वनिर्वाहकत्वमिति चेत्-परं प्रति दोषत्वे सिद्धे हि स्वनिर्वाहकत्वम्, तदेव नास्तीति तुल्यं स्यात् । अधिष्ठानोरोप्ययोर्भेदो दृष्टः । तत्राधिष्ठनस्य स्वपरनिर्वाहकत्वे अधिष्ठानाध्यस्तयोरैक्यप्रसङ्ग इति चेत्-दोषतत्कायर्योरपि तिमिरचन्द्रद्वित्वयोर्भेदो दृष्टः । दोषस्य स्वपरनिर्वाहकत्वे दोषाध्यस्तयोरैक्यप्रसङ्ग इति तुल्यमिति । एतदभिप्रायेण यावद्ब्रह्मव्यतिरिक्तपारमार्थिकदोषान-भ्युपगमः, न तावद्भ्रान्तिरुपपादिता भवतीत्युक्तम् । यथोक्तमाचार्यपादैः-

"स्वरूपानादित्वस्वपरघटेन दुर्घटनता प्रवाहानादित्वं पुनरिति चसस्रो हि गतयः ।

असत्याविद्याया गदितुमनवस्थापरिहृतौ मतास्त्वेतास्तुल्याः स्फुटमसदधिष्ठानसरणौ ।।" इति ।।

अथानिर्वचनीयत्वानुपपत्तिमाह अनिर्वचनीयत्वञ्चेति । अनिर्वचनीयता - विद्वत्सन्निधौ दुरुपपादत्वम् । कथं प्रमाणशून्यत्वमित्यत्राह - एतदुक्तमिति । सर्वं सर्वप्रतीतेर्विषयः स्यादिति । सदसद्विलक्षणमिति या प्रतीतिः; तत्रापि सदसदेव विषयः स्यादित्यर्थः । प्रतीत्यनुगुणं हि नीलपीतादि व्यवस्थाप्यते । तस्मात् सदसदाकारायाः प्रतीतेः सदसदाकार एव विषयः, न सदसद्विलक्षणः । यथा ख्यातिविवेके, "न ह्यन्यत् अवभास्यम्, अन्यो विषयः; अवभा-सनव्यवस्थाप्यत्वाद्विषयस्य" इति । एकस्य विषयस्य सदसदाकारत्वमनुपपन्नम्, व्याप्तिविरोधादिति चेत्-सदसद्विल-क्षणत्वं च व्याप्तिविरोधादनुपपन्नम् । सतोऽसद्विलक्षणत्वमसतस्सद्विलक्षणत्वञ्च हि दृष्टम्, न त्वेकस्योभयवेलक्षण्यं दृष्टमिति व्याप्तिविरोधः । अयं विशेषः-सदसद्विलक्षणत्वं क्वचिदपि न दृष्टम्; सदसदात्मकत्वं दृष्टमिति । यथा संवि-त्सिद्धौ -

"नासूत प्रतीतेर्बाधाञ्च न सदित्यपि यन्न तत् । प्रतीतेरेव सत् किं न बाधान्नासत् कुतो जगत् ।।" इति । अर्थस्थितौ सत्त्वमसत्त्वं वा स्यात्; न तद्विलक्षणत्वम् । सतो घटादेः सदसद्विलक्षणत्वं दृष्टमिति चेत्-न; तथासति ब्रह्मणोऽपि सदसद्विलक्षणत्वप्रसङ्गात् । अन्यतरत्वसहं सदसद्विलक्षणत्वमिष्टमेवेति चेत्-तुल्यम् । ईदृशं सदसद्वैलक्षण्यं वदता, शब्दान्तरेण सत्त्वमेवाङ्गीकृतं भवति । अतस्त्वदभिमतं सदसद्विलक्षणत्वं विरोधादपास्तम् । अस्तीति प्रतिपन्नत्वं सत्त्वम्, नास्तीति धीविषयत्वं बाधितत्वमित्येकस्यैव सत्त्वासत्त्वविरोधः सदसद्विलक्षणत्वकल्पश्चेत्-सर्वत्र पूर्वपक्ष-सिद्धान्तप्रतीत्योः परस्परविरुद्धाकारविषयत्वादुभयाकारविलक्षण एवार्थः साध्यत इति सिद्धान्तसमर्थनवैयर्थ्यं स्यात् । ततश्च भेदः सुनिरूप इति पूर्वपक्षीकृत्य दुर्निरूप इति त्वया सिद्धान्तिते प्रतीतिद्वयविरोधात् सुनिरूपदुर्निरूपविलक्षणः स्यात् । एवं सवित्सत्यत्वमिथ्यात्वजडत्वाजडत्वनित्यत्वानित्यत्वादिवादेषु पूर्वपक्षसिद्धान्ताकारविलक्षणत्वं संविदः स्यात् । तच्चानभिमतम् । अतः परस्परविरुद्धाकारप्रतीत्योः प्रतिपन्नाकारवैलक्षण्यकल्पकत्वं व्याप्तिविरुद्धमिति न सद-सद्वेलक्षण्यसिद्धिः ।

तर्हि ख्यातिबाधान्यथानुपपत्तेः कः परिहार उक्त इति चेत्-अन्यथैवोपपत्तिरुक्ता भवति; सत्त्वे सति अन्यथाख्-यानादिभिस्तत्तद्वाद्यभिमतैरेव ख्यातिबाधोपपत्तेः । सतः कथं बाधः । अन्यत्र ख्यातत्वात् । नन्वन्यत्र सच्चेत्, न बाधः; न सच्चेत्, असत्ख्यातिप्रसङ्ग इति चेन्न-अन्यत्र सत्त्वात् । अन्यत्र सतोऽन्यत्र ख्यातत्वं ह्यन्यथाख्यातत्वम् । अन्यत्र सतोऽन्यत्र ख्यातिर्दोषवशात् । दोषस्यान्यत्र ख्यातिहेतुत्वं न दृष्टमिति चेत्-दोषस्यानिर्वचनीया(यतया)व-भासहेतुत्वं च न क्वचिद्विमतिपदादन्यत्र दृष्टमिति तुल्यम् । मिथो विरुद्धप्रतिपन्नाकारद्वयवैलक्षण्यमेकस्याविरुद्धमि-

त्येतत् तवाधिकम् । अख्यातिपक्षे सत्त्वे सति भेदाग्रहणे ख्यातिवाधोपपत्तिः । सत एवागृहीतभेदतया ख्यातिः । भेद-गअहश्च बाधः । बाध्यत्वं च प्रवृत्तेः । यथार्थख्यातिपक्षे तु शक्तिजनस्वप्नार्थादौ सत्त्वात् प्राचुर्याभावात् स्थिरत्वदे-कानुभाव्यत्वाग्रहाच्च ख्यातिबाधोपपत्तिः । पुरोवर्तिनि सत एव रजतस्य ख्यातिः । शुक्तिप्राचुर्यग्रहो बाधः । तेन प्रवृ-त्तिर्बाध्या । तद्बाधश्च प्रवृत्त्यनुपपत्तिः । अलातचक्रादौ तु अख्यातिपक्ष इव तदुपपत्तिः । अतोऽन्यथैवोपपत्तिः सिद्धे-त्यनिर्वचनीयत्वकल्पनमयुक्तम् ।

एवमाश्रयतिरोधानस्वरूपानिर्वचनीयत्वानुपपत्तय उक्ताः । अथ "न हि दृष्टेऽनुपपन्नं नाम" इति न्यायात् प्रमाणसि-द्धार्थस्य तर्केण बाधो न युक्त इत्यभिप्रायवता परेण प्रमाणप्रतिज्ञा शङ्कयते । अथ स्यादिति । पूर्वदूषिताकारान् साध-यितुमाह - वस्तुस्वरूपेति । अनेनतिरोधानमुक्तम् । आन्तरबाह्येति स्वरूपमुक्तम् । अध्यासोपादानत्वेन हि मिथ्या-त्वं फलितम् । सदसदिति अनिर्वचनीयत्वमुक्तम् । शास्त्रेष्वेतत्प्रतिपादकशब्दप्रत्यभिज्ञानार्थम् अविद्याज्ञानादिपद-वाच्यमित्युक्तम् । सिद्धान्तिना दूषयिष्यमाणमाकारान्तमपि साध्यत्वेनाह - वस्तुयाथात्म्यज्ञानेति । तदुपहितेति आश्रयश्च । आन्तराध्यासः कः, बाह्यः कः, कथं चाविद्योपादानत्वे ब्रह्मण उपादानत्वमित्यत्राह - तदुपहितेति । निष्कृष्टब्रह्मण उपादानत्वानुपपतिं्त सूचयति - अविकारे स्वप्रकाशचिन्मात्रवपुषि प्रत्यगात्मनीति । अविकारत्वात् स्वप्रकाशत्वात् प्रत्यक्तवाच्च विकारास्पदजडपराग्रूपपरिणामो नोपपद्यत इत्यर्थः । स्वप्रकाशस्य कथमध्याससंभव इत्यत्राह - तिरोहितस्वरूप इति । तिरोधायकं किमित्यत्राह - तेनैवेति । तेनैव-अध्यासहेतुनैवेत्यर्थः । अहङ्कारो-ऽज्ञानं चान्तराध्यासः, ज्ञेयं बाह्याध्यासः । अध्यासरूपे-अध्यस्तरूपे-कर्मणि घञ्-तस्यैव-दोषस्यैव अवस्थाविशे-षेण-कादाचित्कावस्थाविशेषेण रज्जुसर्पाद्यध्यासः (इत्यन्वयः?) । एवं निष्कृष्टब्रह्मण उपादानत्वानुपपत्तिरुक्ता । दोषस्योपादानत्वे उपपत्तिमाह - कृत्स्नस्येति । सुवर्णजातीयस्य भूषणस्य स्वर्णमेव ह्युपादानं दृष्टम्, तद्विति भावः । हेतुबलात्-कार्यकारणयोत्सजातीयत्वददशर्नलक्षणात् । अथ प्रत्यक्षमाह - कारणेति । अहमज्ञ इत्यस्य विवरणम् मामन्यं च न जानामीति । अहमज्ञ इत्यज्ञानस्वरूपकीतर्नम् । तस्य मामन्यं च न जानामीत्याच्छादनरूपकार्य-कथनम् । कारणशब्देन कार्यरूपाज्ञानव्यावृत्तिः । तस्मात् सौषुप्तिकमज्ञानं विवक्षितम् । जागरिताद्यवस्थायां घटा-द्यवच्छिन्नमज्ञानं प्रतीयते सविकल्पकप्रत्यक्षेण; सुषुप्तौ तु अनवच्छिन्नकारणाज्ञानप्रतीतिरिति तत्त्वशुद्धिकारादि-मिरुक्तम् । जागरितावस्थायामेवाज्ञानानुभवोऽयमिति संप्रदायः; अन्यं च न जानामीत्युक्तेः । न हि स्वापेऽन्य-परामर्शः । न जानामीत्याच्छादकतया प्रतीयमानस्याज्ञानस्य कारणत्वात् कारणाज्ञानविषयमित्युक्तम् । अपरो-क्षावभास इति परोक्षरूपानुमानादिप्रमाणव्यावृत्त्यर्थमुक्तम् । ज्ञानप्रागभावविषयत्वमाशङ्कय परिहरति - अयंत्विति । भवत्वयमपि षष्ठप्रमाणविषय इत्याशङ्कयाह - अयं त्विति । परोक्षप्रमाणानि प्रत्यक्षव्यतिरिक्तानि । तस्मात् परोक्ष-प्रमाणविषयः प्रागभावो नापरोक्षप्रमाणविषयभूतमज्ञानं भवितुमर्हतीत्यर्थः । भावग्राहिप्रमाणेनाभावस्य वेद्यत्वेऽपि दूषणमाह - अभावस्येति । हेतुमाह - अनुभवेति । अभावस्यानुभववेलायां ज्ञानं विद्यते, न वा ? विद्यते चेत्, ग्राह्याभावान्नाभावप्रतीतिः । न चेत्, ग्राहकाभावान्न तदभावप्रतीतिरित्यर्थः । भावाभावयोरेकविषयत्वे हि विरोधः । अत्र विरोधो नास्ति । अभावविषयकज्ञानस्य विद्यमानस्य ग्राहकत्वात् इतरविषयज्ञानस्याभावप्रतियोगित्वेनावि-द्यमानत्वादिति शङ्कां परिहरन्-अनुभववेलायां ज्ञानस्य विद्यमानत्वम्, अविद्यमानत्वे ज्ञानाभावप्रतीत्यनुपपत्तिम्, भावरूपत्वे विरोधाभावं च विवृणोति - एतदुक्तं भवतीति । ज्ञानप्रागभावस्य ग्राह्यत्वे अनिच्छयापि भावाभाव-योरेकविषयत्वमापतितमित्यभिप्रायेणाह - अहमिति । ज्ञानस्य चेति । ज्ञानशब्द आत्मविषयघटादिविषयज्ञानसा-धारणः । इह भूतले घटो नास्तीत्यादिषु अभावग्रहणे प्रतियोगिधर्मिणोर्ज्ञानापेक्षा दृष्टा । तस्मादत्राप्यभावधर्मितया

आत्मनो ज्ञानमस्तीति वक्तव्यम् । अभावव्यतिरिक्तो ह्यात्मा । अतः तद्विषयज्ञाने सत्यपि अभावव्यतिरिक्तविषय-ज्ञानमभावप्रतियोगीति वचनं व्याहतं स्यात् । अभावधर्मिप्रतियोगिरूपत्रितयव्यतिरिक्तविषयज्ञानमभावप्रतियोगीति चेत्-तदानीमभावप्रतियोगितया ज्ञानस्यापि प्रतीतिरस्तीति वक्तव्यम् । प्रतीयमानं ज्ञानं स्वविषयावच्छिन्नं प्रतीयत इति विषयाणामपि प्रतीतिरस्ति । एवमभावप्रतियोगिज्ञानावच्छेदकतया विषयेषु ज्ञायमानेषु तद्विषयज्ञानाभावोऽ-नुपपन्न इति भावः । अभावस्य प्रमाणान्तरविषयत्वेऽप्युक्तदूषणमतिदिशति - ज्ञानाभवस्येति । प्रमाणान्तराणां विद्यमानविषयत्वनियमाभावेऽपि विद्यमानतया दर्शयितुमशक्यमिति (?) भावः । अहमज्ञ इति वर्तमानतया ह्यज्ञानं प्रतीयते ! अस्मिन् पक्षे अधिकं दूषणान्तरं पूर्वमुक्तम् अपरोक्षस्य परोक्षरूपप्रमाणविषयत्वानुपपत्तिरूपमर्थसिद्धम् । भावरूपत्वे उक्तदूषणं नास्तीत्याह - अस्येति । धर्मिप्रतियोगिविषयज्ञानं धर्मिप्रतियोगिज्ञानम् । न तेन भावरूपा-ज्ञानस्य विरोधः, घटाच्छादकमज्ञानं घटज्ञानेन हि विरुध्यते, न तु घटज्ञानविषयज्ञानेन, धर्मिज्ञानेन चेत्यर्थः ।

वस्तुयाथात्म्यज्ञाननिवर्त्यमज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचैतन्येन विरुध्यत इति चोदयति - ननु चेति । परिहरति - मैवमिति । याथात्म्यशब्देन निष्कृष्टमद्वितीयत्वलक्षणं स्वरूपं विवक्षितम् । प्रपञ्चमिथ्यात्वसिद्धवत्कारेण हेतुमाह - अन्यथेति । अन्यथा-स्वसाक्षिस्वरूपप्रकाशमात्रस्यैव वस्तुयाथात्म्यविषयत्वे इत्यर्थः । (अज्ञानविषयत्वा-भावे इति वा) अज्ञानविषयत्वमस्तु; ततः किमित्यत्राह - नहीति । न हि रजतविषयज्ञानेन रजतं निवर्त्यमित्यर्थः । दृश्यविशेषणस्य रूपादेरपि दृश्यत्वं दृष्टम् । दृश्याज्ञानावच्छेदकस्यास्मदर्थस्य दृश्यत्वानभ्युपगमात् अस्मदर्थावच्छि-न्नमज्ञानं न विषयीक्रियत इत्यभिप्रायेण पुनश्चोदयति - ननु चेदमिति । विषयविशेषः-अवच्छेदकविशेषः । स इति स एव परामृश्यते । परिहरति - नैष दोष इति । अस्मदर्थोऽपि सर्वशब्दवाच्यान्तर्भूतः । ज्ञाततया अज्ञाततया वा-ज्ञानान्तरसापेक्षं तन्निरपेक्षं वा । साक्षिचैतन्यस्य विषयभूतम्-साक्षिचैतन्येन प्रतिभातीत्यर्थः । अस्मदर्थस्य साक्षि-चैतन्यविषयत्वमौपचारिकम्; स्वयम्प्रकाशस्य स्वस्य विषयत्वायोगात् । जडस्य स्वयम्प्रकाशत्वायोगात् प्रमाणा-धीनसिद्धि सत् (तत्?) दृश्यविशेषणं भवति । अस्मदर्थस्तु स्वयम्प्रकाशतया स्वयमेव सिध्यन् अज्ञानावच्छेदक इत्यर्थः । दृश्यावच्छेदकत्वाद्दृश्यमिति चोद्यम्; तत् जडत्वप्रयुक्तमिति सोपाधिकमिति परिहारः । तस्मात् अभाव-रूपत्वपक्षे उक्तविरोधात्, भावरूपत्वपक्षे तदभावाच्चेत्यर्थः । न्यायोपबृंहितेनेति । पक्षद्वयेऽपि विरोधतदभावरूप-न्यायानुगृहीतेनेत्यर्थः । एवं प्रत्यक्षेण न्यायानुगृहीतेनाज्ञानस्य भावरूपत्वम्, न जनामीत्यनेनात्माश्रयत्वं च सिद्धम् । शास्त्रेष्वज्ञानशब्दवाच्यतया पराभिमतकर्मव्यावृत्तिः प्रत्यक्षतया सिद्धा । अस्य च शास्त्रेष्वज्ञानादिशब्दवाच्यत्वं ज्ञान-विरोधित्वात्, अहमज्ञ इति प्रतिपन्नतया च सिद्धम् ।

अथ स्वविषयावरणत्वस्वनिवर्त्यत्वाभ्यां सह उपपादिताकारविशिष्टं चाज्ञानमनुमानेनापि साध्यते विवादाध्या-सितमित्यादिना । ज्ञानमित्युक्ते ब्रह्मस्वरूपस्य वस्त्वन्तरपूर्वकत्वासंभवात् तद्य्वावृत्त्यर्थं प्रमाणज्ञानमित्युक्तम् । तथाऽपि धारावाहिकज्ञाने उत्तरोत्तरविज्ञानानां सिषाधयिषितवस्त्वन्तरपूवर्कत्वाभावात् तद्व्यावृत्त्यर्थं विवादाध्या-सितमित्युक्तम् । तज्ज्ञानं किमित्यपेक्षायां व्यक्त्यर्थं प्रमाणज्ञानमित्युक्तम् । अवं (एवं?) धर्मी दर्शितः । अथ साध्यधर्ममाह - स्वप्रागभावेत्यादिना । वस्त्वन्तरपूर्वकमित्युक्ते घटादिस्वविषयपूर्वकत्वेन सिद्धसाधनं स्यादिति तद्व्यावृत्त्यर्थमाह - स्वदेशगतेति । स्वाश्रयगतेत्युक्ते दृष्टान्तस्य साध्यवैकल्यं स्यात् । न हि तमो दीपगतम् । अतः स्वदेशगतेत्युक्तिः । धर्माधर्मव्यावृत्त्यर्थमाह - स्वनिवर्त्येति । ननु कथं स्वनिवत्यर्शब्देन धर्माधर्मव्यावृत्तिः ? ज्ञानो-त्पत्तिहेतुभूतमदृष्टं ज्ञानोत्पत्त्या हि नश्यति । मैवम्; सर्वेषां धर्माधर्माणां ज्ञानफलकत्वाभावात् ज्ञानोत्पादकव्यति-रिक्तधर्मादीनां पूवर्क्षणे स्वदेशे विद्यमानत्वाच्च । यद्वा स्वनिवर्त्यपदेन संस्कारव्यावृत्तिः; न हि संस्कारो ज्ञानेन

निवर्त्यः । भयादिव्यावृत्त्यर्थमाह - स्वविषयावरणेति । प्रागभावस्यैवंविधत्वात् तद्य्वावृत्त्यर्थमाह - स्वप्रागभाव-व्यतिरिक्तेति । इयं प्रतिलोमव्यावृत्तिः । वस्त्वन्तरपूर्वकमित्युक्ते अभावस्यापि पदार्थत्वेन वस्तुशब्दवाच्यत्वात् तद्य्वावृत्त्यर्थमाह - स्वप्रागभावव्यतिरिक्तेति । घटादिस्वविषयव्यावृत्त्यर्थमाह - स्वविषयावरणेति । कुड्यादिव्या-वृत्त्यर्थमाह - स्वनिवर्त्येति । वेद्यगतवित्त्यभिव्यक्तिप्रागभावादव्यावृत्त्यर्थमाह - स्वदेशगतेति । प्रमाणज्ञानेनाज्ञाने निरस्ते वेद्यगतचेतन्यमभिव्यक्तं भवतीति हि तत्परिपाटी । अभिव्यक्तिप्रागभावस्य विषयावरणत्वं प्रकाशविरोधि-त्वम्; न तु तत्प्रतिबन्धकत्वम् । इत्यनुलोमव्यावृत्तिः ।

हेतुमाह - अप्रकाशितेति । साक्षाद्वा परम्परया वा अवाध्यव्यवहारानुगुण्यहेतुत्वं प्रकाशकत्वमिह विवक्षितम् । साक्षाद्वा परम्परया वेत्युक्ते हि दीपप्रभायां ज्ञाने च हेत्वनुगमसिद्धिः । इदं रजतमिति ज्ञानेऽतिव्याप्तिपरिहाराय अबा-ध्यव्यवहारानुगुण्यहेतुत्वमित्युक्तम् । प्रकाशकत्वादित्युक्ते धारावाहिकज्ञाने उत्तरोत्तरज्ञानानां प्रकाशकत्वेऽपि सि-षाधयिषितधर्माभावात् हेतोरनैकान्तिकत्वं स्यादिति तद्य्वावृत्त्यर्थमाह - अप्रकाशितार्थप्रकाशकत्वादिति । इन्द्रिये-ष्वनैकान्तिकत्वव्यावृत्त्यर्थं भासमानत्वे सतीति हेतुर्विशेष्यत इति मन्तव्यम् । दृष्टान्तमाह - अन्धकार इति । प्रदीप्र-भावदित्युक्ते उत्तरोत्तरप्रमाणामप्रकाशितार्थप्रकाशकत्वाभावात् साधनविकलता स्यात्, स्वनिवर्त्यवस्त्वन्तरपूर्वक-त्वाभावात् साध्यविकलता च स्यात् इति तद्व्युदासार्थं प्रथमोत्पन्नप्रदीपप्रभावदित्युक्तम् । तथापि दिवा दीपप्रभा-यास्तथाविधत्वादर्शनात् तद्य्वावृत्त्यर्थमन्धकार इत्युक्तम् ।

दृष्टान्तस्य साध्यविकलतामाशङ्कय परिहरति - आलोकेत्यादिना । आलोके सति उलूकादीनामन्धकारसंभवा-दनुयायिनमाकारमाह - रूपदर्शनाभावमात्रं वेति । यद्वा निमीलिताक्षस्य तमःप्रतिप्रतिनिर्वाहार्थमाह -रूपदर्शनेति । अत्र नैयायिकादिभिरुक्तं दूषणमनुसंधते-तत्र उत्पादकज्ञापकानुपपत्त्या द्रव्यान्तरत्वं दूषितम् । रूपवत्त्वेऽपि परमाणू-नामेव अनुत्पाद्यत्वम् । तमसस्तु रूपवत्त्वाद्बृहच्चोत्पाद्यत्वं स्यात् । तत्र रूपवत्त्वात् तद्रहितानि वाय्वाकाशादीनि नोत्पादकानि भवन्ति । स्पर्शरसगन्धविरहात्नान्यान्यपि द्रव्याणि । कारणगुणप्रक्रमेण हि कार्ये वैशेषिकगुणारम्भः । इयमुत्त्पत्त्यनुपपत्तिः । आलोकाननुगृहीतत्वात् चक्षुर्न ग्राहकम् । आलोकसंनिधौ अनवस्थानान्नास्य ग्राह्यत्वम् । रूपवत्त्वप्रतीतिस्तु भ्रान्तिरेव, निमीलने नीलप्रतिभासवदिति ज्ञप्त्यनुपपत्तिः । अत्र परिहारो वार्त्तिककारैरुक्तः, "तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्य(धर्म)वैधर्म्यान्नवभ्यो भेत्तुमर्हति" इति । स एवोत्रोच्यते । तत्र परापरशब्दार्थो बहुलत्वविरलत्वशब्देनोक्तः आदिशब्देन चलत्वम्; रूपवत्तयेति नीलशब्दार्थ उक्तः; द्रव्यान्तर-शब्देन दशमद्रव्यत्वमुक्तम् । नवद्रव्यस्वीकारो हि तेषां पृथिव्यादीनां द्रव्याणामन्योन्यवैधर्म्यात् स्वी(?)क्रियते । अन्यथा पृथिव्येव द्रव्यं नान्यत् गन्धवत्त्वाभावादिति वक्तुं शक्यते । एवं द्वे द्रव्ये इत्यादि । तच्चानभिमतम्; द्रव्याणां परस्परवैधर्म्यात्-एवं नवद्रव्यवैधर्म्यात् दशममङ्गीकायर्मिति वार्त्तिकार्थः । निमीलने नीलप्रतिमानं बाधितविषयम्; इदं त्वबाधितत्वान्न तथा भवितुमर्हति । तथापि रूपोपलब्धिवेलायामनुपलब्धेर्निमीलनवदपि संभवतीति शङ्कितं प्रत्यक्ष-मिति चेत्-न; उलूकादीनामस्मदादिरूपोपलब्धिवेलायां रूपानुपलब्धौ तद्रूपोपलब्धेरपि शङ्कितत्वापातात्; उलूका-दिरूपोपलब्धिवेलायामस्मदादेः रूपानुपलब्ध्या अस्मदादिरूपोपलब्धेरपि शङ्कितत्वप्रसङ्गात् । आगमस्वारस्याच्च शङ्काया निरस्तत्वात् तमसो दशमद्रव्यत्वमवसीयते-"तमः ससर्ज भगवान्", "नाहो न रात्रिर्न नभो न भूमिर्नासीत् तमो ज्योतिरभून्न चान्यत्", "यस्य तेजः शरीरम्", "यस्य तमः शरीरम्" इति सृज्यत्वसंहार्यत्वशरीरत्वादीनि हि श्रूयन्ते । आलोकनैरपेक्ष्यं यथा ज्ञातृविशेषप्रयुक्त दृश्यते तथा ज्ञेयविशेषप्रयुक्तमप्युपपद्यते । कार्यं हि यथा लोके प्रतीतं तथा कारणकल्पनायां प्रमाणम्; न पुनः स्फुटावधारितं कार्यं कारणनिरूपणायापह्नवमर्हतीति न्यायादबाधितप्रतीति-

सिद्धस्य तमस उत्पादकं कल्प्यमिति नोत्पादकानुपपत्तिर्ज्ञापकानुपपत्तिर्वा । यथा (आहुरस्मादाचार्याः ?)

"तमो नाम द्रव्यं बहुविरलं मेचकचलं प्रतीमः(तं) केनापि क्वचिदपि न बाधश्च ददृशे ।

अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते निरालोकं चक्षुः प्रथयति हि तत् दर्शनवशात् ।।"

तमो द्रव्यमित्येव भाष्यकारमतम्; सिद्धान्ते तस्यादूषितत्वात्; सृज्यत्वसंहार्यत्वशरीरत्वश्रवणाच्च । स्वच्छद्रव्यत्वा-दाकाशकार्यं तमः । रूपवत्त्वं पञ्चीकरणादुपपद्यते । यद्वा तेजः कार्यं तमः; रूपवत्त्वात्; स्पर्शानुलम्भः स्वच्छद्रव्य-त्वादिति ।

इति निरवद्यमिति । प्रमाणसिद्धत्वेन तर्कबाधानुपपत्त्या निरवद्यमित्यर्थः ।।

अथ सिद्धान्तं वक्तुमुपक्रमते अत्रोच्यत इति । केवलेन च प्रत्यक्षेणेति दृष्टान्ततयोक्तम् । उपपत्तिदूषणे कृते केव-लप्रत्यक्षं न साधकमित्यर्थः । उपपत्तिर्हि ज्ञानप्रागभावविषयत्वे विरोधः; स भावरूपत्वेऽपि तुल्य इत्याह - यस्त्विति तुल्यत्वमुपपादयति - विषयत्वेनेति । प्रतिपन्नशब्देन भासनमुच्यते । तत्स्वरूपज्ञाननिवर्त्यमिति । स्वरूपज्ञानम्-स्वरूपावभासः । स्वतो वा प्रमाणान्तरेण वा स्वरूपावभासनिवर्त्यमित्यर्थः । इदं रजतमित्यत्र इदं शुक्लभास्वरमित्ये-वंरूपप्रमाणज्ञानशते जातेऽपि भ्रमानिवृत्तिदर्शनात् प्रमाणज्ञानत्वमप्रयोजकमिति सिद्धवत्कारेण तत्स्वरूपज्ञाननि-वर्त्यमित्युक्तम् । व्यावर्तकाश्रयविषयज्ञानशून्यम्-आश्रयतया विषयतया च व्यावर्तकः प्रत्यगर्थः; तदवभासशून्यम् । विषयत्वेनेत्यादिना भाष्येण स्वात्मविषयाज्ञानप्रतिपत्तौ विरोधतुल्यत्वं दर्शितम् । घटादिविषयाज्ञानप्रतीतावपि अज्ञानस्य विषयत्वेन व्यावर्तकतया घटः प्रतिपन्नः, न वा । प्रतिपन्नश्चेत्, घटस्वरूपज्ञाननिवर्त्यं घटाज्ञानं तस्मिन् घटे प्रतिपन्ने कथमिव तिष्ठिति; घटोऽप्रतिपन्नश्चेत्, व्यावर्तकविषयज्ञानशून्यमज्ञानं कथमनुभूयेतेत्यर्थसिद्धौ विरोधो द्रष्टव्यः ।

एवं परेण भावाभावयोर्विरोधे दर्शिते तत्प्रतिबन्दीत्वेन निवर्त्यनिवर्तकविरोध उक्तः । अथ विशदाविशदविभागा-दविरोधं शङ्कते अथेति । प्रत्यगर्थस्य प्रमाणज्ञानेनावभासो विशदावभासः; स स्वपक्षेऽपि तुल्य इत्याह - हन्त तर्हीति । विशदस्वरूपमवच्छेदकं यस्य स विशदस्वरूपविषयः । विशदस्वरूपस्य प्रागभावावच्छेदकत्वं स्वविषय-ज्ञानद्वारा । ज्ञानप्रागभावोऽपि विशदस्वरूपज्ञानावच्छिन्न इत्यर्थः । ज्ञानस्य चाभावावच्छेदकत्वं प्रतियोगितया । विशदस्वरूपज्ञानं प्रागभावप्रतियोगीति यावत् । अविरोधसिद्धये विद्यमानज्ञानस्य ततोऽर्थान्तरमाह - आश्रयेति । आनयप्रतियोगिनोज्र्ञानमाश्रयप्रतियोगिज्ञानम् । अविशदस्वरूपविषयमिति । आश्रयमानस्याविशदस्वरूपविष-यत्वम् अविशदप्रत्यगर्थविषयत्वम् । प्रतियोगिज्ञानस्याविशदस्वरूपविषयत्वम् अभावप्रतियोगिभूताविशदज्ञानवि-षयत्वम् । स्व(स)विषयं निवर्तकज्ञानम् अभावप्रतियोगित्वेनेदानीं ज्ञानमवलम्बते । तत्र निवर्तकज्ञानविषयस्य प्रत्य-गर्थस्येदानीमविशदत्वाद् निवतर्कज्ञानस्येदानीमविद्यमानत्वाच्च प्रतियोगिनो ज्ञानस्याविशदत्वम् । विद्यमानं हि साश्रयं ज्ञानमपरोक्षावभासरूपम् । अतस्तस्याविशदत्वमविद्यमानतया भवति । एवमाश्रयतया भासमानं स्वरूपमवि-शदम्, प्रतियोगितया स्मर्यमाणं ज्ञानमिदानीमविशदविषयत्वादविद्यमानत्वाच्च अविशदमिति तदुभयविषयं ज्ञानम-विशदस्वरूपविषयम् । तच्च विद्यते । विशदज्ञानं त्वविद्यमानमभावप्रतियोगीति न विरोध इत्यर्थः । अयमर्थः-अज्ञा-ननिवर्तकाभिमतप्रमाणज्ञानाभावस्तावत् त्वयाऽभ्युपगन्तव्यः; अन्यथा प्रमाणज्ञाननिवर्त्याज्ञानानुभवासंभवात् । ततश्च त्वदभ्युपगतः प्रमाणज्ञानाभाव एव अहमज्ञ इति प्रतिपत्तेर्विषयो भवितुमर्हतीति नाभावग्रहणानुपपत्त्या भाव-रूपत्वं कल्प्यमिति । पूर्वपक्षोक्तविरोधः कथं परिहृतो भवतीति चेत्-इत्थम् । तत्र हि यदर्थावच्छिन्नं ज्ञानमभावप्र-तियोगितयोच्यते, अभावप्रतियोगिज्ञानावच्छेदकतदर्थप्रतिपत्तौ सत्यां तज्ज्ञानाभावोऽनुपपन्न इति हि विरोधः ।

तत्रायं परिहारः-अभावप्रतियोगिज्ञानं स्मृत्यारूढं प्रतिषिध्यते । यथा घटसाक्षात्कारो नास्तीति निषेधे घटसाक्षात्कारः स्मर्यते । स्मर्यमाणस्य स्मृतिसमकालवर्त्तित्वनियमाभावान्निषेधवेलायां स्मर्यमाणस्य नाभावप्रतियोगित्वविरोधः । त्वया च स्मृत्यारूढस्य निवर्तकज्ञानस्य स्मृतिसमकालवर्तित्वाभावादज्ञानावच्छेदकतया प्रतिपत्तावपि स्मृत्यारूढ-निवर्तकज्ञानं नाज्ञानविरोधीति वक्तव्यम्; तस्मादात्मविषयं घटादिविषयकञ्च प्रमाणज्ञानं स्वविषयेणात्मना घटा-दिभिश्च सह स्मृत्यारूढमविशदतया प्रतिपन्नमभावप्रतियोगि भवतीत्युपपन्नतरमिति । अनुभूतस्य हि स्मरणसंभवः, प्रमाणज्ञानं केनानुभूतमिति चेत्-भवतो वा निवर्तकज्ञानं केनानुभूतम् । आगमादिति चेत्-अस्माकमप्यात्मसाक्षा-त्कारस्तद्विधायकवाक्यावगतः । घटादिसाक्षात्कारस्तु प्रत्यक्षादिषु येन केनाप्यनुभूतः । मेरुसाक्षात्कारः कथं निषि-ध्यते ? स हि न केनापि मानेन पूर्वमनुभूतः । उच्यते । इहादृष्टचर(ष्टचत्वर)द्विरदेन पुरुषेण कथमिह चत्वरे गजो (चत्वरगजो ?) नास्तीत्युच्यते । संसर्गाननुभवेपि संसर्गिणोरनुभवमात्रेणान्यत्रान्यतरनिषेध उपपद्यत इति चेत्-एवं तर्हि सुमेरुसाक्षात्कारसंसर्गाननुभवेऽपि मेरुसाक्षात्कारयोः केनाप्यवगमात् तत्संसर्गनिषेध उपपद्यते । प्रमाणज्ञाना-नामभावप्रतियोगित्वादभावस्य तदानीं ग्राहकं नास्तीति यदुक्तम्-तत् सर्वप्रमाणज्ञानाभावानां युगपदनुभवासंभवात् कतिपयमानज्ञानाभावस्य मानान्तरेण ग्रहणोपपत्तेश्च परिहृतम् । एवं भावरूपपक्षे विरोधपरिहारसाम्यं दर्शितम् ।

ननु विरोधसाम्यं वक्तुमशक्यम् । अज्ञानस्य नञर्थप्रतियोग्यवच्छिन्नतयैवावगन्तव्यत्वे सति हि नञर्थप्रतियोगि-नस्तस्य ज्ञानस्य स्वविषयाश्रयभूतप्रत्यगार्थावच्छिन्नत्वेन भातत्वात् विषयाश्रयभूतप्रत्यगर्थज्ञाने सति तन्निवर्त्याज्ञा-नस्थितिविरोधः । न हि भावरूपस्याज्ञानत्य ज्ञानप्रतिपत्त्यपेक्षा; स्वरूपेणैव प्रतिपत्तिसंभवात् न हि भावरूपस्य घटस्य आनयप्रतियोगिज्ञानसापेक्षत्वं दृष्टम्-इत्यत्राह भावरूपस्येति । कथं सापेक्षत्वमित्यत्राह - यद्यपीति । भाव-रूपमज्ञानमपि स्वरूपेण सिध्यतीत्यत्राह - भवदभिमतेति । मुग्धोऽस्मि, मूढोऽस्मीति स्वरूपेण सिद्धिरिति चेन्न; कस्यचित्पुरुषस्य कस्मिंश्चिद्विषये हि मोहः । "स विमलमतिरेति नात्ममोहम्", "दिङ्मोहालातचक्रादिभ्रान्तयश्च कथं पुनः" इत्यादिषु विषयाश्रयावच्छिन्नत्वेन हि मोह उपलभ्यते । मुग्धोऽस्मीत्यनेनाश्रयावच्छिन्नत्वं प्रतीयते । विषयो-ऽप्यर्थवशात् सिद्धः । इदं दूषणं "संवित् सिध्यति वा न वा" इत्यत्रोक्तया दिशा फलितम् । ततश्च स्वात्मविषयमज्ञानं विषयाश्रयभूतप्रत्यगर्थप्रतिपत्तिसद्भावहतम् । घटाद्यज्ञानं तु विषयभूतघटाद्यवगमविरुद्धम् । मायाशब्दादिभिरज्ञानप्र-तिपत्तौ विषयाश्रयापेक्षा नेति चेन्न, मायादिशब्दानामपि व्युत्पत्तिनैरपेक्ष्येण बोधकत्वसंभवादज्ञानादिपदपर्यायत्वेन च व्युत्पन्नत्वात् स्वरूपेण सिद्धिर्दुर्वचा-इत्यभिप्रायेण न कदाचित्स्वरूपेण सिध्यतीत्युक्तम् । ननु स्वरूपावच्छिन्ना-ज्ञानप्रतीतौ नञर्थप्रतियोगिज्ञानावच्छिन्नतया सिद्धावपि न निवर्त्यनिवर्तकविरोधः; स्वरूपभूतज्ञानादन्यतया तत्सिद्धेः स्वरूपज्ञानं हि नाविद्यानिवर्तकम्, किंतु प्रमाणज्ञानमेव; अतो न विरोध इति । नैवम्; मामन्यं च न जानामीति विषयाश्रयसंबन्धिज्ञानावच्छिन्नतया प्रतीतेः । न हि स्वरूपभूतज्ञानं साश्रयं सविषयं च तव मतम् । स्वरूपं किम् आश्रयतयैवाज्ञानस्यावच्छेदकम्, उत विषयतयापि ? आद्ये, न त्वदभिमतसिद्धिः । तदानीं प्रत्यगर्थस्य स्वस्मादन्येन केनापि विशिष्टत्वमेव हि सिध्यति । विषयतयाऽवच्छेदकत्वे प्रत्यगर्थस्याज्ञानमावरणं स्यात् । आवरणत्वं च तद्विषय-कज्ञानप्रतिबन्धकत्वम् । अतस्तद्विषयप्रमाणज्ञानप्रतीत्यवश्यम्भावादुक्तिविरोधोऽनतिवृत्तः । अतः स्वरूपभूतज्ञेना-वच्छिन्नप्रतीत्यभ्युपगमोऽनुपपन्नः ।

उभयत्र साधनदूषणयोस्तुल्यत्वाद्भावरूपमज्ञानं पहिगृह्यतामित्याशङ्कय लाघवन्यायेन परिहरति - ज्ञानप्रागभा-वस्त्विति । अभ्युपगम्यते । अहमज्ञ इति प्रतिपन्नस्य अभावरूपत्वे हि विप्रतिपत्तिः; न त्वभावानभ्युपगमः । अन्यथा प्रमाणज्ञानस्य प्रागभावाभावादनादित्वेन तन्निरसनीयभावरूपाज्ञानानुदयप्रसङ्गात् । अतो ज्ञानाभावस्त्व-

याऽभ्युपगत इत्यर्थः । प्रतीयते च । लोके तत्तज्ज्ञानाभावविवक्षया ज्ञानं नास्तीति व्यवहारदर्शनात् अप्रतिपन्ने च विवक्षानुपपत्तेः ज्ञानाभावप्रतीतिरस्त्येवेत्यर्थः । अतः संप्रतिपन्नेन ज्ञानाभावेनैव अहमज्ञ इति प्रतीत्युपपत्तेरतिरिक्त-कल्पने हेत्वभावाल्लाघवेन स एव अहमज्ञ इति प्रतीतेर्विषयतयाऽभ्युपगन्तव्य इत्यर्थः । ननु उभयाभ्युपगतोऽभावो नाम कश्चिन्नास्ति । भावान्तरमभावः स्वमते; परमते तु भावातिरिक्तः । तत् कथमुभयाभ्युपगतेन अहमज्ञ इति प्रतीत्युप-पत्तिः । उच्यते । न ह्युभयाभ्युपगत इत्युक्तम्; किन्तु भवताऽभ्युपगम्यत इत्युक्तम् । अभावशब्दवाच्यत्वेन कश्चिदर्थ उभाभ्यामभ्युपगतः । स च भावरूपस्तदतिरिक्त इति इयदेव विमतम् । अत्र भावत्वेन यः स्वाभिमतः यश्च तदतिरि-क्तत्वेन अभावशब्दवाच्यतया पराभिमतः, तयोरन्यतरेणाहमज्ञ इति प्रतीत्युपपत्तेस्तदुभयातिरिक्तार्थकल्पनमनुपपन्न-मित्युक्तं भवतीति न विरोधः । ननु भावान्तरभावमिच्छता त्वया ज्ञानप्रागभावशब्देन भावरूपाज्ञानमङ्गीकृतं स्यात् । मैवम्; सिद्धान्तद्वयानभिज्ञानकृतं हीदं चोद्यम् । स्वयंप्रकाशस्यैव ज्ञानस्य सङ्कोचरूपमवस्थान्तरं प्रागभावशब्दवा-च्यतयाऽस्मदभिमतम्; स्वप्रकाशज्ञानव्यतिरेकेण भावरूपमज्ञानं पराभिमतम्; अतस्तयोः कथमैक्यम् । तर्हि ज्ञान-सङ्कोचरूपावस्थां परित्यज्याज्ञानशब्दवाच्यत्वेन परोक्तं भावरूपमज्ञानं स्वीक्रियताम्, भावरूपत्वाविशेषादिति चेत्-प्रामाणिकं परित्यज्य अप्रामाणिकं स्वीक्रियतामितीदमनुपपन्नम् । "न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते", "सर्वं ह पश्यः पश्यति", "तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल; तारतम्येन वर्तते", "अप्राणिमत्सु स्वल्पा सा" इत्यारभ्य-"हिरण्यगर्भोऽतितरां पुंसः शक्तयुपलक्षितः" इति श्रुतिस्मृतिसिद्धत्वात् ज्ञाननित्वत्वं तत्सङ्को-चादिकञ्च प्रामाणिकं कथं त्यत्येत ? भावरूपाज्ञानं तु कल्प्यम् । कल्पकं चान्यथासिद्धमिति तदप्रामाणिकं कथं स्वीक्रियते । कल्पनायां हि लाघवन्यायश्च प्रवर्तते, न तु प्रमाणप्रतिपन्नेऽर्थे । अतोऽहमज्ञ इति ज्ञानप्रागभाव एव प्रतीयते ।

एवमहमज्ञ इति प्रत्यक्षस्य भावरूपाज्ञानविषयत्वे भावरूपपक्षोपपत्ति-अभावरूपपक्षानुपपत्तिरूपानुकूलतर्काभाव उक्तः; अथ प्रतिकूलतर्कपराहतिरुच्यते नित्येति । नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्येति पदं हेतुगर्भम् । नित्य-मुक्तत्वम् परमार्थतो दोषासंस्पृष्टत्वम् । अतः परमार्थदोषो न संभवति । स्वानुभवस्वरूपत्वादपरमार्थपरानुभवो न संभवतीत्यर्थः । अन्यानुभवरूपप्रदेशभेदाभावाच्चेति एकशब्दाभिप्रायः । एकशब्देन ज्ञेयत्वाभावश्च विवक्षितः । अभि-प्रेतं हेतुगर्भत्वं विवृणोति - स्वानूभवस्वरूपत्वादिति । अविद्यानिवृत्तिदशायामनुवर्तमानम् अविद्यावभासप्रत्यनीकं स्वानुभवैकस्वभावत्वं हेतुतया विवक्षितम्; न तु भ्रमवेलायामपि विद्यमानं स्वयंप्रकाशत्वमात्रम्; अतः स्वानुभवैक-स्वभावत्वस्य प्रागपि विद्यमानत्वादित्यर्थः । स्वानुभवस्वरूपस्यापि तिरोधानादज्ञानानुभवः संभवतीति शङ्कते स्वा-नुभवेति । अभिप्रेतं विवरीतुं तिरोधानशब्दस्यार्थान्तरं नास्तीति ज्ञापनार्थं प्रश्नपूर्वकं तिरोधानशब्दार्थमाह - किमिदं तिरोहितस्वरूपत्वम् ? अप्रमाशितस्वरूपत्वमिति चेदिति । स्वानुभवस्वरूपस्याप्रकाशितत्वं व्याहतमिति बुद्धया दूषयति स्वानुभवेति । अन्यतोऽप्रकाशितस्वरूपत्वे पूर्वोक्तदूषणमतिदिशति एवं तर्हीति । दूषणान्तरमाह - किञ्चेति अपरमार्थत्वान्न सत्तया तिरस्कारकम्, अपि तु प्रतीयमानतया तिरस्कारकमिति अनुभवपूर्वकस्तिरस्कारः; तिरस्का-रपूर्वकोऽनुभवः अतिरस्कृत्य स्वानुभवस्वरूपस्य ब्रह्मणोऽज्ञानानुभवासंभवात् इत्यन्योन्याश्रयणमित्यर्थः । एतत्परि-जिहीर्षया अनुभवपूर्वकं तिरस्कारं शङ्कते - अनुभूतमेवेति । तत्र दूषणमाह - यदीति । अतिरोहितस्याप्यज्ञानानु-भवसंमवात् तदर्थतिरोधानकल्पना तदर्थमाच्छादकाविद्याकल्पना च निष्फलेत्यर्थः । तदुपपादयति - ब्रह्मण इति । यथा अतिरोहितस्वरूपस्यापि अपरमार्थभूताज्ञानानुभवसंभवः, तथा अपरमार्थभूतप्रपञ्चानुभवोऽप्यतिरोहितस्य संभवतीति तदर्था तिरोधानकल्पना तदर्थाच्छादकाविद्याकल्पना च निष्फलेत्यर्थः । अनुभवपूर्वकतिरस्कारपक्ष एव

विकल्पमुखेन दूषणमाह - किञ्चेति । स्वतःपक्षे दूषणद्वयम् अनिर्मोक्षो ब्रह्मस्वरूपनिवृत्तिश्च । रजतानुभवस्यापी-त्यपिशब्देन रजतस्य च निवृत्तिः सूचिता । अन्यतःपक्षेऽनवस्था । तिरस्कारपूर्वकानुभवपक्षं शङ्कते ब्रह्मेति । तिर-स्कृत्यानुभवविषय इत्युक्ते सत्तया तिरस्कारकमित्युक्तं स्यात्, न तु प्रतीयमानतया । तदानीं काचादिवत् परमार्थत्वेन ज्ञाननिबर्त्यत्वं न सिध्यतीत्यर्थः । अथ तिरस्कारानुभवयोर्यौगपद्यं शङ्कते - अथेदमिति । नैतदित्यादिना दूषयति । स्वानुभवस्वरूपस्येति हेतुगर्भविशेषणम् । स्वानुभवस्वरूपत्वं स्वाभाविकमिति परानुभवो हेतुना विना नोपपद्यत इत्यर्थः । हेत्वन्तरेण तिरस्कृतिमाशङ्कय दूषयति - हेत्विति । यौगपद्यपक्षे पूर्वोक्तपक्षद्वयदूषणमप्यापततीत्यभिप्रा-येणाह - अनवस्था च पूर्वोक्तेति । ज्ञानानिवर्त्यत्वदूषणस्याप्युपलक्षणमियनवस्था; अनन्तरपूर्वोक्तेः । स्वरूपतिर-स्कृतिमन्तरेण साक्षित्वापादनेऽनिष्टमाह -अतिरस्कृतेति । पूर्वं विशदाविशदावभासमभ्युपगम्य दूषणमुक्तम्, इदानीं तु तमेव दूषयितुमुपक्रमते - अपिचेति । विकल्पयति - अविद्ययेति । पूर्वोक्तं दूषणमतिशयति - पूर्वस्मिन्निति । उत्तरस्मिन्निति । किंशब्दः क्षेपे । अनुपपन्नमित्यर्थः । सच्चिदानन्दादिशब्दानामपि स्वरूपमात्रपरत्वेनाभ्युपगमात् तिरस्कृतातिरस्कृतविभागोऽनुपपन्न इति भावः । कोऽयमंशः तिरस्क्रियते को वा प्रकाशत इति । "को वा विशेष-स्तिरस्क्रियते को वा प्रकाशते" इत्यस्याप्युपलक्षणार्थमिदम्; निरंशे निर्विशेषे इत्यनन्तरोक्तेः । कोऽयमंश इति । अंशभेदो वक्तुमशक्य इत्यभिप्रायः । तदुपपादयति - निरंश इति । प्रकाशमात्रे । मात्रचा अविषयत्वं विवक्षितम् । अविषयभूत इत्यर्थः । युगपन्न सङ्गच्छेते इति । न हि त्वया कालभेदेन प्राकशतिरस्कारावुच्येते; अपि तु युगपदेव । तदानीमंशभेदाभावादाकारभेदाभावाच्च तौ न सङ्गच्छेते इति भावः । एवं प्रकाशतिरस्कारयोर्यौगपद्यानुपपत्तौ सत्या-मप्यविशदशब्देन प्रत्यवतिष्ठते अथेति । अथशब्दोऽनुमतिप्रदाने वर्तते । दूषयति - प्रकाशेति । किंरूपा । अनुपप-न्नेत्यर्थः । कथमनुपपत्तिरिति शङ्कायां वैशद्यावैशद्यस्वरूपं शिक्षयितुम् अत्र तदनुपपत्तिञ्च दशर्यितुमाह - एतदुक्तमिति वेशद्यस्वरूपं शिक्षयति - यस्सांश इत्यादिना । ज्ञाने तदनुपपत्तिमाह - तत्रेति । प्रकाशाभावादेव प्रकाशावैशद्यं न विद्यत इति । धर्म्यभावाद्धर्माभाव इत्यर्थः । ज्ञेयेऽपि ज्ञातांशस्य विशदत्बादज्ञातांशस्याज्ञातत्वाच्च क्वचिदप्यवैशद्यं न संभवतीत्याह - विषयेऽपीति । एकस्मिन् वस्तुनि कतिपयांशस्य कतिपयाकारस्य वा अनवभासः समुदितरूपस्यावै-शद्यम्; न तु तत्रापि प्रकाशमानांशस्येत्यर्थः । तस्मादिति । स्वरूपे प्रकाशमान इत्यस्य न ब्रह्मणीति पूर्वत्रान्वयः; अपि तूत्तरत्र । वस्तुस्वरूपे प्रकाशमाने कतिपयविशेषाप्रतिपत्तिरूपमवैशद्यं ब्रह्मणि न संभवतीत्यर्थः । कतिपयविशे-षाप्रतिपत्तिशब्दः कतिपयांशाप्रतिपत्तेरप्युपलक्षणार्थः । मुखान्तरेण दूषणमाह - अपिचेति । अविद्याकार्यं तन्निवृ-त्तिश्च न स्यातामिति । विशदस्वरूपस्याविद्याविरोधित्वादिति भावः । मोक्षस्य कार्यतयेति । मोक्षस्य-मुक्तस्वरू-पस्य । भावरूपत्वे सति कार्यं ह्यनित्यम् । वैशद्यं च भावरूपम् । अतः परमते त्वयोक्तं दूषणं तवैवापततीत्यर्थः । प्राग-सतः पश्चादुत्पन्नस्य वैशद्यस्यानित्यत्वप्रसङ्गः कालात्ययापदिष्टः, शास्त्रेण तस्य नित्यतया प्रतिपादितत्वादिति चेत्-तदा ब्रह्मणः सविशेषत्वं स्यादित्यभिप्रायः ।

पूर्वोक्तमाश्रयानुपपतिं्त परोक्तप्रत्यक्षप्रमाणस्य प्रतिकूलतर्कत्वेनाह - अस्येति । स्वरूपानादित्वादिमुखेन (सं-2-6) परिहाराणां प्रतिबन्दीत्वं हृदि निधाय दूषणान्तरमाह - अपिचेति । यथा दोषादोषाश्रयत्वादेरपारमार्थ्येऽपि भ्रमसंभवः, तद्वधिष्ठानापारमार्थ्येऽपि भ्रमः संभवति । अधिष्ठानापारमर्थ्ये तस्यापि प्रपञ्चवदपारमार्थ्येन अधिष्ठानान्त-रापेक्षयाऽनवस्था स्यादिति चेत्-तर्हि दोषस्यापि प्रपञ्चवदपारमार्थ्येन दोषान्तरापेक्षयाऽनवस्था स्यात् । दोषस्यापार-मार्थ्येपि स्वरूपानादित्वान्नानवस्थेति चेत्-तर्हि अधिष्ठानापारमार्थ्येऽपि स्वरूपानादित्वान्नानवस्थेति । प्रवाहानादि-त्वेन दुघर्टत्वेन च परिहारोऽपि तुल्यः । दोषः प्रपञ्चदर्शनस्य स्वदर्शनस्य च स्वयमेव निर्वाहक इति न दोषान्तरापेक्षया

अनवस्थेति चेन्न-अपरमार्थस्यास्य स्वपरनिर्वाहकत्वासंभवात् । न हि स्वप्ने द्विचन्द्रज्ञानहेतुभूतोऽङ्गुल्यवष्टम्भः स्व-कल्पने दोषनिरपेक्षः । अपरमार्थस्य स्वपरनिर्वाहकत्वं संभवतु तथासति अधिष्ठानापारमार्थ्येऽपि स्वपरनिर्वाहकत्वा-दनवस्था न स्यात् । अपरमार्थस्य परं प्रति अधिष्ठानत्वे सिद्धे हि स्वनिर्वाहकत्वसिद्धिरिति चेत्-अपरमार्थस्य परं प्रति दोषत्वे सिद्धे हि स्वनिवाहकत्वमिति तुल्यम् । मिथ्याभूतजगदवभासात् दोषत्वं सिद्धमिति चेत्-तर्हि तत एवाधिष्ठा-नत्वमपि सिद्धमिति स्वपरनिर्वाहकत्वमधिष्ठानस्य सिध्यति । अधिष्ठानापारमार्थ्ये भ्रमो न दृष्ट इति चेत्-दोषदोषा-श्रयत्वापारमार्थ्येऽपि भ्रमो न दृष्ट इति तुल्यश्चर्च इत्यभिप्रायः । ततः किमित्यत्राह - ततश्चेति । एवम् अहमज्ञो मामन्यं च न जानामीति प्रत्यक्षस्य प्रतिकूलतर्कपराहतिरुक्ता । अत्र केचिदाहुः-सुप्तेत्थितस्य न किञ्चिदवेदिषमिति परामर्शान्यथानुपपत्तिः भावरूपाज्ञाने प्रमाणम् । कथमन्यथानुपपत्तिः । इत्थम् । न किञ्चिदवेदिषमिति परामर्शो न ज्ञानाभावविषयः; स्वापे ज्ञानाभावस्याननुभूतत्वात् । ज्ञानाभावानुभवे हि प्रतियोगिभूतज्ञानस्य विषयावच्छिन्नस्या-वभासोऽभ्युपगन्तव्यः । तदभ्युपगगमे सुषुप्तिव्याघातः । न चास्मरणलिङ्गजन्यं ज्ञानाभावविषयमनुमितिरूपज्ञानमि-दमिति वाच्यम्; अस्मरणस्याननुभवव्याप्यत्वाभावात् । पथि गच्छता स्पृष्टं हि तृणादिकं न स्मर्यते । अतः सुषुप्तान-नुभूतं भावरूपमज्ञानं स्मयर्ते, न किञ्चिदवेदिषमिति । अतस्तदन्यथानुपपत्त्या भावरूपाज्ञानसिद्धिरिति ।

नैतदुपपद्यते-भावरूपत्वेऽप्यज्ञानस्य प्रतियोग्यपेक्षत्वोपपादनात् प्रतियोगिनश्च सुषुप्तावनभासात् अज्ञानानुभवा-भावेन तत्स्मरणानुपपत्तेः । प्रतियोग्यवभासे सुषुप्तिव्याघातस्त्वयैवोक्तः । न च तदन्यवासचनञर्थप्रतियोगिस्वरूपभूतं ज्ञायं तदानीमवभातमिति वाच्यम्, न किञिदवेदिषम् मामन्यं च न जानामीति विषयावच्छिन्नज्ञानस्य प्रतियोगित्वा-वगमात् । अतस्तदनवभासे अज्ञानानुभवायोगात् तत्स्मरणानुपपत्तिः । किञ्च सुषुप्तौ निर्विकल्पकेन वा सविकल्पकेन मनोव्यापारेण वा भावरूपाज्ञाननुभवः ? प्रथमे, स्वाभिमतनिर्विकल्पकस्य साक्षिचेतन्यावभासरूपस्य संस्काराधाय-कत्वानभ्युपगमात् प्रतिसन्धानमनुपपन्नम् । न द्वितीयः; सुषुप्तिविरोधेन तदा मनोव्यापारासंभवात् । अतः, न किञ्चि-दवेदिषमिति ज्ञानं न स्मरणम्; किन्तु अस्मरणलिङ्गकं ज्ञानाभावविषयमनुमितिरूपम् । न च पथि गच्छता स्पृष्टतृ-णाद्यस्मरणेन व्यभिचरः; अन्यव्यासङ्गादि-संस्कारविरोध्यभावविशेषितस्यास्मरणस्य व्यभिचाराभावात् ।

"तदन्यधीरतात्पर्यं पटुत्वविरहो धियः । दुःखादि तीव्रमुन्मादोऽनभ्यासो दीर्घकालता ।।

एतैश्चादृष्टवैगुण्यं कल्प्यं संस्काररोधिषु । एतेष्वसत्स्वस्मरणात् ज्ञानाभावोऽनुमीयते ।।"

पथि गच्छता स्पृष्टतृणादिकं पटुतरसंस्कारोदयविरोधिसद्भावान्न स्मर्यते, पथि गच्छन् हि गन्तव्यदेशकार्यचि-न्तादिव्यासक्तो भवति । तृणादावादरश्च नास्ति; प्रयोजनाभावात् । तदभावेऽपि गजादिदशर्नस्येव न पटुतत्वं तृणा-दिज्ञानस्य; विषयवैपुल्यवैचित्र्याद्यभावात् । जन्मान्तरानुभवजसंस्कारस्तु प्रायण-नरक-प्रसूतिजन्यतीव्रदुःखाभिभ-वादनुद्बद्धः । उन्मादश्च संस्कारोद्बोधविरोधी । अनभ्यासश्च तथा; तस्य विस्मरणहेतुत्वदर्शनात् । कालदैर्ध्यमपि तत्प्रमोषकं दृष्टम्; बाल्येऽनुभूतानां वृद्धावस्थायामस्मरणात् । न चैते हेतवः सुषुप्तौ सन्ति । न च किमप्यदृष्टं संस्का-रोद्बोधविरोधि कल्प्यम्; कल्पकाभावेन सौषुप्तिकाज्ञानस्य तद्विषयार्थस्मरणविरोध्यदृष्टस्य च कल्पनायोगात् । यदि किञ्चित्कल्पकतयोत्प्रेक्ष्येत, तदाप्यकप्त्या निर्वाहे संभवति न कल्पनमुपपद्यते । एवमन्यपरत्वादिसंस्कारनिरोधकहेतु-विरहविशेषितास्मरणलिङ्गेन ज्ञानाभावानुमितिरूपमिदम्, "न किञ्चिदवेदिषम्" इति ज्ञानम् । त्वयाऽपि ज्ञानाभावः सुषुप्तावभ्युपगतः । सचोक्तलिङ्गानुमेय एवेत्यभ्युपगन्तव्यम् । तदस्माकमपि तुल्यम् । अतः स्मृतित्वानुपपत्तेरनुमिति-रूपत्वोपपादनाच्च न किञ्चिदवेदिषमिति ज्ञानमन्यथैवोपपन्नमिति न ततो भावरूपाज्ञानसिद्धिरिति ।

ईदृशदुर्वादानामनुपपन्नत्वं भावरूपाज्ञानविषयप्रत्यक्षप्रतिक्षेपतः सिद्धम् ।।

अथानुमानं दूषयति - यदुक्तमित्यादिना । अनुमानासंभवादिति । त्वदुक्तमनुमानमाभास इति भावः । कथं दुरु-क्तत्वमित्यत्राह - अज्ञानेऽपीति । कथमज्ञानान्तरसाधनमवश्यम्भावि; तस्य कथमनभिमतत्वम् इत्याशङ्कायां तदव-श्यम्भावमुपपादयति - तत्रेति । अज्ञानस्यानभिमतत्वमुपपादयति - साधने चेति । ततः किमित्यि#ाह - ततश्चेति । अस्य प्रमाणज्ञानस्य अप्रकाशितार्थप्रकाशकत्वात् स्वविषयावरणाज्ञानान्तरसाधकत्वे सति तदज्ञानं ब्रह्मस्वरूपा-च्छादकं सिषाधयिषितमज्ञानमावृणोति । तेनाऽऽवृतत्वात् तदज्ञानं ब्रह्मणा न साक्षात्क्रियते । अपरमाथर्स्याप्रतीय-मानस्य कार्यकरत्वायोगादज्ञानकल्पना निष्फला (स्यात्) । तिरोधानरूपकार्यार्थं हि तत्कल्पना । यदि असाक्षात्कृ-तमेव कार्यकरम्, तदा सत्तया कार्यकरमिति काचादिवत् सत्यत्वात् ज्ञाननिवत्र्त्यं न स्यात् । एवमज्ञानस्य ज्ञानानि-वर्त्यनिष्फलत्वे, कारणतयाऽनभिमताज्ञानान्तरसाधकत्वम्, तदसाधने चानैकान्त्यमुक्तम् ।

ननूक्तहेतुजन्यं ज्ञानं सम्यङ्निश्चयरूपं चेत्-तद्विरोधादेव न हेतोरनैकान्त्यम् । यदि न सम्यक्, तथापि न हेत्व-नैकान्त्यम्, अप्रकाशितार्थप्रकाशकत्वहेतोस्तत्र वृत्त्यभावात् । उच्यते । हेत्वनैकान्त्यपरिहारः साध्यविषयज्ञानस्य प्रमितिरूपत्वं प्रतिक्षिपति; ज्ञानसम्यक्त्वं तु हेत्वनैकान्त्यपरिहारं प्रतिक्षिपति । अतो ज्ञानस्य सम्यक्त्वे तस्योक्त-हेतुजन्यत्वं व्याहतम्; हेतोरनैकान्त्यात् । न हि सम्यगूजानं दुष्टहेतुजन्यम् । उक्तहेतोरनैकान्त्यं न चेत् तस्यासम्यङ्-निश्चयरूपज्ञानजनकत्वं व्याहतम्; अदुष्टहेतोरसम्यग्ज्ञानजनकत्वायोगात् । एवं हेत्वनैकान्त्यपरिहार-ज्ञानसौष्ठवयोः परस्परविरोधेन तयोरिह समुच्चित्यासिद्धेरन्यतराभावेऽपि साध्यसिद्धयभावादनुमानमसमञ्जसमित्यभिप्राय इति । ननु न हेत्वनैकान्त्यम्; साध्यविषयज्ञाने हेतोरवृत्तेः । न ह्यप्रकाशितमज्ञानमनेन प्रकाश्यते । किं तर्हि ? साक्षिचैतन्यसि-द्धस्यैवाज्ञानस्य, अभावाद्विवेचनमात्रं क्रियते । नैवम्; अहमर्थधर्मभूतप्रकाशोत्तीर्णेन स्वरूपचैतन्येनाज्ञानसिद्धावनु-मानप्रामाण्यम्, तत्प्रामाण्येन भावरूपाज्ञानसिद्धिः, तत्सिद्धौ ज्ञातुरपि तत्कल्पितत्वात् तदुर्त्तीर्णसाक्षिचैतन्येना-ज्ञानानुभवसिद्धिरिति चक्रकापत्तेर्दुस्तरत्वात् ।

दूषणान्तरमाह - दृष्टान्तश्चेत्यादिना । तत्र किं साक्षात्प्रकाशकत्वम्, उत परम्परया, उत साक्षाद्वा परम्परया वा प्रकाशकत्वमात्रम्, उत स्वविषयावरणनिरासकर्त्व प्रकाशकत्वमिति चत्वारः कल्पाः । तत्र प्रथमे कल्पे दृष्टान्तः साधनविकलः । द्वितीये तु, पक्षे असिद्धिः । तृतीये तु, इन्द्रियेष्ववैकान्त्यम् । तेषां स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभा-वात्; साक्षाद्वा परम्परया वा प्रकाशकयोरन्यतरत्वात् तेषाम् । इन्द्रियाण्यपि पक्षीकृत्य तेषामपि तथाविधवस्त्वन्त-रपूर्वकत्वकल्पनमयुक्तम् । आहङ्कारिकाणामिन्द्रियाणामुत्पत्तेः स्वविषयावरणस्वदेशगतवस्त्वन्तरपूर्वकत्वाभावात् । आलोक एव हि तादृशः । चतुर्थ पक्षे तु, साध्याविशिष्टता इत्यभिप्रेत्य प्रथमकल्पे दूषणमाह - दृष्टान्तश्च साधनवि-कल इति । कथं ज्ञानस्यैव साक्षात्प्रकाशकत्वमिति शङ्कायां तदुपपादयति - सत्यपीति । ज्ञानस्यैव हि प्रकाशकत्व-मित्यनेन द्वितीयकल्पे हेतोः पक्षे असिद्धिः फलिता । इन्द्रियाणामित्यनेन तृतीयपक्षे इन्द्रियेष्वनैकान्त्यं विवक्षितम् । दीपप्रभायाः परम्परयाऽपि प्रकाशकत्वं दूरत इत्याह - प्रदीपेति । प्रकाशकत्वव्यवहारः कथमित्यि#ाह - प्रकाशकेति । चतुर्थपक्षं शङ्कते - नास्माभिरिति । निरसनपूर्वकेति । निरसनद्वारकेत्यर्थः । साध्याविशिष्टत्वमाह - न हीति । ज्ञा-नस्य विषयावरणनिरसनरूपं प्रकाशकत्वं न ह्यस्ति । तद्धि साध्यम्; न संप्रतिपन्नमित्यर्थः । मात्रचाऽर्थपरिच्छेदव्यु-दासः । हिशब्देन विषयावरणनिरासकत्वस्य साध्यत्वं फलितम् । तत्र संप्रतिपन्नं प्रकाशकत्वमाह - अपित्विति । परिच्छेदशब्दस्य परिमितिपरत्वशङ्काव्यावृत्त्यर्थमाह - व्यवहारेति । व्यवहारयोग्यता - व्यवहारप्रतिसंबन्धित्वम् । ननु न साध्याविशिष्टत्वं हेतोः । स्वप्रागभावनिरासकत्वं स्वविषयावरणनिरसनशब्देन विवक्षितम् । तेन भावरूपनिर-सनीयपूर्वकत्वं साध्यमिति । न; स्वप्रागभावनिरासकत्वस्य हेतोरिन्द्रियसहप्रयोगे अनैकान्तिकत्वात् । भासमानत्वे

सति अप्रकाशितार्थप्रकाशकत्वादिति हेतौ विशेषितेऽपि पूर्ववद्विकल्पः स्यात् । तत्र साक्षात्पक्षे दृष्टान्तः साधनवि-कलः । प्रणाड्येति पक्षे हेत्वसिद्धिः । तृतीये लिङ्गादौ व्यभिचारः । चतुर्थे साध्याविशिष्टता; भासमानत्वविशेषितस्य विषयावरणनिरासकत्वस्यासंप्रतिपत्तेः ।

अथास्यानुमानस्य प्रतिकूलतर्कपराहतिमाह - प्रतिप्रयोगाश्चेति । तर्कस्यापि व्याप्तिमूलत्वात् प्रयोगा इत्युक्तम् । स्वदेशगतत्वस्वविषयावरणत्वस्वनिवर्त्यत्वानां प्रतिकूलं यथाक्रममनुमानत्रयम् अज्ञानं पक्षीकृत्योच्यते । विवादा-ध्यासितम्-ब्रह्माश्रयमतदाश्रयमिति विवादध्यासितमित्यर्थः । ततश्च शुक्तयाद्यज्ञानव्यावृत्तिः । तद्धि जीवाश्रयम्, अप्रामाणिकमपि भावरूपमज्ञानम्, ज्ञानमात्रं ब्रह्म चाभ्युपगम्य प्रतिकूलतर्का उच्यन्ते । शुक्तयाद्यज्ञानस्य ज्ञानाना-श्रयत्वं कथमित्यत्राह - ज्ञात्राश्रयमिति । एवं व्याप्तिर्दर्शिता । अज्ञानत्वे ज्ञानानाश्रयत्वप्रसङ्ग इत्युक्तं भवति । प्रति-कूलतर्कान्तरमाह - विवादेति । व्याप्तिं दर्शयति - विषयावरणमिति । अज्ञानत्वे ज्ञानानावरणत्वप्रसङ्ग इत्यर्थः । तृतीयेपि प्रयोगे, ज्ञेयानावरणत्वे ज्ञानानिवर्त्यत्वप्रसङ्ग इत्यर्थः । अथ ब्रह्म पक्षीकृत्य प्रतिकूलतर्कत्रयमुच्यते ब्रह्मे-त्यादिना । अज्ञानाश्रायत्वे ब्रह्मणो ज्ञातृत्वप्रसङ्ग इत्यर्थः । द्वितीयेऽपि प्रयोगे, ब्रह्मणोऽज्ञानवरणत्वे ज्ञेयत्वप्रसङ्ग-इत्यर्थः । तृतीयेऽपि ब्रह्मणो ज्ञाननिवर्त्याज्ञानत्वे ज्ञेयत्वप्रसङ्ग इत्यर्थः ।

अथ प्रमाणज्ञानं पक्षीकृत्य प्रागभावव्यतिरिक्तत्वस्य प्रतितर्कमाह - विवादाध्यासितमिति । प्रमाणज्ञानस्वे प्रागभावातिरिक्ताज्ञानपूर्वकत्वाभावप्रसङ्ग इत्यर्थः । यद्वा अनुमानमेवेदम् । धारावाहिकज्ञानेषु प्रथमस्य पक्षत्वमुत्त-रज्ञानानां सपक्षत्वमपि ह्युपपद्यते । ज्ञानं न वस्तुनो विनाशकमित्यादिना व्यतिरेक्यनुमानमुक्तम्; व्यतिरेकव्याप्तिं द्विधा दर्शयति - यद्वस्तुन इति । शक्तिविशेषोपबृंहणविरहे सति ज्ञानत्वादिति विशिष्टो हि हेतुः । तत्र शक्तिविशे-षानुपबृंहितज्ञानव्यतिरिक्तत्वाविशेषात् शक्तिविशेषोपबृंहितं ज्ञानं शक्तिविशेषानुपबृंहितमज्ञानं च द्वयमपि व्यतिरे-कव्याप्तिभूमिरित्युभयत्र व्याप्तिर्दर्शिता ।

भावरूपमज्ञानं पक्षीकृत्याह भावरूपमिति । भावरूपत्वे ज्ञानमात्रनिवर्त्यत्वं न स्यादित्यर्थः । भावरूपत्वज्ञान-निवर्त्यत्वयोर्न व्याप्तिः; भयादेर्भावरूपस्य ज्ञाननिवर्त्यत्वदर्शनादिति व्याप्तिभङ्गमाशङ्कते अथोच्येतेति । पूर्वज्ञानो-त्पन्नानाम्- पूर्वभ्रान्तिज्ञानोत्पन्नानामित्यर्थः । बाधकज्ञानोदयात् प्राक् भयानुवृत्तेः, तदुत्पत्तेः पश्चाद्भयादिनिवृत्तेश्चेति भावः । परिहरति - नैवमिति । फलविनाशयानि हि स्वाश्रयविनाशाधीननश्वर(धीननाशवद् ?)व्यतिरिक्तक्षणि-कानि । उक्तविशेषणेन ज्वालाव्यावृत्तिः । तथा भयाद्यपि कम्पादिकार्यं जनयित्वा स्वयं नश्यतीत्यर्थः । न भयादेः क्षणिकत्वम्, चिरोपलब्धेरिति चेन्न; कारणभूतभ्रान्तिज्ञानाद्यनुवृत्त्या भयादिसंतत्युत्पत्तेर्हि चिरोपलब्धिः । तर्हि सदा भयसन्ततिरुपलभ्येतेति चेदत्राह - कारणनिवृत्त्या च पश्चादनुत्पत्तेरिति । कारणभूतभ्रान्तिज्ञानादिनिवृत्त्या कार्य-भूतभयादिसन्तत्यनुत्पत्तेर्न सदोपलब्धिरित्यर्थः । पश्चादनुत्पत्तिरिति पञ्चम्याः क्षणिकत्वेनेति पूर्वत्रान्वयः । कारणनि-वृत्त्या च पश्चादनुत्पत्तेः सिद्धेन क्षणिकत्वेन स्वयमेव विनाशादित्यर्थः । यद्वा न क्षणिकत्वमिति शङ्कायाम् उपपन्नं क्षणिकत्वमित्यर्थवशादाकृष्टेन वाक्येनान्वयः । एवं क्षणिकत्वानुबन्धिचोद्यपरिहारः कृतः । यद्वा - नैवमिति दूषण-प्रतिज्ञामुपपादयितुम्, यावद्बाधं भयस्वरूपानुवृत्तेरसिद्धिमाह - क्षणिकत्वेनेति, बाधकज्ञानानन्तरनिवृत्तेरन्यथासि-द्धिमाह - कारणनिवृत्त्या चेति । तत्क्षणिकत्वं कुतः सिद्धमिति शङ्कायां तदुपपादयति क्षणिकत्वं चेति । स्थायिनो हि घटादयो दण्डचक्रादिकारणनिवृत्तावपनयुपलभ्यन्ते; न तथा ज्ञान-दीपज्वालादिः । तथा भयादेरपि कारणसंनि-धान-तन्निवृत्त्यनुविधायिसद्भावासद्भावतया क्षणिकत्वं निश्चितमित्यर्थः । विपक्षे बाधमाह - अक्षणिकत्वे चेति । स्थायिनो हि घटादयः प्रतिक्षणमुत्पद्यमाना बहवो युगपदुपलभ्यन्ते; तथाऽत्रापि प्रसजेदिति भावः । अतो न भयादिकं

ज्ञाननिवर्त्यम्; स्वयमेव क्षणिकतया नश्यति । भयसन्तत्युच्छेदो भ्रान्तिज्ञानपरम्परारूपकारणनिवृत्त्या । तन्निवृत्तिश्च दोषनिवृत्त्या । नायं सर्पो रज्जुरेषेति ज्ञानं स्वविषय व्यवहारहेतुः; न तु साक्षाद्भयादिनिवृत्तिहेतुः । रज्जुत्वं हि सर्पव्या-वृत्तिः । अतः सर्पव्यावृत्तिरूपरज्जुत्वज्ञानाभावेन सर्पबुद्धयनुवृत्त्या पाश्चात्यभयानुवृत्तिः, सर्पव्यावृत्तिरूपरज्जुत्वज्ञानेन सर्पपारमर्थ्याभिमाननिवृत्त्या भयनिवृत्तिरिति सर्वाभ्युपगतप्रकारेण दूषणमुक्तम् । स्यपक्षे तु ज्ञानविशेष एव भयादिः क्षणिकतया स्वयं नश्यति । भयादिरूपज्ञानानुवृत्तिस्तु दोषात् सर्पादिभ्रमानुवृत्तिमूला तन्निवृत्त्या च तत्संततिनिवृत्ति-रिति परिहारः ।

एवमर्थदूषणमुक्तम्; अथ प्रयोगदूषणमाह - स्वप्रागभावेति । स्वशब्दः प्राक्शब्दोऽभावव्यतिरिक्तशब्दोऽन्तर-शब्दश्च निरर्थकाः । वस्तुशब्दो हि भाववाची । अनुमानेन भावरूपाज्ञानासिदिं्ध निगमयति अत इति । श्रुत्यर्थापत्ति-भ्यां तत्सिद्धिमाशङ्कयाह - श्रुतीति ।

अनिर्वचनीयत्वे परोक्तहेतुं विस्तरेण दूषयति - प्रतीतीति । प्रतीतिः भ्रान्त्यभ्रान्तिसाधारणरूपा । भ्रान्तिः विद्य-मानभेदाग्रहणपूवर्कसाधारणाकारग्रहणजन्या स्वविषयान्यथात्वविशेषिता प्रवृत्त्यादिहेतुभूता । बाधः आरोपितवि-रुद्धाधिष्ठानाकारावगाहिनी बुद्धिः । न तथाभ्युपगमनीयम्-नानिर्वचनीयत्वेनाभ्युपगमीयमित्यर्थः । प्रतीतिभ्रान्ति-बाधानां स्वविषयोल्लेखमात्रेण वा अन्यथानुपपत्त्या वा अनिर्वचनीयसिद्धिरिति विकल्पमभिप्रेत्य प्रथमं दूषयति - प्रतीयमानमिति । प्रतीयमानं प्रतीत्युल्लिख्यमानम् । न हि नीलोल्लेखः पीतोल्लेखतया अङ्गीकार्यः; तथा सति सर्वो-पप्लवप्रसङ्गादिति भावः । द्वितीयं दूषयति - आभिरिति । आभिः - प्रतीतिभ्रान्तिबाधशब्दोपात्ताभिः प्रत्यक्षप्रती-तिभिः । प्रतीत्यन्तरेण - प्रमाणान्तरजन्येन । यद्वा आभिः-लौकिकप्रतीतिभिः । प्रतीत्यन्तरेण-आगमजन्येन । यद्वा आभिः प्रतीतिभिः । एकाधिष्ठाने सर्पभूतलनाम्बुधारादिबहुत्वाभिप्रायं बहुवचनम् । प्रतीत्यन्तरेण-बाधज्ञानेन । सङ्क्षिप्तस्य दूषणस्य विस्तरार्थं परमतमनुवदति - शुक्तयादिष्विति । अन्यस्यान्यथाभानायोगाच्चेति ।

ननु कथमन्यथाभानायोगः । उच्यते । न तावत् धर्मधर्मिणोर्मिथस्तादात्म्यमानमन्यथाख्यानम् । पुरोऽवस्थितशु-क्लभास्वरशकलं न रजतत्वजातितया प्रतीयते । रजतत्वञ्च न भास्वरशकलतया प्रतीयते । शकलं च शकलत्वेन, जातिश्च जातित्वेन पतीयते । तस्मान्नानयोरन्यतरस्य तदितरत्वमानमिति । नापि धर्म्यन्तरस्य धर्म्यन्तरतादात्म्यम-न्यथात्वम् । तत् किं विषयगतम्, उत ज्ञानगतम् । विषये तदन्यथात्वमस्ति चेत्-यथार्थैव प्रतीतिः । नास्ति चेत्-असत्ख्यातिप्रसङ्गः । यदि ज्ञानगतम्, विषयोऽन्यः ज्ञानमप्यन्यदेवेति नोपपद्यते । न हि घटज्ञानस्य पटज्ञानत्वसंभवः । आत्मख्यातिप्रसङ्गश्च, ज्ञानाकारत्वाद्रजतादेः । स्वस्मिन् असता आकारेण ख्यानमन्यथाख्यानमिति चेन्न; अस-त्ख्यातिप्रसङ्गात् । अन्यत्र सतोऽन्यत्र ख्यानं ख्यानस्यान्यथात्वमिति चेन्न; खण्डे दृष्टस्य गोत्वस्य मुण्डे दर्शनस्यापि भ्रमत्वापातात् । अन्यत्रैव सतोऽन्यत्र ख्यानमन्यथात्वमिति चेत्-अन्यत्रैव सत्त्वं कथं निश्चीयते । इह बाधादिति चेन्न; भ्रान्तिज्ञानबाधितस्य सत्यरजतस्याप्यत्रासत्त्वनिश्चयप्रसङ्गात् । प्रवृत्तिबाधादन्यत्रैव सत्त्वनिश्चय इति चेन्न; मन्त्रौष-धादिप्रतिबद्धस्याग्नेरपि स्फोटजननादिप्रवृत्तिबाधेन मिथ्यात्वनिश्चप्रसङ्गात् । दुष्टकारणजन्यज्ञानविषयत्वादिह बाध्यत इति चेत्-कथं दुष्टकारणजन्यत्वनिश्चयः । बाधकज्ञानोदयादिति चेत्-पूर्वज्ञानमेव बाधकं स्यात् । परत्वस्याकिञ्चित्क-रत्वं हि दर्शितम् । पूर्वज्ञानस्य दुष्टकारणजन्यत्वे निश्चिते पाश्चात्त्यज्ञानस्य बाधकत्वनिश्चयः, तस्य बाधकत्वे निश्चिते पूर्वस्य दुष्टकारणजन्यत्वनिश्चयः इत्यन्योन्याश्रयश्च स्यात् । किञ्च यत् तावत् रजतं पुरोवर्तिनि भातम्, तस्यैवान्यत्र सत्त्वे किं प्रमाणम् ? न तावत् पूर्वज्ञानम्; अत्र सत्त्वेन हि तदवगमयति । न बाधकज्ञानञ्च; तद्धि परोवर्तिन्यसत्त्वम-वगमयति । नापि रजतग्राहकप्रमाणम्; तत् खल्वापणे रजतसत्तामवगमयति; न तु तस्य, पुरतः ख्यातस्य चैक्यम् ।

क्वचिदप्यसतः ख्यानायोगात् अन्यत्र सत एव ख्यातत्वं निश्चीयत इति चेन्न; असतः ख्यानायोगस्य संबन्धे परित्य-क्तत्वात् । न हि पुरोवर्तिनि रजतधर्मिसंबन्धो रजतत्वजातिसंबन्धो वा अन्यत्र विद्यते । ननु-अन्यत्र संबन्धमात्रमस्ति; तदिह प्रकाशते - इति अन्यत्र सत एवान्यत्र ख्यानमिति चेन्न-संबन्धद्वयानवभासात् । अन्यत्र सतः संबन्धास्यान्यत्र ख्याने सम्बन्धिन इव संबन्धान्तरमपेक्षितम् । संबन्धान्तरावभासे चान्यत्र सतः ख्यानं न स्यात्; द्वितीयसंबन्धस्य क्वचिदप्यसत्त्वात् । संबन्धस्य संबन्धान्तरानपेक्षत्वात् संबन्धान्तराभावेऽपि पुरोवर्तिनि भानं युक्तमिति चेत्-एवं तर्हि संबन्ध्यन्तरसंबन्धः पुरोवर्ति च निरन्तरं भातमिति यथार्थख्यातिरेवोक्ता स्यात्; ख्यातांशस्य सत्त्वात् असतः कस्य-चित् ख्यातत्वाभावाच्च । किञ्च शुक्तिशकलस्यैव रजतज्ञानविषयत्वं रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वा-दिति साधयितुमप्ययुक्तम् । तथा हि-इदमर्थस्य रजतत्वजातिविशिष्टताज्ञानविषयत्वं हि साध्यम्, तत् अबाधितप्रवृ-त्तिविषयत्वप्रयुक्तमिति हेतोस्सोपाधिकत्वम् । शुक्तिनर् रजततया भाति शुक्तित्वात् सम्प्रतिपन्नवदिति च बाधः । एव-मादिदूषणाभिप्रायेण अन्यस्यान्यथाभानायोगाच्चेत्युक्तम् ।

दूषयति नेति । अन्यत्रैव सता आकारेण पुरोवतिर्नो विशिष्टताज्ञानम् अन्यथाभानम् । प्रतिपन्नाकारस्य परोव-र्तिन्यभावनिश्चयश्च प्रवृत्तिबाधसचिवात् नास्तीति प्रत्ययात् । न हि प्रतिबद्धाग्नेरग्नित्वं नास्तीति प्रत्यय इति प्रसिद्धम् । कथं तत्पल्पनायामप्यन्यथाभानस्यावर्जनीयत्वमित्यपेक्षायामाह - कल्प्यमानं हीति । अनिर्वचनीयमित्येव प्रतीत्य-भ्युपगमे प्रतीतेर्भ्रमरूपत्वं बाधः प्रवृत्तिश्च न स्युः । अनिर्वचनीयं निर्वचनीयत्वेन प्रतीतं चेत्-अन्यस्यान्यथावभासो-ऽवर्जनीयः स्यादित्यर्थः । तस्यापरिहार्यत्वाच्चेति । तस्य - अन्यथामानस्य । अयमभिप्रायः-"नान्यस्यान्यथाभानम्; विद्यमानस्यैव प्रतीतेः । अलौकिकं सत् लौकिकं सच्चेति द्विविधं सत् । अनिर्वचनीये चालौकिकं सत्त्वमस्ति । अत्र तदलौकिकं सत् रजतं प्रतीयते" इति चेत्-किमलौकिकं सत् अलौकिकसत्त्वेन प्रतीयते, उत लौकिकसत्त्वेन ? प्रथमे भ्रमत्वबाधप्रवृत्त्यसंभवः । अलौकिकं लौकिकं सदिति प्रतीतं चेत्-अन्यस्यान्यथाख्यानं स्यात् । अलौकिकसतो लौ-किकसता भेदाग्रहात् प्रवृत्त्यादिसंभव इति चेत्-तर्हि तत्रानिर्वचनीयं वस्तु कल्पयित्वा तत्र भेदाग्रहेण प्रवृत्तिबाध-भ्रमत्वोपपादनादपि प्रथमत एव संप्रतिपन्नरजताच्छुक्तित्वरूपभेदाग्रहेण प्रवृत्तिबाधभ्रमत्वोपपादने कल्पनालाघवा-दनिर्वचनीयं वस्त्वनुपपन्नम् इत्यादिपदकपरम्परामभिप्रेत्य तस्यापरिहार्यत्वाच्चेत्युक्तम् । यर्थार्थख्यातिव्यतिरिक्तप-क्षेष्वन्यथाख्यातिपक्षः प्रबल इत्यभिप्रायेणाह - ख्यात्यन्तरेति । सुदूरमपि गत्वा-पदकपरम्परामुक्तवाऽपीत्यर्थः । तदुपपादयति - असदिति । कथं माध्यमिकपक्षः । किमसदित्येव प्रतीयते, उत सदिति । असदितीति चेत्, भ्रमत्व-बाधप्रवृत्त्यसंभवः । सदितीति चेत्, अन्यस्यान्यथाभानं स्यादित्यर्थः । आत्मेति । अयं योगाचारपक्षः । आत्मशब्दो ज्ञानपरः । किं ज्ञानमित्येव प्रतीतम्, उतार्थ इति । प्रथमे प्रवृत्तिबाधभ्रमत्वासंभवः । द्वितीयेऽन्यस्यान्यथाभानमित्यर्थः। अख्यातिपक्ष इति । इदं रजतमिति किमेकज्ञानम्; उत ज्ञानद्वयमिति विकल्पमभिप्रेत्य एकज्ञानमिति पक्षे ज्ञेये अन्य-थाख्यातिं प्रसञ्जयति अन्यविशेषणमन्यविषणत्वेनेति । इदं रजतमित्येकत्वेन संप्रतिपन्नसम्यग्रजतवत् आरोप्यलि-ङ्गानुविधायिप्रयोगानुगुणसामानाधिकरण्येन प्रतीतत्वादन्यविशेषणमन्यविशेषणत्वेन प्रतीयत इत्यापादितम्; न तु तत्पक्ष उपन्यस्तः । ज्ञानद्वयमितिपक्षे ज्ञानेऽन्यथाख्यातिं प्रसञ्जयति - ज्ञानेति । ज्ञानद्वयं किं ज्ञानद्वयमित्येव प्रती-तम्; उतैकमिति इति विकल्पे पूर्ववद्दूषणम् । विषयासद्भावेति । किमविद्यमानत्वेन प्रतीयते; उत विद्यमानत्वेन प्रतीयते ? प्रथमे प्रवृत्त्याद्यसंभवः । द्वितीयेऽन्यथाभानमित्यर्थः ।

अथ अकारणत्वमुपपादयति - किञ्चेति । तस्याः-प्रत्यक्षप्रतीतेः । तद्विषयत्वेन-विद्यमानविषयकारणकत्वेन । कारणं हि नियतपूर्वभावीति भावः । महतामिदमुपपादनमिति । तस्य वृत्तिज्ञानस्य विषयरहितावस्थास्वीकारेण

कारणत्वाभ्युपगमेऽपसिद्धान्तापातात्, निर्विषयख्यातिवादिनामिव तत्प्रभावेन पवृत्त्यादिसिद्धौ अनिर्वचनीयकप्ति-वैयर्थ्यात्, विषयरूपकारणेन विनोत्पत्तिवचनात्, विरम्यव्यापारवचनाच्चात्यन्तमनुपपन्नमित्यर्थः । अथेन्द्रियादीति । आदिशब्देन विषयगतदोषः, पुरुषस्यानवधानं वा गृह्यते । तस्य पुरुषाश्रयत्वेनेति । दूरत्वादिदोषस्य विषयगतत्वेऽपि पुरुषगतत्वस्यापि संभवादुभयत्र कार्यमुत्पाद्यम्; न विषयमात्रे; नियामकाभावात् । अतः पुरुष इव विषयेऽपि न संभवतीत्यभिप्रायः । ननु चक्षुषः पुरुषाश्रयत्वेऽपि चाक्षुषरश्मेः प्रसृतस्य विषयसंबद्धस्य तत्र कार्यकरत्वं दृष्टम् । न; तत्कार्यस्य ज्ञानस्य पुरुषाश्रितत्वात् दोषांशस्याकार्यकरत्वात् । ननु विषयमात्रगताः सादृश्यादयो दोषाः सन्ति । तेषां तत्रैव कार्यकरत्वमुपपद्यते । मैवम्; सादृश्यादेर्यावद्द्रव्यभाविनः सदोत्पादकत्वप्रसङ्गात् । आगन्तोरन्यस्य तत्रादृष्टेः । इन्द्रियसंयोगस्य पुरुषगतज्ञानातिरिक्तहेतुत्वासिद्धेः । दृष्टिविषादिन्यायस्यात्रासंभवात् । संभवेऽपि सर्वैरुपलम्भप्रस-ङ्गाच्च । नन्विन्द्रियाणि यथा पुरुषविशेषसंबन्धात् तत्रैव कार्यविशेषमुत्पादयन्ति, एवं विषयविशेषसंबन्धात् तत्रैव किञ्चिज्जनयन्तु । तत्राह - नापीन्द्रियाणीति । पुरुषगतज्ञानाख्यकायर्करत्वमन्वयव्यतिरेकावसितम् । विषये त्विन्द्रि-यजन्यं कार्यान्तरं न दृष्टम् । तत्कप्तिरन्यथैवोपपत्त्या निरस्तेति भावः । तथापि दुष्टपुरुषसंनिधानात् यथा देशादिषु दोषाः प्रादुष्युः, तथा दुष्टेन्द्रियसंनिधानाद्विषये कार्यविशेषः स्यादित्यत्राह - नापि दुष्टानीति । अन्वयव्यतिरेकादि-कमतिलङ्घय दृष्टान्तमात्रेण न किञ्चित् साधयितुं शक्यमिति भावः । किमत्र हेत्वन्तरगवेषणया ? अनादिभावरूपा-ज्ञानमेव विश्वोपादानभूतं शुक्तिरजताद्यपि विचित्रकार्यं जनयेदित्यत्राह - अनादीति । तस्य स्वरूपानादित्वात् । कार्यमपि प्रागेव स्यात् । सहकारित्वेन शङ्कनीयमिन्द्रियादिकं तु निरस्तम् । मिथ्याभूतस्य चार्थक्रियाकारित्वमयुक्तम् । आश्रयानुपपत्त्यादयश्च पूर्वमेवोक्ता इति भावः ।

एवमनिर्वचनीयस्य रजतादेरुत्पादकानुपपत्तिमुक्तवा तदुत्पत्तावपि रजतादिबुद्धिशब्दान्वयनियमानुपपत्तिमाह - किञ्चेति । तद्य्ववस्थापकं शङ्कते रजतादीति । प्रातिभासिकस्य रजतादेरर्थक्रियाकारिव्यावहारिकरजतादिसादृश्-यादित्यर्थः । उक्तस्य व्यवस्थापकत्वाभावमभिप्रेत्य सादृश्यस्य यथादर्शनं साध्यान्तरमाह - तर्हीति । यदि तत्सदृशे तद्बुद्धिः, तदा गवये गोबुद्धिवदन्यथाख्यातिः स्यादित्येवकाराभिप्रायः । सादृश्यस्यानिर्वाहकत्वेऽपि तज्जातियोगस्य तद्बुद्धिनिर्वाहकत्वं दृष्टमिति शङ्कते - रजतादीति । सा-रजतादिजातिः । अपरमार्थान्वयायोगात्-अपरमार्थव्यक्-त्यन्वयायोगादित्यर्थः । व्यक्तिबाधेऽपि जातेरबाधितत्वप्रसङ्ग इति भावः । जातिरपि हि बाध्यते । न हि, व्यक्तिर्नास्ति जातिरस्तीति प्रतीतिः । जातिरपि नास्तीत्येव हि प्रतिपत्तिः । न च प्राक्प्रतिपन्नाया अपि जातेः पश्चादप्रतीतिरभि-व्यञ्जकव्यक्तयभावात्; न तु जात्यभावादिति वाच्यम्; अभिव्यञ्जकवति पूर्वकाले प्रतिपन्नाया अपि जातेस्तत्कालसं-बन्धितयैव नास्तितागोचरत्वाद्बाधकप्रत्ययस्य । प्रतिपन्नोपाधौ नास्तीति प्रत्ययो हि बाधः । अपरमार्थपक्षं दूषयति - नापीति । परमार्थान्वयायोगात्-आपणस्थरजतव्यक्तयन्वयायोगादित्यर्थः । व्यक्तयवस्थानेऽपि जातेः कदाचिद्बा-धितत्वप्रसङ्ग इति भावः । न हि कदाचिदप्यापणस्थरजते रजतत्वं बाध्यते । परमार्थव्यक्तयन्वये बाधकमाह - अपर-मार्थ इति । परमार्थबुद्धिशब्दयोः । परमार्थव्यक्तौ जातिरनन्विता चेत्-तस्याः क्वचिदपि परमार्थबुद्धिशब्दहेतुत्वाद-र्शनात् भ्रान्तिस्थलेऽपि परमार्थबुद्धिशब्दनिर्वाहकत्वं न स्यादित्यर्थः । यद्वा जात्यपारमार्थ्य एव दूषणान्तरं बुद्धि-शब्दान्वयानुपपत्तिमाह - अपरमार्थ इति । तदानीम् परमार्थबुद्धिशब्दयोः-परमार्थभूतबुद्धिशब्दयोरित्यर्थः । अस-त्यात् सत्योत्पत्तिनिरासमुपजवव्येदं दूषणमुच्यते । व्यक्तेस्तन्निर्वाहकत्वायोगं दर्शयितुमपरमार्थ इत्युक्तिः । अपर-मार्थजातेः परमार्थभूतबुद्धिशब्दनिर्वाहकत्वायोगात् जात्यपारमार्थ्यमयुक्तमित्यर्थः । बुद्धिशब्दयोश्च पारमार्थ्यं तद्बा-धकादर्शनादेव सिद्धम् ।।

अथ वक्ष्यमाणाया यथार्थख्यातेः स्वसिद्धान्तत्वं दर्शयति - अथवेति । तस्याः साम्प्रदायिकत्वं दर्शयन् तां प्रतिजानीते - यथार्थमिति । वेनदविदाम्-भगवद्बोधायननाथमुनि(यामुन ?)मिश्रादीनामित्यर्थः । कुत इत्य- त्राह - श्रुतिस्मृतिभ्य इति । श्रुतिं दशर्यति - बहु स्यामितीति । आदिशब्देन नामरूपव्याकरणमुच्यते । यद्वा सन्मूला इत्यादिवाक्योक्तं स्थितिप्रलयादिकं गृह्यते । सृष्टयादिरुपक्रमो यस्य प्रकरणस्य तस्मिन् सृष्टयाद्युपक्रमे ।

इदं श्रलोकार्द्धं किमर्थमिति चेत्-उच्यते । पाठक्रमेणाण्डसृष्टेः पश्चात् त्रिवृत्करणमिति ज्ञायते । अण्डसृष्टेः प्रागपि त्रिवृत्करणमस्ति; अण्डसृष्टयर्थत्वात् त्रिवृत्करणस्य । त्रिवृत्करणमुपायः; अण्डसृष्टिः फलम् । उत्पत्तौ तत्फलं पश्चा-द्भवति; संङ्कल्पे तु पूर्वभावि । उपायस्तूत्पत्तौ पूर्वभावी, संकल्पे पश्चाद्भावीति लोकसिद्धम्, किं केन कथमित्यादौ । अतः "नामरूपे व्याकरवाणि । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इत्यस्मिन् व्यष्टिसृष्टिसङ्कल्पवाक्ये पश्चान्नि-र्दिष्टमण्डसृष्टयुपायभूतं त्रिवृत्करणम् । "नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोत्" इत्युत्पत्तिवाक्ये पूर्वनिर्दिष्टस्यापि नामरूपव्याकरणस्य फलभूतत्वात् त्रिवृत्करणस्य फलरूपसृष्टेः पूर्वभावो निश्चीयते; अर्थक्रमेण पाठक्रमबाधस्य न्याय्यत्वात् । "अग्निहोत्रं जुहोति यवागूं पचति" इतिवत् । अस्मिन्नर्थे निदर्शनम्, उपक्रमे "बहु स्यां प्रजायेय" इति वाक्यम् । अत्र बहु स्यामिति फलसङ्कल्पः; प्रजायेयेति तदुपायसङ्कल्पः अनेन, न केवलम् किं केन कथमित्यादिलोकप्रसिध्द्या अत्र त्रिवृत्करणस्य फलभूतसृष्टेः पूर्वभावित्वनिश्चयः, उपक्रमभूतसङ्कल्पवाक्यानुगुण्या-च्चेति ज्ञापितम् । एवं त्रिवृत्करणस्याण्डसृष्टेः प्राक् सद्भावं ज्ञापायितुमुपक्रमगतसङ्कल्पवाक्यस्य तदनुगुणत्वज्ञापनाय बहु स्यामित्याद्यर्धमुपात्तम् ।

अण्डान्तर्वर्त्यग्न्यादिषु त्रिवृत्करणस्य प्रदर्शनादण्डसृष्टेः पञ्चात् त्रिवृत्करणमिति शङ्कायां श्रुतेरर्थमाह - एवं हि प्रत्यक्षेणोपलभ्यत इति । अग्न्यादिषु कतिपयव्यक्तिषु त्रिरूपत्वप्रदर्शनं नेयताबुद्धया; अपित्वण्डान्तर्भूतस्यैव प्रत्य-क्षयितुं योग्यत्वात् पूर्वोक्तत्रिवृत्करणसंभावनाप्रदर्शनार्थमिति भावः । अण्डसृष्टेः प्रागेव त्रिवृत्करणमस्तीति स्पष्टं ज्ञापयति पुराणे चेति । अस्यामुपनिषदि भूतत्रयसृष्टेरुक्तत्वात् सृष्टतयोक्तानां मिश्रणमुक्तम् । इदं तत्त्वान्तरसृष्टिप्र-तिपादनप्रकरणेषु तेषामपि मिश्रणस्य प्रदर्शनार्थमिति ज्ञापनाय (च) पुराणवचनोदाहरणम् । वैष्णव इत्यनेन सात्त्विकत्वात् प्रामाण्यं सूचितम्; "सात्त्विकेषु च सर्वेषु विष्णोर्माहात्म्यमिष्यते" इति वचनात् । संहतत्वं समागत-त्वञ्चेति अवस्थाद्वयमस्ति । संहतत्वं नाम पृथक्स्थित्यर्हसंयोगमात्रम्; समागतत्वं पृथक्स्थित्यर्हसंश्लेषविशेषा, एतद्द्वयाभावात् स्रष्टुं नाशक्नुवन्नित्याह - नानावीर्या इति । एतदुभयप्राप्त्या असृजन्नित्याह - समेत्यादि । एकै-कस्मिन् भूते सर्वभूतानि सन्ति चेत्, सर्वे शब्दाः सर्वत्र प्रयुज्येरन्नित्यत्राह - परम्परसमाश्रया इति । अन्येषां भूतानां समाश्रितानामेकं भूतं समाश्रयः । आश्रिताश्रयभावश्च न्यूनाधिकभावनिबन्धनः । तत्कृता शब्दव्यवस्थेति भावः । उपात्तवचनानन्तरं "सम्प्राप्यैक्यमशेषतः" इति कृत्स्नशः समागतत्वमुक्तम् । महदादय इति पाठे सत्यपि वृत्तभङ्गप-रिहाराय स्वसन्दर्भे महदाद्या इत्युक्तं भाष्यकारैः । अयमेव श्रुत्यभिप्राय इति स्थापयितुं सूत्रकारोकिं्त दर्शयति - सूत्रेति । ततः सूत्रकारोऽप्यवददित्यन्वयः । ततः-अस्यार्थस्य श्रुतिस्मृसि#िद्धत्वादित्यर्थः । एवं प्रथमं भूते भूतान्तर-सद्भाव उक्तः, वक्ष्यमाणस्य सदृशे सदृशान्तरसद्भवस्योपयोगित्वात् । तेनाभिधाभिदा-भूयस्त्वेनाभिधानव्यवस्थे-त्यर्थः । सदृशे सदृशान्तरसद्भावमाह - सोमेति । न्यायविदः-परीक्षकाः । "सोमाभावे पूतीकानभिषुणुयात्" इत्ययं विधिर्नियमार्थः । सोमाभावे तत्सदृशद्रव्यान्तरेषु स्वतः प्रवृत्तेः । एतत्तुल्यान्यायसिद्धार्थमाह - व्रीहीति । व्रीहिभा-वतः-व्रीह्यवयवसद्भावतः । ततः कथं सदृशे सदृशान्तरसद्भाव इत्यत्राह - तदेवेति । अनेन शुक्तयादौ रजताद्यवयव-सद्भावः फलित इत्याह - शुक्तयादाविति । श्रुत्यैव बोधितः-प्रतिनिधिश्रुत्यैवाभिहितत्वेन फलितः । यद्वा त्रिवृत्क-

रणश्रुत्यैव बोधितत्वं फलितम् । तेनःप्रचुररूप्यांशः शुक्तौ त्रिवृत्करणात् सिध्यतीत्यर्थः । कथं शब्दव्यवस्थेत्यत्राह रूप्येति । शक्तिरूप्ययोः सादृश्ये सति हि शुक्तौ रूप्यसद्भावसिद्धिः, शब्दव्यवस्थाया भूयस्त्वहेतुकत्वसिद्धिश्चे-त्यत्राह - रूप्यादीति । यद्वा शुक्तौ रजतैकदेशसद्भावे प्रमाणान्तरमाह - रूप्यादीति । ततः किमित्यत्राह - अत इति । प्रतीतेः-रूप्यसदृशतया प्रतीतेः । शुक्तयादौ रजताद्यवयवसद्भावश्चेत्, सदा गृह्येत; प्रवृत्तिश्च सदा स्यात्; बाधश्च नोपपद्येतेत्यत्राह - कदाचिदिति । दोषः शुक्तयंशाग्रहहेतुः । प्रचुरग्रहणाभिभूतत्वाभावाददृष्टवशाच्च रजत-ग्रहणम् । अदृष्टवशाच्चाम्बुनो ग्रहणादिति हि वक्ष्यते । उदाहरणान्तरेष्वप्युपजीव्यत्वाय हि तत्र तदुक्तिः । भूय- स्त्वेन बाध्यबाधकाभाव इति । शुक्तिभूयस्त्वेन तज्ज्ञानस्य बाधकत्वम् । तत एव रजताल्पत्वं सिद्धम् । तेन रज-तज्ञानस्य बाध्यत्वमित्यर्थः । भूयस्त्वेनेत्युक्ते भ्रान्तिज्ञानस्य रजतभूयस्त्वात् तेन शुक्तिज्ञानस्य बाध्यत्वशङ्काव्या-वृत्त्यर्थं भूयस्त्वेन बाध्यबाधकत्वमुपपादयति - शुक्तीति । ननु साकल्ये सत्यपि वैकल्यं गृहीतं चेत्-अन्यथाख्या-तिरिति । नैवम् । न हि वैकल्यस्य ग्रहो वैकल्यग्रहः; किन्तु शुक्तिभूयस्त्ववैकल्येन ग्रहः-तत्सहिततया ग्रहः । तयो-र्ग्रहयोः रूपात् स्वभावात्-तथाविधग्रहणात्मकत्वादित्यर्थः । बहुव्रीहिर्वा । भावप्रधानो निर्देशः । पूवोत्तरज्ञानयोस्त-थारूपत्वात् बाध्यबाधकभाव इत्यर्थः । ज्ञानस्य बाध्यत्वं न स्वरूपतः; न च विषयतः; किन्तु बाध्यप्रवृत्तिकत्वम् । उत्तरज्ञानस्य च बाधकत्वं-पूर्वज्ञानजन्यप्रवृत्तिनिवारकत्वम् । अन्यथाख्यातिवादेऽपि ज्ञानस्य स्वरूपेण बाध्यत्व-मनभिमतम्; किन्तु विषयबाध्यत्वमेवाभिमतम् । अस्माकं तु ज्ञानफलभूतप्रवृत्तेर्बाध्यत्वमिति भिदा । प्रवृत्तेश्च बाधि-तत्वं प्रतिबद्धोत्पत्तिकत्वं विफलत्वं वा । नात इति । मिथ्यार्थसत्यार्थशब्दाभ्यां पराभिमतमिथ्यात्वसत्यत्वे विवक्षिते । एवमिति । सर्वस्य सर्वत्वेऽपि व्यवहारव्यवस्थितिः-हानोपादानादिनियमः एवम्-भूयस्त्वसाकल्यवैकल्याभ्यामि-त्यर्थः ।

साधारणाकारग्रहण-भेदाग्रह-दोषादृष्टानि सर्ववादिभिरभ्युपेतव्यानि । तावता प्रवृत्त्यादिसंभवेऽपि अधिक-कल्पनायामन्येषां गौरवं स्यात् । तत्रेष्टरूपरूपिनिरन्तरभानात्प्रवृत्तिः; द्विष्टरूपरूपिनिरन्तरभानान्निवृत्तिः । रूप-रूपिणोर्धर्म्यन्तरनिष्ठत्व-विरोधिधर्मान्तराश्रितत्वभानविरहेण भानं निरन्तरभानम्; अत एव, "भेदग्रहात्प्रवृत्ति-श्चेत्, रज्जुसर्पभेदाग्रहे निवृत्तिर्न स्यात्" इत्यादीनि चोद्यानि नावकाशं लभन्ते । यः परमते ख्यात्यन्तरहेतुरभ्युपेतः, स एवास्माकं प्रवृत्त्यादिहेतुः । प्राभाकरैर्मन्त्रार्थवादार्थतात्पर्यानभ्युपगमात् केवलभेदाग्रहणैव निर्वाहः कृतः । अत्र तु मन्त्रार्थवादयोः प्रतीयमानार्थे प्रामाण्याभ्युपगमादुपनिषद्भागावगतं त्रिवृत्करणं तत्प्रदर्शितं पञ्चीकरणम् ईश्वरकर्तृकं सर्गविशेषं तथा प्रतिपिधिन्यायं भेदाग्रहमप्युपजीव्य निर्वाहः कृत इति वैषम्यम् ।

तत्र भूते भूतान्तरभ्रमस्य त्रिवृत्करणेन निर्वाहः स्फुटतरः । सदृशे सदृशान्तरभ्रमस्य तु प्रतिनिधिन्यायेनैव निर्वाहः, न तु त्रिवृत्करणेनोपयोगु इति केचिदाचार्याः ।त्रिवृत्करणमपि विजातीयभूतारब्धे सदृशे विजातीयभूतारब्धसदृशा-न्तरभ्रमनिर्वाहौपयिकमिति च सम्प्रदायः । श्रुतिस्मृतिभ्यः सर्वस्येत्यादिग्रन्थानां स्वारस्यात् तथाऽवगम्यते । अत-स्त्रिवृत्करणश्रवणपञ्चीकरणस्मरणाभ्यां प्रतिनिधिन्यायाच्च सदृशे सदृशान्तरबुद्धियाथार्थ्यं निरूप्यते । ननु कथं सदृशे सदृशान्तरभ्रमस्य त्रिवृत्करणेनोपयोगः । न हि त्रिवृत्करणात्पूर्वं रजताद्यवयवाः सन्ति । तथासति हि त्रिवृत्करणनि-बन्धनं शुक्तौ रजतादिसंमिश्रणं स्यात् । न च तदस्ति; त्रिवृत्करणस्याण्डसृष्टेः पूर्वभावित्वात् । उच्यते; पाञ्चभौति-केष्वपि पदार्थेषु किञ्चित्कार्यं केनचित्प्रचुरेण भूतेन परिणामविशेषवता आरब्धम् । तत्र यादृशपरिणामयुक्तयद्भूत-प्रचुरं यत् कार्यम्, तस्य तादृशपरिणामवतो भूतस्य कार्यान्तरेष्वपि विद्यामानत्वात् तेषु तथाविधतद्भूतप्रचुरतत्का-र्यविषयबुद्धिरुपपद्यते । यद्यप्यवान्तराकारविशेषस्त्रिवृत्करणदशायां नास्ति, तथापि त्रिवृत्करणेन कार्यानुप्रविष्टस्य

तस्य भूतस्य कार्यान्तोवयवसमानपरिमाणसंभवाद्भौतिकान्तरे भौतिकान्तरबुद्धेर्याथार्थ्यं घटते । तथा (तथ च ?) त्रिवृत्करणेन शुक्तावन्तर्गतस्य तेजोंशस्य शुक्तभास्वररूपेण परिणामवतो रजतसौसादृश्यात् रजतावयवत्वमुपपन्नम् । तादृशाकारयुक्ततत्तद्भूतविशेषवन्त एव हि सम्यग्रजतादयो निरीक्ष्यन्ते । अतः शुक्तयादौ रजताद्यवयवसद्भाव उप-पद्यते । ननु कथं शुक्तयादिषु प्रतीयमानानामवयवानां रजताद्यवयवत्वम् । न हि ते रजतादिभ्य आनीय निवेशिताः । उच्यते । सम्प्रतिपन्नरजताद्यवयवसुसदृशाकारत्वमेव तेषां रजताद्यवयवत्वम्; न तु रजतादिभ्य आनीय निवेशि- तत्वम् । यथा संप्रतिपन्नरजताद्यवयवानाम् । न ह्यापणस्थरजताद्यवयवाः कुतश्चिद्रजतान्तरादेरानीय निवेशिताः । एवमेव पूतीकादिषु प्रतीयमानानां सोमलताद्यवयवानामपि सोमाद्यवयवत्वं नाम सम्प्रतिपन्नसोमलताद्यवयवसुस-दृशत्वमेव । तच्च स्फुटतरप्रतीतिसिद्धमबाधितञ्च । न हि शुक्तिशकलपूतीकादिषु रजतसोमलतादिसादृश्यं नास्तीति बाधकप्रत्ययं उदेति । तेषामवयवानां विजातीयावयवप्राचुर्यादकायर्करत्वम्, प्रचुरक्षीरनिविष्टाल्पसलिलस्येव प्रचुर-कनकसंसृष्टाल्परजतस्येव च संभवति ।

नन्वेवं शुक्तितयाऽभिमतपुञ्जस्य शुक्तित्वमपुष्कलं स्यात्, विजातीयावयवसंसर्गात्; पुरुषमृगे पुरुषत्ववत् । पुरु-षमृगत्वं नाम पुरुषत्वमृगत्वविलक्षणं जात्यन्तरम्, न तु विकलं पुरुषत्वं मृगत्वं चेति चेत्-तर्हि शुक्तितयाऽभिमत-पुञ्जस्यापि शुक्तित्वरजतत्वविलक्षणजात्यन्तरवत्त्वं स्यात् । ततश्च पुरुषमृगे पुरुषव्यवहारवत् शुक्तिव्यवहारो न मुख्यः स्यात् । विजातीयसंसृष्टायाः भ्रमाधिष्ठानभूतायाः शुक्तेः, पुरुषेण पुरुषमृगस्येव, शुक्तयन्तरेण सौसादृश्याभावात् । सौसादृश्यत्वे सति हि तत्ताव्यवहारस्य मुख्यत्वम् । तदभावाद्धि सिंहो देवदत्त इत्यस्यामुख्यत्वम् । शुक्तयवयवप्रा-चुर्याच्छुक्तित्वं पुष्कलम्; तत एव तद्वयवहारश्च मुख्य इति चेत्-तर्हि रजतांशस्याप्रचुरत्वादेव रजतत्वं नास्तीति रजतबुद्धेर्याथार्थ्यं न स्यात् ।

उच्यते । पुरुषत्ववत् शुक्तित्वस्यावयवसंघातविशेषवृत्तित्वाभावादणुमात्रेऽपि शुक्तित्वं पुष्कलम् । पुरुषत्वस्य तु सङ्घातविशेषवृत्तितया सङ्घातवैकल्यात् तदपौष्कलम्; जान्यन्तरं वा तत्र स्यात्; शुक्तित्वं तु न तथेत्युक्तम् । अतः शुक्तयवयवेषु शुक्तित्वतद्वयवहारावुपपन्नौ । तत्र विरुद्धजात्यन्वयाभावात् । शुक्तितयाऽभिमतसङ्घाते तु शुक्तयवयव-प्राचुर्यादर्थक्रियाव्यवस्था शब्दव्यवस्था चोपपद्यते । प्रचुरशुक्तयभिभूतत्वेन रजतांशस्यागृहीतत्वात् गृहीतशुक्तिवि-वक्षया तद्विषयत्वेन प्रयुक्तः शब्दो मुख्य इत्युपपन्नम् । न च भ्रमाधिष्ठानभूतायाः शुक्तेर्विजातीयावयवयोगितया शुक्तय-न्तरसौसादृयहानिः, शुक्तयन्तरस्याप्यल्परजतांशमिश्रत्वात् । रजतांशाभिभवेन शुक्तयन्तरसौसादृश्यप्रतीतिरुपपद्यते । शुक्तयवयवानां तु परस्परसौसादृश्यमुपपन्नतरम् । उक्तरीत्या रजतांशस्य च रजतत्वं मुख्यम् । तस्मिन्नंशे विरुद्धजा-त्यन्वयाभावात् रजतान्तरावयवसौसादृश्यं च । भ्रमदशायां गृह्यमाणस्य तस्य प्रचुरशुक्तिग्रहणाभिभूतत्वाभावाद्रज-तान्तरावयवसौसादृश्यप्रतीतिरुपपद्यते । अत एव रजतव्यवहारश्च मुख्यः । अतः शुक्तयादौ रजतादिबुद्धेर्याथाथ्यर्-मुपपन्नम् ।

अल्पस्य रजतस्य प्रचुरतया ग्रहणेऽन्यथाख्यातिप्रसङ्ग इति चेन्न; प्राचुर्यग्रहणाभावात्, अल्पत्वाग्रहणमेव हि तत्र विद्यते । प्राचुर्यस्य प्रतियोग्यपेक्षत्वात् प्रतियोगिभूतशुक्तयग्रहणात् तद्ग्रहणे प्रवृत्त्वसंभवाच्च शुक्तयपेक्षया रजतांशस्य प्राचुर्यं न गृहीतमिति नान्यथाख्यातिः । नन्वल्पत्वाग्रहणं नाम प्रचुरत्वग्रहणं स्यात् । भवन्मते हि भावान्तरमभावः । अतोऽन्यथाख्यातत्वमिति चेत्-न; अल्पात्वाग्रहणं नाम न प्राचर्यग्रहणम्, अपि तु अल्पत्वविषयज्ञानसङ्कोच इति अन्यथाग्रहाभावात् । नेदं रजतमित्यत्र नञर्थः कः इति चेत्-शुक्तित्वमेवेति ब्रूमः । यदाकारग्रहणेन पूर्वज्ञानोत्पन्नायाः पवृत्तेर्निवृत्तेर्वा निवारणम्, स एवाऽऽकारो नञर्थः । स चाऽऽकारः प्रतियोगिसापेक्षैः नेदं रजतमित्यादिशब्दैः, तद-

नपेक्षैः शुक्तयादिशब्दैश्च व्यवह्रियते ।।

एवं भूते भूतान्तरसद्भावात्, सदृशे सदृशान्तरसद्भावाच्च शुक्तिरूप्यादिबुद्धेर्याथार्थ्यमुपादितम्; न हि स्वप्ना- र्थानां सदृशे सदृशान्तरसद्भावो वा भूते भूतान्तरसद्भावो वक्तुं शक्य इत्यत्राह - स्वप्ने चेति । कथं केचित् सुखरूपाः केचित् दुःखरूपा इत्यत्राह - पुण्यपापानुगुणमिति । भगवतैव-जगत्स्रष्ट्रैव । तर्ह्यन्यैरष्युपलभ्येत, सदा चोपलभ्ये-तेत्यत्राह - तत्तदिति । कथं दृष्टविसजातीयाः इत्यत्राह - तथा भूता इति । श्रुतिं दर्शयति-तथाहीति । स्वप्नविषयत्व-मस्य वाक्यस्य कथमिति शङ्कायां स्वप्नं पश्यतीति पूर्ववाक्यं स्मारयति - स्वप्नविषयेति । रथयोगाः-अश्वादयः । न भवन्ति-दृष्टसजातीया न भवन्तीत्यर्थः । आनन्दा मुदः प्रमुद इति । साधारणभोग्यदर्शनजा प्रतीर्मुत्; असाधारण-भोग्यत्वज्ञानजा प्रीतिः प्रमुत्; विनियोगजा प्रीतिरानन्दः । यद्वा विलक्षणविषयदर्शनजा प्रीतिर्मुत्; तस्य स्वविनियो-गार्हत्वज्ञानजन्या प्रीतिः प्रमुत्; विनियोमजा प्रीतिरानन्द इति । एतैः शब्दैर्विषयाः लक्ष्यन्ते । मुख्यार्थत्वे दृष्टविस-जातीयत्वायोगात् । वेशान्ताः-गृहाः । यद्वा वेशान्ता-(वेशान्ताः?) पल्वलानीत्यर्थः । कथमुपपद्यत इत्यत्राह - स हि कर्तेति । सर्वशक्तिर्हि कर्ता; किमनुपपन्नमिति भावः । तच्छब्दो न प्रकृतजीवपरः; अपि तु प्रसिद्धपरमात्मपरः । व्याघातपौनरुक्तयशङ्कापरिहाराथर्मस्याः श्रुतेरर्थमाह - यद्यपि सकलेति । सृजत इति पदविरोधपरिहाराय, न भवन्तीति निषेधस्य सङ्कोचो हि उत्सर्गोपवादन्यायेन कृतः । अतः कालान्तरस्थायित्वपुरुषान्तरानुभाव्यत्वाकार-विषयो निषेधः; न तु तत्कालतत्पुरुषमात्रानुभाव्यत्तया स्वरूपनिषेधः । अतो जाग्रदवस्थानुभूतवस्तुसजातीयाः अनेकपुरुषानुभाव्याः कालान्तरस्थायिनश्च न भवन्तीत्यर्थः । स हि कर्तेत्येतत्खण्डम् उक्तार्थोपपादकत्वेन व्याचष्टे तस्येति । स्वाप्नार्थसृष्टेरीश्वरकर्तृकत्वस्फुटीकरणार्थं श्रुत्यन्तरमाह - य एषु सुप्तेष्विति । स्वप्नार्थानां पारमार्थ्यं पूर्व-पक्षीकृत्यापारमार्थ्यं सूत्रकारेण सिद्धान्तितमिति व्याख्यातृमतभेदेन अस्याः श्रुतेर्नायमर्थ इति शङ्काव्युदासार्थमु-क्तार्थस्य सूत्रकाराभिमतत्वमाह - सूत्रेति । सूत्रार्थमाह - स्वाप्नेष्विति । जीवस्यापि स्वप्नदशायां सत्यसङ्कल्पत्वा-द्याविर्भावः कल्प्यत इत्यत्राह - तस्मिंल्लोका इति । अनन्यथासिद्धस्यैव हि कल्पकत्वम् । परमात्मलिङ्गश्रवणेन स्वा-प्नार्थदृष्टेः परात्मनैवोपपन्नत्वात् न जीवस्य स्वरूपाविर्भावः कल्प्यत इत्यर्थः । कथमपवरके शयानस्य देशान्तरगमनादेः पारमार्थ्यमुपपद्यत इत्यत्राह - अपवरकादिष्विति । स्वयमेव स्वदुःखावहवस्तुसृष्टयनुपपत्तेश्च न तदा जीवस्य स्वरू-पाविर्भावः कल्प्यत इति चार्थसिद्धम्; शिरश्छेदादय इत्युक्तत्वात् । सरूपे देहान्तरे शयानदेहव्यवहारो भेदाग्रहकृतः; न त्वन्यथाख्यातिकृतः । एवं स्वाप्नार्थेषु तत्तदेकपुरुषानुभाव्यत्वतत्तत्कालावसायित्वरूपभेदाग्रहात् प्रवृत्त्यादिर्भवति ।।

पीतशङ्खादावीश्वरसृष्टत्वश्रुतिर्दर्शयितुं न शक्यत इत्यत्राह - पीतेति । पीतिमवत् शौक्ल्यमपि प्रतीयेतेत्यत्राह - तत्रेति । तर्हि पार्श्वस्थैरपि पित्तद्रव्यं ग्राह्यमित्यत्राह - पित्तेति । तर्हि सूक्ष्मत्वात् तेनापि न पित्तं ग्राह्यमित्यत्राह - पित्तोपहतेन त्विति । दूरस्थशङ्खस्यातिसामीप्याभावात् कथं तत्रस्थं पित्तद्रव्यं गृह्यत इत्यत्राह - तद्ग्रहणेति । यथा अतिदूरमुत्पतितः पतगो न द्रष्टुं शक्यते, तथापि संनिकर्षोत्पतनकालादारभ्य निरन्तरमवेक्ष्यमाणस्तज्जनितसंस्कार-वद्य्भां चक्षुर्भ्यां दूरेऽपि गृह्यते-तद्वदित्यर्थः । प्राभाकरैः पित्तपीतिमा शङ्खद्रव्यं च निरन्तरं गृह्येते इत्युक्तम्; अत्र तु रूपवद् द्रव्ये चक्षुषः सामर्थ्यात् पित्तद्रव्यं गृह्यत इत्युक्तमिति विशेषः । सुवर्णानुलिप्तशङ्खवदिति दृष्टान्ते चायं भावः । ननु यदि पित्तद्रव्यशङ्खयोर्भेदाग्रहात् पीतशङ्खव्यवहारः, तर्हि पटे पीतव्यवहारः कथं न स्यात् । अन्यथाख्यातौ वा कथं पटे पीतव्यवहाराभावः । भ्रमे सति तन्मूलनिरूपणा कार्या । न तु सर्वत्र भ्रमेण भवितव्यमिति चेत्-तुल्यम् ।।

जपाकुसुमस्फटिकादौ चाक्षुषदोषसंसर्गो दुर्वच इत्यत्राह - जपेति । जपाकुसुमस्फटिक-मरीचिका-जल-अलात-चक्र-दिङ्मोहेषु द्रव्यान्तरेण संबन्धान् यथार्था प्रतीतिरिति निर्वाहः । जपाकुसुमपभासंबन्धात् रक्तप्रतीतिश्चेत्, तत्सं-

बन्धात् पाषाणादिष्वपि तथा स्यादित्यत्राह - स्वच्छेति । मरीचिकेति । अदृष्टस्य नियामकत्वं सर्वैरपि ख्यात्यन्तर-वादिभिरभ्युपेतव्यम्, अन्यथा सर्वेषां सर्वदा सर्वत्र सर्वविषयभ्रमप्रसङ्गात्; कदाचिदपि भ्रमाभावप्रसङ्गाच्च । अलातेति अन्तरालाग्रहणात्-पूर्वोत्तरकालभाविनोः तत्तत्प्रदेशविशेषालातसंयोगयोरन्तरलाग्रहणात् क्रमाग्रहणादित्यर्थः । अन्तरालाग्रहणे सति कथं याथार्थ्यमित्यत्राह - चक्रेति । चक्रप्रतीतिः-सम्यक्चक्रप्रतीतिः । को विशेष इत्यत्राह -क्वचिदिति । दर्पणादिष्विति । सव्यदक्षिणविपर्यासः कथमिति चेत्-उच्यते । आपेक्षिको हि सव्यदक्षिणभावः । तत्र स्वाभिमुखतया विपर्यस्तसव्यदक्षिणभावस्य दपर्णस्य, मुखस्य चान्तरालाग्रहणमेव । विपर्यासो दर्पणदेशगतः । तेना-कृहीतान्तरालं मुखमिति अभिमुखस्य दर्पणस्य मुखस्य चान्तरालाग्रहणादाभिमुख्यप्रतीतेर्याथार्थ्यम् एवं मलिनत्वा-ल्पत्वादि(दे?)श्च । दिङ्मोहेऽपीति । सर्वदिक्सद्भावेऽपि प्राच्यादिव्यवहारः प्रतियोग्यपेक्षया । तत्र दिगन्तरप्रतियो-गिनो दिगन्तरस्य च निरन्तरभानम् । अतो यर्थार्थविषयत्वमिति । दिशां बहुत्वं च, "पद्भयां भूमिर्दिशः श्रोत्रात्" इत्यवगम्यते ।

द्विचन्द्रेति । ततः किमित्यत्राह - तत्रैकेति । स्वतः ऋजुप्रसारिणोऽपि चाक्षुषतेजसो वक्रत्वं संभवति । दर्पणादिना तद्दर्शनात् । इहाप्यङ्गुल्यवष्टम्भादृष्टादिना तदुपपत्तिः । ततः किमित्यत्राह - अत इति । चन्द्रदेशौ द्वाविति प्रतीत्यभा-वहेतुश्चन्दैकत्वाग्रहणम् । देशान्तरगतस्य तद्विशेषणकत्वं कथमित्यत्राह - देशेति । ततः किं प्रतीतेर्याथार्थ्यस्येत्यत्राह तत्र सामग्रीति । तेन देशद्वयविशिष्टचन्द्रग्रहणद्वयं च पारमार्थिकमिति । ग्रहणद्वयमतिशैघ्य्रादगृहीतक्रमम्, अत एवागृहीतपरस्परभेदं चेति भावः । विशेषणद्वयविशिष्टविषयप्रहणद्वयेऽपि विशेष्यैक्यं कथं न प्रतीयत इत्यत्राह - तत्रेति । न हि केवलं चक्षुः ऐक्यप्रतिपत्तिसमर्थं दृष्टं देवदत्तादिष, अपि तु संस्कारसंस्कृतमेव समर्थं दृष्टम् । संस्कारस्य विलम्बितभावित्वान्न तदानीमैक्यप्रतिपत्तिरित्यर्थः । चाक्षुषज्ञानं तथैवावतिष्ठत इति । अगृहीतैकत्वचन्द्रमात्रविषय-मवतिष्ठत इत्यर्थः । तस्यैवेति पाठे चन्द्रमात्रस्यैव ग्राहकतया तिष्ठतीत्यर्थः । एकसामग्रीभूतयोश्चक्षुषोः कथं द्विसाम-ग्रीत्वमित्यत्राह - द्वयोश्चक्षुषोरिति । स्वतो निर्दोषस्येन्द्रियस्य सदोषत्वं हि कार्यकल्प्यम् । तथा सामग्रीद्वित्वमपीति भावः । तर्हि सदैव चन्द्रद्वित्वं गृह्येतेत्यत्राह - अपगते त्विति । कथं दोषापगमे ऐक्यप्रतिपत्तिरिति शङ्कायां द्वित्व-प्रतिपत्तेरौपाधिकत्वमाह - दोषकृतमिति । ग्राह्याकारद्वित्वमिति । स्वदेशविशिष्टत्वमेक आकारः । अगृहीतान्तरालं प्रदेशान्तरमेक आकारः । तस्याऽऽकारत्वं विशेषणत्वम् । न चानाकारस्याऽऽकारत्वेनान्यथाख्यानम् । अगृहीतान्त-रालत्वे सत्यप्रधानतया भातस्यैव विशेषणत्वात् । नेत्रवृत्तिर्वित्तिगतद्वित्वं चन्द्रं चागृहीतभेदं गृह्यतीति प्राभाकाराः । यथा संवित्सिद्धौ प्राभाकरमतोपन्यासे, "नेत्रवृत्तिर्द्विधाभूता द्वे तु वित्ती वितन्वती । द्वित्वं चन्द्रं च युगपत् निर्भास-यति तत्र नः" इति । देशगतद्वित्वं चन्द्रं चागृहीतभेदं गृह्णातीति ततोऽत्र वैषम्यम् । चाक्षुषतेजोगतिभेदरूपसामग्री-द्वयजन्यम् अतिशैघ्य्रादगृहीतक्रममगृहीतभेदं च ज्ञानद्वयम् अगृहीतैकत्वं चन्द्रमगृहीतान्तरालं देशान्तरं च निरन्तरं गृह्णाति । अतो द्विचन्द्रव्यवहार इत्यर्थः । इति निरवद्यं यथार्थख्यातिसमर्थनमित्यर्थः । ख्यात्यन्तरदूषणानामन्योन्यम् उक्तानां स्वाभिमतत्वात् तत्र यत्नाभावमाह - ख्यातीति ।

अथवा किमनेनेत्यादिपाठो बहुषु कोशेषु दृश्यते । व्याख्यातृभिर्व्याख्याख्यातश्च । तत्र परागर्थविषयापरोक्षभ्र-मेष्वेकेनैवोत्तरेण परिहारः कृतो भवति । किं न सेत्स्यतीत्यनेन प्रमाणेऽस्तित्वमुक्तम् । किं नोपपद्यत इत्यनेन उपप-त्तिरुक्ता । किं प्रमाणम्, कथमुपपत्तिरित्यत्राह - भगवताहीति । अखिलं जगत् सृजतेत्यनेनास्यार्थस्य श्रुतिमूलत्वं सूचितम्; कृत्स्नकार्यकारणत्वाद् ब्रह्मणः । "इदं सर्वमसृजत" इति हि श्रुतिः । प्रतीयमानत्वाविशेषादिदमपि तत्सृष्ट-मित्यर्थः । तर्हि बाध्यबाधकभावव्यवस्था कथमित्यत्राह - तत्रेति । न हि तत्तदेकपुरुषानुभाव्यानां तत्तत्कालावसायि-

नाञ्च सुखादीनां मिथ्यात्वमिति भावः ।।

अथ श्रुतिश्रुत्यर्थापत्तिभ्यामनिवर्चनीयसिदिं्ध दूषयितुं प्रथमं श्रुतिवाक्यानि योजयति - यत्पुनरिति । अनृतेने-त्यादिश्रुतिं व्याचष्टे - अनृतेनेति । पूर्वनिरस्तप्रकारेणानिर्वचनीयस्याप्रामाणिकत्वात् तत्र व्युत्पत्तिर्नास्तीति भावः । अनृतशब्दं व्याचष्टे - ऋतेतरविषयो ह्यनृतशब्द इति । हिशब्देन ऋतेतरविषयत्वसम्प्रतिपत्तिः सूचिता । ऋता-भावस्य ऋतविरोधिनश्च ऋतभूतब्रह्माश्रयत्वानुपपत्त्या तदन्य एव नञर्थस्त्वयापि वक्तव्य इति भावः । अनृतशब्दार्थं निष्क्रष्टुं ऋतशब्दार्थमाह - ऋतमितीति । कर्मवाचि-पुण्यकर्मवाचीत्यर्तः; न तु सत्यवाचीति भावः । कुत इत्यत्राह ऋतं पिबन्ताविति । अस्मिन् वाक्ये, "सुकृतस्य लोके" इति ह्युक्तमिति भावः । एवंविधवाक्यान्तरेषु प्रसिद्धिश्चाभि-प्रेता, "यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वाति, एवं पुण्यस्य कर्मणो दूराद्गन्धो वाति" इत्युक्तवा, "एवमनृतादात्मानं जुगुप्सेत्" इति पुण्यप्रतियोगिनि अनृतशब्दः प्रयुक्तः । तस्मात् ऋतशब्दः पुण्यवाची । पुण्यमपि हि मोक्षविरोधि; तत् कथमनृतशब्दोक्तपापमात्रप्रत्यूढत्वमिति शङ्कायां मोक्षप्रकरणोक्तं पुण्यं विविनक्ति ऋतं कर्मेति । मुमुक्षोः सुकृतं दुष्कृतमुभयं हि विरोधीत्यतन्तद्द्वयं पापम् । अतो नञ्समासान्तर्गत ऋतशब्दोऽनभिसंहितफलकमर्पर इत्यर्थः । पर-मपुरुषाराधनवेषं तत्प्राप्तिफलयित्यनेन, "स्वकर्मणा तमभ्यर्च्य सिदिं्ध विन्दति मानवः" इत्येतत् सूचितम् । अनृत-शब्दस्य ब्रह्मप्राप्तिविरोधिपरत्वे सति ऋतशब्दस्य बन्धकेतरकर्मवाचित्वसिद्धिरिति तदर्थं तत्पूर्ववाक्येनोपपादयति - एतमिति । ऋतानृतशब्दयोः, "एवमनृतादात्मानं जुगुप्सेत्" इत्यादिषु श्रुतिषु पुण्यपापपरत्वेन प्रसिद्धत्वात्, "न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्त्तन्ते", "क्षीयन्ते चास्य कर्माणि" इत्यादिषु सुकृतदुष्कृतयोरपि मोक्षविरोधित्वश्र-वणात् मोक्षप्रकरणेषु मुमुक्षोः संसाराख्यानिष्टफलप्रदत्वेनोभयोरपि पापशब्दाभिधेयत्वात् अस्यानृतशब्दस्यास्मिन् वाक्य एव ब्रह्मप्राप्तिविरोधित्वश्रवणात् "तस्यान्तरो मैत्रेय" इत्यादिषु पुण्यपापकर्मणोः मोक्षविरोधिफलत्वश्रवणात्, अनृतशब्दस्यानिर्वचनीयवाचित्वेन व्युत्पत्यभावाच्चानृतशब्दस्तदन्यव्युत्पत्त्या मोक्षविरोधिकर्मपर इत्यर्थः ।

नासदासीदित्यादि । अत्र, "अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते" इति ब्रह्मशब्दवाच्यशुद्धात्मस्वरूपविषयः सदसच्छब्दप्रयोगः प्रतिवन्दीत्वेनानुसन्धेयः । सदसच्छब्दयोश्चिदचिद्य्वष्टिविषयत्वमुपपादयति - उत्पत्तीति । उत्पन्नस्य हि प्रलयः उत्पत्तिश्च चिदचिदचिद्य्वष्टयोः श्रुतिसिद्धा । अतस्तयोरत्र प्रलय उच्यत इत्यर्थः । सत्त्यच्छब्दाभ्यां "सच्च त्यच्चाभवत्" इति वाक्यं स्मारितम् । कार्यावस्थचेतनस्य सच्छब्दोक्तत्वादिह सच्छब्देन, तदन्यवाचकेनासच्छब्देन च कार्यावस्थचेतनाचेतननिषेधः कृतः; वाक्यान्तरैकार्थ्यादित्यर्थः । "तम आसीत् तमसा गूढम्" इति तदनन्तरवाक्या-भिप्रायेणाचित्समष्टिभूते तमश्शब्दाभिधेये वस्तुनीत्युक्तम् । हेत्वन्तरं चाह - सदसतोरिति । न हि कालविशेषे अनिर्वचनीयमभ्युपगम्यते । अचित्समष्टेस्तमःशब्दवाच्यत्वमुपपादयति अत्रेति । "तम आसीत्", "मायां तु प्रकृतिम्" इत्यनयोर्वाक्ययोः पूर्वं क्रमेणोपादानविवक्षां चोद्यरूपेण दर्शयति - सत्यमिति । प्रकृतिशब्दवाच्या मायेत्यभिप्रायः । परिहरति - नैतदेवमिति । कुत इत्यत्राह - मायेति । इतिर्हेतौ । मायाशब्दवाच्या प्रकृतिरित्यभिप्रायः । ऐन्द्रजालि-कादिषु मायावित्वप्रयोगदर्शनात् मायामिथ्याशब्दयोः पर्यायत्वात् अनिर्वाच्यस्य च मिथ्यात्वाच्च मायाशब्दवाच्य-त्वमित्यभिप्रायेण शङ्कते मायेति । परिहरति - तदपि नास्तीति । मायाशब्दस्य मिथ्यापर्यायत्वमेव नास्ति । तथा-ऽभ्युपगमेऽपि अन्यथाख्यातिभेदाग्रहयोरन्यतरेणैवोपपन्नत्वात् न तद्विषयत्वं युक्तमित्यनिर्वचनीयवाचित्वं नास्तीति भावः । तदुपपादयति - नहीति । मायाशब्दप्रयोगविषयेषु सर्वेषु मिथ्यात्वाननुवृत्तेरित्यर्थः । सत्येषु मायाशब्दप्रयोगं दर्शयति - यथोक्तमिति । न हि ज्ञानबाध्यानामेकैकशः शस्त्रच्छेद्यत्वमस्ति । तस्मादेकैकशो मायानां छेद्यत्ववचना-न्मायाशब्दस्य सत्यपरत्वमिति । अनुयायिन एव प्रवृत्तिनिमित्तत्वात् मायाशब्दप्रयोगविषयेषु सर्वेष्वनुगतमाश्चर्यत्वमेव

मायाशब्दप्रवृत्तिनिमित्तमित्याह - अत इति । आश्चर्यत्वम् विस्मयनीयत्वम् । तच्च विचित्रार्थसर्गकरत्वात् । विचित्र-शब्दो नानाविधवाची । नानाविधकार्यकरत्वात् प्रकृतेर्विस्ममयनीत्वम् । मायाशब्दो ह्याश्चर्यवाचीति वक्ष्यते । तस्मा-दार्श्चयत्वमेव प्रवृत्तिनिमित्तम् । असत्येषु सत्येष्वपि मायाशब्दप्रयोगविषयेष्वार्श्चयत्वं विद्यते । प्रकृतेरार्श्चयत्वमेव मायाशब्दाभिधेयत्वनिबन्धनमित्याह - प्रकृतेरिति । तदुपपादयति - अस्मादिति । विचित्रकार्यकरत्वात् प्रकृतेरा-श्चर्यरूपत्वमिति न मायामात्रसूत्रविषयभाष्यविरोधः । एवं मायाशब्दार्थ उक्तः । अथ भगवतो मायासंबन्धश्रवणात् तद्वश्यत्वशङ्काव्युदासाय मायीतिपदगतमत्वर्थीयप्रत्ययार्थमाह - परमपुरुषस्य चेति । मायीतिपदोक्तो मायासंबन्धो न तत्तिरोभाव्यत्वम्; अपि तु तच्छेषित्वम् । जीवस्यैव तु तत्तिरोधेयत्वम्, तस्यैव तथात्वश्रवणादित्यर्थः । मायाभिभवो जीवस्यैवेत्येतस्मिन्नर्थे परोक्तमेव वचनमाह - अनादीति । "इन्द्रो मायाभिः" इत्यत्र अनेकविचित्रशक्तयभिधायित्वं बहुवचनादवगम्यते । ममेति । स्पष्टम् । निगमयति इतीति । मायाशब्दस्य मिथ्याभूतविषयेषु प्रयोगो दृश्यते चेत्, तत्र लाक्षणिकः स्यात्; अर्थस्य सत्यत्वाभावेन तस्याश्चयत्वाभावात् । प्रतिभासस्तु द्वित्वादिविषयत्वादाश्चर्यरूपः, मन्त्रौ-षधादिश्चाश्चर्यरूप इति तत्संबन्धाल्लाक्षणिकत्वम् ।

अथ श्रुत्यर्थापत्त्या अनिर्वचनीयसिदिं्ध दूषयति - नापीति । प्रतिज्ञातमुपपादयति - नहीति । अज्ञानापरिकल्पने अनुपपत्तिर्नास्ति; तत्कल्पन एवानुपपत्तिः, विरुद्धधर्मश्रवणादित्यभिप्रायेण तच्छब्दावगतविशेषणानि उक्तानि । समानविभक्तिश्रुतिसिद्धतया ह्यैक्यापरित्यागः, तथा श्रुतहानस्यान्याय्यत्वात् तच्छब्दावगतविशेषाः स्वीकार्या इति भावः । ऐक्योपदेशानुपपत्तिरिति चेत्-तत्राह ऐक्येति । जीवपरयोर्हेयसंबन्धतदनर्हत्वाभ्यां ह्यैक्यविरोधः । जीवश-रीरकस्य परमात्मन ऐक्याभिधाने जीववाचिशब्देन तच्छरीरकपरब्रह्माभिधानममुख्यमिति चेत्-तत्राह - अनेनेति । श्रुत्यर्थापत्त्यसिदिं्ध निगमयति - अत इति । इतिहासपुराणयोर्ब्रह्माज्ञानपरत्वाभावं प्रतिजानीते - इतिहासेति ।

नन्वित्यादि । ब्रह्मैकमेव तत्त्वमिति प्रतिज्ञायेति । जडाजडयोः स्वरूपैक्यायोगेन सामानाधिकरण्यस्य बाधा-र्थत्वात् उत्तरश्लोकेषु तद्वयतिरिक्तस्य मिथ्यात्वकथनाच्चेत्यभिप्रायः । विज्ञानविजृम्भितानि । विविधं ज्ञायते येन, विपरीतं ज्ञायते येनेति वा करणे व्युत्पत्तिः । विज्ञानमविद्या । यदा तु शुद्धमित्यादिना तस्य हि व्यतिरेको वक्ष्यते । विज्ञाने (विज्ञानेन) विजृम्भितानीति योजना त्वयुक्ता; अस्वारस्यात् । विजअम्भितानीति पुंसकस्य (नपुंसका-न्तपदस्य) पुँल्लिङ्गभेदशब्दविशेषणत्वायोगेन विजृम्भितशब्दस्य भावार्थप्रत्ययान्तत्वस्य युक्तत्वेन षष्ठीसमासस्य युक्तत्वाच्च । ब्रह्मव्यतिरिक्तस्याविद्यापरिकल्पितत्वं व्यतिरेकमुखेन स्थिरीकरोतीत्याह - यदा त्विति । शुद्धम्-अवि-द्यारहितम् । निजरूपि - तत्कृतभेददर्शनरहितम् । अपास्तदोषम्-रागादिदोषरहितम् । सङ्कल्पतरोः । समन्तात्क-ल्प्यतेऽनेनेति सङ्कल्पः दोषः । वस्तुषु वस्तुभेदा इत्यत्र वस्तुष्विति बहुवचने न तात्पर्यम् । जडोपलक्षिते वस्तुनि जडगतभेदा न संभवन्तीत्यर्थः । यद्वा एको वस्तुशब्द आकारपरः, । जडगताकार(रूप?)भेदा न भवन्तीत्यर्थः । वस्त्वस्ति किम्, महीघटत्वमिति श्लोकद्वये प्रथमेनार्थस्वभाव उक्तः, द्वितीयेनोदाहरणं दर्शितमिति भिदा । तत्र कुतो हि तत्त्वम्-एवं सति कुतः परमार्थ इत्यर्थः । कृत्स्नमपरमाथर्त्वेनोपलब्धं चेत्, कथं तत्र प्रामाण्यमिति शङ्काया-मुच्यते - स्वकर्मस्तिमितात्मनिश्चयैरिति । तत्त्वार्थनिश्चयविरोधिकर्मवशादित्यर्थः । यद्वा न केवलमात्मविद्भिरेवा-सत्यत्वमुपलभ्यते, अपि त्वजैरपीति भावः । न केवलं शास्त्रप्रमाणेन, लौकिकजडग्राहिप्रमाणेनापि तस्य मिथ्यात्वं सिध्यतीत्युक्तं भवति । तस्मान्न विज्ञानमृते इति श्लोकार्धमनात्मभूतविजातीयभेदनिषेधमुपसंहरतीत्याह - तस्मा-दिति । विज्ञानमेकमित्यर्धं सजातीयरूपात्मभेदनिषेधपरम् । भेददर्शननिमित्ताज्ञानमूलं निजकर्मैवेतीति । भेद-दर्शनम्-सजातीयभेददर्शनम् । तत् उत्तरोत्तरभाविकार्याज्ञानहेतुः; तस्यापि पूर्वकर्मैवेत्यर्थः । यो देवादिशरीरभेदहेतुः,

स एवेत्येवकाराभिप्रायः । यद्वा देवादिशरीरभेदप्रतीतिहेतुकाज्ञानमात्मनि देवत्वाद्याकारारोपणरूपम्; तस्य हेतुः कर्मैवेत्यर्थः । अनात्मनि आत्मबुद्धेरप्यज्ञानशब्दवाच्यत्वं युक्तम्; तस्या अपि मूलाज्ञानकार्यत्वात्; "श्रूयतां चाप्य-विद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या" इति तस्या अज्ञानपर्यायाविद्याशब्दवाच्यत्वाच्च । ज्ञानं विशु-द्धमिति स्वगतभेदनिषेधः । विशुद्धंविमलमिति-अविद्यातत्कृतभेददर्शनरहितमित्यर्थः । तत्कृतशोकादिरहितमित्याह विशोकमिति । एकं सदैकमिति सजातीयविजातीयभेदविरहानुवादः । यद्वा एकमिति सजातीयविजातीयभेदनिषे-धानुवादः, सदैकमिति उक्तप्रकारेण स्वगतभेदराहित्यमुच्यते । परमपरेशादिशब्दवाच्यं चिन्मात्रमेवेत्याह - परम इति । नेदं परमतम्, तत्त्वमेवोक्तमित्याह - सद्भाव इति । संव्यववहारभूतम्-समन्ताद्य्ववहारार्हभेदम् । भुवनाश्रितम् भुवनेनाधिष्ठानतया श्रितमेवैतद्वर्त्तते (इति यत्?) तत्रापि हेतुरज्ञानमेवोक्तमित्यर्थः । यद्वा भुवनाश्रितम्-भुवनमा-श्रितम्, संव्यवहारभूतम्-व्यावहारिकम्, एतत्-लोकसिद्धं सत्यत्वं यत्, तत्रापि कारणमविद्येत्युक्तमित्यर्थः । एतद-भिप्रायेण हि तस्य भुवनादेः सत्यत्वं व्यावहारिकमितीत्युक्तम् । इति ह्युपदेशो दृश्यत इति । तस्मादितिहासपुरा-णयोर्ब्रह्माज्ञानवादो न दृश्यत इति वक्तुं न शक्यमित्यर्थः ।

एतत् प्रतिक्षिपति नैतदेवमित्यादिना । नैतत्-चिन्मात्रब्रह्मणोऽविद्यासंबन्धित्वमविद्याकल्पितत्वेन प्रपञ्चस्य मिथ्यात्वं च यदुक्तम्, न तत् प्रामाणिकमित्यर्थः । तथासति अर्थविरोधात् प्रकरणविरोधात् शास्त्रतात्पर्यविरोधात् अशेषमूर्तिर्भगवानित्यादिपदानां लाक्षणिकत्वात् प्रपञ्चधर्मिग्राहकप्रमाणविरोधात् श्रुतेः सविशेषवस्तुपरत्वोपपादनेन स्मृतेस्तद्विरुद्धार्थपरत्वापातात् पूर्वोक्ततर्कविरोधाच्च तदभावः । अत्रार्थविरोधो नाम-सर्वज्ञत्वादिगुणस्याज्ञानादिप्रस-क्तिविरोधः, अविद्याया आश्रयतिरोधानाद्यनुपपत्तिश्च । प्रपञ्चस्य विस्तरेण प्रतिपादनवैयर्थ्यं प्रकरणविरोधः । अन्यत्तु स्पष्टम् । दशश्लोक्यामस्तिनास्तिसत्यासत्यज्ञानाज्ञानादिशब्दा आत्मानात्मविषया इति नात्र विगानम् । तत्र नास्त्यसत्यशब्दयोः किं ज्ञानबाध्यत्वं प्रवृत्तिनिमित्तम्, उत परिणामित्वमिति विचारो-परिणामित्वपक्षे स्वारस्य-मस्ति; मही घटत्वमित्युपपादनात् । अज्ञानशब्दस्य च नानिर्वचनीयपरत्वम्; अपि तु कर्मपरत्वमेव; यज्ञः पशु-रित्यादिस्वारस्यात् । अन्यत्र, "शरीराकृतिभेदास्तु भूपैते कर्मयोनयः", "अविद्याकमर्संज्ञाऽन्या", "बाह्यकर्मवृत्ति-प्रज्ञः" इत्यादिवचनाच्च ।

चिदचिद्विवेकोऽत्र क्रियत इत्यभिप्रेत्य तदनुगुणसङ्गतिमाह - अत्रेति । अत्र-अस्मिन् द्वितीयांशे । विस्तीर्ण-मिति स्वरूपविशेषणम् । विस्तीर्णशब्देन स्थौल्यं विवक्षितम् । संसृष्टस्थूलरूपमुक्तवा वियुक्तं सूक्ष्मरूपमुच्यत इति भावः । यद्वा विस्तीर्णमिति क्रियाविशेषणम् । उत्तरत्र मिथ्यात्वं विवक्षितं चेत्-पूर्वं विस्तरेण कथमनुपपन्नम् । न हि, पूर्वमेव भ्रान्तस्य भ्रमान्तरापादनं कार्यम् । तस्मात् पूर्वं विस्तरेण भुवनकोशस्य कथितत्वान्न मिथ्यात्वं वक्ष्यत इति भावः । वक्ष्यमाणमादिभरतचरितं हृत्स्थं विस्तररूपम् । तत्सङ्क्षेपश्चायम् । वक्ष्यमाणसङ्क्षेप उक्तसंक्षेपश्च दृश्यते; अत उक्तसंक्षेपशङ्काव्यावृत्त्यर्थमाह - अनुक्तमिति । अनुक्तं संसृष्टरूपान्तरं कथ्यत इति शङ्काव्यावृत्त्यर्थमाह - रूपान्त-रमिति । वियुक्तमित्यर्थः । मिथ्यात्वव्यतिरेकेण वक्तव्यं (रूपान्तरं) सकलमुक्तम् । तस्मादनुक्तं वक्तव्यं रूपान्तरं नाम मिथ्यात्वम्, नान्यदिति शङ्कायाम्, मिथ्यात्वं विनाऽनुक्तं रूपान्तरमाह - चिदचिन्मिश्र इति । चिदचिन्मिश्रे जगतीत्यनेन, सङ्क्षेपः श्रूयतां पुनरित्यत्र पुनःशब्दो व्याख्यातो भवति । चिदचिदात्मके जगति स्थूलरूप(त्व)मु-क्तम्; तत्रैव जगतीदमपि रूपान्तरं पुनरुच्यत इति तस्यार्थः । "सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यम्" इत्यादि-वाक्योक्तं विशेषणमाह - चिदंशो वाङ्मनसेति । "द्वैतिनोऽतथ्यदर्शिनः" इत्यादिवाक्यानां भेदनिषेधपराणामर्थं हृदि निधायाह - अस्पृष्टेति । यदि चिदंशस्य ज्ञानैकाकारत्वमचिदंशस्य परिणामास्पदत्वं च विवक्षितम्, तर्ह्यस्तिनास्ति-

सत्यासत्यादिशब्दप्रवृत्तिनिमित्तत्वेन किमर्थमुच्यत इति चेत्-उच्यते । शाखाविशेषेषु "सच्च त्यच्चाभवत्", "विज्ञानं चाविज्ञानं च", "सत्यं चानृतं च सत्यमभवत्" इत्यादिवाक्येषु अस्तिनास्तिसत्यासत्यादिशब्दानां श्रूयमाणानाम् अनधीतशाखागतानां च किं ज्ञानबाध्यत्वाबाध्यत्वे प्रवृत्तिनिमित्तभूते; उत परिणामित्वापरिणामित्वे इति शङ्कां निराकर्तुम्- "परिणामित्वापरिणामित्वे एव नास्त्यसत्यादिशब्दार्थः, न तु ज्ञानबाध्यत्वाबाध्यत्वे" इत्यधीतानधीत-शाखार्थज्ञापनार्थमिति । पृथिव्यादितत्त्वानां सङ्घातविशेषावस्थायामेव जीवं प्रति शरीरत्वं दृष्टम्; न त्वैकैकस्य । मनुष्यादिशरीराणामपि तादृशपिण्डावस्थायामेव शरीरत्वं दृष्टम्; न भस्माद्यवस्थायाम्-इति चिदचितोः प्रत्येकम-वस्थाविशेषेषु भगवच्छरीरत्वाभावशङ्काव्यावृत्त्यर्थमाह - उभयमिति । चिदचिद्रूपमन्योन्यसंसृष्टं निष्कृष्टं च भग-वच्छरीरमित्यर्थः । निष्कृष्टस्य भगवच्छरीरत्वप्रतिपादनात् भगवन्तं प्रति शरीरत्वस्य निरुपाधिकतया स्वरूपप्रयु-क्तत्वं फलितमिति मुक्तावस्थायामपि जीवस्य भगवच्छरीरत्वसिद्धिः । एतद्रूपम्-अयमाकार इत्यर्थः । एतदुपपादयति तथाहीत्यादिना दशश्लोक्यां न भगवदात्मकत्वमसाधारणं प्रतिपाद्यम् । तत्तु सर्वप्रकरणसाधारणम् । असाधारण-प्रतिपाद्यं तु प्रकृतिपुरुषविवेक एव । शास्त्रस्योपनिषदर्थोपबृंहणपरत्वात् साङ्खयादिमतव्यावृत्त्यर्थं सवर्प्रकरणेषु भग-वदात्मकत्वमुच्यते । अत्रासाधारणप्रतिपाद्यः प्रकृतिपुरुषविवेक एवेत्यभिप्रायेण हि पूर्वमनुक्तं रूपान्तरमित्युक्तम् । भगवदात्मकत्वस्य सर्वप्रकरणसाधारण्यं हि, पूर्वमपकयेतदसकृदुक्तमिति उत्तरत्र च वक्ष्यते । दशश्लोकीस्थसामा-नाधिकरण्यं शरीरात्मभावनिबन्धनमिति ज्ञापयितुं पूर्वश्लोकमुपादत्ते - यदम्ब्विति । ऋषिणाऽभिप्रेतं फलितमर्थमाह अम्बुनो विष्णोरिति । न हि बाल्यावस्थायां शरीरभूतस्य वस्तुनोऽवस्थान्तरे चेतनेन स्वरूपैक्यमस्ति, अपि तु सर्वावस्थमपि तद्वस्तु शरीरमेवेति भावः । तस्य च विष्णुरात्मेतीति । अभिप्रेत्येत्यर्थः । एवंरूपशरीरात्मभाव इति वार्थः । सकलश्रुतिगततादात्म्योपदेशोपबृंहणरूपस्येति । अनधीतशाखास्वपि तादात्म्योपदेशोऽस्ति, तस्यायमेवार्थ इति ज्ञापनं तादात्म्योपदेशस्योपबृंहणम् । यद्वा प्रत्यक्षसकलश्रुतिगततादात्म्योपदेशोपबृंहणं नाम अनधीतशाखासु तद्विरुद्धार्थप्रतिपादनं नास्तीति ज्ञापनम् । अत्र इतिशब्दत्रयस्य अनेन श्लोकेन भगवानिममर्थमभिप्रेत्यायमर्थ इत्या-हेत्यन्वयप्रकारः । नकेवलमत्र समष्टिसृष्टिश्लोकगतव्यधिकरणनिर्देशेन व्यष्टिश्लोकगतसामानाधिकरण्यं शरीर-शरीरिभावनिबन्धनमिति विज्ञायते, अपि तु प्रदेशान्तरेषु व्यष्टयवस्थानां भगवन्तं प्रति शरीरत्वं सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वं चासकृत् कण्ठोक्तमित्याह - अस्मिन्निति । शरीरात्मभावस्य सामानाधिकरण्यहेतुत्वं कण्ठोक्तम् विश्वरूपो यतोऽव्ययः इति । तथा अन्यत्रापि, "सर्वगत्वादनन्तस्य स एवाहम्", "सर्वं समाप्नोषि ततोऽसि सर्वः" इत्यादि द्रष्टव्यम् । तदिदमित्यादिना ज्योतींवीत्यादिश्लोके पादत्रयस्यार्थ उच्यते । संसृष्टस्य भगवदात्मकत्व-मुक्तमित्यर्थः । प्रधानादिविशेषान्तं चेतनाचेतनात्मकमित्युक्तत्वात् ज्योतिरित्यादिशब्दाः संसृष्टजीववाचिनः । अथ उत्तरश्लोकसङ्गत्यर्थं विशिष्टवाक्यार्थानुवादेन चतुर्थपादार्थं दर्शयति - अत्रास्त्यात्मकमिति । यदम्बु इत्यादिश्लोकेन वैयधिकरण्येन समष्टयवस्थचिदचितोर्भगवदात्मकत्वमुक्तम् । व्यष्टयवस्थयोरसंसृष्टयोः संसृष्टयोरपि (स्थयोः संसृ-ष्टयोः, असंसृष्टयोरपि ?) तयोः सामानाधिकरण्येन भगवदात्मकत्वमुच्यते ज्योतींषीत्यादिना श्लोकेन । तत्र पादत्र-येण व्यष्टयवस्थयोः संसृष्टयोसतदात्मकत्वमुक्तम्; चतुर्थपादेन तु निष्कृष्टयोरपि तदात्मपत्वमुक्तमित्यर्थः । अनन्तर-श्लोकमवतारयति इदमिति । अचिदंशस्य नास्त्यात्मकत्वनिबन्धनमेव तात्पर्यविषयः । अचिदंशस्य हि मिथ्यात्वशङ्का व्युदसनीया । अतस्तस्य परिणामित्वात् नास्त्यात्मकत्व एव तात्पर्यम् । चिदंशस्य त्वपरिणामित्वादस्त्यात्मकत्वं फलितं स्यादित्यभिप्रायेण अस्य च नास्त्यात्मकत्वे हेतुरयमित्याहेत्युक्तम् । व्याख्येये प्रतीकमुपादत्ते ज्ञानस्वरूप इति । अत्र ज्ञानस्वरूपो भगवानिति सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वं न केवलं पूर्वश्लोके "यदम्बु

वैष्णवः कायः" इत्युक्तत्वादवगम्यते, अस्मिन्नपि श्लोके अशेषमूर्तिरित्यनेनापि ज्ञायत इत्यभिप्रायेण व्याचष्टे-अशे-षेति । अशेषशब्देनाचितोऽपि विवक्षितत्वे भगवन्तं प्रति तस्य मूर्तित्वं विहितं स्यात्, अप्राप्तत्वात् । ततश्च " न तु वस्तुभूत" इति देवमनुष्यशैलाब्धिधरादिवस्तुभावनिषेधोऽनुपपन्नः । अतोऽशेषशब्दः क्षेत्रज्ञविषय इत्यभिप्रायेणाशेष-क्षेत्रज्ञात्मनेत्युक्तम् । अत्र ज्ञानस्वरूपादिशब्दानां परमविशेष्यपर्यन्ताभिधायित्वेऽपि विशेषणविशेषणे वाक्यस्य तात्कर्यम् । अतो ज्ञानस्वरूपत्वं विशेषणभूतजीवस्यैव विधीयते । यथा "लोहितोष्णीषा ऋत्विजः प्रचरन्ति" इत्यत्र विशेषणगतं लौहित्यमेव विधेयं परम्पराया ऋत्विक्प्रचारकर्मविशेषणम्-तद्वत् । "काठिन्यवान् यो बिभर्ति", "नृसिं-हमूर्तिर्भगवान् श्वेतः" इत्याद्युदाहरणं द्रष्टव्यम् । ज्ञानस्वरूप इत्यत्र दिव्यात्मस्वरूपस्य ज्ञानस्वरूपत्वमुच्यत इति न शङ्कनीयम्; "सर्वकर्मक्षये ज्ञानमपास्तदोषम्" इति विवरणानुपपत्तेः । न हि दिव्यात्मस्वरूपस्य कर्मतत्कृतरागद्वेषा-दिहेयसंबन्धप्रसङ्गः । न तु वस्तुभूत इत्यस्यार्थमाह न देवमनुष्यादीति । शैलादिस्थावरोक्तिः सर्वशरीराणामुपल-क्षणमिति ज्ञापनार्थो देवमनुष्यादिशब्दः । उत्तरार्द्धं व्याचष्टे - यत एवमिति । शैलाब्धिधरादिभेदात् विज्ञानविजृ-म्भितानि जानीहीत्यनेन फलितं हेतुहेतुमद्भावं विवृणोति तद्विज्ञानेत्यादिना । विज्ञानशब्दं व्याचष्टे-तस्येति । विज्ञानम्-विविधज्ञानम् । कथं शैलाब्धिधरादिभेदस्य वैविध्यानुसन्धानमूलत्वम्; "निजकर्मभेदभिन्नभित्तैः" "सर्व-कर्मक्षये" इति कमर्मूलत्वेन वक्ष्यमाणत्वात् कर्मैव हि मूलमित्यत्राह - देवादीति । वहविध्यानुसन्धानस्य देवादिभेद-हेतुत्वं सद्वारकम्; उपरितनग्रन्थैकार्थ्यात्; "अविद्यासञ्चितं कर्म" "बाह्यकर्मवृत्तिप्रजः", "भूपैते कर्मयोनयः" इत्या-दिवचनान्तराच्चेत्यर्थः । पूर्वम् इदमस्त्यात्मकमित्यादिनोक्तश्लोकवाक्यार्थः कथं घटत इत्यत्राह - यतश्चेति । ज्ञान-स्वरूपः, विज्ञानविजृम्भितानीत्यनेन तथा फलितमित्यर्थः । तदेवेति । पूर्वपक्षयोजनायामुक्तेष्वर्थेष्वपेक्षितांशो-पजीवनेन सिद्धान्तयोजना क्रियते । विज्ञानविजृम्भितत्वमेव व्यतिरेकमुखेन विवृणोतीत्यर्थः । पूर्वश्लोके देवादि-भेदानां स्वात्मवैविध्यानुसन्धानमूलत्वं सद्वारकमिति व्याख्यानमनन्तरश्लोके व्यतिरेकमुखेन विवरणे कर्महेतुत्व-श्रवणनिबन्धनमिति स्पष्टयन्नाह - देवाद्याकारेणेति । निर्दोषमित्यादिपदानामर्थविभागः "ज्ञानं विशुद्ध"मित्यादि-श्लोकव्याख्याने विशदयिष्यत इति ग्रन्थलाघवार्थमत्र न विस्तृतः । निर्दोषम् शरीरसम्बन्धरहितम् । परिशुद्धम् तत्कृतरागद्वेषसुखदुःखादिरहितम् । निजरूपि आविर्भूतस्वरूपम् । सङ्कल्पशब्दं व्याचष्टे - एकीकृत्यात्मकल्पना-शब्देन । "समित्येकीकारे" इति हि शाब्दाः । पूर्ववत् सद्वारकमिति व्याचष्टे आत्मकल्पनामूलकर्मफलभूता इति । देहात्मनोरेकीकृत्यानुसन्धानफलं देवाद्याकारेण स्वात्मवैविध्यानुसन्धानम् । तयोरैकैकं विज्ञानशब्दे सङ्कल्पशब्दे-ऽप्यर्थसिद्धम् । सुखदुःखे हि कर्मफलम् । तत् कथं वस्तुभेदस्य कमर्फलत्वमिति शङ्कायां तद्भोगार्था इत्युक्तम् । सुखादिभोगद्वारभूतत्वात् देवादिभेदाः कर्मफलमित्यर्थः । "भोक्ता भोग्यं प्रेरितारं च मत्वा" इत्यादिषु भोग्यशब्दार्थः स्पष्टीकृतो भवति तद्भोगार्था इत्यनेन । भोगास्थानभोगोपकरणानां भोगसिद्धिप्रयोजकत्वमेव भोग्यत्वमित्यर्थः । सप्तम्यन्तवस्तुशब्दो जीवपर्यन्तदेहपरः; द्वितीयवस्तुशब्दो देवादिशरीरमात्रपरः । वस्तुभेदाः-देवादिशरीरभेदाः । अत्र वस्तुभेदशब्देन भेदस्य वस्तुरूपत्वात् पारमार्थ्यमपि फलितम् । अत्रान्वितेषु पदेषु व्याख्येयपदव्याख्यानार्थमाह ये देवादिष्विति । देवादिषु वस्तुषु आत्मतयाऽभिमतेषु । प्रथमवस्तुशब्दो जीवपर्यन्तदेहपर एवेत्यभिप्रायः । संसृष्टाकारे ह्यात्माभिमानः । तद्भोगार्था इति पूर्वोक्तस्य पदस्य व्याख्येयं पदमुदाहरति - भोग्यभूता इति । भोग्यभूता इत्यनेन वस्तुभेदा इति पदस्याचिदंशमात्रपरत्वमुक्तम्; न तु वस्तुभेद इत्युक्तत्वात् । पूर्वश्लोकोक्तभेदा एवात्र विवक्षिता इत्याह - देवमनुष्येति । कारणाभावात्कार्याभावो हि व्यतिरेकः; तं स्पष्टयति तन्मूलभूतेति । परमप्रकृतार्थस्य फलितत्वमाह इत्यचिद्वस्तुन इति । पूर्वश्लोकफलितार्थकथने आत्मनोऽस्तिशब्दवाच्यत्वे हेतुरनुक्तः; अत्र तु तस्यापि

फलितत्वमाह - इतरस्येति ।

जगदुपलब्धिप्रकारेणापि वस्तुभेदानां परिणामित्वमुपपाद्यते श्लोकद्वयेन । तत्र प्रथमस्य वाक्यार्थमाह - प्रतिक्षण-मिति । श्लोकस्य नास्तिशब्दाभिधेयतापरत्वं यदस्ति यन्नास्तीत्युपक्रमावगतम् । अस्मिन् श्लोके प्रयोजकशिक्षा । वस्त्वस्ति किमित्यर्थयोजननौपयिकतयाऽत्राभिधेयं यदस्ति यन्नास्तीत्युपक्रमवशात्सिद्धमर्थमाह - अस्तिशब्देति । सततैकरूपतया अस्तिशब्दवाच्यत्वे सति हि पूर्वार्द्धोक्तस्य तदभावस्य नास्तिशब्दाभिधेयताहेतुत्वसिद्धिः । पूर्वार्धं व्याचष्टे - अचिद्वस्त्विति । किमनेन नास्तिशब्दाभिधेयत्वस्येति शङ्कायामुत्तरार्द्धमवतारयति ततः किमित्यत्राहेति । यातीति वर्तमाननिर्देशस्याभिप्रायमाह - प्रतिक्षणमिति । भृयो न तत्तथेत्यस्याथर्माह -तदिति । उत्तरोत्तरावस्था-प्राप्त्येति भूयःशब्दार्थः । न तत्तथेत्यस्यार्थमाह - पूर्वपूर्वावस्थां जहातीति । तत्रेत्यस्यार्थमाह - पूर्वावस्थस्योत्तरा-वस्थायामिति । कुतस्तत्त्वमित्यस्यार्थमाह - न प्रतिसन्धानमिति । तत्तवम्-तस्य भावः । तदिदमिति प्रतिसन्धा-नानर्हत्वं फलितमित्यर्थः । ननु तत्त्वं कुतः-पूर्वावस्थत्वं कुत इत्युक्तम् । कथं प्रतिसन्धाननिषेधः । उच्यते । कुतः शब्दः प्रमाणप्रतिक्षेपपरः । पर्वतोऽग्निमानित्युक्ते कुत इति प्रमाणाकाङ्क्षा हि द्योत्यते । अतः प्रतिक्षेपपरः कुतश्शब्दो-ऽपि प्रमाणप्रतिक्षेपपरः । कुतः प्रमाणादित्यर्थः । पूर्वावस्थस्य भूयस्तथात्वे प्रमाणं च प्रत्यभिज्ञा । अतः प्रमाणे प्रति-क्षिप्ते प्रतिसंधानं निषिद्धं भवतीति भावः । अन्यथा न तत्तथेत्यनेन पौनरुक्तयं स्यात् । हिशब्देन फलितमर्थमाह - अत इति ।

नास्तिशब्दवाच्यत्वे प्रयोजकशिक्षा कृता । शिक्षितमथर्मुदाहरणेन दर्शयत्यनन्तरश्लोक इत्यभिप्रायेणाह - तथा हीति । मही घटत्वमिति श्लोकं व्याचष्टे - स्वकर्मणेत्यादिना । महीघटत्वमित्यत्र यातीति पूर्वश्लोकादनुषङ्गः । कर्मण आत्मनिश्चयविरोधित्वं सद्वारकमित्याह - देवमनुष्यादिभावेनेति । देवादिदेहसंसर्गेणेत्यर्थः । स्तिमितम्-प्रतिबद्धम् । अस्थिरे भोग्यत्वबुद्धिः स्थिरतरसुखरूपात्मनिश्चयस्तैमित्यादिति भावः । यद्वा आत्मज्ञानरहितैरप्य-चिद्वस्तुनोऽस्थिरत्वमालक्ष्यत इत्याह - तथाहीति । आलक्ष्यत इति चाक्षषज्ञाने प्रयोगप्राचुर्यात् तद्य्वावृत्त्यर्थमनु-भूयत इत्युक्तम् । श्लोकव्याख्यान परिसमाप्तिं द्योतयति इत्यर्थ इति । ब्रूहीत्यादेरर्थमाह - एवं सतीति । अनेन अत्रे-दिपदं व्याख्यातम् । अचिद्वस्त्वितिपदेन श्लोकस्थवस्तुशब्दो व्याख्यातः । अस्तिशब्दार्हमित्यादित्तिशेषणं साम-र्थ्यसिद्धतयोक्तम् । अथवा (?) श्लोकद्वाभिप्रायमाह - एवं सतीति । न तु वस्तुभूतः इति पुराणग्रन्थे, किमपकय-चिद्वस्तु, अचिद्वस्तु किञ्चिदिति भाष्ये च अचिद्विषय (ये?) वस्तुशब्दप्रयोगात् "तद्वस्तु नृप तच्च किम्" इति ग्रन्थ-स्थवस्तुशब्दतुल्यत्वं न शङ्कनीयम् । अस्ति किमित्यनेन श्लोकस्थस्यास्तिशब्दस्य भवत्यर्थत्वमुक्तम् । अत एव यद-स्तीत्यस्तिशब्दवत् नात्मस्वरूपपरत्वं शङ्कनीयम् । फलितमाह - न हीति । एवं अस्ति किं न ह्यस्ति-इति भाष्य-स्वारस्येन श्लोकद्वोपक्रमगतस्य अस्ति किमिति वाक्यस्य प्रत्यभिज्ञानस्य भवत्यर्थतया व्याख्यातत्वं प्रतीयते । यद्वा अस्तिशब्दाभिधेये इत्यनेन वस्त्वस्ति कि-मित्यत्रास्तिशब्दो व्याख्यातः । "यदस्ति" "तस्मान्न विज्ञानमृतेऽस्ति" इत्यादिनैकरूप्यात् । वस्त्वस्ति किम्, मही घटत्वमिति श्लोकद्वयस्य प्रत्येकमुक्तो वाक्यार्थः पूर्वपक्षयोजनाया-मुपजीव्यः । उत्तरश्लोकस्य प्रथमार्धं व्याचष्टे - यस्मादिति । यस्मादेवं तस्मात् परिणामित्वादेव, न तु ज्ञानबाध्य-त्वादित्यर्थः । अचिद्वस्तुशब्देन वस्तुजातशब्दार्थ उक्तः । जातशब्दशिरस्को वस्तुशब्दो न नित्यवाचीति भावः । केवलास्तिशब्दवाच्यमिति । एतच्छ्लोकस्थास्तिशब्दो न भवत्यर्थः; ज्ञानव्यतिरिक्तस्य तदेतदक्षयं नित्यम् इत्या-दिना नित्यत्वेनोक्तस्य निषेध्यत्वायोगात्, यदस्तीत्युपक्रान्तस्योपसंसारौचित्याच्चेति भावः । प्रागभावप्रध्वंसाभाव-वतोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्वमवच्छिन्नास्तिशब्दवाच्यत्वं चेति तद्य्वावृत्त्यर्थ केवलशब्दः ।

एवमात्मव्यतिरिक्तवस्तुनो नास्तिशब्दाभिधेयत्वमुपसंहृतम् । विज्ञानमित्यादि व्याचष्टे - आत्मा त्विति । तुश-ब्दोऽचिद्वैषम्यपरः । सर्वत्र-सर्वशरीरेषु । एकशब्दं व्याचष्टे - ज्ञानैकाकारतयेति । "एको व्रीहिस्सुनिष्पन्नस्सुषुष्टं कुरुते प्रजाः" इतिवत् अयमेकशब्द आकारैक्यपरः । स चाकारो विज्ञानशब्दोक्तं ज्ञानत्वमित्यभिप्रायेणोक्तं ज्ञानैका-कारतयेति । भावप्रधानो निर्देशः; ज्ञानत्वैकाकारतयेत्यर्थः । स्वरूपतो र्धमतश्चाविशेषेण ज्ञानत्वं सद्वारकमद्वारकं चाऽऽकारो हि भवति । ज्ञानैकाकारतयेत्यत्र एकशब्देन सङ्कोचविकासदुःखरूपत्वादिव्युदासश्च । देवादिभेदप्रत्य-नीकस्वरूपोऽपीति एकस्वरूपत्वाद्भेदप्रत्यनीकत्वम् । निजर्मादिपदं व्याचष्टे देवादीति । भेदशब्दार्थमाह -विवि-धेति । बुद्धिशब्देन चित्तशब्दार्थ उक्तः । बुद्धेर्भेदश्च आत्मन्यारोप्यमाणदेवाद्याकाररूपविषयभेदात् । बहुधा - देव-त्वादिबहुप्रकारविशिष्टतयाऽभ्युपेतमित्यर्थः । बहुधाशब्दस्याकारैक्यपरत्वं स्पष्टम् । फलितमर्थमाह - नात्मस्वरूप-प्रयुक्तमिति । औपाधिकमित्यर्थः । उपाधिविमोक्षे कीदृशं स्वरूपमित्यत्र अनन्तरश्लोकं व्याचष्टे - आत्मेति । विशुद्धपदं व्याचष्टे - कर्मरहितमिति । विमलपदं व्याचष्टे - तत एवेति । विमलपदव्याख्यानमिति स्पष्टीकर्तुं मल-रूपशब्दः । मलरूपप्रकृतिस्पर्शरहितमित्यनेन, "सर्वकमक्षये ज्ञानमपास्तदोषम्" इत्यस्यार्थोऽवगतः; कर्मक्षयवा-चिपदानन्तरपदस्य शरीरसंबन्धरहितपरत्वेन व्याख्यातत्वात् । तथा च श्रुतिः, "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि" इति । अत्र हि पापं विधूयेत्युक्तवा, धूत्वा शरीरमित्युक्तम् । उपरितनपदानि व्याचष्टे - ततश्चेति । तत एवेत्यर्थः । हेतोर्नैरपेक्ष्यसूचकश्चशब्दः । निरस्ता-शेषलोभादिसङ्गमित्यर्थः । एकमिति पदं व्याचष्टे - उपचयापचयानर्हतयैकमिति । उपचयापचयौ - वृद्धिक्षयौ; तदर्हत्वम् सावयवत्वम्; सावयवत्वाभावादेव एकशब्दवाच्यत्वम् । निरवयवत्वमेकत्वमित्यर्थः । तत एव सदैकरू-पमिति । निरवयवत्वात्सावयवत्वप्रयुक्तवृद्धिक्षयरहितमित्यर्थः । सामानाधिकरण्यं व्याचष्टे - तच्चेति । "यदम्बु वैष्णवः कायः", "अशेषमूर्तिः" इत्युक्तत्वादयमेवार्थः । न यतोऽन्यस्तीत्येतद्य्वाचष्टे - अतदिति । यतः यस्माद्वासुदेवात् । अन्यत् स्वपर्यवसितं वस्तु, नास्तीत्यर्थः । यद्वा वासुदेवादिति पदमध्याहृत्य योजना; वासुदेवादन्यन्नास्तीति यतः, तत इत्यर्थः । अस्यां योजनायां तच्छब्दः प्रसिद्धपरामर्शी । अतोऽपि पूर्वयोजना साधीयसी; तद्वृत्तस्य यद्वृत्तप्रति-निर्देशरूपत्वस्वारस्यात्; पञ्चम्यन्ताध्याहारानपेक्षत्वाच्च । ज्ञानस्वरूपः, यद्वा त्विति श्लोकौ चिदचित्साधारणौ, वस्त्वस्तीत्यादिसार्धश्लोकद्वयमचिदसाधारणम्, विज्ञानमित्यादिसार्धश्लोकश्चिदसाधारण इति विभागः । न परमतमुक्तम्, तत्त्वमेवोक्तमित्यभिप्रायेण सद्भाव इत्याद्यर्धमुक्तम् । तत्र यथाशब्दार्थमाह - चिदंश इति । यथा-येन प्रकारेण । परिणामित्वापरिणामित्वरूपेण; न ज्ञानबाध्यत्वाबाध्यत्वरूपेणेत्यर्थः । एवंरूपेति । शरीरशरीरिभाव-रूपेण येन प्रकारेण भगवदात्मकत्वम्; न तु स्वरूपैक्येनेत्यर्थः । श्लोके यथाशब्दप्रतियोगी एवंशब्दः । सत्यं ज्ञान-मसत्यमन्यच्च यथा अवस्थितम्, एवं सद्भाव उक्त इत्यन्वयोऽभिप्रेतः । अतः सत्यासत्यशब्दवाच्यत्वनिर्वाहकापरि-णामित्वपरिणामित्वे भगवदात्मकत्वञ्च यथाशब्दविवक्षितं भवति । अन्यदुपक्रान्तम्, अन्यदुपसंहृतं भवति; अस्ति-नास्तिशब्देनोपक्रम्य सत्यासत्यशब्देनोपसंहारादित्यत्राह - अत्रेति । उपक्रमोपसंहारयोः शब्दान्तरनिर्देशस्यायम-भिप्रायः-अन्येष्वपि शब्देषु क्वचिदेवं श्रुतेषु तेषामपि प्रवृत्तिनिमित्तमिदमेवेति । उत्तरार्द्धस्यार्थमभिप्रेत्याह - एतदिति । प्रत्यस्तमितभेदम्, अगोचरं वचसामित्यनयोरर्थमभिप्रेत्याह - ज्ञानैकाकारतया समम् अशब्दगोचरस्वरूपभेद-मिति । एवकारेण विरोधः, सूचितः । भुवनाश्रितत्वस्य घटकं पदमाह - अचिन्मिश्रमिति । भुवनाश्रितम्-अण्डा-न्तर्गतम्, भोगस्थानगतमित्यर्थः । संव्यवहारशब्दं व्याचष्टे - सम्यग्व्यवहारार्हभेदमिति । सम्यक्छब्दः स्पष्टत्वपरः । तत् कर्म किमित्याकाङ्क्षायामुत्तरश्लोकस्य तद्विवरणपरत्वमाह - तदेव विवृणोतीति । स्वर्गमयश्च कामः । स्वर्ग-

विषयेच्छेत्यर्थः । फलस्य वक्ष्यमाणत्वात् । देवतायाः फलस्य च यष्टव्यत्वेन साध्यत्वेन च कर्मान्तर्भावः । इत्यादि-शब्देन दानहोमादिकं च पापं चोक्तं भवति । भूरादिशब्देन पापफलमप्युक्तं भवति । पश्वादिपरिकरयुक्तो यज्ञ एव (कं) कर्म । एवंविधयज्ञात्मकं दानहोमाद्यात्मकं च कर्म तत्र हेतुः । आश्रितमार्गदृष्टम् । तैस्तैराश्रिता मार्गा वर्णा-श्रमाः । तेषु दृष्टमित्यर्थः ।

नन्तरश्लोकार्थमाह जगदिति । कर्मवश्यः सर्वत्र व्रजति हि । यद्वा-कर्मवश्यो हि सर्वत्र व्रजति । तस्मादेवं कुर्यादित्यर्थः । निगलित एव हि सर्वत्र कारागृहे चरति, अतस्तन्मोचनाय यतेतेति भावः । ध्रुवमचलं सदैकरूपम्-स्वरूपतो गुणतश्चेकरूपमित्यर्थः । यद्वा स्वरूपतो गुणतो रूपतश्चैकरूपमित्यर्थः । तस्मान्नैतदेवमिति पूर्वेणान्वयः ।

एवं श्लोकानां स्वोक्तार्थानुगुण्यमुपपाद्य परोक्तार्थाननुगुणत्वमुपपादयति - अत्रेत्यादिना । किञ्चिदपि पदं नदृ-श्यत इति न वाच्यम्; परमपरेशादिशब्दानां भवत्पक्षे मुख्यार्थासिद्धिरिति भावः । हेत्वन्तरं चाह - अस्तिनास्ति-सत्यासत्येति । प्रथमश्चः त्वर्थः । स्वोक्तयोजनायामनुगुणस्य शब्दस्य परपक्षाननुगुणत्वरूपं वैषम्यमस्तीति भावः । अस्तिसत्यशब्दौ दृष्टातार्थौ । यथा अस्तिसत्यशब्दौ न सद्विलक्षणपरौ, तथा नास्त्यसत्यशब्दावपि नासद्विलक्षण-परावित्यर्थः । कथमनिर्वचनीयवस्त्वभिधानासामर्थ्यमित्यत्राह - नास्तीति । अर्थद्वारको विरोधः । ततः किमित्यत्राह अतश्चेति । यद्वा-अनिर्वचनीयवस्त्वभिधानासामर्थ्यादिति व्युत्पत्त्यभाव उक्तः । परस्परविरुद्धार्थत्वमत्र हेत्वन्तर-तयोक्तम् । चः समुच्चये । तथापि सत्त्वाभावात् तुच्छत्वं मिथ्यात्वं वा उक्तं भवतीति चेत्-तत्राह - अत्रेति । कथं निनाशित्वपरावित्यत्राह - वस्त्विति । विनाशित्वमेव हि मिथ्यात्वमिति शङ्कायां विनाशित्वस्वरूपं शोधयति - ऐकेनेति । एकेनाकारेण कालान्तरेऽनुभूतस्य कालान्तरे आकारान्तरेणोपलब्धिरस्तु; ततः कथं विनाशित्वं तुच्छ-त्वमिथ्यात्वव्यावृत्तमिति शङ्कायां तुच्छत्वादिस्वरूपं शोधयति - तुच्छत्वं हीति । परिणामादिनेति । परिणामशब्दः परिणामसामान्यपरः तद्विशेषपरश्च । यथा वादशब्दः सर्वकथासाधारणः वीतरागकथामात्रपरश्च, तद्वत् । अत्रायं परिणामशब्दो वर्धमानावस्थावाची; "परिणामर्द्धिजन्मभिः" इति प्रयोगात् । "यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूताम्" इति वक्ष्यमाणवचनकटाक्षेणैवमुक्तम् । परिणामशब्दस्य विकारमात्रपरत्वे आदिशब्दः प्रदेशान्तरगमनपरः । कालान्तरानुभूतस्य कालान्तरे नास्तीत्युपलब्धिः कथं न बाध इत्यत्राह - कालभेदेनेति । विरोधे हि बाधः, बाध्यत्वं हि मिथ्यात्वमित्यभिप्रायेणाह अत इति । परिणामित्वपरिणामित्वयोरर्थयोर्न हि नास्त्यसत्यादि-शब्दाः पारिभाषिकाः; तत् कथं तदभिधानप्रकारः ? परिणामास्पदस्यापि वस्तुनो नित्यत्वात् नास्तिशब्दाभिधेत्वं चानुपपन्नमित्यत्राह - एतदुक्तं भवतीति । सदैकरूपत्वमस्तिशब्दप्रवृत्तिनिमित्तम् । विनाशगर्भत्वं नास्तिशब्द-प्रवृत्तिनिमित्तमित्यर्थः । घटावस्थायां पिण्डो नास्ति, कपालावस्थायां घटो नास्ति, चूर्णावस्थायां न कपालसत्तेति सदा नाशगर्भत्वम् । उत्तरावस्थाप्राप्तिर्हि पूर्वावस्थस्य विनाशः । तदवस्थस्य सैवोत्पत्तिः । तस्मात् नास्तिशब्दाभि-धेयत्वमचिद्वस्तुनः । चिद्वस्तुनस्तु अवस्थान्तरापत्त्यवस्थान्तरप्रहाणाभावेनैकरूपत्वान्न विनाशगर्भत्वम् । अतस्त-दस्तिशब्दवाच्यमेव । यत् सदाऽस्त्येव, तदस्तिशब्दवाच्यम् । "सिद्धे शब्दार्थसंबन्धे" इत्यत्र सिद्धशब्दवत् अवधा-रणगर्भोऽयं शब्दः । तत्र हि सिद्ध एवेति व्याख्यातम् "अव्भक्षः, वायुभक्षः" इत्यादि दृष्टान्तीकृत्य । तथा अत्रापी-त्यर्थः । अस्तिनास्तीतिशब्दानां प्रवृत्तिनिमित्तमिदमेवेत्यस्मिन्नर्थे प्रमाणमाह - यथोक्तमिति । असदसत्यसत्सत्या-दिशब्दानां मिथ्यात्वामिथ्यात्वयोः प्रसिद्धिस्वारस्यमस्तीति शङ्कायां मिथ्यागर्भितत्वमपि दर्शयति - देशेति । कर्म-विशेषापेक्षयेति । पालनरञ्जनादिसद्भावासद्भावाभ्यां राजत्वपितृत्वादिरूपेण अस्तित्वं नास्तित्वं च कर्मापेक्षम् । औपाधिकास्तित्वयोगिनि वस्तुनि स्वाभाविकास्तित्वयोगित्वबुद्धिविषयत्वं न परमार्थ इत्यर्थः । अपरमार्थत्वगर्भा-

स्त्यर्थोपेतत्वादचितो नास्त्यसत्यादिशब्दवाच्यत्वमित्युक्तम् । आत्मनः स्वाभाविकास्तित्वयोगात् तत्र तद्धीविषयत्वं परमार्थ इत्याह - आत्मन एवेति । पदशो दशश्लोक्यामुक्तमर्थं श्रोतुरनुवादप्रकारेण द्रढयति श्रोतुश्चेति । प्रधानतः । "द्वयेकयोः" इतिवत् भावप्रधानो निर्देशः; प्राधान्येनेत्यर्थः । प्राधान्यम् उत्कर्षः । अनुभाषणश्लोकपूर्वार्धफलितमर्थमाह ज्योतींषीति । तदेकधार्यद्रव्यत्वं हि शरीरलक्षणम् । अतो विष्ण्वाधारमित्यनेनाऽऽत्मशरीरभावः सिद्धः । उत्तरार्ध-फलितमथर्माह - चिदचिदिति । ज्ञानप्राधान्यं कण्ठोक्तम्; तेनाचिद्वस्तुनोऽप्राधान्यस्यार्थसिद्धत्वादाह - अचिद्वस्तु-नश्चेति । प्राधान्याप्राधान्ये-उत्कर्षापकर्षौ । तौ चापरिणामित्वपरिणामित्वलक्षणौ; नामिथ्यात्वमिथ्यात्वलक्षणौ । धर्मिणि सति हि प्राधान्याप्राधान्ये । प्रतीतिमरत्रसिद्धं हि मिथ्या । अतो न तत्राप्राधान्यशब्दः स्वरस इत्यभिप्रायः ।।

अथ निर्विशेषब्रह्मात्मैक्यज्ञानस्य निवर्तकत्वपरत्वेन परोक्तश्रुतीनाम् अतदर्थत्वं वक्तुं परोक्तमनुवदति यदुक्त-मिति । परिहरति तदसदिति । तत्र ज्ञानस्य निर्विशेषवस्तुविषयत्वं तेनात्मैक्यविषयत्वं च परिहरिष्यन् प्रथमं निर्विशे-षवस्तुविषयत्वं व्युदसितुमुपादत्ते - वेदाहमिति । अनेन विग्रहादिविशिष्टविषयज्ञानमेवोपायः, नान्य इत्युक्तम् । एतत्समानार्थत्वादाह - सर्वे निमेषा इति । तत्र हि, "अद्भ्यः संभूतो हिरण्यगर्भ इत्यष्टौ" इति प्रतीकोपादानं कृतम् । (विशेषणेन) अनेन विद्युच्छब्दश्च व्याख्यातो भवति । विद्युतः-विद्युद्वर्णादित्यर्थः; आदित्यवर्णमित्यनेनहकार्थ्यात् । "न तस्येशे कश्चन" इत्यनेन उपायभूतं ज्ञानान्तरं नास्तीति फलितम्; अधिकज्ञेयान्तराभावात् । उक्ताकारविशिष्ट-पुरुषवेदनस्योपायत्वं दर्शयति - य एनं विदुरिति । एषामन्येषामप्यादिशब्दगृहीतानाञ्च वाक्यानामुपादानम् अनेक-वाक्यविरोधप्रदर्शनाय । ननु "सदेव---एकमेव" इत्यादिकारणवाक्येषु निर्विशेषस्य प्रतिपन्नत्वात् तज्ज्ञानमेव साक्षा-न्मोक्षोपाय इति सगुणज्ञानस्योपायत्वं तद्व्यवधानेन स्यात् । यद्वा सगुणज्ञानोपायत्वपरवाक्येऽपि न सगुणत्वे तात्प-र्यम्; वस्तुमात्रमेव लक्ष्यत इति चेत्-तत्राऽऽह ब्रह्मण इति । सद्विद्यादिष्वपि सगुणविषयत्वोपपादनात् यथावस्थित-स्वरूपविषयज्ञानस्यैव मोक्षोपायत्वात् तान्यपि सविशेषज्ञानोपायत्वपराणीत्यर्थः । तर्हि शोधकवाक्यैर्विरोध इत्यत्राह शोधकेति । एवं ज्ञानस्य निर्विशेषविषयत्वं तद्विरुद्धवचनोदाहरणेन प्रतिक्षिप्तम् ।।

अथ तत्त्मस्यादिसामानादिकरण्यान्यथानुपपत्त्या निर्विशेषज्ञानमेवोपाय इति शङ्कायां तस्य जीवपरैक्यविषयत्वं व्युदस्यति - तत्त्वमस्यादीति । शोधकवाक्येषु सामानाधिकरण्यमतद्वयावृत्तिमुखेन वस्त्वैक्यपरम्; तत्त्वमस्यादिषु जीवब्रह्मणोस्सामानाधिकरण्यमन्वयमुखेनोपलक्षितवस्त्वैक्यपरम्; अचिद्ब्रह्मणोस्तु "सर्वं खल्विदं ब्रह्म" इत्यादा-वतात्त्विकरूपारोपणेन सामानाधिकरण्यम्; "ज्योतींषि विष्णुः" इत्यादौ बाधार्थम् इति चतुर्धा हि परैः सामानाधि-करण्यं तत्रतत्राभ्युपेतम् । तत्र तत्त्वमस्यादिवाक्ये अन्वयमुखेन वस्तुमात्रपरत्वं गत्यभावे बाधार्थत्वं चाशङ्कय निरा-क्रियते । तत्र प्रथमं वस्त्वैक्यपरत्वं दूषयितुमाह - न निर्विशेषवस्त्वैक्यपरमिति । कुत इत्यत्राह तत्त्वमिति । तच्च कथमित्यत्राह - तत्पदं हीति । हिर्हेतौ । सर्वज्ञात्वादिगुणकप्रतिपादनं कथमित्यत्राह - तदैक्षतेति । तच्छब्दस्य प्रकृ-तसर्वाकारविशिष्टवस्तुपरामर्शित्वं व्युत्पत्तिसिद्धम्, यथा शुक्ला शोभनाक्षी मदीया पूर्णृङ्गा घटोघ्नी गौः; तामानयेति ननु गौस्तिष्ठति तामानयेत्यादौ आनयनादिक्रियानह्रस्थित्यादिविशेषणविधुरवस्तुपरामर्शित्वं दृश्यते; तच्च मुख्यम् । नैवम्, आनयनसमकालान्वययोग्येनापि स्थित्यादिविशेषणेन पूर्वकालवैशिष्टयस्य विवक्षितत्वात् । अन्यथा धाव-तोऽपि गोपिण्डस्यानयनप्रसङ्गः । विशेषणं विशेष्यवस्तुनि यथान्वयार्हम्, तथाऽन्वितस्य तस्यापरित्यागो हि विव-क्षितत्वम् । प्रकृतसर्वविशेषणेषु एकस्यापि परित्यागे प्रकृतत्वमेव हीयते । शुक्ला शोभनाक्षी मदीया पूर्णृङ्गा घटोघ्नी गौः, तामानयेत्युक्ते शौक्लयेतरसमस्तविशेषणान्वितव्यक्त्यानयनेऽपि प्रकृतव्यक्तेरानीतत्वाभावात् । अतः सविशेषे प्रकृते निर्विशेषस्य प्रकृतत्वं दूरोत्सारितम् । न च प्रकृतसर्वविशेषणपरित्यागेऽपि धर्म्यैक्येन प्रकृतत्वसिद्धिः; सर्वा-

कारप्रहाणे प्रतिसन्धानानर्हत्वात् । न ह्यपवरके घटोऽस्ति, तमानयेत्युक्ते घटत्वाविवक्षायां मृन्मात्रस्य सिद्धिः प्रकृ-तत्वसिद्धिः । कथमेकाकारपरित्यागेऽप्यसंभवत् प्रकृतत्वं सर्वाकारपरित्यागे संभवति । अङ्गुलीयकत्वप्रहाणेऽपि कनकं प्रतिसंधीयत इति चेत्-सत्यम्, प्रत्यक्षेण । तच्छब्दस्तु प्रकृताकारप्रहाणे प्रतिसंधानमेव जनयितुं न शक्नोति । अत एव हि, यदङ्गुलीयकं तदानयेत्युक्ते कनकमात्रं नानीयते । अतः प्रकृतसर्वाकारप्रहाणे प्रतिसन्धानानर्हस्य वस्तुनः प्रकृत-त्वमेव नास्तीति तच्छब्दस्य वस्तुमात्रपरत्वं लाक्षणिकं स्यात् । तत्पदोपस्थापितसार्वज्ञ्यादीनां त्वम्पदोपस्थापिता-ज्ञत्वादीनां च विरोधान्निर्विशेषपरत्वमिति चेत्-तत्राह तत्समानाधिकरणमिति । घटस्य शुक्ल इत्यादिव्यधिकरण-वाक्येषु धर्मवाचिपदस्य धर्मिपर्यन्तत्वाभावात् तद्य्वावृत्त्यर्थं तत्समानाधिकरणमित्युक्तम् । अचिद्विशिष्टजीवशरीर-कमिति । अज्ञत्वादिगुणानां सर्वज्ञत्वादिगुणके परमात्मनि विरोधः सद्वारकतया परिहृत इत्यर्थः । त्वम्पदप्रवृत्ति-निमित्तसंबोधनीयार्थत्वरूपाभिमुख्यविशेषप्रयोजकोपलक्षणाभिप्रायेण अचिद्विशिष्टजीवेत्युक्तम् । समानाधिकरणत्वे सति कथं त्वम्पदं जीवविशिष्टब्रह्मपरमित्यत्राह - प्रकारद्वयेति । प्रकारद्वयावस्थितम्-प्रकारद्वयविशिष्टम् । प्रकृत-तत्त्म्पदप्रवृत्तिनिमित्तपरः प्रकारद्वयशब्दो न्यूनत्वनिवर्तकः; न तु प्रकारत्रित्वादिव्यवच्छेदपरः । तदुपपादयति - प्रका-रद्वयपरित्याग इति । दूषणान्तरमाह - द्वयोरिति । अविरोधेन मुख्यतया निर्वाहे संभवति एकस्यापि पदस्य लक्षणा न युक्ता; विरोधे सत्यप्येकपदलक्षणयैव अविरोधः सिध्यतीति पदद्वयलक्षणा अनुपपन्नेत्यर्थः । ननु पदद्वयलक्षणा न दूषणम्; सोऽयं देवदत्त इत्यादिषु दृष्टत्वात् । तत्र हि देशकालविशिष्टाकारे देशकालान्तरान्वयविरोधाल्लाक्षणिकमेव पदद्वयम् । तत्राह -सोऽयमिति । किमेकस्य देशद्वयसंबन्धे विरोधः, उत कालद्वयसंबन्धे ? इति विकल्पमभिप्रेत्याह - भूतेति । न हि विशिष्टाकारे विशेषणान्तरान्वयः, अपि तु विशेष्यमात्रे । अतः कालद्वयसंबन्धो न विरुद्धः । यदि विरुद्धः, तर्हि बौद्धोक्तं क्षणिकत्वमेवाऽऽपद्येत, अनेककालसाध्यधर्मविधानं फलप्राप्तिश्च नोपपद्येयातामिति भावः । देशभेदेति । यद्येकस्य देशद्वयसंबन्धविरोधः, तर्हि विष्णुक्रमणतीर्थस्नानादिविधिर्नोपपद्यते; प्रत्यभिज्ञाविरोधश्चेति भावः । यौगपद्यं कथं संभवतीति चेत्-तदुच्यते । देशद्वयसंबन्धस्य कालद्वयसंबन्धस्य वा न युगपद्भावः, तत्प्रतिपत्तेरेव हि यौगपद्यम् । प्रतिपत्तिस्तु देशद्वयकालद्यसंबन्धं क्रमभाविनमेव दर्शयति । अतो न विरोधः । अन्यथा, अतीताना-गतविषयज्ञानेष्वतीतानागतविषययोर्वर्तमानत्वं ज्ञानस्यातीतानागतत्वं वाप्रसज्येतेति । दूषणान्तरमप्याह-तदैक्षतेति । उपक्रमाधिकरणे ह्युपक्रमप्राबल्यमुक्तमिति भावः । उपक्रमोपक्रमे ऐक्यस्य प्रतिपन्नत्वान्नोपक्रमविरोधः । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यं हि "तदैक्षत बहु स्याम्" इति वाक्यात् पूर्वमित्यत्राह - एकविज्ञानेनेति । तत्र निमित्तत्वोपा-दानत्वतदनुगुणसार्वज्ञ्यसर्वशक्तयादिगुणसिद्धेरित्यर्थः । विशिष्टमेव कारणम्; तदेव स्थूलावस्थं कार्यमिति द्रव्यान्त-रत्वाभावात् कारणज्ञानेन कार्यज्ञानमुपपद्यते । मृषावादिनस्तु कारणज्ञाने कार्यस्य विषयताऽन्तर्भावोऽभिमतश्चेत्-विरोधः; सत्यविषयज्ञाने मिथ्यार्थस्य विषयत्वायोगात् । मिथ्यात्वेनेत्यध्याहारश्च स्यात् । अनन्तर्भावे तु अज्ञाते ज्ञातत्वव्यवहारो न मुख्यः स्यात् । अतोऽस्मत्पक्ष एव प्रतिज्ञावाक्यं स्वरसम् । श्रुत्यन्तरविरोधमाह - ज्ञानस्वरूप-स्येति । ज्ञानस्वरूपस्य सर्वज्ञस्येत्यनेन धर्मिधर्मभूतज्ञाने विवक्षिते । सर्वज्ञस्याज्ञत्वम् निरस्तनिखिलदोषस्य सम-स्तकल्याणगुणात्मकस्य अनन्तापुरुषार्थाश्रयत्वमिति विरोधः । ज्ञानस्वरूपस्येत्यनेन तिरोधानानुपपत्तिश्च सूचिता ।

इत्थं सामानाधिकरण्यस्य निर्विशेषवस्त्वैक्यपरत्वं दूषितम् । अथ बाधार्थत्वं दूषयति - बाधाथर्त्वे चेति । रज्जुः सर्प इत्येवंरूपं बाधार्थं सामानाधिकरण्यमेव नास्ति; सामानाधिकरण्यस्य एकस्मिन् विशेष्ये प्रकारद्वयोपस्थापकतया बाधार्थत्वविरोधात् । अतः पदद्वयमुख्याथर्त्वेऽभिमते बाधार्थं सामानाधिकरण्यं न सिध्येत् । सपर्शब्देन नञर्थं लक्ष-यित्वा असर्पो रज्जुरिति निर्वाहं दृष्टान्तवाक्यस्याशङ्कय दार्ष्टान्तिकवाक्यस्य ततोऽप्यधिकं दूषणमाह - बाधार्थत्वे

चेति । त्वंतत्पदयोरित्यत्र न क्रमविवक्षा । तत्पदमधिष्ठानमात्रं लक्षयति; त्वम्पदं जीवभावनिवृतिं्त लक्षयति । यद्वा त्वम्पदेनाधिष्ठानलक्षणा; तत्पदेन निवृत्तिलक्षणा । आदिशब्देन सामानाधिकरण्यलक्षणहानिः उपक्रमविरोधः एक-विज्ञानेन सर्वविज्ञानप्रतिज्ञानुपपत्तिः श्रुत्यन्तरविरोधश्चेति दूषणानि विवक्षितानि । उक्तदृष्टान्तादुपलक्ष्यसामाना-धिकरण्याच्च दूषणमत्ररधिकमित्याह - इयांस्तु विशेष इति । बाधार्थत्वे विशेषो न पूर्वोक्तदूषणहानिः, अपि तु तैस्सह वक्ष्यमाणाधिकदूषणद्वयापात एव विशेष इत्यर्थः । अधिकं दूषणमाह - नेदं रजतमितिवदप्रतिपन्नस्यैव बाधस्या-गत्या परिकल्पनमिति । शुक्तिरेव रजतमित्यत्र प्रमाणान्तरेण नेदं रजतमिति बाधस्य प्रतिपन्नत्वाद्बाधकल्पनम्, अत्र बाधस्याप्रतिपन्नत्वेऽप्यगत्या बाधकल्पनमित्यर्थः । तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्चेति । शुक्तिरेव रजतमित्यत्र शुक्तित्वरूपं विरुद्धधर्मं शब्द एवोपस्थापयति । अतस्तत्र बाधकल्पनम् । अत्र त्वधिष्ठानमात्रं लक्षयता तत्पदेन शुक्तित्ववत् विरुद्धधर्मानुपस्थापनात् बाधकल्पनमनुपपन्नमित्यर्थः । विरोधपरिहारार्थं लक्षणा चेत्-अन्यतरपदलक्षणैव विरोधपरिहारायालम् । तदा सविशेषत्वप्रसङ्ग इति चार्थसिद्धम् । प्रमाणान्तरेण बाधस्य प्रतिप-न्नत्वात् शब्देन विरुद्धधर्मोपस्थापनाच्च बाधकल्पनम्; अत्र तूभयाभावात् तदनुपपन्नमित्युक्तम् । तत्र विरुद्धाकारोप-स्थापनं शङ्कते - अधिष्ठानंत्विति । तदधिष्ठानमतिरोहितस्वरूपं यथा भवति, तथोपस्थाप्यत इति क्रियाविशेषणम् । अप्रकाशितविरोधिप्रकाशनं हि बाधकल्पनम्; न तु धर्मोपस्थापनमेव बाधकल्पनमिति नियमोऽस्ति । अतस्तत्पदेन प्रागप्रकाशितविरोध्यधिष्ठास्वरूपप्रकाशनाद्बाधकल्पनमित्यर्थः । अत्राह - नेति । किं विरोधिरूपमधिष्ठानं प्रकाशते, उत नेति विकल्प्य, अप्रकाशपक्षे दूषणमाह - अधिष्ठानेति । तदाश्रयेत्याश्रयशब्दो विषयपरः । यद्वा, तदधिष्ठानक-भ्रमबाधयोरित्यर्थः । प्रकाशपक्षं शङ्कते भ्रमेति । भ्रमाश्रयमधिष्ठानमित्यत्र पाठो निरीक्षणीयः । आश्रयशब्दो विषय-परः । भ्रमाश्रयमित्यत्र भ्रमस्याश्रयणं विषयीकरणम् यत्रेति वैयधिकरण्येन वा, भ्रमः आश्रयः आश्रयणीयः संबन्ध-नीयो येनेति सामानाधिकरण्येन वा कथञ्चिद्बहुव्रीहित्वमपि निर्वोढुं शक्यम् । आरोप्याकाराधिकरणभूतमधिष्ठानमिति वाऽऽर्थः । भ्रमाश्रयत्वायातिरोहितमिति चेदित्यर्थः । दूषयति - तदेवेति । किमिदमधिष्ठानं विरोधिरूपम्, उत्तावि-रोधि इति विकल्पाभिप्रायेण विरोधीतिपक्षे दूषणमुक्तम् । अविरोधित्वपक्षे बाधकल्पनानुपपत्तिर्भ्रमानुच्छेदश्चेति दूषणं स्पष्टमिति न तदुक्तम् । अत इति । पारमार्थिकशब्दस्यायमभिप्रायः -भ्रमविरोध्याकारस्यापारमार्थिकत्वे अध्य-स्तरूपमेव सत्यं स्यात्; यथा शुक्तित्वापारमार्थ्ये रजतत्वं सत्यं भवतीति ।

यदिदं चोद्यम्-विरोध्याकारस्यापारमार्थ्येऽपि भ्रमनिवृत्तिरुपपद्यते; यथा पलाशपुष्पविषयदावभ्रमवतो भ्रमरस्य वृन्दविषयभ्रमरभ्रमेण पलाशपुष्पं श्लिष्यतः पलाशपुष्पविषयदावभ्रमो वृन्तविषयभ्ररभ्रमश्च निवृत्त इति । यथाऽऽहुः, "भ्रमरी भ्रमरभ्रमेण वृन्ते यददावभ्रममाश्लिषत् पलाशम्" इति-तदयुक्तम्; तत्रापि परमार्थविरोध्याकारेणैव भ्रम-विषयनिवृत्तेः । दावत्वविरोधिपलाशपुष्पत्वाकारः परमार्थः । भ्रमरत्वविरोधिवृन्तत्वाकारश्च परमार्थः । अपरमार्थत्वे दावत्वं भ्रमरत्वं च सत्यं स्यात् । शुक्तित्वे अपरमार्थे रजतत्वमिव । वृन्तविषयभ्रमरभ्रमेण दावत्वभ्रमनिवृत्तिरिति चेत्-ततः किम् ? दावत्वबुद्धिनिवृत्तिर्भ्रमरत्वस्य सत्यत्वप्रतिपत्तिकृता; ततश्चासत्येन सत्यत्वविषयभ्रमान्तरं तिष्ठति; तन्निवृत्तिरप्यसत्यविषयसत्यत्वभ्रमान्तरेणेति भ्रमपरम्परया निश्शेषाविद्यानिवृत्त्यनुपपात्तः । किञ्च दावत्वविषयधी-निवृत्तावपि दावत्वनिवृत्तिर्न भ्रमरभ्रमेण; अपितु परमार्थपुष्पत्वाकारेणैव । अन्यथा परमार्थरजते अपरमाथर्शुक्ति-त्वबुद्बया रजतधीनिवृत्त्या रजतस्यापि शुक्तित्वप्रसङ्गात् । भ्रमान्तरेण भ्रमान्तरनिवृत्तावनवस्था च स्यात्, निवर्तक-भ्रमान्तरस्यापि निवर्तकान्तरापेक्षत्वात् । यथा रज्जुविषयसर्पभूदलनाम्बुधाराभ्रमपरम्परायाः । किञ्च भ्रमरभ्रमनिवृत्त्य-नन्तरं निवर्त्तकापारमार्थ्यज्ञानादापतद्(न्?) दावभ्रमः परमार्थपलाशपुष्पत्वग्रहणेनैव प्रतिनिवृत्तः ।

अतो निश्शेषाविद्यानिवृत्तिलक्षणमोक्षवादिना भ्रमपरम्परापर्यवसानार्थमन्ततो गत्वा परमार्थाकारोऽभ्युपगन्तव्यः, रज्जुत्ववत् । चरमभ्रमः स्वयमेव न स्यादिति चेन्न,; स्वयं स्वबाधककर्मत्वे कर्मकर्त्रविरोधप्रसङ्गात् । किञ्च बाधकस्य सत्यात्मकत्वात् बाध्यस्य मिथ्यात्वात् एकस्यैव निवर्त्यनिवतर्कत्वाभ्युपगमे तस्यैव मिथ्यात्वं सत्यत्वं चेति विरोधः स्यात् । किञ्च प्रपञ्चोऽपि बाधकानपेक्षः स्वयमेव स्वात्मानं निवर्तयेत् । स्वयं नाशे विनाशस्यावस्थान्तररूपत्वादविद्या सूक्ष्मरूपेण स्थिता स्यात् । नाशकल्पकाविद्यान्तरं च स्यात् । परमार्थविरुद्धधर्मतत्तिरोधानाभावे भ्रमबाधासंभवं दृष्टान्तेनोपपादयति - अधिष्ठाने हीति । अत्र राजकुमारसमाधिर्भगवतो भाष्यकारस्य ।

एवं बाधार्थत्वं दूषितम्; अथ स्वपक्षे इमानि दूषणानि न सन्तीत्याह - जीवशरीरकेति । मुख्यवृत्तमित्यनेन लक्षणाहानिरुक्ता; प्रकारद्वयेत्यनेन सामानाधिकरण्यसिद्धिः । निरस्तनिखिलदोषस्येत्यादिना तत्पदोक्तगुणविरोधः, उपक्रमानुकूलता चेति, "सदेव सोम्येदम्", "तदैक्षत" इत्युपक्रमाविरोध उक्तः । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोप-पत्तिः कथमित्यत्राह - सूक्ष्मेति । विशिष्टं कारणम्, तदेव कार्यमिति, प्रतिज्ञोपपत्तिरित्यर्थः । श्रुत्यन्तराविरोधमाह- तमीश्वराणामिति ।

वाक्यं चेत् उद्देश्योपादेयविभागवत् । उद्देश्यं ह्यवगतम्; उपादेयं विधेयमनवगतम् । अत्र तत्पदं नोद्देश्यसमर्पण-परम्; सार्वज्ञ्यादिगुणकत्वस्य प्रत्यक्षाद्यगोचरत्वात् । त्वंशब्दस्य चान्तर्यामिपरत्वे सति उद्देश्यसमर्पकत्वमनुपपन्नम्, अन्तर्यामिणः प्रत्यक्षाद्यविषयत्वात् । तस्मात् त्वंशब्देन जीवमात्रमुद्दिश्य तस्य तत्पदेन ब्रह्मभावो विधीयत इत्यभ्युप-गन्तव्यम् । तत्र विरोधान्निर्विशेषवस्त्वैक्यपरं सामानाधिकरण्यं संभवतीत्यभिप्रायेण चोदयति - तत्त्वमसीत्यत्रो-द्देश्योपादेयविभागः कथमिति चेदिति । परिहरति - नात्रेति । प्रमाणान्तरागोचराथर्स्य कथमविधानमित्यपेक्षायाम्, न केवलं प्रत्यक्षाद्यवगतार्थविषयमेव वाक्यमनुवादकम्, अपितु वाक्यान्तरप्रतिपन्नार्थविषयमप्यनुवादकमित्यभिप्रायेण वाक्यान्तरप्राप्तिं दर्शयति - ऐतदात्म्यमिति । अस्मिन्नेव प्रकरणे प्रथमप्रतिपन्ननामरूपव्याकरणश्रुत्यैव परमात्मश-रीरभूतचिदचिद्वाचकशब्दानां परमात्मपर्यन्ताभिधायित्वं च ज्ञातमिति भावः । ततः किमित्यत्राह - अप्राप्ते हीति । अप्रतिपन्नार्थविषयं शास्त्रमज्ञातज्ञापनरूपप्रयोजनवदित्यर्थः । अतः तदेवोद्देश्योपादेयविभागवत्; न तु प्रकृतनिग-मनरूपं वाक्यम् । अतोऽस्य निगमनवाक्यस्य प्रतिपन्नार्थविषयत्वान्नोद्देश्योपादेयविभागवत्त्वमित्यर्थः । ननु निग-मनवाक्यस्याप्युद्देश्योपादेयविभागवत्त्वं प्रतीयते । यथा "तस्माच्छब्दोऽनित्यः", "तस्मादयमग्निमान्" इति । अत्र शब्दपर्वताद्युद्देशेन अनित्यत्वाग्निमत्त्वादिकं हि विधेयतया प्रतीयते । नैतद्युक्तम् ; प्रतिपादितार्थविषयस्य निगमन-वाक्यस्याप्रतिपन्नार्थविषयत्वव्याघातात् । प्रतीतिस्तु विधायकवाक्यस्थोद्देश्योपादेयसमपर्कपदप्रत्यभिज्ञानात् निर्देशे प्रथमचरमभावादिसारूप्याच्चोद्देश्योपादेयविभागवत्त्वभ्रान्तिरेव । "यद्वृत्तयोगः प्राथम्यम् इत्याद्युद्देश्यलक्षणम्" इति हि नीतिविदः ।

ननु सवर्त्रोद्देश्यानु#ुणा तिङ्विभक्तिः । अत एव हि युष्यदस्मदोः पदान्तरसामानाधिकरण्येन परस्परसामानाधि-करण्येन च प्रयोगेषूद्देश्यानुगुणा मध्यमोत्तमपुरुषव्यवस्था दृश्यते, "त्वं भूतानामधिपतिरसि", "अहमस्मि प्रथमजा ऋतस्य", तथा "यदग्ने स्याहंत्वम्, त्वं वा स्या अहम्-स्युष्टे सत्या इहाशिषः" इत्यादिषु । अग्ने अहं त्वं यदि स्याम्-त्वमिव देवता स्याम्, त्वमहं यदि स्याः-अहमिवार्थी स्याः, तदा ते तवाऽऽशिषः सत्याः स्युरित्यर्थः । तस्मात् तत्त्व-मसीत्यत्रापि मध्यमपदप्रयोगात् त्वंपदस्योद्देश्यसमर्पकत्वं तत्पदस्य चोपादेयसमर्पकत्वमकानापि स्वीकार्यम् । नैवम्; पदद्वयावगतार्थस्य पूर्ववाक्यप्राप्तत्वादेव । तर्हि मध्यमनिर्देशः कथमिति चेत्-उच्यते । तत्त्वम्पदयोरुभयोरपि प्रयुक्त-त्वादुद्देश्योपादेयविभागाभावाच्च प्रथममध्यमपुरुषयोरविशेषेण प्राप्तौ, निगमनवाक्यस्य प्रापकवाक्यानुरोधित्वस्य

न्याय्यत्वात् तत्र च इदं सर्वमिति निर्दिष्टजगदन्तर्गतचिद्विशेषविशष्ट परमात्मवाचिनस्त्वम्पदस्य प्रापकवाक्यस्थो-द्देश्यवाचिपदवाच्यैकदेशविषयत्वात् तदनुरोधेन मध्यमनिर्देश इति ।

ननु "ऐतदात्म्यमिदं सर्वम्" इत्यचेतने ब्रह्मानुप्रवेशमुक्तवा तत्त्वमसीति जीवब्रह्मणोः स्वरूपैक्यमुच्यत इति शङ्का-यामाह - इदं सर्वमिति सजीवं जगन्निर्दिश्येति । सर्वशब्दो नाचेतनमात्रपरः । सङ्कोचकाभावेऽपि स्वारस्यभङ्गा-योगात् । "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनाः सत्प्रतिष्ठाः" इति पूर्ववाक्ये सर्वशब्देन प्रजानां विशेषितत्वात् । प्रजाशब्दस्याचित्संसृष्टचेतनविशेषपरत्वात्; "इदं सर्वमसृजत" इत्यादिवाक्यान्तरे विज्ञानाविज्ञानशब्दवाच्यचिद-चिदात्मकस्य जगतः सर्वशब्देन निर्देशाच्चेति भावः । ऐतदात्म्यमिति पदं व्याचष्टे - तस्यैष आत्मेति । इदं सर्वमिति पदद्वयमुद्देश्यसमर्पकम् । ऐतदात्म्यम् । एतदात्मकत्वं विधेयम् । विशिष्टस्य ब्रह्मणः कारणतया प्रकृतत्वेपि एत-च्छब्दः चिदचिद्विलक्षणविशेष्यांशपरः; अर्थवशात् । तदात्मकत्वं मृदात्मको घट इतिवत् स्वरूपैक्यकृतं स्यादि-त्यत्राह - तत्र च हेतुरुक्त इति । सदायतना इत्यनेन आधाराधेयभाव उक्तः । अनेन शरीरशरीरिभावः सिद्धः । चेतनेन यावदात्मभावितया धार्यद्रव्यं हि शरीरम् । अस्मिन् वाक्ये हेतुत्वमप्रकटमिति तद्वैशद्यायाह - सर्वं खल्विति । अत्रापि प्राणनेन सदायतनत्वं फलितम्; सन्मूला इत्यादिवाक्येनैकार्थ्यात् । तत्र सन्मूला इति तज्जत्वम्, सत्प्रतिष्ठा इति तल्लत्वम्, सदायतना इति तदनत्वं चोच्यते । तच्च अन्तः प्रविश्य प्रशासनेन धारकतया स्थितिहेतुत्वम् । "अन्तःप्रविष्टः शास्ता जनानाम्", "एतस्य वा अक्षरस्य प्रशासने गार्गि सर्वमिदं विधृतं तिष्ठति" इत्यादिश्रुतेः । एवं निष्कृष्टब्रह्मस्वरूपस्योपादानत्व-लयस्थानत्वायोगात्, सर्वस्य तदनत्वोक्तया च चिदचिच्छरीरकत्वं सिद्धम् । अतः सवर्शब्दः कार्यावस्थचिदचिच्छरीरकपरमात्मपरः, ब्रह्मशब्दस्य असङ्कोचेन स्वरूपगुणैर्निरवधिकबृहत्त्ववाचित्वात् निष्कृष्टब्रह्मणः कारणत्वानुपपत्तिरूपार्थसामर्थ्याच्च ब्रह्मशब्दः कारणावस्थचिदद्विशिष्टपरः । एवमुभयावस्थचिद-चित्प्रकारिणो ब्रह्मण एकत्वं सामानाधिकरण्यप्रतिपाद्यमिति कार्यकारणावस्थप्रकार्येकत्वमस्य वाक्यस्यार्थः । चिद-चित्प्रकारित्वं प्रतिपदिकबोध्यम् । अवस्थाद्वयविशिष्टवस्त्वेकत्वं सामानाधिकरण्यबोध्यमिति न वाक्यभेदः । अतो यथोक्त एवार्थः । अथ सर्वंखल्विति वाक्यप्रतिपन्नस्य तादात्म्यस्य शरीरशरीरिभावनिबन्धनत्वं नियन्तृत्वनियाम्य-त्वादिने शरीरशब्देन च विशदयितुं श्रुतिवाक्यानि दर्शयति - तथेति । "अन्तः प्रविष्ट शास्ता" इत्येतत् सर्वात्म-शब्दव्याख्यानरूपम् । अनेन शरीरात्मभावः फलितः (उक्तः) । अन्तः प्रविश्य नियाम्यत्वं हि शरीरत्वम् । तत्स्प-ष्टीकरणार्थमुदाहरति - यः पृथिव्यामिति । "यः पृथिव्याम्", "य आत्मनि" इति पर्यायद्वयेन चेतनाचेतनयोर्भगवन्तं प्रति शरीरत्वमुक्तम् । आत्मनि तिष्ठन्नित्युक्ते वेद्यामग्निस्तिष्ठति, तिले तैलं तिष्ठतीतिवत् बहिरबहिःस्थितिसाधार-ण्यात् तद्वैशद्यार्थमाह - आत्मनोऽन्तर इति । अन्तरो यमयतीत्यनेन शरीरलक्षणमुक्तम् । तस्मात् तन्नियाम्यं तच्छरीरमित्यर्थः । न च शिलापुत्रकस्य शरीरमितिवत् अयं निर्देशः, अपवादकाभावे व्यतिरेकनिर्देशस्वारस्यभ-ङ्गायोगात् । "यस्य पृथिवी शरीरम्" इति व्यतिरेकनिर्देशस्वारस्यभङ्गाभावस्य प्रकरणसिद्धत्वात् तदपवादा(दका)-भावे तत्रा(अ#ि#ा?)प्यौपचारिकत्वाश्रयणायोगात्; अधिकरणाधिकर्तव्यभाव-व्याप्यव्यापकभावाज्ञप्राज्ञभाव-नि-याम्यनियन्तृभावरूपविरुद्धधर्मैः स्वारस्यभङ्गस्यात्यर्थमपोदितत्वाच्च । यं पृथिवी न वेदेति दृष्टान्ताथर्म् । यथा अचेतनं न वेति तथा चेतनोऽपीति भावः । य आत्मनीति पर्यायेण परिशुद्धात्मनो भगवच्छरीरत्वमुच्यते; नक्षत्रचन्द्रादित्या-दीनामचित्संसृष्टचेतनविशेषाणां परमात्मशरीरत्वस्य पृथगुक्तत्वात्; "यः सर्वेषु भूतेषु तिष्ठन्" इत्यनुक्तानामपि संसृ-ष्टजीवानां परमात्मशरीरत्वस्य पृथगुक्तत्वाच्च । न च भूतशब्दः पृथिव्याद्यचिन्मात्रपरः, "यस्य पृथिवी शरीरम्, "यस्यापः शरीरम्" इत्यादिना पृथिव्यवादीनां भूतानां पृथगुक्तत्वात् । यमात्मा न वेदेति इयत्तया वेदननिषेधः;

भगवत्प्रसादेन विना तज्ज्ञानस्य शक्यत्वनिषेधो वा क्रियते । कारणावस्थमपि भगवतः शरीरम्, शरीरी च नारा-यणाख्यो देवताविशेष इति ज्ञापयितुमाह - यः पृथिवीमन्तरे सञ्चरन्निति । मृत्युः-तमश्शब्दवाच्या प्रकृतिः; तत्रैव तमश्शब्दस्थाने मृत्युशब्दपाठात् । शरीरशरीरिभावस्तत्तन्नामभाक्तवनिर्वाहक इत्याह - तत्सृष्ट्वेति । न केवलं श्रुत्य-न्तरानुरोधादैतदात्म्यशब्दार्थो निश्चीयते, स्वप्रकरणवाक्यादपीत्याह - अत्रापीति । अनेन जीववाचकशब्दस्य पर-मात्मपर्यन्तत्वमपि श्वेतकेतुनाऽवगतमिति सिद्धम् । जीवेनात्मना-जीवशरीरकेण मया; "व्याघ्रेण भूत्वा बहवो मयात्ताः" इतिवत् । नामरूपे इति पदं व्याचष्टे - वस्तुत्वं शब्दवाच्यत्वं चेति । तत्तद्देवादिवस्तुत्वं देवादिशब्दवाच्य-त्वं चेत्यर्थः । अचिद्ब्रह्मणोस्तादात्म्यमनुप्रवेशकृतमस्तु; जीवब्रह्मणोस्तु स्वरूपैक्यकृतमेव स्यात्, जीवेन मयेति श्रवणादित्यत्राह - तदनुप्रविश्येति ।

ननु जीवमनुप्रविष्टस्यापि ब्रह्मणो नामवाच्यत्वं न व्याकरणात् सिध्यति; नामरूपव्याकरणश्रुतेर्नामवाच्यत्व-प्रतिपादनपरत्वाभावात् । यथा रूपव्याकरणं रूपनिष्पादनमात्रम्, न तु स्वस्य तद्बोध्यत्वापादनम् । एवं नामव्या-करणमपि शब्दसृष्टिरेव; न तु तद्ब्रोध्यत्वापादनमिति ।

नैवम्; "तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत" इति समानवाक्ये इदंशब्दवाच्यजगदात्मब्रह्मणः प्रलयदशायामुपसंहृतनामरूपस्य सृष्टिदशायां नामरूपाभ्यां व्याकृतत्वश्रवणात् । नामरूपाभ्यामिति इत्थंभावे तृतीया । नामरूपाभ्यां विशिष्टमक्रियतेत्यर्थः । न च नामकर्तृत्वमेव नामविशिष्टत्वम्, न तु नामवाच्यत्वमिति वक्तुं युक्तम्; सञ्ज्ञासञ्ज्ञिसंबन्धव्युत्पादके नामोच्चारयितरि च पुरुषे घटादिनामविशिष्टत्वाप्रसिप्रसिद्धेः । नामवाच्यस्यैव हि नामविशिष्टत्वप्रसिद्धिः । उच्चारयितुः शब्दोपादानत्वाभावात् नामविशिष्टत्वाप्रसिद्धिः । कृत्स्नोपादानस्य तु ब्रह्मणः शब्दोपादानत्वयोगात् रूपविशिष्टत्ववत् नामविशिष्टत्वोपपत्तिरिति चेन्न - नभसि घटादिनामविशिष्टत्वाप्रसिद्धेः । न हि घटादिनामविशिष्टत्वे कथिते नभसो नामित्वं स्वरसतः प्रतीयते । वाच्यत्वेन शब्दसंबन्धिन्येव हि नामित्वप्रतीति-स्वारस्यम् । न च लक्षणादिवृत्त्याऽऽपि तत्तन्नामबोध्यत्वं ब्रह्मणः संभवतीति वाच्यम्; लक्षणागौणवृत्तिगोचरयोः कूलमाणवकयोर्गङ्गापदाग्निपदापेक्षया नामित्वाप्रसिद्धेः । ननु श्येनशब्दस्य यागविशेषं प्रति गौणनामत्वं निर्णीतम् । सत्यम्, प्राणहारित्वगुणसाम्यात् प्रयोगान्यथासिद्धेः । "यथा वै श्येनो निपत्याऽऽदत्ते" इति हि श्रुतिः । मुख्यस्यैव हि शब्दस्य नामत्वप्रतीतिः स्वतः प्राप्ता । अत्र तु स्वतः प्राप्तस्य मुख्यत्वस्यापवादा(दका)भावान्न तत्प्रहाणं युक्तम् । अतोऽनेन वाक्येन नामवाच्यत्वं शब्दस्वारस्यादवगम्यते । एतदैकार्थ्यात् "नामरूपे व्याकरवाणि" इत्यत्रापि ब्रह्म-पर्यन्तं नामरूपव्याकरणमेव विवक्षितम् ।

किञ्च तावत् वर्णसृष्टिप्रतिपादनशङ्काऽपि भवितुमर्हति; नामशब्दस्य वर्णमात्रपर्यायत्वाभावात् । ब्रह्मव्यतिरिक्त-समस्ततत्तत्पदाथर्स्वरूपनिष्पादनस्य रूपव्याकरणोक्तिसिद्धत्वेन गगनासाधारणरूपशब्दनि#ेष्पादनस्यापि रूपव्या-करणोक्तयैव सिद्धत्वात् तत्प्रतिपादनवैयर्थ्यं च स्यात् । न च रूपशब्दस्य गोबलीवर्दन्यायेन सङ्कोचः, सङ्कोचकस्य नामव्याकरणनिर्देशस्यान्यथासिद्धत्वात् । अतो निष्पाद्यमानतत्तद्रूपवाचकशब्द व्युत्पादनमेव नामव्याकरणं स्यात् ।

तत्र बहु स्यामित्यनेन स्रक्ष्यमाणबहुत्वस्य ब्रह्मविशेषणत्वावगमात्, अस्मिन् वाक्येऽपि व्याकरणस्यानुप्रवेश-पूर्वकत्वप्रतिपादनाच्च व्याक्रियमाणरूपस्य ब्रह्मविशेषणत्वमवगम्यते । अतो ब्रह्मविशेषणरूपसमभिव्याहारान्नाम्नोऽपि ब्रह्मविशेषणत्वमवगम्यते । नाम्नो विशेषणत्वं वाचकतयैवेत्युपपादितम् । कृत्स्नस्य रूपस्य ब्रह्मविशेषणत्वावगमात् तत्तद्रूपप्रवृत्तिनिमित्तकत्वाच्च नाम्नां ब्रह्मविशेषणत्वं तस्य वाचकतयैवेत्यवगम्यते; स्रक्ष्यमाणबहुत्वविषयस्य बहुश-ब्दस्य उपक्रमे ब्रह्मपर्यन्तत्वेन प्रयोगदर्शनादुपक्रमोक्तबहुत्वावान्तरभिदारूपतत्तद्रूपवाचिनां च नाम्नां ब्रह्मवाचकतया

तद्विशेषणत्वमवगम्यते "तत् तेज ऐक्षत", "ता आप ऐक्षन्त" इति प्रकरणे तेजः प्रभृतिशब्दानां परमात्मविषयतया प्रयोगदर्शनाच्च नाम्नां ब्रह्मविशेषणत्वं तद्वाचकतयेत्यवगम्यते । "वचसां वाच्यमुत्तमम्", "हरिरखिलाभिरुदीर्यते तथैकः", "नताः स्मः सर्ववचसां प्रतिष्ठा यत्र शाश्वती" इत्यादिस्मृतिस्वास्स्याच्च नामवाच्यत्वमवगम्यते । ततश्च "नामरूपे व्याकरवाणि" इति श्रुतिः चिदचिद्विशिष्टस्य ब्रह्मणस्तन्नामवाच्यत्वमेव प्रतिपादयतीति सिद्धम् ।

ऐतदात्म्यशब्दार्थव्याख्यानं निगमयति - अत इति । शरीरवाचिशब्दानां शरीरिपर्यन्तत्वं निगमयति - तस्मा-दिति । तस्मात्-उदाहृतवाक्यैः शरीरशरीरिभावप्रतिपादनात् तस्य तत्तन्नामभाक्तवनिर्वाहकत्वाच्चेत्यर्थः । ननु न तत्पर्यन्ताभिधानमुपपद्यते । लोके तत्तद्वस्तुमात्रपर्यन्तत्वेन व्युत्पन्नतया व्युत्पत्तिभङ्गप्रसङ्गात्; ब्रह्मण एकत्वेन द्वित्वबहुत्वानुपपत्तेश्चेत्यत्राह - अतस्सर्वशब्दानामिति । लोकव्युत्पत्तिशब्दस्यायं भावः,-नेत्र व्युत्पत्तिविरोधः, व्युत्पन्नार्थापरित्यागात् । ब्रह्मणो लौकिकप्रमाणगोचरतया तत्पर्यन्तव्युत्पत्त्यभावः, न त्ववाचकतयेति सोऽन्यथा-सिद्धः । यथा लिङादेरपूवर्वाचित्वं वेदव्युत्पत्त्याऽवगम्य लोकतो व्युत्पत्त्यभावपरिहारः कार्यवाक्यार्थवादिभिरुच्यते, तद्वत् । तत्तत्पदार्थविशिष्टशब्देन ब्रह्मणोऽपि द्वित्वबहुत्वादिकं सद्वारकमुपपन्नमित्युक्तं भवति ।

तत्त्वमसीत्यस्योपसंहारवाक्यतामाह - इत्यैतदात्म्यमिति । सामानाधिकरण्येन विशेषे उपसंहार इति । वैय-धिकरण्येन प्रतिज्ञातस्य सामानाधिकरण्येनोपसंहारः, सामान्येन प्रतिज्ञातस्य विशेष उपसंहार इत्यर्थः । "तदैक्षत" इत्यादिना तच्छब्दार्थः प्रतिपन्नः; "ऐतदात्म्यम्" इत्यादिना जीवस्य ब्रह्मात्मकत्वं प्रतिपन्नम्; "अनेन जीवेन" इत्यादिना जीववाचिशब्दानां ब्रह्मपर्यन्तत्वं च प्रतिपन्नमिति नात्रोद्देश्योपादेयविभागः । अयं ह्यप्राप्तार्थप्रतिपादक-वाक्यानाम्; न तु निगमनवाक्यानाम्, तेषां प्राप्तविषयत्वात् । निगमनं चोक्तार्थप्रतिष्ठार्थत्वादपेक्षितं दृश्यते । तस्मा-न्निगमनवाक्येऽस्मिन् उद्देश्योपादेयविभागमुखेन चोद्यस्य नावकाश इति परिहार उक्तो भवति । यत्र त्वप्राप्तार्थपर-वाक्ये जगद्ब्रह्मणोः सामानाधिकरण्यम्, तत्र ब्रह्मणस्तद्रूपनामभाक्तवं विधेयं ज्ञातव्यम् ।

एवं भेदश्रुतिघटकश्रुत्यविरोधार्थं "तत्त्वमसि" इति वाक्यसामानाधिकरण्यं शरीरशरीरिभावेनोपपादितम् । शरीर-वाचिशब्दानां शरीरिपर्यन्ताभिधानं जातिगुणपदयोर्व्यक्तिगुणिपर्यन्ताभिधानवत् संभवतीत्याकृत्यधिकरणन्यायेनो-पपिपादयिषुः शरीरवाचिशब्दानामाकृत्यधिकरणन्यायविषयतानिरूपणरूपस्य "अंशो नानाव्यपदेशात्" इत्यधिकर-णस्य पूर्वपक्षभूतेष्वर्थेषु दूषणमाह - अत इति । अतः-जगद्ब्रह्मणोः श्रुतिभिः शरीरशरीरिभावप्रतिपादनात् तस्य च तत्तन्नामभाक्तवनिर्वाहकत्वाच्चेत्यर्थः । भेदाभेदवादिशब्देन औपाधिकस्वभाविकभेदेभेदवादिनोर्द्वयोरपि तन्त्रेणोक्तिः । केवलभेदशब्देन स्वपर्यवसितभेदो विवक्षितः । तद्वादिनश्च वैशेषिकादयः । वैयधिकरण्यं च, अस्यैष आत्मा इत्येवं-रूपत्वादुपदेशस्य । ब्रह्मात्मभावोपदेशपरित्यागः कथमिति शङ्कायां मृपावादिपक्षे तदनुपपतिं्त वक्तुमाह - एकस्मि-न्निति । शङ्कते - तस्यैवेति । प्रतिवक्ति - तदिति । स्ववाक्येन - "सत्यं ज्ञानम्" इत्यादिना स्वरूपपरवाक्येन । स्ववाक्येन प्रतिपन्नादधिकार्थप्रतिपत्तिरस्ति वा न वा ? । प्रथमे सविशेषत्वम्; द्वितीये तादात्म्योपदेशवैयर्थ्यमिति भावः । पुनः शङ्कते - कल्पितेति । दूषयति - तदिति । प्रकारद्वयोपस्थापकत्वादिति भावः । सामानाधिकरण्य-तादात्म्येति । सामानाधिकरण्येन तादात्म्योपदेशावसेयमित्यर्थः । न केवलमसाधकत्वम्, विरुद्धमपीत्याह - सामा-नाधिकरण्यं त्विति । औपाधिकभेदाभेदवादे तदनुपपत्तिमाह - भेदाभेदेति । क्लेशकर्माद्यस्पष्टः सार्वज्ञ्यादिगुणको हीश्वरः । अत ईश्वरस्य निर्दोषस्य तदनर्हानीश्वरतादात्म्यव्याघातादीश्वरतादात्म्योपदेशो विरुद्ध इत्यर्थः । परित्यक्ताः स्युः । परित्यागः फलित इत्यर्थः । स्वाभाविकभेदाभेदपक्षे तदनुपपत्तिमाह - स्वाभाविकेति । गुणवद्दोषाश्च स्वा-भाविका भवेयुरिति । ब्रह्मण ईश्वरांशेन सार्वज्ञ्यादिगुणा इव जीवांशेन दोषाश्च स्वाभाविका भवेयुः; "अनादिर्भग-

वान् कालो नान्तोऽस्य द्विज विद्यते । अन्वयुच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः" इति संसारप्रवाहानन्त्येन दोषा नित्याः स्युरित्यर्थः । यद्वा तत्तद्दोषसंबन्धार्हत्वं स्वाभाविकं स्यादित्यर्थः । ततः किमित्यत्राह - इति निर्दोषेति । सद्-ब्रह्मात्मादिशब्दानां नारायणशब्दपर्यवसायित्वेनेश्वरातिरिक्तवस्तुनिषेधादिभिरीश्वरस्यैव ब्रह्मत्वं सिद्धं कृत्वा, निरवद्यं निरञ्जनमित्यादिश्रुत्युक्तं ब्रह्मणो निर्दोषत्वं चाभिप्रेत्य निर्दोषब्रह्मतादात्म्योपदेशविरोध उक्तः । निर्दोषश्रुतिविरोधः फलितः । तर्हि निर्दोषश्रुतिविरोध इति वक्तव्ये किमर्थं निर्दोषब्रह्मतादात्म्योपदेशो विरुद्ध इत्युक्तम् । उच्यते । हेयान-र्हतादात्म्यं हि पुरुषार्थः । स्वरूपैक्ये च ब्रह्मणो हेयार्हत्वाद्धेयार्हब्रह्मतादात्म्यधीर्न हेयापहा । तत्तादात्म्यानुभवोऽप्य-पुरुषार्थश्चेत्युपायत्वप्राप्यत्वविरोधात् तादात्म्योपदेशपरवाक्यस्य न प्रयोजनपर्यवसानं स्यात् । न हि असिना छिद्यमा-नस्य कालाग्निना दह्यमानस्य च पुरुषस्योपासनमुपासकानर्थं परिहरति । न च तत्तादात्म्यधीः कस्यचित्पुरुषार्थः, तद्वदिति ज्ञापयाय तादात्म्योपदेशो विरुद्ध इत्युक्तम् । स्वनिष्ठभेदपक्षं दूषयति - केवलेति । अत्यन्तभिन्नयोः-प्रका-रप्रकारिभावरहितयोरित्यर्थः । केनापि प्रकारेण । विशेष्यांशतोऽप्यैक्यासिद्धिरित्यर्थः ।

एवं पूर्वपक्षचतुष्टयेऽप्यनुपपत्तिमुक्तवा स्वपक्षे वैषम्यमाह - निखिलेति । सम्यक्छब्देन मुख्यत्वं विवक्षितम् । कथं मुख्यत्वमित्यत्राह - जातिगुणयोरिति । दण्डादिव्यावृत्त्यर्थमाह - शरीरभावेन विशेषणत्वेनेति । कथं मुख्यमेव दृष्टचरमित्युच्यते; अमुख्यत्वेऽपि हि प्रयोगः संभवति । अमुख्यत्वं च शरीरस्य द्रव्यत्वात् । न हि दण्डकुण्डलादि-शब्दानां विशेष्यपर्यन्ताभिधानं दृष्टम् । तस्मादद्रव्यत्वे सति विशेषणत्वम्, जातिगुणयोरन्यतरत्वे सति विशेषणत्वं वा मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजकमिति शरीरवाचिशब्दस्य विशेष्यपर्यन्ताभिधानममुख्यमित्यत्राह - जातिगुणयोरपीति । एवकारेण जातिगुणयोरन्यतरत्वादेः प्रयोजकत्वव्युदासः । ततः किमित्यत्राह-मनुष्यत्वादिति । अत्र प्रकारशब्दो विशेषणमात्रपरः । एवकारेण दण्डकुण्डलादिव्यावृत्तिरभिप्रेता । सामानाधिकरण्यं अनुगतमि-तीति । सामानाधिकरण्यस्यानुगतत्वादनुगतमेव तत्प्रयोजकं वाच्यमित्यर्थः । जातित्वगुणत्वादेः प्रत्योजकत्वं किं न स्यादित्यत आह - न परस्परेति । परस्परव्यावृत्ताः - परस्पराननुयायिनः । जात्यादयः-जातित्वादयः । अयमभि-प्रायः-गङ्गायां घोष इत्यादिषु प्रवाहकूलयोर्गङ्गापदप्रवृत्तिनिमित्तभूतस्यानुयायिनः आकारस्यादर्शनात् तत्र लाक्षणि-कत्वं युक्तम्; अत्र तु यत्र यत्र विशेष्यपर्यन्ताभिधायित्वेन प्रयोगो दृष्टचरः, तत्र तत्र प्रयोगविषयेष्वनुवृत्ताकारदर्शनात् अननुगताकारप्रयोजकत्वाश्रयणेन क्वचिल्लाक्षणिकत्वं वक्तुमयुक्तम् । अन्यथा-अद्रव्यत्वे सति विशेषणत्वं विशेष्य-पर्यन्ताधाने प्रयोजकमित्यपि न वक्तव्यम्; जातित्वं गुणत्वं वा प्रयोजकमस्तु, अन्यल्लाक्षणिकं स्यात् । न च तथा भवदभिमतम्; जातिगुणवाचिनामुभयषामपि हि शब्दानां विशेष्यपर्यन्तवसायित्वेन प्रयोगदर्शनात् । तस्मात् शरी-रवाचिशब्दानामपि विशेष्यपयर्न्ताभिधायित्वेन प्रयोगदर्शनात् प्रयोगेषु सर्वेष्वनुवृत्तैकाकारदर्शनाच्च अननुवृत्ताका-रान्तरस्य प्रयोजकत्वकल्पनेनान्यतरस्यामुख्यत्वकल्पनाया अयुक्तत्वात् इदमपि सामानाधिकरण्यं जातिगुणवाचि शब्दानामिव मुख्यमेवेति । ननु प्रकारभूतद्रव्यवाचिपदानां मत्वर्थीयप्रत्ययनिरपेक्षविशेष्यपर्यन्ताभिधायित्वं दण्डा-दिशब्दानां तथात्वादर्शनादनुपपन्नमिति शङ्कायां प्रकारतयैवेति पूर्वमभिप्रेतं विवृणोति - स्वनिष्ठानामेव हीति । अपृथक्सिद्धप्रकारवाचित्वमेव मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यप्रयोजकमित्यर्थः । यत्रयत्र नियतप्रकारत्वम्, तत्र तत्र सहोपलम्भनियमो दृष्टः । शरीरे तु सहोपलम्भनियमाभावादपृथक्सिद्धविशेषणत्वमनुपपन्नम् । तस्मात् सामानाधिकरण्यं लाक्षणिकमित्यभिप्रायेण चोदयति - यदि गौरश्व इति । पक्षे व्यापकविपर्ययं दर्शयति - न चैव-मिति । तत् विवृणोति - नहीति । ततः किमित्यत्राह - अत इति । परिहरति - नैतदेवमिति । सहोपलम्भनियमस्य नियतप्रकारत्वप्रयोजकत्वे दूषणं वक्ष्यन् प्रथमं शरीरस्यापृथग्विशेषणत्वं प्रतिपन्नमिति दशर्यति - मनुष्यादीति ।

आत्मैकाश्रयत्वतदेकार्थत्वयोरन्यतरान्वितं प्रकारत्वमपृथक्सिद्धविशेषणत्वमित्यर्थः । यद्वा प्रकारत्वशब्देन प्रकार-तयैव प्रतीतिर्विवक्षिता; उत्तरत्र प्रकारत्वविवरणे आत्मविशेषणतयैव प्रतीतेरिति वक्ष्यमाणत्वात् । तेन विशेष्य-प्रतिपत्तिसंभवे दण्डकुण्डलादिवत् पृथगवस्थितत्वेन प्रतिपन्नत्वाभावः फलितः । तदेकाश्रयत्वं तदेकप्रयोजनत्वं विशेष्यप्रतीतिसंभवे पृथक्स्थितत्वेनाप्रतीतत्वं चापृथक्सिद्धविशेषणत्वे प्रयोजकमित्यर्थः । तेषु त्रिषु आत्मैकाश्रयत्वं पक्षे दर्शयति - आत्मैकाश्रयत्वमिति । तदेकप्रयोजनत्वं दर्शयति - आत्मैकेति । न च दुःखैकफलनारकशरीरेष्व-व्याप्तिः; दुःखस्याप्रयोजनत्वेऽपि तेषां पापक्षयरूपप्रयोजनहेतुत्वात् । न च पत्यादिप्रीतिहेतुषु भृत्यादिदेहेषु तदेक-प्रयोजनत्वादतिव्याप्तिः शङ्कनीया; तत्प्रयोजनसाधनत्वेनविना स्थित्यभावस्य विवक्षितत्वात् । क्रयविक्रयाद्यर्हस्य तदेकप्रयोजनत्वं हि न सिध्यति । तत्कर्मफलभोगार्थतयैव सद्भावादिति ह्युक्तम् । अतस्तदेकप्रयोजनशब्दस्याप्य-यमेवार्थः । अथ तत्प्रकारत्वं दर्शयति - तत्प्रकारत्वमपीति । विशेष्यप्रतीतिसिद्धौ तत्पृथक्सिद्धत्वेन प्रतीत्यभाव-स्तत्प्रकारत्वशब्देन विवक्षित इत्यर्थः । पञ्चमीनिर्देशस्त्वौपचारिकः । यद्वा, तत एव तत्प्रकारत्वेनोक्तमित्यर्थः । अथवा पृथक्स्थितत्वप्रतीत्यभावे प्रतीतिविशेषो हेतुतयोदाह्रियते । एतत् तदेकाश्रयत्वादित्रितयं सपक्षेऽपि दर्शयति एतदेव हीति । विपक्षव्यावृत्तत्वं दर्शयति - एतत्स्वभावेति । ईदृशप्रकारत्वमेव पक्षे मत्वर्थीयप्रत्ययनिरपेक्षसामा-नाधिकरण्यहेतुरित्याह - देवमनुष्यादीति । सहोपलम्भनिमस्यान्यथासिद्धिमाह - जातिव्यक्तयोरिति । सहोप-लम्भनियमस्त्वेकसामग्रीवेद्यत्वप्रयुक्तः, न त्वपृथक्सिद्धविशेषणत्वप्रयुक्त इत्यर्थः । चाक्षुषत्वं प्रदर्शनार्थम् । उपा-धेरपक्षस्थत्वं दर्शयति - आत्मनस्त्विति । एकसामग्रीवेद्यत्वमपृथक्सिद्धविशेषणत्वे प्रयोजकमिति तदभावात् नापृ-थक्सिद्धविशेषणत्वमित्याशङ्कयाह - पृथग्ग्रहणेति । स्वं रूपं स्वरूपम्-धर्मः । प्रकारत्वमेव धर्मो यस्य तत् प्रका-रतैकस्वरूपम् । एकशब्देन कदाचिदप्रकारत्वस्य व्युदासः । ततश्च दण्डकुण्डलादिवैषम्यम् । किमपृधक्सिद्धविशे-षणत्वे प्रयोजकान्तराभावादेकसामग्रीवेद्यत्वं प्रयोजकमुच्यते, उतास्यानुयायित्वात् इदमपि प्रयोजकमुच्यते इति विकल्पमभिप्रेत्य प्रथमं शिरः प्रतिवदति - जात्यादीति । प्रकारतैकस्वभावत्वावगमादित्यत्र स्वभावशब्देनैव प्रकारत्वनियमे सिद्धेऽप्येकशब्दप्रयोगः एकसामग्रीवेद्यतास्वभावत्वव्यावृत्त्यर्थः । यदि तदेकाश्रयत्वादिरेवापृथग्वि-शेषणत्वे प्रयोजकः, कथं तर्हि जात्यादौ सहोपलम्भनियम इत्यत्राह - सहोपलम्भेति । अनेन पूर्वं चाक्षुषत्वोक्ति-रेकसामग्रीवेद्यत्वप्रदर्शनार्थेति स्पष्टम् ।

अथ (त्र) पूर्वोक्तविकल्पे द्वितीयशिरसि चापृथग्विशेषणत्वप्रयोजकतयोच्यमानमिदं किं मत्वर्थीयप्रत्ययनिरपेक्ष-सामानाधिकरण्यप्रयोगविषयेषु सर्वेष्वनुयायि, उत भवदभिमतजातिगुणेष्वेवानुयायीति विकल्पोऽभिप्रेतः । तत्र न प्रथमः; देहात्मनोरेकसामग्रीवेद्यत्वाभावात् । ततश्च अनुगतप्रयोजकसद्भावादपृथग्विशेषणत्वस्याप्यनुगतत्वेन सामा-नाधिकरण्यप्रयोगाणां सर्वेषां मुख्यत्वे संभवत्यपि अननुगतमाकारं प्रयोजकत्वेनाङ्गीकृत्य, अपृथग्विशेषणत्वमपि सङ्कुचितं कृत्वा, तद्द्वारा सामानाधिकरण्यप्रयोगाणाममुख्यत्वाश्रयणमनुपपन्नमित्यर्थसिद्धम्; प्रकारतैकस्वभाव-त्वावगमादित्यत्रैकशब्देन एकसामग्रीवेद्यतास्वभावत्वस्य व्युदस्तत्वात् । अथ पराभिमतस्थलानुयायित्वरूपे द्वितीय-शिरसि गन्धादौ व्याभिचारेण दूषणं वदन् एकसामग्रीवेद्यत्वस्यापृथग्विशेणत्वाव्यापकत्वमाह - यथेति । न ह्यचाक्षु-षस्यापि गन्धस्य पृथिवीनियतप्रकारत्वहानिः । एवंशब्दो यथाशब्दप्रतिनिर्देशरूपः । कस्मादग्रहणमित्यत्राह - आत्मग्रहण इति । व्यापकत्वाभावफलमाह - नैतावतेति । एतावता-चक्षुषा ग्रहणाभावमात्रात् । न तत्प्रकारत्व-स्वभावहानिः । एकसामग्रीवेद्यत्वस्यापृथग्विशेणताव्यापकत्वाभावात्, तदेकाश्रयत्वादिप्रयोजकान्तरसद्भावाच्चेति भावः । ततः किमित्यत्राह - तत्प्रकारतेति । एकशब्द एकसामग्रीवेद्यतास्वभावत्वव्युदासपरः । एवकारः सहोप-

लम्भनियमव्युदासार्थः । अपृथग्विशेणत्वे सति शरीरस्य, केनापि प्रमाणेन तत् तथोपलभ्येतेत्यत्राह - आत्मेति ।

शब्दोपि न शरीरिपर्यन्ताभिधायीति चोदयति - ननु चेति । परिहरति - नैवमिति । इमौ चोद्यपरिहारौ आकृ-त्यधिकरणेऽपि समानावित्यभिप्रायेणाह - यथा गोत्वमिति । निष्कषर्कशब्दानां विशेष्यपर्यन्ताभिधायकत्वाभावे चेतनाचेतनवाचिनः शब्दाः न ब्रह्मपर्यन्ताभिधायिनो भवन्ति; "यस्यात्मा शरीरम्", "यस्य पृथिवी शरीरम्" इत्या-दिष्वात्मादिशब्दानां निष्कर्षकशब्दत्वावगमादिति चेत्-उच्यते । निष्कर्षकशब्दो द्विविधः, वैवक्षिकनिष्कर्षकः निय-तनिष्कर्षकश्चेति । तत्र शरीरादिशब्दाः नियतनिष्कर्षकाः, आत्मादिशब्दा वैवक्षिकनिष्कर्षकाः, गोत्वादिशब्दवत् शुक्लादिशब्दवच्च; प्रयोगस्य व्यवस्थापकत्वात् । निष्कर्षकानिष्कर्षकविभागोऽपि हि प्रयोगाधीनः । तद्वदयमपि विभागस्तन्मूलः । ननु शुक्लादिशब्दाः नियतनिष्कर्षका एव । गुणिपर्यन्तता तु "गुणवचनेभ्यो मतुपो लुग् वक्तव्यः" इति स्मरणात् । मैवम्; जातिवाचिशब्दवत् अपृथक्सिद्धविशेषवाचित्वाविशेषाच्छुक्लादिशब्दानाम् । प्रत्ययस्तु द्विशब्दस्थद्विवचनवत् प्रकृत्यनतिरिक्तार्थः त्रिलिङ्गतया शब्दसाधुत्वाय, स्वरविशेषाय च भवति । तत एव हि, "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" इति नैघण्टुकाः । यतः स्वतो गुणिपर्यन्तानामेव गुणवाचिपदानां लिङ्गस्वरार्थं मतुब्लोपस्मरणम्; न तु गुण्यभिधानशक्तिविरहिणां गुण्यभिधानार्थम्- अत एव हि रागशब्दस्य रक्तपदतुल्यतया प्रयोगाभावः । अतः शुक्लादिशब्दा वैवक्षिकनिष्कर्षकाः । नियतनिष्कर्षकाणामपि तथात्वं प्रतियोगिविशेषसापेक्षम्; न तु सार्वत्रिकम् । "रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः । पुण्यो गन्धः पृथिव्यां च" इति (रस ?)गन्धादि-शब्दानामपि परात्मपर्यन्ततया प्रयोगात् । अतः पृथिव्याद्यपेक्षयैव गन्धादिशब्दानां नियतनिष्कर्षकत्वम् ।

शरीरवाचिशब्दानां शरीरिपर्यन्ततां निगमयति - अतो गवादीति । आत्मपर्यन्ताः-आत्मपर्यन्तशक्तयः । शरी-रवाचिशब्दैरात्मबोधनं शक्तिनिबन्धनतया मुख्यत्वमित्यर्थः ।

ननु यद्यपि शरीरवाचिशब्दा आकृतिनयगोचराः, तथापि तैः शरीरिबोधनं लाक्षणिकम्; गवादिशब्दैरपि व्यक्ति-बोधनस्य लाक्षणिकत्वात् । संबन्धानुपपत्तिभ्यां हि लक्षणा । जातिमात्रस्याऽऽनयनाद्यनर्हत्वात् व्यक्तिसंबन्धाच्च गवादिशब्दैर्व्यक्तिर्लक्षणया बोध्यते; प्रयोगे अन्यथासिद्धे शक्तिकल्पनानुपपत्तेः । नैवम्; अयुतसिद्धविशेषणवाचि-शब्दत्वस्य विशेष्यलक्षणाप्रतिबन्धकत्वात् । अन्यथा जात्यादिशब्दानामपि सम्बन्धानुपपत्त्यविशेषेण क्वचिद्य्वक्ति-पर्यन्तप्रयोगप्रसङ्गः ।

"आकृतिरेव शब्दशक्तिविषयः । व्यक्तिबोधस्त्वर्थसामर्थ्यात् । प्रत्यभिज्ञायां संस्कारसचिवेन्द्रियवत् अर्थसामर्थ्य-सचिता शब्दशक्तिर्विशिष्टबोधसामग्री " इत्यपि न युक्तम्; जात्यादिशब्दश्रवणेऽपि विशिष्टबोधप्रसङ्गादेव । न हि सत्यां सामग्रयां पार्यानुदय उपपद्यते ।

ननु गवादिशब्दाः जातेर्व्याक्तिपरतन्त्रतारूपममिदधति । अतस्त्रैर्व्यक्तिपर्यन्तबोधः । जात्यादिशब्दास्तु जातिस्व-रूपमात्रम् । अतस्तैर्व्यक्तिपर्यन्तबोधाभावः । नैवम्; जात्यादिशब्दैर्द्रव्यपारतन्त्र्#ाप्रतिपत्तौ द्रव्यविलक्षणतया जाति-प्रतीत्यनुपपत्तेः । ननु न जातेर्द्रव्यप्रकारतैकस्वभावत्वरूपपारतन्त्र्#ाबोधनं विवक्षितम्, किन्तु विशेषणान्तरान्वय-कारकभावानर्हत्वरूपपारतन्त्र्#ाबोधनमिति । उच्यते । गवादिशब्दैः तादृक्तवबोधनमेकपदेन विशेष्याभिधाननिबन्ध-नम् । न हि, कुण्डलीत्युक्ते कुण्डलस्य रुचिरत्वादिविशेषणान्वयः, कुण्डलेन भुषित इतिवत् कारकभावश्च भवति । एवं च सति पारतस्त्र्#ाबोधनाद् व्यक्तयबोधनेऽभ्युपगम्यमाने अन्योन्याश्रयः स्यात्-पारतन्त्र्#ाबोधनाद्विशेष्याबोधनम्, तदबोधनात् पारतन्त्र्#ाबोधनमिति । किञ्च गवादिशब्दानां विशेष्यबोधनशक्तिविरहे जात्यादिशब्दानामिव पार-तन्त्र्यबोधनासामर्थ्यप्रसङ्गः । धर्मिबोधनासामर्थ्यव्यापकतया जात्यादिशब्देषु दृष्टं पारतन्त्र्यबोधनासामर्थ्यं गवादि-

शब्देभ्यो निवर्तमानं स्वव्याप्यं धर्मिबोधनासामर्थ्यं कथं न निवर्तयेत् । द्रव्यांशे शक्तिर्मा भूत्; जातेर्व्यक्तिपारतन्त्र्य-मपि गवादिशब्दा बोधयेतुरिति न वाच्यम्-द्रव्यांशे शक्तिविरहितैर्जात्यादिशब्दैरपि द्रव्यपारतन्त्र्यबोधनप्रसङ्गात् । अतः शब्दशक्तिनिबन्धनैव गवादिशब्दैर्द्रव्यप्रतीतिः ।

किञ्च यदि जातिमात्रमेव मुख्यार्थः, तर्ह्यमुख्यभूतद्रव्यपयर्न्तप्रयोगादपि जातिमात्रे गवादिशब्दानां प्रचुरप्रयो-गप्रसङ्गः; मुख्यार्थतद्गतगुणसंबन्धिविषयप्रयोगादपि मुख्यार्थे प्रचुरप्रयोगदर्शनात् । गङ्गाग्निसिंहादिशब्दानां कूल-माणवकादिविषयप्रयोगादपि मुख्यार्थे प्रचुरप्रयोगो दृष्टः । न तु व्यक्तिनिष्ठा गौः, व्यक्तिनिष्ठो महिष इति प्रयोगः । जातिरेव मुख्यार्थश्चेत्-गवादिशब्दानां जातिमात्रविषयप्रयोगे त्वतलादिनैरपेक्ष्यं च स्यात् । न हि गङ्गादिशब्दाः प्रवा-हादिविषयप्रयोगे भावप्रत्ययान्ताः प्रयुज्यन्ते । प्रचुरप्रयोगाभावो भावप्रत्ययापेक्षत्वं च गवादिशब्दानां व्यक्तौ निरूढ-लक्षणायोगादिति चेन्न । प्रचुरप्रयोगानुगतिर्हि लक्षणाया निरूढिः । ततश्च प्रचुरप्रयोगाभावात्प्रचुरप्रयोगाभाव इति परिहारो न घटते । प्रसङ्गस्य प्रसञ्जनीयामावपरिहार्यत्वाभावात् । न ह्यग्निमत्त्वप्रसङ्गोऽग्न्यभावात् परिह्रियते । भाव-प्रत्ययानपेक्षत्वप्रसङ्गश्च दुष्परिहरः; शुक्लादिशब्दानां गुणिबोधने निरूढलक्षणाभ्युपगमेऽपि पटस्य शुक्ल इति गुणमा-त्रपाप्रयोगे भावप्रत्ययानपेक्षत्वदर्शनात् । शुक्लादिशब्दानां हि लुप्तमतुबर्थलक्षणा परैरभ्युपगता; यथा समासेषु प्राति-पदिकेनाप्रयुक्तविभक्तयर्थलक्षणेष्यते । लक्षणाया निरूढिर्नाम सर्वप्रयोगानुगतिरिति चेन्न; गोशब्दे तदभावप्रसङ्गात् । अनुवृत्तो गोव्यवहार इति गोत्वमात्रेऽपि हि गोशब्दः क्वापि प्रयुज्यते । किञ्च सर्वप्रयोगानुगता वृत्तिर्लक्षणैव न स्यात्; आकृतिविषयवृत्तिवत् । ननु अनन्यथासिद्धा वृत्तिर्मुख्या । सत्यम्; अनन्यथासिद्धिश्च दर्शिता; अयुतसिद्धविशेषण-वाचिशब्दानां विशेष्यलक्षणासामर्थ्याभावस्योपपादितत्वात् । ननु त्वत्पक्षे धर्मिवाचिपदानां भावप्रधाननिर्देशेषु मुख्यैकदेशे लक्षणाऽभिमता; अस्माकं तु गवादिशब्दानां व्यक्तौ लक्षणा । तत्र शक्तेर्विशेषणविशेष्यगोचरत्वकल्पने भवतां गौरवं स्यात् । स्यादेव । स तु नात्र दोषः, लाघवेन निर्वाहायोग्यस्थले गौरवस्य दोषत्वाभावात् । लक्षणा-श्रयणानुपपत्तिर्हि दर्शिता ।

किञ्च गामनयेत्यादिषु व्यक्तिप्रतीतिरर्थसामर्थ्याद्भवति चेत्-तर्हि विवक्षितया जातेः प्रतिसंबन्धिभूतं द्रव्यमुप-सर्जनतया प्रतीयते । ततश्च पुत्रः पितेतिवत् खण्डो गौरयमिति सामानाधिकरण्यं न स्यात् । पुत्रमानयेत्यत्र हि मयेत्यनुक्तेऽप्यर्थवशात् विवक्षितपुत्रप्रतिसंबन्धिपितृत्वेन प्रतीयमानो देवदत्तः पुत्रं प्रति गुणतया प्रतीयते; न तु विशेष्यत्वेन प्रधानतया; तदवच्छेदार्थत्वात् तस्य । गवादिशब्देषु तु द्रव्यमेव प्रधानतया प्रतीयते । गङ्गायां घोष इत्यत्र प्रवाहस्याविवक्षितत्वात् कूलस्य तदुपसर्जनतया प्रतीत्यभावः । छत्रिणो गच्छन्तीत्यत्र तु अच्छत्रिणां छत्रिप्रतिसं-बन्धितया प्रतीयमानत्वाभावात् छत्रिगुणभावेन प्रतीत्यभावः । अतो विवक्षितार्थप्रतिसंन्धितया प्रतीयमानत्वेऽपि प्रधानतया प्रतीयमानं द्रव्यं शब्दशक्तयैव प्रतीयते; अयं पुत्रीत्यत्र पुत्रिशब्देन प्रतीयमानपुत्रिवत् ।

किञ्च विशेष्यांशे शक्तिमता रूपिशब्देन रूपप्रतिपत्तिदर्शनात् तद्रहितेन रूपशब्देन विशेष्यप्रतिपत्तिदर्शनाभावाच्च शब्दविशेषोपश्लिष्टविशेष्यप्रतीतिरन्वयव्यतिरेकाभ्यां शब्दशक्तिनिबन्धनेत्यध्यवसीयते । अतो गवादिशब्दानां विशे-ष्यबोधकत्वं शक्तिनिबन्धनम् ।

ननु व्यक्तीनामानन्त्यात् ताभिः संबन्धग्रहोऽनुपपन्नः । एकस्यां व्यक्तौ शब्दवाच्यताव्युत्पत्तिश्चेत्-व्यक्तयन्तरस्य गोशब्दवाच्यत्वं न स्यात् । नैवम्; यत्र जातिस्तत्रायां शब्द इत्येवंरूपत्वाद्वयुत्पत्तेः । अतो वाच्यतानिमित्तस्यैकत्वात् प्रत्येकव्युत्पत्त्यनपेक्षा, युगपत्सर्वव्यक्तीनां वाच्यताव्युत्पत्तिः, एकैकव्यक्तौ वाच्यतानिमित्तस्य पुष्कलत्वादेकैकव्यक्ते-र्वाच्यत्वसिद्धिश्च घटते । कथमनन्तानां व्यक्तीनां बुद्धावारोपणं शक्यमिति चेत्-व्यक्तीनां शब्दवाच्यत्वं प्रतिषेधता त्वया व्यक्तयः प्रतिपन्नाः, न वा ? न चेत्-तासु शब्दवाच्यत्वविषेधोऽनुपपन्नः । "लब्धरूपे क्वचित् किञ्चित् तादृगेव निषिध्यते" । प्रतिपन्नाश्चेत्-किं कतिपयव्यक्तयः प्रतिपन्नाः उत सर्वाः ? प्रथमे सर्वव्यक्तीनां शब्दवाच्यत्वनिषेधा-योगः । द्वितीये त्वमिव सर्वे सर्वा व्यक्तीः पतिपद्येरन् व्युत्पद्येरंश्च । अतो गवादिशब्दाः स्वशख्क्त्यैव व्यक्तिबोधकाः । तद्वत् शरीरवाचिशब्दानामपि स्वशक्तयैव शरीरिपर्यन्तबोधकत्वं सिद्धम् ।

एवं शरीरवाचिशब्दाः शरीरिपर्यन्ताः स्युः; ततः किं परमात्मचिचिद्वाचिशब्दानां सामानाधिकरण्यस्येत्यत्राह - एवमिति । प्रयोजकाकारं वदन् निगमयति - अत इति । एवं तत्त्वमसीतिवाक्येन चिदचिच्छरीरकस्य कारणावस्थस्य कार्यावस्थस्य च ब्रह्मण एकत्वं प्रतिपादितम् । न च प्रकार्यैक्यं कार्यकारणैक्यं चेत्यर्थभेदद्वाक्यभेदः शङ्कनीयः; प्रका-रित्वस्य पदावगम्यत्वात् । तत्पदं हि प्रकृतवाचकम्, प्रकृतं हि सार्वज्ञ्यादिगुणकं जगच्छरीरकं कारणम्; "तदैक्षत" "एकमेव" "बहु स्याम्" "तत्तेजोऽसृजत" "अनुप्रविश्य नामरूपे व्याकरवाणि" "सदायतनाः सत्प्रतिष्ठाः" इत्यादिभि-रीक्षितृत्वैकत्वानुप्रवेशपूर्वकनामरूपव्याकरणधारणश्रवणात् । अतस्तत्पदं सार्वज्ञ्यादिगुणकजगच्छरीरकब्रह्मपरम् । त्वम्पदं च कार्याचित्संसृष्टजीवविशेषविशिष्टब्रह्मपरम् । अत उभयावस्थस्य ब्रह्मणः चिदचित्प्रकारवत्त्वं पदावगतम् । पदद्वयस्थसमानविभक्त्या कारणावस्थस्य कार्यावस्थस्य च ब्रह्मण एकत्वमवगम्यते । अतो न वाक्यभेदः । अतः कार्यकारणावस्थप्रकार्येकत्वं तत्त्वमसीति वाक्येन प्रतिपादितम् ।

परमात्मानं प्रति जगतः शरीरत्वं कथम् ? अस्मिन् सिद्धे शरीरित्वप्रयुक्ता दोषाः स्युः । उक्तस्यानुग्राहकस्य न्यायस्य किमनुग्राह्यं प्रमाणम् ? कथं व्युत्पत्तिविरोधपरिहार इत्यादिशङ्कायामाह - अयमर्थ इति ।

परेण स्वरूपैक्यपरत्वेनोदाहृतं सूत्रं वाक्यकारवचनञ्च व्याचष्टे - इदमेवेत्यादिना । अत्रायमर्थः सङ्कलय्यानु-सन्धेयः-मृषावादिभिः सामानाधिकरण्यनिर्वाहाः बहुधा कृताः । तत्र सामानाधिकरण्यस्यातद्वयावृत्तिमुखेन वस्तु-मात्रपरत्वं सत्यादिवाक्यनिरूपणेन निरस्तम्; व्यावृत्तीनामुपलक्षणतापक्षे पदान्तरवैयर्थ्यात्; विशेषणत्वाभ्युपगमे मुख्ये संभवति लाक्षणिकार्थस्वीकारायोगाच्च । तत्त्वमसीति वाक्ये चान्वयमुखेन स्वरूपमात्रपरत्वे तत्पदस्य प्रकृत-परामर्शित्वभङ्गः, पदद्वयलक्षणा, प्रवृत्तिनिमित्तभेदाभावात्सामानाधिकरण्यलक्षणहानिः, उपलक्षणरूपप्रवृत्तिनिमि-त्ताश्रयणे पदान्तरवैयर्थ्यम्, "तदैक्षत" इत्याद्युपक्रमविरोधः, उपक्रमोपक्रमविरोधः, श्रुत्यन्तरविरोधः, तिरोधानाद्यु-पपत्तिरूपतर्कविरोधश्चेति दूषणान्युक्तानि । बाधार्थत्वे च स्वरूपलक्षणा नञर्थलक्षणा चेति पदद्वयलक्षणादयो दोषाः । प्रत्यक्षेण बाधादर्शनाद्बाधपरत्वानुपपत्तिः, पदान्तरेण विरोधिधर्मानुपस्था(प)नेन विरोधाभावाद्बाधकल्प-नानुपपत्तिरित्यधिकं दूषणद्वयञ्चोक्तम् । तथा "सर्वं खल्विदं ब्रह्म" इत्यत्र सामानाधिकरण्यस्य च अतदाकारारो-पणनिबन्धनत्वमयुक्तम्, सर्वत्वब्रह्मत्वयोरेकाश्रयत्वाभावेन सामानाधिकरण्यलक्षणाभावात्; परमार्थत ऐकाधि-करण्येन संभवति अपरमार्थैक्यविषयत्वाश्रयणानुपपत्तेश्च । ऐक्यपरमार्थ्ये हि सामानाधिकरण्यवाक्यब्रामाण्यं हीयते; प्रतिपिपादयिषितस्यैक्यस्य मिथ्यात्यात् । एवमचिद्ब्रह्मणोः सामानाधिकरण्यं सत्यानृतयोरैक्याभावादयुक्तम् ।

अन्तःकरणचिन्मात्रयोरैक्याभावात् "ब्रह्माहमस्मी"ति सामानाधिकरण्यं न घटते । अहंशब्दस्य अन्तःकरणो-पहितज्ञप्तिवाचित्वात् तदुपपत्तिरिति चेन्न; अहंशब्दस्यान्तःकरणोपहितज्ञप्तिवाचित्वाभावात्, यथा अहमिच्छामि द्वेष्मीतीच्छादेरहमर्थविशेषणतया व्यवहारात् अहंशब्दस्य नान्तःकरणोपहितेच्छादिवाचित्वम् एवमहं जानामीति प्रयोगात् तदुपहितज्ञप्तिवाचित्वमप्यहंशब्दस्यानुपपन्नम् । न हि ज्ञप्तिरेव ज्ञप्त्या विशेष्यते । ज्ञातृज्ञेयतदवच्छिन्नज्ञा-नातिरिक्तस्य कस्यचित् ज्ञानस्य शशविषाणायमानस्य लौकिकबुद्धयगोचरत्वात् न तद्विवक्षायाऽहंशब्दप्रयोगोपपत्तिः। अतःअहं ब्रह्मास्मीति सामानाधिकरण्यमयुक्तम् । अन्तःकरणद्वयैक्याभावात् अहमादिशब्दानां पूर्वोक्तन्यायेन तदुप-

हितज्ञप्तिवाचित्वाभावाच्च अहं मनुरभवमित्यादिसामानाधिकरणंञ्चानुपपन्नम् । प्राणाद्यचेतनजीवयोरैक्याभावात्, "प्राणोऽस्मि प्रज्ञात्मा", "अहमेवेदं सर्वम्", "मत्तः सर्वमहं सर्वम्" इत्यादि चायुक्तम् । "अहं हरिः सर्वमिदं जनार्दनः" इति जीवेश्वरवाचिनोः अचिदीश्वरवाचिनोश्च शब्दयोः सामानाधिकरण्यमयुक्तम्; जीवेश्वरयोः पृथिव्यादीनां च चिन्मात्रे कल्पितत्वात् । न हि रज्जुकल्पितसर्पभूदलनाम्बुधारावाचिनां शब्दानां मिथः सामानाधिकरण्यम् ।

अहं हतिः सर्वमित्यादिशब्दानाम् अध्यस्तवाचिनामधिष्ठानभूतब्रह्मपरत्वादेकार्थवृत्तित्वमिति चेन्न; आकृति-वाचिनां व्यक्तिपर्यन्ततयेव अध्यस्तवाचिनां शब्दानामधिष्ठानवाचित्वेन व्युत्पत्त्यभावात् । न #ि#ंह रजतशब्दस्य शुक्तित्वाश्रयद्रव्यवाचित्वेन व्युत्पत्तिः । तदभावश्च शुक्तिशकलादौ रजतादिशब्दप्रवृत्तिनिमित्तभूतरजतत्वादेरभावात् । ननु अयस्तवाचिनः शब्दाः अधिष्ठाने मुख्यवृत्ताः, इदं रजतमिति वृद्धव्यवहारमूलव्युत्पत्तिसद्भावादिति चेत्-उच्यते । यदर्थविवक्षया शब्दप्रयोगोऽनन्यथासिद्धः, तस्य तद्वाचित्वनिश्चयः । तत्रेदं वक्तव्यम्-अध्यस्तवाचिनः शब्दस्याधि-ष्ठानपर्यन्तत्वे किं भ्रान्तप्रयोगो मूलम्, उत प्रबुद्धप्रयोगः ? । न प्रथमः, रजतपुरोवर्त्तिनोरनध्यस्तत्वानधिष्ठानत्वबु-द्धयैव तत्र रजतशब्दप्रयोग इति तस्याध्यस्तवाचिनोऽधिष्ठानपर्यन्तत्वासाधकत्वम् । न ह्यदेवदत्तत्वाज्ञानात् देवदत्त-शब्दप्रयोगो देवदत्तशब्दस्य यज्ञदत्तवाचित्वे मूलं भवति । द्वितीये च रज्जुः सर्प इति प्रयोगः सर्पशब्दस्य प्रागनारोपित-बुद्धिमूलप्रयोगानुवादरूपत्वात् आरोपितविषयशक्तिकल्पेन मूलं न स्यात् । नन्वपृथक्सिद्धविशेषणवाचिशब्दानां विशेष्यपर्यन्तत्वमिष्टम् । अध्यस्तञ्च अधिष्ठानस्यापृथग्विशेषणम्, तस्मिन् सति अवभासात् तेन विना तदनवभासा-च्चेतिचेत्-न; अन्यत्र सतो विशेषणस्य पुरोवस्थित्तं प्रति अपृथक्सिद्धयभावात् । अख्यातिपक्षे चाध्यस्तत्वाधिष्ठा-नत्वयोरेवाभावात् । मृषावादिपक्षे च मृद्धिवर्तस्य घटादेः कनकं प्रतीव अविद्याख्यदोषविवर्तस्य रजतस्य पुरोवस्थितं प्रति अपृथग्विशेषणत्वायोगाच्चेति ।

अतो जीवेश्वरसामानाधिकरण्यमयुक्तम् ।

किञ्च तत्त्वमस्यादिवाक्येषु ब्रह्मवाचकपदसमभिव्याहृतं त्वमादिजीववाचिपदं किं मुख्यार्थप्रहाणेन समानाधि-करणम्, उत तत्प्रहाणेन ? । प्रथमे वस्तुनः सविशेषत्वम्, दोषार्हतदनर्हयोरैक्यानुपपत्तिश्च । द्वितीये जीवब्रह्मणो-रैक्यं न सिध्येत् । जीवभावस्य मिथ्यात्वेनाधिष्ठानमात्रपारमार्थ्यं च न सिध्येत् । प्रकृत्यंशविवक्षितार्थैकत्वपरायाः समानविभक्तेस्तदविवक्षितार्थैकत्वप्रतिपादनासामर्थ्यात्; तदविवक्षितविशेषणमिथ्यात्वप्रतिपादनासामर्थ्याच्च । न हि प्रहृष्टो जनपदः, अग्निर्माणवक इत्यत्र जनपदप्रहर्षवतोरग्निमाणवकयोश्चैकत्वं जनपदत्वाग्नित्वयोर्मिथ्यात्वेन तदधि-ष्ठानमात्रपारमार्थ्यं च सिध्यति । जनपदशब्देन वाच्यबहिर्भूतो लक्ष्यते, त्वंशब्देन तु वाच्यैकदेशो लक्ष्यत इति, तस्य तत्ताविद्यानेऽधिष्ठानैक्यं विरोधात् जीवभावमिथ्यात्वं च सिध्यतीति चेन्न-त्वमादिशब्दानां ज्ञातृपदसमानाधिकरणानां ज्ञप्तिवैयधिकरण्येन ज्ञप्तिवाचित्वासिद्धया वाच्यैकदेशलक्षणाया दुर्वचत्वात् । तत्सिद्धावपि नाधिष्ठानैक्यमितराकार-मिथ्यात्वञ्च सिध्येत् । न हि दूरस्थस्यपर्वतस्याग्रे ज्वलन्तमग्निं दृष्ट्वा पर्वतो ज्वलित इत्युक्ते पर्वताग्न्योरेकत्वं सान्वा-दिप्रदेशान्तरमिथ्यात्वेनाधिष्ठानमात्रपारमार्थ्यं च सिध्यति । अतो विवक्षितैकत्वजीवभावमिथ्यात्वासिद्धिः । अतः सर्वं सामानाधिकरण्यं मृषावादिनां विरुद्धम् ।

औपाधिकभेदाभेदपक्षेऽपि मुख्यया वृत्त्या सामानाधिकरण्यमनुपपन्नम् । तथा हि-ईश्वर एव हि ब्रह्म तन्मते । जीवेश्वरयोरचिदीश्वरयोश्च क्लेशकर्माद्यर्हत्वतदनर्हत्वपरिणामित्वापरिणामित्वलक्षणविरुद्धस्वभावयोगात् तद्वाचि-शब्दानां घटपटादिशब्दानामिव न सामानाधिकरण्यम् । भेदवत् अभेदवस्यापि विद्यमानत्वात् तदुपपत्तिरिति चेत्, न; सत्यपि केनाप्याकारेणैक्ये प्रवृत्तिनिमित्तभावाभावलक्षणे विशेष्यांशभेदे प्रतीयमाने समानविभक्तेरेकत्वप्रतिपादना-सामर्थ्यात् । यतः प्रथमपदप्रतिपन्नविशेष्यात् पदान्तर(प्रतिपन्न?)विशेष्यस्यांशतोऽपि भेदासहमभिन्नत्वमेव सामा-नाधिकरणयावबोध्यम्, तत् एव हि खण्डमुण्डयोर्व्यक्जि#ात्यात्मना, घटशरावयोः कार्यकारणरूपेण, गोपुच्छयो-रेकदेशैकदेशिभावेन भिन्नत्ववत् अभिन्नत्वेऽभ्युपगम्यमानेऽपि खण्डो मुण्डः, घटः शरावः, गौः पुच्छमिति सामा-नाधिकरण्याभावः ।

ननु चिदचितोर्ब्रह्मैकदेशत्वात् शुक्लः कृष्णो रक्ताश्चायं पट इतिवत् "व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च" इत्यादिसामानाधिकरण्यमुपपद्यते । नैवम्; एकदेशैकदेशिभावे सत्यपि अङ्गुलिः पुरुष इति सामानाधिकरण्यादर्श-नात् । ननु शुक्लादिशब्दतुल्यत्वं किं न स्यात् । उच्यते; पटस्यांशभेदे शुक्लादिशब्दानां पटशब्दश्रवणात्प्राक् मिथस्सा-मानाधिकरण्यभावे च सत्यपि शौक्लयादीनामपृथक्सिद्धविशेषणतया शुक्लादिशब्दैर्विशेष्यपर्यन्तैस्संहत्य चित्रशब्देने-वाभिहिताद्विशेष्यात् पटशब्दाभिहितविशेष्यस्यांशतोऽप्यनतिरेकात् सामानाधिकरण्यम् । हस्तादीनामेकदेशानां छेदनाद्यर्हाणामेकदेशिनं प्रति अपृथक्सिद्धविशेषणत्वं नास्ति; छेदनादावपीन्द्रियाणामविनाशित्वात् तत्तद्गोलकस्या-प्रच्युतस्वरूपत्वाच्च । एवञ्च सति छिन्नअस्तादिवत् मृतशरीरस्यापि अप्रत्युतस्वरूपोपलभ्भादात्मानं प्रति तस्य नापृ-थक्सिद्धिः स्यादिति चेत्-न; शरीराख्यसङ्घातशैथिल्यानन्तरमेव आत्मोक्रमणात् । पश्चाच्छरीरबुद्धेर्दग्धपटे पट-बुद्धिन्यायेन भ्रान्तिरूपत्वात् । अस्तादीनां तु छेदनदशायामशिथिलस्वांशानां पश्चाच्छैथिल्यमिति विशेषः । अतस्त-द्वाचिशब्दानां हस्तादिमात्रवाचित्वाद्धस्ताद्यवयवसङ्घातात्मकस्यैकदेशिनो हस्तादिमात्रातिरेकादनतिरेकलक्षणमेकत्वं प्रमाणविरुद्धतया समानविभक्तिर्न प्रतिपादयितुं शक्नोति ।

ननु हस्तत्वादयो धर्माः शौक्लयादिवदपृथक्सिद्धाः घटस्येव शरीरादेरेकदेशे वर्तन्ते । अतः शुक्लः कृष्णः पट इतिवत् हस्तः पादो मनुष्य इति युक्तं वक्तुम् । युक्त्यनभिज्ञत्वाल्लोको न प्रयुङ्क्त्#े । उच्यते । युक्तयनभिज्ञोऽभिज्ञोऽपि (विज्ञोऽपि) लोकः शुक्लादिशब्दान् विशेष्यपर्यन्तान् प्रयुङ्क्त्#े; न तु हस्तादिशब्दान् एकदेशिपर्यन्तान् । अतोऽभिज्ञान-भिज्ञप्रयोगानुगुणव्यवस्थापकं वक्तव्यम् । तद् ब्रूमः । केचिदपृथक्सिद्धधर्माः कस्यचिदेकदेश एव नियमेन वर्तन्ते; एकदेशे वाऽन्यत्र वा केचिदनियमेन वर्तन्ते । तत्र नितैकदेशवृत्तिधर्मवाचिनः शब्दाः तत्तदेकदेशभूतद्रव्यमात्रे वर्तन्ते; एकदेशत्वप्रतीत्युत्पादननियमात् । एकदेशतयैव हि हस्तादयः प्रतीयन्ते । एकदेशवृत्तिनियमरहितधमर्वाचिनः शब्दा एकदेशत्वप्रतीतिनियममपहाय विशेष्ये वर्तन्ते । अतः शुक्लादिशब्दैरेकदेशत्वं हित्वा तदाश्रयमात्रोपस्थापनात् तदुप-स्थापिताश्रयात् पटत्वाश्रयस्यानतिरेकात् पटशब्दस्य सामानाधिकरण्यं युक्तम् । एकदेशमात्रोपस्थापकैर्हस्तादिशब्दै-रेकदेशिनोऽनुपस्थापितत्वेन हस्तादिप्रातिपदिकप्रतिपन्नविशेष्यातिरेकात् सामानाधिकरण्यमयुक्तम् । यदि क्वचित् सामानाधिकरण्यं विद्यते, तत्र हस्तादिशब्दस्य तद्वति लक्षणया वा मनुष्यादिशब्दस्य तदेकदेशलक्षणया वा प्राधा-न्याद्यभिप्रायेणोपचारेण वा स्यात् । छिद्रमाकाश इत्यत्र त्वाकाशत्वस्य समुदायवृत्तित्वाभावेन छिद्रे पुष्कलतया नैकदेशलक्षणा । जीवत्वाचित्त्वादिधर्माश्च त्वन्मते ब्रह्मणो नितैयकदेशवृत्तय इति न तद्वाचिशब्दैरीश्वरवाचिशब्दानां मुख्यया वृत्त्या सामानाधिकरण्यम् ।

ननु शिरः पाणिरुदरं पादश्च शरीरमिति दृश्यते प्रयोगः । सत्यम्; प्रभूतकृत्स्नावयवोपादानेऽवयविनस्तदतिरेकात् सामानाधिकरण्यसंभवः । प्रत्येकं सामानाधिकरण्यं तु एकदेशलक्षणाप्रसङ्गादमुख्यमेव । एवं चिद्विशेषवाचिशब्दे-ष्वैकैकस्येश्वरवाचिपदसामानाधिकरण्यमयुक्तं स्यात् । एकदेशवाचिशब्दानामेकदेशिनि शक्तयभावात्, "व्यक्तं विष्णु-स्तथाऽव्यक्तम्", "ज्योतींषि विष्णुर्भुवनानि विष्णुः", भूतानि विष्णुःर्भुवनानि विष्णुः" इति हि प्रत्येकं सामानाधि-

करण्यम् । "अहं सर्वम्" इत्यचिज्जीववाचिपदयोरपि तद्वदेव सामानाधिकरण्यमयुक्तम् । सर्वत्रामुख्यया वृत्त्या ब्रह्मो-

पस्थापनेन सामानाधिकरण्ये स एव दोषः मुख्यसामानाधिकरण्ये संभवत्यमुख्यवृत्त्याश्रयणस्यान्याय्यत्वात् ।

स्वाभाविकभेदाभेदपक्ष्ऽपि भोक्तृभोग्यनियन्तॄणां त्रयाणामपि ब्रह्मांशत्वाभ्युपगमादचिज्जीवयोरचिदीश्वरयो-र्जीवेश्वरयोश्च सामानाधिकरण्यं घटः शराव इतिवदनुपपन्नमित्येतदवस्थितम् । अंशतोऽपि विशेष्यभेदासहस्यैवा-भेदस्य सामानाधिकरण्यबोध्यत्वात् तेषां ब्रह्मसामानाधिकरण्यमपि चिन्त्यम् । ब्रह्मवाचिपदानां सत्त्वद्रव्यत्ववादिः साधारणाकारः प्रवृत्तिनिमित्तं चेत्, तत्त्वमसीत्युक्ते, सदसि द्रव्यमसीत्युक्तं स्यात् । तदानीमुपदेशवैयर्थ्यम् । न हि कश्चित्-अहमसत्, अहमद्रव्यमिति मन्यते । सदन्तरैकत्वमुपदेष्टव्यमिति चेन्न; तस्य सामानाधिकरण्यबोध्यत्वा-भावात् । सामानाधिकरण्यं हि पूर्वनिर्दिष्टस्य विशेष्यस्य पदान्तरोपस्थापितविशेषणान्वयमवगमयति; न तु तद्वि-शेषणान्वितवस्त्वन्तरैक्यम् । न हि ब्राह्मणस्त्मसीत्युकते त्वंशब्दनिर्दिष्टस्य ब्राह्मणान्तरैक्यं प्रतिपादितं भवति । किंतु तस्य ब्राह्मणत्वविशेषणवैशिष्टयमेव । अतो विवक्षितैकत्वासिद्धेरुपदेशवैयर्थ्यमेव । यदि अंशविशेषासाधारणाकारः प्रवृत्तिनिमित्तम्, तदा ब्रह्मादिशब्दानां तदितरांशवाचिपदसामानाधिकरण्ये विरोधः स्यात् । तदा निरतिशयबृहत्त्वं प्रवृत्तिनिमित्तम्, तदा तत्त्वमसीत्युक्ते निरतिशयबृहदसीत्युक्तं स्यात् । ततश्चाणोर्जीवस्य निरतिशयबृहत्त्वविरोधः । त्वं निरतिशयबृहद्वस्तुनोंश इत्यर्थश्चेत्, एकदेशलक्षणा । न हि ब्रह्मशब्दस्य बृहदेकदेशो मुख्यार्थः । एवमसाधारणाका-रान्तरस्य प्रवृत्तिनिमित्तत्वेऽप्यनुपपत्तिर्द्रष्टव्या ।

अतः कुदृष्टित्रयप्रत्यनीकं सामानाधिकरण्यं भाष्यकारपक्ष एव मुख्यम् ।

व्याख्यानान्तरोक्तनिर्वाहात् भवदुक्तनिर्वाहस्य किं वैषम्यम् । किञ्च-आत्मभेदे सिद्धे हि शरीरशरीरिभावः । स एव नास्ति; कालविशेषे ऐक्यप्रतिपादनात्; "पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि", "सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि" इत्यादिभिश्चिदचितोरुत्पत्तिप्रलयप्रतिपादनात् कार्यकारणयोरेकद्रव्यत्वाच्च । न ह्येकमेव वस्तु शरीरं शरीरि च भवति तस्मात् स्वरूपपरिणामपक्षेणैव निर्वाहो वरमिति शङ्कापरिहारार्थम्, सकलश्रुतीनां मुख्यार्थत्वज्ञा-पनार्थम्, तेषु तेषु प्रदेशेषु विप्रकीर्णम् उक्तानामर्थानां सङ्कलय्य प्रदर्शनेन सुग्रहत्वापादनार्थञ्चाऽऽरभते अत्रेदं तत्त्व-मिति । भोग्यत्वेन भोक्तृत्वेन चेति चशब्द ईशितव्यत्वेन तयोरेककोटिनिवेशात् । "अस्मान्मायी" इत्यत्र माया-शब्दार्थं निष्क्रष्टुमुपादत्ते मायां तु प्रकृतिमिति । अन्यशब्दवाच्य आत्मेति स्पष्टयितुमाह - क्षरं प्रधानमिति । अर्था-न्तरभ्रमहेतुत्वात् हरशब्दं व्याचष्टे प्रधानमिति । अत्र "व्यक्ताव्यक्तं भरते विश्वमीशः" इति पूर्ववाक्ये श्रवणात् धार्य-त्वधारकत्वलक्षणभेदोऽपि सिद्धः । ईश्वरेशितव्यतारूपभेदं दर्शयति स कारणमिति । करणाधिपाधिपशब्दव्याख्या-नार्थमाह - प्रधानेति । गुणेशः-गुणानां सत्त्वरजतस्तमसां नियन्ता । अनन्येश्वरत्वं दर्शयति - पतिमिति । अनेन शेषशेषित्वलक्षणभेदोऽपि सिद्धः । न च-"पा रक्षणे" इति धातोर्व्युत्पन्नत्वात् पतिशब्दो रक्षकवाची, न शेषित्ववा-चीति-वाच्यम्; शेषिणि रूढत्वात् । अन्यथा "गमेर्डोः" इति डोप्रत्ययान्तगमिधातोर्निष्पन्नत्वात् गोशब्दस्य मनु-ष्यादिवाचकत्वप्रसङ्गः । गतिमत्सु सर्वेषु प्रयोगाभावात्, तिष्ठत्यपि गवि प्रयोगात् तत्र रूढिशक्तयाश्रय इति चेत्-एवम्, "वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्" इति न्यायेन पितृसंरक्षके पुत्रे पित्राद्यपेक्षया पतिशब्दप्रयोगाभावात् गृहाद्यरक्षकेऽपि स्वामिनि पतिशब्दप्रयोगाच्च शेषिणि पतिशब्दो रूढः । तथा, "दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः" तथा, "नन्तव्यः परमः शेषी शेषा नन्तार ईरिताः । नन्तृनन्त-व्यभावोऽयं न प्रयोजनपूर्वकः" इति दासशेषशेषिशब्दप्रयोगो भगवच्छास्त्रेषु दृश्यते । पत्यादिशब्दाभावेऽपि, "व्रीहीन् प्रोक्षति" इत्यादौ द्वितीयाश्रुत्या प्रोक्षणादेव्रीह्यादिशेषत्ववत्, "यस्यात्मा शरीरम्" इत्यादिना जगतः परमात्मशरीर-त्वावगमात् शरीरपाराथ्यर्स्य च "सङ्घातपरार्थत्वात्" इत्यादिभिः प्रसिद्धत्वाच्च जगद्ब्रह्मणोः शेषशेषिभावः सिद्धः ।

अतो यथोक्त एवार्थः । मुखान्तरेणापि भेदसिदिं्ध दर्शयति - ज्ञाज्ञाविति । उत्पत्तिप्रलयाभावप्रतिपादनं दर्शयति- नित्यो नित्यानामिति । आकारान्तरेणापि भेदमाह - भोक्तेति । भगवतोऽस्पृष्टदोषत्वं दर्शयति - तयोरिति । भेदज्ञानस्य मोक्षहेतुत्वमाह - पृथगिति । मुक्तौ भेदमाह - अजामिति । जीवेश्वरयोः स्वतो भेदं सविशेषत्वं च स्पष्टयितुमाह - समान इति । पृथक्तवज्ञानस्य मोक्षोपायत्वपरस्य वाक्यद्वयस्य मध्ये अजामेकामित्यादिवाक्यमु-पात्तम्, "समाने वृक्षे", "अजामेकाम्" इति प्रधानप्रसङ्गोपेतत्वसाम्यात् । जुष्टम्-प्रीयमाणम् । स्मृतावपीति । अष्टधा भिन्ना प्रकृतिर्ममेत्यनेन कारणावस्थायामपि भेदसिद्धः । मामिकां प्रकृतिं कल्पक्षये यान्तीत्यत्रापि तथा । प्रकृतिं स्वामवष्टभ्य विसृजामीत्यत्रापि तत्सिद्धिः । मयाऽध्यक्षेणेत्य #ितु स्वभावासङ्करः कारणावस्थायां भेदश्च सिध्यतः । प्रकृतिमित्यत्रानादित्वकणठोक्तिः । ममेत्यत्रापि कारणावस्थायां भेदसिद्धिः । उदाहृतस्मृतिवचनेषु व्याख्येयांशं व्याचष्टे - जगद्योनीति । जगद्योनिशब्देन "त्रिगुणं तज्जगद्योनिः" इति वचनं स्मार्यते । कार्यावस्थव्यावृत्त्यर्थं भूत-सूक्ष्ममित्युक्तम् । एवं चिददि#ीश्वरभेदे सति कथमेकत्वावधारणमुपपद्यत इति शङ्कायां घटकश्रुतीरवतारयति - एव-मिति । "य पृथिवीमन्तरे सञ्चरन्" इति सुबालोपनिषदि श्रूयते । मरणमादिव्यावृत्त्यर्थं मृत्युशब्दं व्याचष्टे - अत्रेति । लीयत इति वचनात् । क्रमप्रत्यभिज्ञानादित्यर्थः । "यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरम्" इति क्रमो हि "अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते"इति क्रमेण सङ्गच्छते । तमस एकीभावमात्रं श्रुतम्, नलयः; तमस्त्व-प्रहाणाभावात् । कार्यानुपयुक्ततमश्शरीरके देवे कार्योपयुक्तस्य तस्यैकीभावः । मृत्युसंज्ञस्य तमसः शरीरत्वश्रवणात् विशेषणमूततमसा तमस एकीभावो युक्तः । सर्वात्मत्वविवरणायाह - अन्तः प्रविष्ट इति । अनेनापि शरीरात्मभावः फलितः । अन्तः प्रविश्य नियाम्यत्वं हि शरीरत्वम् । अन्तःप्रवेशशास्तिभ्यां नृपगगनव्यावृत्तिरिति । एतदपि शरी-रलक्षणं भाष्यकाराभिप्रेतम् । भेदश्रुतिघटकश्रुत्यविरोधेनैक्यवाक्यानामर्थमाह - एवमिति । घटकतयोपात्तं सन्मूला इति । अत्रापीति । छान्दोग्यप्रकरणे तैत्तिरीयप्रकरणे चेत्यर्थः । हन्ताहमित्यादि छादोग्ये । तत्सृष्ट्वेत्यादि तैत्तिरीये । जीवेनात्मनेत्यस्य व्याख्यानार्थमाह - अनेनेति । अनुप्रवेशश्रवणाभावेऽपि सामान्येनोक्तं नामरूपव्याकरणमनुप्रवे-शपूर्वकनामरूपव्याकरणे पर्यवस्यति सामान्यविशेषान्यायादित्याह - एवम्भूतमेवेति । यद्वा सर्वशाखाप्रत्ययन्यायेन क्वचिदनुक्तस्यान्यतो ग्राह्यत्वात् क्वचित् ज्ञातोऽनुप्रवेशः कार्योपयोगितया अपेक्षितत्वादन्यत्रापि स्वीकार्य इत्याह - एवमिति । एवम्भूतशब्दोऽनुप्रवेशपूर्वकत्वपरः । अनेन नामरूपव्याकरणश्रुत्युपादानेन जीवानामुत्पत्तिप्रलयौ नाम-रूपव्याकरणतदभावौ; न तु स्वरूपनिष्पत्तिविनाशावित्युक्तं भवति । अनेन पूर्वोक्तशङ्का च परिहृता; कालविशे-षोक्तमैक्यं नामरूपव्याकरणाभावमात्रम्; न तु स्वरूपैक्यमित्यवगमात् ।

अथ सर्वश्रुतीनामस्मिन्नर्थे मुख्यत्वं दर्शयन् प्रथममेकविज्ञानेन सर्वविज्ञानं परमतेऽनुपपन्नमिति प्रागुक्तं स्वमत उपपन्नमित्याह - अत इति । कार्यकारणोरैक्यप्रतिपादनात् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् सामानाधिकरण्या-च्चेति त्रिधा ह्यद्वैतप्रतीतिः । अत्र पूर्वोक्तद्यमस्मदुक्तप्रकारेणोपपन्नमिति अत इत्यादिभाष्येणोक्तं भवति । विशिष्टं कारणम्, तदेव कार्यमिति कारणात् कार्यस्यानन्यत्वम् । अतः कार्यकारणयोरैक्यपराणां श्रुतीनां तयोरेकद्रव्यत्वमेव प्रतिपाद्यम्; न तु विशिष्टत्वनिषेधः, तस्य विहितत्वात् । एवविज्ञानेन सर्वविज्ञानमपि एवमेव । यथा मत्पिण्डेन तत्कार्यज्ञानेऽपि पिण्डगतरूपादिनिषेधो न कृतः स्यात्, तद्वत् । उपपन्नतरमिति तरप्प्रत्ययेन मुख्यत्वं सर्वत्रापि विवक्षितम् । एवं सामानाधिकरण्यस्य मुख्यत्वमाह - अहमिमा इति । उपादानत्वस्वभावासङ्करौ कथमुपपद्#ेते इत्य-त्राह - अतः स्थूलेति । भाव्यवस्थाविशेषवतः प्रागवस्थायागो ह्युपादानत्वम् । अतोऽवस्थाविशेषौ स्थूलसूक्ष्मशब्दा-भ्यां दर्शितौ । अनेन कालविशेषावच्छिन्नैकत्वावधारणं नामरूपविभागाभावाभिप्रायमिति फलितम् । उपादात्वेऽपि

स्वभावासङ्करमाह - सूक्ष्मेति । दृष्टान्तेनेममर्थमुपपादयति यथेति । ननु शुक्लकृष्णादितन्तवः कारणवस्थायामपि भिन्नाः । न च तेष्वन्यतमं प्रति अन्यतमस्य कारणत्वम् । अतस्तत्र स्वभावासङ्करः । अत्र तु विश्वस्य सङ्घातोपा-दानत्वेऽपि कारणवस्थायां परमात्मैक एव स्वशब्देन श्रूयते; न तु चेतनाचेतनौ । किञ्च परमात्मनः प्रागेकत्वं तस्मा-दितरयोर्द्वयोरुत्पत्त्यादिकं च श्रूयते । अतो न स्भावसङ्कर इत्यत्राह - तन्तूनामिति । न हि तन्तुष्वन्योन्यगुणप्रधान-भावोऽस्तीति न तत्रान्यतमवाचिशब्देन समुदाय उच्यते । अत्र तु सर्वप्रकारस्य भगवतः सवर्शब्दवाच्यत्वमुपपन्नमि-त्यन्यतमवाचिशब्देनापि विशिष्टमेवोच्यत इति विशिष्टस्यैव कारणत्वात् प्रागपि भेदोऽस्तीति स्वभावासङ्कर उपपन्न इत्यर्थः । केनाकारेण साधर्म्यमित्यत्राह - स्वभावेति । रुमागतेतरपदार्थानां लवणत्वापत्तिवत् ब्रह्मणोऽन्यथाभाव-माशङ्कयाह - एवञ्चेति । तर्ह्युपादानत्वमेवानुपपन्नमित्यत्राह - स्थूलावस्थस्येति । आत्मतयाऽवस्थानात् कथं कार्य-त्वमित्यत्राह - अवस्थेति । अविकारत्वश्रुतीनां प्रकृतिगतस्वरूपान्यथाभावरूपविकारो ब्रह्मणि नास्तीत्यर्थः । कार्यावस्थचिदचिन्नियमनरूपावस्थान्तरापत्तिर्ब्रह्मणः कार्यत्वमिति कार्यत्ववादिनीनां श्रुतीनामित्यर्थः । न हि कार-णावस्थनियमनं कार्यावस्थनियमनं भवति । तत्तदवस्थचिदचिन्नियनरूपविशेषा एव ब्रह्मणोऽद्वारकावस्थाः । स्वरू-पान्यथाभावज्ञानसङ्कोचादिरूपविकारास्तु सद्वारकावस्था इत्यर्थः । यथा ग्राहकग्रहणेन संनिधिसमाम्नातेषु वस्तुषु परमापूर्वशेषतयाऽवगतेषु यागव्रीह्यादेरद्वारकशेषत्वं प्रोक्षणादेः सद्वारकशेषत्वं च मुख्यमेवावगम्यते, तथा बहु स्यामिति प्राहकप्रहणेन सर्वावस्थासु परमात्मीयतयाऽवगतासु स्वरूपान्यथाभावज्ञानसङ्कोचादिरूपसद्वारकावस्थायाः तत्तन्नियमनरूपाद्वारकावस्थायाश्च परमात्मीयत्वं मुख्यमेवेति भावः । निर्गुणेति अपहतपाप्मेत्यादि चात्र किञ्चिद्वि-वृतम् । श्रुतिरेवेति । मतान्तरोक्तनिर्वाहेषु श्रुतहानिरश्रुतकल्पनं चास्ति; अत्र तु निर्वाहः श्रौत एव, श्रुतानुगुणश्चेति वैषम्यमिति भावः ।

अथ आर्थगुणनिषेधप्ररत्वेन पराभिमतानां श्रुतीनामर्थमाह - ज्ञानस्वरूपमिति । सर्वज्ञस्येत्यादिपदानि मङ्गल-गुणविशेषविधायिवाक्यस्मरणार्थानि । "तद्गुणसारत्वात्" इत्यादिसूत्रसिद्धमेवात्र निर्वाहद्वयमुक्तम् । ईश्वरस्य ज्ञातृ-तत्वात् ज्ञानैकनिरूपणीयत्वमुक्तम् । ज्ञातुर्हि ज्ञानं निरूपकम् । तरपो मुख्यत्वमर्थः । ज्ञानस्वरूपत्वज्ञानगुणकत्व-पराः श्रुतीर्दर्शयति - यः सर्वज्ञ इति । ज्ञानस्वरूपताम्-उभयथापि ज्ञानव्यपदेशयोग्यताम् । ज्ञानगुणकत्वस्य ज्ञान-स्वरूपत्वस्य च विहितत्वादुभयमप्युपपन्नमित्यर्थः । ज्ञानस्य ज्ञानाश्रयत्वानुपपत्तिचोद्यपरिहारः पूर्वमेव कृतः ।

भेदनिषेधश्रुतीनामर्थमाह - सोऽकामयतेति । विचित्रस्थिरत्रसरूपतया-विचित्रवस्तुनानात्वमित्यर्थः । यद्वा स्थिरत्रसरूपतया-स्थिरत्रसात्मकत्वात् । अब्रह्मात्मकेति । अब्रह्मभूतमित्यर्थः । तथा सति कार्यकारणभेदनिषेधः कृतः स्यात् । ऐक्यश्रुतीनां प्रकार्यैक्यपरत्वादैक्यश्रुतिविशेषभूतभेदनिषेधोऽपि तदनुरोधेन प्रकारिभेदनिषेध एव भवि-तुमर्हतीत्यर्थः । निषेधसामान्यं हि विशेषविधाने दृष्टे तद्य्वतिरिक्तविषयं दृष्टम्, "न हिंस्यात्" इत्यादिषु । विशेषविधानं सामान्यनिषेधो बाधते चेत्-वैधहिंसाया अधर्मत्वप्रसङ्ग इत्यभिप्रायेणाह - न पुनरिति । उक्तमर्थमुपक्रमेणैवोपपादयति यत्र त्वस्येति । योऽन्यत्रात्मन इति । अन्यत्रेत्यव्ययं विनाशशब्दपर्यायम् । ब्रह्मणः पृथग्भूतं तदविनाभावरहितं नास्तीत्यर्थः । भेदविशेषनिषेधदर्शनात् सामान्येन भेदनिषेधोऽपि तत्रैव पर्यवस्यति, "छागो वा मन्त्रवर्णात्" इति न्यायादिति भावः ।

इतरव्याख्यातृभिः भवद्भिरपि निर्वाहप्रकाराः कृताः; तत्र को विशेष इत्यत्राह - एवमिति । अस्मदुक्तनिर्वाहः श्रुतिभिरेवोक्तः, श्रुत्यनुगुणश्च; तत्कृतनिर्वाहः श्रुतिविरुद्धः, अश्रुतः, तर्काभासमूलश्चेत्यर्थः । अपन्यायमूलस्य सक-लश्रुतिविरुद्धस्येति सर्वत्रान्वेति । अन्यस्येति स्वाभाविकभेदाभेदं स्वनिष्ठभेदं चाह । इममर्थं वैदिकदृष्टान्तेनोपपा-

दयति- चिदचिदीश्वराणामिति । आग्नेयः अग्नीषोमीयोपांशुयाजौ ऐन्द्रौ द्वौ ऐन्द्राग्नश्चेति - षड्यागाः । उत्पत्ति-वाक्यैः-"यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति" इत्येवमादिभिः । उत्पत्तिवाक्यमिति प्रथमप्रतिपत्तिजनकं वाक्यम् (उच्यते? ।) पृथगुत्पन्नान् -पृथक् प्रतिपादतान् । समुदायानुवादिवाक्यद्वयेन-"य एवं विद्वान् पौर्णमासीं यजते", "य एवं विद्वानमावास्यां यजते" इत्येताभ्याम् । दर्शपूर्णमासाभ्यामिति । स्वर्गसाधन-त्वाकारेणैकीकृत्य तत्कर्तव्यतया विदधातीत्यर्थः । तथा अत्रार्थप्रतिपादनं दर्शयति - तथेति । शरीरिभूतेति । कार-णावस्थः कार्यावस्थश्च परमात्मैक एवेति वचनभङ्गया पृथक्प्रतिपन्नं वस्तुत्रितयं प्रतिपादयतीत्यर्थः । आग्नेयादिस-मुदाये अन्यतमवाचिशब्दैः समुदायाभिधानं न दृष्टम्; अत्र तु परमात्मवाचिशब्देन समुदायाभिधानं कथमित्यत्राऽऽह चिदचिद्वस्त्विति । दृष्टान्तमाह - यथेति । तत्र अन्योन्यं प्रकारप्रकारिभावाभावादन्यतमवाचिशब्देन न समुदाया-भिधानम्; अत्र तु तथाभावादुपपन्नम् । कथम् । उच्यते; अर्थसामर्थ्यात् शब्दसामर्थ्याच्च । चिदचितोरपृथक्सिद्धप्र-कारत्वात् निष्कृष्टब्रह्मणः कारणत्वानुपपत्त्या च प्रकारिवाचिशब्देन विशिष्टोपस्थापनसिद्धिः । सद्ब्रह्मशब्दौ विशि-ष्टस्य सत्त्वबृहत्त्वयोगाद्विशिष्टोपस्थापनसमर्थौ । आत्मशब्दश्च व्याप्तिरूपप्रवृत्तिनिमित्तस्य व्याप्यसापेक्षत्वाद्विशिष्टो-पस्थापक इति । यद्वा "अक्षरात् संभवती#ै विश्वम्", "यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम-रूपमन्नं च जायते", "आत्मन आकाशः संभूतः" इत्यादिषु परमात्ममात्रवाचिभिः शब्दैः कारणमुच्यते । तेषां विशे-षणभूतचिदचिदभिधाने शक्तिर्नास्ति । लक्षणायां स एव दोषः । अतः सर्वत्र स्वरूपरिणाम एव स्वरसप्राप्त इत्यत्राह चिदचिदिति । श्रुत्यन्तरबलेन स्वरूपविकारासंभवात् कार्योपयुक्तमनुक्तमपि विशेषणं पृषदाज्यनयादथर्स्वभावेन संनिधापितमनुसन्धेयमिति भावः । तदेव लोकप्रयोगेणापि द्रढयति - यथेति । अयमात्मा सुखीत्यात्मविशेषस्य सुखित्वविधाने शरीरहितस्यात्मनो वैषयिकसुखासंभवात् तादृशसुखोपयुक्तमनुष्यादिपिण्डविशिष्टत्वमर्थतः सिध्यति; तद्वदिति भावः ।

निवृत्त्यनुपपतिं्त वक्तुमनुवदति - यत् पुनरिति । दूषयति - तदयुक्तमित्यादिना । प्रपञ्चस्य ज्ञानबाध्यत्वं ज्ञानस्य चैक्यविषयत्वमुभयमपि पराभिमतम् । तत्र प्रथमं ज्ञानबाध्यत्वानुपपत्तिमाह - बन्धस्येति । सर्वप्रमाणानुगुणं पारमा-र्थ्यमुपपादयति - पुण्यापुण्येति । प्रतीतिमात्रसिद्धस्य हेतुहेतुमद्भावनियमोऽनुपपन्नः; परमार्थस्यैवार्थक्रियाकारित्वा-दुत्पत्तिमत्त्वाच्च । असत्यस्य हेतुत्वासंभवमुत्पत्त्यसंभवं च प्रागुपपदितमुपजीव्योक्तम् । न हि प्रतीतिमात्रसिद्धमन्यत्र विद्यमानं वस्त्वि#ै किमप्युत्पादयति; नापि स्वमिदानीमुत्पाद्यते । किञ्च अपरमार्थत्य भ्रान्तिज्ञानसामग्रीव्यतिरिक्तहेतु-सापेक्षत्वं च न दृष्टम् । न चाङ्कुरादिसामग्य्रेन भ्रमसामग्री; गिरिशिखरगतमृत्सलिलबीजसंबन्धेन अपवरकगतस्या-ङ्कुरभ्रमप्रसङ्गात् । न च पदाथ्रानामर्थक्रियाकारित्वमुत्पत्तिमत्त्वं च मिथ्येति वाच्यम्, ज्ञानबाध्यत्वाभावात् । किञ्च मिथ्यात्वे पापकरणेऽपि न प्रायश्चित्तापेक्षा, मिथ्येति बुद्धिरेवालमिति भावः ।

भवताऽपि ज्ञाननिवर्त्यत्वमविद्याया वक्तव्यम्, तच्च सत्यत्वे कथमुपपद्यत इत्यत्राह - एवंरूपेति । परमार्थस्य ज्ञाननिवर्त्यत्वं दृष्टद्वारा नोपपद्यते; अपि त्वदृष्टद्वारा; यथा सत्यसर्पदष्टविषस्योपासनप्रीतगरुडप्रसादान्निवृत्तिः; न तु मिथ्येति ज्ञानात्-तथेत्यर्थः । प्रपञ्चस्य ज्ञानानिवर्त्यत्वमुक्तम् । ऐक्यज्ञानस्योपायत्वानुपपत्तिमाह-भवदभिमतस्येति । तत्त्वज्ञानं हि मोक्षोपायः । भिन्नविषयस्याभेदज्ञानस्यातत्त्वज्ञानरूपत्वाद्विपरीतफलत्वमित्यर्थः । अद्वैतस्यातथ्यत्वे प्रमाणमाह - मिथ्यैतदिति । ए#ैक्यस्यातात्त्विकत्वकण्ठोक्तिर्दर्शिता । ऐक्यस्यासत्यत्वं यथा फलति, तथा भेदज्ञा-नस्यैव मोक्षहेतुत्वमाह - उत्तम इति । स्मृतिवचसोः सङ्गत्यर्थं श्रुतेः पश्चादुपादानम् ।

ऐक्याज्ञानस्य निवर्तकत्वे प्रमाणविरोध उक्तः । अथ तर्कविरोधमाह - अपिचेति । दावानल-विषनाशकविष-

दृष्टान्ताभिप्रायेण शङ्कते -निवर्तकज्ञानमिति । निवर्तकज्ञानं तद्विनाशश्च किं ब्रह्मव्यतिरिक्तम्, उत स्वरूपमिति विकल्पमभिप्रेत्याह - नेति । ब्रह्मव्यतिरिक्तत्वाद्घटादेरिव विनाशस्य काल्पनिकत्वम्, यथा स्वप्नपदार्थस्वरूपत-दुत्पत्तिस्थितीनां काल्पनिकत्वान्नाशश्च काल्पनिकः, तथेति भावः । विनाशतत्कल्पनाकल्पकरूपाविद्याया इति । विनाशः कल्प्यः, तद्विषयभ्रमबुद्धिः कल्पना, कल्पको भ्रमाश्रयादिः; एवंरूपाविद्याया इत्यर्थः । स्वरूपपक्षं दूषयति तथा सतीति ।

पूर्वस्मिन् पक्षे दूषणं प्रकारान्तरेणाप्युक्तं वेदार्थसङ्ग्रहे, "भावरूपस्य नाशो ह्युत्तरावस्थाप्राप्तिः । सा चात्रानुप-पन्ना; ब्रह्मव्यतिरिक्तस्यावस्थावतोऽन्यस्य स्थित्यभ्युपगमे अद्वैतहानिप्रसङ्गात्" इति । भावान्तरं ह्यभावः । घटस्य प्रागभावः पिण्डत्वादिपूर्वावस्था, प्रध्वंसः कपालत्वाद्युत्तरावस्था, इतरेतराभावोऽपि-अश्वस्य गोत्वाभावोऽश्वत्वम्, गोरप्यश्वत्वाभावो गोत्वम् । संसर्गाभावे कथं भावरूपत्वम् । यदि महीमात्रमेव, तर्हि घटसंसर्गे सत्यपि संसर्गभावः स्यात् । यद्यतिरिक्तः, तर्ह्यभावोऽङ्गीकृत इति । उच्यते । भवत्पक्षे अभावाश्रयस्य यत् वैलक्षण्यम्, तदेव संसर्गाभावः । यदि महीमात्रमेव अभावाश्रयः, तर्हि भावाश्रयभेतलेऽप्यभावाश्रयत्वप्रसङ्गः; तत्रापि महीमात्रसद्भावात् । यदि केन-चिद्विशेषेण विशिष्टं भूतलमभावाश्रयः, स एव विशेषः संसर्गाभाव इति । कालविशेषविशिष्टत्वे सति देशविशेषत्वमेव स च विशेषः । तदानीमेव घटसहितप्रदेशान्तरव्यावृत्त्यर्थं देशविशेषत्वमित्युक्तम्; तस्यैव देशस्य कालान्तरे घटहि-तस्य व्यावृत्त्यर्थं कालविशेषविशिष्टत्वे सतीत्युक्तम् । यथाऽऽहुः-

"संसर्गाभावमेवं विदुरिह सुधियो भावमेव त्वभावं मन्वानाः, कुम्भवद्भूतलत इतरभूभागभेदस्त्वभावः । यस्त-त्तत्कालभेदव्यतिकरितगृहप्राङ्गणादिप्रदेशः कुम्भाभावाश्रयोऽन्यैरगणि स इह नः क्वाधिकस्योपलम्भः ।" इति । नाशस्यावस्थान्तरत्वात् कर्मनाशं वदतस्तवापि चोद्यं तुल्यमिति चेत्-न । कर्म ह्यस्मत्पक्षे भगवत्प्रीत्यप्रीतिरूपम् । तत्र यः संसारफलानुगुणः सङ्कल्पः, तत् विनाश्यं कर्म; यस्तु मोक्षानुगुणः सङ्कल्पः, स एव पूर्वस्य नाश इत्युपपन्न-मेव, "धातुः प्रसादान्महिमानमीशम्" इत्यादिभिः ।

अथ निवर्तकज्ञानस्य ज्ञात्रनुपपत्तिमाह - अपिचेति । न हि स्वरूपभूतज्ञानस्य ज्ञात्रन्तरापेक्षा । अतस्तद्य्वा-वृत्त्यर्थं कृत्स्ननिषेधविषयज्ञानस्येत्युक्तम् । प्रमाणजन्यज्ञानं हि साश्रयमेवदृष्टम् । ज्ञाता किं ब्रह्मव्यतिरिक्तः, उत नातिरिक्तः इति विकल्पाभिप्रायेणाह - चिन्मात्रेति । प्रथमं धर्मिप्रश्नः(?) कोऽयमिति । ब्रह्मव्यतिरिक्तपक्षे दूषणमाह - नेति । कर्मकर्तृत्वविरोधादिति भावः । निवर्त्यत्वे सति हि कर्मकर्तृविरोधः । अतस्तत्परिहारार्थं स्व-रूपपक्षं शङ्कते ब्रह्मेति । ज्ञातृत्वधर्मविकल्पोऽयम् । किं स्वरूपमिति । स्वरूपम्-स्वाभाविकमित्यर्थः । पाश्चा-त्त्यत्वेन बुद्धिस्थतया अध्यस्तपक्षं दूषयति - अध्यस्तं चेदिति । निवर्तकज्ञानाविषयतया तिष्ठत्येवेति । ज्ञातृत्वा-ध्यासस्य तन्मूलाविद्यान्तरस्य च निवृत्तौ निवर्तकान्तरसापेक्षत्वात्, निवर्तकान्तरस्य च भवद्भिरनभ्युपगमात् तदुभयं तिष्ठत्येवेति निश्शेषाविद्यानिवृत्तिर्न स्यादित्यर्थः । निवर्तकज्ञानान्तराभ्युपगमे तस्यापि कस्यचित् कञ्चित् प्रति सिद्धिरूपतया ज्ञात्रपेक्षयाऽनवस्था स्यादित्याह - निवर्तकेति । आद्यं शिरो दूषयति - ब्रह्मस्वरूपस्येति । निरुपा-धिकस्यैव ब्रह्मस्वरूपस्याभ्युपगम्यमानं ज्ञातृत्वं स्वाभाविकमिति भवतामपि सिद्धान्तः स्यादित्यर्थः । ब्रह्मव्यतिरि-क्तस्य ज्ञातुर्निवर्तकज्ञानस्य च ब्रह्मव्यतिरिक्तत्वरूपोपाधिकोडीकारबलेन प्रपञ्चतन्मूलाविद्यानिवर्तकज्ञानेनैव निवृ-त्तिर्भविष्यतीत्याशङ्कय व्याघातेन दूषयति - निवर्तकज्ञानस्वरूपमिति । ज्ञातुरपि निवर्तकज्ञाननिवर्त्यत्वे निवर्तक-ज्ञेनार्थं श्रवणादौ प्रवृत्तिश्च न स्यादित्याह - अध्यस्तो ज्ञातेति । ज्ञातृनाशस्य परमपुरुषार्थरूपब्रह्मस्वरूपत्वात् नापु-रुषार्थतेत्याशङ्कयाह - तन्नाशस्येति । पूर्वपक्षनिराकरणमुपसंहरति - इतीति ।

एवं ब्रह्मव्यतिरिक्तकृत्स्नमिथ्यात्वनिराकरणेन बन्धस्य सत्यत्वसिद्धेस्तन्निवृत्तिः कर्मसापेक्षोपासनात्मकज्ञानेदेवेति कर्मविचारपूर्ववृत्तत्वं युक्तमित्याह - तस्मादिति । तस्मात्-साधनचतुष्टयस्य ब्रह्मविचारं प्रति पूर्ववृत्तत्वे वस्तुसामर्थ्यं नाम हेतुरुक्तः; तच्च निर्विशेषब्रह्माध्यस्तप्रपञ्चस्य कर्मनिरपेक्षज्ञाननिवर्त्यत्वम्; तच्चानुपपन्नमित्युपपादनेन वस्तुसाम-र्थ्यासिद्धेरित्यर्थः । स्वरूपानादित्वव्यावृत्त्यर्थं प्रवाहशब्दः । अनिर्वचनीयव्यावृत्त्यर्थः कर्मशब्दः । उक्तलक्षणज्ञाना-देव-उपासनात्मकादेव । तदुत्पत्तिर्वर्णाश्रमोचितकमर्लभ्याऽस्तु; ततः किमुपासनादिस्वरूपज्ञानं प्रति प्रस्तुतकर्मवि-चारपूर्ववृत्तत्वस्येत्यत्राह - तत्रेति । कर्मविचारादेव तस्याल्पास्थिरफलत्वज्ञानं फलितमिति भावः । अनभिसंहित-फलेति । "यज्ञेन दानेन" इत्यादिकर्मविनियोजकवाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वात् पदार्थभूतकर्मस्वरूपाख्यवि-शेष्यज्ञानात् ऋते उपासनद्वारा अनन्तस्थिरफलत्वरूपं पदार्थज्ञानपूर्वकत्वात् पदार्थभूतकर्मस्वरूपाख्यविशेष्यज्ञानात् ऋते उपासनद्वारा अनन्तस्थिरफलत्वरूपं विशेषणं च न ज्ञायत इति भावः । ततः किमित्यत्राह - केवलेति । केव-लाकारः-आत्मयाथात्म्यबुद्धिसंस्कारशून्याकारः । हानार्थमुपादानार्थं च हि कस्यचिज्ज्ञानम् । तत्र फलद्वारा कर्म त्याज्यम्; स्वरूपेणोपादेयम्; उभयार्थं ज्ञानं कर्मविचारात् ऋते न सिध्यति । तस्मात् कर्मविचारनिवृत्तौ तज्ज्ञानफलं हानमुपादानं च न भवतीत्यर्थः । अथातश्शब्दार्थं निगमयति इति कर्मविचारानन्तरमिति । ब्रह्मविचारः कर्तव्य इत्यनेन ब्रह्मजिज्ञासाशब्दार्थः उक्तः । विचारस्य कर्तव्यतायां नातीव विवादः, शाब्दः आर्थः इत्येतावदेव हि वैष- म्यम् । अथातश्शब्दार्थ एव ह्यतीव विवादः । अतः अथात इत्येतावदुपात्तम् ।।

ख्ढख्ढख

(जिज्ञासाधिकरणरचनारम्भः)

एवं सूत्रस्याक्षरयोजना कृता । अथ तात्पर्यार्थ उच्यते-तत्रेत्यादिना । अक्षरयोजनायां परेणान्यथोक्तोऽक्षरार्थश्च निरस्तः । तन्निरसनसमय एव परेणान्यथोक्तस्तापर्यार्थोऽपि निरस्तः । परेण हि प्रपञ्चस्य सत्यत्वेन ज्ञाननिवर्त्यत्वा-भावात् ज्ञानाय ब्रह्मविचारो नारम्भणीय इति पूर्वपक्षं कृत्वा, प्रपञ्चस्य मिथ्यात्वेन ज्ञाननिवर्त्यत्वात् ज्ञानाय स आर-म्भणीय इति सिद्धान्तितम् । तच्च पूर्वं निरस्तम् । अथ सूत्रकाराभिप्रेतां निरसनीयशंकामुपन्यस्य तदभिप्रेदं तत्परिहारं च वक्तुमारभते - तत्रेत्यादिना । कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचारः कर्तव्य इत्युक्त्वा प्राभाकरैः, अध्यय-नस्याचार्यकाधिकारकत्वात् न धर्मविचारः कर्त्तव्यः इति पूवर्पक्षं कृत्वा, अर्थबोधाधिकारत्वात् कर्तव्य इति सिद्धान्ति-तम् । भाट्टैस्तु अध्ययनस्य स्वर्गार्थत्वान्न धर्मविचार इति पूर्वपक्षं कृत्वा अर्थज्ञानार्थत्वात् स कर्तव्यः इति सिद्धान्तितम् तच्च व्याहतं भवत्पक्षे । तत्र हि सूत्राक्षराणि योजयित्वा तात्पर्यार्थ उक्तः; अत्राप्यक्षरार्थमुक्तवा तात्पर्यार्थ उच्यत इत्य-नुपपन्नम् ।

अक्षरयोजनायां ब्रह्मविचारारम्भे विशिष्टो हेतुरुक्तः-कर्मणोऽल्पास्थिरफलत्वनिर्णयविशिष्टानन्तस्थिरफलापात-प्रतीतिः । अनन्तस्थिरफलापादप्रतीतिर्नास्ति चेत्, अल्पास्थिरफल एव तृप्तः स्यात् । अल्पास्थिरफलत्वनिर्णयो नास्ति चेत्, न निर्वेदः स्यादिति विशिष्टो हेतुः । अत्राऽऽपातप्रतीतिः संभावितप्रामाण्या विवक्षिता, तादृशी हि सा प्रवृत्तिहेतुः । तत्र ब्रह्मज्ञानस्यानन्तस्थिरफलापातप्रतीतेः प्रामाण्यसंभावनाऽनुपपन्ना, सिद्धवस्तुनि शब्दस्य बोधकत्व-निश्चयाभावादिति विशिष्टहेतौ विशेष्यांशासिद्धिमाशङ्कय, सिद्धवस्तुनि व्युत्पत्तिसंभवादनन्तस्थिरफलापातप्रतीति-रस्तीति परिह्रियते । (अत्र पूर्वपक्षवादी प्राभाकरः ।) सूत्रकारैभर्विष्यद्दर्शनवेदित्वात्, कैश्चिदनुक्तत्वेऽपिसंभाव्या-

नानां प्रतिकूलपक्षाणाम् आशङ्कय निरसनीयत्वाच्चैवं पूर्वपक्षीकरणं युक्तम् । यद्वा जैमिनिमतं हीदम्, चोदनालक्ष-णोऽर्थ एव वेदप्रतिपाद्य इति । चोदना च क्रियायां प्रवर्तकं वचनम् । तमाशङ्कय सिद्धवस्त्वपि वेदप्रतिपाद्यमिति सूत्रकारैः साधयितुं युज्यते ।

अक्षरयोजनायां ब्रह्मविचारः कर्तव्य इत्युक्तत्वात्, ब्रह्मविचारारम्भो न युक्त इति पूर्वपक्षसमाप्तावुक्तत्वात्, ब्रह्मविचारारम्भो युक्त इति स्थितमिति सिद्धान्तस्योपसंहृतत्वाच्च दीपे कण्ठोक्तौ विषयः संशयश्चेहार्थसिद्धौ । ब्रह्मविचार इत्युक्तत्वात् ब्रह्ममीमांसा विषय इति सिद्धम् । आरम्भो न युक्तः, युक्तः इति चोक्तत्वात् संशयसिद्धिः । ब्रह्ममीमांसा किमारम्भणीया, उतानारम्भणीयेति; तदर्थं चिन्त्यते-किं वेदान्ताः ब्रह्मणि प्रमाणम्, उत नेति; तदर्थं परीक्ष्यते-शब्दस्य सिद्धवस्तुबोधनसामर्थ्यावधारणं संभवति, नेति; वृद्धव्यवहारे च शब्दस्य सिद्धवस्तुबोधकत्वाव-धारणं संभवति, नेति च । न संभवतीति पूर्वः पक्षः । संभवतीति सिद्धान्तः । यदा व्यवहारादन्यत्र न व्युत्पत्तिः, व्यव-हारे च शब्दस्य सिद्धरूपार्थबोधकत्वावदारणं न संभवति-तदा शब्दस्य सिद्धवस्तुबोधनसामर्थ्याभावात् वेदान्ताना-मपि ब्रह्मणि परिनिष्पन्नरूपे प्रामाण्याभावनिश्चयवतः पुरुषस्य अनन्तस्थिरफलापातप्रतीतेः प्रामाण्यसंभावनाया असिद्धेविर्शिष्टहेत्वभावादनारम्भणीयेति पूर्वपक्षे फलफलिभावः । राद्धान्ते तु-यदा व्यवहारादन्यत्र व्युत्पत्तिर्व्यवहारे सिद्धवस्तुपरत्वावधारणं च संभवति, तदा शब्दस्य सिद्धरूपार्थे सामर्थ्यात् वेदान्तानामपि ब्रह्मणि परिनिष्पन्नरूपे प्रामाण्यात् प्रामाण्याभावनिश्चयरहितपुरुषस्य अनन्तस्थिरफलरूपब्रह्मविषयापातप्रतीतिप्रामाण्यसंभावनासिद्धेः विशिष्टहेतुसिद्धया ब्रह्ममीमांसा आरम्भणीयेति विचाराणां फलफलिभावः ।

पूर्वपक्षमुपक्षिपति तत्रेति । पूर्वं मृषावाद्युक्तं सूत्रतात्पर्यं व्युदस्तम्; तद्य्वावृतिं्त सूचयति । तत्रशब्देन । तत्र-प्रप-ञ्चसत्यत्वे स्थिते सतीत्यर्थः । पूर्वपक्षमुपपादयति - वृद्धव्यवहारादिति । वृद्धः-व्युत्पन्नः, प्रयोज्यः प्रयोजनकश्च । तयोर्व्यवहारः-वाचिकः कायिकश्च । व्यवहारादन्यत्र शक्तयवधारणं मा भूत् । ततः किमित्यत्राह - व्यवहारस्य चेति । कार्यधीपूर्वकत्वफलमाह - कायार्थ एवेति । ततः फलितमाह - कार्यरूप इति । वेदस्य शब्दात्मकत्वात् शब्दस्य च व्युत्पत्त्यपेक्षत्वादिति भावः । ततः किमित्यत्राह अत इति । अतः-वेदार्थस्य कार्यरूपत्वादित्यर्थः । न प्रमाणभाव-मनुभवितुमर्हन्ति । प्रामाण्यसंभावना च नास्ति; अयोग्यत्वादित्यर्थः । प्रथमव्युत्पत्तिर्वृद्धव्यवहारादन्यत्र न संभ- वति । न हि घटोऽस्तीत्युक्ते प्रवृत्त्यभावे सति तस्य बोधकत्वं ज्ञायते । गामानयेत्यादिशब्दप्रयोगानन्तरं प्रयोज्यप्रवृतिं्त दृष्ट्वा, प्रवृत्तेः कार्यबुद्धिपूर्वकत्वं जानन् व्युत्पित्सुः, अयं शब्दः कार्यरूपार्थबोधक इति निश्चिनोति । तत्र बहुषु प्रयो-गेष्वनुवृत्तशब्दस्यानुवृत्तार्थेन संबन्धं व्यावृत्तशब्दस्य व्यावृत्तार्थेन संबन्धं गृहीत्वा आवापोद्वापमुखेन अर्थविशेषैः शब्दविशेषसंबन्धं निश्चिनेतीति प्रथमं व्युत्पत्तिः कार्यार्थ एव । न हि प्रथमत एव, अस्य शब्दस्यायमर्थ इत्युक्ते, अस्य शब्दस्यायमर्थ इत्येतद्वाक्यस्थपदानामर्थप्रतीतिः । एवं कार्यार्थ एव व्युत्पतिं्त कृतवतः पुरुषस्य, अस्य शब्दस्य अयमर्थ इति पश्चाच्छिक्षितेऽपि प्रथमं कार्यार्थपरतया व्युत्पन्नकतिपयपदसमभिव्याहारदर्शनात् प्रथमव्युत्पत्त्यविरोधेन तत्तच्छ-ब्दार्थसंबन्धग्रहणात् सर्वे शब्दाः कार्यार्थपरा एवेति गृह्यन्ते । अतः, "य एव लौकिकाः, त एव वैदिकाः" इति न्यायात् वेदान्ताः सिद्धवस्तुनि न बोधका भवन्तीत्यर्थः । वेदान्तानां संस्कृतशब्दत्वात् भाषान्तरेण प्रथमं व्युत्पन्नस्य पुरुषस्य संस्कृते शब्दे अस्य शब्दस्यायमर्थ इति व्युत्पाद्यमाने प्रथममेव सिद्धवस्तुनि व्युत्पत्तिः कृता स्यादिति चेन्न-कार्यार्थ-परत्वेन प्रथमव्युत्पन्नभाषान्तरशब्दानां पर्यायत्वेन व्युत्पाद्यमानत्वात् संस्कृतशब्दा अपि कार्यार्थपरत्वेनैव हि व्युत्पन्नाः स्युः ।

सिद्धवस्तुनि व्युत्पत्तेर्भाट्टरुक्तमुदाहरणं व्युदस्यति - न चेति । कालत्रयवर्तिनामिति पञ्चिकायामुक्तम्; तदत्रा-

भिप्रेतम् । देशकालयोग्यतादिभिः पुत्रजन्म जानातीत्यत्राह - सुलग्नेति । सुलग्नसुखप्रसवादीनाऽन्थासिद्धिर्नय-विवेकोक्ता । आदिशब्देन पित्राद्यरिष्टाभावो भाविसमृद्धयादिकं च विवक्षितम् । व्युत्पत्तिर्नाम शब्दस्यार्थविशे-षैस्सह संबन्धग्रहणम्, न त्वर्थमात्रेणेति एवं दूषणमुक्तम् । नैयायिकादिभिरुक्तमुदाहरणं व्युदस्यति - नापीति । व्युत्पन्नेतरपदस्य पदान्तरार्थनिश्चयोदाहरणमिदम्-कः कूजतीति प्रश्नस्य पिकः कूजतीति केनचिदुक्ते व्युत्पन्न(कः) कूजतिशब्देन व्युत्पित्सुना पिकशब्दार्थो ज्ञायते । व्युत्पन्नेतरपदविभक्तयर्थस्य प्रकृत्यर्थनिश्चयोदाहरणमिदम् - काष्ठैः स्थाल्यामोदनं पचतीत्युक्ते व्युत्पन्नविभक्तिपचतिशब्दार्थेन व्युत्पित्सुना काष्ठादिप्रकृत्यर्थो ज्ञायत इति । ज्ञातेति । इदानीं श्रुते अस्मिन् वाक्ये पूर्वं कार्यपरतया व्युत्पन्नवाक्यस्थकतिपयपददर्शनात् अयमपि पदसमुदायः कार्याभिधा-यीति ज्ञायत इत्यभिप्रायेण ज्ञातकार्याभिधायिपदसमुदायस्येत्युक्तम् । तदंशविशेषः-कार्यांशविशेषः । कार्ये ह्यनेक-कारकविशिष्टम् । तस्य कार्यस्य विशेषणांशनिश्चयरूपत्वात्त् तस्य-पदान्तरार्थनिश्चयस्य प्रकृत्यर्थनिश्चयस्य चेत्यर्थः । यद्वा-तदंशविशेषः-कार्याभिधायिपदसमुदायंशविशेषः । मृषावादिभिरुक्तमुदाहरणं दूषयति - न चेति । वाचस्पति-नोक्तमर्थमाशङ्कय परिहरति - कार्येति । तेन खल्वेवं सिद्धवस्तुनि प्रामाण्यमुपादितम्-सवर्शब्दामर्थोऽनुयायी वक्तव्यः । किं कार्यरूपार्थाभिधायित्वमुनुयायि, उत कार्यान्वितस्वार्थाभिधायित्वम्, उत कारकान्वितस्वार्थाभिधा-यित्वम् ? प्रथमे कारकपदेषु व्यभिचारः, तेषां कार्याभिधायित्वाभावात् । द्वितीये लिङादिषु व्यभिचारः; तेषां कार्या-न्वितस्वार्थाभिधायित्वाभावात् । तृतीये च कारकपदेषु व्यभिचारः; तेषां कारकान्वितस्वार्थाभिधायित्वाभावात् । तस्मादन्यान्वितस्वार्थाभिधायित्वं पदानामनुयायीति वक्तव्यमन्विताभिधायित्ववादिना । अन्यान्वितत्वं सिद्धव-स्तुनोऽपि स्यादिति कार्यरूपार्थ एव व्युत्पत्तिरिति निर्बन्धोऽनुपपन्न इति । इमां शङ्कामभिप्रेत्य परिहरति - कायर्-बुद्धीति । कार्यबुद्धिप्रवृत्तिव्याप्तिबलेनेति उत्तरत्र सर्वपदानां कार्यपरत्वेनेत्यनेनान्वयः । शब्दप्रयोगानन्तरं प्रवृत्ति-दर्शनात् शब्दस्य प्रवर्तकार्थावबोधकत्वात् कायर्बुद्धेः प्रवृत्तेश्च व्याप्तिबलेन प्रवर्तकस्य च कार्यरूपत्वात् सर्वैः पदैः कार्यमेव विशिष्टं प्रतिपाद्यते । तस्मात् नान्यान्वितस्वार्थमात्रे पदशक्तिनिश्चयः, अपितु विशिष्टकार्यांशविशेषे पद-शक्तिनिश्चय इत्यर्थः । ननु कार्यमेव प्रवर्तकं चेत्, प्रवर्तकस्य शब्दार्थत्वात् सर्वशब्दानां कार्यपरत्वं स्यात् । तन्न; इष्ट-साधनताबुद्धेःप्रवर्तकत्वादिति भाट्टोक्तमर्थमाशङ्कयाह - इष्टसाधनतेति । स्वप्रयोजनोपायः परेण साध्यते चेत्, तत्रापि न प्रवृत्तिरिति वर्तमानाया अपि इष्टोपायताबुद्देरप्रवर्तकत्वं दृष्टम् । अतः कार्यबुद्धिःप्रवृत्तिव्याप्येत्यर्थः । ननु कार्यबुद्धि-रपि प्रवृतिं्त व्यभिचरति, निर्धनस्य द्विजस्य यागकर्तव्यताबुद्धिमत्त्वेपि प्रवृत्त्यभावात् । नैवम्; मयैवाद्य साधयितुं शक्यमिति बुद्धिर्हि कार्यबुद्धिः । न तस्याः प्रवृत्तिव्यभिचारः, निर्धनस्य हि नैवंविधा प्रतिपत्तिः, किंतु यागः कदा-चित्कर्तव्यः, अर्थादिलाभादनुष्ठाने सति फलप्राप्तिरस्तीति । अतो न दोषः ।

ततः किमित्यपेक्षायामुपपादितहेतुशरीरं वदन् शङ्कान्तरं च परिहरन् पूर्वपक्षं निगमयति अत इत्यादिना । ब्रह्म-विचारारम्भे विशिष्टो हेतुरुक्तः, तत्र विशेष्यांशस्यानन्तस्थिरफलापात प्रतीतिरूपस्यासिद्धिरुक्ता । अत्र चोद्यमा-पादितम्, मन्त्रार्थवादेषु उपासनविधिशेषभूतेष्वनन्तस्थिरफलापातप्रतीतिसिद्धेः न विशेष्यांशासिद्धिरिति विशिष्ट एव हेतुरिति । एतदाशङ्कयाह - अक्षय्यं ह वा इति । अयमर्थः-यदि मन्त्रार्थवादेष्वनन्तस्थिरफलप्रतीत्या ब्रह्मविचारा-रम्भः, तर्हि पूर्वभागेऽपि "अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" इत्यादिभिरनन्तस्थिरफलप्रतीत्या अल्पा-स्थिरफलत्वनिर्णयरूपविशेषणांशासिद्धेर्ब्रह्मविचारारम्भो न युक्त इति । विशिष्टहेतौ विशेषणविशेष्ययोरन्यतरांशा-सिद्धयभिप्रायेण कर्मफलाल्पास्थिरत्वब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुक इत्युक्तम् ।

अत्राभिधीयत इति । अस्मिन् पूर्वपक्षे सूत्रकारैः परिहारोऽभिधीयत इत्यर्थः निखिलेति । अन्यथा वदता भवतापि

वक्ष्यमाणप्रकारेणैव शब्दव्युत्पत्तिः कृतेति निखिललोकशब्दस्य भावः । प्रामाणिकाः-प्रमाणेनार्थं स्वीकुर्वन्त इत्यर्थः । कथं संब-न्धावधारणमित्यत्राह-एवं किलेति । मातापितृप्रभृतिभिरिति । अयं भावः-यदा स्वयमेव बालो व्युत्प-त्तिक्षमो भवति, तदानीमप्येनं वृद्धैरुपाध्यायादिभिर्व्युत्पादयितुं श्रद्दधाना मातापित्रादयो न हि स्वयं व्युत्पत्त्यक्षम-दशायामुपेक्षन्ते । किन्तु अक्षरशिक्षाद्यपयोगिनीः शिक्षाः प्रथमत एव स्वबुद्धिपूर्वकं कुर्वन्तीति । अम्बातातप्रभृतिः सप्रतियोगिकः शब्दगणः, शशिपशुप्रभृतिरप्रतियोगिकः शब्दगण इति विभागः । असंबन्धिशब्दव्युत्पत्तेः पूर्वमे-वाम्बातातादिशब्दव्युत्पत्तिर्दृश्यते । सा च त्वभिमतशब्दार्थसंबन्धग्रहणे तु नोपपद्यते । न हि किञ्चित्प्रति पिता अन्यस्यापि पिता भवति । तस्माद्य्#ुत्पित्सोर्मातापित्रादिषु अन्यैस्तत्तच्छब्दप्रयोगासंभवात् प्रथममम्बादिशब्दार्थ-व्युत्पत्तिः त्वन्मते न संभवति । अतो बुद्धिपूर्विकैव प्रथमव्युत्पत्तिरिति ज्ञापनार्थं कोटिद्वयं शब्देषु दर्शितम् । यादृच्छिकवृद्धव्यवहारेणा-नन्तशब्दव्युत्पत्त्यनुपपत्तिश्च । सर्वलोकसंप्रतिपन्नव्युत्पत्तिप्रकारपह्नवश्च । एनमवेहि इमञ्चावधारयेति । एनम्-बोधकं शब्दम्, इमम्-बोध्यर्थञ्चावेहीत्यर्थः । बहुश इति । यावत् अङ्गुलिनिर्देश-शब्दप्रयोगसाहचयर्दर्शनजनितवासनाभूयस्त्वोदयेन स्वयमेव तत्तच्छब्दान् प्रयोक्तुम् अर्थमात्रदर्शनेन शब्दं स्मर्त्तुं शब्दमात्रश्रवणेनार्थं स्मर्त्तुं च क्षमा भवन्ति, तावदित्यर्थः । शिक्षिताः-तैस्तैः शब्दैः तेषु तेष्वर्थे-षूत्पादितज्ञानाः । एवं तर्ह्यङ्गुल्या निर्दिष्टेष्वर्थेष्वमी शब्दाः सङ्केतिताः इति मन्येरन्निति चेत्-यद्वा लिङ्गवज्जग्यजनकभावादिसंबन्धा-न्तराद्बोधका इति मन्येरन्निति चेत्-तत्राह संबन्धान्तरादर्शनात्सङ्केतयितृपुरुषाज्ञानाच्चेति । अयमर्थः-यादृच्छि-कव्युत्पत्तावपि तुल्यं चोद्यम् । शब्दप्रयोगानन्तरं प्रयोज्यप्रवृतिं्त दृष्टवतो व्युत्पिसोरियं शङ्का भवति, एतच्छब्द-प्रयोगादनन्तरमस्य प्रवृत्तिः किं जन्यजनक-भावादिसंबन्धात्, उत सङ्केतादिति । तत्र संबन्धान्तरशङ्का तु अदर्शनादेव न जायत इति चेत्-बुद्धिपूर्वकव्युत्पत्तावप्ययं परिहारः समानः । सङ्केतबुद्धयुत्पत्तिश्च नोपपद्यते । किमेते अस्मन्पा-तापित्रादयः सङ्केतयन्ति, उत पूर्वमेव कश्चित् सङ्केतितवान् इति । न तावत्प्रथमपक्षः; अनेकैः पुरुषैस्तेष्वेवा-र्थेष्वेकरूपशब्दप्रयोगदर्शनात् । नापि द्वितीयः; अनेन पूर्वं सङ्केतिताः शब्दा इति सङ्केतयितुः पुरुषस्याज्ञानादिति परिहारस्तवापि वक्तव्यः; सोऽस्माकमपि समानः । सर्वप्रमाणानां बोधकत्वे अविशिष्टेऽपि प्रत्यक्षस्य वैषम्यं सत्तया ज्ञानजनकत्वम् । अनुमानागमौ तु ज्ञाततया ज्ञापकौ । तत्रानुमानं जन्यजनकभावादिसंबन्धान्तरज्ञानेन बोध्य-विषयबोधजनकम्; शब्दस्तु बोध्यबोधकभावरूपसम्बन्धज्ञानादेव बोध्यं बोधयति । एवं संबन्धान्तरशङ्का सङ्केति-तत्वशङ्का च निरस्ता । सम्बन्धान्तरा-भावात्सङ्केतयितृपुरुषाज्ञानाच्च बोध्यबोधकभाव एव सम्बन्ध इति न बालैज्र्ञातुं शक्यमिति चेत् तत् तवापि तुल्यम् । किञ्च शब्दोच्चा-रणानन्तरं प्रयोज्यवृद्धस्य प्रवृतिं्त दृष्ट्वा प्रवृत्तेश्च कायर्बुद्धि-पूर्वकत्वमनुमाय, यदनन्तरं यद्भवति तत् तस्य कारणमिति न्यायात् शब्दोच्चारणेन कार्यबुद्धिरस्य जातेति कायर्रूपः शब्दार्थ इति बोद्धुं बालैरतीव न शक्यते । अशक्यत्वं दृश्यते च; न हि बाला उक्त-प्रकारेण कार्यार्थपरत्वं शब्दस्य निश्चिन्वन्ति । अतो बलैर्दुरवगमत्वचोद्यं भवत्पक्ष एवातीव प्रसजति । कालपरिपाकात् ज्ञायत इति चेत्-अयं परिहारोऽस्मत्पक्षे सुसङ्गत इति ।

पुनश्चेति । अस्य शब्दस्य अयमर्थ इति व्युत्पत्तिश्चेत्-अन्विताभिधानभङ्गप्रसङ्ग इति चेत्-न; प्रातिस्विकव्युत्पत्तेः समुदायज्ञाना-र्थत्वात् । न हि काव्यादिषु वाक्यार्थज्ञानोपयोगित्वेन संपाद्यमानं पदार्थज्ञानं वाक्यार्थज्ञानविरोधि । न ह्यक्षरशिक्षा च पदार्थज्ञान-विरोधिनी । एवं तैस्तैः पदैः परस्परान्वितस्वार्थाभिधानव्युत्पत्तेः प्रतिपदमर्थव्युत्पत्तिर्न विरोधिनी; अपि तु उयुक्तैव । यथा भवत्पक्षे आवापोद्वापरूपेणं प्रतिपदार्थव्युत्पत्तिर्वाक्यार्थज्ञानोपयोगित्वान्न विरोधिनी, तद्वत् । भवत्पक्षे तु प्रातिस्विकव्युत्पत्तिः पश्चाद्भाविनी, अत्र तु पूर्वभाविनीति विशेषः । वाक्यार्थ-ज्ञानोपयोगित्वं समानम् । शब्देनान्वयपर्यन्ताभिधानं ह्यन्विताभिधानम् । प्रातिस्विकव्युत्प-त्तावपि तत्रैव व्युत्पत्तिः क्रियत इति न विरोधः । अभिहितान्वयपक्षे अर्थानां परस्परान्वयबोधनयोग्यत्वं शब्दानां स्वाथर्बोधनशक्तिः शब्दैरपि परस्परान्वययोग्यत्वेन स्वार्थाभिधानमिति त्रयमपि कल्पनीयम्; अन्विताभिधानपक्षे तु शब्दानां स्वार्थबो-धनशक्तेरेव अन्वय-पर्यन्तत्वाभ्युपगमात् कल्पनालाघवमस्तीति स एवात्र स्वीकृतः । अन्विताभिधानभङ्गप्रसङ्गश्च परिहृतः । अस्य शब्दस्य अयमर्थ इत्य-त्राप्ययमर्थ इति बुध्यस्वेति ह्युक्तं भवति; तस्मात् कार्यार्थ एव व्युत्पत्तिरिति चेत्-एवं तर्हि यादृच्छिकव्युत्पत्तावपि सिद्धवस्तुन्येव व्युत्पत्तिः स्यात् । प्रयोज्यवृद्धस्य कार्यबुद्धिर्जातेति हि व्युत्पि-त्सुर्जानाति । शब्दबोध्यत्वं कार्यस्यैव; न बुद्धेः । बुद्धिर्हि शब्दजन्या; न तु शब्दवाच्येति चेत्-अत्रापि शब्दबोध्यत्वं तत्तत्पदार्थस्यैव; न बुद्धेः । न हि घटबुद्धिर्घटशब्दवाच्या; अपि तु तज्जन्या; वाच्यस्तु घट एव इति तुल्यः परिहारः इत्यभिप्रेत्य एनमवेहि इमं चावधारयेत्यभिप्रायेणाङ्गुल्या निर्दिश्येत्युक्तम् । तत्तदर्थावबोधिवाक्यजातं प्रयुञ्जत इति । यादृच्छिकव्युत्पत्तौ कतिपयशब्दानां कार्यार्थपरत्वेन व्युत्पत्तिदर्शनात् व्युत्पादकाः पुरुषा अपि कार्यार्थ एव व्युत्पतिं्त कृतवन्तो गामनयेत्यादिवाक्यं प्रयुञ्जत इति चेत्-अनेकशब्दानां सिद्धवस्तुपरत्वेन, व्युत्पादकाः पुरुषा अपि तथैव व्युत्पतिं्त कृत्वा तत्तदर्थविवक्षया शब्दान् प्रयुञ्जते । व्युत्पत्तिदर्शनं प्रयोगदर्शनमपि ह्युभयमत्रा(भयत्रा?)विशिष्टमिति भावः ।

एवं बुद्धिपूर्वकव्युत्पत्त्या शब्दानां सिद्धवस्तुपरत्वमुक्तम् । यादृच्छिकव्युत्पत्तावपि सिद्धार्थेऽपि व्युत्पत्तिरस्तीत्याह - प्रकारा-न्तरेणापीति । शब्दनिरपेक्षं तत्तदर्थज्ञानं चेष्टादिना संभवतीति दर्शयति मूकवदिति । परोक्तया-दृच्छिकव्युत्पत्तौ व्युत्पित्सुव्यतिरेकेण पुरुषद्वयापेक्षा, गवाद्यपेक्षा च । अस्यां तु व्युत्पित्सुव्यतिरेकेण पुरुषत्रयापेक्षेति वैषम्यम् ।

किञ्च-पुत्रस्ते जात इत्यादिवाक्यस्य गामानयेत्यादिवाक्यस्य च वैषम्यं दुरुपपादम् । कलात्रयवर्तिहर्ष-हेतुबाहुल्यसंभावनया हि पुत्रजन्मवाक्ये व्युत्पत्तेरशक्यत्वमुक्तम् । तन्न; संनिहितं पुत्रजन्म दृष्ट्वा तज्ज्ञापनाय प्रवृत्ते पुरुषे ज्ञाते, पश्चाच्च जातकर्मादौ दृष्टे, ततः पूर्वमनुल्लसितमुखत्वादसंभावितपुत्रजन्मविज्ञानस्य पुरुषस्यैतद्वा-क्यश्रवणानन्तरभाविनो मुखविकासस्यातीतागामिहर्षहेत्वन्तरश्रवण-मूलत्वशङ्कानुदयात् । न हि संनिहित-हेतुपरित्यागेनादृष्टहेतुशङ्का धियमधिरोहति । सुलग्नसुखप्रसवादिहेत्वन्तरशङ्का स्यादिति चेत्-नैवम्; सुलग्नादिमात्रस्य हर्षहेतुत्वायोगात् । न खल्वन्यदीयपुत्रजन्माद्यनुबन्धिसुलग्नत्वादीनां हर्षहेतुत्वम् । अतः स्वपुत्रजन्मविशे-षणीभूतानां सुलग्नत्वादीनामेव हषर्हेतुत्वम् । अतः स्वपुत्रजन्मनि अज्ञाते सुलग्नत्वादीनां हेषर्हेतुत्वायोगादस्य वाक्यस्य स्वपुत्र-जन्मज्ञापकत्वमवश्यं विदितं स्यात् । प्रागेव पुत्रजन्मज्ञानसंभवादस्य वाक्यस्य सुलग्नत्वादिपरत्वशङ्का स्यादिति चेत्-नैवम्; ततः पूर्वं मुखविकासविरहेण प्रागेव पुत्रजन्मज्ञानशङ्कानुदयात् । अतः पुत्रजन्मनः संनिहितत्वात् पूर्वं मुखवि-कासाभावाच्च प्राथमिकमुखवि-कासहेतोरस्य वाक्यस्य पुत्रजन्मज्ञापकत्वं व्युत्पिसुर्मन्यते । तत्रैवं शङ्का संभवति-किं पुत्रजन्मादिमात्रज्ञापकमिदं वाक्यम्, उत सुलग्नत्वादिविशिष्टपुत्रजन्मादिज्ञापकमिति । ईदृशशङ्काग्रस्तत्वं गामान-येत्यादिवाक्यस्यापि तुल्यम्; किमिदं वाक्यं गवानयनमात्र-प्रतिपादकम्; उत पुरोवर्तिनि पिण्डे ये शुक्लत्वादिविशेषा दृश्यन्ते, तैर्विशिष्टगवानयनप्रतिपादकमिति शङ्कोपपत्तेः । प्रयोगभेदेना-वापोद्वापमुखेन शङ्कापाकरणमुभयत्र तुल्यम् । पुत्रजन्मवाक्यादपि गवानयनादिवाक्यस्य अनेकार्थान्तरशङ्काग्रस्तत्वं सुतरां दृश्यत इति अर्थविशेषावधारमतीव कर्तुमशक्यम्; गामनयेति शब्दप्रयोगानन्तरं व्यापारान्तरविधुरं गवि समानीतायामपि, गां संदर्शय, गां पुरः स्थापय, गां देहि, गां क्रीणीहीत्याद्यनेकार्थशङ्काहेतुत्वात् प्रयोज्यवृद्धप्रवृत्तेः । किञ्च गामानयेत्यादिशब्दप्रयोगानन्तरं सामनयनात्पूर्वमेव उत्थानोपरिवासआच्छादनदण्डग्रहणयादृच्छिकजनसंभाषणगमनाद्यवान्तरव्यापाराश्च बहवो यस्य पुरुषस्य आद्यव्युत्पत्तावुपलभ्यन्ते, तस्य तेष्वन्यतमार्थवाचकत्वशङ्का गामानयेत्यादिवाक्यस्य जायते । पश्चाद्गवा-नयनमपि यादृच्छिकं कृतं स्यात्, न तु वाक्यप्रेरितत्वादिति च शङ्का संभवति । अतो नार्थविशेषसंबन्धावधारणसंभव इति । बहुभिः प्रयोगैरर्थविशेषनिश्चयोऽन्वयव्यतिरेकाभ्यामिति चेत्-एवमेव पुत्रस्ते जात इत्यादिवाक्यस्यार्तविशेष-निश्चयः सुतरां संभवति ।

एवं सिद्धवस्तुनि शब्दव्युत्पत्त्युपपत्त्युपपादनेन वेदान्तानां परब्रह्मपरत्वमुपपन्नमित्याह - अतो वेदान्ता इति । अथ कार्यार्थपरत्व-मभ्युपगम्य ब्रह्मविचारस्य कर्तव्यतामाह - कार्यार्थत्वेऽपीति । कार्यार्थत्वाभ्युपगमेऽपि स्तावकत्वसिद्धिहेतुत्वेन फलसाधनत्वेन च प्रकारद्वयेन सिद्धवस्तुनि तात्पर्यमुत्तरत्रोपपादयिष्यते । अत्र तु प्रकारान्तरेणोपपाद्यते । अनन्तस्थिरफलापातप्रतीतेः सिषादयिषितत्वात् फलत्वेन तात्पर्यकथनमत्रोचितमिति फलतया सिद्धिरत्रोच्यते । अनेकवाक्योपादानम् उपासने तात्पर्यातिशयज्ञापनार्थम्, उपसर्गविशेषसन्प्रत्यययो-गायोगेऽप्यर्थभेदो नास्तीति ज्ञापानार्थं च । उपासनविषयकार्याधिकृतेति । उपासनावच्छिन्नकृतिसाध्यापूर्वादिकृतस्य । विषिष्वन् (विर्शिषन्) हि विषय उच्यते । ब्रह्मस्वरूपतद्विशेषणानामिति । विशेषणानि-गुणाः विभूतयश्च । विधिवाक्योक्तस्य फलस्यार्थवादेक्तविशेषणे तात्पर्यमस्तीति ज्ञापनार्थं दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवदित्युक्तम् । "यस्मिन्नोष्णं न शीतं नारतिः" इति श्रुतिः । स्वर्गाख्यफलं विधिगतम्; विशेषणमन्यत्र । फलस्य विधिवाक्यगत-त्वाभावेऽप्यन्यपरार्थवादोक्तफले विध्यपेक्षिते तात्पर्यमस्तीति दर्शयितुं रात्रिसत्रप्रतिष्ठावदित्युक्तम् । (रात्रीरुपेयात्) "प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्ति" इति हि श्रुतिः । प्रतिष्ठाकाम उपेयादिति वचनाभावेऽपि अर्थवा-दोक्तफले तात्पर्यमङ्गीकृतमित्यर्थः । विधेयोपकारके विरोधिफलेऽपि तात्पर्यमस्तीति ज्ञापनाथर्म्-अपगोरण-शतयातनासाध्यसाधनभाववच्चेत्युक्तम् । "तस्माद्ब्राह्मणाय नापगुरेत---योऽपगुरुते तं शतेन यातयात्" इति हि श्रुतिः । अनेन मोक्षोपायविरोधिफलेऽपि तात्पर्यं सिद्धमित्यभिप्रायः । अनुयायिहेतुः कार्योपयोगितयैव सिद्धेरित्युक्तः । उपासन-विषयकार्योपयोगित्वात् फलभूतब्रह्मस्वरूपे, तद्विशेषणगुणादौ, विधिविरोधिनि फले, संसारहेयत्वादौ च विवक्षा कार्येत्यर्थः ।

प्रवर्तकवाक्येऽपि न त्वदभिमतसिद्धिरित्याह -गामिति । कार्यार्थे प्राधान्येन त्वदभिमते कृत्युद्देश्यलक्षणकार्यार्थे । कुत इत्यत्राह भवदभिमतेति । स्वेदश्रमादावपि कृतिसाध्यत्वात् तद्य्वावृत्त्यर्थं क्रियाकार्येऽप्युद्देश्यत्वमङ्गीकार्यम्; त्वदुक्तोद्देश्यत्वस्य दुर्निरूपतया तल्लक्षणकार्यस्य दुर्निरूपत्वादित्यर्थः । दुर्निरूपत्वं कथमित्यत्राह - कृतीति । कृति-भावभावि । कृतिः आन्तरप्रयत्नः; तत्सद्भावानन्तरभावि । कृतिसाध्यत्वं भावार्थादिष्वप्यसतीति तद्य्वावृत्त्यर्थं कृत्यु-द्देश्यमित्युक्तम् । कृत्युद्देश्यत्वं कृतिप्रधानत्वमित्यर्थः । कार्यस्य कृतिसाध्यत्वमिष्टत्वं कृत्युद्देश्यत्वमिति त्रयमपि तन्म-तेऽभ्युपगतम् । इष्टत्वकृतिसाधयत्वे फलभावार्थसाधारणे । कृतिप्रधानत्वं ह्याकारद्वयविलक्षणं फलभावार्थव्यावर्तकं वर्ण्यते । यथा टीकायामुक्तम्, "कार्यमर्थं प्रतिपादयतो वेदस्य प्रामाण्यम्" इति । अत्रार्थशब्देन प्राधान्यं विवक्षितम् । यथा पञ्चिकायाम्, "कायर्म् अर्थं प्रधानतया प्रतिपादयतो वेदस्य प्रामाण्यम्; तत्रैव प्रामाण्यशब्दव्युत्पत्तेः व्युत्पत्त्या-यत्तत्वात् तस्य" इति । प्रकरणशालिकायाम्, "कृतिसाध्यं प्रधानं यत् तत् कायर्मभिधीयते" इति । तत्र तृतीयाकार-तयाऽभिमतं कृत्युद्देश्यत्वं कृतिसाध्यत्वेष्टत्वाकारयोरन्तराकारे पर्यवस्यतीत्यभिप्रायेण दूषयितुमाह - कृत्युद्देश्यत्वं चेति । पाणिन्युक्तप्रकारेण कर्मत्वं विवृणोति कृतिकर्मत्वं चेति । इष्टतमत्वं च कार्ये नास्तीत्याह - इष्टतमं चेति । कृतिकर्मत्वं नाम प्रवर्तकत्वमित्यत्राह - तत्रेति । तदपीष्टस्य स्वप्रयत्नसाध्यत्वमेवेत्यर्थः । आदिशब्देन दुःखनिवृत्ति-

रुच्यते । स्वप्रयत्नात् ऋते यदीत्यादेरयं भावः-कृतिसाध्यत्वातिरिकिकृतिकर्मत्वं नाम इष्टतमत्वेपर्यवस्यतीति । प्रयत्नेच्छुः चिकीर्षुः । प्रवर्तते । आन्तरप्रयत्नमिच्छन् स तमुत्पादयतीत्यर्थः । इष्टतमस्यैव रूपद्वयमस्ति इच्छावि-षयत्वं प्रेरकत्वञ्चेति । तत्र प्रेरकत्वं कृत्युद्देश्यत्वमित्यत्राह - इच्छाविषयत्येति । कुत इत्यत्राह - तत एवेति । पुरुषानुकूलत्वं कृत्युद्देश्यत्वमित्यत्राह - न चेति । सुखमेव पुरुषानुकूलमिति न वाच्यम्, सुखव्यतिरिक्तस्यापि अनुकूलत्वदर्शनादित्यत्राह - न च दुःखनिवृत्तेः पुरुषानुकूलत्वमिति । न हि दुःखनिवृत्तिः सुखं भवतीत्यर्थः । एतदुपपादयति पुरुषानुकूलमिति । तर्हि दुःखनिवृत्तेरिच्छाविषयत्वं कथमित्यत्राह दुःखस्येति । स्वत इष्टत्वम-नुकूलत्वम्; न त्वनिष्टान्तरहेतुतया इष्टनिवृत्तिरूपतया वाऽनिष्टत्वम् । अतो दुःखनिवृत्तेरिष्टत्वं दुःखस्य प्रतिकू-लत्वादित्यर्थः । दुःखनिवृत्तेरनुकूलत्वाभावमुपपादयति अनुकूलप्रतिकूलेति । स्वरूपेणावस्थितिः-सुखनिवृत्तिरूपा दुःखनिवृत्तिरूपा च । अनुकूलप्रतिकूलान्वयविरहरूपायां स्वरूपेणावस्थितौ दुःखनिवृत्त्यंशस्य सामानाधिकरण्येन व्यपदेशः । दुःखनिवृत्तेरिव सुखं चेत्-दुःखनिवृत्तौ सुखनिवृत्तिर्न स्यात् । तदा सुषुप्तावपि सुखान्वयप्रसङ्गः । अन्यतर-निवृत्तिरन्यतरसंयोगश्चेत्-स्वापेऽपि सुखदुःखान्वयः प्रसजेदिति भावः । अपूर्वस्यानुकूलत्वासंभवे दृष्टान्ताभिप्रायेण क्रियाद्युपादानम् । क्रियादेरित्यादिशब्देन प्रयत्नो विवक्षितः । सुखासाधनत्वादनुकू#ात्वमित्यत्राह नेति । कुत इत्यत्राह दुःखात्मकत्वादिति । तस्य-क्रियादेः । प्रतिकूलरूपतया भासमानं वा तद्विषयज्ञानं वा दुःखम्; न तद्य्वतिरिक्तमात्म-गुणान्तरमित्यभिप्रेत्य दुःखात्मकत्वादित्ययं हेतुरुक्तः । सुखार्थतयेति । न हि दण्डचक्रादिर्घटो भवतीत्यर्थः । असु-खार्थात् सुखार्थस्य किं वैषम्यमित्यत्राह - सुखार्थतयाऽपीति ।

कृतिशेषित्वं कृत्युद्देश्यत्वमिति पक्षं दूषयति - न चेति । अनिरूपणात्-दुर्निरूपत्वादित्यर्थः । पोद्देशप्रवृत्तकृति-व्याप्त्यर्हत्वं शेषत्वमिति पक्षमनूद्य दूषयति - न च परोद्देशप्रवृत्तेत्यादिना । न च परोद्देशप्रवृत्त्यर्हताया इति । उत्प-त्तिश्च प्रवृत्तिमद्व्यापारः । अतः प्रवृत्त्यर्हत्वम् उत्पत्त्यर्हत्वम् । परोद्देशप्रवृत्त्यर्हतायाः शेषत्वरूपतयेत्यर्थः । उद्देश्यत्व-स्यैव निरूप्यमाणत्वादिति । अयमर्थः-कृत्युद्देश्यत्वम्-कृतिशेषित्वम्; शेषित्वञ्च शेषप्रतिसम्बन्धित्वम्; शेषत्वम् परोद्देशप्रवृत्त्यर्हत्वमित्युक्ते सति उद्देश्यत्वं नाम उद्देश्यत्वमित्युक्तं भवतीत्यामाश्रयः; उद्देश्यत्वनिरूपणोपयुक्तस्य शेष-त्वनिरूपणस्य उद्देश्यनिरूपणसापेक्षत्वादिति । किं परोद्देशप्रवृत्त्ययोगव्यवच्छेदो विवक्षितः उतान्ययोगव्यवच्छेदः इति विकल्पे, प्रथमे शिरसि राजनि अतिव्याप्तिमाह प्रधानस्यापीति । अत्रोद्देश्यशब्देन प्रयोजनभावाभिसन्धिर्विवक्षितः; तत्परिहारमुखेन द्वितीयं शिरः शङ्कते प्रधानस्त्विति । परोद्देशेन प्रवृत्त्यन्ययोगव्यच्छेदो विवक्षितः । स तु प्रधानस्य नास्ति, स्वोद्देशेनापि तस्य प्रवृत्तेः । अतो नातिव्याप्तिरित्यर्थः । परिहरति नेति । भृत्येष्वव्याप्तिमाह मृत्योऽपि हीति । कार्यप्रतिसंबन्धित्वं शेषत्वमिति पक्षं दूषयति - कार्यस्वरूपस्येति । कार्यस्वरूपे निरूप्यमाणे फलभावार्थविलक्षणा-कारेण तन्निरूपणार्थं कार्यत्वं कृत्युद्देश्यत्वमित्युक्तम् । उद्देश्यत्वं शेषित्वम्; शेषित्वं च शेषप्रतिसम्बन्धित्वम्; शषत्वं च कार्यप्रतिसम्बन्धित्वम् इत्युक्ते सति आत्माश्रयः स्यात्, कार्यनिरूपणोपयुक्तशेषत्वनिरूपणस्य कार्यनिरूपणसा-पेक्षत्वादित्यर्थः ।

भाष्यकाराभिमतं शेषत्वलक्षणं स्ववीकृत्य कृत्युद्देश्यत्वसमर्थनमपि दुश्शकम् । तथाहि-

"परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपम्, शेषः; परश्च शेषी" इति भगवान् भाष्यकारो वेदार्थसङ्ग्रहे शेषिलक्षणभाषिष्ट । "शेषः परार्थत्वात्" इति शेषशेषिभावलक्षणपरस्य जैमिनीयसूत्रस्य परैरन्यथाव्याख्यातत्वात् तद्य्वावृत्त्यर्थं तस्य सूत्रस्वार्थोऽनेन लक्षणग्रन्थेन यथावत् प्रदर्श्यते । अस्याथर् उच्यते-अन्यस्य प्रयोजनमेव यस्य परम-प्रयोजनं स शेषः, अन्यः शेषीति वाक्यार्थः । अत्र परशब्दोऽन्यपर्यायः, पर-अतिशयशब्दयोः कर्मधारयशङ्कानिवृ-

त्त्यर्थो गतशब्दः । तेन स्वगतातिशयाधायके शेषिण्यतिव्याप्तिव्युदासः । अतिशयशब्दः प्रतिकूलतराकारपरः । निकृ-ष्टेतराकारपरो वा । तेन परागतविनाशाधायकशस्त्राग्निकण्कादीनां विनाश्यं प्रति शेषत्वव्युदासः । न च दुःखहेतुषु यातनाशरीरेष्वव्याप्तिः; तेषामपि दुःखजननद्वारा पापक्षयलक्षणातिशयहेतुत्वात् । न चानुत्पन्ने अपूर्वे व्रीह्यादिभि-रतिशयाधानायोगात् तेष्वव्याप्तिः, सत्तालाभस्यातिशयरूपत्वात्; निकर्षात्मकधर्मेतराकारो ह्यतिशयः । ननु मान-संबन्धार्हं व्यवहारार्हं वा यत् स्वरूपं तदेव सदिति भवन्मतम्; सत्ताजात्यभावात् । तत् कथं स्वरूपमेवाकार इत्यु-च्यते । न; स्वरूपस्यैव सत्तारूपत्वेऽपि तल्लाभस्याऽऽकारत्वोपपत्तेः । सत्तालाभो ह्यतिशय इत्युक्तम् । सत्तालक्षण-स्वरूपस्य च लाभो नाम प्रथमक्षणसंबन्धः । स्वरूपस्याविद्यमानत्वेऽपि धीस्थतया परातिशयाधानव्यवहार उपपन्नः । इच्छयेतिपदेन परगतातिशयस्य इच्छाविषयतया प्रयोजनत्वमवगम्यते । इच्छापदस्य च निरुपपदत्वात् साक्षादेवेच्छा-विषयत्वमभिप्रेतम् । साक्षाच्छाविषयश्च परमप्रयोजनम्; अवान्तरप्रयोजनस्य हि तदर्थतयेष्टत्वमिति न साक्षादिच्छा-विषयत्वम् । अतः परमप्रयोजनज्ञापकेन इच्छयेति पदेन परार्थत्वादित्यर्थशब्दो व्याख्यातो भवति । अर्थ्यत इति ह्यर्थः; इष्यत इति यावत् । निरुपपदश्चाथर्शब्दः स्वतःपरमप्रयोजनपरः । अनेन स्वातिशयाधायके भृत्यादौ लक्षणस्या-व्याप्तिशङ्का व्युदासः । भृत्यो हि स्वालङ्कारादिकमपि स्वार्म्यातशयाय भवतीति हि (?) (स्व) बुद्धया स्वातिशय-माधत्ते । अतो भृत्येन स्वातिशयाधानस्य परातिशयः परमप्रयोजनमिति नाव्याप्तिः । उपादेयत्वम्-स्वीकार्यत्वम्; व्यवहर्तव्यत्वमिति यावत् । इच्छास्वीकारौ यथायोग्यं संभवतः । शेषशेषिणोरुभयोः, अन्यतरस्मिन् वा संभवतश्चेत्, इच्छास्वीकारौ तद्गतौ स्तः । यथा राजभृत्यराजतद्भवनादौ । उभयमचेतनं चेत्, उभयव्यतिरिक्तचेतनगताविच्छा-स्वीकारौ; यथा प्रभाप्रभावद्यागतदङ्गादिके । उपादेयत्वम्-उपादातुमर्हत्वम् । तेनाकिञ्चित्कारदशायामव्याप्तिप-रिहारः । एवकारेण कदाचित्स्वार्थनिरपेक्षपरप्रयोजनसाधकेषु प्रकृष्टकृपास्नेहान्वितेषु अतिव्याप्तिव्युदासः । अथवा केनचिदाकारेणोपहितस्य शेषत्वे सति तदनुपहितस्य शेषत्वव्यावृत्त्यर्थ एवकारः; अनुपहितस्य प्रयोजनान्तरसाध-कत्वेन परातिशयैकशब्दस्य व्युत्पादनार्थत्वात् व्यावर्त्यधर्मापेक्षा । परातिशय एव परमप्रयोजनं यस्य, स परं प्रति शेष इति लक्षणमुक्तं भवति ।

यतः परातिशयस्यैव परमप्रयाजनस्याऽऽधायकत्वं लक्षणम्, अत एव परगतातिशयाधानायोगान्ययोगव्यवच्छे-दविकल्पेन राजन्यभृत्ययोरतिव्याप्त्यव्याप्तिप्रसञ्जनमस्मत्पक्षे नावतरति; परातिशयमात्राधायकत्वस्य लक्षणत्वा-भावात् । न च द्वारशेषिगतातिशयस्य परमशेषिगतातिशयं प्रति प्रयोजकत्वे सत्यपि तस्य परमप्रयोजनत्वाभावात् द्वारशेषिणं प्रति शेषभूतवस्तुनि लक्षणस्याव्याप्तिः शङ्कनीया; शेषभूतवस्तुगतातिशयापेक्षया शेषिगतातिशयस्य पारम्यमात्रस्य विवक्षिततया परमशेषिगतातिशयरूपपरमप्रयोजनत्वस्य व्युदसनीयत्वाभावात् । ततश्च द्वारशेषि-गतातिशयस्य शेषभूतवस्तुगतातिशयान्तराधायकत्वेन प्रयोजनत्वं परमशब्दव्युदसीनयम् । ननु पुरुषश्च कर्मार्थ-त्वादिति पुरुषस्य कर्मशेषत्वं कर्ममीमांसायां राद्धान्तितम् । पुरुषश्च स्वर्गकामः इति तस्य परगतातिशयनिष्पाद-नमेव परमप्रयोजनं न भवतीत्यव्याप्तिरिति चेत्-न; तस्य कर्तृत्वोपहितवेषेण शेषत्वादुपहितस्य कर्मनिष्पादनैक-प्रयोजनत्वाच्च कर्मशेषतोपपत्तेः ।

नन्वेतल्लक्षणमसंभवहतम् । न खलु चेतयमानः कश्चित् परगतातिशयं स्वस्य परमप्रयोजनं मत्वा प्रवर्तते, किन्तु परप्रयोजनमपि स्वप्रयोजनार्थं मत्वा हि प्रवर्तते । उच्यते । नैवमसंभवः; अचेतनेषु परातिशयैकप्रयोजनत्वदर्शनात् । यद्यपि चेतनः स्वारस्येन स्वप्रयोजनमेव परमप्रयोजनं मन्यते-तथाऽपि न लक्षणस्य हानिः, जन्मक्रियाद्यभिज्ञैर्मध्य-स्थैः परातिशयनिष्पादनैकप्रयोजनतया प्रतिपत्तुं शक्यत्वात् । इच्छास्वीकारौ यथासम्भवमिति ह्युक्तम् । तथा प्रति-

पत्तियोग्यत्वमनिष्टमप्यवर्जनीयं स्वयमपि भृत्यो जानाति ।

अपि च परातिशयस्य परमप्रयोजनत्वावगतिः स्वरसतश्चेतनस्यापि संभवति; प्रकृष्टकृपास्नेहान्वितेषु तद्दशर्नात् । दया हि स्वार्थनिरपेक्षा परदुःखासहिष्णुता । अत्रानुकूलेतरजनः पर इति विवक्षितः । अर्थादिकामनया परदुःखं शिशमयिषोस्तद्दुःखानुवृत्तिरनिष्टा स्यादिति तद्वयुदासाय स्वार्थानपेक्षशब्दः । यद्यपि कृपया परं रक्षतः शास्त्रसिद्ध-मदृष्टम्, तथाप्यदृष्टाभिसन्धिविरहितस्यैव परदुःखदर्शनानन्तरमवशाश्रुपातादिमत्त्वदर्शनात् तद्रक्षणदशायामप्यदृ-ष्टाभिसन्धिराहित्यदर्शनाच्च स्वार्थानपेक्षता युक्ता । परदुःखदर्शनजनिततादात्विकस्वदुःखनिवृत्तिरूपफलात् तत्प्रवृ-त्तिरिति न स्वार्थानपेक्षत्वमिति चेत्-ईदृशं स्वार्थत्वं शेषस्याप्यस्ति । तद्धि स्वार्थानपेक्षत्वं न विहन्ति; किन्तु तद-नुकूलमेव । परदुःखज्ञानरूपदुःखनिवृतिं्त पराभ्युदयज्ञानरूपप्रीतिमत्त्वं च विना स्वार्थानपेक्षत्वस्य विवक्षितत्वात् । तथा मित्रादिषु स्नेहप्रकर्षाच्च स्वार्थानपेक्षा प्रवृत्तिर्बन्धुद्रविणयशोधर्महानिकरी प्राणव्ययकरी च दृश्यते । संबन्धवि-शेषान्वितेषु प्रीतिः स्नेहः, यस्य विपाकाः अस्थानभयशङ्कित्वं दोषानवभासः दोषेऽपि गुणबुद्धिरित्यादयः । स्निग्धश्च जनः स्वसत्तानामपेक्ष्य पुत्रादिदुःखनिवृत्त्यर्थं प्रवर्त्तमानो दृश्यते । तच्च तद्गतदुःखासहत्वकृतम् । यस्य दुःखातिशय-दर्शनं स्वसत्तानपेक्षतामापादयेत्, स च निरतिशयप्रीतिविषयः; परानर्थनिमित्ताप्रीतितारतम्यस्य तद्विषयप्रीतितार-तम्यनिबन्धनत्वात् । यश्च निरतिशयप्रियः, तदभ्युदयोऽपि निरतिशयप्रियः । तत्प्रीतितारतम्यस्य तत्सबन्धिप्रीति-तारम्यहेतुत्वात् । तदभ्युदयश्च परमप्रयोजनं भवति; स्वप्रीतिहेतुभूतस्वगतार्थान्तरसाधनत्वनैरपेक्ष्येण स्वेच्छाविष-यत्वात् । अतः कृपया स्नेहेन वा परदुःखासहिष्णुत्वदर्शनात् परप्रयोजनस्य परमप्रयोजनत्वं सिद्धमिति न शेषल-क्षणस्यासंभवः । न च परमप्रयोजनरूपपरातिशयाधायकत्वस्य मित्रादिष्वपि संभवात् लक्षणस्यातिव्याप्तिः शङ्कनीया; तेषां परातिशयैकप्रयोजनत्वनियमाभावात् । तद्धि तेषामाकारविशेषोपहितरूपेण वा यावज्जीवं वा पुरुषविशेषं प्रति न नियतम् । पुरुषभेदेनाप्यनियतञ्च । भृत्येषु तु तन्नियतम्; शेषिविशेषनियमाभावेऽपि यं कञ्चित्प्रति पारार्थ्यं भृत्यादे-र्यावदात्मभावीति । यदीदृक्तवं न दृश्यते, तेषां न भृत्यत्वम् । यद्वा यद्यपि गर्भदासादयः स्वेषां परार्थैकप्रयोजनत्व-मजानन्तः शेषिण्यतिशयाधानमपि स्वार्थं मन्यन्ते-तथापि स्थूलोऽहमित्यात्मनो देहाद्यभिन्नत्वबुद्धिवत् सा भ्रान्ति-रिति न लक्षणाव्याप्तिः, स्वार्थत्वबुद्धेरात्मस्थूलत्वधिय इव प्रमाणबाधितत्वात् । न च स्वार्थत्वभ्रान्तिमात्रेण पारा-र्थ्यहानिः । न ह्यात्मनः स्थूलोऽहमिति भ्रान्त्या देहवैलक्षण्यहानिः । एवं चिचितोरपि स्वातन्त्र्यबुद्धेः श्रुतिबाधित्वान्न लक्षणाव्याप्तिः । न खलु व्रीह्यादीनां यागीयत्वाज्ञानेऽपि यागशेषत्वहानिः ।

स्वातन्त्र्#ाभिमानवतः परमप्रयोजनरूपं परगतातिशयं नियमेनानादधतः कथं लक्षणवत्त्वमिति चेत्-न; एतद-बुद्धया तथात्वानवगमेऽपि वस्तुतः परमात्मलीलोपकरणतया परमात्मनि लीलारसरूपातिशयस्य नियमेन सिद्धेः । तत्त्वज्ञैरीश्वरपरिकरत्वेन नियमेन ज्ञायमानत्वं चास्य किञ्चित्कारः । तेन एतत्परिकरवत्तया ज्ञायमानत्वरूपातिशयः परस्य सिध्येत् । तदुक्तं नीतिविद्भिः, "मनागुपकारिल सर्वस्यास्त्वेव; तत्परिकरत्वेन ज्ञायमानत्वात्" इति । शेष-भूतवस्त्वाहितलीलारसाद्यतिशयभाक्तवं न परमात्मनोऽवाप्तसमस्तकामत्वविरोधि । इच्छायां सत्यामभिमतविनि-योगानुगुणपरिकरसंपत्तिर्ह्यवाप्तसमस्तमाकत्वम् । यथाऽऽह भगवान् भाष्यकारो वेदान्तसारे, "अस्याऽऽत्मतृ-प्तस्यावाप्तसमस्तकामत्वं हि सदाऽभिमतसकलभोगोपकरणसद्भावः" इति । अतो यथोक्तशेषलक्षणमुपपन्नम् ।

एवमस्मदुक्तं शेषलक्षणमङ्गीकृत्य कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वमिति परैर्वर्क्तुं न शक्यते ; विकल्पासहत्वात् । किं त्वया द्वारशेषित्वं कृत्युद्देश्यत्वमभिमतम्, उत परनशेषित्वम् । प्रथमे भावार्थस्यापि कृतिशेषित्वं स्यात्; तस्य कृतिसाध्यत्वात् । द्वितीये स्वर्गस्य कृतिं प्रति शेषित्वं स्यात्; कृतिसाध्यापूर्वस्यापि स्वर्गसाधनत्वात् । अतः कृति-

शेषित्वरूपं कृत्युद्देश्यत्वं फलभावार्थ विलक्षणाकारेण न सिध्यति ।

अथ कृतिप्रयोजनत्वं कृत्युद्देश्यत्वमिति पक्षं दूषयति नापीति । न हि कृतिर्नाम चेतयमाना काचित् प्रयोजनवती । तस्मात् कृतिप्रयोजनं नाम कृतिमत्पुरुषप्रयोजनमित्यर्थः । ततः किमित्यपेक्षायां तच्चेष्टत्वे पर्यवस्यतीत्याह स चेति । कृतिसाध्यताकृतिप्रधानत्वरूपं कार्यं दुर्निरूपमेवेति । कृतिप्रधानत्वशब्देन स्वेदादिव्यावृत्तिः । कृतिसाध्यताशब्देन आत्मव्यावृत्तिः; तस्य हि कृतिशेषित्वमस्ति । विशिष्टस्य लक्षणत्वात् तत्र विशेष्ये दुर्निरूपे सति विशिष्टमेवासिद्ध-मित्यर्थः । एवं तृतीयाकाररूपं प्रयोजनत्वं दूषितम् ।

अथ स्वतइष्टत्वरूपं प्रयोजनत्वं तत्प्रयुक्तकृतिसाध्यत्वं च दूषयति नियोगस्यापीति । इषिः-इच्छा । अत्रेच्छावि-षयभूतार्थान्तरसाधनत्वविरहेणेष्टत्वं स्वतइष्टत्वं विवक्षितम् । तत् सुखस्य दुःखनिवृत्तेश्च समानम् । स्वत इष्टत्वं स्वत इष्टत्वप्रयुक्तकृतिसाध्यत्वञ्च तयोरेव । तस्मात् स्वतइष्टत्वतत्प्रयुक्तकृतिसाध्यत्वे तत्साधनतयेष्टस्य नियोगस्य च सिध्यत इत्यर्थः । साधनतयेष्टत्वमुपपादयति अत एव हीति । साधनत्वेन सिद्धयनङ्गाकारे धात्वर्थ एव कार्यं स्यादित्याह अन्यथेति । एतद्विवृणोति स्वर्गकामेति । अत इति । स्वर्गकामपदान्वयात्पूर्वं धात्वर्थमात्रस्यैव कार्यताप्रतिपत्तेः, तदन्वये तत्साधनतयैव प्रतिपत्तेश्चेत्यर्थः । प्रथममनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्याथर्त्वनिर्वहणायापूर्वमेव पश्चात् स्वर्गसाधनत्वं भवतीति । अयमर्थः-यथा स्वप्राधान्यनिर्वहणाय अनुजीविनामभिमतं प्रभुः प्रददाति, तद्वत् अपूर्वमपि स्वयं प्रधानतया प्रतिपन्नं स्वप्राधान्यनिर्वहणाय स्वं साधयतः पुरुषस्य स्वर्गं ददातीति । यथा पञ्चिका-याम्, "आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत् स्वर्गादिकमपि प्रधानं कार्यमेव नः" इति । उपहास्यम्-समीपस्थैरपि हास्यम् । अत इत्युक्तमर्थं विवृणोति स्वर्गकामेति । प्राधान्येन कार्यप्रतिपत्तिः किमेकपदश्रवणवेला-याम्, उत र्स्वगकामपदान्वितवेलायामिति विकल्पमभिप्रेत्य प्रथमे कल्पे दूषणम्, अन्यथा क्रियैव कार्यं स्यादित्य-नेनोक्तं भवति । तस्मिन्नेव पक्षे अभ्युपगमेन दूषणान्तरञ्च-एकपदेन कार्यमनन्यार्थे प्रतिपन्नमस्तु; तथाऽप्यन्विता-भिधानदशायां प्रतिपन्न एवार्थः सम्यगर्थः । अतो नानन्यार्थत्वमिति । द्वितीयकल्पे दूषणमुच्यते स्वर्गकामपदा-न्वितेति । स्वर्गकामपदान्वितलिङादिना तत्साधनतयैवाभिधानात् प्रथममनन्यार्थतया प्रतिपन्नमिति न वक्तुं युक्त-मित्यर्थः । व्युत्पत्तिदशायामपूर्वस्य साधनतया व्युत्पत्तिः; अभिधानदशायां तु अनन्यार्थं स्थायि कायर्मित्येव प्रतीयत इति शङ्कायाम्, अपूर्वव्युत्पत्तिमतोऽपि पुरुषस्य एकपदश्रवणवेलायामनन्यार्थत्वप्रतीत्यनुपपत्तिमाह सुखेति । "न निर्विशेषं सामान्यम्" इति न्यायात् साध्यमिति सामान्येनाभिधीयमानमपि विशेषनिष्ठतया प्रतीयते । सुखं दुःखनि-वृत्तिस्तत्साधनं वा त्रीण्येव कृतिसाध्यानि । तस्मादेषु त्रिष्वन्यतमेन साध्येन भवितव्यम् । तत्र सुखत्वदुःखनिवृत्ति-त्वायोगात् तत्साधनतयैव साध्यमिति प्रतीयते । कृतिर्हि त्रिष्वन्यतममेव गोचरयति; तथा दर्शनात् । दर्शनानुरोधेन चाभ्युपगन्तव्यम् । कृतेः क्रियातिरिक्तगोचरत्वादर्शनेन हि कृत्यपूर्वयोर्घटकत्वेन भावार्थो निवेशितः । तस्मात् त्रिष्व-न्यतमत्वाभावे, साध्यमिति प्रतीतिरेव न स्यादित्यर्थः । किञ्च अन्विताभिधानवादिना स्वर्गकामपदान्वित एव लिङादिः कार्यमभिदधातीति वक्तव्यम् । तदानीं तत्संनिधानबलेन तत्साधनतयैव प्रतीतिः स्यादिति नानन्यार्थतया प्रतिपत्तिरिति । सुखेत्यादेरेवं वाऽर्थः-सुखदुःखनिवृत्त्यन्यत्वात् स्वत इष्टतया कृतिसाध्यत्वमयुक्तम् । तत्साधना-दन्यतया परस्परयेष्टत्वेन कृतिसाध्यत्वमप्ययुक्तमिति ।

पूर्वं तृतीयाकाररूपं प्रयोजनत्वं निरस्तम्; अथ स्वतइष्टत्वरूपं प्रयोजनत्वञ्च सुखदुःखनिवृत्त्यन्यत्वान्निरस्तम्; इदानीं स्वतइष्टत्वसिद्धये अनन्यार्थत्वद्रढिम्ने च सम्भावनीयं सुखरूपप्रयोजनत्वं दूषयितुमुपक्रमते अपि चेति । किमिदं नियोगस्य प्रयोजनत्वमिति । किं-क्षेपे । शङ्कते सुखवदिति । अनुकूलत्वं सुखेतरस्यानुपपन्नं मन्यमानः पृच्छति-

किमिति । अभिप्रेतं विवृणोति सुखमेव हीति । पुनः शङ्कते सुखविशेषवदिति । नियोगापरपर्यायम् पर्यायशब्द-बाहुल्यसंभवादपरशब्दः । सुखान्तरमिति । यथा भौमसुखाद्विलक्षणं स्वर्गादिसुखं संभाव्यते, तथा ततोऽपि विलक्षणं सुखान्तरमिदमित्यर्थः । प्रमाणाभावं वक्तुमाह किं तत्रेति । चन्दनादिसुखं हि स्वानुभवसिद्धम् । अतः स्वानुभवः लौकिकवाक्यं वेदे च काम्यविधिवाक्यं नित्यनैमित्तिकवाक्यम् अर्थवादाश्च यथाक्रमं नियोगस्य सुखरूपतां प्रति प्रमाणानि न भवन्तीत्युच्यते स्वानुभवश्चेदित्यादिना । तस्य दुःखात्मकक्रियाविषयत्वात् तेन सुखादिसाधन-तयैव कृतिसाध्यतामात्रप्रतिपादनादिति । दुःखात्मकस्य सुखादिसाधनभूतधात्वर्थमात्रस्य कर्तव्यताप्रतिपादना-दित्यर्थः । नियतैडिकफलस्येत्यादिना योग्यानुपलब्धिरुच्यते । नियतैहिकफलस्य कर्मणः-अप्रस्तुतप्रतिबन्धस्य कर्मण इत्यर्थः । अनेन अन्त्येष्टिसापेक्षपरमापूर्वव्यावृत्तिः ।

अथ कृतिसाध्यत्वं दूषयति - अतो विधिवाक्येष्वपीति । किं व्युत्पत्तिसिद्धत्वात् धात्वर्थातिरिक्तार्थः स्वीक्रियते, उत पुरुषार्थतासिद्धयर्थम्, उत सुखसाधनत्वलक्षणव्यवहितपुरुषार्थत्वसिद्धयर्थमिति विकल्पं हृदि निधाय प्रथम-द्वितीयकल्पयोरुत्तरमाह अत इति । अयमर्थः-उक्तप्रकारेण धात्वार्थातिरिक्ते व्युत्पत्त्यभावात् तथाविधस्य स्वतः पुरुषार्थत्वाभावाच्चेति । कर्तृव्यापारः-प्रयत्नः । शब्दशास्त्रस्वारस्यमप्यस्मत्पक्षे विद्यत इत्याह शब्दानुशासनसिद्ध-मेवेति । साधनत्वसिद्ध्यर्थं क्रियातिरिक्तार्थस्वीकार इत्यत्राह धात्वर्थस्य चेति । "यज देवपूजादौ" इति हि धातुरिति भावः ।

प्रकृतब्रह्मविचारारम्भहेतुः सिद्ध इत्याह अत इति । सिद्धवस्तुनि बुद्धिपूवर्कं यदृच्छया च आद्यव्युत्पत्तिसंभवात्, अन्यथाऽपि विधिशेषतया सिद्धेश्चेत्यर्थः । अथ विशेषणांशासिदिं्ध परिहरति चातुर्मास्यादित्यादिना । कर्मणामा-वृत्तिविधानाच्च क्षयिफलत्वमवगतमिति सिद्धमित्यनुसंधेयम् । "तद्यथेह कर्मचितो लोकः क्षीयते" इत्यादिवाक्यमभि-प्रेत्याह क्षयिफलत्वोपदेशादिति । अक्षयफलश्रवणनिर्वाहमाह वायुश्चेति । न हि चातुर्मास्यादिवाक्येषु अक्षयफल-श्रवणमर्थवादोक्तत्वात् त्यज्यते; अपि तु कमर्णामावृत्तिविधानात् क्षयिफलत्वोपदेशाच्च । तस्मात् कमर्णां क्षयिफल-त्वनिर्णयसिद्धिः । अतो हेतौ विशेषणांशः सिद्धः ।

अधिकरणार्थमुपसंहरति अत इति । अस्याधिकरणस्य ब्रह्ममीमांसा विषयः; सा किम् आरम्भणीया, उत नेति संशयः; सिद्धवस्तुनि शब्वव्युत्पत्तिर्नास्तीति विचारः; अस्तीति निश्चयः; आरम्भः प्रयोजनम् इत्यधिकरणाङ्गपञ्च-कम् । यथाऽऽहुः, "विषयः संशयश्चैव विचारो निर्णयस्तथा । प्रयोजनेन सहितमेतत् स्यादङ्गपञ्चकम्" इति । परीक्ष्य लोकान् इत्यादिवाक्यं प्रथमसूत्रस्थन्यायसिद्धानुवादपूर्वकं गुरूपसदननियमविधिपरम्; गुरुमेवाभिगच्छेदित्युक्त-त्वात् । रागतः प्रवृत्तौ सत्यां विधेयाभावादस्य सूत्रस्य वाक्यत्वं न घटते; उद्देश्योपादेयविभागवद्धि वाक्यम्; विधेयं ह्युपादेयम् इति न वाच्यम्; अज्ञातज्ञापकत्वात् । प्रागज्ञात वाक्यज्ञाप्यं ह्युपादेयम् । रागतो ब्रह्मविचारे प्रवृत्तस्यापि सिद्धवस्तुनि व्युत्पत्तिर्नास्तीति वाक्येन अनारम्भणीयत्वं ज्ञायते । तं प्रति, सिद्धवस्तुनि व्युत्पत्तिसंभवादारम्भणी-यत्वज्ञापनमज्ञातज्ञापनमेवेत्युद्देश्योपादेयविभागवत्त्वं सूत्रस्य । अत्र हि रागतः प्रवृत्तिमतः पूर्वपक्षहेतुना निवृत्तौ प्रसक्तायामप्रतिपन्नस्तत्तत्परिहारो विधीयते ।।

इति जिज्ञासाधिकरणम् ।।

1.1.2

अथ शास्त्रकाण्डद्विकाध्यायपादपेटिकाधिकरणरूपसम्बन्धिभेदेन सप्तविधासु सङ्गतिषु सङ्गत्यन्तराणां स्पष्टत्वादधिकरणसङ्गतिमाह - किम्पुनरिति । शास्त्रसङ्गतिर्हि वेदार्थविचाररूपतया स्पष्टतरा, वेदान्तार्थविचार-रूपत्वात्काण्डसङ्गतिः, कारणविषयत्वाद्द्विकसङ्गतिः, कारणविषयवाक्यतर्करूपत्वादध्यायसङ्गतिः, अयोगव्य-वच्छेदविश्रान्तेः पादसङ्गतिः, शास्त्रारम्भार्थत्वात्पेटिकासङ्गतिः, अतोऽवान्तरसङ्गतिः निंपुनरित्यादिभाष्येणो- च्यते । जिज्ञास्यम्-विचार्यम्, सकलेतरपुरुषार्थतत्साधनपरित्यागपूर्वकं प्राप्यत्वेनोपायत्वेन च यत् जिज्ञास्यमुक्त-मित्यर्थः । प्राप्यतया प्रापकतया च हि ब्रह्म आपाततः प्रतिपन्नम्, अनेन जिज्ञास्यमिति पदेन प्रणववेदप्राधाना-द्यौपचारिकार्वाचीनब्रह्मशब्दार्थव्यावृत्तिः, तच्च व्यावतर्कस्य लक्षणस्य वक्तव्यतयापि हि सिध्यति । ब्रह्मशब्दवाच्यं स्वरूपेण गुणैश्च निरतिशयहवृत्वयोगि, "बृहति बृहयति" "बृहत्वाद्बृंहणत्वाच्च ब्रह्मेति परिपठ्यते" इति श्रुति-स्मृतिनिर्वचनात् । तत्र "ब्राह्मणो वै सर्वा देवताः" नकिरिन्द्रत्वदुत्तर" अग्निस्सर्वा देवताः "एक एव रुद्रः" सोमः- पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेजर्निता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः" "आपो वा इदं सर्वम्" इत्यादिभिर्ब्राह्मणाग्नीन्द्रादीनामपि समाभ्यधिकरहितहतत्वप्रतीत्तेरर्थतत्त्वं व्याकुलम्, अत-स्तेषु तापत्रयातुरजिज्ञास्यं तत् ब्रह्म किंलक्षणकमित्यर्थः । सर्वेषां समाभ्यधिकराहित्ये प्रतीतेऽपि तद्वयाहतमन्य-परवाक्यावगतं चेत्यनादरणीयम्, तत्त्वप्रधानेषु सृष्टिप्रलयप्रकरणेषु यदेव निरतिशयबृहदुक्तं तदेव जिज्ञास्यमित्य-भिप्रायेणाह "यतो वा इमानी" त्यादिश्रुतिरितीममर्थं हृदि निधाय सूत्रकारेण जनमादिसूत्रं प्रणीतमित्यभिप्रायव- तोक्तं किं पुनस्तद्व्रह्म यज्जिज्ञास्यमुच्यत इति । नहि किं पुनर्ब्रह्मेत्युक्तम् ।

सूत्रमुपादत्ते जन्माद्यस्य यत इति । प्रथमपदं व्याचष्टे जन्मादीति सृष्टिस्थितिप्रलयमिति ।अन्यत् पदद्वयं वाक्याथर्योजनायां व्याख्यास्यते, प्रथमपदव्याख्यानस्य समासाथर्निर्णयार्थं वाक्यान्रसापेक्षत्वेन वाक्यार्थ-योजनायामन्तर्भावयितुमशक्यत्वात्तस्य पृथग्व्याख्यानम् । सृष्टिस्थितिप्रलयमित्यत्र सृष्टिशब्द उत्पत्तिपरः "सृष्टि-स्थित्यन्तकालेषु" "सृष्टिस्थिन्यन्तकरणी, इत्यादिप्रयोगात् । प्रयोज्यप्रयोजकव्यापारवाचिशब्दानां व्यतिकरेण प्रयोगो ब्रह्मण एव निमित्तोपादानत्वाभिप्रायनिबन्धनः । सृष्टिस्थितिप्रलयमिति समाहारार्थे द्वन्द्वः । एकस्मि- न्कार्ये अन्योन्यसापेक्षतया तुल्यनिष्पादकत्वेनान्वय इतरेतरयोगः । यथा दर्शपूर्णमासयोः स्वर्गं प्रति, अत्र समुदि-ताविवक्षा,अयमेव समुदायविवक्षायां समाहारः,तत्कृतमेकवचनत्वं नपुंसकत्वञ्च; अतोऽत्र सृष्टिस्थितिप्रलयमिति समाहारे द्वन्द्वः कृतः, वाक्यार्थंयोजनायां सृष्टिस्थितिप्रलया इति इतरेतयोगद्वन्द्वः कृतः, उभयोरपि फलैक्यात् । जन्मादीतीत्यत्र इतिकरणेन तत्रैकवचने तात्पर्यं गम्यते, तत्र पदार्थयोजनायां सृष्टिस्थितिप्रलयमित्येकवचनान्त- पदेन सौत्रपदस्यैकवचनमनुसृतम् तत्राप्येकवचनं, सृष्टिस्थितिप्रलयानां समुदायो लक्षणम्, न त्वेकैकमिति ज्ञाप-नार्थम् ।

समुदायस्य लक्षणत्वं श्रुतिस्वारस्यादवसीयते "यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति" इत्यत्र हि न प्रतिवाक्यं तद्बह्मेत्युक्तम् ।अन्यथैकतरलक्षणवैयर्थ्यं च स्यात् । न च समदितं लक्षणम्, व्यावर्त्याभावात् । न हि जगदुत्पत्तौ निमितोपादानभूतं स्तित्यादिकारणत्वव्यवच्छेद्यं किमपि वस्त्व- स्तीति चेत् - सत्यम्; व्यवच्छेद्यं नेष्यते । तथापि श्रुत्यनुरोधात्सूत्रकारेणैवमुक्तम् । श्रुतिश्च "तद्विजिज्ञासस्व" इति विधि-त्सितोपासनोपयोगिनिरतिशयवृहत्त्वविपतीतावृहत्त्वशङ्काव्यवच्छेदार्थं समुदायमाह । शङ्कितव्यवच्छे-देनापि हि सप्रयोजनत्वं स्यात्; लक्ष्याकारविपरीतशङ्कानिराकरणेन विना लक्ष्याकारनिश्चयायोगात् । न च जन्मा-दिष्वेकैककारणत्वं लक्ष्याकारविपरीतशङ्कानिराकरणक्षमम् । तथा (दा?)हि - उत्पत्तिकारणत्वेऽभिहितेपि स्थि-

त्यादिकारणत्वं न चेत्, तदनुगुणज्ञानशक्तिविरहात् स्थितिप्रलयकारणभूतवस्त्वन्तर सद्भावाच्च जन्ममात्रकार-णस्य निरतिशयबृहत्त्वं न स्यात् । मुक्तेर्लयान्तर्भावात् मोक्षप्रदतयोपास्यस्यैव प्राप्यत्वाच्च मोक्षप्रदत्वप्राप्यत्वानु-गुणैर्गुणैश्च वृहत्त्वं न सिध्यति । अतो जन्मकारणत्वमात्रस्य समस्तवस्तुव्यवच्छेदक्षमत्वेऽपि जन्मादिसमुदाय-कारणत्वस्यैव निरतिशयवृहत्त्वरौपयिकत्वात् सृष्टिस्थितिप्रलयसमुदायकारणत्वं लक्षणमिति ज्ञापितम् ।

समुदायस्य लक्षणत्वमिहाविवक्षितम् । जन्मादीति बहुव्रींहेरन्यपदार्थप्रधानत्वेन जन्मनोऽन्तर्भूतत्वादि-त्यत्राह - तद्गुणेति । बहुव्रीहिर्द्विविधः, तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च इति । तत्र प्रथमस्योदाहरणं "सर्वा- दीनि सर्वनामानि" लम्बकर्णमानय इत्यादि । द्वितीयस्योदाहरणं चित्रगुमानयेति । तच्छब्देन विशेष्यम्, गुणशब्देन विशेषणं च विवक्षितम् । समित्येकीकारे । विशेषणं विशेष्यञ्च एककार्यान्वितत्वेन सह ज्ञापयतीत्यर्थः । एवमपि बहुव्रीहेर्न्नान्यपदार्थप्रधानत्वभङ्गः, स्वपदवाच्यविशिष्य समुदायस्य तत्समुदायिनो वा अन्यपदार्थतया विवक्षित-त्वोपपत्तेः । समासस्थपदवाच्यस्यापि विशिष्टसमुदायान्तर्गतत्वाकारेण ह्यन्यपदार्थत्वं युज्यते, स्वपदमात्रस्य तेना-कारेण तद्वाचकत्वाभावात् ।

अस्येति व्याख्येयपदोपोदानम् । अचिन्त्येत्यादिना तद्वयाचष्टे । अस्येति पदस्य जगत इत्येतावन्मात्रे (अर्थे?) वक्तव्ये किमर्थो विस्तर इति चेत्- सूत्रकारविवक्षितार्थकथनार्थः । तद्विवक्षा च श्रुतिविवक्षया । श्रुतिवि- वक्षा कथं ज्ञायत इति चेत्-उच्यते । "यतो वा इमानि भूतानि जायन्ते" इत्यत्र भूशब्देन कार्यवर्गेऽभिहितेपि इमा-नीति पदं कार्यवर्गस्य धर्मिग्राहकप्रमाणसिद्धाकारविशेषपरम् । तत्र जगत आभासतापरत्वं ब्रह्मणो जिज्ञास्यतान-पयोगीति वैचित्र्यपरमिमानीतिपदम्, ईदृशकार्यनिष्पादनानुगुणगुणोत्कर्षं ब्रह्मेति ज्ञापनार्थम् । श्रुतिवाक्यस्थेदं-शब्देन निर्दिशतः सूत्रकारस्यापीयमेव विवक्षा । जगतः इमानीतिश्रुतौ बहुवचने सत्यपि सौत्रमेकवचन कृत्स्नस्य भुवनस्यैककार्यताविशेषेणैककर्तृकत्वज्ञापनार्थम्; भूतशब्दस्य देवादिचतुर्विधभूतमात्रपरत्वव्यावर्त्तनेन भुवनक्रिया-योगिकृत्स्नकार्यसमुदायात्मकजगद्विषयत्वज्ञापनार्त्थञ्च । अत एव हि भाष्ये जगत इत्युक्तम् । तत्र कार्यवर्गस्य चिदचिदात्मकत्वत् तत्तत्प्रमाणसिद्धचिदचिद्वैचित्रीमचिन्त्येत्यादिपदद्वयेनाऽऽह ।

ननु गृहाधिकरणे, "गृहं सम्माÐष्ट " इत्यत्र उद्देश्यगतविशेषणे विवक्षाभावादेकवचने तात्पर्याभाव उक्तः । तेन न्यायेन प्रसिद्धवन्निर्देशरूपतया अनुवादरूपस्येदंशब्दस्योद्देश्यविशेषणे तात्पर्याभावे (वेन?)नैवं व्याख्यातव्यम् ।। मैवम्; गृहाधिकरणे ह्युद्देश्यविशेषरमात्रविवक्षा न निषिद्धा ।अपित्वनुवादस्य मूलभूतप्रापक-वाक्योक्तार्थविरुद्धविशेषणे हि तात्पर्याभाव उक्तः । उत्पत्तिवाख्यसिद्धस्य गृहबहुत्वस्य विरुद्धं ह्येकत्वम् । अन्यथा "अष्टवर्षं ब्राह्मरमुपनयीत" इत्यत्राप्यष्टवर्षत्वादिविशेषणे तात्पर्याभावप्रसङ्गात् । अत्र तु प्रापकवाक्येषु जगद्वैचि-त्र्यमेव स्पष्टम् । यद्वा - यत्र प्रयुक्तस्य शब्दस्यार्थाविवक्षायामन्वयानुपपत्त्याऽ#्रनर्थक्यम्, तत्रोद्देश्यविशेषणविवक्षा तत्र तत्राङ्गीकृता । तस्मादेवं व्याख्यातुं युक्तम् ।

तत्राचिदंशवैचित्र्यमाह - अचिन्त्येत्यादिना पदेन । जीवकर्तृकतया चिन्तयितुमशक्यत्वमचिन्त्य- त्वम् । आकाशवाय्वादिभेदेन विविधत्वम् । प्रत्येकं तत्तद्वयष्टिबाहुल्येन विचित्रत्वम् । ईदृशरचनस्येत्यर्थः, अत्र रचना संस्थानम् । अथ चिद्वैचित्र्यमाह - नियतेति । अस्मिन्देशे अस्मिन्काले इदं फलमनेन भोक्तव्यमिति निय- मो ब्रह्मादिपिपीलिकान्तानामविशेषेण भवति । ब्रह्मणोऽपि हि स्वमानपरिमितवर्षशतादधिकं जीवितुम्, अण्डा- न्तरे प्रवेष्टुमण्डाधिपत्यादधिकं फलं भोक्तुञ्चाशक्यम् । एवं चिदचिद्वैचित्रीकथनेन क्षेत्रज्ञमात्रस्य कर्तृत्वानुपपत्तिः सूचिता । तृतीयं पदमुपादत्ते यत इति ।। पूर्वपदस्य श्रुतिविवक्षानुसारेण व्याख्यानं कृतम्; अत्र तु तादृशपदश्रव-

णाभावेऽपि कथमनेकविशेषणोक्तिः? उच्यते; "यतो येन यत्" इति प्रसिद्धवन्निर्द्देशो हि प्रापकवाक्यसापेक्षाः, तत्र प्रापकवाक्येषु जगत्कारणत्वजिज्ञास्यत्वोपयोगियाद्दशविशेषणविशिष्टो यो धर्मिविशेष उक्तः, तादृशविशेष-विशिष्टः स एवात्र श्रुतौ यच्छब्देन विवक्षित इति सूत्रकाराभिप्राय इति कृत्वा तत्तद्विशेषणविशिष्टतद्धर्मि-विशेषपरत्वं सौत्रस्य यतश्शब्दस्योक्तम् । यत इत्यत्र तसिप्रत्ययस्य सार्वविभक्तिकत्वाद्विभकत्यन्तरशङ्का स्यात् । तेन जगज्जन्मादयो यत्र भवन्तीति देशकालादिवदधिकरणत्वेमेव ब्रह्मलक्षणमित्यपि शङ्कितुं शक्यम् । एवं तसि-लोप्येकद्विबहुवचनसाधारणत्वात्कारणवाक्येषु सद्व्रह्माद्यनेकशब्दैरभिधानाच्च कारणानेकत्वशङ्का स्यादिति तदु-भयव्युदासार्थं यस्मादित्युक्तम् । उपायतयोपेयतयापि जिज्ञास्यत्वे कारणत्वे चोपयुक्तानि तत्तत्प्रापकवाक्यसिद्धा-न्येतच्छुतिविवक्षितानि विशेषणानि दर्शयति सर्वेत्यादिना । तिस्त्रा मूर्तयः अंशाः, ब्रह्म अशीति यादवप्रकाश- पक्षः । प्राधनपुरुषयोः कारणत्वं केषाञ्चिन्मतम् । ईदृशन्यूनाधिकतत्त्वव्यवच्छेदार्थम्, "तमीश्वराणां परमं महेश्- वरम्" "स कारणं करणाधिपाधिपः" इत्यादिश्रुत्यनुसारेण सर्वेश्वरादित्युक्तम् । कारणवाक्यशेषभूतशोधकवा-क्यसिद्धं जिज्ञा-स्यत्वोपयोगिनं चिदचिद्वयावर्त्तकाकारमाह निखिलहेयप्रत्यनीकस्वरूपादिति । निखिलशब्दे-नाचिद्गतहेयाः षड्भावविकाराः, चिद्गतहेयाः क्लेशकर्मविपाकाशयाश्च विवक्षिताः । हेयार्हत्वे सति तद्वियुक्तत्वं व्युदस्यते प्रत्यनीकशब्देन । प्रत्यनीकश्चेत्, जगदुपादानत्वं नोपपद्यत इत्यत्राह स्वरूपादिति । अद्वारकहेयस-म्बन्धो व्युदस्तः, न तु सद्वारक इत्यर्थः । हेयप्रत्यनीकत्वे विशेषणांशेऽपि हेयासम्भवः, तत्सम्बन्धविरोधि- त्वात् स्वप्रतिकूलोत्पाद-कत्वायोगाच्चेत्यत्राह सत्यसङ्कल्पादिति । स्वसङ्कल्पानुरूपं हेयसम्बन्धं संश्रितेषु तद्वि- योगं च कर्त्तुं समर्थः । न च हेयं सवर्मीश्वरापेक्षया हेयम्, तत्सङ्कल्पनिवत्र्त्यत्वेन तल्लीलारसावहत्वादिति भावः । सत्यसङ्कल्पत्वं हेयप्रत्य-नीकत्वोपपादकं कारणत्वजिज्ञास्यत्वोपयोगि च । हेयप्रत्यनीकात् सत्यसङ्कल्पादिति पदद्वयेन "अपहतपाप्मे"-त्यादिवाक्यं स्मारितम् । जिज्ञास्यत्वोपयोगिनी धर्मिस्वरूपस्य कल्याणतामाह ज्ञानेति आनन्दत्वं स्वानुकूलत्वम् । आदिशब्देन सत्यत्वमानन्त्यं च विवक्षितम् । हेयप्रत्यनीकत्वं पूर्वमुक्तम् । ज्ञानान- न्देति भावप्रदाननिर्देशः ।"द्वयेकयोर्द्विवचनैकवचने" इतिवत् । ज्ञानत्वानन्दत्वसत्यत्वानि न प्रादेशिकानीति अनन्तशब्दार्थः । आदिशब्दे-नानन्त्यस्य गृहीतत्वेऽपि सर्वव्यापित्वस्य कालानन्त्यकथनं नित्यत्वस्य सार्वत्रि-कत्वकथनं सर्ववस्तुसामानाधि-करण्यार्हत्वस्य च नित्यत्वकृत्स्नप्रदेशवृत्तित्वकथनं ह्यविरुद्धम् । कल्याणत्वमन्ये-षामनुभवितृणामप्यनुकूलत्वम् । ज्ञानत्वादयः कल्याणगुणा यस्य तस्मादित्यर्थः । यथा प्रभाश्रये दीपे प्रभां विना आश्रयांशस्यैव चतुरङ्गुलत्वरूप(स्पशर्?)वत्त्वोज्जलत्वगुणाः तथा ब्रह्मणोऽपि ज्ञानत्वानन्दत्वसदे#ैकरूपत्वानि स्वरूपस्य गुणाः । धर्मिणो धर्मस्य च ज्ञानत्वे व्यक्तिभेदादविरोधः; धर्मधÐम्मणोः साधारणाकारो ज्ञात्वानन्द-त्वादिः । यथा नरस्यैव सतो राज्ञो नराः परिकरा इत्युक्ते व्यक्तिभेदादविरोधः; नरत्वं चोभयसाधारणाकारः- तद्वत् । धर्मभूतज्ञानवत्तामाह सर्वज्ञादिति । सर्वज्ञत्वं निमित्तत्वोपयोगि । सर्वशक्तित्वमुपादानत्वोपयोगि । अनेन चिदचिच्छरीरकत्वमप्यभिप्रेतं भवति; अन्यथोपादानत्वायोगात् । किञ्च सर्वज्ञत्वम् उपासकापेक्षिततत्प्रतिबन्ध-तन्निरसनप्रकारज्ञनोपयोगि; सर्वशक्तित्वं तद्विरोधिनिरसनोपयोगि; परमकारुणिकत्वं च जिज्ञास्यत्वकारण-त्वोपयोगि; प्रलयदशायामसत्कल्पं चेतनजातं निरीक्ष्य दयया हि सृष्टिः । संश्रितसौंलभ्यं च दययैव; यथा "माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणः" इति । ईदृशेश्वर उपायभूतः, उपेयमन्यदित्यत्राह परस्मादिति । अत्र माता पितेत्यनुसन्धेयम् । देवताविशेषनिर्णयार्थमाह पुंस इति । कारणवाक्येषु "छागो वा मन्त्रवर्णात्" इति सूत्रन्यायात्सद्व्रंह्मात्मादिसामा-न्यशब्दानां पुरुषनारायणादिविशेषपर्यवसायित्वात्सवर्श्रुतीनां नारायण एव पर्यव-

सानभूमरिति "यतो वा इमानि भूतानि" इत्यादितेर्हृदयमिति सूत्रकारस्य भाव इति भाष्यकाराभिप्रायः । पुंस इत्यनेन कारणभूतस्य वस्तुनस्त्रपाद्विभूतिमत्त्वमपि सूचितम्; पुरुषसूक्ते "त्रिपादस्यामृतं दिवि" इति श्रवणात् । सूत्राथर् इति । अक्षराथस्ता-त्पर्यार्थश्चेत्यर्थः ।

ननु यदीश्वरो लिलक्षयिषितः, तर्हि तदसाधारणसर्वज्ञत्वादिप्रतिपादकसत्यज्ञानादिवाक्यानादरेण

जन्मादिकारणत्वं किमर्थं सूत्रितम् । उच्यते । गुणैः स्वरूपस्य लक्ष्यमाणत्वे तदपेक्षया बहिष्ठाया विभूतेरुपास्या-नन्तर्भावः प्रतीयेत । सर्गादिविषयभूतया तु विभूत्या स्वरूपे लक्ष्यमाणे तन्नियमनधारणाद्यपेक्षितत्वादेव गुणा-नन्तर्भावो न शक्यशङ्कः । अतो गुणानामिव विभूतेश्च जिज्ञास्यान्तर्भावज्ञापनार्थं जन्मादिलक्षणं सूत्रितम् । विभूतेश्च जिज्ञास्यान्तर्भावः उपासात्रैविध्यतत्तुन्यायाभ्यां सेत्स्यति ।। नन्वेवमपि कृत्स्नविभूतेर्जिज्ञास्यान्त- र्भावो न सिध्यति, त्रिपाद्विभूतेर्जन्माद्यस्पृष्टत्वात् ।। मैवम्; तस्याः जन्माद्यस्पृष्टत्वेऽपि "यत्प्रयन्ती"तिप्रलयवा-क्यस्थयच्छब्दनिर्दिष्टे मुक्तप्राप्ये ब्रह्मण्यन्तर्भावसिद्धेः । तथाहि - प्रयन्तीत्येतदविशेषणाऽत्यन्तिकलयरूपं मोक्ष- मपि प्रतिपादयतीति यच्छब्देन मुक्तप्राप्यतयापि ब्रह्म निर्दिष्टं भवति । प्राप्याकारविशिष्टं च ब्रह्म प्रमाणान्तरसिद्व-मिहानूद्यते । प्रमाणान्तराणि च विभूतिद्वयविशिष्टम् ब्रह्म प्राप्यं वदन्ति । प्राप्याकास्य चोपास्यत्वं तत्क्रतुन्याय-सिद्धम् । तदेवंलक्षणान्तर्भूतेन लयांशेनोपलक्षितायासित्रिपाद्विभूतेरपि जिज्ञास्यान्तर्भावसिद्धिः सूत्रिता भवति ।

ननु यत इति सूत्रपदस्थायाः पञ्चम्या उपादानार्थत्वात् ब्रह्मोपादानमिति, निमित्तान्तरसद्भावात् "उपा-दानन्तु भगवान्निमित्तं तु महेश्वरः" इत्युक्तव्योमातीतपक्षावकाशः प्रसजेत् ।। नैवम्; यत इति पञ्चम्या हेतुमात्र-विषयत्वात् । हेत्वर्थत्वं च जातिस्थितिलय साधारणत्वादवगम्यते । न तु "जानि कर्तुः प्रकृतिः"इत्यापादान संज्ञा-विधानवत् स्थितिकर्तुः जनिस्थतिलयस्थानस्य च अपादानसंज्ञाविधानं दृश्यते । तस्मादियं हेतौ पञ्चमी । ततश्च निमित्तोपादानयोरुभयोरपि हेतुत्वाविशेषात् यत इति पदेनोभयविधकारणत्वमपि कोडीकृतं भवति । यतो वा इमा-नीत्यादिवाक्ये यत इति पदस्योभयविषयत्वात् सौत्रपदस्याप्युभयविषयत्वोपपत्तेः ।। ननु "यतो वा इमानि" इति वाक्ये यतो येन यदिति यच्छब्दस्यावृत्तत्वात् यत इति पदस्य जनिस्थितिलयसाधारण्यं नास्तीति तत्र यत इति पञ्चमी उपादनमात्रविषया; जायन्त इत्यनेनैवान्वयात् । पञ्चम्यर्थो हि, "जनिकर्त्तुः प्रकृतिः"इत्येव प्रतीयते । किञ्च हेतुमात्रविषयाया अपि सौत्रपदपञ्चम्याः श्रुतिवाक्यस्थपञ्चम्यभिहितोपादानरूपहेतुविशेषे पर्यवसानं स्यात्; सूत्र- स्य श्रुत्यैकार्थ्योपपत्तेः । अतः श्रुतिसूत्रयोरुभयोरपि पञ्चम्या उपादानमात्रविषयत्वात् ब्रह्मोपादानम्,न तु निमित्त-मिति ।। नैवम्; श्रुतौ यत इति पदस्य जनिस्थितिलयसाधारणत्वाभावेऽपि यच्छब्दस्यानुदावरूपत्वादनुवादस्य च प्रापकवाक्यसापेक्षतया तद्विरुद्धाथर्परत्वासम्भवात् प्रापकवाक्येषु च "एकमेवाद्वितीयं तदैक्षत बहु स्यां तत्तेजोऽ-सृजत" इत्युपादानभूतस्यैव ब्रह्मणो निमित्तान्तरं निषिध्य,अहमेव जगद्रूपेण बहु स्यामिति सङ्कल्पमुकत्वा यथा सङ्कल्पं तत्कर्तृकसृष्टेश्च प्रतिपादनात् तदनुवादिनि लक्षणवाक्ये यत इति पदमुभयविषयम् । श्रुत्यनुविधायित्वा-ज्जन्मस्थितिलयसाधारणत्वाच्च सौत्रं च यत इति पदमुभयविषयमेवेति निमित्तान्तरवादो वेदाविरुद्धत्वादनादरणीय एवेति ।। एवं तर्हि प्रकृत्यधिकरणपौनरुकत्यं स्यादिति चेन्न । तत्र हि निमित्तोपादानैक्यस्य श्रुतिप्रतिपाद्यत्वं सम- र्थ्यते । अत्र तु निमित्तोपादानैक्यसिद्धवत्कारेण त(अ)स्योभयविधकारणत्वस्य लक्षणत्वानुपपत्तिः परिहि#ृयत इति वैषम्यात् ।

नन्वीश्वर एव ब्रह्म चेत्, सत्यज्ञानादि लक्षणत्वेन वक्तव्यम् । न तु जन्मादि; ईश्वरस्य सर्वविधकारण-त्वायोगात् । निमित्तकारणमुपादानं चैकमेव हि वेदान्तेषु मतम् । तस्मादीश्ववरादतिरिक्तं ब्रह्माभ्युपगच्छतो भेदा-

भेदवादिनोऽनुकूलमिदं जन्मादिलक्षणकथनम् ।। नैवम्; चिदचिद्विशिष्टतया सत्यसङ्कल्पतया चेश्वरस्यैव बहु स्या-मिति ईक्षणक्षमत्वेन सर्वविधकारणत्वोपपत्तेः । सन्मात्रस्य चिन्मात्रस्य च सत्यसङ्कल्पत्वायोगादीश्वरस्य च ब्रह्मां-शतयाऽध्यस्ततया चाभिमतस्यांशान्तराध्यस्तान्तरसमानाधिकरणशब्दवाच्यत्वायोगाच्च भेदाभेदपक्षे मृषावादि- पक्षे च बहु स्यामिति सङ्कल्पपूवर्ककारणत्वं न घटत इति एतलक्षणं परेषामेवानुपपन्नम् । किञ्च बुभुत्सितस्य लक्षणं वाच्यम् । बुभुत्सितं चोपास्यम् । ईश्वर एवोपास्यः प्राप्यश्च । उपासनं च विशिष्टविषयम्; उपासात्रैविध्य- स्य वक्ष्यमाणत्वात् । प्राप्तिश्च विशिष्टविषया, यथोपासनभावित्वात् तस्याः । जन्मादि चोपास्य लक्षणम्, "तद्-विजिज्ञासस्वेति प्रतिपादनात् । सत्यज्ञानादि तु विशेष्यांशस्य लक्षणम्; न तु विशिष्टस्य । अतो विशिष्ट-स्यैवोपास्यत्वात् जिज्ञास्यब्रह्मलक्षणं जन्माद्येव । यत इत्यस्यानुवादरूपत्वात् विजिज्ञासस्वेति जिज्ञास्यत्ववच- नाच्च जिज्ञास्यत्वोपयोगिशोधकवाक्यार्थश्च यच्छब्दे गर्भितः । तस्मात् यस्मादित्यादिविशेषणान्युक्तानि ।।

अथ जन्मादीनां लक्षणत्वे तत्र जन्मनोऽन्तर्भावे, तत्रापि समदितस्य लक्षणत्वे च किं ते प्रमाणमित्याकाङ्क्षायां सूत्र-कारैर्विषयत्वेनाभिप्रेतां श्रुति दर्शयति भृगुरिति । शास्त्रं प्रणाङ्य्#ा विषयः । "यता वा इमानि" इत्यादिमात्रे उदा-हर्त्तव्येऽपि अर्थवादरूपतात्त्पयर्लिङ्गज्ञापनार्थों प्रकरणस्य ब्रह्मक्रमत्वेनानन्यपरत्व-ज्ञापनार्थं च भृगुर्वां इत्याद्युदाहृतम् । अग्नीन्द्रादिवस्तुषु सर्वोत्कृष्टतया आपातप्रतीतेषु सर्वेषां सर्वोत्कृष्टत्वस्यानु-पपन्नत्वेन तत्त्वस्य दुर्न्निश्चयतया निरतिशयवृहत्त्वाश्रयव्यक्तिविशेषजिज्ञासया हि, "अधीहि भगवो ब्रह्म" इति प्रश्नः । तत्र व्यक्तिविशेषस्य लक्षणमुच्यत, "यतो वा इमानि" इति । यतो येन यदिति यद्वृत्तयोगात् कारत्वमनू- द्यते । तद्व्रह्मेति कारणस्य ब्रह्मत्वं विधीयते । तेन कारणत्वस्य ब्रह्मलक्षणत्वं सिद्धं भवति । तद्विजिज्ञासस्वेति न विचारस्योपासनस्य वा विधिः । विचारात्मकज्ञानं रागप्राप्त्वान्न विधेयम् । उपासनात्मकस्य तु ज्ञानस्य "ब्रह्म-विदाप्नोति" इति प्राकरणिकवाक्यान्तरसिद्धत्वात् उपक्रमे "अधीहि भगवो ब्रह्मे"तिप्रश्नस्य तत्त्वपरत्वेनोपाय-विषयत्वाभावाच्च नोपासनात्मकज्ञानमिह विधेयम् । अतो विजिज्ञासस्वेति उपदिऽयमानार्थे अवधानार्थं सन्देह-निवृत्त्यर्थं वोक्तम्, या गन्धवती तां पृथिवी विद्धी"इतिवत् । अतः कारणत्वस्य ब्रह्मलक्षणत्वमेवास्य वाक्यस्य विधेयम् । यथा -यत्र सारसः स देवदत्तकेदार इत्युक्ते सारससम्बन्धस्य देवदत्तकेदारलक्षणत्वमुक्तं स्यात्, तद्वत् । देवदत्तकेदारो बुभुत्सितो धीस्थः सारससम्बन्धश्च दृष्टः । तस्य देवदत्तकेदारलक्षणत्वं ह्यज्ञातम् । अतस्तदेव वाक्य-स्य विधेयम् । एवं निरतिशयवृहत्त्वं बहुष्वर्थेष्वापाततः प्रतीतम् । कारणत्वं च प्रापकवाक्यावगतम् । तस्य निरति-शयबृडहद्वस्तुलक्षणत्वमनवगतमिति तदत्र विधेयम् । लक्षणस्य च सजातीयविजातीयव्यावर्त्तनस्वभावत्वादन्येषां निरतिशयवृहत्त्वशङ्काव्युदासः फलितः । अतो नारायणादिविशेषशब्दवाच्यवस्तुविशेषस्यैव निरतिशयवृहत्त्वसिद्धिः । अत एव हि परस्मात्पुंस इत्युक्तम् ।

प्रापकवाक्यैरेव कारणभूतवस्तुविशेषस्य निरतिशयवृहत्त्वं ज्ञायत इति किमनेन लक्षणवाक्येन? सति चेत् -न; अग्न्यादीनामपि कर्मभागवाक्यैः सर्वोत्कृष्टत्वावगमात् तेषु बृहत्त्वशङ्काव्युदासाय कारणवाक्यानामपि तद्वदन्यपरत्वाभावेन तत्त्वपरत्वज्ञापनपरत्वादस्य वाक्यस्य । अथ श्रुतिरेव लक्षणं प्रतिपादयति चेत्, किं सूत्रेणेति शङ्कायाम्, सूत्रतात्पर्यार्थं विवक्षुः संशयं दर्शयितुं श्रुतिगतहेतुनैव संशयोत्पतिं्त दर्शयति तत्रेति । तत्र-तादृश इत्यर्थः । पूर्वपक्षानुगुणेन विशेषणबहुत्वेन सिद्धान्तानुगुणेनैकवाचनान्तब्रह्मशब्दैक्येन च विशिष्टत्वं संशयहेतुत्वे-नाभिप्रेत्य तत्रेत्युक्तम् । संशयस्वरूपं दर्शयति किमस्मादिति । ब्रह्ममीमांसा किमारम्भणीया, उत न वा इति प्रथमविचारः । तदर्थं वेदान्ता ब्रह्मणि प्रमाणम्, उत नेति द्वितीयविचारश्च चतुरसूत्रीसाधारणः । सिद्धस्वरूपं

ब्रह्म न शास्त्रं प्रतिपादयतीत्याशङ्कयाह ...तच्छास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवत्येव इति समन्वयाधिकरणो-पकमे । तस्याधिकरणस्य शास्त्रारम्भहेतुभूतप्रामाण्यसमर्थनार्थत्ववस्य भाष्यकारैरेव वक्ष्यमाणत्वात् । तथा चाहुः -

"व्युत्पत्त्यभावः प्रतिपत्तिदौस्स्थ्यमन्येन सिद्धत्वमथाफलत्वम् ।

एतानि वै सूत्रतुष्टमेनाऽनारम्भमूलानि निराकृतानि"

इति, अतस्तद्विचारयुगलमत्रार्थसिद्धमित्य-भिप्रत्यैतदधिकरणासाधारणं संशयशरीरं दर्शितं किमस्मादिति । यतो वा इमानीत्यादिवाक्यं ब्रह्म लक्षणतः प्रति-पादयितुं शक्नोति, उत नेति संशयः । तदर्थं संशथ्यते-किं सृष्टयादीनां विशेषणत्वेनोपलक्षणत्वेन च ब्रह्मलक्षणत्वं सम्भवति नेति; तदर्थं विशेषणपक्षे किं विशेषणभेदेन विशेष्यभेदोऽस्ति, नेति; तदर्थं किं विशेषणस्य विशेषणत्वं स्वाश्रय(?)सर्वधर्मव्यावर्त्तकतया, उत विरोधि-धर्मव्यावर्त्तकतयेति । उपलक्षणपक्षे किमाकारान्तरप्रतिपत्तिरस्ति, उत नास्तीति । सर्वधर्मव्यावर्त्तकतया विशेष-णत्वम् ; आकरान्तरप्रतिपत्तिश्च नास्तीतिपूर्वः पक्षः । विरोधिधर्मव्यावर्त्तकतयैव विशेषणत्वम्; आकारान्तरप्रति-पत्तिश्चास्तीति राद्धान्तः । सर्वधर्मव्यावर्तकतया विशेषणत्वे विशेष्यभेदप्रसङ्गेन जन्मादीनां विशेषणत्वायोगात् आकारान्तरप्रतिपत्त्यभावेन चोपलक्षणत्वायोगात् उभयथापि लक्षणत्वासम्भवादितं वाक्यं ब्रह्म लक्षणतः प्रतिपाद-यितुं न शक्तोतीति लक्षणदौस्स्थ्#ेन ब्रह्मणि शास्त्रप्रामाण्याभावात्तद्विचारोऽनारम्भणीय इति पूर्वपक्षे फलितम् । विरोधिधर्मव्यावर्त्तकतयैव विशेषणत्वे विशेष्यभेदाभावाज्जन्मादीनां विशेषणत्वोपपत्तेः आकारान्तरप्रतिपतिसद्-भावादुपलक्षणत्वोपपत्तेश्च उभयथाऽपि लक्षणत्वसम्भवादिदं वाक्यं ब्रह्म लक्षणतः प्रतिपादयितुं शक्तेतीति लक्ष-णसौष्ठवेन ब्रह्मणि शास्त्रप्रामाण्योपपत्तेः तद्विचारस्यारम्भणीयत्वं सिद्धान्ते फलितम् ।

तत्र पूर्वपक्षमुपपादयितुं प्रतिजानीते न शक्यमिति । जन्मादीनां ब्रह्मलक्षणत्वं किं विशेषणतया? उतो-पलक्षणतया? इति विकल्पमभिप्रेत्य प्रथमं दूषयति न तावदिति । कथं विशेषणत्वेन न लक्षयन्तीत्यत्राह अने- केति । अनेकत्वप्रसक्तिर्व्यावर्त्तकत्वं वा कथमित्यत्राह विशेषणत्वं हीति । विशेष्यतेऽनेनेति निर्वचनानुसारेण भेदकं वि#ेशेषणं भेद्यं विशेष्यमिति प्रसिद्धेः, खण्डो मुण्डः पूर्णशृङ्गः, नीलं शुक्लं पीतम,#् अजो गजो महिष इत्या- दिषु तथा दर्शनाच्चेति भावः । सिद्धान्तिच्छायया चोदयति नन्विति । परिहरति नैवमिति । उपसंहारः-पर्यव- सानम् । अन्यथा-प्रमाणान्तरेणैक्यप्रतीत्यभावे सतीत्यर्थः । तत्रापि-देवदत्तादावपि । पक्षे वैषम्यमाह अत्र त्विति । प्रमाणान्तरेणैक्यमनवगतमिति वदतोऽयं भावः - "एकमेवाद्वितीयम्" इत्यादिभिरपि नैकत्वनिश्चयः, तत्राप्येकत्वादिविशेषणभेदेन बहुत्वापत्तेः । एकमित्यादिपदानाम्; एको व्रीहिः इत्यादिवन्निर्वाहसम्भवाच्चेति । ननु न केवलं प्रमाणान्तरेणैवैक्यप्रतीतिः; शाब्दी च विद्यते । तस्यां सत्यां धर्मिबहुत्वं न स्यात् । अत्र चैकवचना-न्तधर्मिवाचिपदैक्यं विशेष्यैक्यज्ञापकमिति शङ्कते ब्रह्मशब्देति । तद्व्रह्म तद्व्रह्मेति मुहुर्मुहुरुक्तिर्वा, तानि ब्रह्मा- णीति बहुवचनं वा नास्तीति भावः । परिहरति नेति । तत् कथमित्यत्राह अज्ञातेति । एकवचनान्तधर्मिवाचिप- दैक्यं विशेषणबहुत्वाधीनं विशेष्यबहुत्वं न बाधते; खण्डो मुण्डः पूर्णशृङ्गो गौरित्यत्र बहुत्वप्रतीतेः । एकवचना-न्तधर्मिवाचिपदैक्यं स्वतो विशेष्यैक्यप्रतिपादकम्, खण्डादिषु प्रत्यक्षबाधात् बहुत्वप्रतीतिरिति चेन्न; अप्रत्यक्षे- ष्वपि गोषु खण्ड इत्यादिवाक्ये प्रयुक्ते बहुत्वप्रतीतेः । तस्मात् विशेषणबहुत्वं चेत्#ि, विशेष्यभेदापादकमित्यभि-प्रायेणोक्तम् अज्ञातयोव्यक्तेरिति । अज्ञातगोव्यक्तेः-प्रत्यक्षेगणादृश्यमानगोव्यक्तेरित्यर्थः । खण्डो मुण्ड इत्या-दिवाक्यप्रयोगासम्भवव्युदासाय जिज्ञासोरित्युक्तम् । गोसामान्यज्ञाने सत्यदृष्टगोव्यक्तित्वाज्जिज्ञासासम्भवात् प्रयोगसम्भवः ।

सृष्टिस्थितिप्रलयाः किं प्रत्येकलक्षणानि, उत सम्भूयेति विकल्पमभिप्रेत्य प्रत्येकपेक्ष दूषणमुक्तम् ; सम्भू-येतिपक्षे दूषणमाह अत एवेति । अत एव-विशेषणभेदस्य स्वतो विशेष्यभेदापादकत्वादि त्यर्थः ।

उपलक्षणपक्षं दूषयति नापीति । कुत इत्यत्राह आकारान्तरेति । व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति भावः । व्यापकत्वभेवोपपादयति उपलक्षणानामिति । उपलक्षणेनोपलक्ष्यप्रतिपत्तौ उपलक्षणमुपलक्ष्याकारः पूर्व-प्रतिपन्नाकारश्चेत्याकारत्रयमवर्जनीयम्; सम्प्रतिपन्नस्थलेषु तद्दर्शनात् । यथा सारससम्बन्ध उपलक्षणम्; देवदत्त-सम्बन्धित्वमुपलक्ष्यम्; केदारत्वं पूर्वप्रतिपन्नाकारः । अतोऽत्र तृतीयाकारप्रतिपत्त्यभावादुपलक्षणत्वमनुपपन्नमि- त्यर्थः ।। शास्वराग्रे चन्द्र इत्यत्र कथमाकारत्रयमिति चेत्-उच्यते । कालविशेषे देशविशेषसम्बन्धः उपलक्ष्याकारः; शाखाग्रमुपलक्षणम्; शाखाचन्द्रयोश्च ऋजुपशोदेवर्त्तित्वं सम्बन्धः । स च सम्बन्दो वाक्यावगतः । आदित्यादि-व्यावर्त्तकं चन्द्रशब्दबोध्यं चन्द्रसंथानं तृतीयाकारः । केदारत्वाद्याकारः प्रत्यक्षप्रतीतः; चन्द्रत्वं तु पूर्वानुभूतत्वात् धीस्थम् । कुत्र चन्द्र इति बुभुत्सायामेवम् । कश्चन्द्र इति बुभुत्सायां शब्दवाच्यत्वमुपलक्ष्यम्; स्वारसिकेन वा शब्दोत्यापितबुभुत्सामूलेन वा प्रत्यक्षेण प्रतीतो वक्रतादिः पूर्वप्रतिपन्नाकारः, अनेन निर्विशेषवस्तुवादे तू उपलक्षणत्वमपि नोपपद्यते इत्युक्तं भवति । तृतीयाकारप्रतिपत्तिरस्तीति चोदयति ननु चेति । दूषयति नेति । सत्यत्वादयः किं विशेषणतया लक्षणभूताः, उत उपलक्षणया । पूर्वस्मिन् कल्पे दूषणमुक्तम् । अन्यत्र च-आका-रान्तरप्रतिपत्त्यपेक्षायाम् वाक्यान्तरेण चेत्,अनवस्था । स्वेन चेत् आत्माश्रय इति । अतः यतो वा इमानीत्यादि-वाक्येन आकारान्तरप्रतिपत्तिर्वक्तव्या । ततश्चान्योन्याश्रय इति भावः । अत इति । विशेषणत्वोपलक्षणत्वायो-गादित्यर्थः ।।....

सिद्धान्तमवतारयति एवं प्राप्तेऽभिधीयत इति । एवम्-सूत्रकाराभिप्रेतेपूर्वपक्षे प्राप्त; तवाभिप्रेतस्तत्प-रिहार उच्यत इत्यर्थः । ज्ञाप्यबहिर्भूतो ज्ञाप्यप्रतीत्युपाय उपलक्षणम् । ज्ञाप्यान्तर्भूतो ज्ञाप्यप्रतीत्युपायो विशेषणम् । न चैकस्य ज्ञाप्यज्ञपकत्वविरोधः; घटादेरिन्द्रियसंयोगप्रतिसम्बन्धित्वेन ज्ञानोत्पत्तिहेतुत्वस्य विषयत्वस्य च दशर्- नात् । एवं शब्दतो धीस्थतया स्वविशिष्टप्रतीतौ हेतुभूतं विशेषणम्-इति उभयथापि लक्षणत्वोपपतिं्त वक्ष्यन, "एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः" इतिवच्चरमोक्तमुपलक्षणपक्षे बुद्धिस्थतया प्रथममुपपादयितुं प्रतिजा- नीते जगदिति । ननूपलक्षणपक्षे अनुपपत्तिरुक्तेत्यत्राह न चेति । आकारान्तरम्-आकारविशेषः ; स चोपल-णोपलक्ष्याकारातिरिक्त इत्यपुनरुक्तिः । पृथक् तृतीयाकारं दर्शयितुमाकारद्वयं विवक्षन् पूर्वमुपलक्ष्याकारमाह उप-लक्ष्यं हीति । अथर्वशिरसि, "वृहति वृंहयति तस्मादुच्यते परं ब्रह्म" इति । श्रीमति वैष्णवे पुराणे च "वृहत्त्वाद्-वृहणत्वाच्च ब्रह्मेति परिपठ्यते" इत्यादिर्निर्वचनप्रसिद्धिद्योतको हि शब्दः । आकारत्रयपृथकत्वद्योतनार्थाश्चशब्दाः तत्र तत्र ज्ञेयाः । कथं निरतिशयबृहत्त्वबृहणत्वप्रतिपत्तिरित्यत्राह बृहतेरिति । मनिन्प्रत्ययान्तस्य रूढिसहकृतस्य बृहतिधातोस्तदर्थत्वादित्यर्थः । यद्वा ब्रह्मशब्देन बृहत्त्वबृंहणत्वावगतिः कथमित्यत्राह बृहतेरिति । बृहत्त्वस्य स्व-रूपतो गुणतश्च विवक्षितत्वात् बृंहणत्वरूपबृहत्त्वमपि धात्वर्थान्तर्गतमिति भावः । उपलक्षणाकारमाह तदुपलक्ष-णेति । ननु सारसस्य केदारेणेव जन्मादीनां ब्रह्मणा सह सम्बन्धो वक्तव्यः , किञ्च ब्रह्मण उपादानत्वे बाह्यमत इव निमित्तान्तराधिष्ठेयताप्रसङ्गेन सत्यसङ्कल्पत्वादिगुणान्वयलक्षणबृहणत्वासिद्धिश्च स्यादित्येतच्छङ्काद्वयं परि- हरन् तृतीयाकारोपस्थापकं वाक्यं चावतारयति यतो येनेत्यादिना । कुत्र कथं प्रसिद्धिरित्यत्राह प्रसिद्धिश्चेति । तच्च कथमित्यपेक्षायां तत्प्रतिपादनं पदानामन्वयमुखेन दर्शयति तदपीति । तत्-निमित्तोपादानत्वरूपकारणत्वम् ।

उपादानत्वाधिष्ठात्रन्तरनिवार-णयोरुपपादनं कृतं "तदैक्षत बहु स्याम्" "असृजत" इति । रामकृष्णादिरूपेण बहु-भवनव्यावृत्त्यर्थे जगद्रूपेण बहु-भवनमिति दर्शितम्, "तत्तेजो असृजत" इत्यनेन ।अत्र फलितं सम्बन्धमाह - तस्मा-दिति । यथा उपलक्षणेन सारसेनाधिकरणत्वेन सम्बन्धित्वं केदारस्य, यथा चन्द्रदेशस्य शारवायाश्च ऋजुभावः सम्बन्धः, तथा ब्रह्मण उपलक्षणभूतजन्मादिभिर्हेतुमद्भावः सम्बन्ध इत्युक्तं भवति, यथा प्रसिद्धि अनुवादरूप- तया वाक्यस्य । निमि-तान्तरशङ्का चार्थात्परिहृता भवति ।

एवं तृतीयाकारस्याक्षेपकमुपलक्षणसम्बन्धात्मकं निमित्तोपादानरूपकारणत्वमुक्तम् । अथ तदाक्षिप्तं तृतीयाकारमाह जगदिति । यतश्शब्दस्मारितकारणवाक्येषु हि सार्वज्ञ्याद्यवगमः । अतो जगन्निमित्तोपादान-ताक्षिप्तेत्युक्तम् । गुणानामपरिच्छिन्नतया तद्विशिष्टस्य ब्रह्मशब्दवाच्यतायोग्यत्वज्ञापनार्थमाकारबृहत्त्वेनेत्युक्तम् । "यः सर्वज्ञ" इत्यादिवाक्या-वगतसार्वज्ञ्यादीनामुपलक्षणत्वाभावान्नन्योन्याश्रयः । विशेषणबहुत्वं तु न विशेष्य-भेदापादकमिति वक्ष्यत इति न विरोधः । उपलक्षणपक्षानुपपत्तिपरिहारमुपसंहरति इति चेति । इति च- अतश्चे- त्यर्थः ।

उपलक्ष्यं हीत्यादिभाष्यस्यैवं वा योजना -अनवधिकातिशयशब्दे तात्पयर्म् । उपलक्ष्यमनवधिकाति-शयबृहत्त्वं बृंहणत्वं च । निरवधिकबृहत्त्वं च स्वरूपतो गुणतो विभूतितश्चानवधिकबृहत्त्वम् । बृहत्त्वबृंहणत्ववि- शेषः उपलक्ष्य इत्युक्तं भवति । ततश्चोपलक्ष्याकारैकदेशभूतं बृहत्वबृंहणत्वमात्रं पूर्वप्रतिपन्नाकारो भवतीति फलितम् । लोके तथा दर्शनात् । देवदत्तकेदारत्वं ह्युपलक्ष्यम् । न च देवदत्तसम्बन्धित्वमात्रम्, घटपटादिष्वति-प्रसङ्गात् । तदेकदेशभूतकेदारत्वमात्रेण च पूर्वप्रतिपत्तिः । तस्मादुपलक्ष्यमित्यभिप्रायेण ह्यनधिकातिशयबृहद्-बृहणञ्चेत्युक्तम् । बृहत्त्व बृंहणत्वविशेषयोपलक्ष्यत्वात् बृहत्त्वबृहणत्वमात्रं पूर्वपतिपन्नाकार इत्यथर्सिद्धमिति हि शब्देन सूचितम् । कथं तत्प्रतिपत्तिरित्यत्राह बृहतेर्धातोरिति । बृहत्त्वमात्रं पूर्वप्रतिपन्नाकार इत्यध्याहृतेन वाक्येन तदर्थत्वादिति पञ्चम्या अन्वयः । यद्वा न चेत्यादिना पूर्ववाक्येनान्वयः । उपलक्षणाकारमाह - तदुपलक्षणेति । तृतीयाकारमन्यमपि विवक्षः तत्प्रतिपादकं वाक्यमवतारयन्नुपलक्षणस्योपलक्ष्येण सम्बन्धं वदन् निमित्तान्तरशङ्कां च व्युदस्यति यतो येनेत्यादिना । पूर्ववदर्थः । विवक्षितमन्यं तृतीयाकारमाह जगदिति । इदानीं चशब्दः तृतीया-कारान्तरसमुच्चये । यथा केदारत्वं सारसाधिकरणत्वदेवदत्तसम्बन्धित्वोपययोगि, तथा सर्वज्ञत्वादयोऽप्यनवधि-कातिशयबृहत्त्वबृंहणत्वजन्मादिकारणत्वोपयोगिनः ।

अथ विशेषणतया लक्षणत्वमुपपादयति जगज्जन्मादीनामिति । कथं न दोषः; अपवादकप्रमाणाभावे विशेषणभेदस्य विशेष्यभेदावहत्वं दोषत्वेन ह्युक्तमित्यत्राह लक्षणभूतान्यपीति । लक्षणभूतानि-व्यावर्त्तकभूता-नीत्यर्थः । यद्वा लक्षणभूतानां विशेषणानां सजातीयविजातीयव्यावर्तनस्वभावत्वेऽपीत्यर्थः । स्वविरोधिव्या- वृत्तम्-नियतभिन्नाश्रयविशेषणाश्रयाद्व्यावृत्तम्; न त्वविरुद्धविशेषणाश्रयाद्व्यावृत्तमित्यर्थः । अयं ग्रन्थः पक्ष- विषयः । बहुत्वापवादकप्रमाणाभावे सति विशेषणत्वमेव विरोधित्वमित्यत्राह अज्ञातेति । अयं तु सपक्षविषयः । देवदत्तः श्यामो युवेत्वाद्युदाहरणमत्राभिप्रेतम् । अप्रत्यक्षविषयेप्येकवचनान्तधर्मिवाचिपदैक्याद्विशेष्यैक्यं प्रतीयत इत्यर्थः । अत्र विशेष्यैक्यव्यवस्थापकं किमित्यपेक्षायां सपक्षे विशेष्यैक्यमुपपादयति विशेषणानामिति । शब्द-स्वारस्याद्विशेषणानामेकाश्रयान्वयप्रतीतेः अविरुद्धविशेषणानामेकाश्रयवृत्तित्वोपपत्तेरित्यर्थः । अविरुद्धविशेष- णत्वं विशेष्यैक्यव्यवस्थापकमित्युक्तम् भवति । यद्वा अज्ञातस्वरूप इत्यपि ग्रन्थः पक्षविषयः । पूर्वस्मिन् ग्रन्थे विशेषणानां विरुद्धविशेषणाश्रयात् स्वाश्रयभेकत्वमुक्तम् । अप्रत्यक्षत्वे सति भिन्नविशेषणत्वमेव भेदकत्वमित्य-

त्राह अज्ञातेति । तत्राप्यविरुद्धविशेषणभेदो न विशेष्यभेदक इत्यर्थः । कुत इत्यत्राह विशेषणानामिति । देव- दत्तः श्यामो युवा लोहिताक्षः इत्यादावविरुद्धविशेषणानामेकाश्रयत्वदर्शनात् पक्षीकृतेऽप्येकस्मिन्नेव विशेषण-नामन्वयोपपत्तेरित्यर्थः । अविरुद्धविशेषणानां विशेष्यभेदानापादकत्वमुक्तम् ; विपक्षभूतखण्डादिषु बहुत्वनि-यामकमाह खण्डत्वादय-स्त्विति । ततः पक्षस्य वैषम्यमाह - अत्र त्विति । कालभेदेनेत्यस्यायमभिप्रायः-विशेष्यब्रह्मबहुत्वेऽपि जगज्ज-न्मादीनां यौगपद्यव्याघातात् कालभेदेनाविरोध आश्रयणीयः; विशेष्यैक्येऽपि तथैवाविरोध इति ।

अत्रायमर्थोऽनुसन्धेयः,- विशेषणबहुत्वं स्वत एव विशेष्यभेदापादकम्, खण्डो मुण्ड इत्यादिषु दर्श- नात् । देवदत्तः श्यामो युवेत्यादिषु प्रत्यक्षबाधादैक्यप्रतीतिः । तस्मात् प्रत्यक्षागोचरे ब्रह्मणि विशेषणबहुत्वायत्तं विशेष्यबहुत्वमवर्जनीयमिति चेत्-एकवचननान्त धर्मिवाचि पदैक्यस्य स्वतोविशेष्यैक्यपरत्वं देवदत्त श्यामो युव-#ेन्यादिषु दृष्टम् । खण्डा मुण्ड इत्यादिषु प्रत्यक्षबाधात् बहुत्वप्रतीतिः । अतः प्रल्यक्षाऽगोचरे ब्रह्मणि एकवचानन्त धर्मिवाचि पदैक्यात् ए#ोक्यं सिद्धमेव ।। नैवम् । विशेषणभेदायतं विशेष्यबहृत्वं एकवचनान्तधर्मिवाचिपदैक्यं न बाधते, अपि तु प्रत्क्षभेव बाधते, अदृश्यमानगोव्यक्तेः पुरुषस्य खण्डो मुण्ड इत्यादिवाक्यप्रयोगे सत्येकवचना-न्तधर्मिवाचिपदैक्येपि बहुत्वप्रतीतेरिति हि पूर्वपक्षस्थितिः । तत्रोत्तरमुच्यते-अज्ञातेत्यादिना । एकवचनान्तधर्मि-वाचिपदैक्यं बहुत्वं बाधत एव; अदृश्यमानेऽपि देवदत्ते देवदत्तः श्यामो युवेत्यादिवाक्यप्रयोगे विशेषणबहुत्वे सत्यपि विशेष्यैक्यप्रतीतेः । एवं प्रत्यक्षाप्रत्यक्षविभाग विधुरं बहुत्वप्रतीतिरैक्यप्रतीतिश्च भवतः । अत्र तु बहुत्वैकत्वयोः को निर्णायक इति चेत् -नियतभिन्नाश्रयदृष्टविशेषणबहुत्वं विशेष्यैक्यविरोधि, अनियतभिन्नाश्रय दृष्टविशेषणबहुत्वं नैक्यविरोधीति ।।

अथ सत्यज्ञानादीनां लक्षणत्वोपपतिं्त पूर्वोक्तान्योन्याश्रयणपरिहारञ्चाह यतो वा इति । लक्षणवाक्ये-नानेन कारणत्वमेव लक्षणत्वेनोक्तमिति अयस्य कारणवाक्यत्वम् । आदिशब्देन "सदेवेत्यादीनि" कारणत्व-प्रापकवाक्यानि गृह्यन्ते । ननु लक्षणभूतेनैव जन्मादिकारणत्वेन ब्रह्मणः सजातीयविधातीयव्यावृत्तिः सिद्धा; अन्यथा तस्य लक्षणत्वायोगात् । तत् कथं सत्यादिवाक्येन सकलेतरव्यावृत्ताभिधानोक्तिः ।। उच्यते । व्यावृत्ति-र्द्विविधा । व्यकत्यन्तरेष्वसम्भावितधर्मयोगरूपातत्तज्जातीयासाधारणधर्मानन्वयरूपा च । तत्र विलक्षणधर्मयोगे व्यकत्यन्तरेभ्योऽन्यत्वं सिद्धयति; न त्वतज्जातीयत्वम् । तज्जातीयत्वव्यञ्जकधर्मान्वयाधीनतज्जातीयत्वशङ्काया अनवगमात् । तदनन्वये तु तज्जातीयताव्यावृत्तिः सिद्ध्यति । यथा घटस्य संस्थानविशेषेण स्वेतरसमस्तवैलक्ष- ण्ये सिद्धेऽपि पृथिवीत्वव्यवस्थापकगन्धवत्त्वयोगात् पृथिवीजातीयत्वं नापैति, तदयोगादबादिषु तज्जातीयत्वा- पगमः- एवं जगत्कारणत्वरूपविलक्षणधर्मान्वये सत्यपि ब्रह्मणो अचिज्जातीयत्वजीवजातीयत्वशङ्कावतिष्ठत इति तज्जातीयताव्यावृत्तिः सत्यज्ञानादिवाक्येन प्रतिपाद्यत इति तस्य सकलेतरव्यवृत्तस्वरूपबोधकतोक्तिर्युक्तेति ।

कथं व्यावृत्तस्वरूपाभिधानमित्यत्राह तत्रेति । केनापि परिणामविशेषेण तत्तदवस्थस्य सत्ता सोपा-धिकसत्ता, अतो निरुपाधिकसत्ता निर्विकारत्वम् । सत्यपदव्यावर्त्यमाह - तेनेति । कथमित्यत्राह - नामान्तरेति । निरुपपदं सन्यपदामसङ्कोचात् स्वरूपतो धर्मतश्चैकरूपत्वं ज्ञापयतीत्यचित्तत्संसृष्टजीवव्यावृत्तिः । ज्ञानशब्दार्थ- माह ज्ञानपदमिति । इदानीम #्अस्मिन् विषय इत्याद्युपपदरहहितं ज्ञानपदमसङकुचितत्वं नित्यत्वञ्च ज्ञानस्य दर्श-यति । नित्यासङ्कुचितज्ञानत्वमेवाकारो यस्य तत #्नित्यासङ्कुचितज्ञानैकाकारम् । तेन ब्रह्मणः कदाचित् क्कचि-दपि प्रदेशे जडत्वव्यावृत्तिः । नित्यासङ्कुचितज्ञानत्वमद्वारकं धर्मद्वारकं च परमात्मन आकारो भवति । "आत्म-

ज्योतिः सभ्राडिति होवाच", "ब्रह्मणा विपश्चिता", विज्ञातारमरे केन विजानीयात्" इत्यादिभिः स्वरूपस्य धर्मस्य च ज्ञानत्वावगमात् ज्ञानशब्दासङ्कोचेन सद्वारकाद्वारकज्ञानाकारत्वसिद्धिः ।

नन्वस्य ज्ञानशब्दस्य किं प्रवृत्तिनिमित्तम्? विषयावगाहिज्ञानाख्यद्रव्यत्वं चेत् -अपर्यवसानात् ज्ञान-धर्मकत्वमुक्तं स्यात्; न तु ज्ञानस्वरूपता । स्वप्रमाशतारूपं ज्ञानत्वं प्रवृत्तिनिमित्तं चेत-ज्ञानस्वरूपत्वमुक्तं स्यात्; न तु ज्ञानधर्मकत्वम् । ततश्च "तद्गुणसारत्वात् इति सूत्रविरोधश्च । न च गवादिशब्दानां परमात्मपरत्वे गोत्वसंस्थानपिण्डजीवानामिव द्वारद्वारिभावात् ज्ञानाख्यद्रव्यज्ञानत्वगुणयोर्द्वयोरपि प्रवृत्तिनिमित्तत्वं घटते । न हि धर्मभूतज्ञानं स्वरूपभूतज्ञानगतज्ञानत्वगुण समवैति, येन द्वारद्वारिभावः स्यात् ।। धर्मभूतज्ञाने स्वरूपे चानु- गतं ज्ञानत्वमेव प्रवृवित्तिनिमित्तं चेत्-गोशब्देन खण्डमुण्डपिण्डद्वयवत् ज्ञानव्यक्तिद्वयमुक्तं स्यादिति द्वारद्वारि-भावेनानभिधानात्तयोर्ज्ञानयोर्न धर्मधर्मिभावप्रतीतिः, ज्ञानत्वगुणविशेषितज्ञानद्रव्यविशिष्टतया ज्ञानत्वगुणविशि-ष्टतया च स्वरूपस्याभिधाने शब्दस्य युगपद्व्यापारभेदः प्रसजेत् । अतो ज्ञानपदेन स्वरूपतो धर्मतश्च ज्ञाना-कारत्वमात्मनो न सिद्धयेत् ।।

उच्यते, ज्ञानशब्दस्य स्वप्रकाशतारूपं ज्ञानत्वं प्रवृत्तिनिमित्तम् । न च तद्गुणसारत्वादिति सूत्रविरोधः; धर्मभूतज्ञानद्रव्याभिधानेऽपि ज्ञानत्वस्य प्रवृत्तिनिमित्तत्वात् । स्वरूपस्य च ज्ञानत्वं, "प्रकाशवच्चावैयर्थ्यात्" इति सूत्रितम् । न च सद्वारकमद्वारकञ्च स्वरूपस्याभिधानेऽपि शब्दस्य युगपद्व्यापारभेदः; साक्षाद्वा परम्परया वेति विशेषमनपेक्ष्य ज्ञानत्वमात्रस्य प्रवृत्तिनिमिवत्वे सति शब्दशक्तयसङ्कोचात्साक्षात्प्रणाङ्य्#ा च ज्ञानत्वविशिष्टताव-गमेन ज्ञानधर्मकत्वज्ञानस्वरूपत्वसिद्धेः । न च द्वारद्वारिभावेनानभिधानात् खण्डमुण्डव्यक्तयोरिव धर्मधर्मिभावा-सिद्धिः, "आत्मज्योतिः सम्राट्" "ब्रह्मणा विपश्चिता" "अत्रायं पुरुषः स्वयं ज्योतिर्भवति" "एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्त्ता विज्ञानात्मा पुरुषः" इत्यादिभिः परमात्मनो जीवस्य च ज्ञानधर्मकत्वस्य ज्ञान-स्वरूपत्वस्य च सिद्धेः । ज्ञानशब्दस्य चासङ्कोचेन ज्ञानात्मनोर्विशेषणांशे विशेष्यांशे च ज्ञानत्ववैशिष्टयबोधन-सामार्थ्याच्च । यथा सपरिकरो राजा दृष्टः सपरिच्छदं गृहं क्रीतम्, सवत्सा गौः क्रीतेत्यादौ विशेषणांशस्य विश-ष्यांशस्य च दृष्टत्वक्रीतत्वान्वय एकव्यापारेण शब्देन बोध्यते तद्वत् । न च विशेषांशे विशेष्यांशे वा द्रष्टत्व क्रीत-त्वान्वयःआर्थः विशेषणांशविशेष्यांशयोरन्यतरेण विनान्यतरस्य दृष्टत्वक्रीतत्वान्वयप्रतीत्युनुपपत्त्यभावात् । न हि प्रवाहस्य घोषं प्रति वासत्ववत्(घोषप्रतिवासत्ववत्?)विशेषणांशेन विना विशेष्यांशस्य दृष्टत्वक्रीतत्वादि-कमनुपपन्नम् । न च दर्शनक्रयादियोग्यतालक्षणेनाथर्सामर्थ्येन विशेषणांशस्य तदन्वयप्रतीतिः; मण्डपक्षेत्रगोदोह-नादीनां दर्शनक्रयादियोग्यानामपि तदन्वयाप्रतीतेः । तदप्रतीतिश्च बुभुत्सायां सत्यां सन्देहोदयात् सिद्धा । न च समभिव्याहारबलात् विशेषणांशस्य तदन्वयसिद्धिः, धार्मिको राजा दृष्ट इत्यत्र धर्मस्य दृष्टत्वाप्रतीतेः । न हि धमर्श्चक्षुर्विषयः, योग्यत्वे सति समभिव्याहारबलात् तदन्वयसिद्धिरिति चेत्-तर्हि विशेषणांशेऽपि तदन्वयस्य शाब्दत्वमुक्तं स्यात् । न ह्याकाङ्क्षासन्निधियोग्यतान्वयेन प्रतिपन्नत्वं शाब्दत्वं निवारयति ।। ननु सपरिकरो राजा दृष्ट इत्यादिषु विशेषणांशस्य विशेष्यांस्य च शब्देनोपस्थापनात् तत्र विशेषणांशेपि विधि-त्सिताकारान्वय उप- पन्नः; अत्र तु तदभावादुभयत्र विधित्सिताकारान्वयानुपपत्तिरिति ।। नैवम्; ब्रह्मशब्देनैव विशिष्टवस्तूपस्थाप- नात् । तथाहि तद्विजिज्ञासस्वेति मुमुक्षोर्जिज्ञास्यतयोक्तं ब्रह्म तदैक्षतेत्यादीनि वाक्यानि सत्यसङ्कल्पत्वादिविशिष्टं कारणं वदन्ति । तच्छोधनप्रवृत्तसत्यादिवाक्यगतब्रह्मशब्दः सत्यसङ्कल्पत्वादिविशिष्टकारणविशेषयः । बृंहणत्वमपि

हि ब्रह्मशब्दार्थः । तच्च स्वसङ्कल्पेनाचेतनस्य स्थूलपरिणामहेतुत्वम्, चेतनानां "स चानन्त्यायाकल्पते" इत्युक्त-ज्ञानबृहत्त्वहेतुत्वञ्च ।। ततश्च सत्यसङ्कल्पत्वादिविशिष्टार्थोपस्थापकब्रह्मशब्दप्रतिपन्नविशिष्टवस्तुविशेषकत्वात्, ज्ञानपदमसङ्कुचितशक्तितया विशेष्यांशे विशेषणांशे च स्वप्रवृत्तिनिमित्तभूतज्ञानत्वान्वयं प्रतिपादयति । सपरि- करो राजा दृष्ट इत्यादिषु पदान्तरसमभिव्याहृतशब्देन विशिष्टोपस्थापनम्, अत्र तु स्वोपजीव्यवाक्यान्तरस्थनि-र्वचनसापेक्षब्रह्मशब्देनेति भिदा । विशिष्टवस्तुन्युपस्थापिते सति विशेषणांशस्य विशेष्यांशस्य च विधित्सिता-कारान्वयित्वं तुल्यम् । स्वोपजीव्यवाक्यान्तरसापेक्षशब्देन विशिष्टवस्तुनि उपस्थापिते विधित्सिताकारस्योभया-न्वयित्वञ्च दृष्टम्, यथा सानुचरो राजा समागतः, मया च राजा सत्कृत इति; सवत्सा गौः स्थिता, सा च दत्तेति । अतः परमात्मनो ज्ञानशब्देन ज्ञानधर्मकत्वज्ञानस्वरूपत्वाभिधानं युक्तम् । आनन्दादिशब्देष्वप्येष एव न्यायः स्वतः प्रवर्त्तते । प्रमाणान्तरविरोध सति तु निवर्त्तते । अतो यथोक्तार्थ उपपन्नः । अतः साक्षात् प्रणाङ्या च नित्या-सङ्कुचितज्ञानैकाकारत्वं दर्शयता ज्ञानपदेन मुक्तव्यावृत्तिसिद्धिमाह तेनेति । अनन्तपदस्यार्थमाह अनन्तेति । इहेदम्,नान्ययत्रेति परिच्छेत्तुमशक्यत्वं देशापरिच्छेदः । इदमिदानीम्, नान्यदेति परिच्छेदायोग्यत्वं कालपरि- च्छेदः; न तु देशकालाभावौ । एवं वस्त्वपरिच्छेदाऽपि न वस्त्वन्तराभावः; किंतु इदामिदं न भवतीति परिच्छे-दानर्हत्वमेव; सर्ववस्तुसामानाधिकरण्यार्हत्वं वस्त्वपरिच्छेद इति यावत् । ब्रह्मव्यतिरिक्ते भावरूपाज्ञानतत्कार्य-जातेऽङ्गीकृते सति वस्त्वन्तराभावरूपो वस्त्वपरिच्छेदः परस्यानुपपन्नः । सत्यवस्त्वन्तराभावः स इति चेत्- तर्हि स्वनिष्ठवस्त्वन्तराभावः स इत्यभ्युपगमो वरम्; प्रमाणान्तराविरोधात् । सत्यवस्त्वन्तराभावो हि तत्तद्धर्मि-ग्राहकप्रमाणविरुद्धः । गुणतोऽप्यानन्त्यमाह सगुणत्वादिति । गुणानां देशकालपरिच्छेदौ विद्येते न तूक्तलक्षण-वस्तुपरिच्छेदाभावः, स तु स्वरूपस्यैव । यद्वा प्रकारान्तरेण वस्तुपरिच्छेदाभावमाह सगुणत्वादिति । इदमि- यदिति वस्तु स्वभावतः परिच्छेदाभावो वस्त्वपरिच्छेदः; यथा तुल्यकारत्वे (तुल्यकालत्वे) तुल्यपरिमाणत्वेऽपि दशवर्णस्वर्णापेक्षया षड्वर्णस्वर्णं तदपेक्षया कलधौतादि चापकृष्टम् । सोऽपकर्षो वस्तुपरिच्छेदः । तत्तदपेक्षया गुरुत्वोज्जवलत्वपवित्रत्वादिभिर्दशवर्णस्वर्णादिकं प्रकृष्टम् । तस्य प्रकषर्स्य निरतिशयत्वं वस्त्वपरिच्छेदः । ईदृश-वस्त्वपरिच्छेदः स्वरूपस्य गुणानां च युज्यते; तेषामपि हेयप्रत्यनीकत्वादिस्वभावोत्कर्षस्य निरवधिकत्वात् समा-भ्यधिकराहित्यनिदानभूतो गुणैर्निरतिशयप्रकर्षो वस्तुपरिच्छेद इत्युक्तं भवति । सर्ववसुतसामानाधिकरण्यार्हत्वं चास्मिन्नन्तर्गतम् । तद्धि सर्वशरीरकत्वम् । तच्च नियमनधारणशेषित्वकाष्ठेति । अनन्तपदव्यवच्छेद्यमाह तेनेति । सातिशयस्वरूपत्वगुणा इति । स्वरूपमणुत्वात् सातिशयम् । ज्ञानव्यतिरिक्त ऐश्वर्यादिगुणाश्च जगद्व्यापा-रानर्हतया सातिशयाः । ज्ञानं च नित्यं सर्वगतमपि तथात्वस्य परमात्मनित्येच्छाधीनत्वात् सातिशयम् । अपरा-धीनत्वरूपस्यातिशयस्य परस्मिन् विद्यामानत्वात् स्वाभाविकत्वेऽपि गुणानां साति#ायत्वमिति ज्ञापनार्थः स्व- शब्दः । एवं व्यावृत्तिकथनस्य हेतुमाह विशेषणानामिति । अन्योन्याश्रयस्य परिहृतत्वं दर्शयति तत इति । ततः-एवं व्यावृत्तिसिद्धेः । अवगतस्वरूपम्-अवगतासाधारणाकारम् । जन्मादिकारणत्वं ह्यसाधारणाकारः; तत् लक्षणत्वेनावगतमित्यर्थः । वस्तु-विशेष्यस्वरूपम् । ब्रह्मेति वा पाठः । कारणतया लक्षितस्य ब्रह्मणः कार-णत्वाङ्कितदोषव्यावर्तकत्वाच्छोधकवाक्यानां लक्षणवाक्यपूवर्कत्वमन्ति,न तु तस्य शोधकवाक्यपूर्वकत्वमिति नान्योन्याश्रयणमित्यर्थः । सूत्रकारैः सत्यज्ञानादीनां लक्षणत्वेनानुक्तिनिदानं च अनेनैव दर्शितं भवति । विश-ष्यांशस्य लक्षणं सत्यज्ञानादि; न तु विशिष्टस्य । विशिष्टस्यैवोपास्यत्वात्प्राप्यत्वाच्च जिज्ञास्यब्रह्मलक्षणं जन्मा-द्येवेति सूत्रकाराभिप्रायः । जगत्कारणं ब्रह्म जिज्ञास्यमित्युक्तते कारणत्वशङ्कितदोषव्यावर्त्तकतया तच्छेषभूतः

शोधकवाक्यार्थश्चास्मिन् सूत्रे सूत्रकाराभिप्रेतः । जिज्ञास्यत्वानुगुणस्य कारणत्वस्यैव लक्षणतया विनाक्षितत्वात् । स्वरूपेण हेयास्पयस्य जिज्ञास्यत्वानुपपत्या जिज्ञास्यतायाः शोधकवाक्यार्थसापेक्षत्वात् । सत्यज्ञानादिवाक्य-विषयसूत्रान्तराभावात् "प्राज्ञवत्" "प्रकाशवच्च" "प्रकाशादिवच्च" इति सूत्राणां सत्यादिवाक्यं दृष्टान्ततयोपजीव्य अर्थान्तरोपपादनपरत्वाच्च सत्यज्ञानादिवाक्यार्थश्चेहाभिप्रेतः- इत्यभिप्रायेण भाष्यकारैर्निस्विलहेयप्रत्यनीक-स्वरूपादित्यादि विशेषणमुक्तम् ।

अधिकरणार्थमुपसंहरति । अत इति । अतः-जन्मादीनां विशेषणतया उपलक्षणतया च लक्षणत्वोप- पत्तेः । जिज्ञास्यत्वोपयोगिशोधकवाक्यावगताकारविशिष्टमेव कारणवस्तु "यतो वा इमानि" इत्यादिक्ये अर्थ-लब्धमित्यभिप्रायेणाह निरवद्यमिति । सर्वज्ञत्वादिगुणजातं कारणत्वाक्षिप्तं यत इति अत्रानूद्यत इत्यभिप्रायेण तदुक्तिः ।

अस्य सूत्रद्वयस्य निर्विशेषवादिपक्षासङ्गतिमाह ये त्विति । आद्यसूत्रि#ासङ्गतिमुपपादयति निरतिश- येति । अथर्वशिरसि श्रीविष्णुपुराणे चोक्तनिर्वचनमभिप्रेतम् । न, निर्विशेषं ब्रह्मेति निरुक्तमिति भावः । द्वितीय-सूत्रासङ्गतिं विवृणोति तच्चेति । न हि, जगतोऽध्यासो यत इति लिलक्षयिषितमिति भावः । एवं सूत्रासङ्गतिकथ- नेन तद्विषयवाक्यासङ्गतिरपि फलिता । उत्तरेषां सूत्राणां तत्तद्विषयवाक्यानामपि निर्विशेषपक्षाननुगुणत्वमाह एवमिति । सूत्रगणेष्विति । नैकैकं सूत्रं वाक्यं वा विरुद्धम्; अपि तु तत्तदधिकरणशरीरं तत्तद्विषयवाक्यजातं च विरुद्धमिति भावः । तर्काननुगुणत्वामाह तर्कश्चेति । तर्कशब्दोऽनुमानपरः; प्रमाणनुग्राहकतर्कपरो वा । पराभिमतयोजनायामपि निर्विशेषवस्त्वसिद्धिमाह जगज्जन्मादीति । सोत्प्रेक्षापक्षेऽपीति । अयमभिप्रायः- "यथा सोम्यैकेन मुत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्", "तदात्मानं स्वयमकुरुत", "कटकमुकुटकर्णिकादिभेदैः", "आत्मकृतेः", परिणामात्" इति श्रुतिस्मृतिसूत्रेषु परिणामवचन-तदनुगुणदृष्टान्त-तदुपपादनानि दृश्यन्ते । न तु विवर्तानुगुणं किमपि दृश्यते । न हि यथा सोम्यैकेन शुक्तिशकलेन सर्वं रजतजातं विज्ञातं स्यादिति श्रुतिः, विव-र्तादिति सूत्रं वा दृश्यते । तस्माज्जगज्जन्मादिभ्रमो यतः तद्व्रह्मेत्ययमर्थः स्वयमार्जितः, न तु श्रुतिसिद्ध इति । परो-त्प्रेक्षितपक्षे तर्न्निर्विशेषत्वासिद्धिमुपपादयति भ्रममूलमिति । ततः किमित्यत्राह साक्षित्वं हीति । ततोऽपि किमि-त्यत्राह प्रकाशत्वं त्विति । प्रकाशत्वम्-प्रकाशशब्दवाच्यत्वम् । व्यवहारयोग्यतापादनस्वभावेनेति । व्यवहा-रयोग्यतापादनमेव स्वभावः, तेन भवति - स्वपरव्यवहारयोग्यतापादनरूपस्वभाव एव प्रकाशत्वमित्यर्थः । तथा-ऽभ्युपगमे सविशेषपरत्वमाह तथेति । अनभ्युपगमे दूषणमाह तदभाव इति ।।

1.1.3

अथावान्तरसङ्गतिमाह जगज्जन्मादीति । कथमयुक्तमित्यत्राह तद्धीति । सामान्येन शब्दप्रतिपाद्यत्वे सिद्धे हि शब्दविशेषरूपवेदान्तवेद्यत्वसिद्धिरिति भावः । तच्च कुतः? न हि प्रत्यक्षेण तदीक्ष्यत इत्यत्राह -अनुमा-नेतेति ।

ननु ईश्वरानुप्राननिरासार्थं नेदमधिकरणमारम्भणीयम् । साधकबाधकप्रमाणान्तरगोचरस्य शास्त्रेण प्रतिपादनायोगाद्धि तन्निरासः । न चायमपेक्षितः । अनुमानेन कर्तृमात्रे सिद्धेऽपि तदप्रतिपन्नस्य निमित्तोपादानै-क्यस्य गगनादिसर्गस्य च प्रतिपादनोपपत्तेः ।। अनुमानविरुद्धांशं न शास्त्रं प्रतिपायदतीति तत्प्रतिपादनायानुमान-निरास इति चेत्-न; आगमविरोधस्यैवानुमानदूषतयाऽनुमानेनागमप्रतिबन्धायोगादिति ।। उच्यते; शास्त्रं हि साधकान्तरसिद्धं बाधकान्तरबाधितं च न प्रतिपादयति । यथाहुः- "असन्निकृष्ट वाचा च (हि) द्वयमत्र जिहासितम् ।

ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा" ।। इति । तत्र निमित्तत्वोपादानत्वे च शास्त्रेण प्रतीयेते । तत्र निमि-त्तमात्रस्यानुमानसिद्धत्वात् तदुक्तिरनुवादः स्यात् ।अनुवादस्य प्रमाणान्तरसिद्धिसापेक्षत्वान्निमित्तानुवादो-ऽनुमानसापेक्ष एव भवति । अनुमानं चामूर्त्तद्रव्येतरनिष्ठोपादानव्यतिरिक्तकर्तृकत्वव्याप्तिमूलमिति धर्मिग्राह-कानुमानविरोधेन निमित्तोपादा- नैक्यं गगनाद्युत्पतिं्त च शास्त्रं न प्रतिपादयितुमलम् । एवं कारणवाक्यानाम् अंशे प्राप्तविषयत्वात् अंशान्तरे बाधितविषयत्वाच्च निमित्तोपादानैक्यदिकं न सिध्येदिति तत्सिद्धये निमित्तमा-त्रानुमाननिरासार्थमिदमधिकररमारम्भणीयमिति ।।

नन्वनुमानवादिभिरवि ईश्वरस्यागमगम्यत्वमङ्गीकृतम्, आगमानुग्राहकतया च अनुमानमुच्यत इति न तन्निरासो युक्त इति चेत्- परतः प्रामाण्यवादिभिर्नैवं वक्तुं युक्तं । अनुमानस्य शास्त्रानुग्राहकत्वे शास्त्रमेव प्राधा-न्येनेश्वरे प्रमाणं भवति । अनुग्राह्यं हि प्रधानम्, ईश्वरप्रोक्ततया च तैर्वेदप्रामाण्यमङ्गीक्रियते ।अत ईश्वरे सिद्धे तत्प्र-णीतत्वाद्वेदप्रामाण्यसिद्धिः, तत्सिद्धावीश्वरसिद्धिरित्यन्योन्याश्रय इति चेत-#् न । तत्परिग्रहस्य भ्रान्तिमूलत्वव्यु-दासार्थं निर्द्दोषत्वज्ञानमूलत्वं वाच्यम्; निर्दोषत्वज्ञानं च गुणवद्वक्तृक्तत्वज्ञानादित्यन्योन्याश्रयः स्यादेव ।। आप्तो-क्तत्वमनुमानतः सिद्धमिति नान्योन्याश्रय इति चेत्- तत एवानुमानाद्वेदवक्तृत्वेनेश्वरसिद्धेः किं वेदेनेति शास्त्रवैय-र्थ्यपरिहाराय तन्निरासः कार्य इत्यधिकररणारम्भो युक्तः ।

शास्त्रयोनित्वात् ।। व्याख्यात्रन्तराभिमतषष्ठीतत्पुरुषयोजनाव्यावृत्त्यर्थमाह शास्त्रं यस्येति । योनि-शब्दस्योपादानपरत्वव्यावृत्त्यर्थं कारणमात्रपरत्वमाह कारणमिति । कथं सर्वकारणस्य ब्रह्मणः शास्त्रं कारण- मिति शङ्कायामुत्पत्तिकारणपरत्वव्यावृत्त्यर्थमाह प्रमाणमिति । कारणवाचिनो योनिशब्दस्य कथं प्रमाणवाचि-त्वमित्यत्राह ब्रह्मज्ञानेति । उत्पादक इव ज्ञापकेऽपि हेतुशब्दः प्रयुज्यते; तद्वत् हेत्वभिप्रायेण योनिशब्दप्रयोग- संभव इति भावः । प्रमाणन्तरवेद्यत्वात् ब्रह्म न शास्त्रवेद्यमिति पूर्वपक्षे सति शास्त्रवेद्यत्वादिति सिद्धान्तहेतोः साध्याविशिष्टत्वं स्यादिति शङ्कां परिहरन् पञ्चम्यन्तस्य हेतुवाचिपदस्य साध्यवाचिपदान्वयं च दर्शयति अत्य- न्तेति । ब्रह्मणः स्वरूपेणेन्द्रियसम्बन्धो नास्ति; न च तल्लिङ्गस्य, नापि लिङ्गलिङ्गस्य चेत्यभिप्रायेणोक्तम् अत्य- न्त अतीन्द्रियत्वेनेति । अत एव हि प्रत्यक्षादि प्रमाण अविषयतयेत्युक्तम् । यद्वा व्यक्तिरूपेण दृष्टत्वम्, व्या-प्त्यापयिकं दृष्टसजातीयत्वं च नास्तीति भावः । इन्द्रियप्रत्यक्षशब्दयोः करणतत्फलभूतज्ञानविवक्षया भिन्नार्थता । शास्त्रैकप्रमाणकत्वादिति -अव्भक्ष इतिवदवधारणगर्भः शास्त्रयोनिशब्द इति भावः । ततश्च प्रमाणान्तराविष- यत्वं सिध्यतीति प्रमाणान्तरागोचरत्वेन शब्देन प्रतिपादियितुं योग्यत्वात् ब्रह्म, "यतो वा इमानी"त्यादिवाक्य- विशेषो बोधयतीत्युक्तं भवति । पूर्वस्मिन् सूत्रे यत् साध्यम्, तदेवास्मिन् सूत्रे मुखभेदेन साध्यत इत्येवकाराभि- प्रायः । अत्रापि "यतो वा इमानी"त्यादिवाक्यद्वारा शास्त्रं विषयः । संशयोऽप्यर्थसिद्धः । साधारणविचारद्वयमनु-सन्धेयम् । "यतो वा इमानी"त्यादिवाक्यं किं ब्रह्मणि प्रमाणम्, उत नेति संशयः; तदर्थं किं ब्रह्म मानान्तरगोचरः, न वेति; तदर्थं किं सामान्यतोदृष्टमनुमानं जीवविलक्षणमवगमयति, नेति । यदाऽवगमयति, तदा मानान्तरगोच-रत्वात् "यतो वा इमानी"त्यादिवाक्यं न ब्रह्म प्रतिपादयतीति वेदान्तानां ब्रह्मणि प्रामाण्याभावात् त्तद्विचा-रानारम्भः पूर्वपक्षे फलितः । राद्धान्ते तु सामान्यतो दृष्टानुमानस्य जीवविलक्षणे प्रमाणत्वाभावेन ब्रह्मणो मानान्तरागोचरत्वात् "यतो वा इमानी"त्वादिवाक्यं ब्रह्मणि प्रमाणमिति सर्ववेदान्तवाक्यानां तत्र प्रामाण्यात् विचारस्यारम्भणीयत्वं फलितम् ।।

सूत्राक्षरयोजनायां सङ्ग्रहेणोक्तमर्थमसहमानः पूर्वपक्षी चोदयति नन्विति । शास्त्रयोनित्वम्-शास्त्र-प्रमाणकत्वम् । प्रमाणान्तरवेद्यत्वे कथं शास्त्रयोनित्वानुपपत्तिरित्यत्राह अप्राप्ते तु शास्त्रमर्थवदिति । तु शब्दो-ऽवधारणे । "स्युरेव तु पुनर्वै चेत्यवधारणवाचिनः" इति हि नैधण्टुकाः । वैषम्यै वा । अबुभुत्सितग्राहित्वेनाय-त्नसाध्यत्वात् प्रत्यक्षस्य ज्ञाता प्रयोजनबोधकत्वं न दूषणम् ;शास्त्रस्य तु बुभुत्सितग्राहित्वेन यत्नसाध्यत्वात् ज्ञाताप्रयोजन बोधकत्वं दूषणम् । तथा सति वह्यौप्ण्यवायसदन्तसङ्खयावाक्येप्विव श्रवणादि-प्रवत्त्यनुपपत्तेः ।।

अस्मिन् पूर्वपक्षे सिद्धान्त्येकदेशी मीसांसकश्चोदयति किं तर्हीति । ईश्वरानुमाननिरासेन सिद्धान्ति- त्वम् ; ईश्वरमात्रानभ्युपगमेन एकदेशित्वम् । किं तर्हि? न किञ्चिदित्यर्थः । कथमित्यत्राह न तावदिति । सर्व- स्यापि प्रत्यक्षस्यासामर्थ्यं दर्शयितुं तस्य द्वैविध्यमाह तद्धीति । प्रथमस्यापि द्वैविध्यमाह इन्द्रियसम्भवमिति । अन्तरसम्भवं चेति । आन्तरशब्देन मनो विवक्षितम् । प्रथमे अनुपपत्तिमाह बाह्येन्द्रियाणीति । देशसन्निकर्षं विशिंषता विद्यमानशब्देन कालसन्निकर्षश्च सिद्धः । योग्यशब्देन स्वभावसन्निकर्ष उक्तः । अनेन धर्माधर्मादि-व्यावृत्तिः, स्वशब्देन चक्षुरादिकं प्रति शब्दादिव्यावृत्तिः । यद्वा स्वविषयशब्देनैवातीन्द्रियस्येन्द्रियान्तरविषयस्य च व्यवच्छेनः योग्यशब्देन तु तत्तदिन्द्रियप्रतिनियतरूपादिजातीये अप्यनुद्भवादिवशादयोग्यस्य व्यवच्छेदः । द्वितीयं प्रतिवक्ति नापीति । मनश्च न तद्विषयवोधजनकभित्यर्थः । आन्तरसुखदुःखादि इत्यत्र आन्तरशब्दः आत्मतद्धर्मपरः । तद्ग्राहित्वादेव हि मनसोप्यान्तरत्वम् । सुखदुःखादीत्यान्तरशब्दविवरणम् । आदिशब्देने-च्छाद्वेषादेरात्मनश्च परिग्रहः । व्यतिरिक्तेत्यनेन रूपादीनां बहिष्ट्मेवेपपादितम् । योगजन्यस्यानुपपाति दर्शयितु- माह नापि योगेति । योगिप्रत्यक्षं किं पूर्वानुभुतानधिकविषयं प्रमाणम्, उत अनुभूताधिकविषयमति विकल्पम-भिप्रेत्य अनधिकविषयत्वे दूषणमाह भावनेति । अनधिकविषयतया स्मृतिमात्रत्वात् न प्रमाणत्वमिति प्रमा-णावान्तरविशेषत्वं दूरोत्सारितमित्यर्थः । अनधिकविषयत्वमुपपादयति तदतिरिक्तविषयत्वे कारणाभावादिति । कारणम्-इन्द्रियसम्बन्धः । प्रमितिकारणाभावान्न प्रामाण्यमित्यर्थः । अधिकविषयत्वे दूषणमाह तथा सतीति । इन्द्रियसम्बन्दाभावेऽप्यनुभूताधिकविषयत्वे तस्य दोषभूलकत्वेन भ्रान्तितैवेत्यर्थः । द्विविधानुमानागोचरत्वमाह नापीत्यादिना । नियतम्-व्याप्तम् ।

सिद्धान्तिच्छायया चोदयन्तं वादिनं पूर्वपक्ष्येकदेशी चोदयति ननु चेति । नैयायिकैकदेशिभिरुक्ता-नुमानवक्तृत्वात् पूर्वपक्ष्येकदेशित्वम्; सम्प्रदानम्-भोक्ता । प्रयोजनम्-विनियोगः । एककर्तृकत्वसिध्द्यर्थमनु-मानान्तरमाह अचेतनेति । उपादानाद्यभिज्ञकर्तृकत्वे दृष्टान्तमाह सर्वं हीति । एकचेतनाधीनत्वे च दृष्टान्त- माह अचेतनेति । रुग्णपरशरीरव्यावृत्त्यर्थौ अरोगस्वशब्दौ । कार्यत्वे सिद्धे ह्युपादानाद्यभिज्ञकर्तृकत्वसिद्धि-रित्यत्राह सावयवत्वेनेति । अनेनाचेतनारव्धत्वहेतोश्चासिद्धिशङ्कापरिहारोऽपि फलितः । एवं पूवर्पक्ष्येकदेशि-नोक्तमर्थं सिद्धान्त्येकदेशी दूषयति उच्यत इत्यादिना । बुद्धिस्थत्वात् पाश्चात्यमनुमानं दूषयति किमिदमिति । एकचेतनाधीनत्वं नाम किं तदायत्तोत्पत्तिस्थितित्वम्, उत तदायत्तप्रवृत्तित्वमति विकल्प्य प्रथमेऽपि तदायत्तो-त्पत्तिस्थितित्वं नाम किं तदिच्छाधीनोत्पत्तिस्थित्वम्त्वम्, उत तददृष्टाधीनोत्पत्तिस्थित्वमिति किल्पोऽभिप्रेतः । तेषां विकल्पानां क्षेपार्थः किं शब्दः । तत्र तदिच्छाधीनोत्पत्तिस्थितित्वं न दृष्टमिति साध्यवैकल्यं दूषणं प्रसिद्ध- मिति बुद्धया(ध्वा) #ा द्वितीयं शिरो दूषयति दृष्टान्तो हीति । साध्यविकलत्व विवृणोति न हीति । कुत इत्य- त्राह तच्छरीरस्येति । यद्वा न तावदित्यादिग्रन्थःतदिच्छाधीनोत्पत्तिस्थितित्वतददृष्टाधीनोत्पत्तिस्थितित्वयोः

साधारणः । तत्रेच्छाधीनत्वपक्षे साध्यवैकल्यं स्फुटमिति तददृष्टाधीनत्वपक्षे साध्यवैकल्यं विवृणोति न हीति । उत्पतिस्थिती हि सह दूषिते । अथ स्थितं पृथग्विकल्प्य दूषयितुमाह किञ्चेति । स्वावयवसमवेततारूपस्थि-त्युक्तिवैशेषिकादिमतानुसारेण । न चेतनमपेक्षत इति । चेतनापेक्षा हि स्वरूपतो वा स्यात्, अदृष्टद्वारेण वा, इच्छाद्वारेण वा । तत्र स्वरूपमात्रमकिञ्चित्करम्; तत्सद्भावेऽपि विनाशदर्शनात् । अदृष्टाधीनत्वे प्रागेवोत्तरं दत्त-मिति इच्छाधीनत्वपक्षोऽनेन दूषितः । चेतनेच्छां नापेक्षत इत्यर्थः । आविनाशकालादशिथिलत्वलक्षणा स्थितिर-प्यनेन दत्तोत्तरेत्यभिप्रायेण तदनुक्तिः । अथोक्तप्रकारविकल्पदूषणेन निरस्तमपि शिरोऽन्तरं दूषणान्तरसद्भावादु-पादाय दूषयति प्राणनेति । प्राणनलक्षणा-पञ्चवृत्तिप्राणसहितत्वलक्षणा । नोपलभामह इति । कालात्ययापदेश इत्यभिप्रायः । तदायत्तप्रवृत्तित्वमेकचेतनाधीनत्वमिति पक्षं शङ्कते तदायत्तेति ।अचेतनारब्धत्वहेतोरनैकान्त्यमाह अनेकेति । अनेकचेतनसाध्येषु-अनेकचेतनप्रवत्र्त्येष्वित्यर्थः । चेतनैकत्वाविवक्षायां सिद्धसाध्यत्वमाह चेतनमा- त्रेति । एवमेकचेतनाधीनत्वं निरस्तम् । कार्यत्वहेतोर्लाघवतर्कमुखेन सिद्धसाध्यतामाह किञ्चेति । उभयवादि-सिद्धानामिति लाघवस्य हेतुरुक्तः । क्लृप्तकल्प्य विरोधे तु युक्तः "कलृप्तपरिग्रहः" इति ह्याहुः । सम्भवन्त्यां गतौ हि लाघवतर्कः, गत्यन्तरासम्भवे त्वधिककल्पनं न दोषायेत्यत्राह न चेति । कुत इत्यत्राह सर्वेषामिति । पूर्व- काले चेतनानां साक्षात्कारसामर्थ्यं दृश्यमाननीत्योपपादयति यथेति । इदानीमिति । एवं पूर्वकालेऽपीति भावः । धर्माधर्मसाक्षात्काराभावात् कर्तृत्वासम्भवमाशङ्कयाह उपकरणेति । यागादिशक्तिरूपेति । यागादि-जन्यस्वात्मतिशयरूपेत्यर्थः । कुत इत्यत्राह तत्साक्षात्कारेति । तर्हि घटादिनिर्माणे मृदादिसाक्षात्कारनियमः कथमित्यत्राह शक्तिमदिति । शक्तिमच्छब्देन शक्सिम्बन्धि उच्यते । जन्यजनकभावस्य च सम्बन्धविशेषरूप- त्वात् शक्तिरूपादृष्टजनकयागादिषु शक्तिमच्छब्दप्रयोगः । शक्तेरपि अपेक्षितत्वसाभ्यात् तत्साक्षात्कारोऽपे- क्षितः । अन्यथा अनवगतवस्तुशक्तयोऽपि पुरुषास्तैस्तत्कार्यं कुर्युरित्यत्राह शक्तेस्त्विति । तु शब्दः शक्तिमत इव शक्तेरपि ज्ञातव्यत्वेऽपि विशेषद्योतनार्थः । शक्तिसाक्षात्कारानुपयोगमुपपादयति न हीति । शक्तिसाक्षा-त्कारानपेक्षत्वेऽपि शक्तिज्ञानमात्रमपेक्षितम्; तच्च दण्डचक्रादिष्वन्वयव्यतिरेकवशात्त्सध्यति; यागादौ तु कथ-मित्यत्राह इह त्विति । एवं सिद्धसाधनत्वमुक्तम् । अथ कार्यत्वहेतोरुपाधिद्वयेन सापेधिकत्वामाह किञ्चेति । साधनाव्यापकत्वमाह महीमहीधरेति । साध्यसमव्याप्तत्वमाह अत इति । सोपाधिकत्वे सति सादृयेन हेतो-र्व्याप्यत्वासिद्धिः स्यादित्युपाधेर्दूषणत्वम् । अदृष्टवज्जीवकर्तृकत्वव्यावृत्यर्थं बुद्धिमत्कर्तृपूर्वकत्वसाधन इत्यु- क्तम् । अथ कार्यत्वहेतोर्विशेषविरुद्धत्वमाह किञ्चेति । अनीश्वरेण-कर्मवश्येन , परिग्रहवता- उपकरणवते- त्यर्थः । सर्वानुमानोच्छेदमाशङ्कयाह न चेति । कथमित्यत्राह लिङ्गिनीति । पक्षेऽपि तथा स्यादित्यत्राह इह त्विति । तु शब्दाभिप्रेतं वैषम्यमाह निवर्त्तकेति । सिद्धान्त्येकदेशिमतमुपसंहरति अत इति । सिध्द्यति चेत्, नागमादृते मानमित्यर्थः ।

अतः-सिद्धसाधनत्वसोपाधिकत्वविरुद्धत्वैर्दूषितत्वादित्यर्थः ।।

अथ साक्षात्पूर्वपक्षिणं प्रस्तौति अत्राहुरिति । कार्यत्वहेतोः स्वरूपासिद्धिमाशङ्कय व्युदस्यति सावय-वत्वादिति । सावयत्वादेवेति । पूर्वं प्रस्तुतादेवेत्यर्थः । अनेन हेत्वन्तरसद्भावोऽपि सूचितः । एवं कण्ठोकत्या अभिप्रायेण च सिद्धान् हेतून् प्रयोगतो विवृणोति भवन्तीति । विवादाध्यासितपदविवरणं भूभूधरादिपदम्, आदिशब्दोपात्तव्यक्तिसङ्गाहकं विवादाध्यासितपदम् । यद्वा पक्षीकृतेष्वेव सम्प्रतिपन्नांशव्यवच्छेदाय विवादाध्या-सितशब्दः । सन्ति हि रवातपूरणनिष्पाद्याः पृथिव्यंशाः, सगरसुतादिनिष्पाद्याः समुद्रांशाः, अस्त्रादिनिष्पाद्याः पर्वतादयश्च । प्रलयेऽपि जलधेरवस्थानात् सर्वाभावेऽपि स्त्रष्टुः शरीरावस्थानाच्च तयोरकार्यत्वशङ्काद्योतनाय प्रति-

ज्ञावाक्यावर्तनेन जलधितनुशब्दोपादानम् । द्वितीयतृतीयप्रयोगयोर्मध्य महत्त्वपदेन परमाणुव्यावृत्तिः । क्रिया-वत्त्वमूर्तत्वशब्दाभ्यां गगनादिव्यावृत्तिः । अवनिमहीधरशब्दमध्ये जलधिशब्दनिवेशः तद्वत् तयोरपि कम्पसद्भा-वज्ञापनार्थः । प्रसिद्धो ह्युत्पातादौ भूभूधरकम्पः । ननु तनुपक्षीकारो न युक्तः, अस्मदादिशरीरे सिद्धसाधनत्वात्; ईश्वरशरीरे त्वाश्रयासिद्धेः ।। नैवम्; तनोर्विशेषतः पक्षीकारनिर्बन्धाभावात् । तदुपादानं तु स्वपक्षसम्प्रतिपन्नस्येश्वर-शरीरस्यापि कार्यताज्ञापनार्थम् । यद्वा सावयवत्वादेवेत्वादेरयमाशयः- न सावयवत्वादुत्पत्तिमत्त्वं प्रसाध्य ततः सकर्तृकत्वं साध्यत;,अपि तु सावयवत्वेनैव कृतिसाध्यत्वरूपकार्यत्वं साध्यते; कृतिश्च न निराश्रयेति तदाश्रयः कर्त्ता सामान्यतः सिध्यतीति ।। नन्वेवं तर्हि कार्यत्वात् सकर्तृकत्वे साध्ये हेतोः साध्याविशिष्टता स्यात् ।। न; कृतिसाध्यत्वं हेतुः, उपादानाद्यभिज्ञकर्तृकत्वं साध्यमिति वैषम्यात् । अत एव ह्युत्तरत्र क्रियत इत्युक्तम्, नोत्पद्यत इति । "कायर्त्वं निश्चित्य तदानीमेव कर्त्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोती"त्यादि च । एवञ्च कृतिसाध्यत्वलक्षणे साध्ये शरीरस्यापि विवादपदत्वात् पक्षतोपपत्तिः । अथ सोपाधिकत्वं सामान्येन प्रतिक्षिपति सावयवेष्विति । सावयवत्वमुपलक्षणम्, महत्त्वे सति क्रियावत्त्वं महत्त्वे सति मूर्त्तत्वं च सावयवत्वसामानाश्रयं तत्समव्याप्तमिति तयोरप्युपाधिपरिहारसिद्धिः । रूपान्तरम् आकारान्तरम् । उपाधिं शङ्कते कार्यत्वेति । परिहरति नेति । कार्य-त्वेनानुमते सपक्षे । अन्यत्र-पक्षे । सपक्षेऽपि घटादौ कार्यत्वानुमेये ज्ञानशक्ती, तद्वत् पक्षेऽपि कार्य्यत्वस्य प्रति-पन्नत्वात् ज्ञानशक्ती अनुमीयेते इति नाशक्यक्रियत्वम् शक्यज्ञानत्वं चेत्यर्थः । तथैव दर्शयति तथा हीति । किं तदकर्त्तुरपि शक्यक्रियत्वं शक्योपादानादिज्ञानत्वमुपाधिः, उत तत्कर्तुः शक्यक्रियत्वं शक्येपादानादिज्ञानत्वम्? प्रथमे कल्पे सपक्षानुयायित्वाभावान्नोपाधित्वम् । द्वितीये कल्पे पक्षेऽपि विद्यमानात्वान्नोपाधित्वम् । सर्वसपक्षानु-यायी पक्षष्व(त्व?)विद्यमानो ह्युपाधिरित्यभिप्रायः । कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमित्यनेनाभिप्रेतोऽयं विकल्पः । ततः किमित्यत्राह अत इति । अतः-सावयवत्वादिहेतोर्निरुपाधिकत्वादित्यर्थः । एवं सावयवत्वात्कृतिसाध्यत्व- रूपे कार्यत्वे साध्ये शक्यक्रियत्वादिक उपाधिः परिहृतः । अनेनोत्पत्तिमत्त्वात् सकर्तृकत्वे साध्ये उत्पत्तिमत्त्वहेतु- रपि निरुपाधिको भवति । सावयवात्वादुत्पत्तिमत्त्वे साध्ये तूपाधेर्दूर्वादौ व्यभिचारश्च सिद्धः । न हि दूर्वादिरुत्प-द्यमानोऽस्मदादेः शक्यक्रियः ।

सिद्धसाधनत्वनिरासाथर्मनुमानान्तरप्रदर्शनार्थं चाह किञ्चेति । धर्माधर्मनिमित्तेऽपीति सिद्दसाधन-त्वशङ्कासूचनम् । अनधिष्ठितयोः...अनुपपत्तेरिति अन्वयव्याप्तिस्थेम्ने व्यतिरेकव्याप्त्युक्तिः । दृष्टान्तमाह वर्द्धकिनेति । वास्यादेर्यूपाद्यकरणस्य चेतनव्यतिरिक्तसहकार्यन्तराभावप्रयुक्तत्वशङ्काव्यावृत्त्यर्थं देशकालाद्यने-कपरिकरसन्निधानेऽपीत्युक्तम् । धर्माधर्मौ स्वसाक्षात्कारिचेतनाधिष्ठितावेव कार्यकरौ अचेतनत्वात् । वास्यादि-वदित्यनुमानशरीरम्, जीवैधर्माधर्मसाक्षात्कारतत्पूर्वकतदधिष्ठानायोगात् जीवविलक्षणसिद्धिः । अनधिष्ठितस्य कार्यकरत्वायोगात् जीवैः साक्षात्कारतत्पूर्वकाधिष्ठानायोगाच्च सिद्धसाधनं च परिहृतम् । कर्तुरभावे कार्यानुत्पत्ति-प्रसङ्गरूपस्य विपक्षे बाधकतर्कस्य पुरुषसुखादिप्रयोगकादृष्टेन कार्योत्पत्त्युपपत्तिरिति या अन्यथासिद्धिः, साऽप्य-नेनैव परिहृता भवति । अचेतनस्याऽप्यनधिष्ठितस्य बीजादेङ्कुरोत्पादकत्वदर्शनात् व्यभिचार इति शङ्कां परिहरति बीजाङ्कुरेति । कार्यत्वहेतोरङ्कुरादौ व्यभिचारशङ्कापरिहारश्चाङ्कुरशब्दोपादानेन फलितः । चेतनानभिसंहितपुल-काद्युत्पादकैः चेतनानधिष्ठितैः स्वयमचेतनैः सुखादिभिरचेतनत्वहेतोर्व्यभिचारमाशङ्कय परिहरति तत एवेति । आदिशब्देन दुःखादिकं चेतनानधिष्ठितं सुखाद्युत्पादकं मनःप्रभृति च विवक्षितम् । एतेन स्वेच्छामन्तरेणोत्पाद्य- मानैः सुखदुःखविशेषैस्तत्कार्यैश्च पुलकाङ्गकम्पादिभिः कार्यत्वहेतोर्व्यभिचारश्च परिहृतो भवति । लाघवन्यायेन

हेतोरन्यथासिद्धेः सिद्धसाधनत्वमाशङ्कय परिहरति न चेति । कुत इत्याकाङ्क्षायामीदृशशब्दाभिप्रेतं हेतुं विव-#ृणोति तेषामिति । एकेन्द्रियकल्पनस्य लाघवेऽपि एकेन्द्रियस्य शब्दादिसकलविषयग्रहणाशक्तेर्ह्यनेकेन्द्रियकल्प- नम् । तस्माल्लाघवाथर्मशक्तस्य कार्यकरत्वकल्पनमयुक्तमिति भावः । तदेवोपपादयति दर्शनेति । उपपन्नमेव हि कल्पनीयम्; न च जीवानां सूक्ष्मव्यवहितादिदर्शनशक्तिर्दृष्टेत्यर्थः । शक्तिमत्साक्षात्कार एवापेक्षितः; न तु शक्ति-साक्षात्कार इतीदमपि प्रत्युक्तं भवति सूक्ष्मव्यवहितेत्यादिना । शक्तिमतामपि परमाण्वादीनां क्षेत्रज्ञेन साक्षा-त्कारासिद्धेः । ईश्वरे न तथाऽनुपपत्तिरित्याह न चेति । अवान्तरानुमोननेश्वरसिदिं्ध निगमयति अत इति । व्या-प्तिबलात् कार्यानुगुणज्ञानशक्तिमान् कर्त्ता सिध्यतु; तस्य कथं क्षेत्रज्ञवैलक्षण्यम्; ज्ञानं हि देहेन्द्रियादिसापेक्ष- मिति शङ्कायां पक्षधर्मताबलसिद्दमर्थमाह समर्थेति । अस्वाभाविकत्वे कर्मानुगुणपरिमितज्ञानशक्तिमत्त्वं स्या- दिति तद्वयुदासार्थः स्वाभाविकसर्वार्थसाक्षात्कारशब्दः ।

अथ कार्यत्वहेतोर्विरुद्धत्वं व्युदस्यति यत्त्वित्यादिना । कथमित्यत्राह सपक्ष इति । किं सहदर्शनमा- त्रात् शरीरादिप्राप्तिः, उत हेतुत्वात् । नाद्यः;अतिप्रसङ्गात् । न द्वितीयः, हेतुत्वा-सिद्धेरित्यभिप्रायः । कार्यस्याहे-तुभूतानामिति व्याप्त्यभावोऽप्यभिप्रेतः । ननु सर्वसपक्षेषु सहदृष्टत्वात् कायर्हेतुत्वं च कल्प्यम्, तथा सति कथं कतिपयाप्राप्तिः कतिपयप्राप्तिश्चोच्यते इत्यत्राह एतदुक्तमिति । विशेषविरोधं परिहर्तुमपेक्षितांशविवेकमाह केन-चिदिति । सपक्षे सहदृष्टत्वादज्ञानादेरपि हेतुत्वं कल्प्यतामित्यत्राह स्वनिर्माणेति । अकिञ्चित्करस्येति । अन-न्यथासिद्दान्वयव्यतिरेकाभ्यां हि हेतुत्वनिश्चयः । तत्र ज्ञानशक्तिनिर्वर्त्यात् किञ्चित्कारादधिकः कश्चित् तदन्या-ज्ञानासामर्थ्यनिवर्त्यः किञ्चित्कारो दृष्टश्चेत्, स्यादनन्यथासिद्धिः । न चाधिकः किञ्चित्कारो दृष्टः; न च कल्प्यः; अज्ञानासामर्थ्यहेतुव्यतिरेके कार्यनिवृत्त्यभावात् । स्वविषयसामर्थ्योपादानादिज्ञानाभ्यां विना यथा कार्यानुदयः, तथाऽन्यासामर्थ्याज्ञानाभ्यां विना न कार्यानुदयो न दृष्टः । अतो न तस्य हेतुत्वं कल्प्यम् । न हि सति भावमात्रं हेतुत्वम्, किंतु सत्येव भाव इति भावः । अकिञ्चित्करत्वमेव विकल्पमुखेनोपपादयति किञ्चेति । सर्वेष्विति । न हि कुड्यादिनिर्माणानुगुणज्ञानसामर्थ्याभावो घटनिष्पत्तिहेतुः, तदनुगुणज्ञानसामर्थ्यवतोऽपि घटादिनिष्पाद-कत्वदर्शनादित्यर्थः । यत्तु-सपक्षे सहदृष्टत्वेन लिङ्गिनि, प्राप्तविपरीतविशेषाणां धर्मिग्राहकप्रमाणप्रतिहतानां निवृत्तिः, न त्वितरेषामितिः- इदमपि कार्यत्वस्यासाधकानामित्यनेन प्रत्युक्तम् । साध्यानुपयोगित्वेनान्यथासि- द्धानां सह दृष्टानामपि धर्माणां व्यतिरेकाभावेन व्याप्तिशून्यत्वादप्राप्तेः ।। सहदृष्टेष्वपि कार्यानुपयोगिनां प्राप्तिर्न स्यात्; शरीरं हि कार्योपयोगीति शङ्कते कुलालादीनामिति । परिहरति नेति । कथमित्यत्राह सङ्कल्पेति । शङ्कते कथमिति । परिहरति नेति । को हेतुरित्यत्राह मन एवेति । तत् किमस्तीत्यत्राह तदिति । कुत इत्य- त्राह कार्यत्वेनेति । ईश्वरस्य मनस्सम्बन्धोक्तिर्न्यायैकदेशिमतेन । पुनः शङ्कते मानस इति । परिहरति नेति । अनैकान्त्यात्-व्याप्त्यभावात् । अशरीरेऽपि मनस्सम्बन्धस्य विद्यमानत्वाद्वाऽनैकान्त्यम् । मनसो नित्यत्वेऽपि चेतनस्य कार्यकरत्वे शरीरसम्बन्धसापेक्षत्वमस्ति; मनसि नित्ये सत्यपि मुक्तात्मनः कार्यकरत्वाभावात् । न हि मुक्तत्मनो बुद्धिसुखदुःखादिकं मनो जनयतीति चोद्यमस्ति । अत्र मीमांसकं प्रति प्रतिबन्द्या परिहारं हृदि निधाय पक्षधर्मताबलं दर्शयन्नीश्वरसिदिं्ध निगमयति । अतो विचित्रावयवेति । अशरीरः सङ्कल्पमात्रसाधनपरिनिष्पन्ना-नन्तविस्तारविचित्ररचनप्रपञ्च इत्याभ्यां पदाभ्यां प्रतिबन्द्या परिहाराभिप्रायो ज्ञातः । विभुद्रव्यसंयोगिनः परि-स्पन्दवतो घटादेः स्पर्शवत्त्वनियमेऽपि, विभुद्रव्यसंयोगिनः परिस्पन्दवतोऽपि मनसो न स्पर्शवत्त्वमङ्गीक्रियते । अयं प्राभाकरं प्रति परिहारः । महिमगुणशालिनस्तैजसस्य रूपोपलम्भनियमे दृष्टेऽपि चक्षुषि रूपोपलम्भो नाङ्गी-

कृतः; कार्यारम्भकस्य सावयवत्वव्याप्तिः परमाणुषु भग्ना; तस्मादनेकविरोधपरिहारायैकव्याप्तिभङ्गो न्याय्यः । अतो मनसः कार्यकरत्वे शरीरसम्बन्धसापेक्षत्वं भोगसाधनमनस्त्वप्रयुक्तमित्यङ्गीकार्यमिति भावः । एवं साध-कान्तरसिद्धत्वात् जगत्कारणवस्तुनि शास्त्रस्याप्रामाण्यं निगमयति अतः प्रमाणेति ।

निमित्तोपादानैक्यस्य गगनादिसृष्टेश्चानुमानाविषयत्वेन शास्त्रस्याधिकविषयत्वाद्ब्रह्माणि प्रामाण्यमा- शङ्कय तत्र बाधकान्तरबाधितत्वात् शास्त्राप्रामाण्यमुच्यते किञ्चेति । निमित्तमात्रमनुवदतः शास्त्रस्यानुमानसा-पेक्षत्वात्तद्विरुद्धनिमित्तोपादानैक्यं न शास्त्रं प्रतिपादयति । पक्षीकृतेषु क्षित्यादिषु द्रव्येषु सावयवत्वस्यैव कार्यत्व-प्रयोजकतया निरवयवद्रव्यस्याकार्यत्वं पूर्वमेव प्रतिपन्नमिति पश्चात् शास्त्रं निरवयवद्रव्योत्पतिं्त न प्रतिपादयति । श्रुतिलिङ्गादिष्वपि पौर्वापर्यं हि प्राबल्यदौर्बल्यहेतुरिति भावः । पूर्वपक्षपरिसमाप्तावितिशब्दः ।।

सिद्धान्तं वक्तुमुपक्रमते एवं प्राप्त इति । परमसाध्यं प्रतिजानीते यथोक्तेति । आकाङ्क्षापूर्वकं हेतुमाह कुत इति । शास्त्रैकप्रमाणकत्वात्-शास्त्रेतरप्रामाणागोचरत्वादित्यर्थः । हेत्वसिदिं्ध परिहर्त्तुं पूर्वपक्षमनुभाषते यदुक्तमिति । दूषयति तदयुक्तमिति । पक्षधमर्ताबलात् क्षेत्रज्ञवैलक्षण्यं वदता किं विपुलकार्याणां कर्तृकालैक्य-नियममन्तर्भाव्य तदुच्यते, उत विपुलत्वमात्रेण, उतातीन्द्रियोपादानादिदर्शनवशात्, अथवा शरीरानपेक्षसृष्टिव- शात् इति विकल्पमभिप्रेत्य प्रथमं दूषयति महीति । एकदेवैकेन निर्मितत्वाभावमुपपादयति न चैकस्येत्यादिना । एकं कार्य्यत्वं घटादेरिव युगपदेककर्तृकत्वयोग्यमिति शङ्काद्योतकमेकमितिपदम् । कार्यत्वस्यैकत्वं नाम एकसाम-ग्रीपूर्वकत्वम्; तत्सिध्द्यर्थमेकस्येत्युक्तम् । न ह्येका व्यक्तिरनेकसामग्रीसाध्या, एककार्यावच्छिन्नस्य सर्वस्य हेतो-रेकसामग्रीत्वात् । एकत्वेऽप्यनेककर्तृकगोपुरादिव्यवच्छेदार्थमेकदैवैककर्त्रन्वययोग्यत्वं घटशब्देन विवक्षितम् । एक-घटस्यैकं कार्यत्वं यादृशं दृश्यते तादृशं परिमितैकावयविनिष्ठं कार्यत्वमेवैकदैवैककर्तृकत्वसम्भावनापादकम्; तच्च महीमहीधरादीनां न दृश्यत इत्यर्थः । स्यादिति सम्भावितत्वमात्रमुच्यते । न ह्येकघटस्याप्येककर्तृकत्वनियमः, अनेकैरप्येकघटनिष्पादनसम्भवात् । ततः किमित्यपेक्षायां बहुषु#ु विपुलेषु च कार्य्येषु तद्विपर्ययमाह पृथग्भूते- ष्विति । पृथग्भूतेष्वित्यत्र विपुलत्वमपि गर्भितम् । एकघटस्येवेति पूर्वमुक्तेः । बहुषु विपुलेषु च कार्येषु कर्तृकालै-क्यनियमादर्शनान्मह्यादयोप्येकदैव एकेन निर्मिता इत्यत्र प्रमाणाभावः, प्रमाणाभावात्तदयुक्तमित्यध्याहारेण ग्रन्थान्वयः । न च कार्यत्वमेव कर्तृकालैक्ये प्रमाणम्; विकल्पासहत्वात् । किं कार्यत्वमात्रम्, उत विपुलकार्य-त्वम्,उतासम्भावितजीवकर्तुकं पक्षासाधारणकार्यत्वम्? प्रथमे अनैककान्त्यम् । द्वितीये विरुद्धत्वम्; विपुल- कार्येषु कालदैर्ध्यकर्तृवत्वदर्शनात् । यद्वाऽनैकान्त्यमेव । तृतीये चासाधारणानैकान्त्यमिति भावः । कार्यत्वबलेन कर्त्तरि कल्पनीये विपुलतरसूक्ष्मतरपक्ष-र्मताबलात् क्षेत्रद्भवैलक्षण्यं लाघवन्यायात् कर्तुरेकत्वं च सिध्यतीत्यत्राह न चेति । विचित्रशब्देनास्मदाद्यशक्यत्वार्थमतिविपुलत्वमतिसूक्ष्मत्वं च विवक्षितम् । कुत इत्यत्राह क्षेत्रज्ञानामे-वेति । क्षेत्रज्ञातिरिक्ते कल्प्ये सति ह्यनेककल्पनादेककल्पनस्य न्याय्यत्वम् । क्षेत्रज्ञानामेव कर्तृत्वोपपत्त्या तदति-रिक्तो न कल्पयितव्य इत्यर्थः । उपचितपुण्यविशेषाणामिति सपक्षे शक्तिवैचित्र्योपपादनार्थमुक्तम् । अतिशयि-तादृष्टसम्भावनयेति पक्षविषयमुक्तम् ।"सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः" इत्यादिभिः क्षित्यादिस्त्रष्ट्टत्वानुगुणाति-शयितादृष्टसम्भावना क्षेत्रज्ञानामेव योगेन सूक्ष्मव्यवहितादिदर्शनं पराभ्युपेतम् । अस्मदादिषु देवेषु च ज्ञानशक्ति-वैचित्री दृश्यते । न च पक्षधर्मताबलमन्वयव्यतिरेकसिद्धान् धर्मान् निवर्तयितुमीष्ट; तस्यान्वयव्यतिरेकसिद्धधर्म- प्रकर्ष अपकर्षमात्रहेतुत्वात् । इतरथा ज्ञानचिकीर्षयोरपि हानप्रसङ्गात् । तदतिरिक्तेति । धर्मिकल्पनातो वरं धर्म-कल्पने"ति न्यायादीश्वरकल्पनाददृष्टविशेषकल्पनमेव वरमिति भावः । अचेतनत्वात् चेतनाधिष्ठितावेव धर्माधर्मौ

कार्यकरौ, वास्यादिवदित्यनुपपन्नम्; ईश्वरज्ञानप्रवत्नादौ व्यभिचारेणान्यतरानैकान्त्यात् । अथ क्षेत्रज्ञस्य सर्गे शरीरसापेक्षत्वात् तस्य सर्वसंहारदशायां शरीरभावात्तदानीं शरीरानपेक्षः कर्त्ता जीवविलक्षणः स्यादित्यत्राह न चेति । इदानीं क्रमेणोत्पत्तिविनाशौ दृश्येते तदा तूत्पत्तिविनाशयौगपद्यकल्पनमित्यत्राह कार्यत्वेनेति । अत्र कार्यत्वं; कृतिसाध्यत्वं । तृतीया चेत्थम्भावार्था । विरोधाभावात्-व्याप्तिविरोधाभावादित्यर्थः । एवं परमतदूष-णोपयुक्तार्थशिक्षा कृता । अथ फलितं दूषणं दर्शयति अत इति । तदयुक्तमित्यारभ्योक्तार्थानां हेतुत्वपरोऽतश्- शब्दः । चलनादिषु तृणादेरिव क्रियाश्रयत्वमात्रलक्षणकर्तृत्वव्यावृत्त्यर्थो बुद्धिमच्छब्दः । किं बूद्धिमदेककर्तृकत्वं साध्यम्, उत सकर्तृकत्वमात्रम्? प्रथमेऽपि -किं सामान्यतो बुद्धिमदेककर्तृकत्वमात्रं साध्यम्, उत सर्वज्ञसर्वश-कत्येककर्तृकत्वमिति विकल्पमभिप्रेत्य प्रथमे कल्पेऽनैकान्त्यम्, अनेककर्तृकरथगोपुरादिषु कार्यत्वस्य विद्यमान-त्वादिति भावः । सर्वज्ञसर्वशक्तिककर्तृत्वपक्षे दूषणमाह पक्षस्येति । न ह्यग्रिमत्त्वमिव सर्वज्ञसर्वशक्तिकर्तृकत्वम- न्यत्र दृष्टम् । दृष्टान्तस्य साध्यविकलता; कार्येषु घटादिष्वदर्शनात् । अप्रसिद्धविशेषणत्वसाध्यवैकल्ये द्वे अप्यु-पपादयति सर्वेति । सर्वनिर्माणचतुरस्येत्युक्तत्वादिदं दूषणद्वयं सर्वज्ञसर्वशक्तिकर्तृकत्वपक्षस्येति ज्ञायते । पूर्व-स्मिन्नेव पक्षे चेत्, अप्रसिद्धविशेषणत्वं न घटते । न ह्येककर्तृकत्वमप्रसिद्धम् । सकर्तृकत्वमात्रपक्षे दूषणमाह बुद्धिमदिति ।। सिद्धसाधनत्वं वेदान्तिना न वक्तव्यं, क्षेत्रज्ञकर्तृकत्वानभ्युपगमादिति चेन्न, क्षेत्रमानामपि द्वार-कर्तृत्वाभ्युपगमात् । समष्टितत्त्वेषु न द्वारकर्तेति चेत्- न च तत्पक्षीकरणं; लौकिकप्रमाणाविषयत्वात् ।। आग- मेन सिद्धानां तेषामपि पक्षीकार इति चेत् - तेन कर्त्ताऽपि सिद्ध इति सिद्धसाध्यतेति ।

मुखान्तरेण दूषयितुं हेतुं विकल्पयति सार्वज्ञ्येति । अयमभिप्रायः- कर्तृमात्रव्याप्येन कार्य्यत्वमात्रेण न कर्तृविशेषसिद्धिरिति प्रागेवोक्तम् । अतः पक्षविशेषाधीनेन कार्यत्वविशेषेण कर्तृविशेषः साध्यः । कुम्भादिकायर्-विशेषेण हि कुलालादिकर्तृविशेषानुमानं; न तु कार्यत्वमात्रेण । अतः पक्षाधीनः कार्यत्वविशेषो निरस्यत इति । किं युगपदिति । पक्षप्रकर्षाधीनं हेतुवैशिष्टयं द्वेधा सम्भवेत्-परिदृश्यमानमह्यादिविपुलकार्याणां युगपदुत्पत्त्या वा, क्रमभाविनां त्रैकाल्यवर्तिनां कार्याणामानन्त्येन वा? तत्र कीदृश्येन पक्षप्रकर्षेण हेतुविशेषो विवक्षित इत्यर्थः । प्रथमं दूषयति युगपदिति । कृत्स्नप्रलयासिद्धेः भूधरादीनां युगपदुत्पत्तौ प्रमाणाभावात् तन्निबन्धनं कर्तृवैलक्षण्य-साधकहेतुवैलक्षण्यमसिद्धमित्यर्थः । द्वितीयं दूषयति क्रमेणेति । यद्यप्येकैकेन कुलालादिना जन्मसहस्रेणाप्य-नन्तकार्यनिष्पादनसम्भवः, तथाऽपि तत्तज्जन्मसमानकालकुविन्दादिकृतानां कार्याणां तत्कर्तृकत्वाभावात् सर्व-कार्याणामेककर्तृकत्वं नास्ति । अतस्त्रैकाल्यवर्त्तिसमस्तवस्तुनिष्ठत्वविशेषितं कार्यत्वं कर्तृभेदेनैव व्याप्तमिति कर्त्रै-क्यसाधने विरुद्धमित्यर्थः । अत्राप्येककर्तृकत्वसाधन इति । विशिष्टकार्यत्वव्यापकतयाऽभिमतस्य घटपटरथादि-दृष्टस्य भिन्नकर्त्तृकत्वस्य प्रतिक्षेप इत्यर्थः । भिन्नकर्तृकतया प्रत्यक्षसिद्धेषु प्रत्यक्षविरोधः । अन्यत्रद्वीपान्तरवर्त्ती घटः एतद्वयतिरिक्त कुलाल कर्तृकः, एतद्वयापारागोचरहेतुकत्वे सति घटत्वात्, संप्रतिपन्नकूलान्तरोत्पादितघट- वत् । द्वीपान्तरवर्त्तिघटहेतूनां दण्डादीनामेतद्वयापारागोचरत्वमेतस्य तत्र गमनाभावनिर्णयात् ।अतः- एवमादि-भिरनुमानैर्विरोधः । शास्त्रविरोधमुपपादयति कुम्भकार इति । कुम्भकारो जायते रथकारो जायत इत्यर्थोपादानम् ; न तु पाठक्रमः । न हि कुम्भरथयोरेककर्तृकत्वे कुम्भकाररथकारयोरुत्पत्तिः पृथग्वक्तव्या; एकसञ्ज्ञात्वेन पुनरुक्ति-प्रसङ्गादिति भावः ।

प्रकारान्तरेण विरुद्धत्वमाह अपि चेति । सुखादेः सत्त्वादिगुणकार्यत्वं शास्त्रदृष्टमिति तत् शास्त्रप्रामा-ण्यवादिनाऽङ्गीकार्यमिति मत्वाऽनिष्टमापादयति; न तु पराभ्युपगमात्, सुखादिशब्देन सुखदुःखमोहा विवक्षिताः ।

शरीरादीनां सुखाद्यन्वयः सुखादिहेतुत्वाऽवस्थान्वयः, सत्त्वादिमूलत्वम्-सत्त्वादिगुणकद्रव्योपादानत्वमित्यर्थः । के ते सत्त्वादयः, कथं च तेषां सुखादिहेतुत्वमित्यत्राह कायर्वैचित्र्येति । कारणगता विशेषाः । कारणशब्दो निमितोपादानसाधारणपरः । ततः किं कर्तुर्गुणवश्यत्वस्येत्यत्राह तेषां कार्याणामिति । पुरुषेण कार्याणां तन्मूल-त्वापादनं सत्त्वादियुक्तस्वकीयान्तःकरणविकारद्वारेणेत्यर्थः । ततः किमित्यत्राह पुरुषस्य चेति । कार्यानुपयोह-गिनो हि धर्माः न प्राप्नुवन्तीति पूर्वपक्षिणोक्तंम् । सत्त्वादीनां तु काय्र्योपयोगित्वात् तदधीनः कर्मसम्बन्धोऽवर्ज- नीय इति भाववानाह ज्ञानशक्तिवदिति । सुखदुःखमोहादीनां सत्त्वरजस्तमोहेतुकत्वं शास्त्रसिद्धम् । सुखादि-हेतुभूतशरीराद्युपादानस्य, निभित्तस्य च कर्त्तुः सत्त्वादिगुणान्वयश्च शास्त्रसिद्धः, "निर्गुणस्याप्रमेयस्य शुद्धस्या-प्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते " इत्यादिभिर्दृश्यते । अतः सत्त्वादिगुणकं शरीराद्युपा- दानं द्रव्यं सत्त्वादिगुणान्वयविकृतान्तःकरणः पुरुषोऽधितिष्ठति । गुणान्वयश्च कर्ममूल इति कमर्वश्यत्वप्रसङ्ग इत्यर्थः । हेत्वन्तरेणापि कर्मसम्बन्धमाह ज्ञानेति । न ज्ञानशक्तिवैचित्र्यात् विचित्रसर्गः; अपि तु इच्छामात्रा- दिति चेत्-तत्राह इच्छाया इति । विषयविशेषविशेषितायाः । इच्छायाः सर्गस्थेमादिविषयत्वम् तत्रापि विचि-त्रसर्गादिविषयत्वं च सत्त्वादिमूलत्वेन कर्ममूलभित्यर्थः । एवं कर्तृत्वक्षेत्रज्ञत्वयोर्व्याप्तिदर्शनात् न तद्विलक्षण-सिद्धिरित्याह अत इति ।

प्रतितर्कानाह भवन्ति चेति । तनुभुवनादीति । इदं प्रत्यनुमानं प्रतितर्को वा । अन्ये प्रतितर्का एव । कार्यत्वे क्षेत्रज्ञकर्तृकत्वप्रसङ्गः; कर्तृत्वे सापेक्षत्वप्रसङ्गः; कर्तृत्वे सशरीरत्वप्रसङ्गः इत्यर्थः । अशरीरत्वहेतोर्थ-भिचारमाशङ्कय परिहरति न चेति ।अनादेः-बीजाङ्कुरवत् प्रवाहानादेरित्यर्थः । अधिष्ठानं देहेन प्रथमसम्बन्ध- श्चेत् - सूक्ष्मस्थूलशरीरप्रवाहानादितया परिहृतः; यथा बालशरीरविशिष्टेन युवशरीरपरिग्रहः, तद्वदेव । अधि- ष्ठानं प्रेरणं चेत्- स्वपरनिर्वाहकन्यायात् परिहृतः । शरीरव्यतिरिक्तप्रेरणस्य शरीरापेक्षा, न शरीरस्येति (हि) शरीरत्वप्रयुक्तं शरीरान्तरनिरपेक्षप्रेरणत्वम् । तथा जगतः ईश्वरशरीरत्वे न सशरीरत्वात् कर्मवश्यत्वप्रसङ्गः । यथा देहः स्वज्ञानोत्पत्तौ करणं कर्म च भवति, यथा च घटः स्वविषय ज्ञानोन्पत्तौ स्वसत्तया हेतुः पश्चात् तद्विषयाश्च भयति-तथा स्वविषयप्रेरणेऽपि शरीरमिति न कर्मकर्तृविरोधः । न चाङ्कुरादौ शरीरस्य योग्यानुपलब्धिः; पिशा-चसिद्धादिशरीरवददृश्यत्वोपपत्तेः; देशान्तरस्थेन वा शरीरेण सङ्कल्पद्वारा विषादेरिव प्रेरणोपपत्तेश्च । प्रतितर्का-न्तरमाह विमतीति । अत्र सूर्यपरिवृत्तिसङ्खयाविशेषावच्छेदात् पूर्वत्वेन परत्वेन च कालस्य पक्षीकृतत्वात् नाश्र-यासिद्धिरिति । (अनुमानं) मुखान्तरेण दूषयति अपि चेत्यादिना । दूषणं वक्तुं विकल्पयति किमिति । धीस्थं चरमशिरो दूषयति न तावदिति । अशरीरस्य मनसा कर्तृत्वं स्यादिति प्रागुक्तं दूषयति मानसानीति । कुत इत्य-त्राह मनस इति । अपिशब्देन स्वपक्षे नित्यत्वानभ्युपगमः सूचितः । सशरीत्वपक्षं दूषयति नापीति ।विकल्पास-हत्वं विवरितुं विकल्पयति तदिति । प्रथमं दूषयति न तावदिति । जगतः-भूभूधरादेः । द्वितीयं दूषयति ना- पीति । हेतुमाह तद्वयतिरिक्तस्येति । तच्छरीरहेतोः शरीरान्तरस्याभावादत्यर्थः । दूषणपरिहाराय परोक्तं शङ्कते स्वयमेवेति । स्वयंशब्द ईश्वरपरः । परिहरति नेति । तदयोगात्-हेतुत्वायोगात् । पुनः शङ्कते अन्येनेति ।अनव-स्थया दूषयति नेति । प्रामाणिकपरम्परा न दोष इति चेत्-शरीरित्वप्रयुक्तकर्मवश्यत्वं स्यादिति भावः । कर्मवश्य-त्वप्रसङ्गस्य प्रागुक्तत्वादिहाप्यनवस्थादूषणस्य कर्मवश्यत्वप्रसङ्गपर्यन्तत्वमभिप्रेतमित्यवगम्यते । मुखान्तरेण विकल्प्य दूषयति स किमिति ।अशरीरस्य निर्व्यापारत्वे निर्व्यापारस्य कार्याकारणे च दृष्टान्तो मुक्तात्मा । व्या-पारश्च प्रयन्नो विवक्षितः । इच्छाविशेषस्य हेतुत्वे हि गुणवश्यताप्रसङ्गः पूर्वमुक्तः । इच्छामात्रमेव व्यापार इत्यत्राह

कार्यं जगदिति । मात्रशब्देन सत्त्वादिगुणान्वयतन्मूलकर्मसम्बन्धव्यावृत्तिः । ननु कर्मवश्यत्वादिकं न कर्त्तुः प्रसञ्जनीयम्, अव्यापकत्वात् । न हि त्वत्पक्षेण वाऽस्मत्पक्षेण वा व्याप्तिः, ईश्वरे त्वया मयापि तदनभ्युपग- मात् ।। नैवम्; आगमात् ॠतेऽपीश्वरः सिध्यतीति वदन्तं प्रति आगममसन्तं कृत्वाऽस्मादादिभिरुच्यमानत्वात् । यदीश्वरप्रतिपादकागमबलात् मदुक्तव्याप्तिभङ्गेनेश्वरानुमानं स्थाप्यते, तदानीमनुमानस्यागमानपेक्षप्रामाण्यासिद्धि-रित्यप्राप्तग्राहित्वमागमस्य सिध्येत् । यद्वा अलौकिकप्रमाणैकवेद्यत्वाभावे सति कर्तृत्वस्य कर्मवश्यत्वादिव्याप्य- त्वात् । शास्त्रयोगिमुक्तेश्वरप्रत्यक्षाण्यलोकिकशदोक्तानीति ।

अनुमानदूषणमुपसंहरति अत इति । परस्य ब्रह्मण ईश्वरानतिरिक्तत्वज्ञापनार्थः सर्वेश्वरशब्दः ।अनेन "तमीश्वराणां परमं महेश्वरम्" इति श्रुतिः स्मारिता भवति । देवताविशेषनिर्णयार्थं "महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तक" इति श्रुतिस्मारणार्थः पुरुषोत्तमशब्दः । उक्तदोषास्तदानीमपि प्राप्नुयुरित्यत्राह शास्त्रन्त्विति । सर्व-विजातीयत्वं दर्शयति सार्वज्ञ्येति । सार्वज्ञ्यसत्यसङ्कल्पत्वादिमिश्रशब्दो ब्रह्मविशेषणं गुणविशेषणं । वा; तद्व-ततिरूपत्वादन्येषां गुणानाम् । एकैमनवधिकातिशया गुणा अपरिमिताः- निःसंख्याता इत्यर्थः ।।

।। इति शास्त्रयोनित्वाधिकरणम् ।।

1.1.4

यथा मृत्तिकाया घटनिष्पादनशक्तत्वेपि, कुलालस्य च निर्माणशक्तौ सत्यामपि दण्डचक्रपरिकरापेक्षा-ऽस्त्येवतथा शब्दस्य परिनिष्पन्नब्रह्मप्रतिपादनशक्तत्वेऽपि, ब्रह्मणोऽपि शब्देन प्रतिपत्तुं शक्यत्वेऽपि, बुभुत्साख्य-परिकरापेक्षा प्रमित्युत्पादने विद्यते । यत्नसाध्यत्वात् बुभुत्सा अपेक्षिता । सा चाज्ञातत्वपुरुषार्थत्वप्रयुक्ता । तत्रा-वान्तरपेटिकारूपेण प्रथमेन सूत्रद्वयेन शब्दद्वारकमर्थद्वारकं च शक्तिमत्त्वं प्रतिपादितम् । अथ सूत्रद्वयान्तरमवा-न्तरपेटिकान्तरं बुभुत्साहेतुनिरूपणपरम् । तत्र प्रथमेन तृतीयसूत्रेणाज्ञातत्वरूपो बुभुत्साहेतुरुक्तः । अथ प्रयोजन-त्वरूपो बुभुत्साहेतुरुच्यते चतुर्थेन । अर्थे प्रतिपन्ने हि प्रयोजनाप्रयोजनत्वचिन्ता । प्रतिपत्तिश्च लक्षणतः इति जन्मादिसूत्रं द्वितीयमभूत् । जन्मादिकं लक्षणं चेत्-मानान्तरात् तत्सिद्धिः स्यादिति शङ्कायाः सङ्गतत्वात् शास्त्र-योनित्वादिति सूत्रं तृतीयमभूत् । अज्ञातत्वेऽप्यप्रयोजने बुभुत्सानुदयात् प्रयोजनरूपत्वमत्र निरूप्यत इति क्रमो-ऽयमेव । सू तत्तु समन्वयात् तत्रावान्तरसङ्गतिमाह यद्यपीति । अज्ञातत्वन्नाम बुभुत्साहेतुर्यद्यप्यस्तीत्यर्थः । प्रयो- जनं सुखं दुःखनिवृत्तिश्च । शास्त्रस्य तत्पर्यवसायित्वं तदुपायप्रवृत्तिबोधनद्वारा । तच्च न सिद्धपरत्वेऽस्ति । तस्य प्रवृत्तिनिवृत्तिरूपत्वाभावात् । तस्मात्प्रयोजनपर्यवसायित्वाभावेन बुभुत्साख्यपरिकराभावात् सिद्धे शास्त्रं न प्रमितिं जनयतीत्यर्थः । एवं शङ्कायां सूत्रमुदाहरति तत्तु सयन्वयादिति । इहापि साधारणविचारद्वयमर्थसिद्धम्; ब्रह्मणः शास्त्रप्रमाणकत्वं संभवति, नेति द्वितीयविचारः; तदर्थं प्रवृत्तिनिवृविरूपप्रयोजनशून्यानां वेदान्तवाक्यानां ब्रह्मपरतयाऽन्वयः सम्भवति, नेति; तदर्थं किं शब्दस्य प्रामाण्यं प्रवृत्तिनिवृत्तिपरतया, उत पुरुषार्थपरतयेति ।शब्द-स्य प्रवृत्तिनिवृत्तिपरतयैव प्रामाण्ये ब्रह्मणः सिद्धरूपस्य शास्त्रप्रमाणकत्वाभावात् तद्विचारानारम्भः । शब्दस्य पुरु-षार्थपरतयैव प्रामाण्ये पुरुषार्थभूतब्रह्मणः शास्त्रप्रमाणकत्वात् तद्विचारस्यारम्भणीयत्वं फलितम् । एवमर्थसिद्धौ विषयसंशयावभिप्रेत्य सूत्रं व्याचिख्यासुः तत्र वाक्यार्थयोजनायामेव पदयोजनामन्तर्भावयिप्यन् पृथग्व्याख्येयम् तुशब्दं व्याचष्टे प्रसक्तेति । सर्वेषां सूत्राणां तत्तच्छङ्कायामवतरणेऽपि अस्मिन् सूत्रे तु शब्दः प्रदशर्नार्थः । तदिति व्याख्येयं पदम्; तद् व्याचष्टे शास्त्रप्रमाणकत्वं ब्रह्मण इति । संभवत्येवेत्येतत् तुशब्दफलितम् । हेतुपदस्याकाङ्क्षां दर्शयति कुत इति । समन्वयशब्दस्योत्तरत्र विस्तरेण व्याख्यास्यमानत्वादिदानी सङ्क्षपेण व्याचष्टे परमपुरुषार्थत- येति । कस्य केन क्कीदृशोऽन्वयः इत्यपेक्षयामाह परमेति । शास्त्रेण परमपुरुषार्थभूतस्य ब्रह्मणोऽभिधेयतयाऽन्व-

यादित्यर्थः । शास्त्रस्य धीस्थत्वात् शास्त्रेणेति कण्ठोक्तयभावः । ब्रह्म शास्त्रप्रमाणकमिति प्रतिज्ञाते सति पक्षनिष्ठ-तया हेतोर्वक्तुमुचितत्वात् समन्वयो ब्रह्मकर्तृकतया व्याख्यातः; न तु शास्त्रकर्तृकतया । कथं तथाविधान्वयः इत्य-पेक्षायामेतदुपपादयति एवमिति । इवशब्द एवार्थः; एवमेवेत्यर्थः ।औपनिषदः पदसमुदायः परमपुरुषार्थभूते ब्रह्म- णि प्रतिपादकत्वेन समन्वित एव हीत्यर्थः । पदसमुदायः वाक्यमित्यर्थः ।औपनिषदवाक्यबहुत्वेऽपि तेषां वाक्यै-कवाक्यभावेनैकार्थपरतया एकराशित्वव्यञ्जनायैकवचनम् । समन्वित इति वाक्यकर्तृकत्वेनोक्तिः फलितार्थाभि-प्राया; न तु सूत्रयोजनाभिप्राया । ब्रह्मणि समन्वितानामित्युत्तरत्राप्येवमेव । प्रतिपत्तिक्रमानुरोधेन प्रथमं लक्षण-वाक्यमुपादत्ते यतो वा इति ।अथ प्रापकं कारणवाक्यमाह सदेवेत्यादिना । सच्छब्दस्य बृहदबृहत्साधारणत्वात् विशेषकवाक्यमुपादत्ते ब्रह्म वा इति ।। यत् कारणं, तत् ब्रह्मेति लक्षणवाक्येनोक्ते, सतः कारणत्वे च कथिते, तस्य सतो ब्रह्मत्वं सिध्यतीति न बृहत्त्वनिश्चयः ब्रह्म वा इति वाक्याधीन इति चेन्न; लक्षणवाक्यस्य कारणानु-वादित्वेन प्रापकवाक्योपजीवित्वादुपजीव्येषु प्रापकवाक्येप्वेव विशेषनिर्धारणज्ञापनार्थं हि ब्रह्म वा इति वाक्य-मुपात्तम् । सद्व्रह्मशब्दयोरीक्षणान्वयलिङ्गादचिद्वयावृत्तवस्तुपरत्वेऽपि तयोः शब्दयोः साधारणतया शब्दसामर्थ्या-दचिद्वयावृत्तिनिश्चयस्तत्र नास्तीति शब्दशकत्यैव विशेषज्ञापनार्थम् आत्मा वा इति वाक्योपादानम् । ब्रह्मशब्द- स्य साधारणत्वं नाम बहुष्वर्थेषु प्रयुज्यमानत्वम्; न तु प्रवृत्तिनिमित्तसाधारण्यम् । प्रवृत्तिनिमित्तभूतस्य निरतिशय-बृहत्त्वस्य भगद्वयव्यतिरिक्तगामित्वसन्देहसहत्वं वा । न हि स्वारसिकात्मशब्दैकार्थ्ये प्रतिपन्ने सति निरतिशयबृह-त्त्वस्याचिद्गामित्वसन्देहः । साद्वद्यायां "स आत्मा" इयात्मशब्द उपसंहारस्थ इति उपक्रमस्थेनैवात्मशब्देन विशेष-निश्चयार्थम्, "आत्मा वा" इति वाक्यमुपात्तम् । "यतो वा इमानि"इत्यादिप्रकरण एव, "आनन्दाद्ध्येव खल्वि- मानि भुतानि जायन्ते" इत्यानन्दशब्देन कारणे निर्दिष्टेऽपि, "यदेष आकाश आनन्दो न स्यात्" इत्याकाशशब्द-सामानाधिकरण्यात् आनन्दशब्देनाचिद्वयावृत्तिनिश्चयः प्रतिबद्ध इत्यभिप्रायेणाचिद्वयावृत्तेः सुखेन प्रतिपत्त्यर्थम् आत्मा वा इति वाक्योपादानम् । सर्वशाखाप्रत्ययन्यायेन विनाऽपि प्रकरणादेव ब्रह्मशब्द आत्मपर इति ज्ञाप-नार्थम्, एतदधिकरणापेक्षितानान्दरूपताप्रतिपादकप्रकरणस्थतया तज्ज्ञापनार्थं चोपादत्ते तस्माद्वा एतस्मादा- त्मन इति । "सत्यं ज्ञानमनन्तं ब्रह्म" इति हि तत्र प्रकृतम् । "अन्योऽन्तरात्मा आनन्दमयः", "आनन्दं ब्रह्मणो विद्वान्" इति च तत्र वक्ष्यते । अत्र(थ) "छागो वा मन्त्रवर्णात्" इति न्यायात् सामान्यशब्दानां देवताविशेषे पर्यवसानं दर्शयति एको ह वा इति । "सेयं देवतैक्षत" "यो ब्रह्मणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवम्" "स ईशोऽस्य जगतो नित्यमेव नान्यो हेतु#ेर्विद्यत ईशनाय" "ईशानो भूतभव्यस्य" तमीश्वराणां परमं महेश्वरम्" इत्यादिषु श्रुतानां देवतादिशब्दानां पूर्वपूर्वापेक्षया विशेषशब्दानामपि साक्षात् कारणवाक्यस्थत्वाभा- वात्, तेषु च, रूढिमतामऽपि देवतादिशब्दानां व्यक्तिविशेषे रूढत्वाभावात् ईशादिशब्दानां च, "जगत ईशो- नान्यो हेतुर्विद्यते ईशनाय" इति समभिव्याहृतषष्ठयन्तपदनिर्देशादिभिरवयवार्थविवक्षायाः स्फुटतरत्वेन निमग्नरू-ढितय । साधारणत्वाच्च, चरमविशेषशब्दप्रदर्शनेन तेषामपि तत्पर्यवसानमर्थसिद्धं स्यादित्याभिप्रायेण च "सेयं देवता" इत्यादिवाक्यानि अनादृत्य एको ह वै नारायणः इत्यादिवाक्यमुदाहृतम् । हिरण्यगर्भादयश्शब्दा आका-शप्राणादिशब्दवदयोग्यार्थाः । शिवादिशब्दाश्च बह्वर्थेषु प्रयोगात् साधारण इति सदादिशब्दवन्न विशेषोपस्थापन-क्षमा इत्यभिप्रायः । "वचनानि त्वपूर्वत्वात्", "विधस्तु धारणेऽपूर्वत्वात्" इति न्यायेन, "यदाग्नेयोऽष्ठाकपालः" "उपरि हि देवेभ्यो धारयति" इति वाक्यवदिदं महोपनिषद्वाक्यमपि अप्राप्तार्थोपस्थापकत्वात् आकाशप्राणादि-वाक्यवत् अयोग्यार्थोपस्थापकत्वाभावाच्चानन्यापेक्षं स्वार्थं प्रतिपादयति ।

"न सन्न चासच्छिव एव केवल" इति वाक्यविरोधादिदं वाक्यमयोग्यार्थमिति चेत् -न; "सदेव सोम्ये- दग्रे" इति वाक्यविरोधेन, "न सन्नचासत्" इत्यादिवाक्यस्यायोग्यार्थत्वप्रसङ्गात् ।। साधारणस्य सच्छब्दस्य शिव-पर्यवसानाविरोधात् नात्रायोग्यार्थत्वमिति चेत् -तर्हि शिवशब्दस्य च बहुष्वर्थेषु प्रयोगात् साधारणस्य नारायण-पर्यवसानाविरोधात् नात्रायोग्यार्थत्वम् । ब्रह्मशिवादीनां हि कार्यत्वमिन्द्रादीनामिव बह्वीभिः श्रुतिभिः प्रतिपाद्यते-

यजुषि, "अजस्य नाभावध्येकमर्पितं यस्मिन्निदं विश्वंभुवनमधिश्रितं विश्वकर्मा ह्यजनिष्ट देवः", स प्रजापतिरेकः "पुष्करपर्णे समभवत् ", "तस्माद्विराडजायत विराजोऽधिपुरुषः", महोपनिषदि, "तत्र ब्रह्मा चतु-र्मुखोऽजायत", सुबालोपनिषदि, "अद्भयःपृथिवी । तदण्डमभवत् । तत् सम्वत्सरमात्रमुषित्वा द्विधाऽकरोदध-स्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो दिव्यः; सहस्रशीर्षा पुरुषः" इत्यारभ्य, "सोऽग्रे भूतानां मृत्युमसृजत् । तस्य ब्रह्मऽबिभेत् । सो ब्रह्माणमेव विवेश" इति ।अत्र परमपुरुषात्मनः पुरुषो #ेब्रह्मा समुत्पन्न इति श्रुतः; पुरुषशब्द-द्वयश्रवणात् मृत्युभयवत्त्वश्रवणाच्च । श्वेदाश्वतरे, "वेदाहमेतं पुरुषं महान्तम्", "महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्त्तकः" यो ब्रह्माणं विदधाति पूर्वम् इति च हिरण्यगर्भोत्पत्तिरवगम्यते ।

तथा महोपनिपदि, "त्र्यक्षः शूलपाणिः पुरुषोऽजायत", सुबालोपनिषदि , "लालाटात् क्रोधजो रुद्रो-ऽजायत", बृहदारण्यके, "ब्रह्म वा इदमेक एवाग्र आसीत् । तदेकं सन्न व्यभवत् । तच्छ्रेयोरूपमत्यसृजत क्षत्रम्-यान्येतानि देवक्षत्राणि इन्द्रो वरुणः सामो रुद्रः पर्जन्यो यमो मृत्युरीशान" इति । तथा शतपथ,#े "अभूद्वा इदं प्रतिष्ठो" इयारभ्य "भूतानां च प्रजापतिः संवत्सरायादीक्षिषत । भूतानांपतिर्गृहपतिरासीदुषाः पत्नी" "इत्यादि-कमुकत्वा; "भूतानाम्पतिः संवत्सर उषसि रेतोऽसिञ्चत् । संवत्सरे कुमारोऽजायत । सोऽरोदीत् । तं प्रजापतिर- व्रवीत् । कुमात! किं रोदिषि यत् श्रमात् तपसोऽधि जातोऽसीति । सोऽब्रवीत् । अनपहतपाप्मा वा अहमस्मि अवि(ना)हितनामा । नाम मे धेहि पाप्मनोपहत्या इति । तमब्रवीत् रुद्रोऽसीति । तदस्य तन्नामाऽकरोत् । अग्नि-स्तद्रूपमभवत्" इत्यारम्भ शर्वपशुपतिप्रभृति नामकरणं पृथिवीसलिलादिमूर्तिप्रदानं चोक्तम् । रुद्रवाक्यादेवान-पहतपाप्मत्वं च तस्य श्रुतम् । तत्रेव च शतरुद्रीयब्राह्मणे, "प्रजापतेर्विस्सृता देवता उदक्रामन् । तमेक एव देवो न जहान् महामन्युरेव सोऽस्मिन्नन्तर्हितो अतिष्ठत् । सोऽरोदीत् । तस्य यान्यश्रूणि प्रास्कन्दन् , तान्यस्मिन् मन्यौ प्रातिष्ठन् । स एष शतशीर्षा रुद्रः समभवत्" इति । अत्र प्रजापतेः क्रुद्धस्य क्रोधजाश्रुसम्भवत्वं मन्युरूपस्य रुद्रस्याभिहितम् । क्रोधस्य चाश्रुहेतुत्वं प्रसिद्धम् ,"तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुविन्दवः । दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहविन्दवः" इति । तथा शैलालिब्राह्मणे, "प्रजापतिर्वै प्रजाकामः स तपोऽतप्यत" इत्यारभ्य अग्निवाय्वादित्यचन्द्राणामुत्पतिं्त तेषां रेतःस्कन्दनं चोकत्वा "स प्रजापतिर्हिरण्मयं च सममकरोदिषुमात्रमूर्ध्व- मेवं तिर्यञ्चम् । तस्मिन् रेतः समसिञ्चत् । तत उदति#ेष्ठत् सहस्राक्षः सहस्रपात् । तत् सहस्रेण प्रतिहिताभिः स प्रजापत्ति पितरमभ्यायच्छत् । तमब्रवीत् कथमभ्यायच्छसीति । नाम मे कुर्वित्यब्रवीत् । न वा इदमविहितेन नाम्ना अन्नमत्स्यामि इति । शर्वो वै त्वमित्यब्रवीत् । भव एवेति यद्भव" इत्यारम्भ भवशर्वादिनामकरणं सलिलादिमूर्त्ति-प्रदानं चोकत्वा , "स एषोऽष्टनामाऽष्टधा विहितो महादेव" इति नामाष्टकमूत्र्त्यष्टकवत्वं प्रजापतिना विहितमिति स्पष्टतरमुक्तम् । तलवकारिणां कर्मारम्भ,#े "इदं कर्म करिष्यामि तन्मे समृध्यतां तन्म उपपद्यतां विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठायमोधाय कर्माधिपतये नमः" इति । तथा छन्दोगानां च कर्मारम्भे, "तस्मै विरूपाक्षाय दताञ्जये तुद्धाय विश्ववेदाय सहस्राक्षाय ब्रह्मणः पुत्राय नमः" इति च तन्त्रद्वयेन रुद्रस्य ब्रह्मपुत्रत्व-मभिहितम् । घृतसूक्ते च "यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृतिवासाः पिनाकी"इति ब्रह्मण उद्भूतत्वं रुद्रस्यो-

क्तम् । उज्जाहार-उद्भूवेत्यर्थः । अतो हिरण्यगर्मादीनां कार्यत्वावगमेन तद्वि#ाचशब्दानामयोग्यार्थत्वात् नारायण एव सदादिशब्दाः पर्यवस्यन्ति ।।

ननु "हिरण्यगर्भः समवर्त्तताग्रे" "न सन्न चासच्छिव एव केवलः" "एको ह वै नारायण आसीत्", "ब्रह्म-वि-ष्णुरुद्रेन्द्रास्ते सर्वे सम्प्रसूयन्ते" इति । त्रयाणामपि देवतानां कारणत्वकायर्त्वयोरविशेषण श्रवणात्, अयोग्य-त्वशङ्कायाः त्रिष्वपि तुल्यत्वात् जन्मनः ऐच्छिकत्वेन अयोग्यत्व परिहारस्य त्रिष्यपि सुवचत्वात्, कारणैकत्वा-वधारणस्यानुरोद्धव्यात्वात् रूढेरपरित्यागस्य स्वतः प्राप्तत्वाच्च, त्रयाणामप्यैक्याश्रयणेन परमकारणत्वमभ्युगन्त- व्यम् ।। नैवम्; त्रयाणाम् अविशेषेणकार्यत्वश्रवणाभावादेव त्रिष्वप्ययोग्यत्वशङ्कायाः तुल्यत्वाभावात् । तस्य हि प्रकरणस्येपक्रमे, "कश्च ध्येय" इति ध्येयविधिपरत्वमवगतमिति कार्यत्वमनूद्यते । अनुवादश्च प्रापकानुरोधेन स्यात् । लक्ष्मीपतिविषय उत्तरनारायणानुवाके भगवदुत्पतरवताररूपा श्रूयत इति यस्मिन् वाक्ये भगवदवतारानु- वादः । ब्रह्मशिवयोस्तु अववतारश्रुत्यभावादिन्द्रवरुणादितुल्योत्पत्तिरनूद्यते इति नाविशेषेण कार्यत्वश्रवणम् । किञ्चोत्पतिश्चेत् कर्माधीनदेहसङ्गतिरित्युत्सर्गसिद्धम् । तच्च ब्रह्मशिवयोरनपोदितम् नारायणे त्ववतारश्रुत्याऽपो- दितम् । "प्रजापतिर्देवानसृजत ते पाप्मना सन्दिता अजायन्त" इति प्रजापतिसृष्टदेवानां सामान्येन पाप्मसम्बन्धः श्रुतः; विशेषतो रुद्रस्यानपहतपाप्मत्वं शतपथे स्ववाक्यादेव दर्शितम् । "एष सर्वभूतान्तरात्माऽपहतपाप्मा - दिव्यो देव एको नारायणः" "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम । एष हि सर्वेभ्यः पाप्म-भ्यः उदितः", "अपहतपाप्मा विजरो विमृत्युः", "स उत्तमः पुरुषः" इति पुण्डरीकाक्षस्याकर्मकृतविग्रहवत्त्वं चेक्तम् ।

एवं वैषम्यस्य स्फुटत्वेन उत्पत्तिसाम्यशङ्काया दूरविध्वस्ततया योग्यार्थनारायणादिशब्दानामिव अयो-ग्यार्थब्रह्मशिवादिशब्दानां रूढिपरित्यागाभावोऽनुपपन्नः । यदि रुद्रस्य परमकारणत्वं तदुत्पत्तेरवताररूपत्वं चास्तिकतमैर्भवद्भिरुच्यते, तर्हि भवतामिन्द्रे कः प्रद्वेषः? "इन्द्रो मायाभिः पुरुरूप ईयते", "ब्रह्मविष्णुरुद्रास्ते सर्वे सम्प्रसूयन्ते" इति कार्यत्वकारणत्वे हि ब्रह्मशिवयोरिवेन्द्रस्यापि श्रूयेते । अत इन्द्रस्य परमकारणत्वं तदुत्पत्तेः पर-मकारणभूतेन्द्रावताररूपत्वं चाश्रित्य इन्द्रशब्दस्य योग्यार्थत्वं किमिति नाभ्युपगम्यते ।। "प्रजापति-रिन्द्रमसृजत" इति तस्य सृज्यत्वश्रवणात् त्वाष्ट्रवधरूपब्रह्महत्याऽभिभूतत्वश्रवणात् तत्प्रायश्चितादिश्रवणाच्चेति चेत्- इन्द्रस्य जन्मवृत्तापकर्षयोगः कृष्णस्य वसुदेवगृहजन्म कालयवननिमित्तपलायनवत् लीला किं न स्यात् ।। इन्द्रस्य परम-कारणवस्त्वैक्ये सति उत्तरनारायणप्रतिपाद्यत्वम्, तस्मिन् सति जन्मवृत्तापकर्ष(सं)योगस्य लीलात्वम्, तस्मिन् सति इन्द्रशब्दस्य योग्यार्थत्वम्, तस्मिन् सति इन्द्रस्य परमकारणवस्त्वैक्यमिति चक्रकाश्रयप्रसङ्गात्, एकस्मि- न्नेव वाक्ये सोमवरुणयमादिवत् सृज्यत्वप्रतीतेश्च नैवमिति चेत् -तर्हि रुद्रस्य परमकारणवस्त्वैक्ये सति उत्तर-नारायणप्रतिपाद्यान्तभार्वः, तेन जन्मकर्मापकर्षस्य लीलात्वम्, तेन शिवादिशब्दानां योग्यार्थत्वं तेन परमकार-णवस्त्वैक्यमिति चक्रकप्रसङ्गात्, सोमवरुणादिवत् तस्मिन्नेव वाक्ये सृज्यत्वसंहार्यत्वश्रवणाच्च शिवादिशब्दा-नामयोग्यार्थत्वं दुष्परिहरम् । भगवज्जन्मनोऽवताररूपत्वे तु न चककप्रसङ्ग, "तस्माद्विराडजायत" इति कार-णतयोक्तस्य परमपुरुषस्य महापुरुषशब्देनोत्तरनारायणे प्रत्यभिज्ञातस्य लक्ष्मीपतेः अजायमानः" इत्यादिवाक्ये-नावतारस्य प्रतिपादितत्वात् ।

कार्यकारणविषयशिवादिशब्दानां भिन्नार्थत्वात् नायोग्यार्थत्वमिति चेत् -किं कार्यविषयशिवादि- शब्दानां प्रसिद्धरुद्रपरत्वम् उत कारणविषयाणाम्? प्रथमे प्रसिद्वस्द्रस्य आकाशादिवत् सृज्यत्वात् तद्वयतिरिक्त-

विषय शिवादिशब्दानां योग्यार्थ नारायण पदोपस्थापित विशेषपरत्वं अवर्जनीयम् ।। कारणविषय शिवादि शब्दाः प्रसिद्धरुद्रपराः, कार्यविषयास्तु तदतिरिक्तविषया इति चेत् -कारणे(णविषये?)न्द्रशब्दः प्रसिद्धेन्द्रपरः, कार्यविषयेन्द्रशब्दस्तदतिरिक्तपर इति किं न स्यात् । वृत्रबधादिकर्त्तरि इन्द्रशब्दव्युत्पत्तेरिति चेत्- त्र्यक्षश्शूल-पाण्यादिपर्यायत्वेन शिवादिशब्दव्युत्पत्तेः, "त्र्यक्षः शूलपाणिः पुरुषोऽजायत", उमापतिः पशुपतिः श्री(शिति)-कण्ठो ब्रह्मणः सुतः । उक्तवानिदमप्यग्रो ज्ञानं पाशुपतं शिव" इति शूलपाण्यादिशब्दानां कार्यविषयतया प्रयो- गाच्च । कारणविषयशिवादिशब्दानां प्रसिद्धरुद्रपरत्वमयुक्तम् । कारणविषयाणां नारायणादिशब्दानां प्रसिद्ध-विष्णुपरत्वं तु युक्तम्; अवतीर्णस्य कारणस्य च धर्म्यैक्ये प्रमाणस्य दर्शितत्वादथर्भेदाभावात् । अर्थभेदे सति हि कार्यकारणविषयनारायणादिपरेषु कस्य प्रसिर्द्धाथता, कस्य तदतिरिक्तविषयतेति विचारसम्भवः । कार्य-कारणभूतरुद्रधर्म्यैक्ये त्विन्द्रधर्म्यैक्य इव चक्रकापत्तिरवर्ज्जनीयेत्युक्तम् ।अतः कार्यकारणविषयशिवादिशब्दा-नामर्थभेदाङ्गीकारेण कारणविषयशिवादिशब्दाः प्रसिद्धेतरार्थविषया इति नारायणभेवाभिदधति । नारायणादि-शब्दानां प्रसिद्धार्थस्य योग्यतया अर्थभेदाभावात् धर्म्यैक्यस्य प्रमाणप्रतिपन्नत्वाच्च ।अतो महोपनिषत्प्रतिपादिते नारायण एव सद्व्रह्मादिशब्दाः पर्यवस्यन्तीति भावः ।

अथ कारणतया निर्दिष्टस्य ब्रह्मणः शङ्कितदोषव्यावर्तकं शोधकवाक्यमाह सत्यमिति । उक्तगुणविभू-त्यादिविशिष्टस्य ब्रह्मणः पुरुषार्थत्वमापनायाह आनन्दो ब्रह्मेति । आनन्दत्वं ह्यनुकूलत्वम् ।अनुकूलत्वं च स्वत इष्टत्वम्; तदपि इष्टसाधनत्वनिवर्त्यप्रातिकूल्यात्भ्यां विनाऽपीष्टत्वम् । तच्च विषयगतम् । तद्विषयज्ञानस्या-प्यनुकूलत्वादानन्दत्वम् । भगवतो मुक्तानां निरतिशयभोग्यत्वेनानुकूलतया स्वरूपतो धर्मतश्चानन्दत्वम् । स्व-विषयज्ञानस्य स्वरूपस्य च स्वात्मानं प्रत्यनुकूलत्वाच्चानन्दत्वम् । इत्येवमादिः । औपनिषदः पदसमुदाय इति पूर्वेणान्वयः ।

एवमन्वितेषु वाक्येषु प्रस्तुतपुरुषार्थत्वोपयोगित्वेन कोऽर्थः प्रतिपन्नः; स च किमापातप्रतिपन्नः, उत तात्पयर्भूमिः ? न प्रथमः; तस्य तात्त्वि-कत्वनिश्चयायोगात् । न द्वितीयः; प्रवृत्तिनिवृत्त्यभावेन तदयोगादिति शङ्कायां-प्रवृत्तिनिवृत्त्यन्वयः प्रामाण्यव्यापकः, अतस्तद्वयाप्यं प्रामाण्यं तद्विरहे न सिध्यतीति किमुच्यते । किं वा प्रवृत्तिनिवृत्त्यन्वयः प्रयोजनव्यापकः, प्रयोजनञ्च प्रामाण्यव्यापकमिति प्रवृत्तिनिवृत्त्यन्वयविरहे तद्वयाप्य-प्रयोजनाभावात् तद्वयाप्यं प्रामाण्यं न सिध्यतीत्युच्यत इति विकल्पमभिप्रेत्य प्रवृत्तिनिवृत्त्यन्वयस्य प्रामाण्यव्या-पकत्वं नास्तीत्याह न चेति । व्युत्पत्तसिद्धेति प्रथमसूत्रार्थानुवादः । सिद्धवस्तुनोपुरुर्षार्थत्वान्न शास्त्रं प्रतिपाद- यितुं शक्नोति । प्रतिपन्नेऽपि, न तत्र तात्पर्यम्, सिद्धे व्युत्पत्त्यभावादिति न वाच्यं, सिद्धे वस्तुनि व्युत्वत्त्युपपाद-नादिति भावः । प्रमाणान्तरगोचरत्वप्रयुक्तान्यपरत्वाङ्काव्युदासाय उदाहृतकारणवाक्यप्रतिपन्नमर्थमाह अखि- लेति । शोधकवाक्यप्रतिपन्नं कारणवाक्यैश्च सिद्धमर्थमाह अशेषेति । शाङ्खयाभिमतप्रकृतिपुरुषपरत्वं दुर्वच- मिति भावः । पुरुषाथर्परत्वाभावादन्यपरत्वव्युदासायाह आनन्दस्वरूप इति । अन्यपरत्वं -तात्पर्याभावः; ब्रह्मणि प्रामाण्याभाव इत्यर्थः । प्रवृत्तिनिवृत्त्यन्वयविरहे कथं प्रामाण्यमित्यत्राह स्वविषयेति । प्रमाणानि हि स्वविषयावबोधे पर्यवस्यन्ति, न तु प्रवृत्तिनिवृत्त्योरित्यर्थः । अथ प्रवृत्तिनिवृत्त्यन्वयस्य प्रयोजनव्यापकत्वमभ्यु- पगम्य प्रयोजनस्य प्रामाण्यव्वापकत्वाभावमाह न च प्रयोजनेति । तदुपपादयति प्रयोजनं हीति । हि शब्दा हेतौ । यद्वा प्रयोजनस्य प्रामाण्यव्यापकत्वाभावप्रसिद्धिर्हिशब्दाभिप्रेता; यथा तन्त्रटकायाम्,"न हि लोष्टं पश्य-तस्तद्दर्शनं निष्प्रयोजनमिति सुवर्णदर्शनता कल्प्येत" इति तदा हेतुत्वमर्थसिद्धम् । प्रयोजनव्यापकत्वं प्रवृत्तिनिवृ-

त्त्यन्वयस्यास्तु ; तेन तन्निवृत्तौ प्रयोजनमेव निवर्तते; न तु प्रामाण्यम् प्रयोजनस्य प्रामाण्यव्यापकत्वाभावादि- त्यर्थः । न चेत्यत्र च शब्दो व्यापकद्वयनिषेधसमुच्चये । यथा प्रवृत्तिनिवृत्त्यन्वयस्य प्रामाण्यव्यापकत्वमयुक्तम्, तथा प्रयोजनस्य च प्रामाण्यव्यापकत्वमयुक्तमित्यर्थः । प्रत्यक्षादिषु प्रयोजनस्य प्रामाण्यव्यापत्वाभावेऽपि शास्त्रे प्रयोजनस्य प्रामाण्यव्यापत्वमस्तीति शङ्कायां प्रयोजनव्याप्यत्वं शास्त्रप्रामाण्यस्यास्तु ,तथापि प्रयोजनस्य प्रवृत्ति-नित्तत्त्यन्वयव्याप्यत्वं नास्तीत्याह न च प्रवृत्तीति । वाक्यस्येत्यध्याहारः । कुत इत्यत्राह पुरुषार्थान्वयप्रतीते- रिति । इदं पक्षविषयम् । प्रवृत्तिनिवृत्तिरूपत्वाभावेऽपि पुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयप्रतीतेरित्यर्थः । न चेत्यत्र च शब्दो व्याप्यत्वनिषेधद्वयसमुच्चये । यथा प्रामाण्यस्य प्रवृत्तिनिवृत्त्यन्वयव्याप्यत्वं नास्ति तथा प्रयो-जनस्यापि प्रवृत्तिनिवृत्यन्वयव्याप्यत्वं नास्तीत्यर्थः । प्रामाण्यस्य प्रवृत्तिनिवृत्त्यन्वयव्याप्यत्वाभावः स्वविषयाव-बोधेत्यादिना सिद्धः । सपक्षत्वाभिमते लौकिकेऽपि सिद्धपरवाक्ये पुरुषार्थान्वयं दर्शयति तथेति । यथा प्रवृत्ति- परत्वं निवृत्तिपरत्वं वा न प्रयोजनपर्यवसायित्वम्, किन्तु पुरुषार्थपरत्वमेवतथा प्रवृत्तिनिवृत्तिपरत्वं सिद्धवस्तुपर- त्वं वा न प्रयोजनपर्यवसायित्वम्, अपि तु साध्येन वा सिद्धेन वा पुरुषार्थेनान्वितत्वमेव वाक्यस्य प्रयोजनपर्यव-सायित्वमित्युक्तं भवति; पुरुषार्थान्वयप्रतीतेरित्युक्तत्वात् । एवं सूत्राक्षरयोजनार्थं सङ्क्षेपेणार्थ उक्तः ।।

अथ तात्पर्यार्थं वक्तुं पूर्वपक्षं विस्तरेणावतारयति अत्राहेति । एतावत्यधिकरणार्थ उक्ते लब्धस्वदूष्य- प्रसङ्गः पूर्वपक्षी आहेत्यर्थः । ब्रह्मणः शास्त्रप्रतिपाद्यत्वाभावं प्रतिजानीते न वेदान्तेति । सौत्रतच्छब्देन शास्त्र-योनित्वस्य परामृष्टत्वात् पूवर्पक्षिणा तदभावोऽपि प्रतिज्ञात इति हि ज्ञायते । प्रतिज्ञात(ज्ञा)मुपपादयति प्रवृत्ति-निवृत्त्यन्वयविरहिण इति । तदन्वयाभावे प्रतिपादनमेव न पूर्येतेति भावः । तथाच वात्तिर्कम्,-

"यावत् खलु प्रमातृणां प्रवर्तननिवर्तने । शब्दा न कुर्वते तावन्न निरकाङ्क्षबोधनम्" इति । शास्त्रस्येति । शासनाद्धि शास्त्रम् । शासनं च प्रवर्तननिवर्तनात्मकम् । तत्र वार्तिकम्-,

"प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रं नूपपद्यते ।।" इति । पूर्वोक्तं प्रमा-णानां स्ववि#ेषयावबोधित्वमाशङ्कय तत् प्रमाणविशेषे व्यवस्थापयन् शास्त्रस्य प्रयोजनपर्यवसानावश्यम्भावमाह यद्यपीति । तदुपपादयति न हीति । न केवलमनुपलब्धिरेव, अनुपपत्तिरप्यस्तीत्याह न किञ्चिदिति । किञ्चित्-स्वसंबन्धि परसंबन्धि वा, अल्पं प्रभूतं वा । वाक्यप्रयोगादेर्यत्नसाध्यत्वात् यत्नस्य च प्रयोजनेन विनाऽनुपपन्न-त्वादित्यर्थः । वाक्यानां प्रयोजनपर्यवसायित्वादेव हि पुनरुक्तेः प्रयोजनाभावात् दूषणत्वम् । निष्प्रयाजनवाक्य-प्रयोगः तच्छ्रवणं वाऽनुपपन्नं स्यात्; ततः किं प्रस्तुतस्य प्रयोजनपर्यवयसायिनां वाक्यानां प्रवृत्तिनिवृत्तिपरत्वस्य; सिद्धपरत्वेऽपि हि प्रयोजनपर्यवसायित्वमुपपद्यत इत्यत्राह तच्चेति । प्रवृत्तिनिवृत्तिपरत्वेन लोकवदयोः प्रयोगं दर्श- यति अर्थार्थीत्यादिना । प्रवृत्तिनिवृत्तिपरत्वाभावेऽपि प्रयोजनपरं वाक्यं दृष्टमिति शङ्कायां सिद्ध-परत्वेनोक्तं वाक्यं दूषयितुमनुवदति यत्पुनरिति । विकल्पयति तत्रेति । प्रथमकोट्यनुपपत्त्या द्वितीयशिरोऽभ्युपगमं शङ्कते सतो- ऽपीति । दूषयति तर्हिति । तस्मादिति पूर्वपक्षोपसंहारः ।।

जरन्मायावादिपक्षौ द्वौ विद्येते । तत्रैको निष्प्रपञ्चीकरणपियोगवादः, अन्यो ध्याननियोगवादः । एतन्मतद्वयम्, ध्याननियोगवादिमुखेन शाङ्करादिमतं च दूषितवन्तमधिकरणपूर्वपक्षिणं प्रति सिद्धान्तं वक्ष्यन् इदानीं निष्प्रपञ्चीकरणनियोगवादं प्रस्तौति अत्र कश्चिदाहेति । तं प्रतिजानीते वेदान्तेति । कार्य्यपरस्य वाक्य- स्य सिद्धवस्तुनि प्रमाणभावः कथमित्यभिप्रयन्नाह कथमिति । उत्तरमाह निष्प्रपञ्चमिति । कुर्यादित्यत्रेतिशब्दः प्रकारपरः । निष्प्रपञ्चीकरणविधिना ब्रह्मणः कोऽन्वय सत्यपेक्षायामन्वयमाह ब्रह्मण इति ।विषयत्वेनान्वय इत्यर्थः ।

सिद्धस्वरूपस्य ब्रह्मणो विधिविषयत्वानुपपत्तिशङ्कापरिहारार्थं प्रपञ्चप्रविलयद्वारेणेत्युक्तम् । अत्र सिद्धस्य साध्य-त्वमाकारभेदादविरुद्धमिति गर्भितम् । इह त्वितिशब्दः समाप्तौ । कथमित्यस्योत्तरत्वेन इत्थमिति वार्थः । विधिं दर्शयितुमाकाङ्क्षामुत्थापयति कोऽसाविति । कतिपयनाशेऽप्यशक्तस्य विश्वप्रपञ्चनाशनविधिरशक्य इत्यभिप्रायः । विधिः-विधिवाक्यम् ।आविद्यिकस्य प्रपञ्चस्य बुद्धिनिवृत्तिमात्ररूपो विलयः शक्य इत्यभिप्रायेण वाक्यमुपादत्ते न दृष्टेरिति । दृष्टिव्यतिरिक्तत्वाविशेषात् ज्ञेयनिषेधोऽपि फलितः । आदिशब्दोपात्तैः श्रुत्यन्तरैः कण्ठोक्तश्च । आत्यन्तिकनिवृत्तेरसिद्धत्वाद्विधेयत्वं च युक्तमिति भावः । शून्यशब्देनात्यन्तिकनिवृत्तिर्विवक्षिता । मात्रशब्देन द्रष्ट्टदृश्यकल्पकाविद्यानिवृत्तिः । तत एव ह्यात्यन्तिकत्वसिद्धिः । सिद्धस्य ब्रह्मणो विधेयत्वं कथमिति शङ्कायां प्रपञ्चप्रविलयद्वारेणेति पूर्वं विवक्षितमर्थं विस्तेरणाह स्वतः सिद्धस्यापीति । यद्वा पूर्वं भावार्थव्यतिरिक्तस्य विधि-विषयत्वानुपपत्तिः परिहृता; इह तु स्वतःसिद्धस्येत्यादिना प्रपञ्चविलयद्वारेण सिद्धरूपस्यापि विधिविषयत्वानुप-पत्तिः परिहृतेति भिदा । भावार्थान्दन्यत्वं स्वर्गादेरप्यस्ति; न तस्य सिद्धत्वम् । साध्यं हि तत् ।।

अधिकरणपूर्वपक्षी मीमांसकस्तं दूषयति तदयुक्तमिति । कथमित्यत्राह नियोगेति । विशिंषन् विषय इति व्युत्पत्त्या विषयो यागादिः । कृतिसाध्यापूर्वप्रतिपत्तिवेलायां कृत्यवच्छेदकत्वेन स विषयः; स एव कार्यनि- ष्पत्तौ करणम् । वक्तव्याः । न त्वया वक्तुं शक्यमिति भावः । प्रथमं नियोज्यविशेषणं दूषयितुमाह तत्रेति । तत्रतेषु वक्तव्येषु । नियोज्यविशेषणमनुपादेयम् ।उपादेयम्- विधेयम्; तद्वयतिरिक्तमित्यर्थः । विकल्प्य दूष- यितुं विशेषणद्वैविध्यमाह तच्चेति । ततः किमित्यत्राह अत्रेति । अत्र-निप्प्रपञ्चीकरणनियोगे । नियोज्यविशेष-णस्वरूपं शङ्कते ब्रह्मस्वरूपेति । निमित्ततां दूषयति तर्हीति । कु इत्यत्राह जीवनादिवदिति । "यावज्जीवमग्नि- होत्रं जुहोति " इत्यत्र जीवनस्य सिद्धत्वात् यथा निमित्तत्वम्, न तथेत्यर्थः । पुत्रजन्मादिवत् यदा सिध्येत्, तदा निमित्तं भविष्यतीत्यत्राह निमित्तत्वे चेति ।। अपवर्गोत्तरकालमपि नानुष्ठानप्रसङ्गः; यावान्निमित्तमनुष्ठाननिय-माभावात् । परिकरशून्येषु तन्नियमाभावो दृष्टः । तस्मात् करणकलेबरविरहेण न तदानीमनुष्ठानमिति चेत्- हन्त स्वदूषणमेव स्वयमाविष्करोषि । तथाहि-सप्रपञ्चतयाऽनुभवस्य यथार्थानुभवरूपत्वाभावादपवर्गोत्तरभाव्येव याथा-र्थ्यानुभवः । तदानीं करणकले-वराभावेऽपि विषयानुष्ठानं शक्यं, न वा? अशक्यत्वे विधेयत्वमेव न स्यात् । अतः शक्यमिति वक्तव्यम् । अतो निमित्तस्य नित्यत्वात् नैमित्तिकस्य नित्यं शक्यत्वाच्च नित्यं तदनुष्टानप्रसङ्ग इति भावः । फलतया विशेषणत्वे दूषणमाह नापीति ।

नियोगविषयानुपपतिं्त वक्तुमा कश्चेति । शङ्कते ब्रह्मैवेति । दूषयति नेति । हेतुमाह तस्येति । अभव्य-रूपत्वात्-असाध्यत्वात् । अभावार्थत्वाच्च-"भावार्थाः कर्मशब्दाः"- क्रियारूपत्वाभावादित्यर्थः । साध्यत्वं फलस्याप्यस्तीति तद्वयावर्त्तकं भावार्थत्वम् । तदुभयाभावादिति यावत् । निष्प्रपञ्चताकारेण साध्यत्वं शङ्कते निष्प्रपञ्चमिति । प्रतिवदति साध्यत्वेऽपीति । फलत्वमेवेति । विषयत्वं चेत्-फलव्यतिरिक्तत्वं स्यात् । फलव्य-तिरिक्तत्वाभावाद्विषयत्वमयुक्तमिति तात्पर्यम् । हेत्वन्तरं कण्ठोकत्या दर्शयन् विषयत्वं दूषयति अभावार्थत्वान्न विधिविषयत्वमिति । विशिष्टस्य विषयत्वानुपपत्तिरुक्ता; अथ विशेष्याशस्य विशेषणांशस्य च विषयत्वानुपपतिं्त वक्ष्यन् विकल्पयति साध्यत्वं चेति । यद्वा-विशिष्टस्य साध्यत्वाभ्युपगमेन विषयत्वं दूषितम्; अथ विशिष्टस्य साध्यत्वं दूषयितुं विकल्पयति साध्यत्वं चेति । विशिष्टस्य साध्यत्वानुपपत्तिर्हि विशेषणस्य विशेष्यस्य उभयस्य च साध्यत्वानुपपत्त्या स्यात्, तत्र उभयस्येति विकल्पानुक्तिः शिरोद्वयेन तुल्यदूषणत्वात् । प्रथमं दूषयति न ताव- दिति । कुत इत्यत्राह सिद्धत्वादनित्यत्वप्रसक्तेश्चेति । सिद्धत्वान्न साध्यत्वम्, साध्यत्वाङ्गीकारे तु भावरूपत्वे

सति साध्यत्वादनित्यत्वप्रसक्ते(क्ति?)श्चेत्यर्थः । द्वितीयं शङ्कते अथेति । दूषयति न तर्हीति । प्रपञ्चनिवृत्तेः सा-ध्यत्वे ब्रह्मणः साध्यत्वाभावान्न विधिविषयत्वमित्यर्थः। प्रपञ्चनिवृत्तेर्विधिविषयत्वमाशङ्कय दूषयति प्रपञ्चेत्या- दिना । तस्याः फलत्वमुपपादयति प्रपञ्चनिवृत्तिरेव हीति । प्रपञ्चनिवृत्तिर्मोक्षोऽस्तु, ततः किं विषयत्वानुपपत्ते-रित्यत्राह स चेति । प्रपञ्चनिवृत्तेर्मोक्षरूपत्वात् मोक्षस्य च फलत्वात् फलभूताया न विषयत्वमित्यर्थः । दूषणान्तर-माह अस्य चेति । अस्या इति वक्तव्येऽपि फलत्वविवक्षया अस्येत्युक्तिः । फलत्वं विषयत्वं चेत्याकारद्वयाभ्युप- गमे प्रपञ्चनिवृत्तिः फलत्वान्नियोगसाध्या, विषयत्वात् प्रपञ्चनिवृत्त्या नियोगसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।। निष्प्रपञ्चीकरणपक्षे मुखान्तरेण दूषणमाह अपि चेति । यद्वा नियोगविषयदूषणेनान्योन्याश्रयेण नियोगश्च दूषितो भवति; मुखान्तरेणापि नियोगं दूषयति अपि चेति । दूषयितुं विकल्पयति किमिति । प्रथमं दूषयति मिथ्येति । साफल्यं शङ्कते नियोगस्त्विति । दूषयति तदिति । स्ववाक्यात्-प्रपञ्चमिथ्यात्वब्रह्मनिर्विशेषत्वपरवाक्यादित्यर्थः । नियोगस्य निष्फलत्वदूषणोकत्या नियोज्यविशेषणं च दूषितं भवति ; नियोगसाध्यफलस्यैव फलतया नियोज्यवि-शेषणत्वात्, इह तदयोगाच्च । दूषणान्तरमाह वाक्यार्थज्ञानादेवेत्यादिना । पूर्वं विकल्पितशिरोद्वये द्वितीयं शिरो दूषयितुमाह प्रपञ्चस्येति । प्रपञ्चस्य सत्यत्वे न नियोगनिवर्त्यत्वे इत्यर्थः । किमित्यादिना विकल्प्य प्रथमं दूषयति यदीत्यादिना - द्वितीयं दूषयितुं तदभ्युपगमं शङ्कते अथेति । दूषयति तस्येति । तस्येत्यादिना नष्ट इत्यन्तेन प्रयो-क्तृदूषणं च कृतं भवति । प्रपञ्चनिवृत्तीत्यादिना प्रपञ्चसत्यत्वेऽपि फलाभावोक्तिमुखेन नियोगो दूषितः । करण-मितिकर्त्तव्यतां च दूषयति किञ्चेति । इतिकर्त्तव्यताया अभावं विवरितुमाह कथमिति । प्रतिवक्ति इत्थमिति । भावरूपत्वपक्षे द्वैविध्यमाह भावरूपा चेति । करणशरीरनिष्पत्तिः अवघातवत् प्रोक्षणवच्च दृष्टादृष्टाथर्तया द्विधेति चाभिप्रेतम् । ततः किमित्यत्राह उभयविधेति । उभयविधा-निष्पादिका अनुग्राहिका च । निष्पादकपक्षे प्रथमं दृष्टार्थत्वे दूषणमाह न हीति । कृत्स्नप्रपञ्चनिवृत्तिरूपकरणशरीरनिष्पादकाभावरूपा दृष्टार्था न सम्भवतीत्यर्थः । अदृष्टार्था अस्ति चेत् -प्रपञ्चसत्यत्वप्रसङ्गः, अप्रामाणिकत्वं चेति स्फुटमिति न कण्ठोक्तम् । अथानुग्रहं दूषयति नापीति । तदसम्भवमुपपादयति अनुग्राहकेति । अनुग्राहको हि करणानन्तरभावी; कृत्स्नप्रपञ्चनिवृत्तिरूपकरणा-नन्तर-मनुग्राहकस्तिष्ठति चेत्-करणमेव न सिद्धं स्यात् । यदा करणसिद्धिः, न तदानीमनुग्राहको विद्यत इत्यनु-ग्राहकासम्भव इत्यर्थः । इतिकर्त्तव्यतासद्भावमुखेन करणसिदिं्ध शङ्कते ब्रह्मण इति । दूषयति तेनैवेति । करणादि-निष्पाद्यम्-करणनिष्पाद्यो नियोगः, नियोगनिष्पाद्यं फलमिति आदिशब्दार्थः । करणं चेत् स्वकार्यकरं स्यात् । तद भावात् करणत्वमयुक्तमित्यर्थः । अथाभावरूपेतिकर्तव्यतां दूषयति अभावरूपत्व इति । अभावादेव-अभाव-रूपेतिकर्त्तव्यताया अप्रामाणिकत्वादेवेत्यर्थः । निवृत्तिरूपशमादीनां न अभावरूपेतिकर्तव्यतात्वम् तेषां ज्ञाननि-ष्पादकत्वेन प्रपञ्चनिवृत्तिरूपकरणनिष्पादकत्वायोगादिति भावः । अत्र अभावादेवेत्येवकारेण पूर्वमदृष्टाथर्भाव-रूपेतिकर्तव्यतायाः अप्रामाणिकत्वस्याभिप्रेतत्वं गम्यते । दूषणमुपसंहरति अत इति । विधिः-नियोगः; निष्प्र-पञ्चीकरणविषयो नियोग इत्यर्थः । अतः प्रवर्त्तकवाक्येनैव ब्रह्मस्वरूपसिद्धिरिति वक्तुं न शक्यमिति फलितम् ।।

अथ ध्याननियोगवादिपक्षमुपक्षिपति अन्योऽप्याहेति । ब्रह्मणि वेदान्तवाक्यानां स्वातन्त्र्#ेण प्रामा-ण्याभावमङ्गीकृत्याह यद्यपीति । तर्हि कथं तत्सिद्धिरित्यत्राह तथापीति । व्याघाताभिप्रायेणाह कुत इति । हेतु- माह - ध्यानविधीति । ध्याविधिः कः? तस्य सामर्थ्यं कथमित्यत्राह एवमेव हीति । यथा वाक्यानां ध्यानपरत्वे- ऽपि परिनिष्पन्नं सिध्यति, तथैवेत्यर्थः । ध्यानविधिवाक्यान्याह आत्मा वा इति । निदिध्यासितव्य इत्युपासन-मुक्तम्; (?) द्रष्टव्य इति तस्य दर्शनरूपत्वम् । विजिज्ञासितव्य इति सामान्यशब्दः । आत्मेत्यैक्योपासनमुक्तम् ।

आत्मानमिति स्वस्य जगत्तादात्म्योपासनम् । सामर्थ्यं दर्शयति अत्रेति । ध्येयमाक्षिप्तमस्तु; तत् ब्रह्मेति कथं ज्ञायत इत्यत्राह स च ध्येय इति । आकाङ्क्षायां सन्निहितमेव योग्यं चेत्, तत् परित्यक्तुं न युक्तम्; गामानयेत्या- दिषु हि तथा दृष्टमिति भावः । स्वरूपमात्रप्रतिपादकानां कारणशोधकवाक्यानामपि विध्यपेक्षितसमपर्कत्वेनैव प्रामाण्यमित्याह स किं रूप इति । शोधितस्वरूपस्य ध्येयत्वात् सत्यादिवाक्यं प्रथममुपात्तम् । तदनुगुणार्थतया सदेवेति कारणवाक्यं पश्चादुदाहृतम् । ध्यानशरीरानुप्रविष्टेति । "अर्थेनैव विशेषो हि निराकारतया धियाम्" इति भावः । अस्त्येवेति । स्ववाक्यप्रतिपन्नस्वर्गादिफलविषयस्य "यस्मिन्नोष्णम् " इत्यादिवाक्यस्येव विधिशेषतया प्रामाण्यमिति भावः । ध्येयब्रह्मस्वरूपं हि ध्यानशरीरानुप्रविष्टम् । प्रपञ्चमिथ्यात्वस्य ध्यानशरीराननुप्रवेशात् कथं भेदनिषेधे तात्पर्यमित्यत्राह अत इति । अतः-विधिशेषभूतस्य सिद्धार्थे तात्पर्यसद्भावात् । अद्वितीयं ब्रह्म ध्येयम् । भेदनिषेधश्रुतयश्च ब्रह्मणोऽद्वितीयत्वपराः; ब्रह्मणोऽद्वितीयत्वमेव भेदमिथ्यात्वम् इति ध्यानशरीरानुप्रविष्टे भेद- निषेदे तात्पर्यमस्तीत्यर्थः । भेदग्राहिप्रमाणविरोधात् न शास्त्रमद्वितीयं ब्रह्म प्रतिपादयति, "आदित्यो यूपः" इत्या-दिवदिति शङ्कां परिहर्त्तुं प्रत्यक्षादिभिर्विरुद्धप्रतीतिमभ्युपगच्छति प्रत्यक्षादिभिरिति । शङ्कां परिहरति भेदाभेदयो-रिति । भेदप्रतीतेरन्यथासिद्धत्वादनन्यथासिद्धशास्त्रावगतमैक्यं तात्त्विकमित्यर्थः । तर्हि -विषयः करणं प्रयोक्ता फलमित्यादि वक्तव्यम्, नियोगनिवत्र्त्यत्वे प्रपञ्चसत्यत्वप्रसङ्गः, नित्यप्राप्तत्वात् ब्रह्मभावो न फलमित्यत्राह तत्रेति । ध्याननियोगेनेति ध्यानस्य विषयत्वमुक्तम् । नियोगान्मोक्षश्चत् न ज्ञानान्मोक्ष इति शङ्कां व्युदस्यति तत्साक्षात्का-रफलेनेति । नियोगस्योपायत्वम्, ज्ञानद्वारकमित्यर्थः । निरस्तेत्यादिना अविद्यानिवृत्तिः फलमित्युक्तम् । तदेव फलतया नियोज्यविशेषणम्, उपासकः प्रयोक्ता, शमादिः इतिकर्त्तव्यतेत्यादि अस्माकं सिद्धमिति भावः । वाक्या-र्थज्ञानमात्रान्मोक्षवादिनं दूषयति न चेति । प्रत्यक्षविरोधमाह अनुपलब्धेर्विविधभेददर्शनानुवृत्तेश्चेति । शास्त्र-विरोधमाह तथा च सतीति ।।

अथ साक्षान्मायावादिना स्वमतं पश्चाद्विवक्षता प्रथमं ध्याननियोगवादिपक्षप्रतिक्षेपमाशङ्कते अथोच्ये- तेति । बन्धस्य ज्ञानमात्रनिवत्त्यर्थत्वं सोपपत्तिकमाह रज्जुरेषेति । निवत्र्त्यमिथ्यात्वं ह्युभयसम्मतम् ।अत एव नियोगनैरपेक्ष्यमाह नेति । अन्यथाऽनिष्टमाह नियोगेति । मोक्षानित्यत्वस्य तदनिष्टतामाह मोक्षस्येति । निया- गो विपरीतफलप्रदश्चेत्याह किञ्चेति । द्वारेणेत्यन्तेन प्रसञ्जनीयप्रसञ्जकयोर्व्याप्तिर्दशिर्ता । अवर्जनीयमित्यन्तेन प्रसङ्गः । ततः किमित्यत्राह तस्मादिति । तस्मात्-संसारफलत्वप्रसङ्गात् । व्यापकस्य संसारफलत्वस्य निवृत्त्या व्याप्यं धर्मसाध्यत्वञ्च निवृत्तमित्यर्थः । मोक्षस्याशरीररूपत्वश्रुत्या च नियोगसाध्यत्वमाह तथा चेति । अशरीर-त्वरूपे मोक्षे धर्माधर्मफलरूपप्रियाप्रियसम्बन्धविरहश्रवणात् मोक्षस्य धर्मसाध्यत्वाभावः फलित इत्याह इत्यशरी-रत्वरूप इति । एवं नियोगसाध्यत्व मोक्षस्य धर्माधमर्फलसम्बन्धराहित्यश्रवणानुपपत्तिरिति श्रुत्यर्थापत्तिरुक्ता भवति । यथा नियोगविशेषस्य पापनिवृविः फलमुच्यते, तद्वत् नियोगविशेषस्य बन्धनिवृत्तिफलत्वं संभवतीत्य- त्राह न चेति । नियोगविशेषफलविशेषशब्दाभ्यां प्रायश्चित्तपापक्षपणे विवक्षिते । कु त इत्यत्राह अशरीरत्व- स्यति । अशरीरत्वस्य स्वरूपत्वे श्रुतिमाह यथाहुरिति । अप्राण इति । प्राणमनस्सम्बन्धाभावादशरीरत्वं सिद्धम् । सशरीरस्य हि प्राणमनस्सबन्ध इति भावः । अतः अशरीरत्वस्यात्मस्वरूपत्वावगमादित्यर्थः । न केवलं कर्मफलसम्बन्धविरहादशरीरत्वस्य स्वाभाविकत्वाच्च नियोगसाध्यत्वाभावः सिद्धः, अपि तु कण्ठोक्तश्चेत्याह तथा च श्रुतिरिति । अन्यत्रधर्मात्-धर्मादन्यत्रधर्मेण विना ।अनेन धर्मसम्बन्धराहित्यमुक्तम् । संबन्धश्च साध्य-साधनमाव इति भावः । अत्र कृताकृतशब्देन क्रियमाणमुच्यते; भूतभव्यशब्दाभ्यां भूतभविष्यती ।

मुखान्तरेण मोक्षस्य नियोगसाध्यत्वं दूषयति अपि चेति । साध्यत्वस्य वैविध्यं वदस्तदसम्भवमाह उत्पत्तीति । मोक्षशब्देन किं निवृत्ताविद्यं स्वरूपं विवक्षितम्, उताविद्यानिवृत्तिः इति विकल्पे, स्वरूपस्य विव-क्षितत्वे चतुर्विधसाध्यत्वानुपपत्तिमाह न तावदित्यादिना । निवृत्तेरुत्पाद्यत्वेऽप्यविनाशित्वं प्रध्वंसाभावरूपत्वा- दिति वक्ष्यते । संस्कारो हीत्यादि ।अत्र नित्यशुद्ध शब्देन परमार्थदोषानन्वयोऽभिप्रेतः । नित्यशुद्धस्य निर्विशे- षस्य वस्तुनो दोषापनयन-गुणाधानरूपसंस्कारविषयत्वं नित्यशुद्धत्वानाधेयातिशयत्वाभ्यां नास्तीत्युक्तम् । अथ क्रियाविषयत्वाभावात् संस्कारविषयत्वाभावः उच्यते नित्येत्यादिना । निर्विकारत्वेन क्रियाविषयत्वाभावः कथम्? इत्थम्,-यद्यत्क्रियाविषयभूतं, तद्धि सविकारं दृष्टम्(मिति?) ।। यदा दर्प्पणो हस्ततले निर्घृष्यते तदा दर्पणाश्रया क्रिया; यदा दर्पणे पाणिर्निर्घृष्यत,#े तदा पाण्याश्रया क्रियेति स्वाश्रयपराश्रयक्रिययोर्दर्पणोदाहरणम् । क्रियाविष-यत्वाभावेऽपि संस्कार्यत्वं दृष्टमित्यत्राह न चेति । तर्हि कः संस्क्रियत इत्यत्राह किन्त्विति । अविद्यागृहीतः विद्याकल्पितः । तेन अतिशयाधानानुगुणविकारित्वं सूचितम् । यद्वा अविद्यागृहीत इति शुध्द्यशुध्द्यादिभ्रवत्तया शुद्धिसापेक्षत्वं दर्शितम् । अहङ्कर्त्तुरपि देहाद्विलक्षणत्वात् कथं देहगतस्नानादिभिस्तस्यातिशय इत्यत्राह तत्सङ्गत इति । तत्सङ्गतः-देहसङ्गतः । आत्मनः फलभोक्तृत्वात् स एव संस्कार्य इत्यत्राह तत्फलेति । फलभोक्ता अहमर्थ- श्चेत् स एवात्मेत्यत्राह न चाहमिति । हेतुमाह तदिति । यो यस्य साक्षी, स हि न तद्भवतीति भावः । साक्षित्वे मानमाह तथा चेति । तयोरन्य इत्यादेरयरमर्थः-अहङ्कारज्ञप्त्यात्मनोरेकः फलभोक्ता, अन्योऽनश्नन्निति । अह- ङ्कर्तैव भोक्तेति स्पष्टं दर्शयति आत्मेन्द्रियेति । आत्माः-देहः । देहादिसम्बन्धस्य भोक्तृत्वादात्मनोऽशरीरत्वाप्राण-त्वामनस्कत्वादिश्रवणात् अनश्नन्नित्यभोक्तृत्वश्रवणाच्च भोक्तुविर्लक्षण आत्मेत्यभिप्रायः । यद्वा आत्मशब्दः संविदात्मपरः । ततश्च तद्युक्तस्य भोक्तृत्वात् तस्य भोक्तृत्वं नास्तीत्यहङ्कारस्यैव भोक्तृत्वमित्यभिप्रायः । एको देव इत्यत्र केवलशब्देन फलान्वयराहित्यं विवक्षितमिति तस्यात्रोपयोगः । निर्गुणः-अगुणवश्यत्वादभोक्ते- त्यर्थः । साक्षी अहङ्कारे व्याप्रियमाणे स्वयं साक्षिमात्रतयाऽवस्थानान्न भोक्तेति भावः । स पर्यगादिति । शुक्लम्-अविद्यारहितम्, वासनारहितं वा । शुद्धम्-अपापविद्धम्-कर्मफलरहितं कर्मरहितं च । पयर्गात् । गत्यर्था बुध्द्यर्थाः; अमन्यतेत्यर्थः । उदाहृतश्रुति-प्रतिपन्नाकारोपेतमात्मस्वरूपं वदति अविद्येति । अहङ्कर्त्तुनिष्कृष्यत इत्यन्वयः । मुक्तेरसाध्यत्वं निगमयति तस्मादिति ।

ज्ञानवैयर्थ्यं शङ्कते यद्येवमिति । परिहरति मोक्षेति । प्रतिबन्धनिवृत्तेरेव साध्यत्वं श्रुतिसिद्धमाह तथा चेति । प्रतिबन्धनिवृत्तेः साध्यत्वं निगमयति तस्मादिति । प्रतिबन्धनिवृत्तेः साध्यत्वेनानित्यत्वं स्यादित्यत्राह निवृत्तिरित्वति । अयं परिहारो नियोगसाध्यत्वपक्षेऽपि तुल्य इति चेत्-न; नियोगसाध्यत्वे प्रपञ्चसत्यत्वं स्या-दित्यभिप्रेतमित्युक्तत्वात् । नियोगसाध्यत्वपक्षे श्रुतिस्वारस्यहानिमाह ब्रह्मेति । श्रुतिस्वारस्यमेव विलम्बं न सहत इति भावः । कथं नियोगव्यवधानप्रतिरोधः; विधिशेषतया हि ब्रह्मणः सिद्धिः; तत्सिध्द्यर्थं नियोगः स्वीकार्य इति शङ्कायां नियोगशेषत्वं विदिकर्मत्वेन ध्यानकर्मत्वेन चोभयथाऽपि न सम्भवतीत्याह न च विदीति । वेदनं ज्ञानम्; उपासनम्-ज्ञानविशेषः । अत्र वेदनशब्दो निष्प्रपञ्चीकरणज्ञानविशेषे विश्राम्यति; विवक्षावशात् ।अतो निष्प्रपञ्चीकरणनियोगवादस्यापि दूषणं फलितम् । विद्युपासिकर्मत्वाभावे श्रुतिमाह अन्यदिति । विदितात्- ज्ञेयात्; अविदितात्-ज्ञातुरित्यर्थः । अन्यदेवेति विदिकर्मत्वनिषेधः । तदेवेति ध्यानकमर्त्वनिषेधः । विदिकर्म-

त्वाभावे शास्त्रवेद्यत्वासिद्धया शास्त्रस्य निर्विषयत्वमाशङ्कय परिहरति न चेति । "ब्रह्म वेद", "ब्रह्मवित्" इत्या-दिभिर्ब्रह्मणो वेद्यत्वं प्रतीयत इत्यत्राह न हीदन्तयेति । इदन्तया-प्रमेयतया । अपि त्विति । प्रत्यगात्मस्वरूपं निर्विशेषनविषयतया प्रतिपादयतीत्यर्थः । शास्त्रस्य भेदनिवृत्तिपरत्वं दर्शयति तथा चेति । ज्ञानादेव बन्धनिवृत्ति-श्चेत्, शास्त्रप्रत्यक्षविरोधः स्यादित्याशङ्कय, शास्त्र विरोधं तावत् परिहरति न च ज्ञानादिति । श्रवणादिविध्या-नर्थक्यामिति । श्रवणमननयोरपि विधेयत्वं पूर्वपक्षिणोक्तमिति न विरोधः । कुत इत्यत्राह स्वभावेति । स्वभा-वप्रवृत्तशब्देनादिप्रवृत्तत्वं विवक्षितम् । अथ प्रत्यक्षविरोधं परिहरति न च ज्ञानमात्रादिति । कथमित्यत्राह बन्ध-स्येति । कथं स्थित्यनुपपत्तिः? बन्धो ह्यनुवर्त्तत इति शङ्का, यस्य तु बन्ध इत्यादिना परिहरिष्यते । उक्तादेव हेतोः शरीरपातानपेक्षत्वमाह अत एवेति । दृष्टान्तेनोपपादयति न हीति । दृष्टान्ते दर्शितमर्थं व्यतिरेकमुखेन दार्ष्टान्तिके विवृणोति यदीति । पारमार्थिकत्वविपर्ययमाह स त्विति । विप्रतिपन्नमपारमार्थिकम्, ब्रह्मव्यतिरि-क्तत्वात् शुक्तिरूप्यवदिति भावः । ज्ञानोत्तरकालस्थितिरनुपपन्ना चेत्; कथं बन्धस्यानुवृत्तिरित्यत्राह यस्य त्विति । यस्य त्वनिवृतिः-अनिवृत्त इति प्रतीतिः, तस्य ज्ञानमेव न जातम्, तत्कार्यादर्शनादिति । कार्याभावा- स्य कारणाभावमात्रव्याप्यत्वाभावेऽपि सामग्रयभावव्याप्यत्वात् भ्रमनिवृतिं्त प्रति तत्त्वज्ञानस्य सामग्रीत्वात् तद-भावेन ज्ञानाभावः कल्प्यत इति न प्रत्यक्षविरोध इत्यर्थः । ज्ञानोत्पत्त्यनन्तरं बन्धनिवृतिं्त निगमयति तस्मादिति । शरीरस्थितिर्भवतु वा मा वेति । दग्धपटे पटप्रतिभासवत् शरीरप्रतिभासोऽनुवर्तेत वा, निवर्तेत वेत्यर्थः । मुक्त एवासाविति । बन्धस्य च्छिन्नमूलतया दग्धपटवदकार्यकर इति भावः । बन्धनिवृत्तेर्नियोगनैरपेक्ष्यसाध-कहेतुभिः र्विधिशेषतया न ब्रह्मणः सिद्धिरित्याह अत इति । अतः-वाक्यार्थज्ञानमात्रसाध्यत्वात् । तर्हि ब्रह्मणः कथं सिद्धिरित्यत्राह अपि त्विति । तत्परेणैवेति । भेदनिषेधपरैर्वाक्यैर्निर्विशेषतया सिद्धयतीत्यर्थः । यद्वा सिद्ध-रूपार्थपरेणैवेत्यर्थः । सिध्यतीति । ब्रह्मेत्यर्थलब्धम् ।।

एतत ध्द्याननियोगवादी दूषयति तदयुकमित्यादिना । कुत इत्यत्राह वाक्यार्थेति । प्रपञ्चमिथ्यात्ववा- दिना ज्ञानाद्वन्धनिवृत्त्यनुपपत्तिः कथमुच्यत इत्यत्राह यद्यपीति । ज्ञाननिवर्त्यत्वोपगमेऽपि वैषम्यमाह तथापीति । परोक्षज्ञानस्यापरोक्षभ्रमाबाधकत्वे दृष्टान्तमाह रज्वादाविति । आदिशब्देन भूदलनादि गृह्यते । सर्प्पविपरीतज्ञा-नम्-रज्जुज्ञानम् । तेन भयानिवृत्तिश्चेदाप्तोपदेशानर्थक्यं स्यादित्यतआह आप्तोपदेशस्येति । अनेन प्रथमसूत्रे, "प्रबलप्रमाणबाधितत्वेन भयादिकार्यं तु निवर्तत इति भाष्यार्थो ज्ञायते । आप्तोपदेशस्य भयादिकार्यनिवृ#ीत्तहेतु- त्वं वस्तुयाथात्म्यापरोक्ष्यज्ञाननिमित्तप्रवृत्तिद्वारकमिति हि तस्य भाष्यस्यार्थः । इममर्थं दृष्टान्ते दर्शयति तथा हीति । अस्त्वपरोक्षज्ञानमेव तादृशभ्रमविरोधि; शब्द एवापरोक्षज्ञानं जनयतीत्याशङ्कयाह न चेति । हेतुमाह तस्येति । व्याप्तिं दर्शयति ज्ञानेति । न च अनिन्द्रियत्वेऽप्यालोकादरपरोक्षज्ञानजनकत्वं दृष्टमिति हेतोर्व्याभि- चारः; इन्द्रियप्रधानकज्ञानसामग्रयननुप्रविष्टत्वस्य विवक्षितत्वात् । एतच्च ज्ञानसामग्रीष्वित्यनेन सूचितम् । ज्ञान-सामग्रीषु-सपरिकरासु इन्द्रियलिङ्गशब्दसदृशानुपपत्त्यनुपलब्धिष्वित्यर्थः । इन्द्रियाण्येवेति -आलोकादिसह-कृतानीति शेषः । इÐन्द्रयमेव योगिनो व्यवहितादिकं ज्ञापयति, तथा विवक्षितपुरुषविशेषस्य वाक्यमपरोक्षज्ञानं जनयतीत्याशङ्कय परिहरति न चेति । अस्य-पुरुषस्य । हेतुमाह निवृत्तेति । अनभिसंहितेत्यादिपदद्वयं हृति निधाय विशेषणद्वयमाह निवृत्तप्रतिबन्धे तत्परेपीति । स्वविषयनियमातिकमादर्शनेनत्यत्र विषयशब्दः साध्यपरः । स्वासाध्यज्ञानातिक्रमदर्शनेनेत्यर्थः । शब्दसाध्यं ज्ञानं परोक्षमेव; शब्दस्तु स्वसाध्यं परोक्षज्ञानं नातिक्रामतीति यावत् । मनसः परोक्षापरोक्षज्ञानसाधारणहेतुत्वात् शब्दस्य तु लिङ्गस्येव परोक्षज्ञानमात्रहेतु-

त्वान्न योगिमनस्साम्यमिति भावः ।

ननु शब्देनाप्यपरोक्षज्ञानं जायते, दशमस्त्वमसीति वाक्येन दशमोऽहमित्यपरोक्षज्ञानोत्पत्तिदर्शना- दिति ।। तन्न; उपदेशानन्तरं शीघ्रभाविप्रत्यक्षसामग्रीजन्येन ज्ञानेन पूर्वज्ञानस्य भेदाग्रहेण प्रत्यक्षत्वारोपात् । तदा हि उपदेशात्पूर्वभाविनवकपरिसङ्खयानजनितसंस्कारवशेनाविलम्बिता ह्यपेक्षाबुद्धिर्जायते । यथा घटोऽयमि-त्युक्ते घटं पश्यतोऽपरोक्षप्रतीतिरिन्द्रियजन्या; न तु घटोऽयमिति वाक्यजन्या; वाक्यं त्वापरोक्ष्यनिमित्तचक्षुर्व्या-पारहेतुः-तथा दशमस्त्वमसीति वाक्यं दशमोऽहमितिबुद्धि निमित्तस्य पूर्ववासितापेक्षणीयवस्तुप्रतिसन्धानस्य हेतुः; न त्वपरोक्षावभासहेतुः; तत्तत्प्रतीतिसामग्रीव्यवहितस्य वाक्यस्य तत्तत्सामग्रीत्वाभावात् । विमतं प्रत्यक्षज्ञानं न वाक्यजन्यम्, प्रत्यक्षज्ञानत्वात् अनुपदिष्टवाक्यस्य दशमोऽहमिति प्रत्ययवत् । विमतं वाक्यं न प्रत्यक्षमानजन- कम्, वाक्यत्वात् सम्प्रतिपन्नवदिति । एवं सामग्रीशैघ्य्रेणान्यथासिध्या परिहारो वस्तुयाथात्म्यापरोक्ष्यनिमित-प्रवृत्तिहेतुत्वेनेति भाष्येणाभिप्रेतः । न च वाक्यजन्येऽपि ज्ञाने विशेष्यभूताहमर्थप्रत्यक्षतामात्रेण विशिष्टानुप्रविष्ट-विशेषणांशस्यापि प्रत्यक्षतेति वाच्यम्(?) । अहंसमानाधिकृतशब्दोल्लिखितप्रतीतेरपरोक्षत्वनियमश्च नास्ति; सुखदुःखाद्यनुमितपुण्यपापस्य पुरुषस्य पुण्यकृदहं पापकृदहमित्यादिप्रतीतेः पुण्यापापयोरापरोक्ष्यादर्शनात् । धर्मिप्रत्यक्षतामात्रेण धर्मप्रत्यक्षत्वे लैङ्गिके पर्वतोऽग्निमानिति ज्ञाने अग्नेरपि प्रत्यक्षत्वप्रसङ्गः । तदेतदखिलं स्वविषयनियमातिक्रमादर्शनेन तदयोगादित्यत्राभिप्रेतम् ।

एवं शब्दस्यापरोक्षज्ञान हेतुत्वं दूषितम् । अथ ध्यानस्य वाक्यार्थज्ञानोपायतामन्योन्याश्रयणेन दूषयति न चेत्यादिना ।अन्योन्याश्रयणपरिहाराय, ध्यानपूर्वभाविज्ञानमर्थान्तरविषयम्, पाश्चात्यज्ञानमर्थान्तरविषयमिति भिन्नविषयताश्रयणमयुक्तमित्यत्राह न च ध्यानेति । कुत इत्यत्राह तथा सतीति । कथमुपायत्वहानिरित्यत्राह न ह्यन्यध्यानमिति । एकविषयत्वेऽपि निवर्तकस्य वाक्यार्थज्ञानस्य ध्यानापेक्षा स्यात्;ध्यानस्य वाक्यार्थज्ञानापेक्षा कथमित्यत्राह ज्ञातार्थेति । ध्यानहेतुभूतं ज्ञानं हेत्वन्तरजन्यम्, न तु ध्यानं पश्चद्भाविवाक्यजन्यज्ञानमूलमित्येवं ध्यानवाक्यार्थज्ञानयों सामग्रीभेदेनान्योन्याश्रयणपरिहारमाशङ्कय सामग्रीभेदो न सम्भवतीत्याह ध्येयेति । हेत्व-न्तरासम्भवात्-ब्रह्मणः प्रत्यक्षाद्यगोचरत्वादिति भावः । तत्परिहाराय वाक्यभेदमाशङ्कय तथा वक्तुमयुक्तमित्याह न चेति । विकल्प्य दूषयति ध्यानमूलमिति । एकविषयत्वे तदेवेतरेतराश्रयत्वमिति । वाक्यान्तरेण ज्ञानेत्पत्तौ तस्य तत्त्वमसिवाक्यजन्यमानतुल्यविषयत्वात् तस्यापि ज्ञानस्य निदिध्यासनापेक्षा स्यात्, ध्यानस्य च वाक्या-र्थज्ञानापेक्षा स्यादित्यन्योन्याश्रयणमित्यर्थः । वाक्ययोर्भिन्नविषयत्वे दूषणमाह भिन्नेति । ध्यानस्य च वाक्यार्थ-ज्ञानविरोधित्वमेवेत्याह किञ्चति । ध्यात्रादीत्यादिशब्देन शमादिर्गृह्यते । दृष्टद्वारेणेति । अदृष्टद्वारेणोपयोगस्तु अत्यत्वभीरुभिः परैनिर्रसनीयद्वैतवासनायाः सत्यत्वप्रसङ्गभयात् परित्यक्त इति ध्याननियोगवादिनोऽभिप्रायः ।

वाक्यार्थज्ञानमात्रादविद्यानिवृत्तिनिरासेन जीवन्मुक्तिनिरासः सिध्यतीत्याह यत इति । दूरोत्सारिता । वाक्यादपरोक्षज्ञानसम्भवेऽपि व्याघातादिना जीवन्मुक्तिरुत्सारिता; वाक्यादापरोक्ष्यासम्भवात् दूरोत्सारितेति भावः ।। का चेयमिति । किं शब्दः क्षेपे । विकल्पाभिप्रायेण प्रश्नपरो वा । तत्स्वरूपं शङ्कते सशरीस्येति । व्याह-तिमाह मातेति । व्याहतिमुपपादयति यत इति । व्याहतिपरिहारार्थं तन्मतं शङ्कते अथेति । सशरीरत्वनिवृत्ति- रिति निर्देशेन सशरीरत्वस्य छिन्नमूलता जीवन्मुक्तिवादिना अभिप्रेता । दूषयति नेति । शरीरस्य सत्यत्वानभ्यु-पगमात् तस्य प्रध्वंसरूपा स्वरूपनिवृत्तिरनभिमता, अतः प्रतिभासनिवृत्तिर्वा प्रतिभासतात्त्विकताभिमाननि- वृत्तिर्वा विवक्षिता स्यादित्यभिप्रायेण प्रथमं कल्पमनूद्या अभिमतासिद्धया दूषयति मिथ्येतीति । सशरीरत्वम्-

सशरीरत्वप्रतिभासः । अनन्तरग्रन्थे प्रतिभासनिर्देशात् । कथं सशरीरस्य मुक्तिरिति । न सशरीरस्य मुक्तिरुक्ता स्यादित्यर्थः । तदेवोपपादयति । अजीवतोऽपीति । मिथ्याप्रतिभासशब्देन भ्रान्तिज्ञानं विवक्षितम् । जीवदजीव-मुकत्योर्विशेषाभावान्न शरीरस्य मुक्तिरुक्ता स्यादित्यर्थः । द्वितीयं शिरः शङ्कते अथेति । अत्र पूर्व सशरीरत्वप्रति-भासे वर्त्तमान इत्यादिग्रन्थाभिप्रेतार्थो विवृतो भवति । दूषयति नेति । कथमित्यत्राह ब्रह्मेति । आविद्याकर्मा- दीति आदिशब्देन वासना गृह्यते । तेनैव बाधितः-बाधकज्ञानेन बाधित इत्यर्थः । द्विन्द्रज्ञानादौ हि बाधितानु-वृत्तिदृष्टेत्यत्राह द्विचन्द्र(ज्ञान)#ादाविति । न हि रजुया-थात्म्यज्ञानेन शुक्तौ रजतभ्रमो निवर्त्तते इति भावः । प्रथ-मसूत्रे बाधितानुवृत्तिनिराकरणे दोषस्य पारमार्थिकत्वेन ज्ञानबाध्यत्वाभावात् भ्रमानुवृत्तिरुक्ता; अत्र तु चन्द्रैक-त्वज्ञानाविषयत्वेन दोषस्याबाधितत्वात् द्वि(चन्द्र)त्वज्ञानानुवृत्तिरुक्तेति भिदः । जरन्मायावादिनोऽपि कृत्स्न-मिथ्यात्वस्याभ्युपगतत्वात् एवं वैषम्यमुक्तम् ।। जीवन्मुक्तेः श्रुतिविरोधमाह किञ्चेति । स्मृतिविरोधमाह सैषेति । वेदशब्देन त्रिवर्गसाधनकर्माण्युच्यन्ते । तत्फलमुच्यते इमं लोकममुं चेति । बुद्धे-वाक्यार्थज्ञाने जाते सति । क्षेमप्रापणम्-मोक्षः । तच्छास्त्रैर्विप्रतिषिद्धम्-शास्त्रैरिति बहुवचनस्यायम्भावः,-वाक्याथर्ज्ञानोत्तरभाव्युपास-नविधिपरैः, "एवं वर्तयन् यावदायुषम्" इत्याप्रयाणादिनुवृ#ात्तपरैः, र्मोक्षस्य शरीरपातमात्रसापेक्षत्वपरैः, "तयोर्ध्व-मायन्नमृतत्वमेति" इति नाडीविशेषनि#ेक्रमणपरैः, अर्चिरादिमार्गेण देशविशेषप्राप्तिपरैश्चानेकैः शास्त्रैर्विरोध इति । विप्रतिषिद्धमिति । विशेषेण प्रतिषिद्धम् । न तुल्यबलैः प्रतिरुद्धम्; अपितु प्रबलैः पराहतम् । प्राबल्यञ्च, भूयसां स्यात् बलीयस्त्वम् (सधर्मत्वम्)" इति न्यायादिति भावः । प्रत्यक्षविरोधमपि स्मृतिरेवाह बुद्धे चेदिति । एतेन परं व्याख्यातम् । एतेन शास्त्रप्रत्यक्ष विरोधेन, औहुलामि मतानुसारेणोक्तं अन्यदपि व्याख्यातम्; सर्वमप्यपा-स्तमित्यर्थः । यद्वा -यथेदानी दुःखोपलब्धिः, तथा प्रेत्यापीत्यर्थः । यद्वा-यथा दुःखनिवृत्तिर्नोपलभ्यते तथा सुखनिवृत्तिरपि नेत्यर्थः । जीवन्मुक्तिनिरासार्थमुदाहृतेन वचनेन वाक्यार्थज्ञानमात्रान्मोक्षश्चार्थान्निरस्त इत्याह अनेनेति । जीवन्मुक्तिनिरासमुपसंहरति अत इति ।

जीवन्मुक्तिनिरासेन स्वमतस्थैर्यसिद्धिमाह तस्मादिति । वाक्यार्थज्ञानमात्रान्मोक्षवादिनोक्तःचोद्यपरि- हारो ममापि तुल्य इत्याह न च नियोगेति । नियोगनिवर्त्यत्वे प्रपञ्चसत्यत्वं स्यादित्याशङ्कयाह किञ्चेति । ध्याननियोगपक्षानुपपत्तिपरिहारस्य विवक्षितत्वात् किञ्चशब्दप्रयोगः । नियोगस्य निवर्त्तकत्वं ज्ञानद्वारकमिति न निवर्त्यसत्यत्वमित्यर्थः । नियोगस्य ज्ञानोत्पत्तौ किञ्चित्कारबुभुत्सया पृच्छति । कथमिति । न खलु ज्ञाने दृष्टः किञ्चत्कारो नियोगेन सम्भवति; अतः स वक्तव्य इति भावः । प्रतिबन्द्या परिहरति । कथं वेति । वेदनो-त्पत्तिहेतुत्वमिति । इच्छाद्वारा वेदनोत्पत्तिहेतुत्वमभिप्रेतम् । विविदिषन्ती"ति ह्युदाहरिष्यते । परिहारं शङ्कते मन इति । तत्साम्यमाह ममापीति । पुनराशङ्कते मम त्विति । मनो हि साधारणकारणम् । तस्मिन् सत्ययि असाधारणकारणमपेक्षितम्; तन्ममास्ति; त्वया तु वक्तव्यमिति चेदित्यर्थः । वैशेषिकाद्यभिमतमानसप्रत्यक्ष इव, प्रकृष्टादृष्टसहकृतमनोमात्रकारणके "तत् सर्वं धमर्वीर्येण यथावत्सम्प्रपश्यसि" इत्यादिसिद्धे योगिप्रत्यक्ष इव च मन एवासाधारणकारणमिति परिहरति ध्यानेति । मनोमात्रस्य साधारण-कारणत्वेऽपि निर्मलतरस्य मनोविशे-षस्यासाधारणकारणत्वं युक्तमिति भावः । तज्ज्ञापकं प्रश्नं शङ्कते केनेति । ज्ञापकस्वारस्यलक्षणं स्वपक्षे वैषम्यं दर्शयितुं पृच्छति भवतो वेति । निदिध्यासनेन विषयविमुखीकृतमनस्कस्य शास्त्रेण निवर्त्तकज्ञानोत्पत्तौ प्रमाण- तया पराभिमतानि श्रुतिवाक्यानि शङ्कते विविदिषन्तीति । "ब्रह्म वेद ब्रह्मैव भवति"इति वेदनशब्देन वाक्यार्थ- ज्ञानं विवक्षितमिति पराभिप्रायः । मनसो ज्ञानसाधनत्वे प्रमाणं दर्शयति ममापीति । न चक्षुषेत्यादिवाक्यं मनस

एव साधनत्वे स्वरसम् । ब्रह्म वेदेत्यत्र वेदनशब्दस्य वाक्यार्थज्ञानपरत्वं तु न स्वरसतः प्रतीयते । न च श्रुत्यन्तरै-कार्थ्येन तत्परत्वावगमः, वाक्यार्थज्ञानस्योपायत्वकण्ठोक्तिमच्छØत्यन्तराभावादित्यभिप्रेतम् । मिथ्यात्वनिबन्धनाः सर्वे चोद्यपरिहाराः समानाः । परोक्षज्ञानस्याप्यपरोक्षभ्रमनिवर्तकत्वं शास्त्रप्रत्यक्षविरोधौ श्रुतिस्वारस्यहानिश्च भवतां पक्षेऽधिकं दूषणमिति वैषम्यज्ञापनाय कथमित्यादिना प्रतिबन्दीमुखेन तत्तच्छङ्कापरिहारः कृतः । इति- शब्दो नानन्तरवाक्यशेषः; अपि तु प्रकरणशेषः ।

उपास्यत्वप्रतिषेधं शङ्कते नेदमिति । परिहरति नैवमिति । तस्य वाक्यस्यैवं निर्वाहो न युक्त इत्यर्थः । उपास्यत्वनिषेधः प्रतीयत इत्यत्राह नात्रेति । कस्तर्ह्यर्थ इत्यत्राह अपि त्विति । कथं वैरूप्यप्रतिपादनामित्यत्राह यदिदमिति । "यदिदमुपासते" इत्यत्र इदमंशे निषेधस्य तात्पर्यमिति भावः । "मनो ब्रह्मेत्युपासीत" इत्यादिना विहितप्रतीकोपासनोपास्यानि हि परिच्छिन्नानि; नेदं ब्रह्म । किन्त्वपरिच्छिन्नं तदेव परं ब्रह्मेत्यर्थः । अनेन "अन्य-देव तद्विदितात्" इत्यादिकमपि जगद्वैरूप्यपरमिति व्याख्यातं भवति । यत् वाचा अनभ्युदितम्-वक्तुमशक्यम्, अपरिच्छिन्नम् । अन्यथेति स्वावाक्यविरोध उक्तः । ध्यानविधिवैयर्थ्यमिति वाक्यान्तरविरोध उक्तः । स्वपक्षमु-पसंहरति अत इति ।।

अथायमेव ध्याननियोगवादी भास्करमतं दूषयितुं तदभिमतं भेदाभेदाविरोधमनुवदति यदपीत्यादिना । प्रथमं सङ्क्षेपेण दूषयति तदयुक्तमिति । नियमेन भिन्नाधारत्वलक्षणः सहानवस्थानलक्षणश्चेति विरोधो द्विधा । आदिशब्देन तृणदहनादेरिव नाश्यनाशकभावो विवक्षितः । तद्वत् भेदाभेदयोरपि विरोधोऽस्तीत्याह न हीति ।। अथ भेदाभेदमतं विस्तरेण प्रस्तौति अथोच्येतेति । वक्ष्यमाणौपयिकमर्थं शिक्षयति सर्वं हीति । शीतोष्णादि- ष्वपि विरोधः प्रतीत्यधीन इति भावः । ततः किमित्यत्राह सर्वं चेति । कथं भिन्नाभिन्नत्वमित्यत्राह कारणात्म- नेति । पूवोक्तद्विविधविरोधोपलम्भस्थलवैरूप्यं वक्तुमाह छायेति । ततः किमित्यत्राह कार्येति । अविरोधेनो-पलब्धिमाह प्रत्युतेति । उपलब्धिमभिनयेन दर्शयति यथेति ।अद्विरूपवस्त्वनुपलब्धिमाह न चेति । नाश्यनाश-कत्वलक्षणस्तृतीयोऽपि विरोधो नास्तीत्याह न च तृणादेरिति । वस्तुविरोधशब्देन नाश्यनाशकत्वलक्षणविरो- धो विवक्षितः । तादृशविरोधाभावमुपपादयति मृत्सुवर्णेति । जातिगतोऽभेदो व्यक्तिगतश्च भेद इति कथमेकस्य भेदाभेदाविति शङ्कायां जातिव्यकत्योः परम्परभेदाभेदमुपपादयति न चाभिन्नस्येति । अभिन्नस्य-जातेः, भिन्न- स्य-व्यक्तेरित्यर्थः । जातेरभेद एवाकारः, व्यक्तेर्भेद एवाकार इति किमीश्वराज्ञया स्वीक्रियते? न हि प्रमाणत-र्कानादरेण हठात् कश्चिदर्थः स्वीकार्य इति भावः । प्रतीतिबलादभ्युपगतिं शङ्कते प्रतीतत्वादिति । तथा स्वमत-स्याभ्युपगन्तव्यतामाह प्रतीतत्वादेवेति । त्वदुक्तादेवेत्येवकाराभिप्रायः । द्वैरूप्यमपीति ।अनिष्टमपीति अपि-शब्दस्याभिप्रायः । प्रतीतत्वमेवोपपादयति न हीति । इयं जातिः इयं व्यक्तिरिति विवक्ते हि,अत्राभेदः अत्र च भेद इति वक्तुं युक्तम्, न तथा विविच्यत इत्यर्थः । तर्हि कथं प्रतीतिरित्यत्राह अपि त्विति । एकमेव वस्तु जात्या- त्मना व्यकत्यात्मना च भिन्नमभिन्नञ्च प्रतीयत इत्यर्थः । मृदयं घट इत्यनेन मत्वर्थीयप्रत्ययनिरपेक्षसामानाधि-करण्यप्रत्ययो भेदाभेदसाधकयुक्तिरुक्ता भवति । अनुवृत्तिव्यावृत्तिभ्यां विवेकं शङ्कते अनुवृत्तीति । परिहरति नैवमिति । विविक्ताकारानुपलब्धि विवृणोति नहि सुसूक्ष्ममपीति । विविक्ताकारोपलम्भे सति हि अस्मिन्नशे-ऽनुवृत्तिबुद्धिबोध्यत्वम् अस्मिन्नंशे व्यावृत्तिबुद्धिबोध्यत्वमिति जातुं शक्यमित्यर्थः । आकारभेदः अंशभेदः । तर्हि कथमुपलम्भ इत्यत्राह यथा सम्प्रतिपन्नेति । विशेषः व्यक्तिः । यथा कार्यैकत्वं व्यकत्येकत्वञ्च सम्प्रतिपन्नं, तथा कार्यकारणयोश्च जातिव्यकत्योश्चैकत्वबुद्धिर्जायत इत्यर्थः । एकत्वबुद्धिरित्यनेन एकशब्दानुविद्धप्रत्यय उक्तो

भवति । सहोपलम्भनियमः प्रथमपिण्डग्रहणे अभेदेन ग्रहणं(अशंभेदेनाग्रहणं) च अर्थादुक्तं भवति; न विवेक्तुं शक्नोतीत्युक्तेः । एवं जातिव्यकत्योरन्योन्यं भेदाभेदः उक्तः; अथ पिण्डानां परस्परभेदाभेद उच्यते एवमेवेति । देशकालवैलक्षण्यं स्पष्टम् । नीलत्वखण्डत्वादिराकारवैलक्षण्यम् । अत्यन्तभेदः अभेदासहो भेद इत्यर्थः ।अत्र चोद्यमाशङ्कते अथोच्येतेति । देहात्मनोः सद्द्रव्यात्मनैकत्वेऽभिमतेऽपि देहरूपेण आत्मरूपेण वा तयोरैक्यस्या-प्रामाणिकत्वात् तयोर्भिन्नाभिन्नत्वमनिष्टमिति भावः । परिहरति तदिदमिति । अबाधितं सामानाधिकरण्यं भेदा-भेदसाधकम्; अबाधितश्च भेदाभेदस्तत्त्वम्" इत्यजानतोक्तमित्यर्थः । तदुपपादयति । तथा हीति । परिहारौपयि-कमर्थे शिक्षयति अबाधित इति । ततः किमित्यत्राह देवादीति । जातिव्यकत्योरपि तथा स्यादित्यत्राह खण्ड इति । एवं लौकिकार्थानां भेदाभेद उक्तः । तदु(मु?)पजीव्य वैदिकेष्वष्यर्थेषु जीवब्रह्मणशेर्भेदाभेदमाह अत एवेति । अतः-भेदाभेदयोरविरुद्धत्वादित्यर्थः । ब्रह्मांशत्वेनेत्यत्र "अंशो नानाव्यपदेशात्" इति सूत्रं स्मारितम् । अचिद्व्रह्मणोर्भेदाभेदः स्वाभाविक इति भास्करयादवयोरुभयोरप्यभिमतम् ; "चिद्व्रह्मणोस्तु भेदाभेदौ स्वाभावि- कौ" इति यादवमतव्यावृत्त्यर्थमाह तत्रेति । कथमिति । भेदाभेदसद्भावे तत्राभेदस्यैव स्वाभाविकत्वे च किं प्रमाणमित्यर्थः । अभेदस्य स्वाभाविकत्वेन प्राधान्यात् प्रथमम् अन्यथा चेति सूत्रां-शविषयवाक्यमाह तत्त्वम- सीति । दाशकितवेत्याद्यशविषयमाह ब्रह्मेम इति । नानाव्यपदेशादित्यं शस्य विषयमाह नित्यो नित्यानामिति । क्रियागुणैरात्मगुणैश्चेति क्रियागुणाः-सांरहेतुगुणः । आत्मगुणाः-मोक्षहेतुगुणाः; तैस्संयोगहेतुरित्यर्थः ।अत्र भेदस्यौपाधिकत्वं कथमवभम्यत इत्यत्राह तत्रेति । तत्स्वरूपापत्तिव्यपदेशो भेदनिषेधश्चा भेदस्यानौपाधिकत्व-ज्ञापकावित्यर्थः । मुक्तौ भेदनिषेधादेव भेदस्यौपाधिकत्वमप्यर्थसिद्धम् । मुक्तौ भेदं दर्शयंश्चोदयति ननु चेति । सह-शब्दो भोक्तृसाहित्यपर इति चोदयितुरभिप्रायः । भोग्यसाहित्य बुद्धया परिहरति नैतदिति । भेदप्रतीतिं परिहरि- ष्यन् मुक्तौ भेदस्य श्रुतिविरुद्धतां दर्शयति नान्य इति । भेदप्रतीतिं परिहरति सो अश्नुत इति । सोश्नुत इति वाक्येनोक्तंभवतीत्यन्वयार्थः । ब्रह्मणा सह गुणानश्नुते-गुणांश्च ब्रह्म चानुभवतीति ।किं ब्रह्म पृथग्भूतोऽश्नुते, उतापृथग्भूत इत्यपेक्षायाम् तत् वाक्यान्तरावगम्यम् ।अतो नात्र भेदप्रतीतिरिति यावत् । एतदुपपादयति अन्य- थेति । अप्राधान्यं भोकत्रान्तरापेक्षया दोषः; भोग्यभूतस्वगुणापेक्षया तु न दोष इति भावः । परोदाहृतसूत्रस्य स्वा-भिमतमर्थमाह जगदिति । ब्रह्मणो मुक्तस्य च भेदे सति जगद्वयापारवर्जत्वप्रसङ्गान्न भेद इति सूत्रार्थ इत्यर्थः । तदु-पपादयति अन्यथेति ।अभेस्य स्वाभाविकत्वं निगमयति तस्मादिति । मुक्तौ भेदनिषेधादर्थसिद्धं भेदस्य औपा-धिकत्वम् एवकारेणाभिप्रेतम् । उपाधिः क इत्यपेक्षायामाह भेदस्त्विति । औपाधिकत्वरूपवैषभ्यपरः तुशब्दः; शङ्काद्योतको वा । ब्रह्मणो विभुत्वनिरवयवत्वाभ्यां जीवगत उपाधिर्ब्रह्मण्येवेति तदसंसृष्टप्रदेशाभावात् जीवेश्वर- भेदो न सम्भवतीत्यत्राह यद्यपीति । अन्योन्याश्रयमाशङ्कयाह न चेति । ईश्वरांशे कर्मकृतबुध्याद्युपाधिसम्बन्धा-भावादुपाधसंयोगस्य भेदपूर्वकत्वम् । प्रवाहानादितया परिहरति उपाधेरिति - कथमुपाधितत्संयोगमकर्मणां प्रवाहानादित्वम्, तेन चान्योन्याश्रयपरिहारः कथम् इति शङ्कायां तद्विवृणोति एतदुक्तमिति । तद्युक्तात्कर्मेति । कर्मवश्यत्वं हि जीवत्वम् । उपाधिना जीवत्वं जीवभावादुपाध्यन्तर-मित्यनादिरित्यर्थः । फलितमर्थमाह अत इति । अचिदंशे वैषम्यमाह उपाधीनां पुनरिति । पुनः त्वर्थः । वैषम्ये हेतुद्वयमाह उपाधीनामिति । भिन्नाभिन्न-त्वपक्षमुपसंहरति अतो जीवकर्मेति ।।

अथ भेदाभेदपक्षं ध्याननियोगवादी दूषयति अत्रोच्यत इत्यादिना । पूर्वं यदपि कश्चिदुक्तमिति प्रका-न्तस्य पक्षस्योत्थापकं सङ्गतिस्थलं दर्शयितुमाह अद्वितीयेति । तत्सङ्गतिस्थलं दर्शयति तत्र यदुक्तमिति । भेदा-

भेदविषयप्रतीतिं दूषयिष्यन् पूर्वं तयोर्विरोधमुपपादयितुं तत्स्वरूपमाह कस्माच्चिदिति । विलक्षणत्वम्-अन्यत्वम् । इदमिदं न भवति, इदमिदं भवतीति हि भेदाभेदविषयप्रतीतिः । ततः किमित्यत्राह तयोरिति । भेदाभेद इति न कस्यचिद्धर्मस्य संज्ञा । लोकप्रसिध्यनुगुणोऽर्थो भेदाभेदशब्दस्य स्वीकृतश्चेत् -भावाभावयोर्विरोधोऽवर्जनीय इत्यर्थः । किञ्च अनेन क्कचिदपि विरोधो नास्तीति वक्तुं न शक्यम्; त्रिविधविरोधोपलब्धेः । यदि भावाभावयोर्न विरोधः, तर्हि भिन्नाभिन्नत्वं भवति, न भवतीति स्वपरवचसोरपि विरोधाभावः स्यात् । परोक्तं पिण्डद्वयभेदाभेदस्याकार-भेदादविरोधमनुवदति कारणात्मनेति । विकल्प्य दूषयति नेत्यादिना । एकस्मिन् आकार इति । आकारशब्दः पदार्थपरः । पूर्वस्मिन् कल्प इति । तत्र जातिव्यकत्योः किं परस्परं भेदः, उताभेदः, उत भेदाभेदः इति विकल्पत्र-यमभिप्रेत्य प्रथमं शिरो दूषयति व्यक्तिगत इति । द्वितीयमनुवदति जातिरिति । दूषयति तर्हीति । विरोधंस्तिष्ठ-त्येवेत्यर्थः । तृतीयं दूषयति एकस्मिंश्चेति । जातिः व्यक्तिर्भवति न भवतीति भावाभाव विरोधः स्थित एवेत्यर्थः । कण्ठोक्त पूर्वविकल्पो द्वितीयं शिरो दूषयति द्वितीये तु कल्पे इति । अत्र तृतीयस्य जातिव्यक्तिव्यतिरिक्तस्य वस्तु-नोऽप्रतिपन्नत्वं नामैकं दूषणमधिकम् । तदिदंमप्रतिपन्नञ्चेत्यनेनाभिप्रेतम् । प्रतिपन्नत्वाभ्युपगमेऽपि दूषणमाह तृती-याभ्युपगमेऽपीति । न पुनरिति । अन्यथा त्रित्वाभावादित्यर्थः । अत्र तृतीये वस्तुनि आकारद्व्रयेन भेदाभेदयो-र्निर्वाह्यत्वेनाविरोधित्वं शङ्कते आकारद्वयेति । इदमाकारद्वयं स्वाश्रयेण भिन्नम्, उताभिन्नम्, उत भिन्नाभिन्नम् इति विकल्पमभिप्रेत्य प्रथमं शिरो दूषयति स्वस्मादिति । स्वशब्दत्रयमप्याश्रयपरम् । भेदाभेदयोरेकाश्रयत्वेन हि विरोधः । अविरोधनिर्वाहकाकारद्वयं हि न भेदाभेदयोराश्रयभूतम् । अतो न तत् अविरोधनिर्वाहकम् ।अग्रिगतं पैङ्गल्यमौज्जवल्याञ्चाकारद्वयम् अग्नौ शीतोष्णत्वरूपविरुद्धधर्मद्वयसमावेशनिर्वाहकं न भवतीत्यर्थः । द्वितीयं शिरो दूषयति अविलक्षणमिति । पूर्वमाकारद्वये सम्भवति तस्य विरुद्धधर्मद्वयनिर्वाहकत्वायोग उक्तः; अत्र त्वा-कारद्वयमेव नास्तीति नितरां विरुद्धधर्मसमावेशायोग इत्यभिप्रायेण कथन्तरामित्युक्तम् । तृतीयं शिरो दूषयति आकारद्वयतद्वतोरिति ।आकारद्वयस्य तदाश्रयस्य च भिन्नाभिन्नत्वनिर्वाहकमाकारद्वयान्तरमपेक्षितम्; तस्यापि स्वाश्रयेण भिन्नाभिन्नत्वमस्ति चेत्, तदविरोधनिर्वाहकाकारद्वयान्तरमपेक्षितमित्यनवस्था स्यादित्यर्थः । अथ किं दृष्टेऽनुपपन्नं नामेति शङ्कायां भेदाभेदविषयप्रतीतिं दूषयति न चेति । हेतुमाह यत इति । तस्यां प्रतीतौ प्रका-रप्रकारिणौ विविच्य दर्शयति तत्रेति ।

अनेनेदमपि परिहृतम्-मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यम्, सहोपलम्भनियमः; एकशब्दानुविद्ध- प्रत्ययः, प्रथमपिण्डग्रहणेजातिव्कत्योरभेदप्रतीतिश्चेति हेतुचतुष्टयम् । अपृथक्सिद्धविशेषणत्वं मत्वर्थीयप्रत्ययनि-रपेक्षसामानाधिकरण्यहेतुः । अपृथक्सिद्धिश्च प्रकारप्रकारिणोः सम्बन्धनियमादेवोपपन्ना ।अतः प्रकारप्रकारिभाव-प्रतिपन्नभेदविरुद्धाभेदकल्पनाया नावकाशः । सम्बन्धनियम एव सहोपलम्भनियमहेतुश्च । एकोऽयं गौरिति प्रत्य-योऽपि एको दण्डीतिवत् विशेष्यैक्यविषयः; न तु विशेषणविशेष्यैक्यविषयः । प्रथमपिण्डग्रहणेऽपि प्रकारप्रका-रिभावात् भेदेनैव प्रतीतिः । किञ्च सहत्वमपि भेदसाधम् । द्वयोरेव हि साहित्यम् । सहोपलम्भनियमश्च, सम्प्रति पन्ने भिन्ने अभिन्न च न दृष्ट इत्यसाधारणानैकान्तिकत्वात् नोभयसाधकः । भिन्नेषु अभिन्नेषु चादृष्टस्य भेदाभेद-साधकत्वेऽभ्युपगम्यमाने नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं गन्धवत्त्वं पृथिव्या नित्यत्वानित्यत्वसाधकं स्यात् । किञ्च साधननियमः साध्यनियमहेतुरिति सहत्वनियमो भेदनियमहेतुरेव । अत्र जातिः अत्र व्यक्तिरिति प्रदेशभेदाग्रहणं जातेः पिण्डे व्याप्यवृत्तित्वात् । तच्च सहोपलम्भनियमान्तर्गतम् । देशतः कालतश्चोपलम्भनियमो हि सहोपलम्भ-नियमः । अतो देशतः कालतश्च सम्बन्धनियमकृतः सहोपलम्भनियमः । किञ्च सहोपलम्भनियमोऽसिद्ध।; इदं

रजतमित्यत्र शुक्तित्वजातिव्यतिरेकेणाधिष्ठानभूतव्यक्तिप्रतीतेः । अतो नैक्यसाधकत्वमिति ।।

लौकिकवस्तुनि भेदाभेदयोर्विरुद्धत्वमुपजीव्य वैदिकेऽपि तत्सद्भावमाह अत एवेति । भेदाभेदयोर्विरो-धेनैकस्मिन् वस्तुनि तयोरनुपपन्नत्वादित्यर्थः । भेदाभेदनिरासमुपजीव्याभेदस्यैव तात्त्विकतामाह तस्मादिति । दोषसम्बन्धमुखेन चोदयति नन्विति । अपरमार्थतया परिहरति नैवमिति । परोक्तदोषः परस्यैवेत्याह भवत- स्त्विति । तदुपपादयति न हीति । अङ्गुल्यादेरिव छेदो न सम्भवतीति अच्छेद्यत्वं ब्रह्मणः, तस्य हेतुः निरवयव- त्वम् । भित्वा-अच्छिन्नत्वेऽपि पाणिपादादिवत् प्रतिनियतप्रदेशभेदेनेत्यर्थः । प्रदेशभेदेन छेदनेन वा ब्रह्मणि सम्ब-न्धमुपाधया नार्हन्ति, निरवयवत्वादच्छेद्यत्वाच्चेत्यर्थः । निरवयवत्वेऽप्यच्छेद्यत्वेऽपि गगनवत् उपहितानुपहितांश-भेदेन सदोषत्वनिर्दोषत्वोपपतिं्त शङ्कते यदि मन्वीतेति । उपाध्यवच्छेदाज्जीवभावः जीवभावादुपाध्यवच्छेदः; कर्म- णा जीवभावः तस्मात्कर्मेति चान्योन्याश्रयपरिहाराय अनादिरित्युक्तम् । दूषयितुमाह अयं प्रष्टव्य इति । विकल्प-यति किमिति । श्रुतौ अणुशब्दस्य सूक्ष्मपरत्वाभिप्रायसम्भवात् तृतीयकल्पोदयः । चतुर्थपञ्चमौ कल्पौ आभ्यां विकल्पाभ्यां विना गतिर्नास्तीत्यभिप्रायेण कृतौ; न तु पराभ्युपगत्या । ब्रह्मशब्दस्य जीवेऽप्युपचारवृत्तेः चतुर्थः- कल्पः । उपाधिब्रह्मणोर्भिन्नाभिन्नत्वाभ्युपगमात् पञ्चमः । प्रथमं शिरो दूषयति अच्छेद्यत्वादिति । दूषणान्तरमाह आदिमत्त्वमिति । तदुपपादयति एकस्य सत इति । द्वितीयं दूषयति द्वितीये त्विति । दूषणान्तरमाह उपाधा- विति । आकर्षणेन विना तत्परिहारासम्भवात् तदाशङ्कयाह आकर्षणे चेति । अनुपपत्त्या तदनभ्युपगममाशङ्कय पूर्वोक्तदूषणेन व्युदस्यति निरशंस्येति । दूषणान्तरमाह अच्छिन्नेति तत्परिहारमाशङ्कयाह प्रदेशभेदादिति । तृतीयं शिरो दूषयति तृतीय त्विति । अनुपहितब्रह्मसिद्धिः स्यादिति । निर्दोषमङ्गलगुणकत्वश्रुतीनामनुपहितब्रह्मविष- यत्वं हि पराभ्युपेतम् । जीवेश्वरभेदाभावप्रसङ्गो जीवानां परस्परभेदाभावप्रसङ्गश्चेत्यर्थः । चतुर्थपञ्चमौ दूषयति तुरीये त्वित्यादिना । चरम इति । अचिद्द्रव्यस्यैव चेतनत्ववचनात् तस्य चेतनब्रह्मतादात्म्यानुपपत्तिश्चेत्यभि- प्रायः । भेदाभेददूषणमुपसंहरन् स्वमतसिद्धिमाह तस्मादिति । ध्यानविधिशेषतया ब्रह्मणः सिद्धिमुपसंहरति अत इति ।।

ध्याननियोगवादिपक्षं मीमांसको दूषयति तदप्ययुक्तमिति । न केवलं निष्प्रपञ्चीकरणविधिवाद एवा-नुपपन्नः, इदमपि मतमनुपपन्नमिति अपिशब्दस्य भावः । कुत इत्यत्राह ध्यानेति । ध्यानविधिशेषत्वे कथमर्थसत्य- त्वे तात्पर्योयोगः; विधिशेषत्वं हित्वा स्वातन्त्र्#ेण वा ब्रह्मणि प्रामाण्यं स्यादित्यत्राह एतदुक्तमिति । दूषयितुं विकल्पयति ब्रह्मस्वरूपेति । प्रथमं शिरो दूषयति एकेति । एकवाक्यत्वम्-महावाक्यैकत्वम् । द्वितीयं दूषयति भिन्नति ।अनवबोधकत्वं दुःखसाध्यश्रवणादौ प्रवृत्त्ययोगात् । एकवाक्यत्वपक्षे विधिशेषतया ब्रह्मणः सिद्धिमा-शङ्कयाह न च वाच्यमिति । कुत इत्यत्राह ध्यानविधेरिति । "नाम ब्रह्मेत्युपासीत" इत्यादिषु दृष्टिविधिषु विशेष्य-सत्यत्वेऽपि विशेषणासत्यत्वेन विशिष्टासत्यत्वमवर्जनीयम्; इह च तथैवेत्यर्थः । सार्थसङ्ग्रहं पूर्वपक्षमुपसंहरति अत इति ।। ननु प्रथमसूत्रे विधिशेषतया ब्रह्मणि प्रामाण्यसमर्थनम् एतदधिकरणपूर्वपक्षे विधिशेषतया तत्सिद्धि-प्रतिक्षेपश्च कथं घटते ।। इत्थम्; तत्र तु फलत्वेन सिद्धिरुक्ता, फलतया सिध्यतः पारमार्थ्याभावे स्वर्गादेरप्यसत्य- त्व प्रसंगात् । तत्पारमार्थ्यं सिध्यतीति फलतया तत्सिद्धिसमथर्नं साधीयः । अत्र तु ध्यानविधिकर्मत्वेन तत्सिद्धि-र्व्युदस्ता; न तु फलतया तत्सिद्धिरित्यविरोधः ।।

एवमुपन्यस्तं पूवर्पक्षमभिप्रेत्य सूत्रकारेणैतत्सूत्रं प्रणीतमित्याह तत्रेति । प्रतिपद्यते-सिद्धान्तः प्राप्नोति । ज्ञायत इति वार्थः । समन्वयशब्दं विस्तरेण व्याचष्टे समन्वय इत्यादिना । कस्य केनान्वय इत्यपेक्षां पूरयन् वाक्यार्थं

योजयति परमेति । परमपुरुषार्थत्वोपपादकमनवधिकेति पदम् । पुरुषेणाथ्यर्त्वं हि पुरुषार्थत्वम् । आनान्दरूप- तया पुरुषार्थत्वम्; तस्यानवधिकातिशयत्वात्परमपुरुषार्थत्वमिति भावः । स्वयमननुकूलस्य सुखसाधनस्यापि पुरु-षार्थत्वमस्तीति तद्वयावृत्तिश्चानवधिकेत्यादिपदेन सिद्धा । तच्छब्दं व्याचष्टे शास्त्रप्रमाणकत्वमिति । पूर्वपक्षव्या-वर्त्तकतुशब्दलब्धमर्थमाह सिध्यत्येवेति । तत्त्वमस्यादिस्वरूपोपदेशपरवाक्यार्थज्ञानमात्रेणाविद्यानिवृतिं्त तन्मु- खेन वाक्यस्य प्रयोजनपर्यवसानञ्च वदतो मृषावादिनो ध्यानविध्यानर्थक्यं स्यात्; वाक्यार्थज्ञानोपयोगित्वस्य दूषितत्वात् । मीमांसकपक्षे ब्रह्मणोऽसिद्धिः-इत्युभयविधदोषान्पृष्टेनाकारेण वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यमु-पपिपादयिषुः, तत्र प्रथमं ब्रह्मणः स्वतः सर्वेषां सर्वप्रकारभोग्यत्वेन पुरुषार्थत्वाधिक्यं प्रवृत्तिनिवृत्त्योर्दुःखात्मक- त्वेन पुरुषार्थत्ववैकल्यं चाभिप्रयन् प्रवृत्तिनिवृत्तिपरत्वविरहवतः पुरुषार्थपयर्वसानाभावनिबन्धनाम् अप्रामाण्य- शङ्गां परिहरति निरस्तेति । राजकुलवासी-राजकुलप्रसूतः, राजकुलान्तरङ्गो वा । कौलेयकाः-श्वानः । श्वोपजी-विनो म्लेच्छा वा लक्ष्यन्ते । यद्यपि वाक्यगणस्थाने राजकुलवासी पुरुषः प्रतीयते, तथाप्यर्थवशाद्वाक्यार्थप्रति-पत्तृपुरुषस्थाने तन्निर्द्देशः फलितः । स्वतो निरवधिकपुरुषार्थपरवाक्यस्य प्रयोजनशून्यत्वकथनमनुपपन्नमिथ्यर्थः । ब्रह्मणः कथमनवधिकानन्दरूपतया पुरुषार्थत्वाधिक्यम्; कथं च प्रवृत्तिनिवृत्त्योः पुरुषार्थत्ववैकल्यम्; स्वरूपपर-वाक्यस्य पुरुषार्थपर्यवसानं कुत्र दृष्टम्; तथा सति कथं ध्यानविधिसाफल्यम् इत्याकाङ्क्षायामाह एतदुक्तमिति । ब्रह्मणः पुरुषार्थताधिक्यमाह अनादीत्यादिना । कमर्भिरनुभवप्रतिबन्धात् क्षेत्रज्ञानां तस्य पुरुषार्थत्वज्ञानाभावः, न तु तत्र तद्वैकल्पादित्यभिप्रायेणोक्तम् अनादिकर्मेति । देवासुरादिपरिगणनं तेषां व्यवस्थितभोग्यत्वप्रदशर्ना- र्थम् । योग्यानुपलब्धिशङ्काव्युदासाय अनुभवसम्भव इत्युक्तम् । तद्विषयज्ञानानुकूलत्वं हि तदनुकूलत्वेन विना न सम्भवति । अतोऽनवधिकातिशयानन्दजनननत्वोक्तया ब्रह्मणोऽनवधिकातिशयानुकूलत्वं सिध्यतीत्यानन्द-त्वमुपपादितं भवति । स्वरूपेत्यादिना सर्वप्रकारभोग्यत्वमुक्तम् । तेन पुरुषार्थत्वाधिक्यं सिद्धम् । प्रवृत्तीत्यादिना प्रवृत्तिनिवृत्त्योः पुरुषार्थत्ववैकल्पमुक्तम्; इष्टसुखलवसाधनतयोपादेयत्वात् दुःखात्मकतया स्वतो भोग्यत्वाभावाच्च ।

ध्यानादिविध्यानर्थक्यं परिहरति एवम्भूतमिति । परोक्षज्ञानस्यापि सुखरूपत्वात् स्वरूपपराणि वा-क्यानि पुरुषार्थपर्यवसायीन्येव, तदापरोक्ष्याकाङ्क्षिणस्तत्साधनज्ञापकत्वात् ध्यानविधायीनि वाक्यानि अपि न निष्फलातीत्यर्थः । इममर्थ दृष्टान्तेन दर्शयति यथेति । एवं परोक्षज्ञानजनकस्यैव वाक्यस्य पुरुषार्थपर्यवसायित्वे- ऽपि फलविशेषापेक्षया ध्यानप्रवृत्तिर्युक्ता, यथा "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत", "ज्योतिष्टोभेन स्वर्गकामो यजेत", "अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादिषु दर्शपूर्णमासादीनामेकैकस्यस्वर्गसाधनत्वेऽपि फलविशेषापे- क्षया कर्मान्तरारम्भः एकस्यैव कर्मण आवृत्तिश्चोपपद्यते, यथा पुत्रजन्मश्रवणसञ्जातहर्षस्यापि पश्चात् तन्मुस्वाप-रोक्ष्यसुखाशया प्रवृत्तिरुपपद्यते -तथात्रापीत्याभिप्रायः । अत्र निधि-राजकुमारदृष्टान्तद्वयं चिदचिद्विभागादुक्तम्, उभयगतं भोग्यत्वं ब्रह्मण्यस्तीति ज्ञापनाय । "तद्यथा हिरण्यनिर्धि निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः" इति श्रुतिः । निधिरस्तीतिवाक्यस्य पुरुषार्थपरत्वं दर्शयति तृप्तस्सन्निति । "अविज्ञाताःकुमारकाः", "भगवतो- ऽहं पुत्रः प्रेप्यः शिष्यश्च", "माता पिता भ्राता", "भूतानां योऽव्ययः पिता", "एक इन्द्रो (इद्राजा ) जगतो बभूव", "राजाधिराजः सर्वेषाम्" इत्यादिश्रुतिस्मृत्यनुसारेण सर्वविधभोग्यत्वप्रदर्शनाय राजकुमार इति भगवति राजत्वं चेतनेषु पुत्रत्वञ्चोपवर्णितम् । अत्र कुशलवसमाधिर्द्रष्टव्यः । बालक्रीडासक्त इत्यनेन चेतनानां बाह्यविषयप्रावण्यं सूचितम् । नरेन्द्रभवनान्निष्क्रान्त इत्यनेन भगवत्सकाशबहिष्ठत्वं दर्शितम्, परमव्योमालाभश्च मार्गाद्भ्रष्ट इत्यनेन कर्मज्ञानाद्युपायानन्वयः ख्यापितः । द्विजवर्येण वर्द्धित इत्यनेन भगवज्ज्ञाननिष्पत्तियोग्यतासिद्धिहेतुभूताध्यय-

नादिनिष्पादकाचार्यसम्बन्धोऽभिप्रेतः । षोडशवर्षः-भोक्तृत्वावस्थो भोग्यतावस्थश्चेति भावः । सर्वकल्याणगुणा-करः-"निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः" इत्याद्युक्तैर्भगवदभिमतैर्गुणैः पूर्णता सूचिता । पिता त इत्या- दिना भगवद्गुणगणाः सूचिताः । गाम्भीर्य्यादय उपासकं प्रति सौलभ्योपयुक्ता गुणाः; शौर्यादयः परत्वान्तर्गताः । गाम्भीर्यम्-सम्प्रदानलाघवदीयमानगौरवानपेक्षत्वम् । औदार्यम्-दातृप्रतिगृहीतृविभागबुद्धिविरहेण प्राप्तं कृत- मिति प्रतिपत्तिमत्त्वम्; आत्मात्मीयं दत्त्वापि, "ऋणं प्रवृद्धमिव मे " इति स्थितिर्वा । वात्सल्यम्-दोषेष्वपि गुण-त्वबुद्धिः, यथा मातुर्वत्से । सुशीलं हि नाम महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्वम्; तद्वत्ता सौशील्यम् । शौर्यम्-शत्रुमध्ये स्वगृह इव प्रवेशसामर्थ्यम् । "शूरं भीरुं कविं जडम्" इति भीरुत्वप्रतियोगि हि शौर्यम् । वीयर्म्-अश्रान्तिः । पराक्रमः-विक्रमणम् । अत्रानुक्तमपि धैर्यमनुसन्धेयम्, तच्च शत्रुभिर्घर्षणे तृणवन्मन्यमानत्वम् । दिदृक्ष-#ुरिति "स महात्मा सुदुर्ल्लभः" इति भगवदभिप्रायः स्सूचितः । पुरवर इत्यनेन ब्रह्मपुराख्यशरीरान्तस्स्थितिरभिप्रेता; त्रिपाद्विभूतिसम्बन्धो वा । अभियुक्ततमशब्देन भगवज्ज्ञानप्रदो गुरुर्विवक्षितः । तस्यैतरवैलक्षण्यं केनचिदित्य-भिप्रेतम् । यदा अध्ययनादिकारयिता गुरुरेव ब्रह्मोपदेष्टा सम्भवति, तदायमभियुक्ततमशब्दः पूर्वनिर्दिष्टद्विजवर्य-मेयवाभिधते । तदसम्भवे ब्रह्मोपदेष्ट्टृपुरुषमात्राभिप्रायः । अत्र केनचिदित्यनेन पूर्वेणैव वा अन्येनैव वेति च ता- त्पर्यं ग्राह्यम् । #ृणोति चेदित्यनेन भगवज्ज्ञानस्य दुर्ल्लभत्वमभिप्रेतम् । निरतिशयहर्षसमन्वितो भवतीत्यनेन वाक्यस्य पुरुषार्थपरत्वं दर्शितम् । राजा चेति राजस्थानीयोऽप्युपासको विवक्षितः । अनेन सर्वविधभोग्यत्वस्य भगवति पुष्कलत्वात् गुणवत्पुत्रगतभोग्यत्वमपि तत्र विद्यत इति ज्ञापितम् । न हि भगवतो ज्ञानं परोक्षरूपम् । अवाप्तसमस्तपुरुषार्थो भवतीत्यनेन च वाक्यस्य प्रयोजनपर्यवसायित्वं दर्शितम् । राजा चेत्यादिग्रन्थस्यापात-प्रतिपन्नार्थोऽप्यविरुद्धः । ध्यानविधेरवैयर्थ्यं दृष्टान्तद्वयेनापि सिद्धमिति ज्ञापयितुमुक्तं पश्चात्तदुपादाने च प्रयतत इति, पश्चात्ताबुभौ सङ्गच्छेते चेति च । अत्र पूर्वभेव, "अर्थार्थी राजकुलं गच्छेत्" "मन्दाग्निर्नाम्बु पिबेत्"इति वाक्योनाहरणात् इह निधिदृष्टान्तोपन्यासाच्चायमप्यर्थोऽर्थसिद्धः-किं क्रियोत्तीर्णकार्यपरतयैव वाक्यस्य प्रयोजन-पर्यवसायित्वम्, उत क्रियाकार्यं वा तदुत्तीर्णं वा प्रवर्त्तकमर्थमभिदधत एव तत्पर्यावसायित्वमिति मतम्? । न प्रथमः, अर्थार्थी राजानं सेवेतेत्यादीनां सप्रयोजनत्वात् । न द्वितीयः, निधिमद्भूभागलक्षण-रत्नपरीक्षणपरा- णां शास्त्राणां प्रयोजनशालित्वात् । न च तत्रापि खननधारणादिविधिपरत्वं वाक्यानां कल्प्यम्; तयोः रागप्राप्त- त्वात्; खननादिप्रकारस्य लोकसिद्धत्वाच्च । अप्राप्ते हि शास्त्रमर्थवत् । दुष्टरत्नवर्जनमप्यनर्थजिहासाप्राप्तम् । वा-क्यानि तु निधिमत्त्वगुणदोषज्ञापनमात्रपर्यवसायीनि । अतः प्रवर्त्तकार्थपरतयैव प्रयोजनपर्यवसानमिति नियमो भग्नः इति ।

अथ पूर्वपक्षिणोक्तमनुभाषते यत्पुनरिति वेदान्तवाक्यानां नार्थसद्भावे प्रामाण्यमस्तीति प्रतिज्ञा, तदर्थ-मर्थसद्भावाभावेऽपि पुरुषार्थपर्यवसानादिति हेतुर्विवक्षितः । दूषयति तदसदिति । कुत इत्यत्राह अर्थसद्भावा- भाव इति । इदं वाक्यं पक्षविषयम्, पक्षदृष्टान्तसाधारणं वा । हेतुत्वं गभिर्तम् । अर्थसद्भावाभावनिश्चये सति पुरु-षार्थपर्यवसानाभावादित्यर्थः । अर्थासद्भावेऽपि पुरुषार्थो दृश्यत इति शङ्कायां तत्रार्थासद्भावनिश्चयाभावमुपाधि- माह बालातुरादीनामिति । तदेवोपपादयति तेषामेवेति । ततः किमित्यपेक्षायां सपक्षे दर्शितमर्थं पक्षे स्फुटीकरोति औपनिषदेष्वपीति । बालातुराद्युपच्छन्दनवाक्येष्विवात्राप्यर्थसद्भावभ्रान्त्या पुरुषार्थपर्यवसानं स्यादिति चेत्- "पयः पिब, कषायं पिब, शिखा वर्द्धिष्यते । पांसुषु लुठसि चेत्, न दन्ता उद्भिद्यन्ते" इत्यादीनां प्रवृत्तिनिवृत्ति-परवाक्यानाभिव "स्वगर्कामो यजेत", " न कलञ्जं भक्षयेत" इत्यादिवाक्यानामप्यथर्सद्भावभ्रान्त्या पुरुषार्थपर्यवसानं

किं न स्यात् ।। अपौरुषेयत्वत् वेदवाक्यस्य विप्रलिप्सामूलवाक्यस्यैव भ्रामकतया पुरुषार्थपर्यवसानमयुक्तम्; तथा सति शास्त्रस्य निरूपकाधिगन्तव्यत्वात् स्वपुत्रशिष्यादीनामध्यापनादौ प्रवृत्तिर्नोपपद्यत इति चेत्- अपौरुषेयत्व-मध्यापनादिप्रवृत्तिवैयर्थ्यं च वेदान्तवाक्येप्वपि तुल्यम् ।। कर्मविधीनां देहातिरिक्तात्मज्ञानसापेक्षत्वात् वेदान्त-वाक्यानां कर्मविधिशेषत्वेन अध्यापनादिप्रवृत्त्युपपत्तिरिति चेत्-न; असत्यपि देहात्मभेदे तत्सद्भावभ्रान्तिहेतुत्व-शङ्कायां सत्यां तन्मुखेन प्ररोचनानुपपत्त्या विधिशेषतयाऽध्यापनाद्यनुपपत्तेः ।। तर्कानुगृहीतनिर्दोषश्रुतिसिद्धदेहा-त्मभेदस्तात्त्विक इति चेत्-तत् पुरुषार्थभूतस्य परमात्मनः प्रतिपाद्यत्वेऽपि तुल्यम् ।। देहात्मभेदसाधकहेत्वन्तर-संवादात् न भ्रान्तिहेतुत्वनिश्चय इति चेत्-तर्हि तेनैव हेत्वन्तरेण दहोत्मभेदसिद्धिरिति तज्ज्ञापनाय वेदान्तवा-क्यानामनपेक्षितत्वाद्विधिशेषतया तदध्यापनादिकं नोपपद्यते; एवं निरूपकाधिकार(र्य?)स्य शास्त्रस्यार्थसद्भाव-भ्रान्त्या पुरुषार्थपर्यवसानानुपपत्तौ प्रवत्तर्कवाक्यानां प्रतिबन्दीत्वमभिप्रेत्य औपनिषदेष्वपीत्यादिभाष्यं प्रवृत्तम् ।

उक्तस्य हेतोर्विपर्यये पर्यवसानं दर्शयन्नधिकरणार्थमुपसंहरति अत इति । कारणवाक्यानामर्थमाह निखि-लेति । निखिलशब्दः परैर्नित्यतयाऽभिमतानामाकाशादीनामपि कार्यत्वज्ञापनार्थः । एकशब्दो निमित्तौपादानैक्य-द्योतकः । यतो वा इमानीत्यादिवाक्ये शोधकवाक्यार्थश्च गभिर्त इत्यभिप्रायेणाह निरस्तेति ।अत्र निखिलशब्देन चिदचिद्गताः क्लेशकर्मादयो जन्मादयश्च विवक्षिताः । कदाचिद्दोषसम्बन्धार्हत्वव्यावर्त्तकेन गन्धशब्देन सदा तत्प्रत्य-नीकत्वमुक्तं भवति । कारणत्वापैयिकान् गुणानाह सार्वज्ञ्येति । एतदधिकरणसिद्धमर्थमाह अनवधिकेति । बोधय-तीति ।अध्यापनाद्युपपत्तये पुरुषार्थपर्यवसानस्यापेक्षित्वात् प्रेक्षावदधिकायर्स्य शास्त्रस्यार्थसद्भावाभावनिश्चये सति पुरुषार्थपर्यवसानानुपपत्तेस्तदुपपत्त्यर्थं प्रवर्त्तकवाक्यानामिव अर्थसद्भावे प्रामाण्यमङ्गीकार्यमिति यथोक्तलक्षणं ब्रह्म "यतो वा इमानि" इत्यादिवाक्यं प्रतिपादयतीत्यर्थः ।।

शास्त्रारम्भसिध्द्यर्थैषा चतुस्सूत्री मृषावादिनां पक्षे न सङ्गच्छते; तत्पक्षे विषयप्रयोजनानुपपत्त्या शास्त्र-स्यानारम्भणीयत्वात् । तथा हि -विषयः किं ब्रह्म, उत भेदमिथ्यात्वम्, उत जवब्रह्मणोरैक्यम्? ।।

न प्रथमः; ब्रह्मणो वेद्यत्वानभ्युपगमात् , वेद्यत्वे घटादेरिवाननुभूतित्वप्रसङ्गस्य स्वोक्तत्वाच्च । व्यावहा-रिकं वेद्यत्वामस्तीति चेत्-घटस्यापि वेद्यत्वं व्यावहारिकमिति तद्वदेवाननुभूतित्वप्रसङ्गो दुर्वारः । वास्तववेद्यत्वा-भावस्य ब्रह्मणि साध्यत्वे घटस्य व्यतिरेकदृष्टान्तत्वं न घटते; घटस्य वास्तववेद्यत्वाभावविरहाभावात् । अनुभूतिः परमार्थतो न वेद्या; अनुभूतित्वात्; यत् परमार्थतो वेद्यम्, तत् नानुभूतिः, यथा घटः इत्युक्ते व्यतिरेकदृष्टान्तः साध्याव्यावृत्तो हि स्यात् । न हि घटः परमार्थतो वेद्यः । वेद्यत्वेऽननुभूतित्वप्रसङ्गमनादृत्य ब्रह्मणो वेद्यत्वङ्गीकारे- ऽपि ब्रह्मणः शास्त्रविषयत्वमयुक्तम्; प्रत्यक्षस्य सन्मात्रग्राहित्वमभ्युपगच्छतस्तव मते शास्त्रानर्थक्यप्रसङ्गात् । "अप्राप्ते हि शास्त्रमर्थवत्" ।

न द्वितीयः; दृश्यत्वादिना लिङ्गेन भेदमिथ्यात्वमभिमन्यमानस्य तव शास्त्रानर्थक्यप्रसङ्गात् । तत्तद-र्मिग्राहकप्रत्यक्षादिप्रमाणविरुद्धस्य प्रपञ्चमिथ्यात्वस्य यूपादित्यैक्यस्येव शास्त्रेण प्रति पादनायोगात् शास्त्रस्य निर्विषयत्वं स्यात् । अप्राप्ते हि शास्त्रमर्थवत् । साधकस्येव बाधकस्याप्यगोचरत्वं ह्यप्राप्तत्वम् । ज्वालाभेदानुमान-वैषम्यं च त्रिविधं प्रागेव प्रपञ्चितम् । प्रमाणान्तरविरोधश्च तात्पर्यलिङ्गमिति तद्विरुद्धेऽर्थे तात्पर्यासम्भवश्च प्राग- वोक्तः ।अतो भेदमिथ्यात्वस्य विषयत्वमयुक्तम् ।

तृतीयश्च कल्पोऽनुपपन्नः; ब्रह्मणोऽपि वेद्यत्वप्रसङ्गात् । न हि घटपटयोरेकत्वमुच्यते शास्त्रेण । अपि तु जीवब्रह्मणोरेकत्वम् । तदानीं ब्रह्मशब्देन ब्रह्मण्यनवबोधिते कथं तस्य जीवस्य चैक्यं वक्तुं शक्यते? । न हि जीव

एक इत्युक्ते जीवब्रह्मणोरैक्यं सिध्यति; घट एक इत्युक्ते घटपटैक्यवत् । यदि ऐक्योपदेशवाक्येषु, "अयमात्मा- ब्रह्म" इत्यादिषु ब्रह्मणः शब्दबोध्यत्वं सोढव्यम्, तर्हि प्राधान्येन ब्रह्मण एव शास्त्रप्रतिपाद्यत्वं किमिति नाभ्युप-गम्यते? "सर्वे वेदा यत् पदमामनन्ति" इत्यारभ्य "तद्विष्णोः परमं पदम्" इत्यादिश्रुत्यस्वारस्यमेव तदनभ्युपगम-फलम् ।

किञ्च उपदिश्यमानमैक्यं किं ब्रह्मस्वरूपानतिरिक्तम्, उतारिक्तम्? । अतिरिक्तत्वे स्वरूपवेद्यत्वपक्ष एव स्यात् । तथा चोपदेशवैयर्थ्यादिदोषप्रसङ्गः । स्वरूपमात्रस्य प्रतिपन्नत्वात् । अतिरिक्तत्वे तत् किं परमार्थ- भूतम्, उतापरमार्थभूतम्? । प्रथमे सविशेषत्वभङ्गः । द्वितीये ज्वालैक्यदेहात्मैक्यापारमार्थ्ये ज्वालाभेददेहात्म-भेदपारभार्थ्यवज्जीवब्रह्मभेदपारमार्थ्यं स्यात् ।

किञ्च जीवब्रह्मणोरैक्यं नाम किमन्तःकरणस्य संविदश्चैक्यम्, उत संविदवच्छिन्नान्तःकरणस्य संविदश्च, उतान्तःकरणावच्छिन्नसंविदः केवलसंविदश्च? । न प्रथमः; जडाजडयोरैक्यानुपपत्तेः । नापि द्वितीयतृतीयौ, विशि-ष्टैक्येऽभ्युपगम्यमाने विशेषणत्वेन विशेष्यत्वेन वा तदन्तर्भूतस्यान्तःकरणस्यापि संविदैक्यप्रसङ्गात् । तयोश्च अज-डत्वत्वजडत्वाभ्यां सत्यत्ववानृतत्वाभ्यां चैक्यमयुक्तमित्युक्तम् । अन्तःकरणोपलक्षितज्ञप्त्यैक्यं विषय इति चेत्-तदुपलक्षितज्ञप्तेः केनैक्यमुपदिश्यते? किं स्वात्मनैव? उत ज्ञप्त्यन्तरेण? । न प्रथमः; उपदेशवैय्यर्थ्यात् । न हि कस्यचिद्वस्तुनः स्वस्मादभिन्नत्वमुपदेष्टव्यम्; स्वस्माद्भेदप्रसङ्गाभावात् । ज्ञप्त्यन्तरेण चेत्-किं परमार्थतो भिन्नेन न, उताभिन्नेन? न प्रथमः, अनभ्युगमात् अनुपपन्नत्वाच्च । अभिन्नेन चेत्-भेदप्रतीतिरस्ति वा, न वा? न चेत् ऐक्योपदेशवैयर्थ्यम् ।अस्ति चेत्-भेदमिथ्यात्वोपदेश एवैक्योपदेशः स्यात् । भेदमिथ्यात्वस्यानुमानसिद्धत्वाभि-मानाच्छास्त्रस्य निर्विषयत्वं स्यात् ।। भेदपारमार्थ्ये दृश्यत्वानुपपत्तिरित्यादितर्कानुगृहीतं शास्त्रं भेदमिथ्यात्वे प्रमा-णमिति न शास्त्रस्य निर्विषयत्वमिति चेत्-न; धर्मश्चेत्-हिसात्वं न स्यादिति तर्कानुगृहीतेन, "न हिंस्यात्" इति-शास्त्रेण वैधपश्वालम्भनस्याधर्मत्वप्रतिपादनानुपपत्तिवत् शास्त्रसिद्धभेदस्य शास्त्रेण मिथ्यात्वप्रतिपादनानुपपत्तेः संबन्धिभेदभिन्नानां संयोगेच्छादीनामिव ज्ञप्तीनामपि परस्परभेदस्य प्रत्यक्षादिसिद्धत्वात् तद्विरुद्धत्वादयोग्यस्य ज्ञप्तिभेदमिथ्यात्वस्या शास्त्रेण प्रतिपादनानुपपत्तेश्च । "नाहं स्वल्वयमेवं सम्प्रत्यात्मानां जानात्ययमहमस्मीति", यदा सुप्तः स्वप्नं न कथञ्चन पश्यति", प्राणेभ्यो देवा देवेभ्यो लोकाः"-देवाः- इन्द्रियाणि, लोकाः आलोकनानि, संविदः-एवमादिशास्त्रसिद्धः प्रत्यक्षादिसिद्धश्च कालतो विषयत आश्रयतश्च ज्ञप्तीनां परस्परभेदः ।। अन्तःकरण-वृत्तिभेदविषया सा श्रुतिरिति चेन्न; स्वाप्नश्रुतेर्वृत्तिगोचरत्वे सति संविदैक्यम् संविदैक्ये सति ज्ञप्तिभेदश्रुतेर्वृत्तिगो-चरत्वमित्यन्योन्याश्रयणप्रसङ्गात् । ज्ञातृज्ञेयावच्छिन्नतया प्रतीयमानस्य ज्ञानस्यान्तःकरणक्रियात्वे त्रितयोत्तीर्ण-ज्ञानस्य शशविषाणायमानत्वाच्च तद्भेदमिथ्यात्वप्रतिपादनं शशविषाणभेदमिथ्यात्वप्रतिपादनतुल्यमिति न शास्त्र- स्य सविषयत्वसिद्धिः । सम्प्रतिपन्नज्ञानानामेव मिथो भेदस्य मिथ्यात्वं शास्त्रविरोधात् प्रत्यक्षविरोधाच्च पश्वालम्भ-नाधर्मत्ववत् यूपादित्यैक्यवच्च न शास्त्रं प्रतिपादयितुं शक्तोति ।

अतः शास्त्रस्य विषयाभावादनारम्भणीयत्वम् ।

तथा प्रयोजनञ्च न घटते, तथा हि-प्रयोजनं द्विविधं शास्त्रस्य उपायभूतमवान्तरप्रयोजनम्, मोक्षस्तु प्रर-मप्रयोजनम् । तत्रेदानीमुपजायमानं वाक्यजन्यज्ञानमनिवर्त्तकमित्यविगीतम्, वसिष्ठपराशरकृष्णद्वैपायनादीनाम-प्यनुत्पन्नं ज्ञानमन्येषामुत्पत्स्यत इत्यत्यन्तासम्भावितम् । तेषामुत्पन्नञ्चेत्-भेदप्रतिभासो न स्यात् । स निवर्त्ति- ष्यत इति चेत्-तत एव तदभिन्नानामन्येषामपि निवत्तिर्ष्यत इति न शास्त्रमारम्भणीयं स्यात् । प्रपञ्चस्य सत्यत्वादेव

ज्ञाननिवर्त्यत्वाभावादनिवर्त्तकं ज्ञानं नावान्तरफलमिति न तदर्थं शास्त्रमारम्भणीयम् । परमप्रयोजनं च न सिध्यति; ज्ञातृज्ञेयभेदस्य सत्यस्य निवृत्तेरसम्भावितत्वात् ।

किञ्च शास्त्रश्रवणाधिकारो ज्ञप्तिमात्रस्य वा, ज्ञातुर्वा । न प्रथमः; ज्ञप्तिमात्रस्य श्रोतृत्वायोगात् । न द्वि- तीयः; ज्ञातुः स्वनाशस्यापुरुषार्थत्वेन श्रवणादौ प्रवृत्त्यनुपपत्तेः । यत्सम्बन्धिसुखं दुःखनिवृत्तिश्च पुरुषार्थः, स खल्वहमर्थः । अहं निर्दुःखः सुखी स्यामिति हि प्रतीतिः (प्रवृत्तिः?) । तस्य पुरुषार्थवतो नाशः कथं पुरुषार्थः? पुरुषार्थान्तरं वा कथमर्थयितुस्तस्याभावे पुरुषार्थो भवेत् ।।

अथोच्येत-भवत्पक्षे वद्धस्य वा मुक्तस्य वा शास्त्राधिकारः । प्रथमे स्वनाशस्यापुरुषार्थत्वात् अप्रवृत्तिः । उपाधिविशिष्टस्य बद्धस्य तद्रूपनाशो हि स्वनाशः । द्वितीये तु मुक्तस्य शास्त्रानपेक्षत्वादनधिकारः । औपाधिका-कारविनाशो नापुरुषार्थः, दुःखविनिर्मुक्तस्वाभाविकरूपावस्थानादिति चेत्-तर्हि ज्ञातृत्वस्यौपाधिकत्वात् तन्नि- वृत्तौ स्वरूपं तिष्ठतीति नापुरुषार्थ इति-

नैवम्; संविदि वास्तवज्ञातृत्वानभ्युपगमात् । तदारोपे त्वन्यत्र तत्सिद्धेरवश्यम्भावात् । अन्यस्य च ज्ञातु-र्ज्ञप्तिधर्मत्वाभावात् । यदि ज्ञप्तिः स्वरूपम्, ज्ञाता तद्धर्मः-तदानीमियं प्रतिबन्दी स्यात् । अहं सुखी दुःखीति सुखदुःखवत् अहं जानामीति ज्ञानस्याहमर्थधर्मताप्रतीतेरहमर्थस्य धर्मितया प्रतीतेश्चाविगीतत्वात् सुखदुःखनिवृ-त्त्योराश्रयस्य तस्य नाशोऽपुरुषार्थ एव । धर्मिणि नष्टे कस्य दुःखनिवृत्तिः पुमर्थस्स्यात् । अचेतनप्रकृतिबद्धत्व-मौपाधिकदुःखावहमिति, मलिनोऽहमिति प्रत्ययवतः पुरुषस्य मालिन्यनिवृत्तिवत् तन्निवृत्तिर्न्नापुरुषार्थः; अत्य-न्ताभिमतस्य धर्मिस्वरूपस्य स्थितत्वात् अनिष्टबन्धनिवृत्तेरिष्टत्वाच्च ।

ननु लौकिकप्रतीत्या निरूपकप्रतीत्या वाऽहमर्थस्य स्वरूपत्वम् । प्रथमे, स्थूलोऽहं कृशोऽहमिति लोक-दृष्टया प्रतिपन्नत्वात् स्थूलत्वादिविशिष्टदेहनिवृत्तिरप्यपुरुषार्थस्स्यात् । द्वितीय,#े स्थौल्यादिवत् अध्यस्तोऽहमर्थो ज्ञाताऽपि न स्वरूपमिति न तन्नाशो अपुरुषार्थः ।। नैवम्; मम हृस्तः, मम पादः इति लोकदृष्टयाऽप्यहमर्थस्य देह-व्यतिरेकप्रतीतेः, अहमथर्स्यैवात्मत्वे श्रुतिस्मृतिसूत्राणां प्रागेव दर्शिततया निरूपकप्रतीतावप्यहमर्थस्यैव स्वरूपता-प्रतीतेश्चेहमर्थनिवृत्तेर्देहनिवृत्तितुल्यत्वाभावेनापुरुषार्थत्वस्य दुर्निवारत्वात् । अतो विषयप्रयोजनाभावाच्छास्त्रस्याना-रम्भणीयत्वं मृषावादिनां पक्षे स्थितम् ।

पश्चाद्भाविनो नित्यानित्यविवेकादेः पूर्ववृत्तत्वायोगात् अथशब्दार्थः परोक्तोऽनुपपन्न इति पूर्वमेवोक्तम् । शास्त्रान्तरजन्यस्य नित्यानित्यविवेकस्य वेदान्तविरुद्धत्वात् तेष्वेव मोक्षोपायोपदेशेन निराकाङ्क्षत्वाच्च ब्रह्मविचा-रहेतुत्वाभावात्, नित्यानित्यविषयापातप्रतीतेस्तु उभयभागसाधारणत्वादेकान्ततो ब्रह्मविचारहेतुत्वाभावात्, इतिहासपुराणयोः संशयविपर्ययग्रस्ततया तज्जन्यनित्यानित्यादिप्रतीतेः त्रिवर्गजिहासाजनकत्वाभावेन ब्रह्मवि- चारं प्रति हेतुत्वाभावाच्च अतश्शब्दार्थोऽनुपपन्नः । यन्नित्यं तदुपादेयम्, यदनित्यं तद्धेयमिति विवेको नित्यानि-त्यवस्तुविवेक इत्युत्प्रेक्षणमप्यपुक्तम्; वेदान्तेषु नित्यपुरुषार्थप्रतिपादनावगमात् तदारभ्यः, तदारम्भात् तेषु नित्य-पुरुषार्थप्रतिपादनावगम इत्यन्योन्याश्रयप्रसङ्गात्; शास्त्रान्तरेष्वपि नित्यपुरुषार्थसम्भवनया ब्रह्मविचारं प्रति एका-न्ततो हेतुत्वाभावात्; शास्त्रान्तरेषु तदभावस्य वेदान्तेषु तत्सद्भावनिश्चयस्य च तर्कपादाधीनत्वेन पूर्ववदन्यो-न्याश्रयप्रसङ्गात्; वेदान्ततदितरशास्त्रेषु नित्यपुरुषार्थसद्भावासदद्भभावयोर्गुरुवचनादवगम्यत्वे, ब्रह्मोपासनस्यापि गुरुवचनादवगम्यत्वेन शारीरकमीमांसानैरपेक्ष्येण तदनारम्भणीयत्वप्रसङ्गाच्च । जीवब्रह्मणोरैक्यस्य शास्त्रविषय-त्वाङ्गीकारे ब्रह्मजिज्ञासापादञ्च न सङ्गच्छते । ब्रह्मणो जिज्ञास्यत्वं हि शब्दादवगम्यते; न जीवब्रह्मणेरैक्यस्य ।

यथा धर्मजिज्ञासापदं धर्ममात्रस्य जिज्ञास्यतां वक्ति, न तु धर्माधर्मयोरैक्यस्य जिज्ञास्यत्वम्-तद्वदेव हि ब्रहमजिज्ञा-सापदम् ।

निर्विशेषस्य वस्तुनो लक्षणोक्तिश्च न घटते, विशेषणतया लक्षणत्वे सविशेषत्वप्रसङ्गात्; उप लीक्षणतया लक्षणत्वे पूवर्प्रतिपन्नाकारा-तिरिक्तस्ययोपलक्षणज्ञाप्यस्याकारन्तरस्य अभावेनोपलक्षणवैयर्थ्यात् ; तदभ्युपगमे सविशेषत्वप्रसङ्गाच्च । स्वरूपमेवोपलक्षणज्ञाप्यमिति चेत् तत्स्वरूपं प्राक् प्रतिपन्नम् , न वा? प्रतिपन्नं चेत्-उप-लक्षणवैयर्थ्यम् । अप्रतिपन्नत्वे, स्वप्रकाशकता न स्यात् । उपलक्षयितुमशक्यता च; केदारत्वाकारेणावगतस्य देवदत्तसम्बन्धितया सारसेन ज्ञाप्यत्वं ह्युपलक्ष्यत्वम् । प्रागनवगता प्रपञ्चव्यावृत्तिरुपलक्ष्याकार इति चेत्, प्रपञ्च-व्यावृत्तेः स्वरूपातिरिक्तत्वे सविशेषत्वप्रसङ्गात् । अनतिरिक्तत्वे तत्स्वरूपं प्रागेव भातभित्युपलक्षणवैयथ्यम् । किञ्च कथं कारणत्वे लक्षणे सति प्रपञ्चव्यावृत्तिः? ।। कारणत्वं नाम कार्यजगदध्यासाधिष्ठानत्वम् । अतोऽध्यस्ता-दनृतात् प्रपञ्चादधिष्ठानस्य ब्रह्मणः सत्यतया व्यावृत्तिरिति चेत्-न; घटाद्यधिष्ठानस्य मृद इव ब्रह्मणोऽप्यनृतत्वेन व्यावृत्तिप्रसङ्गात् । घटादिकारणस्यापि मृदादेः कारणान्तरेऽध्यस्तत्वादसत्यत्वम्; कालत्रयवतिर्कृत्स्नकार्यधिष्ठा- नस्य ब्रह्मणोऽन्यत्राध्यस्तत्वाभावान्नासत्यत्वमिति चेत्-न, "इदमग्र आसीत्" इतीदंशब्दवाच्यं कायर्मात्रं प्रति अयधिष्ठानत्वश्रवणेन ब्रह्मणोऽपि कारणान्तराध्यस्तत्वाविरोधात् वीजाङ्कुरन्यायेन प्रवाहानादित्वोपपत्तेश्च ।। कृत्स्नकार्यकारणस्य ब्रह्मणः कारणान्तरप्रतिषेधेनाकार्यत्वात् सत्यत्वमिति प्रपञ्चव्यावृत्तिरिति चेत्-तर्ह्यकार्यत्व-मात्रेण जगद्वयावृत्तिसिद्धेः कारणत्वोक्तिवैयर्थ्यादकार्यत्वश्रुतिरेव लक्षणवाक्यवेनोदाहर्त्तव्या स्यात्; न तु "यतो वा इमानि" इत्यादि श्रुतिः ।। अकार्यत्वश्रुतिरेव विवक्षितेति चेत्-तर्हि, "स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः" इत्यकार्यत्वश्रुतेः करणाधिपाधिपशब्दवाच्येश्वरविषयत्वाल्लक्ष्यवस्तुनो निर्विशेषत्वं न सिध्येत् । किञ्च जगत्कारणत्वरूपलक्षणविशेषो लक्ष्यस्य निर्विशेषत्वविरोधी, सार्वज्ञ्यादिगुणाक्षेपकत्वात् तस्य ।। आक्षिप्तमपि सार्वज्ञ्यादिकं वस्तुमात्रोपलक्षणमिति चेत्-न, सार्वज्ञ्येन वस्तुन्युपलक्षिते सति सर्वशक्तित्वाद्युपलक्ष-णान्तरवैयर्थ्यात् । न हि शाखयाचन्द्र उपलक्षिते प्रासादाग्रेण प्रयोजनम् । सावज्र्ञ्येन निर्विशेषवस्तूपलक्षणं व्याहतं च; स्वेन सविशेषस्याश्रयस्य निर्विशेषत्व ज्ञापनायोगात्; सर्वशक्तित्वादिविशेषान्तरराहित्यज्ञापनासामर्थ्याच्च । अतो लक्षणसूत्रं निविर्शेषपक्षविरुद्धम् ।

तृतीयं सूत्रमपि न घटते; निर्विशेषवस्तुनि तात्पर्यविषये सति कारणत्वाक्षिप्तसार्वज्ञ्यादिसमर्थनं क्कोप-युज्यते? प्रसङ्गादपि न तत्समर्थनं न्याय्यम्; निर्विशेषत्वविरोधात् । किञ्च ऋग्वेदादिशास्त्रं स्वविषयादधिकविषय-ज्ञानवदुपादानकम् वाक्यत्वादित्यनुमानमप्यसङ्गतम् । तथा हि-किमधिकविषयज्ञानवदुपादानकत्वं साध्यम्, उत तद्वक्तृकत्वम्, उत तदुच्चारितत्वम् । प्रथमे दृष्टान्तः साध्यविकलः, आकाशगुणस्य शब्दस्य कालिदासाद्युपादान-कत्वाभावात् । न द्वितीयः, वेदस्य पौरुषेयत्वप्रसङ्गात् । न तृतीयः, अनैकान्तिकत्वात् । न हि वैदिकमन्यद्वा वाक्यमुच्चारवतां बालादीनां तद्विषयादधिकविषयज्ञानमस्ति । शास्त्रप्रमाणकत्वं सूत्रार्थ इति च व्याख्या ब्रह्मणो-ऽनुभाव्यत्वमनभ्युपगच्छतां न घटते ।

चतुर्थे च सूत्रे ब्रह्मणः प्राधान्येन शास्त्रयोनिसूत्रनिर्द्दिष्टत्वाभावात् तच्शब्दस्य ब्रह्मपरत्वं न स्वारसिकम् । वेदान्तवाक्यानां भ्रमनिवर्त्तकवाक्यार्थज्ञानजनकतया प्रयोजनपर्यवसायित्वम् वाक्यार्थज्ञानमात्रेण बन्धनिवृत्तेः शास्त्रप्रत्यक्षविरोधध्वस्तत्वादनुपपन्नम् । तदन्यथासिद्धिप्रतिविधानं च पूर्वमेव कृतम् । किञ्च कस्य भ्रमनिवृत्तिः? किं ज्ञप्तेः, उत चेतनस्य । न तावत् ज्ञप्तेः; तस्या अचेतनत्वेन भ्रमाश्रयत्वाभावात् । चेतनो हि भ्रान्त्याश्रयः । जड-

त्वं भ्रमानाश्रयत्वे प्रयोजकमिति चेत्-त्वया जडत्वेनाभिमते ज्ञातरि भ्रमानाश्रयत्वाभावेन साध्यसमव्याप्त्य- सिद्धेः । चेतनस्य भ्रमनिवृत्तिरपि भवत्पक्षे न पुरुषार्थः स्यात्; ज्ञातुरपि निवर्त्यकोटिनिविष्टत्वात् । तं प्रति स्व-नाशस्यापुरुषार्थत्वाच्च । राज्ञः शत्रुनिवृत्तिरिव ज्ञानरूपस्यात्मनो ज्ञातृनिवृत्तिः पुरुषार्थ इति चेत्-न; ज्ञातुरेवात्म-त्वात् । ज्ञातृधर्मतयाऽवगतस्य ज्ञानस्येच्छाद्वेषादेरिवात्मत्वाभावात् । आत्मत्वाभ्युपगमेऽपि तस्य पुरुषार्थार्थयि-तृत्वाभावेन पुरुषार्थप्रतिसम्बन्धित्वानुपपत्त्या ज्ञानं प्रति ज्ञातृनिवृत्तेः पुरुषार्थत्वायोगात् । पुरुषेणार्थनीयस्य हि पुरुषार्थन्यवम् । ज्ञानस्यात्मत्वपुरुषार्थप्रतिसम्बन्धित्वाभ्युपगमेऽपि, तदपेक्ष्यज्ञातृनिवृत्तेः पुरुषार्थत्वमयुक्तम्; ज्ञानं प्रति ज्ञातुदुःखतद्धेतुष्वन्यतमत्वाभावात् । सुखदःखभोक्तारं प्रति सुखतद्धेतूनां दुःख-तद्धेतुनिवृत्तेरपि हि पुरुषार्थत्वम् । न हि ज्ञाता ज्ञप्तेर्दुःखरूपः, न च दुःखजनयिता; ज्ञानस्य दुःखानुभवितृत्वायोगात् । प्रवृत्तिनिवृत्ति-परत्वेन प्रयोजनपर्यवसानं त्वयैवापास्तं ध्याननियोगवादप्रतिक्षेपे । अतोऽनुपपन्नं शास्त्रस्य त्वदुक्तं प्रयोजनपर्यव-सायित्वम् ।।

यादवप्रकाशीयास्तु दुःखत्रयाभिधातज्ञानानन्तरं तदुपशमोपाये पुरुषाप्रवृत्तेरेव हेतोर्ब्रह्मैव जिज्ञास्यम्, न तु प्रधानादीनिति प्रथमसूत्रार्थं वर्णयन्ति । अस्तु ब्रह्मणो जिज्ञास्यत्वम्; नैतावता प्रधानादीनामजिज्ञास्यत्वम्; तेष्वन्यतमस्यैव ब्रह्मशब्दार्थत्वात्, शास्त्रेण हि ब्रह्मानूद्य तज्ज्ञान विधीयते । एकेन वाक्येनैकस्यार्थस्य विधानानु-वादायोगात् अनुवादः प्रमाणान्तरसापेक्षः । प्रमाणान्तरैश्च वादिभिः सम्भावितास्तत्त्वप्रकारविशेषाः सर्वे परिक-ल्पिता इति तत्त्वान्तरोत्प्रेक्षा न शक्या । अतस्तेष्वन्यतमस्यैव ज्ञातव्यत्वविधानाय शास्त्रेणानुवादः क्रियत इति शङ्कापरिहारार्थं जन्मादिसूत्रम् । सन्मात्रवपुषोऽनेकशक्तिशालिन एकस्मादद्वितीयात् ब्रह्मणः कृत्स्नस्य चिदचित्प्र- पञ्चस्य जन्मस्थितिरयं प्रतिपाद्यम् । अत ईदृशं तत्त्वं वाद्यन्तरैरपरिकल्पितमिति न तत्परिकल्पितार्थेष्वन्यतमस्य ब्रह्मशब्दार्थत्वमिति सूत्रार्थमाहुः । एवं तर्हि प्रमाणान्तरासिद्धत्वाच्छास्त्रेणानुवादसम्भव इति शङ्कायां शास्त्रयो-नित्वादित्युच्यते । वेदान्तेष्वेव केनापि वाक्येन प्रतिपादितस्य वाक्यान्तरेणानुवाद उपपन्नः; प्रमाणान्तरानाघ्रात-चरवस्तुप्रतिपादनक्षमत्वं शब्दमहिमा इति सूत्रतात्पर्यं वदन्ति । तथापि सिद्धे व्युत्पत्त्यभावात् प्रवृत्तिनिवृत्तिविरहे वाक्यस्य प्रयोजनाभावाच्च ब्रह्मणः शास्त्रप्रतिपाद्यत्वायोगशङ्कापरिहारपरं समन्वयसूत्रं व्याचक्षते ।

तत्र तावत्प्रथमसूत्रे दुःखत्रयाभिघातज्ञानस्य पूर्ववृत्तत्वं प्रागेव प्रतिक्षिप्तम्, प्रत्यक्षादिना तज्ज्ञाने विव- क्षिते तत्परिहारस्यायुर्वेदादिसिद्धत्वात्; स्वर्गादेरपि तापत्रयान्तर्भावज्ञानस्य च साङ्खयादिशास्त्रान्तराधीनत्वे मो-क्षोपायस्यापि तत्रैव सुलभतया वेदान्तनैरपेक्ष्यात्; वेदेन तज्ज्ञानस्य कर्मविचारसापेक्षतया तत्पूर्ववृत्तत्वापाताच्चेति । प्रधानादीनामजिज्ञास्यतापरत्वञ्च पूर्वमेव निरस्तम्; श्रुत्यविरुद्धांशे साङ्खयादिशास्त्रस्य भवद्भिरङ्गीकृतत्वात् विरु- द्धांशे चाप्रामाण्यस्य विरोधाधिकरणन्यायसिद्धत्वात् तत्प्रमेयदौस्थ्यस्य तर्कपादे दर्शयिष्यमाणत्वात् वेदान्तवाक्या-नामतत्परत्वस्य ईक्षत्यधिकरणादिषु वक्ष्यमाणत्वाच्च सूत्रस्य कृतकरत्वप्रसङ्गादिति ।

जन्मादिसूत्रस्य वाद्यन्तरापरिकल्पित प्रकारेणौपनिषदतत्त्ववैलक्षण्यात् ब्रह्मशब्दस्य तत्परिकल्पित-प्रधानाद्यन्यतमविषयत्वनिरासपरत्वं चायुक्तम्; विशेषणभेदायत्तविशेष्यबहुत्वपरिहाराभावे सति अद्वितीयवस्तुनः समस्तजगत्कारणत्वप्रतिपादनानुपपत्तेः । चिदचित्प्रपञ्चस्याद्वितीयकारणतया हि वाद्यन्तरकलृप्ततत्त्वेभ्य औप-निषदतत्त्ववैलक्षण्यं भवद्भिरुक्तम् । वेदान्तवेद्यतत्त्वस्य त्वदुक्तप्रकारेण प्रधानादिवैलक्षण्यं चेक्षत्यधिकरणादि-न्यायनैरपेक्ष्येण न सिध्यति । इह वक्ष्यमाणव्यतिरिक्तन्यायान्तरानुक्तेः; वक्ष्यमाणानुपपत्तीनां वक्ष्यमाणन्यायैर्विना परिहारायोगाच्च । वक्ष्यमाणोपजीवने च तत एव तत्त्ववैलक्षण्यं प्रधानादेरजिज्ञास्यत्वं च सिध्यतीति कृतकरत्वं

स्यात् ।

वाक्यान्तरेण प्रतिपादितस्य वाक्यान्तरेणानुवादसम्भवपरत्वञ्च शास्त्रयोन्यधिकरणस्यायुक्तम्, कृतकर-त्वादेव । "अग्निहोत्रं जुहोति" इति वाक्यान्तरेण विहितस्य होमस्य "दध्ना जुहोति" इतिवाक्यान्तरेणानुवादः पूर्वकाण्डे प्रसिद्धः । आग्नेयादिपट्कं तदुत्पत्तिवाक्याविहितम्, "य एवं विद्वान् पौर्णमासी यजते, "य एवं विद्वा-नमावास्यां यजते" इति वाक्याभ्यामनूद्यत इति च तत्र तत्र प्रसिद्धम् । अतो वाक्यभेदेन विधानानुवादसम्भवो नात्र व्युत्पाद्यः ।

समन्वयसूत्रस्य च प्रवृत्तिनिवृत्तिपरत्वाभावेऽपि शास्त्रस्य प्रयोजनवत्ताप्रतिपादनपरत्वमिष्टम् । सिद्दे व्यु-त्पत्तिप्रतिपादनपरत्वं त्वयुक्तम्, प्रथमसूत्रेणैव सिद्धार्थव्युत्पत्तेः समर्थितत्वात् । तत्र च तत्समर्थनाभावेन त्वदुक्ता-र्थपरत्वे तत्सूत्रवैयर्थ्यस्योपपादितत्वाच्च सिद्धवस्तुमात्रे शब्दशक्तिसमर्थनाभावे सति सिद्धवस्तुवैलक्षणण्यतद्वि-धानानुवादतत्प्रयोजनादिनिरूपणस्यानपेक्षितत्वेन जन्मादिसूत्रत्रयोत्थानस्य तत्पूर्वकत्वावश्यम्भावात्; वक्ष्य-माणोपजीवनेनोत्थाने प्रतिपत्तिक्रमसामञ्जस्याभावात्; आद्यसूत्रस्यापेक्षितविधेरनपेक्षितविधानपरत्वायोगाच्च । अतो भाष्यकारोक्ताथर्परत्वमेव चतुस्सूत्र्या उपपन्नम् ।।

।। इति समन्वयाधिकरणम् ।।5

 

1.1.5

प्रथमे सूत्रे उद्देशः कृतः । द्वितीये लक्षणमुक्तम् । तृतीयचतुर्थाभ्यां लक्ष्यस्य ब्रह्मणः परीक्ष्यत्वसिध्यर्थं लक्षणस्व-भावात्सिद्धरूपलक्ष्यस्वभावाच्चोत्थिते ज्ञातत्वाप्रयोजनत्वशङ्के परिहृते । अथ लक्ष्यं वस्तु किं चिदचिद्विलक्षणम् ? उताविलक्षणम् ? इति परीक्ष्यते । यद्वा पूर्वं कारणत्वमनूद्य तस्य लक्षणत्वमुक्तम् । लक्षणलक्ष्यस्वभावनिबन्धनं श-ङ्काद्वयं च परिहृतम् । अथ लक्षणभूतकारणत्वप्रापकवाक्यानि निरूप्यन्ते । यद्वा चतुस्सूत्र्या वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यरूपपरीक्ष्यतापरिकरस्थापनं कृतम् । अथ प्रमेयविशेषपरीक्षा क्रियत इति पेटिकासङ्गतिः ।

ननु ईक्षत्यधिकरणमनारम्भणीयम्, समन्वयाधिकरणे पुरुषार्थभूतस्यैव ब्रह्मणः प्रतिपाद्यत्वनिश्चयेन हेयास्पदस्य प्रधानस्य प्रसङ्गाभावादिति नैवम्; पुरुषार्थभूतस्य ब्रह्मणः प्रतिपाद्यत्वं न सम्भवति, अपुरुषार्थभूतस्य प्रधानादेः प्रतिपादनादिति समन्वयाधिकरणोक्तार्थस्यापेक्षेपेणोत्थानादिति । इयमवान्तरसङ्गतिः, इत्येतदभिप्रायेण पेटिका-भेदतत्सङ्गत्यवान्तरसङ्गतीराह - यतो वा इमानीत्यादीति - उद्दिष्टस्य ब्रह्मणो लक्षणमुक्तम् । लक्षितस्य परीक्षणं वर्त्तिष्यत इत्यभिप्रायेण लक्षणवाक्यमुपात्तम् कारणत्वानुवादेन तस्य लक्षणत्वविधानात् कारणस्य चिदचिद्वैल-क्षण्यनिर्णयस्य कारणत्वपापकवाक्यनिरूपणसापेक्षत्वादस्मिन्नधिकरणे कारणवाक्यानि निरूप्यन्त इति च ज्ञाप-नार्थं लक्षणवाक्योपादानम् । आदिशब्देन कारणत्वप्रापकवाक्यानि गृह्यन्ते, अत एव ह्यनुवादपुरोवादसाधारण्येन जगत्कारणवादीत्युक्तम् । समन्वयाधिकरणार्थाक्षेपहेतुकावान्तरसङ्गत्युपयोगीनि सर्वज्ञत्वादिविशेषणानि-जिज्ञास्यमित्युक्तमिति प्रामाणिकतया परीक्ष्यमित्यर्थः ।तदनन्तरं परीक्षा हि सङ्गतेत्यभिप्रायेणाह - इदानीमिति । अनेन चतुस्सूत्र्यानन्तर्यं ब्रह्मणः पुरुषार्थताप्रतिपादनपरसमन्वयाधिकरणानन्तर्यमप्युक्तम् । आनुमानिकप्रधाना-दीत्यनेनानन्तरोक्तसमन्वयाक्षेपेणोत्थानादवान्तरसङ्गतिरिति सूच्यते, प्रधानादीत्यादिशब्देन क्षेत्रज्ञमात्रं चिद्विशेषाः अचिद्विशेषाश्च गृह्यन्ते, ईक्षतेर्नाशब्दमित्यादिनेति - पादशेषणाध्यायशेषेणेति वार्थः ।

विषयमुदाहरति - इदमिति - प्रतिज्ञादृष्टान्तोपेतं सङ्कल्पप्रतिपादकं सामान्यशब्दवत् कारणवाक्यं विषयः । तत्र

1.1.5

सद्विद्यावाक्यमेवास्याधिकरणस्य साक्षाद्विषयः, सद्विद्याद्वारेणेदृशकारणवाक्यानां विषयत्वम्, न तु साक्षादेव, वि-षयवाक्योपादानसमये वाकयान्तराणामनुपादानात् । दीपसारयोश्च तेषामनुपात्तत्वात् प्रतिज्ञाविरोधस्वाप्ययोरत्रत्य- योरेव सूत्रितत्वात्तदनुग्राहकत्वेनोपदिषदन्तरगतिसामान्यस्य अस्यामुपनिषदि विद्यान्तरेषु श्रुतत्वस्यापि सूत्रितत्वात् बुध्यवतरणक्रमेण प्रथममुपादानत्वोचिताचेतनत्वशङ्कायाः प्रतिक्षेप्यत्वात् सद्ब्रह्मात्मादिपदचिह्नितेषु वाक्येषु सामा-न्यशब्दचिह्नितवाक्यस्य प्रथमनिरूपणीयत्वाच्च । सामान्यद्वारा हि विशेषो बुद्धिमधिरोहति । सामान्यपरिग्रहे प्रति- क्षेपे च विशेषविषय संशयोवकाशान् । विशेषे तु प्रतिपक्षे हि सामान्याकाङ्क्षा न स्वरसवाहिनी, सन्दिग्धे हि न्याय-प्रवृत्तिः, अतः संशयसद्भावमाह - तत्रेति । कारण-स्येदंशब्दवाच्यकार्यसालक्षण्यावश्यम्भावेक्षितृत्वाभ्यां संशयः । संशयशरीरं दर्शयति - किमिति । सच्छब्दवाच्य-मिति धर्मिवाचिपदस्य साधारणतया संशयसहत्वं दर्शितम् । जगत्कारणमिति उपादानत्वात् कार्यसालक्षण्यं दुस्त्य-जम्, निमित्तत्वान्मुख्येक्षितृत्वं चेति संशयहेतुस्थिरीकरणम् । परोक्तमिति - विप्रतिपत्तिरपि संशयहेत्वोरनुग्राहिकेति भावः । पूर्वपक्षबीजस्मारणपरसौत्रपदद्योतनार्थंमानुमा-निकमिति पदम् । उक्तलक्षणम्-सर्वज्ञत्वादिलक्षणम्, आनु-मानिकोक्तलक्षणपदाभ्यां संशयहेतुद्वयसूचनम् । किञ्च जगत्कारणवादिवेदान्तवाक्यानि किं प्रधानादिप्रतिपादन-पराणि ? उत तद्विलक्षणब्रह्मपराणि ? इति पादशेष-साधारणो विचारः, अत्र तु तदर्थं सद्विद्यावाक्यानि किं प्रधा-नप्रतिपादनपराणि ? उतोक्तलक्षणब्रह्मपराणि ? इति विचारः, तदर्थं किमत्रेक्षणं गौणम् ? उत मुख्यम् ? इति । तदर्थं किमनुमानाकारता गौणेक्षणसाहचर्यं च विद्यते ? नेति, तदर्थं प्रतिज्ञादृष्टान्तौ किं हेतोराक्षेपकौ नेति, तेजः प्रभृतिशब्दाः किं तेजःप्रभृतिमात्रवाचिनः ? उत परमात्मपरा ? इति च । तदर्थमात्मशब्दस्तेजःप्रभृतिशब्दानाम् अब्रह्मपरत्वस्याविरोधि ? उत विरोधीति । तदर्थमात्मशब्द-स्वारस्यभङ्गहेतवोऽनुरोद्धव्याः ? उत तदनुग्राहकहेतवः ? इति विचारः । तत्स्वारस्यभङ्गहेतवोऽनुरोद्धव्या इति पूर्वः पक्षः । तदनुग्राहका एवानुरोद्धव्या इति सिद्धान्तः । यदा स्वारस्यभङ्गहेतोरनुरोद्धव्यत्वेनात्मशब्दस्य तेजःप्रभृति-शब्दानाम् अब्रह्मपरत्वाविरोधितया तेजःप्रभृतिशब्दास्तेजः प्रभृतिमात्रवाचिनः, प्रतिज्ञादृष्टान्तौ च यदा हेत्वाक्षेपकौ

1.1.5

तदा हेत्वाक्षेपो गौणेक्षणसाहचर्यं चास्तीति प्रथमश्रुतेक्षणस्य गौणत्वेन सद्विद्यावाक्यानां प्रधानपरत्वात्तदेकार्थतया सर्वाणि कारणवाक्यानि प्रधानपराणीति पूर्वपक्षे फलफलिभावः । यदा आत्मशब्दस्वारस्योत्तम्भकहेतोः अनुरो-द्धव्यत्वेनात्मशब्दस्य तेजःप्रभृतिशब्दानामब्रह्मपरत्वविरोधित्वेन तेजःप्रभृतिशब्दाः परमात्मपराः, प्रतिज्ञादृष्टान्तौ च यदा न हेत्वाक्षेपकौ तदाऽनुमानाकारत्वगौणेक्षणसाहचर्ययोरसिध्द्या प्राथभिकेक्षणस्यागौणत्वात् सद्विद्यावाक्यानि परब्रह्मपराणि, अतस्तदैकार्थ्यात्सर्वाणि कारणवाक्यानि परब्रह्मपराणीति सिद्धान्ते फलपलिभावः । तत्र पूर्वपक्षं वक्तुमन्यत्तरशिरसो युक्तिमत्त्वेन निर्द्धारणाकाङ्क्षां दर्शयति किं प्राप्तमिति । प्राप्तम्-युक्तम्, युक्तिमदित्यर्थः । पूर्वपक्षी स्वपक्षं युक्तिमत्त्वेन प्रतिजानीते- प्रधानमितीति । संशयक्रोडीकृते शिरोद्वये प्रधानमिति शिरो युक्ति-मदित्यर्थः । युक्तिविशेषाकाङ्क्षां दर्शयति - कुत इति । तदुपपादयति सदेवेति । कारणस्य प्रधानत्वसिद्धयौपयिकानि तद्विलक्षणपुरुषविशेषत्वविरोधीनि च विशेषणान्याह -इदंशब्देत्यादिना । इदंशब्दवाच्यस्येति - परागर्थे हीदंशब्द-स्वारस्यम्, न तु प्रत्यग्रूपे चेतन इति भावः । जगतश्चिदचिदात्मकतया चेतनस्यापीदंशब्दवाच्यान्तर्भावव्युदासायाह - चेतनभोग्यभूतस्येति । चिदंशस्य कायर्त्वकारणत्वायोगात् न तस्य कार्यान्तर्भाव इति भोक्तृतयाऽवस्थानमेव तस्य, भोग्यस्यैव तु कार्यत्वमिति भावः । चेतनस्य ज्ञेयतैकस्वभावजगद्रूपत्वमयुक्तमिति चाभिप्रायः । कार्यस्य भोग्यत्वौपयिकं कारणस्य प्रधानत्वापादकं च विशेषणमाह - सत्त्वरजस्तमोमयस्येति । सत्त्वादिकार्यसुखदुःख-मोहान्वयहेतुत्वदर्शनाज्जगतः सत्त्वादिमयत्वम्, निर्गुणः कथं गुणमयस्य कारणमिति चाभिप्रायः । भोग्यत्वोपपाद-नायाह - वियदादीति । यद्वा, इदंशब्दवाच्यद्रव्यस्य का-रणत्वे कार्यत्वकारणत्वयोः को भेद इत्यत्राह-वियदादीति । एकत्वावस्थं कारणम् बहुत्वावस्थं कार्यमिति भिदेत्यर्थः । एकरूपस्य पुरुषस्य नानारूपकार्यभावोऽनुपपन्नश्चेति भावः । कारणस्य कार्यसालक्षण्यावश्यम्भावे हि चेतनस्य इदंशब्दवाच्यं प्रति कारणत्वानुपपत्तिः, कारणावस्था कार्योपादनभूतद्रव्यान्तरनिष्ठेति कथं सालक्षण्यावश्यम्भाव इति शङ्कायां कार्यकारणयोरेकद्रव्यत्वमाह - कारण-भूतद्रव्यस्येति । ततः किमित्यपेक्षायां कार्यकारणसालक्षण्यनियमं फलितमाह - अत इति । ततोऽपि किमित्या-शङ्कायां कार्यस्य प्रधानसालक्षण्यमाह - सत्त्वादिमयञ्चेति । प्रधानस्य कार्यसारूप्यमाह - गुणसाम्यावस्थमिति । कार्ये गुणवैषम्यदर्शनात्कारणमपि तथाविधं स्यादिति शङ्कापकरणार्थं गुणसाम्यावस्थमित्युक्तम्, न तु गुणमयमिति । विषमावस्थस्य सर्वस्य कार्यत्वदर्शनात् कारणस्यापि तथात्वे कारणान्तरापेक्षयाऽनवस्थाप्रसङ्गाच्च प्रधानस्य गुणसाम्यावस्थत्वसिद्धिरिति भावः । अनेकगुणसाम्यावस्थस्य प्रधानस्य कारणत्वे एकत्वावधारणमनुपपन्नम् ।

1.1.5

एकस्यैव ब्रह्मणः कारणत्वे तूपपन्नमित्यत्राह - तदेवोपसंहृतेति । एकमेवेति नामरूपविभागव्युदासः, अद्वितीय-मिति गुणवैषम्यव्युदास इत्यभिप्रायेण उपसंहृतसकलविशेषमित्युक्तम् । सन्मात्रमिति - सदेवेति कादाचित्का-सत्त्वव्युदास इति भावः । सन्मात्रमितीत्यत्रेतिशब्दो हेतौ । प्रधानकारणत्वमेव युक्तयन्तरेणोपपादयितुमाह - तत एवेति । इदं शब्दवाच्यं प्रति कारणस्य त्रिगुणात्मकस्य प्रधानस्य सच्छब्दवाच्यत्वादेव हि कार्यकारणयोरनन्यत्व-सिद्धिः, न हि विजातीययोरनन्यत्वमितिभावः । अनन्यत्वं माभूदित्यत्राह - तथा सतीति । अनन्यत्वे सति ह्येक-विज्ञानेन सर्वविज्ञानसिद्धिः, तच्चिदचिद्विलक्षणकारणत्वपक्षे न सम्भवतीति भावः । एवं प्रतिज्ञासिद्धिरूपयुक्ति-रुक्ता भवति । यद्वा इदमग्रे सदिति सामानाधिकरण्यात् "तद्धैक आहुः" इत्यसत्कार्यवादप्रतिक्षेपाच्चानन्यत्व-सिद्धिः पूर्वग्रन्थे अभिप्रेता । हेत्वन्तरं चाह-तथासतीति । तथा सति-प्रधानकारणत्वे सतीत्यर्थः । कार्यकारणयोरनन्यत्वे प्रतिज्ञावाक्यतात्पर्यात्तत्रैकशब्दोऽपि गुणसमुदायैक्याद्युक्त इति भावः । युक्तयन्तरमाह - अन्यथेति । अचेतनमृ-त्पिण्डलोहमण्यादिदृष्टान्तश्चेतनकारणस्य दार्ष्टान्तिकत्वे न सङ्गच्छत इत्यभिप्रायः । यद्वा सरूपमृत्पिण्डघटादि-कार्यकारणदृष्टान्तो न विरूपकार्यकारणयोर्दार्ष्टान्तिकत्वे घटत इति भावः । कपिलस्मृत्यैकार्थ्यं हेतुत्वेनाभिप्रयन्नाह - जगत्कारणेति । उक्तन्यायेन श्रुत्यविरोधात्स्मृतिनिरासो न युक्त इति भावः । महर्षिणेतिपदेन "ऋषिं प्रसूतं कपिलं महान्तम्" इति श्रुतिः स्मारिता । हेत्वन्तरमाह - प्रतिज्ञेति । प्रतिज्ञादृष्टान्तयोर्हेत्वाक्षेपकत्वाभिप्रायेणोक्तमनुमान-वेषमेवेति । ननु न कारणविषया प्रतिज्ञा, अपि त्वेकविज्ञानेन सर्वविज्ञानविषया; अतोऽनुमानवेषत्वेऽपि न प्रधान-कारणत्वसिद्धिरिति न वाच्यम्, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः सर्वस्यैकस्य चानन्यत्वेन निर्वाह्यत्वादनन्यत्वस्य कार्यकारणभावनिबन्धनत्वाच्च प्रधानकारणत्वप्रतिज्ञानस्य फलितत्वात् । अत्रायं प्रयोगोऽभिमतो वेदितव्यः, जगत्स्-वानन्योपादानकम्, कार्यत्वाद्घटवत् । यद्वा इदं जगत् स्वकारणैकज्ञानेन ज्ञातं भवितुमर्हति, कार्यत्वात् एकमृत्पिण्-डाद्यारब्धघटादिवदिति । पूर्वपक्षं निगमयति-

इतीति - इतिर्हेतौ । सुखदुःखमोहो-न्नेयसत्त्वरजस्तमोमयस्येदंशब्द-वाच्यस्य कारणत्वमेकः पूर्वपक्षहेतुः, कार्यकारणानन्यत्वफलभूतमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं तदुत्तम्भकम् अनुमानाकारप्रतीतिश्चान्यो हेतुः । अस्मिन् पूर्वपक्षे सिद्धान्तस्थापनाय सूत्रस्यावतीर्णत्वं दर्शयति - इत्येवं प्राप्त इति । उच्यमानाः विषयसंशय-पूर्वपक्षाः अस्याधिकरणस्येति ज्ञापनाय पूर्वं सूत्रोपादानम् । अस्य राद्धान्तसूत्रत्वज्ञापनाथर्मक्षरव्याख्यानार्थं चेदानीं तदुपादानमिति वैषम्यम् । शब्दवेद्यतयाऽभिमतस्य कथमशब्दत्वमिति शङ्कायामाह - यस्मिन्निति । अब्भक्षो वायु-

1.1.5

भक्ष इतिवदवधारणगर्भितमितिभावः । शब्दैकप्रमाणकत्वं न चेत्तत्र किमन्यत् प्रमाणमित्यत्राह - आनुमानिकमिति । तर्हि प्रमाणान्तरप्राप्तं शास्त्रं न प्रतिपादयतीति चेन्न, सामान्यतो दृष्टानुमानेन कारणमात्रे प्रतिपन्नेऽपि तद्विशेषा-णामप्रतिपन्नतया तद्विशिष्टेन रूपेण शास्त्रप्रतिपाद्यत्वात् । अप्राप्ते हि शास्त्रमर्थवदिति मीमांसकानां मतम्, नतु साङ्खयानामिति पूर्वपक्षिणोऽभिप्रायः । तस्यानुपपन्नतां च ज्ञापयितुम् अशब्दशब्दप्रयोगः । आनुमानिकत्वमिन्द्रि-याणां परमाणूनामप्यविशिष्टमिति तद्वयुदासार्थं सौत्रमेकवचनमित्यभिप्रायेणाह - प्रधानमिति । प्रधानं ह्येकं सद-नेकेषां कारणम्, परमाणवस्त्वनेके सन्त एकैकस्य कार्यस्य कारणम्, इन्द्रियाणि तु बहूनि ज्ञानकारणानि, न त्वर्थकारणानीति तद्य्ववच्छेदसिद्धिः । नेतिपदस्य प्रधानस्वरूपप्रतिक्षेपार्थत्वशङ्कां व्युदस्यन् वाक्यार्थं योजयति - न तदिति । धमिर्निषेधपरत्वेऽपि शास्त्रस्य वाक्यनिरूपणपरत्वाद्धेतुपदेन धातुस्वरूपोपादानाच्च प्रतिपाद्यतावेषेण निषेध्यत्वं विवक्षितमितिभावः । वाक्यप्रतिपाद्यत्वाभावः प्रमाणान्तरप्रतिपन्नत्वबाधितत्वाभ्यां वाक्यस्यान्यपर- त्वाद्वा स्यात्, योग्यानुपलम्भाद्यभावादप्रतिपन्नाकारवैशिष्टयसद्भावाच्च बाधितत्वप्रतिपन्नत्वासम्भवः, अन्यपरत्वं तु पूर्वपक्षयुक्तिभिरेव निरस्तम्, अतो हेतुर्न सम्भवतीत्यभिप्रायेण हेत्वाकाङ्क्षां दर्शयति - कुत इति । हेतोरसिद्धि-मन्यथासिद्धिञ्च व्युदसितुं व्याचष्टे - सच्छब्दवाच्येति । सच्छब्दवाच्यसम्बन्धीति व्यधिकरणासिद्धिव्युदासः । प्रकृतं सदेव हि "तदैक्षत" इति तच्छब्देन परामृश्यते इति भावः । व्यापारविशेषशब्देनाभिधायिशब्देन चान्यथासिद्धि-व्युदासः । न हि चेतनाचेतनसाधारणं कार्यौन्मुख्यमात्रमीक्षतिधात्वभिधेयम्, अपि तु चेतनरूपकर्त्रसाधारणो व्यापारविशेषः । न च मुख्ये सम्भवति उपचारो युक्त इति भावः । "इक्स्तिपौ धातुनिर्द्देशे वक्तव्यौ" इति प्रक्रियया ईक्षतिशब्देन धातूपादानम्, नार्थोपादानम् तथा सतीक्षितेरिति हि वक्तव्यं स्यात् अनेन च शब्दस्य विवक्षितार्थे

1.1.5

स्वारस्यं सूचितमित्यभिप्रायेणाह - धातोरिति । श्रवणादित्यज्ञानासिद्धिपरिहारः, श्रूयमाणादीक्षतेरिति सूत्रवि-वक्षितम्, तत्फलितं तु षष्ठया निष्कृष्य व्याख्यातम्, ईक्षतिशब्देनेक्षणं लक्षितमिति वेदान्तदीपे व्याख्यातमर्थस्वा-रस्याय, अत्र तु शब्दस्वारस्येन व्याख्यातम् । ननु "तत्तेज ऐक्षत" "ता आप ऐक्षन्त" इति वाक्यद्वयगतमीक्षणम-चित्सम्बन्धितया प्रतीयते, "सेयं देवतैक्षत" इत्यत्रापि ईक्षणमचिद्गतमुचितम्, देवताशब्दस्य "हन्ताहमिमास्तिस्रो देवताः" इत्यासन्नवाक्यस्थदेवताशब्दविरूपार्थत्वायोगात् । प्रथमेक्षणं च सेयमिति तच्छब्दपरामृष्टसत्सम्बन्धित्वा-दचिद्गतमेवेत्याकाङ्क्षायामाह - तदैक्षतेति । चरमवाकयानुरोधेनोपक्रमस्वारस्यभङ्गो न युक्त इतीदन्तावदीक्षणं मुख्यमिति भावः । धात्वर्थानां क्रियात्वादचेतनस्य च क्रियायोगसम्भवान्नात्रानुपपत्तिरित्यत्राह - ईक्षणाक्रियेति । अयं क्रियाविशेषो न सम्भवतीत्यर्थः । ततः किमित्यत्राह - अत इति । अतः अचेतनस्यासम्भावितत्वेनेक्षणस्य त्वत्पक्षविरुद्धत्वादित्यर्थः । ईदृशेक्षणक्षम इति - अनेनाचिद्य्वावृत्तिरुक्ता । ईदृशशब्देन चेतनविशेषशब्देन चेक्षण-स्वभावफलिताच्चेतनमात्रादपि व्यावृत्तिरुक्ता, यच्चेतनमात्रेऽपि न सम्भवति तत्कथमचेतने सम्भवतीति भावः । तदैक्षतेति सिद्धं गुणमाह - सर्वज्ञ इति । बहु स्यामिति फलितमर्थमाह - सर्वशक्तिरिति । चिदचिद्य्वावर्त्तकलि-ङ्गबलसिद्धं सदिति सामान्यनुतेः पर्यवसानस्थलं दर्शयति - पुरुषोत्तम इति । सेयं देवतेति देवताशब्दोऽपि ईक्षण-विशेषसामर्थ्याच्छागपशुन्यायेन चानुगृहीतः प्रकरणान्तरोक्तदेवताविशेषविषय इति भावः । सद्विद्यावाक्यस्योक्ता-र्थपरत्वमनेकश्रुत्यन्तरस्वारस्येनोपपादयति - तथा चेति । नात्र विषयवाक्यतया श्रुत्यन्तरोपादानम् । सर्वेष्वेव-सर्वेष्वपि; अनेन प्राचुर्यमभिप्रेतम् । ईक्षणस्य गौणत्वाश्रयणे अनेकश्रुतिस्वारस्यभङ्गप्रसङ्ग इति भावः । प्रतीयत इति - प्रतीतिस्तावदविगीतेति भावः । स्वपक्षसाधकमुक्तवा पूर्वपक्षयुकिं्त परिहर्त्तुं चोद्यमुपक्षिपति - ननु चेति । कार्यकारणयोः सालक्षण्यन्तावदङ्गीकार्यम् मृत्तत्कार्यादिषु दर्शनात् । तच्च सालक्षण्यं ब्रह्मणस्त्रिगुणात्मकत्वादियोगेन वा

जगतस्तद्विधुरत्वेन वा निर्वाह्यम् ? आद्ये शब्दान्तरेण प्रधानाङ्गीकारः । द्वितीये सुखदुःखमोहान्वयाद्युपलम्भ-विरोध इति भावः । परिहरति - सत्यमिति । अर्द्धाङ्गीकारे सत्यशब्दः । कार्यानुगुण्यमङ्गीकृतम्, न तु प्रधानत्वमिति । सर्वेति - प्रधानस्यैव हि सर्वकार्याननुगुणत्वम्, कार्यानुप्रविष्टचिदपेक्षया तस्य कारणत्वौपयिकाकारविरहादिति भावः। कार्यानुगुणनिमित्तोपादानभावसिध्द्यर्थं सर्वज्ञः सर्वशक्तिरितिपदद्वयम्, तदुभयफलितमाह - सत्य सङ्कल्प इति

1.1.5

सर्वशक्तित्वासङ्कोचान्न तस्य सङ्कल्पप्रतिबन्धसम्भावेनेति भावः । विकारादीनां सद्वारकत्वसिध्द्यर्थं सूक्ष्मेत्यादिपदम्, उक्ताकारविरहे कारणत्वायोगात् । तद्वत्त्वे श्रुतिवाक्यानि दर्शयति - परास्येति । चिदचितोः शरीरत्वं कथम् ? श-रीरत्वे च तद्वतः कर्मवश्यत्वादिदोषः स्यादित्यत्राह - तदेतदिति । न विलक्षणत्वादित्यादिसूत्रैरेषां सूत्राणां पौन-रुक्तयमाशङ्कयाह - अत्र सृष्टीति । वस्तुविरोधः-अर्थसामर्थ्यविरोधः । अत्र वाक्यतर्केणार्थनिष्कर्षः, तत्र त्वाभिमा-निकव्याप्त्याभासनिबन्धनबाह्यतर्कविमर्शतन्निरासमुखेनार्थनिष्कर्ष इति भिदेत्यर्थः । एवं सत्त्वादिगुणमयस्येदंश-ब्दवाच्यस्य कारणत्वं तदुत्तम्भकमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं च परिहृतं भवति । अथ परोक्तं हेत्वन्तरमनुवदति यत्तूकतमिति । तस्यानुपपन्नत्वमाह -तदसदिति । कथमित्यत्राह - हेत्वनुपादानादिति । वक्तुरनुमानविवक्षाऽस्ति चेत् तत्र प्रधानावयवो हेतुरवश्योपादेयः, तदभावान्न तद्विवक्षेति भावः । प्रतिज्ञादृष्टान्ताभ्यां हेत्वाक्षेपोऽप्ययुक्त इत्याह येनाश्रुतमिति । अनन्यथासिद्धं ह्याक्षेपकम्, सर्वप्रमाणसाधारणत्वात्प्रतिज्ञाऽन्यथासिद्धेति सिद्धं कृत्वा दृष्टान्तस्य हेत्वाक्षेपकत्वायोग उच्यते, न केवलं व्याप्तिप्रदर्शनायैव दृष्टान्तोपन्यासः, अपि त्वसम्भवव्यावृत्तिप्रदर्शनायापि सम्भवतीत्यन्यथासिद्धत्वात् स नाक्षेपक इत्यर्थः । सर्वात्मना तदसम्भवमिति - एकविज्ञानेन सर्वविज्ञानं धर्म्मैक्-यादेकाकारान्वयाद्वा वस्त्वन्तर व्यतिरेकाद्वा सम्भवति, घटपटादिषु त्रेधापि तन्न सम्भवति, घटपटादिषु धर्मैक्य-स्यान्वयेनान्यस्माद्व्यतिरेकेण वा समानाकारयोगस्य चाभावादिति भावः । अस्तु दृष्टान्तस्यानुमानाङ्गत्वे सम्भव-प्रदर्शनार्थत्वे च साधारण्यम्, तथा सत्यस्मन्मतेऽपि सम्भवः पाक्षिकः स्यादित्यत्राह - ईक्षत्यादीति । आदिशब्देन वक्ष्यमाणहेतवो विव-क्षिताः । प्रतिज्ञादृष्टान्तयोः साधारण्येनानुमानत्वं शङ्कितम्, ईक्षणाद्यसाधारणहेतुसद्भावाच्छ-ङ्काऽपि निरस्तेत्यभिप्रायेणोक्तम् अनुमानगन्धाभाव इति ।

1.1.6

उत्तरसूत्रमवतारयितुमीक्षणस्य गौणत्वं शङ्कते - अथ स्यादिति । चेतनगतम्-चेतनत्वानुगतम् । इहेति - प्रकरण-मालोचनीयमिति भावः । प्रधानगतम्-अचेतनत्वानुगुणमित्यर्थः । प्रथमेक्षणस्य तेजःप्रभृतिकार्याचिद्गतत्वायोगात् प्रधानशब्दः । हेतुमाह- तत्तेज इति । प्रायदर्शनाय वाक्यद्वयमुपात्तम्, अग्रयप्रायन्यायोऽपि बाधकाभावे जीवतीति भावः । सेयं देवतेति देवताशब्दोऽप्यनेनैव न्यायेन इमास्तिस्रो देवता इतिवत् अचिद्विषयत्वौचित्यान्न गौणत्वबाधक इति भावः । गौणप्रयोगं दर्शयति - भवति चेति । ईक्षणतुल्ययोगक्षेमहर्षादिधर्मान्तरसङ्ग्रहाय चेतनधर्मशब्दः । लोके शास्त्रे च प्रयोगद्वयं दर्शितम् । गौणत्वं निगमयन्नुक्तशङ्कापरिहाराय सूत्रस्यावतीर्णत्वमाह - अत इति । शङ्काया उत्सू-त्रत्वाभावात् अनुभाष्येत्युक्तम् ।

गौणश्चेन्नत्मशब्दात् । केन गुणयोगेन गौणत्वमिति शङ्कां परिहरन् सूत्रं योजयति - यदुक्तमिति । पुल्लिङ्गगौण-

1.1.6

शब्दविशेष्यः प्रकृत ईक्षतिरित्यभिप्रायेणोक्तमीक्षणव्यपदेश इति, गौण ईक्षतिर्नेत्युक्ते विशेष्यप्रतिक्षेपशङ्काव्युदासाय यत्तच्छब्दाभ्यां विशेषणनिषेधपरत्वेन व्याख्यातम् । यद्गौणत्वमुक्तं तन्नेत्यर्थः । सर्गेति - गौणोऽर्थः सर्गप्रागवस्था, तत्र नियतपूर्वत्वलक्षणं कार्यानुरूप्यं गुणयोग इत्यर्थः । आत्मशब्दादितिसौत्रेण पदेनाविशेषेण "ऐतदात्म्यं स आत्मा" इति वाक्यद्वयगतात्मशब्दो विवक्षित इत्यभिप्रायेण वाक्यद्वयमुपात्तम् । सच्छब्दप्रतिपादितस्येति - ऐतदात्म्यमित्यत्र एतच्छब्दस्य स आत्मेत्यत्र स इतिपदस्य च प्रकृतपरामशिर्त्वादिति भावः । आत्मशब्दोऽपि मृदात्मको घटः घटस्य मृदात्मेतिवत्स्वरूपानतिरिक्तार्थः स्यादित्यत्राह - एतदुक्तमिति । चेतनाचेतनप्रपञ्चोद्देशेनेति - "इदं सर्व"मिति सर्वशब्दासङ्कोचस्य स्वतःप्राप्तत्वात् "सन्मूलाः सर्वाः प्रजाः" इति पूर्ववाक्यैकार्थ्यात् इदं सर्वमसृजत "सच्च त्यच्चाभवत् विज्ञानं चाविज्ञानं च" इति श्रुत्यन्तरैकार्थ्याच्च सर्वशब्दश्चिदचिदात्मकजगद्गोचर इति भावः । नाचेतने इति - न हि चेतनस्याचेतनेन स्वरूपैक्यं सम्भवतीत्यर्थः । एवं गौणेक्षणसाहचर्यमभ्युपगम्य दूषणमुक्तम् । अथ तदेव नास्तीत्याह अत

इति । अतः-चिदचिदात्मकप्रपञ्चस्यात्मत्वादित्यर्थः । किमर्थमीक्षणोपदेशरहितस्यान्नस्योपादानम् ? उच्यते; ईक्षणोपदेशविरहनिबन्धनाब्रह्मात्मकत्वशङ्कानिराकरणार्थम्, अन्यथा सर्वस्य कायर्स्य ब्रह्मात्मकत्वानवगमादिदं सदिति सामानाधिकरण्यायोग्यत्वेनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं न घटते, अतस्तदुपादानेन प्रतिज्ञासिध्द्यौप-यिकमनुप्रवेशनुतिसिद्धमन्नस्य ब्रह्मात्मकत्वमिहानुषङ्गिकं दर्शितम् । न हि किञ्चिदप्यतदात्मकमिति अपिशब्दाभि-प्रायः, अतदात्मकत्वेन त्वदभिमतानामपीति वा, यदाश्रयतया प्रथममीक्षणं मुख्यं स एवेत्येवकाराभिप्रायः । तेजः प्रभृतयोऽपीति - सच्छब्दवदित्यपिशब्दस्य भावः । लोके तेजःप्रभृतिमात्रपरत्वेन व्युत्पन्ना अपीति वा । परमात्मन एवेति - विशेष्यतया प्राधान्येन प्रतिपाद्यः परमात्मैव, तेजःप्रभृतयस्तु द्वारमात्रमिति भावः । परमात्मवाचित्वमुप-पादयति - तथाहीति । वस्तुत्वम्-तद्रूपवस्तुत्वम् । तेजसो वस्तुत्वं तेजस्त्वम्, अपां वस्तुत्वमप्त्वम्, पृथिव्या वस्तुत्वं पृथिवीत्वम्, देवमनुष्यादीनां वस्तुत्वं देवत्वमनुष्यत्वादिकम्, तत्तदवस्थाभाक्तवमित्यर्थः । नामभाक्तवम्-नामवा-च्यत्वम् । ननु कथं परस्य नामव्याकर्तृत्वश्रवणान्नामवाच्यत्वसिद्धिः ? उच्यते; "तन्नामरूपाभ्यां व्याक्रियते" इति समानवाक्ये व्याकृतत्वश्रवणात् नाम्नो विशेषितत्वं हि नामव्याकृतत्वम्,नाम विशेषितत्वं च नामवाच्यत्वरूपमिति प्रसिद्धम्, नतु तदुत्पादकत्वमात्रम् । न ह्याकाशस्य वा मातापित्रादेर्वा देवदत्तादिनामविशेषितत्वप्रसिद्धिः, अतो नामव्याकृतत्वं नामवाच्यत्वम्, अतस्तदैकार्थ्यादिहापि नामवाच्यत्वं विवक्षितम् ।

1.1.7

"वचसां वाच्यमुत्तमम्" इति चायमर्थ उच्यते, एवं तेजःप्रभृतिशब्दानां परमात्मवाचित्वोपपादनफलमाह- इति तत्तेज ऐक्षतेति । इतिशब्दो हेतुपरः । मुख्यत्वफलमाह - अत इति । अपिशब्दो गौणत्वशङ्काहेतुसमुच्चयपरः, इदं-शब्दवाच्यजगत्कारणत्वादिना गौणत्वशङ्का परिहृता, गौणेक्षणसाहचर्याच्च गौणत्वशङ्का निरस्तेत्यर्थः । यद्वा त्वन्म-तसाधकादपि त्वन्मतं निरस्तमिति भावः । दूरोत्सारितेति - गौणसाहचर्ये सत्यपि सवर्शब्दतत्प्रतिसम्बन्धिवाचका-त्मशब्दस्वारस्येन "तदैक्षते"त्यत्र गौणत्वाशङ्कोत्सारिता, गौणसाहचर्यासिद्धया दूरोत्सारितेत्यर्थः । गौणेक्षणसाह-चर्ये सत्यपि आत्मशब्दात् प्रथमेक्षणमगौणम्, आत्मशब्दादेव गौणेक्षणसाहचर्यमसिद्धं चेत्यथर्द्वयं कथमेकेन वाक्ये-नोच्यत इत्यत्राह - इति सूत्राभिप्राय इति । प्रतिज्ञादृष्टान्तयोर्हेत्वनाक्षेपकत्वं मुख्यामुख्यार्थानुग्राहकेषु मुख्यानुग्राह-कस्यानुरोद्धव्यत्वं चास्मिन्नधिकरणे व्युत्पाद्यमिति सूत्रद्वये स्पष्टम् ।

अवान्तरसाध्यविषयत्वशङ्कां व्युदस्यन्नुत्तरसूत्रमवतारयति - इतश्चेति । कारणत्वौपयिकेक्षणधर्मनिरूपणेन पर-मात्मत्वं सतः समर्थितम् । अथ "कारणन्तु ध्येयः" इति कारणवस्त्वसाधारणमोक्षप्रदत्वधर्मेण परमात्मत्वं साध्यत इति सङ्गतिः ।

तन्निष्ठस्य मोक्षोपदेशात् ।। "तस्य तावत्" इति श्रुतौ तस्येतिपदस्य व्याख्यानं सूत्रे तन्निष्ठस्येतिपदमिति दर्श-यंस्तच्छब्दनिष्ठाशब्दयोरर्थं विवृण्वन् सूत्रार्थमाह - मुमुक्षोरिति । अर्वाचीनफलकदृष्टिविधिसम्भवाच्चेतने कृत्स्न-जगदुपादानतयोत्कृष्टप्रधानदृष्टिविधिरयमितिशङ्का मुमुक्षोरितिपदेन निरस्ता - तत्त्वमसीति सदात्मकत्वानुस-न्धानमुपदिश्येति - सदात्मकत्वोपदेशवाक्यगतस्तच्छब्दः प्रकृतसद्विषय इति ज्ञापनपरस्सूत्रे तच्छब्द इत्यभिप्रायेण

1.1.7

सदात्मकत्वेत्युक्तम् । अनुसन्धानशब्देन निष्ठाशब्दार्थ उक्तः, इहोपदेशस्यानुसन्धानार्थत्वं कथमवगतम् ? उच्यते, उपक्रमे "येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम्" इति श्रवणमननसमनन्तरभाविविज्ञानशब्द उपासनपरः, "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यनेनैकार्थ्यात्, उपसंहारे च "तद्धाऽस्य विजज्ञौ" इति तत्तुल्यार्थं विजज्ञा-वितिपदमावर्त्तितम् । मध्येऽपि "आचार्यवान् पुरुषो वेद" इत्याचार्यवत्ताफलत्वेन प्रतिपादितार्थविशेषवेदनवचन-माचार्योपदिष्टार्थस्यानुसन्धेयत्वे लिङ्गम् । एवमेभिः कारणैः सदात्मकत्वोपदेशस्योपासनार्थत्वावगमः । शरीरपात-मात्रान्तराय इति - अन्तरायशब्देन विलम्बो लक्ष्यते, शरीरपातावधि विलम्ब इत्यर्थः । "यावन्न विमोक्ष्ये" इत्युक्ते कथं शरीरान्मोक्षसिद्धिः ? उच्यते; मोक्ष इत्युक्ते कस्मान्मोक्ष इति बन्धकं किञ्चिदाकाङ्क्षितम्, तच्च किमित्यपेक्षा-यामस्यामेव विद्यायाम् "अथ यदाऽस्य वाङ्मनसि सम्पद्यते" इत्यादिना देहादुत्क्रमणश्रवणात् अन्यत्र च "अस्मा-च्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य" धूत्वा शरीरम् "अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः" इति श्रवणात् "त्यक्तवा देहं पुनर्ज्जन्म नैति" इत्यादिस्मरणाच्च शरीरमित्यवगम्यते । ब्रह्मसम्पत्तिलक्षण इति - "अथ सम्पत्स्ये" इति सम्पत्तेः "सता सोम्य तदा सम्पन्नो भवति" इति

वाक्यान्तरप्रतिपन्नं ब्रह्मैव कर्मेति भावः - मोक्ष इति । सौत्रस्य मोक्षशब्दस्य शरीरपातपूर्विका ब्रह्मसम्पत्तिरेवार्थः, न तु शरीरापातमात्रमित्यभिप्रायः । ततः किं प्रधानवैलक्षण्य-स्येत्यपेक्षायां मुमुक्षोरितिपदेनाभिप्रेतं विवृणोति - यदि चेति । कथमनुपपत्तिः ? तीर्थक्षेत्रसेवादिवदचिदुपासनस्य मोक्षोपयोगित्वं शास्त्रबलात् किं न स्यादिति शङ्कायामाह - यथा क्रतुरिति । उपासनानुरूपफलभाक्क्तवं श्रुत्यर्थः, ततश्च हेयोपासनाद्धेयप्रहाणानुपपत्तिः । अचेतनसम्पत्तिः-अचित्प्राप्तिः, संसारित्वम् कर्मकृताचित्सम्बन्धो हि संसारः । सम्पत्तिशब्दस्य प्राप्त्यर्थत्वं तापत्रयाभिहतिहेतुभूतामचित्सम्पत्तिमित्यनन्तरभाष्येण व्यक्तम् । अचेतनसम्पत्तिरस्तु , ततः किमित्यत्राह - न चेति । अत्र "शास्त्रं हि वत्सलतरं मातापितृसहस्रतः" इति पुराणवचनं स्मारितम् । माता-

1.1.8

पितृसहसेभ्य इति - मातापितरावेकस्मिन् जन्मन्यैहिकपोषणमात्रपरौ, शास्त्रं त्वनेकेषु जन्मसु ऐहिकामुष्मिकसर्व-विधरक्षणपरमिति भावः । तापत्रयेति - शास्त्रस्य प्रयोजनपयर्वसानं न स्यादित्यभिप्रायः । एवं श्रुतिसिद्धन्यायविरो-धप्रयोजनपर्यवसानाभावाभ्यां मोक्षोपयोगित्वं निरस्तम् । अस्मिन्नर्थे परमतसंवादं दर्शयति - प्रधान-कारणेति । प्रधाननिष्ठस्येति - "व्यक्ताव्यक्तज्ञविज्ञानात्" इति वदताऽपि साङ्खयेन प्रधानस्य व्याधेरिव परिज्ञानमात्रं विवक्षितम्, न तूपासनमिति भावः ।

ननु तत्त्वमसीति न सदात्मकत्वानुसन्धानोपदेशः, किन्तु स्थूलोऽहमित्यादिदेहात्मभ्रमानुवादः,अतः सच्छब्द-वाच्याचेतनस्य मुमुक्षुणा ज्ञातव्यत्वं हानार्थमिति शङ्कया अनन्तरसूत्रसङ्गतिमभिप्रयन्नाह - इतश्चेति ।

हेयत्वावचनाच्च ।। न परं प्रत्यानुकूल्याभावमात्रम्, किन्तु प्रातिकूल्यं चास्तीत्याह - प्रत्युतेति । स्थूलोऽह-मित्याद्यनुसन्धानस्येव न सदात्मकत्वानुसन्धानस्य हेयत्वं प्रतिपाद्यते, अपि तूपादेयत्वमेवोच्यते; तच्च प्रधान-परत्वेऽनुपपन्नम्, "अनादिमायया सुप्तः मायया सन्निरुद्धः" "अनीशया शोचति मुह्यमानः" "जहात्येनां भुक्त-भोगामजोऽन्यः" इत्यादिषु प्रधानप्रस्तावेषु तस्य हेयत्वेनैव प्रतिपादनादित्यर्थः । एवं "तदैक्षते"त्यादिवाक्यप्रभृति तदुपरितनवाक्यावगता हेतव उक्ताः, तेषां समाप्तौ चशब्दः प्रयुक्तः । यद्वा उपादेयतोक्तयनुपादेयतानुक्तयोः सूत्रद्वय-प्रतिपादितयोरन्वयव्यतिरेकात्मना परस्परसङ्गतयोरेकीकारार्थ इह चशब्दः, अत एव हि प्रत्युतेत्यादिना पूर्वसूत्रा-र्थनिगमनं कृतम् ।

अथोपक्रमविरोधे सत्युत्तरवाक्यगतहेतूनां दौर्बल्यात् प्रधानमेव प्रतिपाद्यमिति शङ्कां परिहरति -

1.1.10

प्रतिज्ञाविरोधात् ।। कस्मिन्नर्थे विरोध इत्यपेक्षां पूरयन् व्याचष्टे - प्रधानकारणत्व इति । त्वन्मतानुगुणत्वेन यदुक्तं तदेव त्वन्मतप्रतिकूलमिति सूत्रकारहृदयमिति भावः । कथमित्यत्राह - वाक्योपक्रमे हीति । प्रतिज्ञावाक्ये सर्व-शब्दाभावेऽपि "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञां भवति" "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विज्ञात"मिति समानप्रकरणवाक्यैकार्थ्यात् सर्वाः प्रजा इति वक्ष्यमाणस्वारस्याच्च सर्वविज्ञानं प्रतिज्ञातमित्युक्तम् । न च सर्वं मृण्मयमितिवत्कार्यभूतसर्वाचिद्विज्ञानमेव सर्वविज्ञानमिति वाच्यम्;- "सन्मूलास्सोम्येमाः सर्वाः प्रजाः" इति सर्वशब्दसमानाधिकरणप्रजाशब्दस्वारस्यावगतानां चेतनानामपि सन्मूलतया ज्ञातव्यसर्वकार्यान्तर्भावादिति भावः । ततः किमित्यत्राह - तच्चेति । कार्यकारणयोरनन्यत्वेनेति - न हि चिदचितोरनन्यत्वमिति भावः । नन्व-न्यत्वेऽपि एकविज्ञानात् सर्वविज्ञानं घटते, पृथिव्यादीनां कार्यतया चिदंशस्याकार्यतया च ज्ञानसम्भवादित्यत्राह - तत्कार्यभूतचेतनाचेतनप्रपञ्चस्येति । मृत्पिण्डतत्कार्यादिदृष्टान्तबलात् "सन्मूलाः सर्वाः प्रजाः" इति वाक्ये प्रजा-शब्दस्वारस्याच्च चेतनस्यापि कार्यतयैव ज्ञातत्वं वक्तव्यमिति भावः । ज्ञाततयैवोपपादनीयमिति - देवदत्तज्ञानेन ग्रामविज्ञानवन्नात्र सर्वविज्ञानमौपचारिकम्, औपचारिकत्वे सर्वविज्ञानस्य लोकदृष्टत्वेन कथं नु भगव इति प्रश्ना-योगात् अनन्यभूतमृत्तत्कार्यादिदृष्टान्तमुखेन मुख्यतयैव सर्वविज्ञानोपपादनदर्शनाच्चेति भावः । उक्तविपर्ययेण प्रति-ज्ञाविरोधं दर्शयति - तत्त्विति ।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं कार्यकारणभावनिबन्धनम्, सुषुप्तौ परमात्मनि चेतनस्य प्रलयश्च तन्निबन्धन इति कार्यकारणभावनिबन्धनत्वसाम्यात् सङ्गतं सुषुप्तौ लयं हेतुत्वेनाहेत्यभिप्रयन्नाह - इतश्चेति ।

स्वाप्ययात् ।। सच्छब्दस्य जीवोपस्थापकस्वशब्दसमानविषयत्वनिबन्धनामर्थान्तरत्वशङ्कां व्युदस्यति - तदेव सच्छब्दवाच्यमिति - जगत्कारणवस्तुविषय एवात्रापि सच्छब्द इत्यभिप्रायः । यत्र-यदेत्यर्थः । ननु सता सम्पत्तिः प्रकृतिसंसर्गोऽस्तु, स्वाप्ययोऽपि जीवस्य स्वस्वरूपेऽवस्थानमिति स्वसच्छब्दयोर्भिन्नार्थः स्यादिति नैतद्वाक्यं प्रधान-

1.1.10

कारणताविरोधीति । तदेतत्परिहरन् व्याचष्टे- सुषुप्तमिति । स्वमपीत इतीदं विवृणोति - स्वस्मिन् प्रलीन इति । स्वमिति द्वितीया, सतेति तृतीया च फलतस्सति सम्पद्येति सप्तम्यनुगुणार्थे, व्यपदेशभेदस्तु धातुस्वभावभेदादि-त्यभिप्रायः । अपीतेः प्राप्तिरूपत्वात् द्वितीयानिर्देशः, "ब्रह्मैव सन् ब्रह्माप्येति" "यत्प्रयन्त्यभिसंविशन्ती "ति हि श्रुत्यन्तरम् । साहित्यसद्भावात् तृतीयानिर्देशः, सम्पन्न इति कर्मणि निष्ठा वा, तदानीं सम्पत्तेः प्राप्तिरूपत्वात्सतः कर्तृत्वविवक्षया तृतीया, "प्राज्ञेनात्मना सम्परिष्वक्तः" इतिवत्, अप्ययस्य स्थानसापेक्षत्वात्सप्तमीनिर्देशः । व्यु-त्पत्तिवशेन प्रलयवाचिनां शब्दानां स्थानापेक्षया उत्कटत्वात् सप्तम्यनुरोधेन व्याख्यातम्; एवं सम्पत्त्यप्ययशब्दयोः प्रलयपरतयैकाथ्यर्मुक्तम्, स्वसच्छब्दयोश्च प्रलयस्थानपरतया ऐकार्थ्यमुक्तम् । अयमभिप्रायः,-"सता सोम्य तदा सम्पन्नः सति सम्पद्येति प्रतिज्ञानिगमनवाक्यमध्यगतस्य स्वाप्ययवाक्यानपेक्षितार्थान्तरपरत्वेऽन्वयवैघट्यं स्फुटम् । "अथैतदपियन्त्यन्ततः ब्रह्मैव सन् ब्रह्माऽप्येति" तदा सम्पद्यते ब्रह्म" इत्यादिप्रयोगप्राचुर्यादप्ययसम्पत्तिशब्दस्वा-रस्योपस्थापितस्य प्रलयस्य स्थानप्रतिपादकत्वात् स्वसच्छब्दयोरेकार्थत्वपर्यवसायित्वं तूचितम् । "जीवेनात्मना तत्त्वमसीति" जीवात्मशब्दयोस्त्वं तच्छब्दयोरिव च स्वसच्छब्दयोरपि जीवरूपेण स्वेन रूपेण चावस्थितकारण-वस्तुविषयतयैकार्थपरत्वं प्रकरणवशादप्युचितम् । जीवादर्थान्तरे सति तस्य लयानुपपत्तिशङ्कापरिहारार्थं स्वशब्दा-भिधेयस्य तस्य सत्पर्यन्तताप्रतिपादनस्यापेक्षितत्वाच्च तयोरेकार्थत्वं युक्तमिति । अस्तु लयस्थानोपस्थापकयोः स्वसच्छब्दयोरैकार्थ्यम्, तत्तु स्वशब्दस्य स्वीयपरत्वेन स्वसच्छब्दयोरुभयोरपि प्रधानपरत्वेऽप्युपपद्यत इत्यत्राह - प्रलयश्चेति । कार्यतारूपविसदृशावस्थाप्रहाणेन कारणान्तर्भावो हि लयः । ततः किमित्यत्राह - नचेति । अचे-तनम्-अचित्त्वादित्यर्थः । स्थूलावस्थस्य जीवस्य सूक्ष्मावस्थे स्वकारणीभूते सत्तायोगिनि स्वात्मनि लयोपपत्तेः सच्छब्दस्य तत्परत्वं सम्भवतीति शङ्कां व्युदसितुमाह - तथा सुषुप्तमिति । सृज्यदेहेन्द्रियानपेक्षेक्षणादिगुणक-परमकारणविषयत्वात् तत्संवादिश्रुत्यन्तरानुगुण्याच्च नात्र सच्छब्दोऽतिसङ्कुचितज्ञानसूक्ष्मावस्थजीवमात्रविषय इत्यभिप्रायः । ननु नित्यस्य जीवस्य लयोऽनुपपन्नः, कार्यकारणयोरनन्यत्वात्, जीवविलक्षणस्य परस्य तत्कार-णत्वायोगात्तस्मिन्जीवस्य लयश्चानुपपन्नः । नैवम्, सर्वदा जीवविशिष्टस्य परमात्मनोऽवस्थाविशेषरूपकार्य-

1.1.10

कारणभावोपपत्तेः । तथा हि; "स्वमपीत" इत्यत्र स्वशब्दस्तावन्न जीवमात्रपरः, "सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति" इति स्वशब्दस्य सच्छब्दसमानविषयत्वात् सच्छब्दस्य चास्मिन् प्रकरणे परमात्मविषयत्वात् । नापि निष्कृष्टब्रह्मपरः नित्यनिर्विकारस्य तस्योपादानत्वायोगेनाप्ययस्थानत्वायोगात् । कार्यस्य हि प्रलय उपादान एव, अतो जीवरूपेणावस्थितपरमात्मपरत्वं वक्तव्यम्, तत्रापि न शुक्तौ रजतस्येव लयः, तस्येव जीवस्य स्वरूप-निवृत्तिप्रसङ्गात् । नापि महाकाशे घटाकाशस्येव लयः, देहाद्युपाधेरवस्थितत्वात् । नापि क्षितितले घटस्येव लयः, घटत्वस्येव जीवत्वस्य प्रहाणे जीवनित्यत्वश्रुतिविरोधादुपाधेरवस्थितत्वेन जीवत्वप्रहाणायोगात्, आमोक्षावस्था-यितयाऽभितमस्य जीवभावस्य स्वापमात्रेण निवृत्तौ मोक्षोपायवैयर्थ्यप्रसङ्गात्, अकृताभ्यागमादिप्रसङ्गात्, प्रत्य-भिज्ञाविरोधात्, "प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तर"मिति तदानीमज्ञत्वसर्वज्ञत्वाभ्यां भेद-व्यपदेशाच्च जीवत्वे स्थित एव स्वाप्ययस्य सर्वैरभ्युपगन्तव्यत्वात्; अतो भेदादेव स्वशब्दो जीवविशिष्टपरमात्मपरः, अत एव ह्युक्तं सारे, "आत्मनमेव जीवोऽपीतो भवतीत्यर्थः । जीवस्वरूपो हि पर एव नामरूपव्याकरणश्रुते"रिति । तस्य सम्पत्तिर्नाम बहिर्मुखज्ञानप्रसरविरहितजीवरूपेणावस्थानम्, निर्गमो नाम बहिर्मुखज्ञानप्रसरः । ननु कथं देह-विशिष्टस्य सतो जीवस्य स्थिते देहे विशेष्यांशलयः ? नैवम्; विशेष्यांशे रागद्वेषाद्यन्वयवत् तत्रैव प्रलयरूपावस्था-न्वयोपपत्तेः । ननु तर्हि स्वापे ज्ञानेन देहधारणाभावात्स्वरूपेण धारणस्य महाप्रलयेऽपि तुल्यत्वात् देहस्य जीवं प्रत्यपृथक्सिद्धिर्देहलक्षणं च न घटते । न, जीवस्य देहापरित्यागाद्देहस्य तत्सङ्कल्पेन धारणयोग्यत्वाच्चापृथक्-सिद्धिदेहलक्षणोपपत्तेः, अतो मनुष्यादिनामरूपाभिमानरागलोभाद्यनुगुणबहिर्मुखज्ञानप्रसरवज्जागरितावस्थजीव-विशिष्टः परमात्मा, देवमनुष्यादिनामरूपरागद्वेषलोभमोहाद्यौपाधिकबाह्याभ्यन्तराकाराभिमानकालुष्यविरहित-जीवशरीरकः सन्नात्मन्यन्तर्भूत इति श्रुत्यर्थः । अप्ययस्य प्राप्तिरूपत्वात् सारे आत्मानमिति द्वितीयानिर्देशः । अप्ययस्य स्थानसापेक्षत्वात् स्वस्मिन् प्रलीन इत्युक्तं भाष्ये । एकस्य परमात्मनः स्थानस्थानिभावव्यपदेशश्चांश-भेदाभिप्रायः, घटादेर्लयस्थानस्य घटानुपयुक्तस्यापि पृथिव्यंशस्य हि कारणजातीयत्वात् कारणत्वम्, ब्रह्मणि तु

1.1.10

जीवविशेषविशिष्टतदितरांशभेदेन स्थानस्थानिभावो धर्म्यैक्यात्कारणत्वम्, कारणावस्थान्वयिनि धर्मिण्यन्तर्भावः सर्वत्र समानः, औपाधिकाकाराभिमानानुगुणज्ञानविकासवज्जीवविशिष्टया कार्यावस्था, अतदभिमानजीवविशि-ष्टता कारणावस्था, तत्र लयस्थानभूतस्य परमात्मनः कारणवस्थापेक्षया लीयमानांशस्य विसदृशावस्था हि नाम-रूपाद्यौपाधिकाकाराभिमानानुगुणज्ञानप्रसरवज्जीवविशिष्टता, तस्मादौपाधिकाकारानभिमानजीवविशिष्टतारूप-कारणावस्थाश्रये स्वात्मन्यवस्थानं स्वाप्यय इत्युपपन्नम् । अत एव जीवस्य नित्यत्वाविरोधश्च, ज्ञानसङ्कोचवि-कासविशेषव्यतिरेकेण जीवत्वप्रहाणाभावात् । आमोक्षाज्जीवभावस्य स्थिरत्वं हि परैरप्यभ्युपेयम्, अतस्तदविरोधेन स्वाप्ययो वर्णनीयः, तदानीं "प्राज्ञेनात्मना सम्परिष्वक्त" इति भेदप्रतिपादनाविरोधश्चैवं सति भवति, एवंविध एव प्रलयो महाप्रलयोऽपीत्यभ्युपगन्तव्यम्, जीवबहुत्वानादित्वकर्मवासनाविशेषस्थित्युपगमेन वैषम्यनैर्घृण्यादेः परि-हर्त्तव्यत्वात् । न च "न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते" इति ज्ञाननित्यत्वश्रुतिविरोधः, तस्य सङ्कोचमात्र-वतस्तुच्छत्वाभावात् । न च प्रसरोपलम्भयोरभावात् ज्ञानद्रव्यस्य तुच्छत्वं शङ्कनीयम्, न ह्यनुल्लङ्घितरत्नप्रभायाः प्रसरोपलम्भाभावान्नास्तित्वम् "यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा" इति हि स्मृतिः । आत्यन्तिकप्रलयेऽपि यथोक्तप्रकार उपपद्यते, तदानीं नामरूपाद्यौपाधिकाकाराभिमान-रूपविसदृशाप्रहाणेन कारणावस्थे परमात्मन्यवस्थानात् औपाधिकाकाराभिमानार्हत्वरूपकार्यावस्थाविरहितजीव-विशिष्यत्वं हि परस्य कारणावस्थत्वम्, विकृतिविरहितजीवविशिष्टत्वमिति यावत् । तन्महाप्रलये मुक्तौच समानम् । ननु "प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" इति सुषुप्तौ प्राज्ञत्वाज्ञत्वरूपवैषम्यावगमात् मोक्षे चेश्वरत्वेशितव्यत्वादिवैषम्यस्थित्यभ्युपगमात् भवदभिमतप्रलयप्रकारोऽनुपपन्न इति । नैवम्; कारणावस्थामपेक्ष्य विसदृशावस्थाया विवक्षितत्वात्, नामरूपाद्यौपाधिकाकाराभिमानविरहितजीवविशिष्टता कारणावस्था, तदपेक्षया विसदृशावस्था च तादृगभिमानवज्जीवविशिष्टता । तत्प्रहाणस्य चात्र विद्यमानत्वात् सुषुप्तौ लय उपपन्नः । मोक्षे चेशितव्यत्वाकारेण वैषम्यं नात्यन्तिकप्रलयविरोधि, ईशितव्यवताया अवस्थारूपत्वाभावात्, कादाचित्कधर्मो ह्यवस्था, ईशितव्यत्वादि तु नित्यम्, "स ईशोऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय" "यस्यात्मा शरीरम्" "य आत्मानमन्तरो यमयति" इत्यादिश्रुतेः । अतो नेशितव्यत्वादिकमवस्थेति वैधर्म्यरूपस्यापि तस्याप्रहाणं न दोषः, अतो यथोक्त एव स्वाप्ययः । सौत्रं हेतुं परमसाध्येन सङ्गमयति - तस्मादिति । अप्ययस्थानस्य परमकारणत्वायाह परं ब्रह्मेति । जीवव्यावृत्त्यर्थं सर्वज्ञशब्दः । "प्राज्ञेनात्मने"ति हि श्रुतिः । "तदैक्षते"त्येतत्सम्वादिनी । अप्ययेऽपि जीवनियन्तृत्वज्ञापनार्थमीश्वरोत्तीणर्तत्त्वव्युदासार्थं च परमेश्वरशब्दः । सुषुप्तपुरुषवैलक्षण्यपरो देवताविशेषपरश्च पुरुषोत्तमशब्दः । व्याख्यानान्तरव्यावृत्त्यर्थमाह - तदाहेति । सम्पत्त्यसम्पत्तिभ्यामिति "सति सम्पद्य न विदुः सति सम्पत्स्यामहे" इति सत आगम्य न विदुः सत आगच्छामह इत्युक्ताभ्यां सम्पत्तिनिर्गमाभ्यामित्यर्थः । यद्वा परमात्मनि

1.1.12

सम्पत्त्या अन्यत्र असम्पत्त्या चेत्यर्थः । स्वाप्ययशब्देनासम्पत्तिरप्यभिप्रेतेति वृत्तिकारस्य भावः । एतत्-परब्रह्मका-रणत्वमित्यर्थः ।।

पूर्वसूत्रे "प्राज्ञेनात्मने"त्यादेः सुषुप्तिविषयस्य श्रुत्यन्तरस्य प्रकृतार्थोपपादकतया बुद्धिस्थत्वात् कारणस्य पर-मात्मत्वमपि कारणविषयैः श्रुत्यन्तरैरुपपाद्यते -

गतिसामान्यात् ।। पूर्वं "गौणश्चेन्नात्मशब्दा "दित्युक्तत्वादात्मशब्दवतीः श्रुतीरुदाहरति - आत्मा वा इत्यादिना तस्य ह वा एतस्येत्यत्रापि आत्मशब्दः श्रूयते, आत्मावारे द्रष्टव्यः आत्मनि खल्वरे दष्टे, योन्यन्त्रात्मनः सर्वं वेद इति च प्रवृत्तिश तस्य ह वा एतस्येत्यत्रात्मनस्सर्वं वेद" इति च । गतिशब्दं व्याचष्टे - प्रवृत्तिरिति । बोधनव्यापारपरः प्रवृत्तिशब्दः, "भिन्नप्रवृत्तिनिमित्तानाम्" इत्यत्रप्रवृत्तिशब्दवत् । समानत्वमर्थद्वारकमित्याह - तत्समानेति । ततः किमित्यत्राह - तेषु चेति । ततोऽपि किमित्यत्राह - तस्मादिति ।। न केवलमुपनिषदन्तरेषु, अत्रैव सर्वेश्वरकारणत्वं स्फुटमित्याह-

श्रुतत्वाच्च ।। आत्मत्वेन नामरूपव्याकर्तृत्वं दर्शयति - अनेन जीवेनेति । सर्वज्ञत्वसर्वशक्तित्वे "तदैक्षत बहु स्याम्" इत्यादिवाक्येन पूर्वमेव दर्शिते, सन्मूला इति सूचिते च । आधारत्वं दर्शयति-सदायतना इति, यच्चास्येति च । धारकत्वं चात्मत्वेनेति दर्शयति - ऐतदात्म्यमिति । न ह्यत्र कारणतया कार्याधारत्वमात्रं विवक्षितमिति भावः । यच्चेत्यादिकं सत्यकामत्वप्रतिपादनोपयुक्तञ्च । अपहतपाप्मत्वादिगुणान् दशर्यति - एष आत्मेति । उक्तगुणवैश-द्यार्थमनुक्तगुणदर्शनार्थं तद्वत ईश्वरत्वदेवताविशेषत्वस्फुटीकरणार्थं च पूर्वसूत्राभिप्रेतान्यनुदाहृतानि श्रुत्यन्तराण्यु-दाहरति - तथा चेति । न त्वेतत्सूत्रविषयवाक्यत्वेन, अस्य सूत्रस्य छान्दोग्योपनिषन्मात्रविषयत्वं दीपसारयोरपि

1.1.12

ह्युक्तम् "श्रुतमेव ह्यस्यामेवोपनिषदि" इति । नात्र क्रमविवक्षा । लिङ्गम्-शरीरम् । नाशब्दमित्युपक्रमसूत्रानुरोधेन प्रधानस्याप्रतिपाद्यत्वं निगमयति - तस्मादिति । तेन फलितं ब्रह्मणः प्रतिपाद्यत्वं निगमयति - अत इति । सर्व-ज्ञत्वादयस्सर्गादिकारणत्वोपयोगिगुणाः । शोधकवाक्योक्तगुणा निरस्तनिखिलेत्यादिनोक्ताः । अनवधिकेत्यादिना पुरुषार्थत्वञ्च दर्शितम्, ओघशब्दोऽस्ति चेत् गुणानामन्यत्रापर्यवसायित्वं दर्शयति, महार्णवशब्दो गुणेभ्योऽपि तदाश्रयस्य महत्वं दर्शयति । पुरुषोत्तमनारायणशब्दौ पुरुषसूक्तनारायणानुवाकसिद्धविशेषपर्यवसायित्वं कारण-शोधकवाक्यानां दशर्यन्तौ चिदचिद्विलक्षणत्वं तच्छरीरकत्वं च दर्शयतः । निखिलजगदेककारणमिति - निखि-लशब्देन गगनादिकमपि कबलीकृतम् । एकशब्देन निमित्तोपादानत्वे अभिप्रेते ।

एषां सूत्राणां ब्रह्माज्ञानवादिनोऽननुगुणत्वं पूर्वमुक्तं विस्तरेणाह - अत एवेति । सूत्रकारेणेति - न्यायनिब-न्धनकृतेत्यभिप्रायः । आभिरित्यर्थप्रत्यायकत्वं विवक्षितम्; न्यायानुगृहीताभिर्विशदार्थाभिः श्रुतिभिरिति भावः । किञ्च प्रामाणिकस्याप्रामाणिकत्वाभिमानादपसिद्धान्तता सिद्धान्तस्यापि भ्रान्तिमूलत्वादप्रामाणिकता च लोके दृष्टेति तदुभयव्यवच्छेदार्थस्सूत्रकारश्रुत्योर्निर्देशः । निरस्तो वेदितव्य इति - निरासः फलित इत्यर्थः । अत एवेत्युक्तं विवृणोति - पारमार्थिकेति । ईक्षणस्यापारमार्थिकत्वे साङ्ख्याभिमतं प्रधानमेव ब्रह्म स्यात्, शुक्तित्वापारमार्थ्ये हि रजतमेव परमार्थः स्यादिति साङ्खयनिरासोऽनुपपन्नः स्यादिति पारमाथिर्कशब्दाभिप्रायः । सच्छब्दोक्तस्वरूपस्य संशयसहत्वात्तदतिरिक्तेन व्यावर्त्तकेन भाव्यमिति गुणशब्दस्य भावः । अतस्सदादिशब्दानां साङ्खयाभिमतप्रधान-परत्वव्यवच्छेदसिद्धयर्थमीक्षणादिगुणतत्पारमार्थिकत्वविवक्षावद्भिस्सूत्रैः निर्विशेषनिरासः फलित इत्यर्थः । "तदैक्षत" इत्यादिवाक्यानि साक्षित्वमात्रपराणि, न तु गुणविशेषपराणि । साक्षित्वमात्रेणापि सूत्राभिमता प्रधानव्यावृत्तिः

1.1.12

सिध्यतीत्यत्राह - निर्विशेषेति । सच्छब्दोपस्थापितविमतिपदस्वरूपातिरेकेण साक्षित्वमप्यपारमार्थिकं त्वन्मत इत्यर्थः। ज्ञातृत्वाभावे साक्षित्वमपि न सिध्यतीति प्रागेवोक्तमित्यपिशब्दाभिप्रायः । अपारमार्थिकत्वे किं स्यादि-त्यत्राह - वेदान्तेति । न ह्यारोपिताकारस्तत्त्वावेदकप्रमाणविषयः, न चार्वाचीनं ब्रह्म जिज्ञास्यतया प्रतिज्ञातमिति भावः । ततः किमित्यत्राह - तच्चेति । ततोऽपि किम् ? न ह्यस्माभिरचेतनमुच्यत इत्यत्राह - चेतनत्वं नाम चैतन्य-गुणयोग इति । ईक्षितृत्वं हि न चिद्रूपतामात्रमित्यभिप्रायः । निर्विशेषनिरासस्य फलितत्वं निगमयति-अत इति । न ह्यत्र चिद्रूपमात्रेण प्रधानव्यावृत्तिः सूत्रिता, अपि त्वीक्षणगुणयोगेन तदनभ्युपगच्छतो व्यावर्तकाभावे व्यावृत्तिरेव न स्यादित्यर्थः । पारमार्थिकेत्यादिना एतदधिकरणविरोध उक्तः । वेदान्तेत्यादिना पूर्वाधिकरणैर्विरोध उक्तः । यद्वा स्वरूपमेव साक्षित्वं न धर्मः, अतो नापारमार्थिकमित्यत्राह - वेदान्तेति । स्वरूपमेव चेत्तत्पूर्वसूत्रैः सिद्धमिति प्रति-पाद्याधिक्याभावात् "ईक्षते"रित्यादिसूत्र वैयर्थ्यमित्यभिप्रायः । स्वरूपविशेषोऽप्रतिपन्न इति चेत् किं स्वरूपमेव विशेषः ? उत स्वरूपस्य विशेषः ? प्रथमे प्रागुक्तदोषः । द्वितीये सविशेषत्वम् । पूर्वसूत्रेषु ब्रह्म कार-णात्मना सिद्धम्, न तु चेतनरूपेण; अतः "ईक्षते"रित्यादिसूत्राणामारम्भणीयत्वमिति शङ्कायां चेतनरूपेणप्रतिपाद्यत्वमभ्युपगच्छन्नाह-तच्चेति । चेतनतया प्रधानव्यावृत्तिश्चैतन्यगुणविरहे न सिध्यतीति वक्तुं चेतनत्वं शोधयति- चेतनत्वं नामेति । गुण-शब्दो धर्मपरः । ततः किमित्यत्राह- अत इति । व्यावर्तकाभावाद्रव्यावृत्त्यसिद्धिरित्यर्थः । चेतनशब्दस्य स्वरूप-मात्रपरत्वे अधिकरणारम्भवैयर्थ्यमर्थसिद्धम्, न प्रधानतुल्यत्वम्, प्रकाशत्वाभ्युपगमात्; यथा आत्मधर्मभूतज्ञानस्य ज्ञानान्तरायोगेऽप्यचिद्व्यावृत्तिस्त्वन्मते तद्वदित्यत्राह - किञ्चेति । कथं दुरुपपादत्वमित्यत्राह प्रकाशो हीति । व्यवहारयोग्यता-व्यवहारप्रतिसम्बन्धिता । तदुभयरूपत्वाभावात् स्वव्यवहारहेतुत्वपरव्यवहारहेतुत्वाभावादित्यर्थः । अथ तदुभयक्षमत्वं शङ्कते- तदुभयेति । तत्क्षमत्वमभ्युपगम्य दूषणमाह - तन्नेति । परस्य अग-तित्वं दर्शयितुमाह - अथेति । परिहरति - हन्त तर्हीति । तत्क्षमत्वमेव नास्तीत्याह - शक्तिमत्त्वं चेति । कार्य-

1.1.12

विशेषस्य निष्प्रमाणकत्वे-स्वपरव्यवहारयोग्यतापादनाभावे, निरूपकाभावे निरूप्याभाव इत्यर्थः । वस्तुत्वे सम्भ-वत्यपि प्रधानतुल्यत्वमुक्तम् । अथ वस्तुत्वमेव न सिध्यतीत्याह - किञ्चेति । वस्तुत्वम्-तुच्छव्यावृत्तत्वम् । कुत इत्यत्राह - प्रत्यक्षेति । प्रत्यक्षान्तर्भूतस्यापि स्वानुभवस्य पृथक्प्रमाणत्वं परमताभ्युपगमेनोक्तम् । सविशेषगोचराः-वस्तुतः सविशेषभूतार्थगोचरा इत्यर्थः । वस्तुत्वं चिदचित्साधारणम् । तच्च तुच्छव्यावृत्तत्वम्, तन्न सिध्यतीत्यर्थः । परपक्षदूषणानन्तरं स्वपक्षं निगमयति - तस्मादिति । परैस्त्वेवं सूत्रयोजना कृता, प्रधानं न प्रतिपाद्यम्, अशब्दं हि तत्, शब्देन प्रतिपादयितुमशक्यं हि तत्, अश-क्तवञ्च ईक्षतिश्रवणादितिक्य नैषोचिता प्रतिज्ञावाक्ये धर्म्युपस्थापकशब्दस्याध्याहार्यत्वात् अशब्दं हि तदित्युक्तेऽपि हेत्वन्तरसाकाङ्क्षत्वाच्च । "नानुमानमतच्छब्दात्" "आनुमानिकमप्येकेषेम्" इत्यादिसूत्रेषु आनुमानिकादिशब्दव-दशब्दशब्दस्याप्यवयवार्थमुखेन धर्म्युपस्थापनक्षमतया अध्याहारनिरपेक्षत्वादवयवशक्तयैवानुमानाकारावगमरूप-पूर्वपक्षबीजस्य सूत्रेणैव द्योतमानत्वसिद्धेश्च भाष्यकाराभिमता योजना साधीयसी "गौणश्चेन्नात्मशब्दात्" इत्यत्रा-त्मशब्दस्य स्वरूपपरत्वमाश्रित्य जीवं निर्दिश्य सच्छब्दवाच्यस्य स्वरूपत्वेन व्यपदेशादगौणमीक्षणमित्यप्ययुक्तम्, तस्यामोधेक्षणत्वायोगात् सूत्रास्वारस्याच्च । न हि गौणश्चेन्न जीवशब्दादित्युक्तम् स्वरूपपर आत्मशब्दस्सापेक्षः, जीववाचिपदसमभिव्याहारेण विना तस्याचिद्रव्यावर्त्तनासामर्थ्यात् । चेतनपरस्त्वात्मशब्दः "ऐतदात्म्यमिदं सर्वम्" इति चिदचिदात्मकसमस्तप्रपञ्चं प्रत्यात्मत्वं दर्शयन्नचिद्य्वावर्त्तनेऽतीव निराकाङ्क्षः, अतः साकाङ्क्षहेतुनिर्देशादपि निरा-काङ्क्षहेतुनिर्देशो वरमिति तस्यापि सूत्रस्य यथोक्त एवार्थः । चिदचिदात्मकसमस्तजगदन्तरात्मवाचिन आत्मशब्दस्य "ममात्मा भद्रसेन" इतिवन्मुख्यार्थानुपपत्त्यभावेन गौणत्वशङ्कानुदयादात्मशब्दो न गौण इति प्रतिज्ञावाक्यान्तर-

1.1.12

निरपेक्षत्वाच्च तृतीयं सूत्रमपि परमसाध्यहेतुवाचीति युक्तम् । सर्ववेदान्तनामैककण्ठ्यं दर्शयता गतिसामान्यसू- त्रेणैव श्वेताश्वतरवाक्यस्यापि क्रोडीकृतत्वात् श्वेताश्वतरवाक्यस्य "श्रुतत्वात्" इति सूत्रविषयत्वाश्रयणमयुक्तम् । यत्तूक्तं यादवप्रकाशीयैः सता सम्पन्न इति सत्प्राप्तिमात्रमुक्तम्, न त्वैक्यम्, सच्छब्दस्य प्रधानपरत्वेऽपि सति सम्पत्तिर्घटते स्वाप्ययश्च सर्वेषां जीवानां पृथक् पृथक् स्वस्मिन्नप्ययो भवत्विति शङ्कापरिहाराय सुषुप्तौ सर्वजीवानां गन्तव्यस्य वस्तुन एकत्वम्, तत्र सति तेषामैक्यापत्तिश्च गतिसामान्यसूत्रेणोच्यते । विषयश्च "यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवराहमेकतां रसङ्गमयन्ति ते यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्मि अमुष्याहं वृक्षस्य रसोऽस्मीति एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः" इति वाक्यमिति । तदप्ययुक्तम् । तथा हि; दृष्टान्तानुगृहीतमेकतामवगमयत् "सति सम्पद्य" इत्यादि वाक्यं किं कारणत्वमुपजीव्य सतः प्रधानत्वव्युदासकम् ? उत कारणत्वमनुपजीव्य ? प्रथमे गतिसामान्यसूत्रवैयर्थ्यं स्यात्, स्वाप्ययस्य कारणत्वापत्तिरूपतया स्वाप्ययसूत्रेणैव प्रधानत्वव्युदाससिद्धेः । दृष्टान्तवैघट्यञ्च, बहूनां रसानामे-कस्मिन् कारणे लयस्य निदर्शितत्वाभावात् । रसवतामवयवानां मधुरत्वरूपेण समानरसत्वापत्तिरेव हि तत्र दृश्यते । द्वितीये च जीवानां कीदृशमेकत्वं सतः प्रधानत्वव्युदासकम्, न तावज्जीवत्वप्रहाणेन सतैकत्वम् जीवत्वप्रहाणस्य भवतानभ्युपगमात् जीवनित्यत्वश्रुतिविरोधात् "प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" इति अज्ञस्य जीवस्य तदा प्राज्ञाधिष्ठितत्वश्रवणविरोधात् पुनरपि व्यवस्थितकर्मफलभोगाद्यनुपपत्तेश्च । न च सद्रूपेणैक-त्वम्, तज्जाग्रद्दशायामप्यस्तीति तदानीमिव जीवानां स्वापे स्वस्वरूपावस्थानप्रधानसंसर्गयोरविरोधादभिमतासिद्धेः । न च देवत्वमनुष्यत्वरागद्वेषादिबाह्याभ्यन्तरविकल्पाभिमानविरहेणैकत्वम्, तस्यापि स्वस्वरूपावस्थानप्रधानसंसर्ग-योरविरोधित्वेन सम्पत्त्यप्ययाधिकरणस्य स्वस्वरूपप्रधान व्यतिरेकासिद्धेः, अतः सूत्रवैयर्थ्यशङ्कापरिहारासिद्धयो-रन्यतरावश्यम्भावात् परोक्तार्थपरत्वं सूत्रस्यायुक्तम् । यच्च श्रुतत्वादिति सूत्रस्य प्रतिज्ञावाक्यप्रभृति "स एषोऽ-णिमा""ऐतदात्म्य"मित्यादिवाक्यजातं विषयतयोपात्तम् । तदप्ययुक्तम्, प्रतिज्ञाविरोधात्" "नात्मशब्दात्" इत्यादिभिः सौत्रपदैरस्य पुनरुक्तिप्रसङ्गात्, अतः सूत्राणां यथोक्त एवार्थः ।

अथोत्तराधिकरणस्य पूर्वाधिकरणेन सङ्गतिमाह - एवं जिज्ञासितस्येति । जगत्कारणस्य निरूपणीयत्वे चतु-स्सूत्र्या सिद्धे प्रत्यक्षादिसिद्धतया प्रसिध्द्यतिशयादचेतने प्रथममतरन्ति । बुद्धिरीक्षणादिभिस्ततो व्यावर्त्य चेतन-वस्त्वभिमिमुरवीकृता । इदानीमचेतनापेक्षया प्रसिद्धिमान्द्येऽपि परमात्मापेक्षया प्रसिद्धतरेऽहम्प्रत्ययसिद्धे प्रत्य-गात्मन्यवतरन्ती बुद्धिर्व्यावर्त्यत इत्यर्थः ।

1.1.13

आनन्दमयोऽभ्यासात् ।। कारणविषयस्य "तस्माद्वा एतस्मादात्मनः" इति वाक्यस्योत्तरत्र चोद्यपरिहारमुखेन उदाहरिष्यमाणत्वात् प्रथममात्मशब्दव्याख्यानोपक्रमभूतं "स वा एष पुरुषः" इत्यादिकमुपात्तम्, अत एव हि प्रबन्धान्तरे "तस्माद्वा" इत्यादिकमुदाहृतम् । तत्रेति - शारीरत्वानन्दप्राचुर्याभ्यां संशय इत्यभिप्रायः । सद्विद्यायां "जीवेनात्मने"तिसमानाधिकरण्यमत्र पूर्वपक्षोत्थानबीजमिति सूचनार्थं जीवशब्दाभिलपनीयादितिपदम् । किं कारणवादिनः सर्वे वेदान्ताः परिशुद्धप्रत्यगात्मस्वरूपपराः, उत तद्विलक्षणपराः । इति प्रथमविचारः । तदर्थमा-नन्दमयः किं परिशुद्धावस्थः प्रत्यगात्मा; उत परमात्मा ? इति । तदर्थमिह प्रतिपन्नः शारीरसम्बन्धः किं जीवा-त्मासाधारणः उत न ? तदर्थं मयट् किं स्वार्थकत्वविकाराथर्कत्वयोरन्यतरवान्; उत प्राचुर्यार्थः तदर्थं किं विका-राद्यर्थानुगुण हेतवः अनुरोद्दव्याः उत प्राचुर्याद्यर्थानुगुणहेतवः ? विज्ञानमयशब्दः किं विज्ञानमात्रपरः, उत जीवपरः ?

1.1.13

तदर्थं तत्र मयट् किं स्वार्थिकः ? उत न ? तदर्थं "विज्ञानं यज्ञं तनुते" इति विज्ञानशब्दः किं ज्ञानमात्रे वर्त्तते, उत ज्ञानगुणके प्रत्यगात्मनि ? इति । पूर्वे कल्पाः पूर्वपक्षाः, इतरे तु सिद्धान्ताः । यदा विकारार्थत्वाद्यनुगुणहेतोरनुरोद्ध-व्यत्वेन मयट् स्वार्थिको विकारार्थो वा भवति, तदा निरतिशयप्राचुर्याप्रतिपत्तेरानन्दमात्रस्य जीवे सम्भवात्स्वतो जीवानुगुणतया प्रतिपन्नस्य शरीरसम्बन्धस्य जीवासाधारणत्वे विरोधाभावादानन्दमयो जीवः, यदा च श्लोकस्थ-विज्ञानशब्दो विज्ञानमात्रपरः तदा विज्ञानमयशब्दस्यापि स्वार्थिकमयडन्तत्वेन विज्ञानमात्रपरत्वाद्विज्ञानशब्दस्य बुद्धिपरत्वसम्भवात् तदन्तर आनन्दमयः प्रत्यगात्मेति पूर्वपक्षे फलफलिभावः । राद्धान्ते तु यदा प्राचुर्यार्थानुगुण-हेतोरनुरोद्धव्यत्वेनानन्दमय इत्यत्र मयट् प्राचुर्यार्थः, तदानीमानन्दप्राचुर्यस्य निरवधिकतयाऽवगतस्य श्रुतिविरुद्धा-श्रुतोपाधिकल्पनायोगेन स्वतो निरतिशयस्य जीवात्मन्यसम्भवात्तद्विरोधेन शरीरसम्बन्धस्य जीवासाधारणकर्ममूल-त्वाभावाच्च नानन्दमयः प्रत्यगात्मा, यदा च श्लोकस्थविज्ञानशब्दो विज्ञानगुणके प्रत्यगात्मनि वर्तते तदा विज्ञान-मयशब्दस्यापि प्राचुर्याथर्मयडन्ततया प्रत्यगात्मवाचित्वाच्च तदन्तर आनन्दमयः परमात्मेति फलफलिभावः । पूर्वपक्षो-त्थानमाक्षिपति - ननु चेति । सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्येति । अनेन जगत्कारणप्रकरणस्याविच्छित्तिर्द्यो-तिता । तदेव जगत्कारणमिति वक्ष्यमाणपर्यालोचनया विभूतिप्रकर्षाधीनातिशयितानन्दस्याश्रयत्वोपपादकं सकल-जगत्कारणत्वमिति भावः । ततः किमित्याह - जगत्कारणञ्चेति । ज्ञानशक्तयुपयोगज्ञापनाय जगत्कारणमिति पुन-रुपादानम् । परिहरति - सत्यमिति चेतनत्वादावभ्युपगमः, जीवादतिरेके विवादः । सामानाधिकरण्यनिर्द्देशोऽस्तु, ततः किं जीवादवैलक्षण्यस्येत्यत्राह सामानाधिकरण्यमिति । ईक्षतिश्रवणाज्जीवविलक्षणत्वमुक्तमित्यत्राह - ईक्षेति । उपपद्यत एवेत्येवकारः अस्वारस्यसूचकः । साक्षित्वमेव ईक्षितृत्वमिति भावः । "भेदव्यपदेशाच्च" इति भेदव्यदेशं सिद्धान्तहेतुं वदता सूत्रकारेण ऐक्यव्यपदेशस्य पूर्वपक्षहेतुत्वं विवक्षितमित्यवगम्यते; एवमुत्थानोपपत्तेः सौत्रहेतुवशाच्च ऐक्यव्यपदेशः पूर्वपक्षहेतु-तयोपन्यस्तः । एवं पूर्वाधिकरणेन जीवव्यतिरेकासिद्धेरधिकरणान्तरमारम्भणीयमिति -भावः । ननु "ब्रह्मविदाप्नोति पर"मित्यत्र ब्रह्म प्राप्य श्रूयते, अनन्तरं लक्षणं कथ्यते, तत्र सत्यत्वमानन्त्यञ्चान्तर्भूतम् ।

1.1.13

जीवस्य नित्यप्राप्तत्वात् प्राप्यत्वमनुपपन्नम्, ज्ञातत्वाल्लक्षणञ्च न वाच्यम्; सत्यत्वानन्तत्वरूपलक्षणविशेषश्च नैकरूपज्ञानस्य परिच्छिन्नस्य नोपपद्यते, अतः परमात्मैव प्रतिपाद्यत इति शङ्कां परिहरन् पूर्वपक्षमाह - अतो ब्रह्मविदिति । अतश्शारीरत्वश्रवणात्सामानाधिकरण्यबलेनैक्यस्य प्रतिपन्नत्वाच्चाचिद्वियुक्तस्वरूपप्राप्यतापरत्वं कल्प्यमित्यर्थः । लक्षणकथनं तत्प्रतिपत्त्यर्थं तद्विशेषोक्तिश्च अचिद्वियुक्ते स्वरूपे सम्भवतीत्याह - अचिद्वियुक्तेति । न केवलं शारीरत्वसामानाधिकरण्यबलादचिद्वियुक्तस्वरूपस्य प्राप्यत्वम्, किन्तु कण्ठोक्तं चेत्याह - तद्रूपेति । हिशब्दः श्रुतिप्रसिद्धिद्योतकः । यद्वा स्वरूपस्यैवौपाधिकाकारनिवृत्तिमात्रपरमोक्षशब्दस्वारस्यसूचकः । श्रुतिमेव दर्शयति - न ह वा इति । इति-श्रवणादिति शेषः । प्राप्यत्वानुगुणपुरुषार्थतां दर्शयन् निगमयति - अत इति । ननु नात्राचिद्वियुक्तजीवस्वरूपमुपदिश्यते "स वा एष पुरुषोऽन्नरसमयः" इति शरीरसम्बन्धश्रवणादपरिच्छिन्नानन्दत्व-श्रवणाच्चेत्यत्राह - तथा हीति । शरीरमुपलक्षणमात्रम्, न तु विशेषणमिति तद्वियोगेनापरिच्छिन्नानन्दत्वादिक-मुपदिश्यत इत्यर्थः । तदन्तरभूतां च बुद्धिमिति - प्राणमयमनोमययोर्मयट्प्रत्ययस्य स्वार्थिकत्वाद्विज्ञानमय इत्य-त्रापि मयट् स्वार्थिकः, "विज्ञानं यज्ञं तनुते" इति मयडन्तत्वं विना वक्ष्यमाणत्वात्, "विज्ञानसाथिर्यस्तु" "बुदिं्ध तु सारथिं विद्धि" इति बुद्धिविज्ञानशब्दयोरेकार्थत्वेन प्रयोगाच्च, विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानं बुद्धिरिति भावः । किमर्थमन्नमयादिनिर्देश इत्यत्राह - तत्र तत्र बुध्द्यवतरणेति । अपरिच्छिन्नानन्दत्वमपि परिशुद्धात्मस्वरूपस्य सम्भ-वतीत्यर्थसिद्धम् । शारीरत्वश्रवणात् जीवसामानाधिकरण्याद्विज्ञानमयशब्दस्यान्तः करणपरत्वात्प्राप्यत्वादेः परिशु-द्धस्वरूपेऽप्युपपन्नत्वाच्छरीरस्योपलक्षणत्वेन तद्वियुक्तस्वरूपेण प्राप्यत्वादिसम्भवान्मयट्प्रत्ययस्य स्वार्थिकत्वेन विकारपरत्वाभावाच्च परिशुद्धप्रत्यगा-त्मस्वरूपविषयमिदं वाक्यमिति पूर्वपक्षसङ्ग्रहः, तत्र द्वौ हेतू साधकौ, अन्ये तु शङ्कितदूषणान्यथासिद्धिरूपाः ।।

1.1.13

एवमानन्दमयशब्दस्य प्रत्यगात्मपरत्ववादिनं पूर्वपक्षिणं साङ्खयं मृषावादिपक्षस्थश्चोदयति - ननु चेति । तस्य पुच्छमिति षष्ठयाऽवयविसम्बन्धप्रतीतेस्सम्बन्धस्य द्विनिष्ठतया प्रतिष्ठातद्वद्भावेन च व्यतिरेकावगमादन्यत्वमि- त्यर्थः । परिहरति - नैवमिति । "अन्वयं पुरुषविधः" इति श्रुतिवाक्यस्मरणार्थं पुरुषविधत्वरूपितमित्युक्तम् । पुरुषविधत्वेन रूपितम् । अनतिरिक्तत्वमुपपादयति - यथेति । प्रकरणे स्वस्मादनतिरिक्तैस्स्वावयवैः पुच्छप्रति-ष्ठात्वरूपणदर्शनादत्रापि पुच्छप्रतिष्ठात्वेन रूपितं ब्रह्म आनन्दमयादनतिरिक्तमित्यर्थः । षष्ठीनिर्देशः समुदाय-तदेकदेशत्वनिबन्धनतयोपपन्न इति भावः । ननु "आनन्द आत्मा" इत्यानन्दोऽवयवित्वेन रूपितः, न त्ववयवत्वेन तत्कथमुच्यते अवयवत्वेन रूपितानां पि#्रयमोदप्रमोदानन्दानामिति । नैष दोषः, आत्मशब्दस्य स्ववाचित्वाभावात् । कायस्य मध्यभागो ह्यात्मशब्दवाच्यः "दशहस्त्या अङ्गुलयो दशपाद्या द्वावू डिग्री द्वौ बाहू पञ्चविंश आत्मा" इत्यादौ तथा प्रयोगदर्शनात् । अत एव तस्यानन्द आत्मेति षष्ठया व्यतिरेकनिर्देशस्वारस्यं सिध्यति, तस्मादानन्दो मध्य-भागत्वेन रूपितः । नन्वेवमपि पुच्छतया निर्दिष्टं ब्रह्मेत्यङ्गीकृतं स्यात् । ततः किम् ? तर्हि किं निरसनीयम् ? आ-नन्दमयस्याब्रह्मत्वम्; अतस्तन्निरासमुखेन पुच्छस्य तदन्तर्भावो अभिधीयते । हेत्वन्तरमाह - यदि चेति । ननु तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्मेत्यन्तरात्मतयैव भेदो वक्तव्य इति न ह्यस्ति नियमः, "पृथ-गात्मानं प्रेरितारम्" "पतिं विश्वस्य" इत्यादिवत् व्यावर्त्तकाकारान्तरेणाप्यन्यत्वप्रतिपादनसम्भवादित्याशङ्कयाह - एतदुक्तमिति । प्रकरणस्य तत्तदन्तरतयैवान्यत्वप्रतिपादनपरत्वात् तत्प्रकरणस्थेन वाक्येन तादृशेन भवितव्यमि- त्यर्थः । आत्मशब्दस्य श्रुत्यैव व्याख्यानं कृतमिति कथमवगम्यत इति शङ्कायां स्वोक्तस्य स्वयमेव व्याख्यानं प्रक-

1.1.13

रणसिद्धमिति दर्शयितुमात्मशब्दनिर्दिष्टस्यैव ब्रह्मत्वोपपादनोपयोगितया च "ब्रह्मविदाप्नोती "त्याद्युक्तम् । तत्र ब्रह्मशब्दव्याख्यानं सत्यज्ञानादिवाक्यम् आत्मशब्दव्याख्यानमानन्दमये समाप्तमस्तु ततः किमानन्दमयस्यैव ब्रह्मत्व इति शङ्कायां ब्रह्मशब्देन प्रकृतस्यैवात्मशब्देन निर्द्दिष्टत्वं दर्शयति - तदेवेति । "तस्माद्वा एतस्मात्" इति । तदेत्त-च्छब्दौ प्रकृतपरामर्शिनावित्यभिप्रायः । पुनश्चोदयति - ननु चेति । पूर्वं प्राधान्येनोक्तानामन्नमयादीनां श्लोकेषु तत्तच्छब्दैरेव निर्द्देशो दृष्टः, एवमत्राप्यानन्दमयः प्रधानश्चेत्तद्विषयश्लोकेऽपि तच्छब्देनैव निर्द्देष्टव्यम् । यद्वा यद्या-नन्दमये आत्मशब्दव्याख्यानपरिसमाप्तिः तर्ह्यात्मशब्देन निर्देष्टव्यम्, तथा च न कृतम्, अपि तु ब्रह्मशब्देन निर्दि- ष्टम् । तस्मादानन्दमयस्य न प्राधान्यम् अतः पुच्छब्रह्मैव प्रधानप्रतिपाद्यमित्यर्थः । ब्रह्मशब्दस्यानन्दमयविषयत्वे सिद्धे ब्रह्मशब्देन निर्देशो न दोष इति शङ्कामर्थात्परिहरन् युक्तयन्तरमाह - न चानन्दमयस्येति । आशङ्काशब्देनोदा-हृतश्रुतिवाक्यद्वयस्थः चेदर्थो व्याख्यातः । सर्वलोकप्रसिद्धस्य दुरपह्नवत्वेनासद्भाव इव सद्भावेऽप्याशङ्कावादो न युक्त इत्यर्थः । परिहरति - नैवमिति । ब्रह्मात्मानन्दमयशब्दानामैकार्थ्ये निश्चिते आनन्दमयशब्दनिर्देशसमो ब्रह्म-शब्दनिर्देश इति स्फुटमितिबुद्ध्वा आनन्दमयप्राधान्ये युक्तिमाह - इदं पुच्छमिति । प्रकरणस्थपूर्वश्लोकानां पुच्छ-मात्रप्रतिपादनपरत्वाभावादयमपि श्लोको न पुच्छमात्रप्रतिपादनपर इत्यर्थः । प्रसिद्धानन्दस्य सद्भावासद्भावशङ्का-नुपपतिं्त परिहरति - आनन्दमयस्येति । प्रतिबन्दीमभिप्रेत्याह - पुच्छब्रह्मणोऽपीति । "विज्ञानमानन्दं ब्रह्म" "आनन्दो ब्रह्म" इत्यादिवाक्येन ब्रह्मण आनन्दरूपत्वस्योक्तत्वात् आनन्दस्य च प्रसिद्धत्वात् न तस्य सद्भावा-सद्भावज्ञानाशङ्का युक्तेति चोदिते, तस्यानन्दरूपस्य ब्रह्मणोऽविदित्वमपरिच्छिन्नानन्दत्वादेव हि त्वयोपपादनीयम्, तदत्रापि तुल्यमित्यर्थः । शङ्ते - शिरः प्रभृतीति । परिहरति - ब्रह्मण इति । पुच्छत्वम्-अवयवविशेषत्वम् ।

1.1.13

प्रतिष्ठात्वम्-आधारत्वम् । ब्रह्मणोऽवयवित्वमनुपपन्नमिति चेत्, अवयवत्वमप्यनुपपन्नमित्यर्थः । अवयत्वं रूपण-मात्रमिति शङ्कते - अथेति । परिहरति - हन्त तर्हीति । असुखादिति - असुखव्यावृत्तिविशेषाः शिरःप्रभृतित्वेन रूपिता इत्यर्थः । सत्यज्ञानादिवाक्येन सकलेतरव्यावृत्तत्वे सिद्धे किमत्र क्रियत इत्यत्राह - एवञ्चेति । सत्यशब्द-निर्दिष्टस्य ब्रह्मणः कस्यचिद्विकारत्वाभावादानन्दमयशब्दवाच्यत्वमप्ययुक्तमित्यत्राह - ततश्चेति । ततः-उक्तानु-पपत्तीनां परिहृतत्वादुपपत्त्यन्तरसद्भावाच्चेत्यर्थः । किञ्च "सोऽकामयत" इतिवाक्ये स इति पुल्लिङ्गतच्छब्देन कार-णवस्तुनिर्द्देशाच्च आनन्दमयः परं ब्रह्म "तस्माद्वा एतस्मादात्मनः" इत्यात्मशब्दनिर्दिष्टात्माभिप्रायोऽयं पुल्लिङ्गनिर्द्देश इति चेन्न, व्यवहितादव्यवहितस्य ग्राह्यत्वेनानन्दमयस्य ग्राह्यत्वात् "ब्रह्मपुच्छं प्रतिष्ठा" इति वाक्यात्पश्चात्पठितस्य "तस्यैष एव शारीर आत्मा" इतिवाक्यस्थस्यात्मशब्दस्य व्यवधानाभावात्तदभिप्रायः स इति पुल्लिङ्गनिर्देशः, आ-नन्दमयस्त्वेतद्वाक्यापेक्षया व्यवहित इति न स परामृश्यत इति चेन्न; "तस्यैष एव शारीर आत्मा" इति वाक्यस्थ-स्यात्मनः सर्वपर्यायसाधारणत्वेन एतत्पर्यायस्य प्रधानप्रतिपाद्यत्वाभावात् सर्वनामशब्दस्य प्रधानपरामर्शित्वस्वा-रस्याच्च स इत्यानन्दमय एवोच्यते । "विज्ञानं ब्रह्मेति व्यजानात्" "आनन्दो ब्रह्मेति व्यजानात्" इत्यत्र "विज्ञान-मयमात्मानमुपसङ्क्रम्य "आनन्दमयमात्मानमुपसङ्क्रम्य" इत्यत्र च स्थानप्रमाणेनानन्दानन्दमयशब्दयोरेकार्थत्वा-वगमादानन्दशब्दस्य परब्रह्मविषयत्वप्रसिद्धेश्चानन्दमयः परं ब्रह्म । न च "आनन्दो ब्रह्मे"त्यत्रानन्दशब्दोऽप्या-नन्दमयशब्दवत् बाह्यकोशपर इति वाच्यम्, "अन्नं ब्रह्म" "प्राणो ब्रह्म" इत्यादिविज्ञानानन्तरमिव "आनन्दो ब्रह्म" इतिविज्ञानानन्तरं भृगोर्वरुणोपसत्त्यभावात् । न हि "तद्विज्ञाय पुनरेव वरुणां पितरमुपससार" इति पुनः श्रूयते । एतदुक्तं भवति "अन्नं ब्रह्मेति व्यजानात्" इत्यत्र किमन्नाद्युपलक्षितब्रह्मवेदनमुक्तम्; उत अन्नमयादौ ब्रह्मबुध्द्यव-तरणम् ? आद्ये अन्नं ब्रह्मेति ज्ञानानन्तरं वरुणोपसत्तिर्न स्यात्, उपलक्षणभूतेन तेन ब्रह्मणः प्रतिपन्नत्वात् । द्वितीये

1.1.13

ह्यानन्दविषयब्रह्मबुद्धेर्यथार्थत्वं स्यात्, पुनर्वरुणोपसत्त्यभावादिति । किञ्च "आनन्दो ब्रह्मे"त्यत्रानन्दशब्दस्य ब्रह्म-परत्वं युष्माभिरेव व्याख्यातम्, उक्तं हि शं-भा "या तु भार्गवी वारुणी विद्या आनन्दो ब्रह्मेति व्यजानादिति तस्यां मयटोऽश्रवणात् प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्" इति । अतश्च "आनन्दो ब्रह्मे"त्यस्य वाक्यस्य पर-मात्मपरत्वात् स्थानप्रमाणेन "आनन्दमयमात्मान"मित्यत्र आनन्दमयशब्दोऽपि परमात्मपरः । आनन्दमयस्य शोध्यत्वञ्च तदनुगुणसंसारनिर्हरणादिरूपमिति चानुसन्धेयम् । प्रत्यगात्मस्वरूपमेवापरिच्छिन्नानन्दरूपञ्चेत् कथं जीवानां दुःखित्वसुखित्वतारतम्यञ्चोपलभ्यत इति शङ्कां च परिहरन् पूर्वपक्षमुपसंहरति - तस्मादिति । "तस्य प्रियमिति सम्बन्धवाचिन्या षष्ठया व्यतिरेकप्रतीतेर्ब्रह्मविषयस्योपरितनश्लोकस्य आनन्दमयविषयत्वाभावेन पु-च्छतयोक्तब्रह्मण एव प्रधानत्वावगमात्, प्रियमोदादिरूपेण लोकविदितस्यानन्दमयस्य सद्भावासद्भावज्ञानाशङ्का-नुपपत्तेर्निरवयवस्य परमात्मनोऽवयवित्वानुपपत्तेरविकारस्य विकारित्वानुपपत्तेः "तस्यैष एव शारीर आत्मा" इत्या-नन्दमयविषयवाक्यावगतस्यात्मान्तरस्य परमात्मतया आनन्दमयस्य परमात्मत्वानुपपत्तेः "अन्नमयप्राणमयमनो-मयविज्ञानमयानन्दमयो मे शुध्द्यन्ताम्" इति श्रुतस्य शोध्यत्वस्य नित्यशुद्धे परमात्मन्यनुपत्तेश्च नानन्दमयः पर-मात्मा, अपि तु पुच्छतया निर्दिष्टमेव ब्रह्म परमात्मेति पुच्छब्रह्मवादहेतुसङ्ग्रहः । प्रकरणस्य स्वस्मादनतिरिक्तैः स्वावयवैः शिरःपक्षादिरूपणपरत्वात्तदन्तरतया आत्मशब्दव्याख्यानस्यानन्दमये पर्यवसितत्वादन्नमयादिविषयाणां प्रकरणस्थश्लोकनां पुच्छवद्विषयत्वात् कारणत्वप्रतिपादके "सोऽकामयत" इत्यनन्तरवाक्ये स इति पुल्लिङ्गान्तेन प्रधानप्रकृतार्थपरामर्शिना तच्छब्देनाव्यवहितस्यानन्दमयस्यैव वक्तुं युक्तत्वात्, "आनन्दो ब्रह्म" इत्यानन्दशब्दस्य ब्रह्मपरत्वाभ्युपगमात् "आनन्दो ब्रह्मेति व्यजानात्" "आनन्दमयमात्मानमुपसङ्ग्रम्य" इत्यानन्दानन्दमयशब्दयो-रेकार्थत्वेनानन्दमयशब्दस्यापि परब्रह्मपरत्वात् आनन्दमयशब्दतुल्यार्थानन्दशब्दवाच्यब्रह्मज्ञानानन्तरं वरुणोप-सत्त्यश्रवणात् सूत्रस्वारस्यात्स्वस्मादनतिरिक्तस्वावयवैरेव शिरःपक्षपुच्छादिरूपणपरप्रकरणानुगुण्येन षष्ठीनिर्देशस्य समुदायसमुदायिभावनिबन्धनत्वोपपत्तेरानन्दमयात्मब्रह्मशब्दानामैकार्थ्येन तेष्वन्यतमेन तद्विषयश्लोके निर्देशस्य युक्तत्वादपरिच्छिन्नानन्दस्याप्रसिद्धत्वेन "आनन्दो ब्रह्मे"त्युक्ततयाऽभ्युपेतपुच्छब्रह्मण इव सद्भावासद्भावशङ्का-सम्भवादवयवत्ववत् अवयवित्वेन रूपणसम्भवादानन्दमय इत्यत्र मयट्प्रत्ययस्य स्वार्थिकत्वेन प्राचुर्यार्थत्वेन वा

1.1.13

विकारपरत्वाभावेन ब्रह्मणो निर्विकारत्वाविरोधात् "तस्यैष एव शारीर आत्मा" इति वाक्यस्यानन्यात्मत्वप्रतिपाद-नपरत्वात् "अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्द्यन्ताम्" इत्यत्र शोधनं तत्तद्वस्त्वनुगुणं कार्यमिति प्रत्यगात्मत्वपक्षे संसारनिर्हरणेन शोध्यत्वादतिरिक्तत्वपक्षे भगवतः कालुष्यशान्तिरूपशोध्यत्वस्य प्रपदनसाध्यस्यो-पपन्नत्वाच्चानन्दमयानतिरिक्तं पुच्छब्रह्मेत्यानन्दमय एव परमात्मेति पुच्छब्रह्मवादनिराकरणयुक्तिसङ्ग्रहः, अत्राद्यं हेतुषट्कं सिद्धान्तसाधकम्, इतरहेतुगणश्शङ्कितविपक्षयुक्तिपरिहारपरः ।

अस्मिन् पर्वपक्षे प्राप्ते सिद्धान्तसूत्रमवतारयति - एवं प्राप्त इति । तत्र प्रतिज्ञांशं साध्यसमर्पकपदेन पूरयन् व्या- चष्टे- आनन्दमय इति । उत्तराधिकरणे "भेदव्यपदेशाच्चान्यः, इत्यन्यशब्दः प्रयुक्तः, इह तदाकर्षणलब्धार्थ उक्तः - परमात्मेति । यद्वा पूर्वाधिकरण सूत्रस्ययोः न अशब्दं इति पदयोः अनुषङ्गः लब्धार्थमाह - परमात्मेति । यस्मिन् शब्द एव प्रमाणं न भवति स ह्यशब्दः, स्वयम्प्रकाशप्रत्यक्षानुमानादिभिः सिध्यतो जीवस्यापि तदशब्दत्वमुपपद्यते, यथा आत्मसिद्धौ "एवमात्मा स्वतः सिध्यन्नागमेनानुमानतः । योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाशते" इति । यद्वा एतदधिकरणसूत्रस्थ एव नेतर इति साध्यांशोऽत्रापि विवक्षित इत्यभिप्रायेणोक्तं परमात्मेति । अन्तरात्मपरम्परास-माप्तिद्योतनाय अत्र परमात्मशब्देन धर्मि निर्द्देशः । अभ्यासादानन्दमयत्वं श्रुतौ प्रतीतम्, अत आनन्दमयत्वापेक्षया हेतुर्निर्देशशङ्काव्युदासाय साध्यांशे हेत्वाकाङ्क्षां दर्शयति - कुत इति । ननु भेदव्यपदेशस्य जीवादन्यत्वे स्फुटतरतया

1.1.13

निरपेक्षहेतुत्वात् स्ववाक्यस्थत्वाच्च स एव प्रथमं वक्तव्यः, न तु वाक्यान्तरस्थोऽनुग्राहकयुक्तयपेक्षोऽभ्यासः, । नैवम्; स्ववाक्यस्थाद्भेदव्यपदेशादपि स्वपदैकदेशमयड्वाच्यस्य प्राचुर्यस्योपपादनसापेक्षस्याप्यासन्नतरत्वात्तद्विवरणरूपस्य निरतिशयदशाशिरस्कस्याभ्यासस्यैव प्रथमं हेतुतया वक्तुं युक्तत्वात् । कस्याभ्यासादित्याकाङ्क्षां पूरयन् हेतुपदं व्याचष्टे - सैषानन्दस्येति । अभ्यासः-गुणनम्, आवृत्तिः । "यतो वाचो निवर्तन्ते" इत्यस्यार्थमभिप्रेत्य निरतिशयदशाशिर-स्क इत्युक्तम् । "स एको ब्रह्मण आनन्दः, इति वाक्यस्यार्थमभिप्रेत्य अभ्यस्यमान इत्युक्तम् । शतगुणितोत्तरक्रमेण गुणितत्वादित्यर्थः । "स एको ब्रह्मण आनन्दः" इतिवाक्यस्य चतुर्मुखानन्दविषयत्वेन "यतो वाच" इत्यादिवाक्य-स्यैव ब्रह्मानन्दविषयत्वाङ्गीकारेऽभ्यासादिति हेतोर्व्यधिकरणता स्यात् । किञ्च अयं ब्रह्मशब्दः परमात्मवाचकः, ब्रह्मशब्दस्य भगवत्येव मुख्यत्वात् "ब्रह्मविदाप्नोति" "अस्ति ब्रह्मेति" इत्यादिषु वाक्येषु परब्रह्मपरतयैव ब्रह्मशब्दस्य प्रयोगकरणात् "यतो वाचो निवर्तन्ते" इति पूर्वोत्तरयोर्वाक्ययोरानन्दप्रतिसम्बन्धिवाचिष्ठयन्तब्रह्मशब्दस्य परब्रह्मपर-त्वदर्शनात् "सैषानन्दस्य मीमांसा" इति प्रकृतब्रह्मानन्दनिगम-नस्यापेक्षितत्वात् "स यश्चायं पुरुषे" इति प्रकृतपरा-मर्शिनाऽनन्तरवाक्यस्थेन कारणपरतच्छब्देन पूर्ववाक्यस्थस्यास्य ब्रह्मशब्दस्य परब्रह्मपरत्वनिश्चयात्, अन्यथा चतुर्मु-खस्य सर्वान्तरात्मत्वपरमकारणत्वप्रसङ्गात्, "तदप्येष श्लोको भवति" इति भगवदानन्दविषयश्लोकोत्थानस्य भगवदानन्दप्रसङ्गासापेक्षत्वात्, निरुपपदप्रजापतिशब्दस्य चतुर्मुखे स्वरसत्वात्, दक्षादिपरत्वे एकवचनस्वारस्याभा-वात् "देवानाम्" "देवगन्धर्वाणाम्" इन्द्रस्य "बृहस्पतेः" इति बहुषु व्यक्तिषु बहुवचनस्यैकैकव्यक्तिषु च एकवचनस्य प्रकरणे प्रयुज्यमानत्वाच्च । तथा "स एक प्रजापतिलोक आनन्दो यश्च श्रोत्रियोवृजिनोऽकामहतोऽथ ते ये शतं प्रजा-पतिलोक आनन्दास्स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोवृजिनोऽकामहतोऽथ एष एव पर आनन्द एष ब्रह्मलो-कस्सम्राडिति होवाच" इति बृहदारण्यकवाक्यैकार्थ्याच्च, "स एको ब्रह्मण आनन्दः" इति वाक्यस्य परमात्मानन्दपरत्वं सिद्धम् न च स एक इति निर्देशात् ब्रह्मानन्दस्य परिच्छिन्नत्वम्, आधिक्यमात्रे वाक्यतात्पर्यात्, यथा "क्षिप्तेषुरिव सर्पति" इति वाक्यं सूर्यगतिमान्द्यनिवृत्तिपरम्, न त्विषुसाम्यपरम् सूर्यस्य निमेषमात्रे बहुयोजनातिलङ्घित्वस्य प्रमाण-सिद्धत्वात्, तथात्रापि पूर्वापरवाक्यादिभिरपरिच्छिन्नानन्दत्वसिद्धेः "स एकः" इति वाक्यस्य चतुर्मुखानन्दादाधिक्ये तात्पर्यमित्यवगम्यते । यद्वा "रोमकूपेष्वनन्तानि ब्रह्माण्डानि भ्रमन्ति ते" "अण्डानान्तु सहस्राणांसहस्राण्ययुतानि च। ईदृशानां तथा तत्र कोटिकोटिशतानि च "गङ्गायाः सिकता धारा यथा वर्षति वासरे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ।" इत्यादिभिरण्डानां तत्र तत्र चतुर्मुखानां चासङ्खयेयत्वावगमान्नियाम्यान्नियन्तुश्शतगुणा-

1.1.13

नन्दत्वे कथिते चतुर्मुखेभ्यो असङ्खयातेभ्यः शतगुणानन्दतयाऽवगतस्य भगवतो अपरिच्छिन्नानन्दत्वमर्थसिद्धमिति; अतो यथोक्त एवार्थः । अभ्यस्यमान इति - अभ्यासशब्दः कर्मार्थघञन्त इत्यभिप्रायः । यद्वा भावार्थत्वेऽप्यानन्द-स्याभ्यस्तत्वं फलितमिति तथोक्तम् । तच्च हेतोर्वैयधिकरण्यशङ्काव्युदासार्थम् । ननु गुणनम्-वर्द्धनम्, प्रजापत्यानन्दो हि शत-गुणत्वेन वर्धते, न तु ब्रह्मानन्दः, सत्यम्, तथापि गुणितः प्रजापत्यानन्द एव ब्रह्मानन्द इत्युपचारेणोक्तिः, व्रीहिचतुष्टयं गुञ्जेतिवत् । गुणिततत्तदानन्दसदृशस्त्वेकदेशतया प्रतिपाद्यमानो ब्रह्मानन्द इत्यर्थः । यद्वा मुहुर्मुहुरुक्ति-रभ्यासः, तेन तात्पर्यलिङ्गसत्त्वं सूचितम् । अस्त्वानन्दस्यापरिच्छिन्नत्वम्, ततः किमित्यत्राह - अनन्तदुःखेति । अनेन निरतिशयानन्दविरुद्धधर्मयोग उक्तः । परिमितेति निरतिशयानन्दाभाव उक्तः । विरुद्धधर्मोपलम्भादभावोपल-म्भाच्चासम्भव इत्यर्थः । कथमसम्भवः? मुक्तस्यापरिच्छिन्नानन्दत्वं श्रुतमित्यत्राह - निखिलहेयेति । प्रत्यनीकत्वमत्र निवर्त्तकत्वं विवक्षितम् मुक्तस्यापि परमात्मप्रसादादेव हि हेयनिवृत्तिपूर्वकनिरतिशयानन्दप्राप्तिः, इह च स्वत एवाप-रिच्छिन्नानन्दत्वमवगम्यते, हेत्वश्रवणात् निरतिशयत्वश्रवणविरोधेन हेतुकल्पनायोगाच्च । न च मुक्तस्य स्वतोऽपरि-च्छिन्नानन्दत्वम् "अथ सोऽभयं गतो भवति" "एष ह्येवानन्दयाति" "रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति" इति परमा-त्मायत्तत्वश्रुतेः । न ह्येवं परमात्मानन्दस्यान्याधीनत्वं श्रुतम् "श्रोत्रियस्य चाकामहतस्य" इति मुक्तः पृथङ्#िनर्दिश्यते । श्रोत्रियः-श्रुतवेदान्तः । अकामहतः-उपासनान्निवृत्तसमस्तक्लेशः "यश्च श्रोत्रियोवृजिनोऽकामहतः" इतिश्रुत्यन्तरम् । मुक्तस्य जगद्य्वापाराभावाच्च परस्यैव स्वतो निरतिशयानन्दयोगः । एवं निरतिशयानन्दस्य जीवात्मन्ययोग्यतारूप-तर्कानुगृहीत आनन्दमयशब्दः परमात्मविषय इत्युक्तं भवति । न केवलं निरतिशयानन्दत्वरूपवस्तुसामर्थ्यानुगृहीत-त्वाद्वैलक्षण्यमवगतम्, तत् कण्ठोक्तं चेत्याह - यथाहेति । ननु "भेदव्यपदेशा"दिति सूत्रस्य विषयवाक्यं हीदम् । तत्र व्याख्यास्यमानस्यास्य कथमिहोपादानमर्थोपपादनं च ? उच्यते; निरतिशयानन्दस्य जीवात्मन्ययोग्यतारूपस्तर्को ह्यानन्दमयशब्दस्य परमात्मविषयत्वव्यवस्थापक उक्तः, अस्य तर्कस्य अनेन वाक्येन गर्भितत्वात्तत्सूचकत्वेनेदं

1.1.13

वाक्यमत्रोपन्यस्तम्, अत्र हि एतस्मादितिपदेन "विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च" इति पूर्ववाक्यप्रकृत-कर्मवश्यत्वादिवैशिष्टयं जीवस्याभिप्रेतम्, धर्मिवाचिनापि मयडन्तेन विज्ञानमयशब्देन सर्वोपाधिविनिर्मुक्तं स्वाभा-विकरूपमसङ्कुचितज्ञानमित्यवयवशक्तया दर्शितम् । अनेन वाक्येन स्वभावपरिशुद्धस्यापि जीवस्य कर्मकृतानन्त-दुःखभाजनस्य निरतिशयानन्दासम्भवात् ततः परमात्मनो विलक्षणत्वं प्रतिपादितमित्यत्रेदमुपात्तम्, अस्मिन् वाक्ये विज्ञानमयशब्दस्य बुद्धिमात्रपरत्वं व्युदस्यति - विज्ञानमयो हीति । "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः" इति श्रुतिप्रसिद्धिद्योतको हिशब्दः । शब्दस्वारस्यानुग्राहकप्रत्यक्षप्रसिद्धिद्योतको वा, अहं जानामीति ज्ञातृत्वं ह्यात्मनः पतीयते । ज्ञप्तिवाचिनो विज्ञानमयशब्दस्य ज्ञायतेऽनेनेति व्युत्पत्त्याऽन्तः करणपरत्वमस्वरसमित्यभिप्रय-न्नाह - न बुद्धिमात्रमिति । मात्रचा अभिप्रेतं प्रत्ययवैयर्थ्यं विशदयति - मयट्प्रत्ययेनेति । प्रकरणवशात्स्वार्थिक-त्वमाशङ्कयाह - प्राणमये त्विति । अगत्या विकारप्राचुर्याद्यर्थान्तरासम्भवात् । पक्षे तद्वैषम्यमाह - इह त्विति । तद्वत इति - प्रातुर्यार्थत्वं सम्भवतीत्यर्थः । नात्र मयडर्थस्सम्भवति, ज्ञप्तिमात्रस्वरूपो ह्यात्मा, ज्ञातृत्वं हि काल्प-निकम्, मुक्तावस्थायां तदपि नास्तीत्याह - बद्ध इति । प्राणमयादौ स्वार्थिकत्वमभ्युपगम्य परिहार उक्तः । अथ तदेव नास्तीत्याह - प्राणमयादाविति । विज्ञानमयशब्दस्य तद्विषयश्लोकस्थविज्ञानशब्दसमानार्थत्वात् मयट् स्वार्थिक इत्यभिप्रायेण पृच्छति - कथं तर्हीति । उपपद्यते-न हि विज्ञानस्य विज्ञानान्तराश्रयत्वं सम्भवतीति भावः । विज्ञान-मयशब्दस्य ज्ञातरि प्रवृत्तौ निमित्तं दर्शयति - ज्ञातुरेवेति । एवकारश्शङ्कितविरोधाभावद्योतकः, अपिशब्दः स्वरूप-धर्मयोर्निमित्तसाधारण्यपरः । ज्ञातृशब्दतुल्यार्थतयाऽपि निर्वाहं दर्शयति - ज्ञानैकेति । ततः किमित्यत्राह - स्वरूपे-ति । स्वरूपनिरूपणधर्मशब्दाः-अयुतसिद्धधर्मवाचिशब्दाः । आकृतिनयविषयतया सम्प्रतिपन्नं शब्दं निदर्शयति - गवादीति । एवं सूत्रन्यायाभ्यां द्विधा निर्वाह उक्तः । अथ शाब्दमर्यादया द्विधा निर्वाहमाह - कृत्येति । प्रथमे कर्तृ-

1.1.13

परत्वं कल्पनीयम् । द्वितीये गणान्तर्भावः कल्पनीय इत्युभयत्राश्रयणशब्दप्रयोगः । प्रत्यक्षानुगुण्यात् श्रुत्यन्तरप्रत्य-भिज्ञानात् प्रथमश्रुतत्वात्प्रकृतिस्वारस्यात् प्रत्ययानर्थक्यानुपपत्तेश्च प्रबलविज्ञानमयशब्दानुरोधेन विज्ञानशब्दो निर्वाह्य इति भावः । स्ववाक्यस्थं युक्तयन्तरमाह - अत एवेति । अत एवविज्ञानशब्दस्य चेतनपरत्वादेवेत्यर्थः । यज्ञादिकर्तृत्वे श्रुते कथं विज्ञानशब्दवाच्यस्य चेतनत्वमित्यत्राह - बुद्धिमात्रस्येति । बोद्धुरेव हि कर्तृत्वं प्रत्यक्षश्रुतिभिस्सूत्रैश्च सिद्धमिति भावः । ननु सर्वेषां स्वव्यापारकर्तृत्वमस्ति । सत्यम्, नात्र तावन्मात्रं विवक्षितम्, किन्तु चेतनासाधारणः कर्तृत्वविशेषः प्रयत्नाधारत्वलक्षणः, यज्ञादिकर्तृत्वमिति ह्युक्तम् ।अत्र विज्ञानशब्दस्वारस्यमुभयोरप्यविशिष्टम्, यज्ञा-दिकर्तृत्वास्वारस्यं तु परस्याधिकम् । ननु "अद्यतेऽत्ति च भूतानि" इत्यन्नमय इव प्राकरणिकमौपचारिकं कर्तृत्वमुप-करणत्वाविशेषात् बुद्धेरपि स्यादित्यत्राह - अचेतनेषु हीति । बाधकाभावे सति उपचार एव दोषः, स च प्रकर-णानुवृत्तश्चेत् सोढव्यः स्यात्, न च तदनुवृत्तिः, प्राणमये मनोमये च तस्य विच्छिन्नत्वादित्यभिप्रायः । विज्ञानशब्दस्य चेतनपरत्वे प्रयोगान्तरं दर्शयति - अत एव चेतन-मिति । अत एव विज्ञानशब्दस्य चेतनपरत्वादेवेत्यर्थः । चेतनम-चेतनं चेति - न ह्यन्तःकरणानन्तःकरणविभागोऽत्र क्रियते, किन्तु चिदचिद्विभाग एवेति भावः । कुत इत्यत्राह - निलयनत्वेति । अचिद्विकारविशेषस्यान्तः-करणस्य "जीवभूतां महावाहो ययेदं धार्यते जगत्" इति प्रकारेण चेतन-धार्यस्य विश्वनिलयनत्वायोगात् परेण तस्य सत्यत्वानभ्युपगमाच्चेति भावः । विज्ञानशब्दस्य संवित्परत्वमप्ययुक्तम्, "अनुप्रविश्ये"त्यनेनानुप्रवेशश्रवणात् न हि संविद्रूप आत्मा आत्मान्तरव्याप्यतयाऽभिमतः परस्य । विज्ञानशब्दस्य चेतनपरत्वे प्रयोगान्तरं दर्शयति - तथेति । विज्ञानस्यात्मशब्दस्थाने श्रुतत्वादन्तःकरणपरत्वमनुपपन्नम् । न चात्म-

1.1.13

शब्दोऽप्यन्तःकरणपरः, विज्ञानशब्दवत्तस्यापितत्रास्वरसत्वात् । यथा ज्ञायतेऽनेनति व्युत्पत्त्याऽऽश्रयणं विज्ञानश-ब्दस्य क्लिष्टम् तद्वच्चेतनव्यतिरिक्तेष्वात्मशब्दोऽपि ह्यस्वरसः । अन्तःकरणपरत्वे विज्ञानात्मशब्दयोर्द्वयोरप्यस्वारस्यम्, चेतनपरत्वे तु विज्ञानशब्दमात्रास्वारस्यम्, न तु द्वयोरिति विशेषः । अत्रात्मशब्दस्य परमात्मतया स्वाभिमतसंवि-त्परत्वञ्च परेण दुर्वचम्, "य आत्मनि तिष्ठन्" इत्यत्रात्मान्तरस्थितिश्रवणात्, आत्मान्तरव्याप्यस्य परमात्मत्वासिद्धेः, सर्वत्र प्रयुक्तस्य विज्ञानशब्दस्य ल्युट्प्र-त्ययान्तत्वे विशेष्यानुगुणलिङ्गत्वादात्मविषयस्य तस्य कथं नपुंसकत्वमित्य-त्राह - विज्ञानमिति । उपपादितमर्थं परमसाध्येन घटयति - तदेवमिति । तत्-उक्तोपपत्तिभिः । एवम्-विज्ञानशब्द-स्य चेतनपरत्वसिद्धेरित्यर्थः । श्लोकस्थविज्ञानशब्दस्य ज्ञातृपरत्वोपपादनेन विज्ञानमयशब्दस्य ज्ञातृपरत्वमुक्तम् । अथ श्लोकस्य ज्ञातृपरत्वाभावेऽपि विज्ञानमयशब्दस्य ज्ञातृपरत्वमाह - यद्यपीति । मयड्रहितवाक्ये तदर्थः परित्यक्त इति तद्वत्यपि वाक्ये स न त्याज्य इत्यर्थः । तर्हि ब्राह्मणस्य श्लोकस्य च कथमैकार्थ्यमित्यत्राह - यथेति । पूर्ववाक्-योक्तार्थैकदेशविषयत्वात् श्लोकस्य तदैकार्थ्यम्, यथाऽन्नमयविषयश्लोकस्येत्यर्थः । तन्मय इति श्रुतिवाक्यगतमयड-र्थानुवादः । तद्विकार इति तद्य्वाख्यानम् । उक्तार्थजातस्य उत्सूत्रत्वशङ्कां परिहरन् व्याख्यास्यमानसूत्रोपयोगित्वञ्च दर्शयितुमाह - एतत्सर्वमिति । "तस्माद्वा एतस्माद्विज्ञानमयात्" इति वाक्यं जीवपरयोर्भेदप्रतिपादकं वदन् सूत्रकारो विज्ञानशब्दस्य ज्ञातृपरत्वं तदुपपत्तिश्च हृदि निदधदेव वदतीत्यर्थः । पूर्वपक्षे जीवसामानाधिकरण्यं शारीरत्वश्रवणं च हेतुद्वयमुक्तम्, तत्र सामानाधिकरण्यस्य भेदावहत्वमुपपादयितुं यदुक्तमित्यादिनोपदिश्यत इत्यन्तेनानूदितं पूर्वपक्ष-हेतुं दूषयति - तदयुक्तमिति । प्राकरणिकवाक्यैस्समानाधिकरणपदप्रातिपदिकांशेन च विरुद्धधर्माध्यासप्रतिपत्त्या

1.1.13

भेदसिद्धेः कालात्ययापदिष्टहेतुरिव परोक्तहेतुर्न साध्यसाधक इति दूषणं वक्तुं तत्पदोपस्थाप्यविशेषसमर्पकैः प्राकर-णिकवाक्यैः पराभिमतैक्यविरुद्धभेदसिदिं्ध दर्शयति - जीवस्येति । प्रलयदशायामुपसंहृतकरणकलेबरस्य कर्मवश्यस्य सङ्कल्पमात्रेण विचित्रजगत्सर्गायोगात् बद्धस्य स्रष्टृत्वमनुपपन्नमित्यर्थः । शुद्धावस्थस्य सम्भवतीत्यत्राह - शुद्धेति । उक्तं विपरीतुं शङ्कते - कारणेति । समानविभक्तयवगतैक्योपपत्तिः कथमित्यर्थः । कथं वेति - प्रातिपदिकावगतवि-शेषणान्वयः कथमित्यर्थः । निरस्तेत्यादिपदैस्तत्पदप्रातिपदिकावगतविशेषणान्वयो दर्शितः "तदैक्षत" "असृजत" इति यथासङ्कल्पं जगत्सृष्टिश्रवणेन सत्यसङ्कल्पादिगुणानामतिरोहितत्वावगमात् तिरोधायकहेयसम्बन्धानर्हत्वमर्थसिद्ध-मित्यभिप्रायेण निरस्तनिखिलदोषगन्धत्वमुक्तम् । जगद्य्वापारौपयिकगुणान्तराणामन्यत्र कण्ठोक्तानां सद्विद्यायां गतिसामान्यनयादथर्सिद्धत्वमभिप्रेत्योक्तमनवधिकेति । त्वंपदप्रातिपदिकावगतविशेषणान्वयो दर्शितः नानाविधेति । जीवस्वरूपत्वम्-जीवेन सह स्वरूपैक्यम् । जीवत्वमित्युक्ते जीवशरीरकत्वप्रतिपत्तिश्च सम्भवतीति तद्य्वावृत्त्यर्थं जीवस्वरूपत्वमित्युक्तम् । साक्षात् पराभिमतं पदद्वयावगतविशेषणपरित्यागपक्षं दूषयिष्यन् सम्भावितं पक्षद्वयं शङ्कते अन्यतरस्येति । तत्त्वंपदप्रतिपन्नविषणयोरन्यतरस्येत्यर्थः । विकल्पयति - कस्येति । प्रत्यक्षसिद्धागमसिद्धत्वन्त-त्पदावगतविशेषणजातं दुस्त्यजमिति भावः । सहेतुकमविरुद्धं परेण प्रथमशिरःपरिग्रहं शङ्कते - हेयप्रत्यनीकेति । हेयम्-दुःखम् । मिथ्याप्रतिभासः-भ्रान्तिज्ञानम् । स्वतश्शुद्धस्य पटस्यौपाधिकमालिन्यवत् परमार्थतो निर्मलस्य स्फटिकस्याध्यासादरुणिमवच्च ब्रह्मणो निर्दोषकल्याणगुणैकतानत्वं हेयसम्बन्धश्च स्वाभाविकौपाधिकविभागेन परमार्थापरमार्थविभागेन वा अविरुद्धम्, उभयोरपि स्वाभाविकत्वसत्यत्वाभ्युपगमे हि विरोध इति शङ्काभिप्रेता । दूषयति- विप्रतिषिद्धमिति । विप्रतिषेधमुपपादयति - अविद्याश्रयत्वमिति । न केवलं दुःखमेव हेयम्, अपि तु

1.1.13

तद्धेतत्प्रतिभासावपि हेयावित्यर्थः । ततः किमित्यत्राह - तत्सम्बन्धित्वमिति । अविद्यातत्कार्यदुःखतत्प्रतिभास-रूपहेयानामाश्रयत्वं तत्प्रत्यनीकत्वञ्च विरुद्धमित्यर्थः सम्बन्धमिथ्यात्वादविरोधं शङ्कते - तथापीति । तथापि-अविद्यादीनां हेयत्वेऽपि । तस्य आश्रयत्वरूपसम्बन्धस्येत्यर्थः । दूषयति - मिथ्याभूतमपीति । आश्रयत्वं मिथ्या-भूतमप्यपुरुषार्थ इत्यर्थः । अपुरुषार्थत्वमुपपादयति - यन्निरसनायेति । ततः किमित्यत्राह - निरसनीयेति । एतदुक्तं भवति, मिथ्यात्वं किमत्यन्ताभावः, उत ज्ञानबाध्यत्वम् ? प्रथमे निरसनीयाभावात्तन्निरासाय शास्त्रारम्भो न स्यात् । द्वितीये च मिथ्याभूतस्यापुरुषार्थत्वमस्ति, न वा ? न चेन्निरसनीयत्वाभावाच्छास्त्रारम्भवैयर्थ्यम्, अपु-रूषार्थत्वमस्ति चेद्धेयप्रत्यनीकत्वव्याघातो दुष्परिहर इति । तद्विरोधेऽपि हेयसम्बन्धस्य श्रुतिबलादभ्युपगन्तव्यत्वं शङ्कते - किं कुर्म इति । परिहरति - श्रुतोपपत्तय इति । अनुपपन्नम्-तर्कपराहतम् । विरुद्धम्-प्रमाणविरुद्धम् । "अपहतपाप्मा" "विशोको विजघत्सः" "एष हि सर्वेभ्यः पाप्मभ्य उदितः" "अनश्नन्नन्यः" "अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम्" "अनार्तां देवतां प्रपद्ये" इत्यादिश्रुतिविरोधः । एकस्मिन् हेयप्रत्यनीकत्व-हेयास्पदत्वादिविरुद्धधर्मान्वयानुपपत्तिस्तर्कविरोधः । शिरोऽन्तरं शङ्कते - अथेति । दूषयति - हन्तैवमिति । शास्त्रस्य प्रयोजनपर्यवसायित्वाभावादप्रामाण्यं प्रसजेदित्यर्तः । परस्य सिद्धान्तभूतमुभयप्रहाणं शङ्कते - अथैतदिति । परिहरति - अहो भवतामिति । अर्थनिष्कर्षोपयुक्तपदद्वयवाक्यैतत्प्रकरणप्रकरणान्तरोपनिषदन्तरप्रमाणान्तरतर्क-सामानाधिकरण्यनिरूपणं पर्यालोचनम् । प्रथममेतत्प्रकरणोपक्रमविरोधं दर्शयति - एकेति । सर्वसत्यत्वेऽपि कथं

1.1.13

सेत्स्यतीत्यत्राह - यथैकेति । परमार्थविषयमिथ्याविषयत्वे ज्ञानयोर्वैरूप्यं स्यादिति भावः - तदन्तर्गतञ्चेति । परि-षद्ज्ञानेन तद्गतः पुरुषा हि ज्ञाता भवन्ति, न तु तद्बहिष्ठा इति भावः । ज्ञानस्य तदर्न्गतत्वं तद्विषयान्तर्गतत्वम् । यद्वा तदर्न्गतम्-सर्वमिति शेषः । परमार्थविषयं तदन्तर्गतमित्युक्तमर्थं व्यतिरेकेणोपपादयति - न हि परमार्थेति । न हि शुक्तिरजतयोरेकधीविषयत्वमित्यर्तः । एकत्वसर्वत्वावस्थाभेदे सत्यपि धर्मैक्यादेकविज्ञानेन सर्वविज्ञानमुपपद्यते, ज्ञातत्वसर्वत्वे ह्येकाश्रयत्वर्तिनी, न हि ज्ञातत्वविशिष्टाकारेण सर्वत्वम्, सर्वत्वविशिष्टाकारेण ज्ञातत्वं वा, प्रागेवायं मया ज्ञात इत्यपि हि धर्मिमात्रस्यैव ज्ञातत्वम्, न त्वेतदवस्थाविशेषविशिष्टस्य, देशकालादिभेदात् । न हि पूर्वमे-तत्कालादिविशिष्टतया ज्ञातत्वम् ब्रह्मैकमेव सत्यमिति ज्ञाते अन्यन्मिथ्यात्वेन ज्ञातं स्यादिति शङ्कते - अथोच्येतेति । परिहरति - न तर्हीति । सर्वं मिथ्यात्वेन ज्ञातं भवतीति वा सर्वं निवृत्तं भवतीति वा श्रूयेतेत्यर्थः । एवञ्चार्थे सति मिथ्यात्वेनेतिपदस्याध्याहारः, धर्म्यन्तरविषयतया ज्ञानशब्दयोर्वैरूप्यम्, स्वरसतः प्राप्तं हि ज्ञानैकरूप्यम्, तच्च भज्यते, ज्ञातं भवतीति ज्ञातृज्ञेयतदवच्छिन्नज्ञानाभावान्निवृत्तिलक्षणा चेति दोषत्रयमभिप्रेतम्, श्रूयमाणान्वयप्र-कारस्य परविरुद्दतामाह - येनेति । एवं प्रतिज्ञावाक्यास्वारस्यमुक्तम् । अथ दृष्टान्तवाक्याननुगुणत्वमाह - कारण-तयेति । अघटितत्वमुपपादयति - मृतिपण्डेति । न हि शुक्तिज्ञानाद्रजतनिवृत्तित्वमृत्पिण्डज्ञानात् घटादिनिवृत्ति-निर्दर्शितेति भावः । दृष्टान्ताविरोधं शङ्कते - तत्रापीति । प्रसिद्धवदुपन्यासानुपपत्त्या दूषयति - मृद्विकारस्येति । मृद्विकारासत्यत्वमनुमानादिनाऽवगतमित्यत्राह - न चेति । अननुगृहीतमिति ज्वालैक्यबुद्धिवदापातप्रतीतिमात्र-जनकं विवक्षितम् । उपरितनवाक्यापर्यालोचनां दर्शयति - तथेति । सदायतनत्वफलितं स्वप्रवत्र्त्यत्वं स्वेनैव जीवनञ्च । प्रशासनेन हि धारणम्; धृत्या च तज्जीयनम् । निषेधाय गुणानुवाद इति शङ्कायाः व्युदासायाह - शास्त्रैकेति । न हि विधेरनुवादित्वमिति भावः । श्रुत्यन्तरापर्यालोचनां दर्शयति - तत्सम्बन्धितया प्रकरणान्त-रेष्वपीति । अपहतपाप्मत्वादिरूपा निरस्तनिखिलदोषतेत्यर्थः । अपूर्वतालक्षणं गुणेषु तात्पर्यलिङ्गं दर्शयितुं सकलेतरप्रमाणविषया इत्युक्तम् । ततः किमित्याकाङ्क्षां पूरयन् पदद्वयपर्यालोचनाभावं दर्शयति - एवमिति । एवमनन्यगोचरानन्तविशेषविशिष्टप्रकृतेत्यनेन प्राकरणिकवाक्यविरोधो विवक्षितः । प्रकृतब्रह्मपरामर्शितच्छ-ब्दस्येत्यनेन यत्र क्वापि प्रकृताकारविशिष्टपरामर्शितया तच्छब्दव्युत्पत्तिविरोध उक्तः । त्वंपदस्यापि वस्तुमात्रपरत्वे मुख्याथर्प्रहाणमाह - त्वंपदञ्चेति । स्वाभिमुखश्चेतनः त्वंशब्दार्थः । आभिमुख्यं च स्ववाक्यबोध्यत्वम्, बोध्यत्वं चाज्ञस्य संसारिणः स्वतः प्राप्तमिति भावः । तसाद्बोधनार्हतोपयोग्याकारविशिष्टः त्वमर्थः । अतः स परित्यक्तौ भवति । प्रमाणतर्कापर्यालोचना पूर्वोक्तेत्याह - निर्विशेषेति । पदद्वयनिमित्तप्रहाणे निर्विशेषत्वस्य बुद्धिस्थत्वात्-तदनुपपत्तिरूपकर्तापर्यालोचनं दर्शितम् । सामानाधिकरण्यबलान्निविर्शेषवस्त्वमभगयुपगम इति शङ्कायां पद-द्वयलक्षणालक्षणं दूषणमाह - एवञ्चेति । एवञ्च सति - निर्विशेषस्वरूपोपस्थापनपरत्वे मुख्यार्थसंबन्धितया वस्तुमात्रावबोधनेऽभ्युपगते लक्षणास्वीकार इत्यर्थः ।।

अथ परमतमुपन्यस्यति - अथोच्येति । समानाधिकरणवृत्तानामित्यादि ग्रन्थः पक्षविषयसङ्ग्रहरूपः । विशेषणांशे तात्पर्यासंभवादिति । अन्यथा विशेषणबहुत्वादेकार्थत्वासिद्धेरिति भावः । पूर्वमप्युक्तादेवेत्येवका-राभिप्रायः । प्रथमसूत्रे हि बहुश उक्तः । यद्वा अन्यनैरपेक्ष्यपर एवकारः । न लक्षणप्रसङ्ग इति । वाच्याबहिर्भूत-

1.1.13

प्रतिपादनादिति भावः । एवं पक्षविषये सङ्क्षेपेणोक्तमथर्मुपपादयति - यथेत्यादिना । तत्र महाभाष्योक्तेऽप्युदाहरणे विशेषणांशे तात्पर्यासम्भवं सिद्धं कृत्वा उदाहृतः । कथं तत्र विशेषणांशाविवक्षेत्यत्राह - तद्विवक्षायामिति । प्रस-क्तस्यानिष्टतां दर्शयति - तत्त्विति । युगपदभिधाने उद्वेश्योपादेयविभागहानिप्रसङ्गात् पदद्वयप्रकृत्युपस्थापित-विशिष्टे#ैक्ये समानविभक्तया प्रतिपाद्यमाने विशेष्यांशस्येव विशेषणभूतजातिगुणांशयोरप्यैक्यप्रसङ्गाच्च क्रमेणाभि-धानपक्षोऽभ्युपगन्तव्य इति हृदि निधायाह - न हीति । क्रमपक्षेऽपि पूवर्पदप्रतिपन्नाकारविशिष्टस्य पदान्तरप्र-तिपन्नाकारविशिष्टवस्तुतादात्म्यं किं समानविभक्तया बोध्यम् ? उत पूर्वपदप्रतिपन्ने विशिष्टे विशेषणान्तरान्वय ? इति विकल्पमभिप्रेत्य प्रथमे विशेषणभूतजातिगुणयोरप्यैक्यप्रसङ्गं सिद्धं बुद्ध्वा द्वितीये शिरस्योन्यसमवायप्रस- ङ्गमाह - जातिगुणयोरिति । तात्पर्यबहिष्टस्यापि विशेषणस्योपयोगं दर्शयन् फलितमाह - अत इति । नीलो-त्पलमित्यत्र विशेषणान्वये स्फुटेपि तात्पर्याभाव उक्तः, तत्र विशेषणान्वयस्यास्फुटत्वाद्विशेषणान्वये स्पष्टता-त्पर्याभावमुदाहरणान्तरं दर्शयति - तथेति । विशिष्टवाचिनश्शब्दस्य विशिष्टपरित्यागेन विशिष्टे#ैकेदेशतया तत्स-म्बन्धिनि विशेष्यस्वरूपमात्रे वृत्तिर्लक्षणैव स्यादित्यत्राह - यद्यपीति । परिहरति - तथापीति । वाच्येऽर्थे-न हि शक्तिविषयाद्विशिष्टाद्बहिर्भतं विशेष्यमिति भावः । प्रधानांशस्येति - तात्पर्यविषयतया धर्मितया च प्रधानस्य विशेष्यांशस्यावर्जनादप्रधानविशेषणत्यागेऽप्यङ्गुल्यादिविकले पुरुषशब्दस्येव न लक्षणेति भावः । मुख्यार्थत्वे तुल्येऽपि विशिष्टप्रतिपादनदशातो वैलक्षण्यं दर्शयति - अपि त्विति । अविवक्षामात्रमिति - अशक्ये क्वचिद्य्वा-पाराभावात् व्यापारविषयांशेऽपि न ह्यशक्तिरिति भावः । पूर्वं पक्षे लक्षणाभाव उक्तः, इदानीं सपक्षे विशादीकृतो भवति । विशेषणाविवक्षायामस्वारस्यं स्यादित्यत्राह - सर्वत्रेति । सामानाधिकरण्यमुत्पत्तेरीदृशत्वान्नास्वारस्यम्,

1.1.13

व्युत्पत्त्यननुरोधे सति ह्यस्वारस्यम्, अत ऐकार्थ्यव्युत्पत्तिविरोधिविशेषणविवक्षायामेवास्वारस्यमिति भावः । इमं पूर्वपक्षं प्रतिक्षिपति - तदिदमसारमिति । प्रथमं चरमोक्ततया बुद्धिस्थं व्युत्पत्त्यन्तराश्रयणं निरस्यति - सर्वेष्वेवेति । सर्वेषु-समानाधिकरणेषु व्यधिकरणेषु च वाक्येष्वित्यर्थः । गामानय कां बधानेत्यादिव्यधिकरणवाक्येषु, न हि प्रतिवाक्यं पदानामर्थभेदव्युत्पत्तिकल्पनम् "कप्तकल्प्यविरोधे तु युक्तः कप्तपरिग्रहः" इति न्यायेन कप्तव्युत्पत्त्यैव स्वार्थबोधनसम्भवे व्युत्पत्त्यन्तरकल्पनानुपपत्तेः, तथा समानाधिकरणवाक्येष्वपि न पदानां व्युत्पत्त्यन्तरं प्रवृत्ति-निमित्ताविशिष्टार्थविषयं कल्पनीयमिति भावः । व्युत्पत्त्यन्तराभावेऽपि वाक्यानां परस्परवैषम्यसम्भवोपपादनपरं व्युत्पत्तिसिद्धार्थसंसर्गविशेषमात्रमितिपदम् । व्युत्पत्तिसिद्धार्थसंसर्गविशेषाद्वाक्यवैषम्यम्, न तु प्रकृत्यंशस्य व्यु-त्पत्त्यनवगतार्थान्तरकल्पनादित्यभिप्रायः । एवं सर्ववाक्यसाधारणं रूपमुक्तम्, अनेन समानाधिकरणवाक्येषु फलितमर्थमाह - तत्रेति । तत्र-तेषु वाक्येषु । समानाधिकरणपदानां विशिष्टैकार्थप्रतीतिहेतुत्वमुदाहरणेन दर्शयति- यथेति । प्रत्यक्षविषयं परोक्षविषयञ्च उदाहरणद्वयम्, अत एव ह्यानीयते प्रतीयत इत्युक्तम्, कारकविभत्यन्तत्वं न सामानाधिकरण्यविरोधीत्यभिप्रायेण नीलमुत्पलमानयेत्युक्तम् । नीलिमादिविशिष्टमेवानीयत इति । समानाधिकरणपदसमुदायो वस्तुमात्रप्रत्यायकश्चेत् वस्तुमात्रत्वाविशेषादनीलमप्यानीयेतेत्यभिप्रायः । किञ्च समानाधिकरणपदानां विशेषणपरित्यागे को हेतुः । समानविभक्तयावगतमैक्यमिति चेन्न । प्रातिपदिकावगत-विशेषणान्वयबलात् समानविभक्तिरैक्यं न प्रतिपादयेत् । तदेव युक्तम्; विभक्तयर्थादपि प्रातिपदिकार्थप्राधान्यात्, "अदितिः पाशान्" "ग्रहं संमाÐष्ट" इत्यादिषु हि विभक्तयर्थोऽनादृतः । ऐक्यविषयप्रयोगदर्शनादैक्यविषयमिति चेत्; विशेषणान्वयेऽपि प्रयोगदर्शनाद्विशेषणान्वयमपि प्रतिपादयति । शाब्दप्रतीतिर्वस्तुमात्रस्यैव; विशेषणान्वयस्तु प्रत्यक्षबलात् स्वीक्रियते । प्रत्यक्षागोचरे तु यथाशब्दं न विशेषणप्रतीतिरिति चेन्न । विशेषणान्वयः शाब्दप्रतीतिविषयः ऐवयं तु प्रत्यक्षबलादङ्गीक्रियत इति किं न स्यात् । प्रत्यक्षागोचरेऽपि देवदत्तः श्यामो युवेत्यादिप्रयोगेष्वैक्यधीद-र्शनादैक्यं शब्दप्रतीतिविषय इति चेत् -तत्रैव परोक्षविषयप्रयोगे विशेषणान्वयस्यापि प्रतीतेर्विशेषणान्वयः शाब्द एव; न प्रत्यक्षसिद्ध इति । इत्थं प्रत्यक्षपरोक्षविभागरहितं समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थबोधकत्वं दृश्यत इति चरमपर्वाभिप्रायेणोदाहरणद्वयं दर्शितम् । तस्मात्, "य एव लौकिकास्त एव वैदिकाः" इति लोकवदाधिकरणन्यायेन वेदान्तवाक्येष्वपि पदद्वयावगतविशेषणापरित्यागेनैवार्थः प्रतिपत्तव्य इत्याह - एवं वेदान्तेति । अन्योन्यसमवायप्रसङ्गं परिहरति - न चेति । अरुणाधिकरणे विस्तरेण परिहारो वक्ष्यत इति अत्र संक्षिप्तः । न हि, यथाऽनुपपत्तिः स्यात् तथा वक्तव्यमिति भावः । युगपदभिधानं हृदि निधाय सर्वैर्विशेषणैः स्वरूप-मेव विशेष्यमित्युक्तम् ।

सर्वविशेषणैः स्वरूपस्य विशेष्यत्वेऽनुगुणं सामानाधिकरण्यलक्षणमित्याह - तथा हीति । न हि विशेषणान्त-रविशिष्टाकारे विशेषणान्तरान्वप्रतिपादनं सामानाधिकरण्यमित्युक्तमित्यर्थः । सामानाधिकरण्यलक्षणग्रन्थं विवृणोति - अन्वयेन निवृत्त्या वेति । अन्वयरूपाथर्स्य व्यावृत्तिरूपार्थत्वं न कल्प्यम्, यथाव्युत्पत्ति अन्वयमुखेन व्यावृत्तिमुखेन वा वस्तुनः पदान्तरप्रतिपाद्याकारादाकारान्तरयुक्तताप्रतिपादनं समानाधिकरणपदसमुदायकार्य-मित्यर्थः । तत्रोदाहरति - यथेति । अन्वयमुखेनानेकप्रवृत्तिनिमित्तवैशिष्टयोहाहरणं - श्यामो युवेति । व्यतिरेकमुखेनानेकाकारान्वयोदाहरणम् अदीन इत्यादि । दीनत्वम् - अभास्वरमन स्कत्वम् । कृपणत्वम्-निर्धनत्वम् । अत्रायमर्थः, क्रमेणाभिधाने व्यधिकरणवाक्येष्वपि करणकारकविशिष्टेऽधिक-रणकारान्वयः स्यात्, तद्विशिष्टे इतरकारकान्वयो वा प्रसतेदित्यन्योन्यविशेषणविशेष्यभावचोद्यं व्यधिकरणवा-क्येऽपि समानम् । तत्र यः परिहारस्य एवात्रापि, तथापि "पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसम्पा-दितव्यक्ति पश्चाद्वाक्यार्थबोधकम्" । इत्युक्तप्रकारेण स्मरणदशायां सर्वैः पदैः पृथक् पृथक् स्वार्थस्मरणान्न विशे-षणानामन्योन्यसमवायप्रसङ्गः, परामर्शदशायां चोपपन्नं भवति यथा तथा परामर्शान्नायं प्रसङ्गः । पश्चाद्युगपत्सर्वैः पदैर्वाक्यार्थबोधनान्न मिथस्समवायप्रसङ्गः, तस्मात्समानाधिकरणपदैर्युगपत्तत्तत्प्रवृत्तिनिमित्तविशिष्टैकविशेष्य-प्रतिपादनेन क्रमाभावान्नान्योन्यसमवाय इति । सर्वैर्विशेषणैः स्वरूपमेव विशेष्यमिति ग्रन्थे अयमर्थोऽभिप्रेतः, अत्र सामानाधिकरण्यलक्षणग्रन्थोपादानेन अन्यदपि चोद्यं परिहृतं भवति, युगपदभिधाने विशिष्टयोरैक्यं समान-विभक्तिः प्रतिपादयतीति विशिष्टैक्यवत् विशेषणैक्यमपि स्यादिति चोद्यम् । अत्र परिहारः, "एकस्मिन्नर्थे वृत्ति-स्सामानाधिकरण्यम्" इति समानविभक्तया विशेष्यस्यैवैक्यप्रतिपादनान्न विशेषणैक्यमिति । ननु विशेषणे विशेष्ये चाविशेषणे प्रातिपदिकेनावगते सति समानविभक्तिर्विशेष्यमात्रैक्यपरा, न तु विशेषणैक्यपरेति किं नियामकमिति चेत्; समानविभक्तिरैक्यबोधिका, न तु भेदबोधिकेति किं नियामकम् ? व्युत्पत्तिरिति चेत् साऽत्रापि तुल्या । किञ्च पदान्तरासमानाधिकृते घट इतिपदे प्रयुक्ते तत्स्था विभक्तिः प्रातिपदिकावगतानां विशेषणविशेष्यतत्सम्बन्धानामैक्यं न प्रतिपादयति विशेष्यमात्रैक्यमेव प्रतिपादयतीति किं नियामकम् ? प्रत्यक्षमूला हि व्युत्पत्तिः, प्रत्यक्षञ्च विशेष्य-मात्रैक्यं दर्शयति, न तु विशेषणविशेष्यतत्सम्बन्धानामैक्यम्, अतः प्रत्यक्षमूला व्युत्पत्तिर्नियामिकेति चेत्, सैवा-ऽत्रापि नियामिकेति तुल्यमिति । एवं सर्वत्र व्युत्पत्तिसिद्धोऽर्थ एव स्वीकार्यश्चेन्न क्वचिदपि वृत्त्यन्तरकल्पनं

1.1.13

व्युत्पत्त्यन्तरकल्पनं वा स्यादित्यत्राह - यत्र त्विति । विशेषणद्वयमिति त्रित्वादेरप्युपलक्षणम्, व्युत्पत्तिसिद्धा-र्थस्वीकार एव सर्वत्र स्वतः प्राप्तः, तस्य प्रमाणविरोधादन्वयायोग्यत्वे सति वृत्त्यन्तरकल्पनं प्राप्तम्, तदसम्भवे व्युत्पत्त्यन्तरकल्पनम्, गोशब्दस्य किरणवाचित्वे वृत्त्यन्तराभावाद्धि शक्तिकल्पनम्, यदा वृत्त्यन्तरकल्पनं तदा-नीमप्यन्यतरपदस्यामुख्यत्वकल्पनम्, तावतैव विरोधसमनात्, न पुनस्सर्वेषां पदानाम्, तात्पर्यनिश्चायकाभावप्र-सङ्गात् । गौर्वाहीक इति प्रयोगे गौपदस्यैव ह्यमुख्यत्वम्, न तु वाहीकपदस्यापि अन्यतरपदस्य वृत्त्यन्तरकल्पनेऽपि न निर्विशेषवस्तुपरत्वम्, मुख्यवृत्त्युपनीतविशेषणानन्वयेऽपि वृत्त्यन्तरोपनीतविशेषणान्वयादित्यभिप्रायः । नी-लोत्पलादिवाक्येषु वृत्त्यन्तरकल्पनहेतुरेव नास्तीत्याह - नीलेति । विशेषणभेदेन विशेष्यभेदं शङ्कते - अथ मनुष इति । विशेषणप्रतिसम्बन्धित्वम्-विशेषणविशिष्टता । एकविशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणमिति भावप्र-धाननिर्देशः । निरूप्यमाणत्वं विवक्षितम् । एकविशेषणप्रतिसम्बन्धित्वं विशेषणान्तरप्रतिसम्बन्धित्वात् विलक्ष-णमित्यर्थः । यद्वा एकविशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणं वस्तु विशेषणान्तरप्रतिसम्बन्धित्वाद्धेतोस्तस्मा-द्विशेषणान्तरविशेष्यात्पदार्थाद्विलक्षणमित्यर्थः । विशेषणप्रतिसम्बन्धित्वभेदाद्विशेष्यस्वरूपभेदं निदर्शयति - घट-पटयोरिवेति । यथा घटत्वविशिष्टतायाः पटत्वविशिष्टतायाश्च भेदेन तद्विशिष्टयोर्घटपटयोर्विशेष्ययोर्भेदः तथा विशेषणान्तरान्वयस्यान्यविशेषणान्वयस्य च भेदेन तद्विशेष्ययोश्च भेदः समानविभक्तिनिर्देशे सत्यप्यवर्जनीय इति सामानाधिकरण्यं न विशिष्टैक्यप्रतिपादनक्षममित्यर्थः । न विशिष्टप्रतिपादनपरत्वमिति - विशेषणान्वयप्रतीतेर-वर्जनीयत्वेऽपि न तत्र तात्पर्यमिति भावः । विशेषणत्यागे तत्प्रतिसम्बन्धिविशेष्योपस्थापनायोगात्तदैक्यमपि दु-ष्प्रतिपादमित्यत्राह - अपि त्विति । तात्पर्याविषयस्यापि विशेषणस्य परामर्शदशाप्रतीतिमात्रेण तद्विशेष्यप्रती-तिसिद्धेस्तदैक्यप्रतिपादनं सम्भवतीत्यर्थः । परिहरति - स्यादेतदिति । यत्रायोग्यत्वमभ्युपगतं तत्रापि विशेषण- त्वमेव ह्ययोग्यत्वे प्रयोजकम्, अतो नीलत्वादिविशेषणमपि विरुद्धं स्यादित्यत्राह - अयोग्यता चेति । प्रमा-णान्तरसिद्धेति - न पुनर्विशेषणत्वप्रयुक्तमयोग्यत्वमिति भावः । प्रमाणान्तरमपि घटत्वपटत्वयोर्भिन्नाधिकरणत्व-

1.1.13

लक्षणं विरोधमवगमयति, नीलत्वोपलत्वयोरपि स विरोधस्तुल्यः, षट्पदे कुमुदे च पृथक्दर्शनादित्यत्राह - नील-मुत्पलमित्यादिष्विति । न केवलं भिन्नाश्रयत्वमात्रं विरोधः, अपि तु तन्नियमः, न च नीलत्वोत्पलत्वयोस्तादृश-विरोधः, क्वचित्सहप्रतीतत्वादिति भावः । दण्डित्वेति - दण्डादिकं युतसिद्धम्, रूपादिकमयुतसिद्धम्,



श्रीः

51. एवं काण्डद्वयवाक्यविरोधमुत्सर्गापवादन्यायेन परिहृत्य पूर्वपक्षिणोत्थापितं कल्पसूत्रादि वाक्यविरोधमिति तैनैव न्यायेन परिहरति--त्रेधेति। इदमत्र विरोधाभासोपपादनं "कर्मचोदना ब्राह्मणानि" इत्युपक्रम्य " ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च" इति चतुर्णामप्यर्थवादानां ब्राह्मणशेषत्माह भगवानापस्तम्बः।एवमन्यदपि द्रष्टव्यम्। तथा च कथमर्थवादानां विधिशेषत्वमन्तरेण ब्रह्मणि प्रामाण्यमुच्यते? अत्रोत्तरमाह-- दत्तोत्तरमिति। अयमर्थः -- अर्थवादानां विधिशेषत्ववचनं सामान्यम्। अत्र पुनर्ब्रह्मविषयार्थवादानां स्वातन्त्रेण प्रामाण्यकथनं तस्यैवापवादः। अतस्तेनैवोत्सर्गापवादन्यायेन विरोधप्रशमनात् स्मृतिविरोधकथनमनुपालभ्य एव। तमेवोत्सर्गापवादन्यायमजानानस्य शिष्यस्य विशेषतः प्रकटयति--सामान्येति। इममेवार्थं तद्वाक्यस्थेनैव दृष्टान्तेनोपपादयति तत इति। तस्मिन्नेव ह्यापस्तम्बवाक्ये मन्त्रविध्योः परस्परमन्यत्वं ह्युपरि कथ्यते " ततो ऽन्ये मन्त्राः" इति। "ततः" विध्यर्थवादाभ्यां "अन्ये मन्त्राः" इति। एतत्तु सामान्यमेव मन्त्राणामपि विधायकत्वस्वीकारात्।मन्त्रो हि विधत्त इति ह्याहुस्तान्त्रिकाः। तेन मन्त्राणां विध्यन्यत्ववचनम् उत्सर्गः, विधायकत्ववचनमपवाद इति भवद्भिः परिगृह्यते।तद्वदत्रापि ब्राह्मणशेषत्ववचनमुत्सर्गः स्वातन्त्र्येण

प्रतिपदकत्ववचनमपवाद इति परिगृह्य परितुष्यतु भवान्।।

52. बहुषु प्रामाण्यहेतुषु विद्यामानेषु दूषणमुपनिषद्वाक्यानां विरीश्वरमीमांसकानां साहसमेव तद्व्यहारनिबन्धनमिति प्रतिपादयन् सर्वनिगममार्गापलापप्रतिबन्दीमारचयति-- आम्नातैरिति।वेदे "कारीर्या वृष्टिकामो यजेत " इति दृष्टफवाक्यानुसारेण " स्वर्गकामो यजेत" इत्यदृष्टफलवाक्यानां प्रामाण्यं परिकल्प्यते। अविगुणसफलैरिति कर्मकर्तृसाधनवैगुण्यादेव क्वचित्कारीर्यादिषु फलासिद्धिरित्यर्थः। शाकुनच्योतिषाद्यैरिति-- यथाहि अविगुणसफलैर्वेदोक्तैः कारीर्यादिभिः फलसिद्धिः तथैवाविगुणसफलैः कुनज्योतिषाद्यैर्वेदोक्तैरपि फलसिद्धिर्वर्ण्यत एव। तेन वेदे प्रामाण्यं दृष्टफलेषु क्वचित्प्रतीयते। तथा शिष्टानामदृष्टार्थप्रवृत्त्या ऽपि वेदप्रामाण्यं सर्वत्र निश्चीयत इत्याह-- पारत्रिक्येति। अतिनिपुणेति-- महानुभावानां परलोकहेतुभूतया प्रवृत्त्यापि वेदप्रामाण्यं निश्चीयत इत्यर्थः। अनेन महाजनपरिग्रहोऽभिधीयते।

आगमाश्वाससिद्धौ-- एवं बहुभिर्हेतुभिर्वेदप्रामाण्ये निश्चिते सति। अप्रामाण्यकारणाभावमाह-- शब्द इति। शब्दे तस्माच्च बोधे सतीत्यनुत्पत्तिलक्षणाप्रामाणयनिरासः। परविषये--ईश्वरविषये। दोषबाधव्यपेत इति कारणदोषबाधकप्रत्ययौ निरस्येते। अनादिनिधनाविच्छिन्नसंप्रदायत्वात् कारणदोषाभावाच्च अलौकिकार्थविषयत्वाद् बाधकप्रत्ययाभावाच्च प्रामाण्ये सत असति चाप्रामाण्यकारणे पुनरसौ वेदः परस्मिन् ब्रह्मणि मानमेव। एवं च कारणमन्तरेण वेदान्तवाक्यानामप्रामाण्यकथने तेनैव न्यायेन कर्मभागेऽप्यप्रामाण्यं कथनीयमिति वेदमार्गापलाप एव स्यादित्यर्थः।।

 53.एवं चतुर्णामधिकरणानामर्थान् विभागेनाभिधाय सामान्यार्थानुवादपूर्वकमत्रत्ययोर्जन्माद्यधिकरणसमन्वयाधिकरणयोरुत्तरत्तरवक्ष्यमाणाभ्यां कारणत्वाधिकरणोभयलिङ्धिकरणाभ्यां पौनरुक्त्यमाशङ्क्योत्तररत्र तत्तदधिकरणार्थप्रसाधनम्, अत्र पुनर्वक्ष्यमाणार्थोपजीवनेन तत्तदर्थाभिधानमिति न पौनरुक्त्यमित्याह-- शास्त्रेत्यादिना। विशेषद्वयमेवम्-- ब्रह्मादिशब्दानां श्रीनिवासपर्यवसानं द्वितीयाधिकरणोक्तम्। वेदान्तवेद्यस्य ब्रह्मणो निरतिशयानन्दरूपत्वं चतुर्थाधिकरणोक्तम्। तत्र पूर्वं वक्ष्यमाणं कारणत्वाधिकरणमुपजीवति। उत्तरमुभयलिङ्गाधिकरणमिति सुशोभनमेतत्।।

 54. अत्र शारीरकशास्त्रारम्भहेतुभूतचतुस्सूत्र्यात्मकप्रथमपेटिकार्थं सामान्यतो विशेषतश्च दर्शयित्वा तदनन्तरं शास्त्रारम्भरूपद्वितीयपेटिकार्थाभिधानेन तयोःस संगतिमप्याह-- आत्मन्येवमिति। अत्र खलु चतुरधुकरण्यामात्मा ज्ञातव्य इत्यर्थैक्यम्, अकृत इतिमत इत्यादिकर्मचतुष्टयमधिकरणार्थविभागः; ब्रह्मविशेषप्रतिपादकत्वात् सर्वेषामधिकरणानाम्। अथ द्वितीयपेटिकापूर्वपक्षानुवादमुखेन संगतिरपि दर्शयन् पेटिकाप्रवृत्तिप्रकारमपि विशदं दर्शयति-- ईदृक्त्वमिति। पूर्वपोटिकाप्रोक्तमर्थजातं यथार्हं प्रकृतिपुरुषयोरेव स्यादिति परकथनं न तावनुमानाद्ययोग्यौ दुःखास्पृष्टौ चेत्युत्तराभ्यां द्वाभ्यामधिकरणाभ्यां क्रमेण

दोधवीतीत्यर्थः। अथवा ईदृक्त्वमित्यारभ्य इतिशब्दपर्यन्तं पूर्वपक्षवाक्यमेव। प्रकृतिपुरुषयोरेव जगत्कारणत्वादिकं प्रमाणासिद्धं तयोरनुमानाद्ययोग्यत्वं दुःखास्पृष्टत्वं च नास्तीति पूर्वाधिकरणाक्षेपे उत्तरं योग्याभिरुक्तिभिर्दोधवीतीति। अथ --समनन्तरपेटिकया पादशेषेण वा। पूर्वं हि शास्त्रयोन्यधिकरण समन्वयाधिकरणाभ्यां वेदान्तवेद्यस्यार्थस्यानुमानाद्ययोग्यत्वं दुःखासंस्पृष्टत्वं चोक्तम्, उभयमपि प्रकृतिपुरुषयोरन्यतरस्य वेदान्तवेद्यत्वाङ्गीकारे न संभवतीति

पूर्वोक्तावान्तरपेटिकासंगतिरप्यत्रोच्यते। अकृत इति-- प्रथमाधिकरणे "नास्त्यकृतः कृतेन" इति विषयवाक्योक्तमकृतत्वं प्रधानार्थ इति दर्शयति। एवं द्वितीयाधिकरणादिष्वपि विश्वहेतुत्वादिकं प्रधानार्थं इत्यनुक्रमेण मन्तव्यम्। तत्र हि वेदान्तवाक्यानां ब्रह्मण्ययोदव्यवच्छेदपरे प्रथमपादे प्रकृत्याद्यन्ययोगव्यवच्छेदकथनमयोगव्यवच्छेदशेषत्वेन नपुनः प्राधान्येनेति समाधानात् ईक्षत्यधिकरणादीनामसंगतिरनाशङ्कनीया। अयं किल पेटिकाविभागः -- प्रथमपादे शास्त्रारम्भार्था चतुरधिकरणी तावदेका। तत्र द्वयोरवान्तरपेटिकात्वम्। पुंनरीक्षत्याधिकरण आनन्दमयाधिकरणयो -रेकपेटिकात्वमुच्यते। अतः परं पञ्चानामप्यधिकरणानां प्रकृतिपुरुषविशेषत्वात्एकपेटिकात्वं प्रतिपद्यते। अथवा ईक्षत्यधिकरणादीनि त्रीण्येका पेटिका सदात्मपुरुषरूपसामान्यश्रुत्या समुत्थितस्य पूर्वपक्षिण ईक्षत्यादि विशेषलिङ्गेन प्रतिक्षेपस्य तुल्यत्वात्। श्रुतिलिङ्गयोर्हि सामान्यश्रुत्यपेक्षया विशेषलिङ्गं प्रबलमिति तान्त्रिकाः। ततः परमाकाशप्राणज्योतिरादिविशेषश्रुत्या समुत्थितस्य पूर्वपक्षिणो न्यायानुकूलयौगिकश्रुत्यर्थाङ्गीकारेणाकाशप्राणाधिकरणाभ्यां तावन्निराकरणं क्रियते। आकाशप्राणशब्दयोस्तु यौगिकार्थावेवाङ्गीक्रियेते। नतु रूढिर्योगमपहरति। क्लृप्तो योगः कल्प्यांरूढिं बाधत इतिन्यायेन बाध्यते। तेनाकाशप्राणाधिकरणयोः सिद्धमवान्तरपेटिकात्वम्। ज्योतिरधिकरणेन्द्रप्राणाधिकरणयोस्तु रूढिभङ्गं विहाय तत्तद्रूढार्थविशिष्टपरमात्मपरत्वमुच्यत इति तयोरपि पेटिकान्तरत्वं सिद्धम्। अत्र चतुःसूत्र्यां सम्यगर्थावबोधनाय प्रमेयसंग्रहपरिश्रमशालिभिर्भवितव्यम्। अवलोकनीया च नियतमाचार्यकृता शतदूषणी।।

55. पूर्वं परमात्मनो वेदान्तवेद्यत्वमुक्तम्। इदानीं प्रकृत्यादीनां तदेव वेदान्तवेद्यत्वं न संभवतीत्युच्यते।तत्रापि सांख्यादिशास्त्रोक्तप्रकृतिपुरुषयोः प्रकृतेर्विश्वाकारेण परिणतायाः सर्वलोकप्रसिद्धत्वात् तदपेक्षया पुरुषस्य सूक्ष्यत्वात् सैव प्रथमं निराक्रियत इति संगतिः। अथवा पूर्वाधिकरणे वेदान्तवेद्यस्य वस्तुनः पुरुषार्थरूपत्वमुक्तम्, तन्न घटते अपुरुषार्थरूपायाः प्रकृतेरेव कारणत्वादिति। एवं वा सर्वेषामपि वेदान्तवाक्यानां प्रकृतिपुरुषोत्तीर्णब्रह्मपरत्वमुक्तं पूर्वाधिकरणे, सर्ववेदान्तसारभूता सद्विद्या तावत् प्रकृतिमेवाचष्टे।किमन्यैर्वाक्याभासैरिति।एवं संभावितं संगत्यन्तरमपि वाच्यम्। विषयस्तु परमेव ब्रह्म, पुर्वं शास्त्रारम्भ इति ततो विभागः। संशयः पुनः किं प्रकृतिविलक्षणं ब्रह्म सद्विद्यावेद्यम्, उत प्रकृतिरिति। संशयोत्थानकारणं तु सदितिसामान्यश्रुतिः। सर्वभाववाचकस्य सच्छब्दस्य प्रकृतिपुरुषेश्वरसाधारणत्वात्।

तदर्थविचारस्तु-- सच्छब्दः किं परमात्मपरः, उत प्रकृतिपरः। प्रकृतिपरत्वे "तदैक्षत" इत्यक्तमीक्षणं न घटते,

उत घटत इति। तदर्थं पुनर्विचार्यते-इदञ्चेक्षणं मुख्यमुत गौणमिति। पुनश्च विचार्यते-अत्र गौणेक्षणसाहचर्यं नास्ति उतास्त्येवेति। तत्रापि विचार्यते- "तत्तेज ऐक्षत" इत्यादिकं तेजः प्रभृतीक्षणं मुख्य्मुतामुख्य्मिति। अतोऽपि

विचार्यते--किं मुख्यत्वानुरूपा हेतवो ऽनुरोद्धव्याः, उतामुख्यत्वानुरूपा हेत्वोऽपीत्यादि। फलफलिभास्तु अमुख्यत्वानुरुपाणां बहूनामपि युक्तीनामत्र विद्यमानत्वात् "तत्तेज ऐक्षत" इत्यत्रेक्षेणस्य गौणत्वात् गौणेक्षा -साहचार्यस्य चात्र विद्यमानत्वेन सदीक्षणस्यापि गौणत्वात् अत्रोक्तमीक्षणं प्रकृतिपरत्वेऽपि संघटत इति सांख्याद्युक्तं प्रधानमेवात्र सच्छब्दः प्रतिपादयतीति पूर्वपक्षे। सिद्धान्ते फलफलीभावस्तु वैपरीत्येन। उक्तमर्थमनुक्रमेणाचष्टे--गौणेक्षासाहचर्यादिति। बहुभवनप्रेक्षणं नैव मुख्यमिति--इत्थं किल पूर्वपक्षी मन्यते ईक्षणगुणयोगात् प्रकृतिकारणत्वं निराक्रियते ब्रह्मवादिभिः, तच्चेक्षणं गौणम्, कूलं पिपतिषति, वृष्टिप्रीतक्षत्राः शालय इत्यादिवत् चेतनधर्मस्याचेतनेऽपि योजयितुं शक्यत्वात् , अत्र गौणत्वे निदानं "तत्तेज ऐक्षत" इत्यादिगौणेक्षणमाह-- चर्यमेव। किं च मृत्तत्कार्यदृष्टान्तादेवेदानां परिणामादित्यादिसांख्योक्तं प्रधानानुमानमेव प्रतिभातीत्याह-- दृष्टान्ताद्यैरिति। नच श्रुतिप्रतिभावनामात्रमेव, युक्तियुक्तमपीदमित्याह--तादृशादिति। अचेतनरूपकार्यस्याचेतनादेव जन्मयुक्तम्। ननु सविकारे प्रधाने कथं सच्छब्दः स्यादित्याशङ्क्याह--सदिति।

महदादीनां विकाराणां क्वाचित्कत्वेन सच्छब्दवाच्यत्वं मा भूत्, अविकृतिरूपायाः- प्रकृतेर्नित्यसिद्धत्वेन सच्छब्दवाच्यत्वं भवेदिति पूर्वपक्षे राद्धान्तमाह-- अयुक्तमिति। श्रुत्या-चेतनासाधारणात्मशब्दादिश्रुत्या। प्रकृत्यादीनां निरोधात्। न केवलं श्रुत्या, अपितु त्वदभिमत प्रकृतिकारणत्व तिरस्कारकेक्षणादिलिङ्गवाक्यप्रकरणैरप्ययमेवार्थ इति निश्चीयत इत्याह-- त्वदभिमतेति।।

56.अत्र सांख्योक्तानुमानिकप्रक्रियाप्रत्यभिज्ञानमाशङ्क्य निराकरोति--ज्ञात इति।अत्रैवं किल पूर्वपक्षी मन्यते

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा तावत् दृश्यते "येनाश्रुतं श्रुतम्" इत्यादिना।न केवलं प्रतिज्ञामात्रं, दृष्टानोऽप्यस्तीत्याह--मृत्तदिति।आदिशव्दात् श्रुत्युक्तो नखनिकृन्तनादिर्गृह्यते।एवमनुमानप्रधानभुतयोः प्रतिज्ञादृष्टान्तयोरुपपादनेनेदंवाक्यंसांख्योक्तानुमानामुवादकमेवस्यादित्याह-त्येनेति।निराकरोति--वृथेति।तत्र

हेतुमाह--हेत्वनुक्तेरिति।अनुमानावयवेष्वत्यन्तप्रधानभूतहेत्वनुक्तेः। सन्ति सारूप्यादयो हेतवः सांख्यानामिति चेत् तन्न; तेषामुत्तरत्र सांख्याधिकरणे निराकरणादित्याह-- सारूप्यादेरिति। ननु तत्रचात्र च निराकरणे पौनरुक्त्यमित्याशङ्क्याह-- अत्रेति।उत्तरत्र प्रधानकारणत्वनिश्चायकहेतवो निश्शेषमुन्मूलयिष्यते। अत्र प्रधानकारणत्वानुमानसंभावनामात्रं निराक्रियत इति न पौनरुक्त्यावकाशः।।

57. एवं प्रतिपक्षप्रक्रियां निरस्य स्वपक्षानुकूलान् विषयवाक्यार्थान् हेतून् संगृह्णाति-- आदेशेति। "उत तमादेशमप्राक्ष्यः" इत्युपक्रमे तावदादेशशब्देन सच्छब्दवाच्यं ब्रह्म निर्दिश्यते। आदेशशब्दो ऽप्यादेष्टारमेवाह। आदेष्टृत्वं पुनर्नियन्तृत्वमेव। नच तत् प्रधानपक्षे संभवति तस्याचेतनत्वात्। आत्मशब्दोऽप्यत्र श्रूयते "स आत्मा"

सतु चेतनस्यैवासाधरणः। तत्र सुषुप्तिप्रसङ्गे "स्वमपीतो भवति" इति सुषुप्तिस्थानं परमात्मा स्वशब्देन निर्दिश्यते। अन्तर्यामित्वात् परमात्मैव स्वशब्देन निर्देशार्हः। न पुनः प्रधानम्। तस्य सुषुप्तं प्रत्यनन्तर्यामित्वात्।

अनितरशरणैः--अनन्यथआसिद्धैरित्यर्थः। एते हि शब्दाः परमात्मविषयत्वे मुख्याः ,प्रधानविषयत्वे पुनर्जघन्यवृत्तय-- इत्यर्थः। हेत्वन्तरमप्याह--त्वमिति।तच्छब्दवाच्येन सह त्वंशब्दस्य जीवस्यैक्यमत्र व्यपदिश्यते। यदि तच्छब्दः प्रधानपरः, तदानीमतत्वोपदेश एवायं स्यात्; चेतनाचेतनयोरैक्योपदेशस्य देहात्मोपदेशवत् भ्रान्तिहेतुत्वात्। अत्र साधकान्तरमाह--जीवेनेति। स्वेन -- स्वात्मकेनेत्यर्थः। "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि " इत्युत्तमपुरुषसिद्धाहङ्कारपूर्वकमहमर्थव्यतिरिक्ताचिद्गणस्य प्रवेशात्,अत्र जीवशरीरकः परमात्मा जीवद्वारा जीवव्यतिरिक्तमचेतनजातं प्रविशतीत्यर्थः। तेन प्रवेष्टव्यस्याचिद्वस्तुनः साहङ्करणमहङ्कारसहितं प्रवेष्टृत्वं न योयुज्यत इत्युक्तं भवति। किं च "येनाश्रुतं श्रुतं भवति" इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा दृश्यते। सा पुनरीश्वरकारणत्व एव घटते नपुनः प्रधानकारणत्वे,प्रधानस्य चेतनं प्रत्यकारणत्वादित्याह--एकेति।हेत्वन्तरमप्याह--सर्वेति।"ऐतदात्म्यमिदं सर्वम्"इति

हि श्रुयते,प्रधानस्य क्रणत्वे कथं तत्तादात्म्यं सर्वशब्दान्तर्गस्य जीवस्य वक्तुं शक्यत इत्यर्थः।न केवलं छान्दोग्यश्रपत्यैव ब्रह्मकारणत्वं प्रतीयते,अपितु श्रुत्यन्तरेणापि।छान्दोग्येऽपि न केकलं सद्विद्यावाक्येन,किं तु दहरव्द्याभुमविद्यादेरेपि।अत्र आदिशब्देन उपबृंहणस्मृतिपुराणादिकं गृह्यते।अत्र विश्वविदिति नमित्तत्वोपयुक्तं सार्वज्ञ्यं गृह्यते।विश्वमुर्तिरित्युपादानत्वोपयुक्तं सर्वशरीरत्वं गृह्यत इति विभागः।अत्र पुपक्षसिद्धान्तोपन्यासप्रंकियाविभागः श्रीमतिभाष्ये न्यायसुदर्शनादौ च द्रष्टव्यः।अत्र चोपक्रमोपसंहारमहावाक्योपपत्तिः श्रुत्यन्तरविद्यान्तरादिप्राकाशनपरानां सुत्राणामनुक्रमोऽपि तत्रैवानुसन्धेयः।।

58. पूर्वोत्तराधिकरणयोस्संगतिद्वयोक्तिपूर्वकमुत्तराधिकरणार्थं संग्रहेणोपदर्शयति--मुख्येति। यदि सतो मुख्यमीक्षणमिष्टम्, तर्हि चेतनत्वात् मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादेका संगतिः।अन्या च सद्विद्यावाक्ये तत्त्वमसीति त्रिभिः पदैर्जीवब्रह्मणोरैक्यमेव नवकृत्वः प्रदर्शितम्, तथा च जीव एव जगत्कारणं ब्रहास्त्विति पूर्वपक्षोत्थानमिति। इत्यूहादुज्जिहानं पूर्वपक्षिणं निराकर्तुं पूर्वप्रस्तुतो विश्वकर्ता जीवस्याप्यन्तरातमा निरुपधिकमहानन्दवान् अत्राधिकरणे स्थाप्यते। तदर्थविचारस्तु --"ब्रह्मविदाप्नोति परम्"

इत्यस्मिन्वाक्ये यः पुनरानन्दमय उच्यते स किं जीव उत परमात्मा। पुनर्विचार्यते-- अत्र मयड् विकारार्थः प्राचुर्यार्थो वा। तदर्थं विचार्यते-- उपक्रमगतान्नमयशब्दस्थमयटो विकारार्थत्वानुसारेण अत्रापि मयटो विकारार्थत्वमेव युक्तम्, उत प्राचुर्यार्थत्वम्। पुनश्च विचार्यते-- उपक्रमावगतस्य मध्ये प्राणमयमनोमयादिभिर्विच्छेदो

ऽस्ति नवेत्यादि। फलफलिभावस्तु तत्राविच्छेदादुपक्रमावगतविकारार्थत्वस्यैवात्रापि ग्रहीतुं योग्यत्वेनानन्दमयशब्दस्थमयटो विकारार्थत्वादानन्दमयो जीव इति पूर्वपक्षे। व्यत्ययेन राद्धान्ते फलफलिभावः।।

59. अत्र कश्चिदाह "आत्मन आकाशः संभूतः" इत्यादिना सृष्टेरेवाभिधानात् पूर्वं "स वा एष पुरुषोऽन्नरसमयः" इत्यत्र विकारे मयड् दृश्यत इति चरमेऽपि "अन्यो ऽन्तर आत्माऽऽनन्दमयः" इत्यत्रापि एवमस्तु मयटो विकारार्थत्वमेवास्तु पूर्वोक्तस्य मयटो विकारार्थप्रत्यभिज्ञानादिति, तदिदमाह--दृष्ट इति। तन्निराकरोति--अयुक्तमिति। तत्र हेतुमाह-- मध्य इति। प्राणमयादिषु विकारार्थत्वभङ्गदृष्टेरित्यर्थः। फलितमाह-- प्रचुरमिति। विकारार्थत्वे को दोष इत्याशङ्क्याह-- अन्यस्येति। आनन्दमयादतिरिक्तस्य वस्तुनो बाधेन विकारार्थत्वस्य बाधितत्वादित्यर्थः। नन्वत्रानन्द प्राचुर्याभिधाने दुःखाल्पत्वमेव स्यात् यथा ब्राह्मणप्रचुरो देश इत्युक्ते शूद्राल्पत्वं प्रतीयत इति, तत्प्रतिक्षिपति--आनन्देति। अत्रानन्दप्राचुरी मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्ततया प्रकृतपरसुखाल्पत्वलब्धावधित्वात् आनन्दमयनिष्ञदुःखाल्पत्वं नापेक्षते, अपि तु

चतुर्मुखादिनिष्ठानन्दप्राचुर्यनिवृत्तिमेव। यथा "अन्नमयो यज्ञः" इत्यादि। नन्वानन्दप्राचुरी दुःखाल्पत्वेनापि निर्वक्तुं शक्यत इत्याशङ्क्य नेत्याह--परेति। परदुरितभित् संश्रितानां दुरितं भिनत्ति "आनन्दमयः" इति हि श्रूयते। "अथ सोऽभयं गतो भवति" "एतं ह वाव न तपति" " न कर्मणा लिप्यते पापकेन " इत्यादिकं वाक्यजातं शतशोह्यधीमहि। तस्मादत्र दुःखाल्पत्वशङ्का न संघटत इति। किं च "भीषास्माद्वातः पवते" "तस्य हवा एतस्य प्रशासने गार्गि" "प्रशासितारं सर्वेषाम्" इत्यादिभिः प्रशासितृत्वेन प्रतिपन्नस्यानन्दमयस्य पापाल्पत्वविरोध इत्याह-- शासितुरिति।।

 60.नन्वस्मत्पक्षे भवद्भिरानन्दमयत्वलक्षणं लिङ्गं विरुद्धमिति ह्युक्तम्। अस्माकमेक एवायं विरोधः, भवतां बहवो विरोधाः। आनन्दमयेऽपि "तस्यैष एव शारीर आत्मा यः पूर्वस्य "इत्यात्मान्तर कथनं विरुध्यते। शारीरत्वकथनमपि शरीरस्य कर्मफलत्वान्न युज्यते। न च घटते शोध्यत्ववादः परस्मिन्ब्रह्मणि अशुद्धिप्रसङ्गाभावात्। श्रूयते ह्यानन्दमयेऽपि "अन्नमयप्राणमनोमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्"इति

शोध्यत्ववादः।किं च तस्मिन्नेवानन्दमये फलनिर्देशदशायामुपसंक्रमितव्यत्वमुच्यते--तदपि विरुद्धम्।परमात्मनि नित्यमेव वर्तमानस्य जीवस्य कथमपूर्वमुपसंक्रमणमिति।एवं चतुरोऽपि विरोधाननुद्य चतुर्भिरपि पादैरणुक्रमेण समाधत्ते--आत्मेति।इयं किल समाधानप्रक्रिया "तसैव....आत्मा"इत्युक्तिरानन्दमये"स्वयं दासास्तस्विनः"इतिवदात्मान्तरनिवृत्यर्थेति को विरोधः?शारीरत्वकथनमपि भगवतः सर्वशरीरकत्वादानन्दमय एव

विशेषेणोपपद्यते।शोध्यत्वमपि"विशुद्धमेव राजहृदयम्"इत्यादिवदानन्दमयस्य प्रसाद्यत्वमेव। न पुनः पूर्वशुमद्धस्य कश्चित् शुद्धिविशेषः।लोकेऽपि राजहृदयं विशुद्धमित्यादौ निग्रहनिवृत्तिरेवोच्यते;अनुगुणस्यैवार्थस्य तत्रतत्र स्वीकार्यत्वात् ।आकाङक्क्षासन्निधानवद्योग्यत्वस्यापि वाक्यार्थनिर्णयाङ्गत्वात्।अत्रोपसंक्रमणमेव हि शिष्यते,तदप् संघटते;प्राप्तिरेव ह्युपसंक्रमणमुच्यते।प्राप्तिश्च पूर्वमननुभूतस्य ब्रह्मणः पश्चादनुभवसंभवः। एतदेवाभिधीयते " सोऽश्नुते सर्वान् कामान् सह " इति। अथवा देशविशेषप्राप्तिरेव ह्यस्माभिर्वक्तुं शक्यत इति। तदेव ह्युच्यते "वैकुण्ठे तु परे लोके " इति। अतोऽस्मत्पक्षे न विरोधावकाशः। अत्र पदार्थत्वं स्वयमेव भाव्यम्।।

 61. अत्र पुच्छब्रह्मवादी प्रत्यवतिष्ठते --निर्देह इति। आनन्दमयस्यैव ब्रह्मत्वे तस्य निरंशत्वात् " तस्य प्रियमेव शिरः" इत्यादिना शिरःपक्षादिभेदेन पञ्चप्रकारावयवक्लृप्तिर्न घटते। तस्मात् पुच्छं प्रतिष्ठा " इत्युक्तं सर्वभूताधिष्ठानतया विश्वप्रतिष्ठारूपं पुच्छमेव परं ब्रह्म, आनन्दमयस्य ब्रह्मत्वे शिरःपक्षादि क्लृप्ती-नामयोग्यत्वादिति। इमं पक्षं प्रितबन्द्या दूषयितुमुपक्रमते-- सोढेति।देशकालपरिच्छेदरहिततया भवद्भिरङ्गीकृतस्य सच्चिदानन्दरूपस्य ब्रह्मणः पुच्छत्वकथनं कथं युज्यते। श्रुतिप्रामाण्यसिद्ध्यर्थमस्माभिः पुच्छत्वकल्पनं सोढव्यमिति चेत् हन्त तर्ह्यस्माभिरपि आनन्दमये निरंशे प्रियमोदादितत्तद्विभागविवक्षया शिरः पक्षादिकल्पनं सोढव्यमिति संतोष्टव्यमायुष्मतेत्याह-- कथमिति। इतरत्--शिरःपक्षादिकमित्यर्थः। तर्ह्यत्यन्तविरुद्धमेतत्, यदानन्दमयस्य ब्रह्मण एव स्वप्रतिष्ठारूपत्वमिति। तच्च न विद्यते। स्वस्यैव स्वप्रतिष्ठानत्ववचनमनितराधारताख्यापनाय " स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि " इति श्रुत्यन्तरप्रकारेण सर्वप्रतिष्ठारूपस्य ब्रह्मणः प्रतिष्ठान्तरनिवृत्तिरेव ह्यत्रोच्यत इति को विरोधः। अत्र

पुच्छब्रह्मवादिनां बहून्यपि दूषणानि भाष्य एव व्यक्तमुक्तानीति श्लोकार्थमेव प्रदर्श्य विरमामः।।

 62. ईक्षत्यधिकरणविषयवाक्ये " तस्य तावदेव चिरम् " इति शरीरपातपर्यन्तो दुःखसंबन्ध उच्यते। तेन "तस्यैष एव शारीर आत्मा "इति शरीरसंबन्धी पुरुषो जीव एव स्यादित्याशङ्क्य परिहृतमान्दमयाधिकरणे कर्माधीनकरणकलेबरपरिग्रहस्यैव संसारात्मकत्वम्, नपुनः स्वाभाविकस्यैव विश्वशरीरस्येति। अतः परमन्तरादित्याधिकरणं प्रवर्तते अस्मिन्नधिकरणे न केवलमन्तर्यामित्वावस्थानमात्रेण शरीरात्मभाव उच्यते, अपितु पाणिपादाक्षिकेशादिविभागवच्छरीरसंबन्धी पुरुषः, तादृशशरीरसंबन्धित्वं जीवस्यैव संभवतीति पूर्वपक्षोत्थानेन संगतिः। पूर्वं जीवसामान्यस्य निरासः, इदानीं जीवविशेषस्य निरास इति च संगतिः। तदिदमाह-- भूयिष्ठेति।

पूर्वोक्ताः खलु मनुष्यानारभ्य प्रजापतिपर्यन्ता भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धैश्वर्याः केचित्पुरुषाः, तेष्वेव कश्चिदीश्वरः प्रवाहरूपेण वर्तत इति कल्प्यमिति च पूर्वाधिकरणसंगत्यन्तरमुच्यते। अयमर्थः -- पापोत्तराः पुण्यपापयोस्तुल्यवृत्तयश्च मा भूवन् , अपि तु पुण्योत्तराः केचिदीश्वरत्वेन प्रकल्प्येरन्निति। अत्रोत्तरम् --तन्नेति। तत्र हेतून्प्रमाणानुसारेण संगृह्णाति -- अकर्मेति। अकर्माधीनदिव्यशरीरवान्। जनिः --जन्म। महिमा- माहात्म्यम् । सर्वपुंसां स्वाभाविकनियन्ता। नित्यश्रीः-- नित्यमेव लक्ष्मीसंबन्धवान्। एवंभूतः पुरुषः , ब्रध्नबिम्बे - सूर्यमण्डले, श्रुत इति, " स य एषोऽन्तर्हृदय आकाशः "

इत्यनुवाकश्रुतः परमपुरुषः एक एव --"एषोऽन्तरादित्ये " इत्यन्तरादित्यविद्यायां श्रूयत इति न जीवविशेषशङ्कावकाशः। "एष सर्वेभ्यः पाप्मभ्यः उदितः उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद " इत्यत्रैव हि श्रूयते। " समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः " इत्यादिकमत्र भाव्यम्। "न सा कर्मनिमित्तजा " इति हि तत्रोच्यते। ऐतिहासिकमपि "व्यक्तमेष महायोगी " इत्यादिकं सुप्रसिद्धमेव। अत्रोक्तं शासितृत्वं हि " अन्तः प्रविष्टऋ शास्ता जनानां सर्वात्मा " " प्रशआसितारं सर्वेषाम्" इत्यादि-- बहुप्रमाणसिद्धत्वात् सर्वविषयमेवानुसन्धातव्यम्। अयमत्रसंग्रहः -- सूर्यमण्डलान्तर्वर्तिनो भगवद्विग्रहस्याकर्माधीनत्वादप्राकृतत्वादाश्रितानुग्रहार्थत्वाच्च विग्रहसंबन्धमात्रेण जीवविशेषत्वाशङ्कावचनं परमपुरुषविद्वेषिणां पापिष्ठानां प्रलापः। अत्र तदर्थविचारोऽपि किंदिदालिख्यते। आदितमण्डलान्तर्वर्ती पुरुषः किं जीवविशेषः उत परमात्मेति। तदर्थं विचार्यते -- किं पाणिपादादिविभागवच्छशरीरादिसंबन्धो जीवत्वं प्रसाधयति न वेति। तदर्थं पुनर्विचार्यते -- किमयं शरीरसंबन्धः कर्माधीनः, उताकर्माधीन इति। पुनरपि विचार्यते -- सर्वपाप्मोदितत्वादिवचनं किं कर्माधीनत्वं निवारयति उत नेति। तदर्थमपि पुनर्विचार्यते -- तत्र पाप्मशब्दः किं पापमात्रपरः, उत पुण्यपापात्मककर्ममात्रपर इति। फलफलिभावस्तु पाप्मशब्दस्य पापमात्रपरत्वेन सर्वपाप्मोदितत्वादिवचनस्य कर्माधीनत्वनिवारकत्वाभावात् शरीरसंबन्धस्य कर्माधीनतया नियमेन जीवकर्माधीनत्वादित्यमण्लान्तर्वर्ती पुरुषो जीव इति। राद्धान्ते फलफलिभावोऽन्तेवासिभिः स्वयमेवोह्यः।।

 63. अत्र चेदकः प्राह -- अन्तरादित्यविद्यायां " सर्वेभ्यः पाप्मभ्यः उदितः " इति भगवतः सर्वपापरहितत्वमुच्यते, विशेषनिषेधे शेषाभ्यनुज्ञानमिति तान्त्रिकाणां प्रक्रिया, तथा चादित्यमण्डलान्तर्वर्तिनि पुरुषे पापनिषेधात् पुण्याभ्यनुज्ञानमस्तीति। तदिदमाह-- सर्वेभ्य इत्यादिना। तन्निराकरोति --मैवमिति। अत्र हेतूनाह--

आम्नात इत्यादिना। "न तस्येशे कश्चन " इत्यादिभिर्बहुभिः प्रमाणैर्भगवतोऽनन्यशास्यत्वं प्रतीयते, अन्यशास्यो हि राजकिंकरः शासनातिसङ्घनात् प्रत्यवायमुपेयात्, तदनुपालनादनुकूलं फलम्। ईश्वरस्यानन्यशास्यत्वाद् दुरितवत् परशासनानुवर्तनरूपं सुकृतमपि न संभवतीत्ययमेको हेतुः। हेत्वन्तरमाह ---स्ववशेति। "फलमत उपपत्तेः" इति न्यायेन परेषामिष्टमनिष्टं वा फलं भगवानेव ददातीत्युच्यते तस्य कथं सुकृतसंबन्धः संभवतीति। किं च " स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् " इति ह्यर्थात् सुकृतसंबन्धः प्रतिक्षिप्यते, तच्च विरुद्धं तव। तर्हि पाप्मशब्दः पुण्ये कथं प्रयुज्यते? इत्यत्राह -- स्यादिति। पुण्येऽपि पापलक्षणयोगादिह पाप्मशब्दः प्रयुज्यते। अस्ति हि पुण्येऽपि पापलक्षणयोगः, अनिष्टफलसंबन्धित्वात् । लोके हि कस्यचिदिष्टं फलमन्यस्यानिष्टं भवति।तथा च स्वर्गादिकमिष्टं फलमध्यात्मविदामनिष्टमित्यधिकारिविशेषापेक्षया पापमेव काम्यं कर्म। अत्र श्रौतप्रयोगरूपं प्रबलव्यवस्थापकमाह-- न सुकृतमित्यादिनेति। अत्र हि सुकृतं दुष्कृतमुभयमपि निर्दिश्य द्वयोरपि पाप्मशब्देन निर्देशः स्पष्टमेव क्रियते। तस्मात् दुरितवत् सुकृतस्यापि पाप्मशब्दवाच्यत्वात् सर्वपाप्मो#ोदितवचनं सुकृमनिवृत्तिमप्याहेति सिद्धम्।।

64. अत्र पुनश्चोदयति परस्य ब्रह्मणो विग्रहोऽस्तीति भवद्भिरुक्तम्, स विग्रहः किं पारकृतः, उताप्राकृतः, अप्राकृतत्वेपि किं भगवत्स्वरूपमेव उत तत्त्वान्तरम्। पूर्वत्रास्मदुक्तं संसारित्वमेवापद्यत इति घट्टकुटीन्यायः, द्वितीये पक्षे स्वरूपपरिणामप्रसङ्गः, तृतीयोऽपि पक्षो न घटते, प्रकृतिपुरुषेश्वरकालव्यतिरिक्ततत्त्वान्तराभावात्, अतः कथं तदिति। एतन्निराकरोति --प्रख्यातमिति। प्रख्यातम् -- "पादोऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि "

" वैकुण्ठे तु परे लोके " " तमसः परमो धाता " " स्वसत्ताभासकं सत्त्वम् " इत्यादिभिः । शुद्धसत्त्वम् -- रजस्तमोरहितसत्त्वाश्रयभूतम्। दिव्यं किमपि द्रव्यं तत्। अनघत्वं संसारप्रवर्तनोपकारणत्वाभावादुच्यते। तस्याव्यक्ततोऽन्यत्वं " त्रिपाद्स्यामृतं दिवि" इति व्यक्तमेवाभिधीयते। अनेन भगवतो रूपं प्राकृतं स्वरूपं च न भवति अपितु अप्राकृतं द्रव्यान्तरमित्याह -- तद्रूपमिति। " तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत्" इति भगवान् पराशरः प्राह। वैरुप्यं विरूपमित्यर्थः। तेन विप्रतिपन्नं रूपं प्राकृतं रूपत्वात् तदनित्यं सावयवत्वादित्यादयः परेषां हेतवो निरस्ताः। तादृग्विधरूपसिद्धौ धर्मिग्राहकप्रमाणविरोधः। अप्राकृतानित्यत्वादिविशेषणयोगेनैव प्रमाणसिद्धत्वात्। असिद्धौ चाश्रयासिद्धेरिति स्वकीयां प्रक्रियां स्वयमेव स्मरतु हैतुकः। नन्वस्तु भगवतस्तादृशं रूपम्, अनन्तगरुडादीनां का गतिरिति चेत् भगवानेव गतिः। " तद्विष्णोः परमं पदम्" " आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह " इत्यादिप्रमाणशतव्याहतत्वात् शङ्कापिशाचिकायाः। अस्तु वैकुण्ठवासिनस्तादृशं रूपम्, अथापि तस्य नित्यत्वादौ निश्चायकं किमित्याशङ्क्य श्रुतिपुराणादीत्यभिप्रायेणाह-- नित्यमिति। "सदा पश्यन्ति" " नित्यं नित्याकृतिधरम् " " नित्यसिद्धे तदाकारे तत्परत्वे च

पौष्कर " " श्रीवत्सवक्षा नित्यश्रीः " इत्यादिप्रमाणसहस्रमनुसन्धेयम्। अस्तु सर्वं गुणजातं वैकुण्ठवासिनो भगवतः, रामकृष्णादयस्तु प्राकृताः कर्मवशेन सुखदुःखादिभाजश्च, कथं तेषामाराधनेनास्माकमापवर्गिकी सिद्धिरित्याशङ्क्य पराशरपाराशर्यादिमतानुसारेण अप्राकृतत्वादिकं गुणजातमाह-- अजहदित्यादिना ग्रन्थशेषेण। " समस्तशक्ति" इत्यादि पराशरवचनम्। "न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः " इति पाराशर्यवचनमप्यनुसन्धेयम्। " व्यक्तमेष महायोगी परमात्मा सनातन " इति वल्मीकसंभवोऽप्याह। तेनावतारेषु शोकमोहाद्यनुकरणं नटानां नाटकेष्विव परिहासरूपमेवेति मन्तव्यम्। परव्यूहादिविभागः पञ्चरात्रादिषु स्पष्टमेवानुसन्धेयः।।

 65. उक्तमेवार्थं पूर्वपक्षानुवादपूर्वकं प्रतिबन्द्या स्थिरीकुर्वन् दुःखित्वादि नटनफलमपि प्रदर्शयति -- देहत्वादिति । इहैवं प्रतिबन्दी -- यदि शास्त्रैकवेद्यार्थे बाधः क्वचिदिष्यते - तर्हि अग्नीषोमीयहिंसादावपि बाधः स्यादिति। अत्र श्रुतिसिद्धत्वान्न बाध इति प्रतिबन्दीमोचने बन्दीमोचनमपि तथैव स्यादिति। भगवद्विग्रहादेरपि श्रुतिसिद्धत्वात् दुःखमिश्रत्वादिवचनमासुरोपप्लवार्थमित्युक्तम्। आसुराः - कंसादयः। कृष्णादीनां बाल्यादिनटनं परमार्थ एवेति मत्वा पुनः पुनः प्रातिकूल्ये प्रवर्तेरन् तत्प्रवृत्त्यैव विध्वंसेरन्निति। "विनाशाय च दुष्कृताम्" इत्युक्तदुष्कृद्विनाशफलं बाल्यादिनटनमित्यर्थः।।

 66. अत्रोक्तानामधिकरणानामर्थैक्यादेकपेटिकात्वमध्यायपरिसमाप्तिपर्यन्तमागामिनामधिकरणानामर्थविशेषा

-- भावान्नैरर्थक्यमाशङ्क्यमानस्य पूर्वपक्षवादिनः प्रकारभेदेन प्रयोजनवत्त्वमुपपादयन् सर्वाधिकरणसाधारणं भगवद्गुणविशेषानुसन्धानरूपं प्रधानं प्रयोजनं प्रकटमेवाचष्टे -- इत्थमिति। विद्यात्रयेण सद्विद्याद्यधिकरणत्रयोक्तेन स्थावरजङ्गमात्मकचेतनाचेतनात्मकस्य सर्वकारणस्य भगवतः प्रधानाज्जीववर्गाच्चादित्यादेरप्याधिक्यं यद्यपि स्यात् । तथापि " अस्पष्टतरमस्पष्टं स्पष्टं छायानुसारी च " इत्युक्तक्रमेणोत्थानद्वारभेदात् क्रमेणोत्थितान् मृदूपक्रमक्रूरनिष्ठान् प्रतिवादिनो ऽस्मिन्नध्याये निरुन्धन् सन् शिष्टैरधिकरणैर्भगवद्गुणानपि विशेषतः प्रकाशयतीतिशब्दार्थः। अयमत्रभावः -- यथा युद्धेषु पदात्यश्वगजरथानां पूर्वपूर्वदुर्बलानां दुर्बलभङ्गे प्रबलयोधनम्, एवमस्पष्टतरजीवलिङ्गानां पूर्वपूर्वभङ्गे पुनरुत्तरोत्तरपरिग्रहेण पूर्वपक्षः प्रवर्तते। तत्प्रवृत्तिकुण्ठनमन्तरेण जातमपि तत्त्वज्ञानं न प्रतितिष्ठतीति। तेनाध्यायशेषोऽप्यारम्भणीय एव। किं च सर्वेष्वप्यधिकरणेषु तत्तदधिकरणप्रतिनियता भगवद्गुणा विशेषतः प्रकाशन्ते, तेषां गुणानां कार्त्स्न्येनानुसन्धानमध्यायशेषप्रयोजनमित्यास्माको मार्गः। निर्विशेषावादिनां तु एकेनैवाधिकरणेन निर्विशेषं प्रतिपन्नमिति प्रतिपाद्यगुणविशेषाभावादुत्तरेषामधिकरणानां नैष्फल्यमेवेति हृदयम्।।

 67. एवं पूर्वपेटिकया सहाध्यायशेषस्य संगतिमुक्त्वा पादशेषस्य संगतिं वक्तुं पूर्वोत्तरपेटिकयोः स्वरूपमपि

विशेषतः प्रकाशयति--- शब्दैरिति। " अथातो ब्रह्मजिज्ञासा " इति शारीरकशास्त्राद्यपेटिकायां ब्रह्म जिज्ञास्यमित्युक्तम्। तत् ब्रह्मसदात्मापुरुषरूपसाधारणशब्दप्रतिपन्नं ब्रह्म किं प्रकृतिः किं वा जीवः अथवा उपचितपुण्यविशेषः कश्चिज्जीवविशेषः, पाप्मशब्दस्य साधारणत्वेन पुण्यापुण्यरूपपाप्मोदितत्वेऽपि किं पुण्डरीकाक्षः, अन्यो वा कश्चिच्चतुर्मुखविरूपाक्षादिरित्याशङ्क्य पुण्डरीकाक्ष एवेति निर्धारितं पूर्वपेटिकायाम्। तत्रेतरव्यावर्तकलिङ्गान्याह-- संकल्पेति। संकल्पात् प्रधानव्यावृत्तिः। आनन्दाभ्यासाज्जीवसामान्यं व्यावर्त्यते। अप्राकृतरूपविशेषादुपचितपुण्यविशेषो जीवोऽपि । तत्रापि पुण्डरीकाक्षत्वश्रवणात् चतुर्मुखादिरपीति हार्दो भावः।

अतदननुगुणैः -- अनन्यथासिद्धैरित्यर्थः। अत्र पूर्वपक्षी प्रत्यवतिष्ठते --पूर्वाधिकरणत्रये लिङ्गैरेव सामान्यश्रुतिबाधेन प्रधानादिव्यावृत्तिर्भवद्भिरभिहिता। लिङ्गाद् विशेषश्रुतिर्बलीयसी। सा हि रूढिशक्त्या वर्तते। तेनाकाशप्राणज्योतिरिन्द्रियादिविशेषश्रुत्या लिङ्गानि बाधित्वा प्रसिद्धाकाशादिकमेव जिज्ञास्यब्रह्मत्वेन स्वीकार्यमिति। तेन पादशेषात्मकपेटिकासंगत्यमुक्तं भवति। तदेतदाह-- भूतेति। आकाशो द्विविधः -- " यदेव आकाश आनन्दो न स्यात् " इत्यध्यात्मवितसम्मतएकः, पामरपरीक्षकाविशेषेण सर्वलोकप्रसिद्धो भूताकाशोऽपरः। तेन प्रसिद्ध्यतिशयानुसारेण भूताकाशएवात्र ग्राह्यः। एवं प्राणादावपि द्रष्टव्यम्। एवमाकाशादीनां विशेषश्रुत्या पूर्वाधिकरणत्रयोक्तं लिङ्गं बाधित्वा पूर्वपक्ष्यभिप्रायेण निरस्य सिद्धान्ती पुनराकाशादिविशेषसमुदायासंभव प्रतिपादनेन तदेव ब्रह्मप्रतिपादकं लिङ्गं प्रधानादिव्यावर्तकं भुनक्ति- रक्षतीत्यर्थः। " भुजोऽनवने " इति रक्षणव्यतिरिक्तार्थविवक्षायामात्मनेपदविधानात्। अयमाशयः -- रूढिर्योगमपहरतीति सिद्धमेव, अथापि प्रमाणपरिक्लृप्तो योगो रूढिमेव बाधत इति न्यायविदां निर्णयः। अत्र च " सर्वाणि ह वा इमानि" इति प्रसिद्धवन्निर्देशो दृश्यते। हवा इति प्रसिद्धइप्रतिपादकाव्ययदर्शनात्। प्रसिद्धिश्च कारणवाक्येषु ।

तेषु च छागपशुन्यायादिना नारायणपरत्वं सिद्धमेव। अतो नारायणप्रत्यभिज्ञापकप्रसिद्धवन्निर्देशयुक्तानन्यथासिद्धवाक्यस्थ सर्वकारणत्वलिङ्गपरिक्लृप्तो योग आकाशशब्दस्य रूढिं बाधत इति युक्तमेव। शेषं भाष्ये।।

 68.अतः परमुत्तरेषां चतुर्णामधिकरणानां युगद्वयेन भेदमन्योन्यसंगतमप्याह -आकाशेति। आकाशप्राणशब्दावनितरगतिकौ प्रसिद्धाकाशप्राणप्रतिपादनानार्हौ परस्मिन्ब्रह्मणि रूढिं हित्वा योगशक्त्यैव प्रतिपादनीयौ। तेन द्वयोरधिकरणयोरेकपेटिकात्वसिद्धिः। तथोत्तराधिकरणयोरूढिभङ्गमन्तरेण रूढार्थविशिष्टब्रह्मपरत्वादेकपेटिकात्वं सिद्धम्। तत्र ज्योतिश्शब्दस्य तावद्रूढार्थविशिष्टपरत्वं दर्शयति -- ज्योतिरिति। "न तत्र सूर्यो भाति " "नचोदेति नास्तमेति " " यदादित्यगतं तेजः " इत्यादिकं हि प्रमाणजातमुपलभ्यते। एवमिन्द्रियादिशब्दोऽपि इन्द्रादिविशिष्टपरमात्मपरतया रूढ्यभङ्गेन विशेषणमात्रार्थवसानमाश्रित्य नेतव्यः। तथाचार्थभेदात् पेटिकाद्वयसिद्धिरिति निगमयति -इत्येवमिति। एकत्र यौगिकशक्तिरन्यत्र विशेषणमात्रापर्यवसिता रूढिशक्तिरिति शब्दप्रवृत्तिक्रमः।।

 69. पूर्वं " य एषोऽन्तरादित्ये हिरण्मयः पुरुषः " इत्यादित्यान्तर्वर्तिनः कस्यचित् पुरुषस्य विशेषलिङ्गात् वेदान्तवेद्यत्वमुक्तम्। इदानीं तदभावादाकाशस्य विशेषश्रुत्या वेदान्तवेद्यत्वमाशङ्क्य परिह्रियत इति संगतिः।

प्रसिद्धाकाशब्रह्मणोराकाशशब्दयोगसाधारण्यं संशयबीजमित्यादि स्वयमेव भाव्यम्। तदर्थविचारस्तु " सर्वाणि हवा इमानि भूतानि " इत्यादिच्छान्दोग्यवाक्यस्थाकाशशब्दः किं प्रसिद्धाकाशपर उत परमात्मपर इति; तदर्थं विचार्यते -- किमयमाकाशशब्दो रूढिशक्त्या वर्तते उत नेति, तदर्थमपि विचार्यते-- किं रूढिर्योगमपहरतीतिन्यायापवादकं

न्यायान्तरं न विद्यते, उत विद्यत इति। पुनश्च विचार्यते -- प्रसिद्धवन्निर्देयुक्तमत्रत्यकारणत्वादिकं चेतनमात्रविषयमुत चेतनाचेतनाविषयमित्यादि।। फलफलिभावस्तप " इमानि भूतानि" इति प्रसिद्धार्थविषयकारणत्वानुवादस्याचेतनमात्रविषयत्वेन योगशक्तिकल्पकन्यायान्तराभावात् आकाशशब्दो रूढ्यैव वर्तत इत्ययं शब्दः प्रसिद्धाकाशपरः। सिद्धान्तेऽपि स्वयमेव वाच्यः। अत्र पूर्वपक्षवादी मन्यते -- छान्दोग्ये ह्याकाशशब्दः सर्वोत्पत्तिविलयकारणवाचकतया दृश्यते , स चाकाशस्तैत्तिरीयेऽनन्योत्पाद्यतया कथ्यते " आत्मन आकाशः संभूतः " इति, तस्यानन्योत्पाद्यत्वं सर्वकारणत्वेन नित्यत्वादेव युज्यते इति। तदिदमाह -- अत्रेत्यादिना। तन्निराकरोति -- मैवमिति। तत्र हेतुमाह-- सिद्धेति।" हवै" इति प्रसिद्धवन्निर्देशयुक्तस्यास्य वाक्यस्य सिद्धानुवादविषयत्वात् पूर्वप्रसिद्धिरवश्यापेक्षणीया। प्रसिद्धिश्च कारणवाक्येषु, तानि च नारायणविषयाणीति

प्रागेवोक्तम्। तस्मादाकाशशब्दो न प्रसिद्धाकाशपर इत्यर्थः। किं च " आकाशः परायणम्" इति आकाशस्य परमप्राप्यत्वमत्रैव श्रूयते। नह्यचेतनं किंचित् परमप्राप्यमित्यात्मविदो वदन्ति। तदिदमाह- अथेति। तस्मिन्नाकाशे परमप्राप्यत्वं न संभवतीत्यर्थः । दूषणान्तरमाह-- तदिति। " तदैक्षत, तत्तेज ऐक्षत, ता आप ऐक्षन्त " इत्यादिषु तत्तकर्ता विपश्चित्त्वेनैव हि श्रुतः। तथाचाकाशस्य विविधदर्शनं न संभवति। अथवा तत्कर्तेतिआकाशकर्तेति। ब्रह्मवल्ल्यां विपश्चिता ब्रह्मणेति जगत्कारणं वस्तु विपश्चित्त्वेनैव हि श्रूयते। विविधं पश्यच्चित्त्वं हि विपश्चित्त्वमिति व्याचख्युः। तेनात्मशब्दः परमात्मवाचकः। यत्तूक्तमात्मन आकाश इति स्वात्मन आकाशोत्पत्तिरभिधीयत इति, तत्र मुख्यार्थस्वीकारे बाधः, अमुख्यार्थस्वीकारे स एव दोषः। तस्मादात्मनः परमात्मन आकाशः संभूत इत्ययमेवार्थ इत्यभिप्रायेणाह-- विहतेति।।

70.अत्रैवं पूर्वपक्षवादी मन्यते-- प्रसिद्धाकाशे जगदुत्पत्तेरप्रत्यक्षत्वात् आकाशशब्दे रूढिभङ्गो न्याय्यः, इह तु प्राणे सर्वेषामपि पुरुषाणां प्राणायत्तप्रवृत्तिकत्वस्योपलम्भादस्माकमनुकूललिङ्गं यत् तदेव युष्माकं प्रातिकूललिङ्गम्, तेनानुकूललिङ्गसघ्रीची प्राणरूढिशक्तिरभञ्जनीयेति। तदिदमाह-- प्राणायत्तमिति। तन्निराकरोति - तन्नेति । तत्र हेतुमाह- प्राणस्येति। " सर्वाणि हवै " इति चेतनाचेतनविभागाभावेन कृत्स्नस्यापि प्रपञ्चस्य प्राणायत्तप्रवृत्तिकत्वमुच्यते। अचेतनेष्वेव केषुचिच्छिलाकाष्ठादिषु प्राणायतीति व्युत्पत्तिमाश्रित्य प्राणशब्दवाच्यतया स्वीकार्य इत्यर्थः। पूर्वाधिकरणोक्तं हेतुमत्रापि योजयति -- पूर्ववदिति। उभयत्रापि हवा इति शब्दस्य विद्यमानत्वादित्यर्थः। अत्र भगवति प्राणशब्दस्य श्रौतं प्रयोगं सदृष्टान्तमाह-- आकाशेति। यथा परमात्मविषयस्याकाशशब्दस्य श्रुतौ तत्रतत्रोपलभ्यमानत्वादाकाशशब्दः परमात्मविषयः, एवं निखिलप्राणिप्राणनोक्तेर्दृष्टत्वात् प्राणशब्दोऽपि परमात्मविषय इत्युक्तं भवति। तदर्थविचारफलफलिभावौ पूर्वाधिकरणवत् स्वयमेव कल्पनीयौ। संगतिः पुनातिदेशिकी।।

 71. पूर्वोक्ताधिकरणद्वयसाध्यप्रसाकयुक्तीनामुक्ताधिकरणद्वयविषयवाक्योरभावेनोज्जिहानस्य पूर्वपक्षिणो निराकरणं प्रकारान्तरेणात्र क्रियत इति पूर्वोत्तरपेटिकावैषम्यं प्रकाशयति शिष्यानुग्रहेण नोक्तिमिति। यत् सिद्धान्तानुकूलं लिङ्गं तत्

पूर्वपक्षविरुद्धं यत् पुनः पूर्वपक्षानुकूललिङ्गं तदेव सिद्धान्ताविरुद्धमिति विरोधाविरोधप्रक्रिया। अत्राकाशादिविशेषशब्देन पूर्वयोरधिकरणयोः ।स्वसाध्योपस्थापकसिद्धान्तानुरूपपूर्वपक्षयुक्तिदार्ढ्यात् सिद्धान्तनिर्णयः कृतः। अत्र तावत् पूर्वपक्षवादी मन्यते- यथा पूर्वयोरधिकरणयोः सर्वकारणत्वादिकं लिङ्गं विशेषोकिं्त व्याहरन्ति तथोत्तरयोरधिकरणयोः किमपि लिङ्गं विशेषोकिं्त न व्याहन्ति। अपि तु पूर्वपक्षोक्तप्रसिद्धज्योतिरिन्द्रियोरनुकूलं कौक्षेयज्योतिरैक्यादिकं लिङ्गमप्यस्तीति दर्शयति--- भवतीति। तदेव सिद्धान्तभूतपरब्रह्मत्वप्रतिकूलम्। नकेवलं लिङ्गेनैव वदामः, किंतु प्रधानभूतया श्रुत्यापीति दर्शयति -- शब्द इति। अनन्यनिष्ठः --विशेषशब्द इत्यर्थः। एवं चतुर्भिर्हेतुभिः परमात्मा न ज्योतिराद्युक्तिवेद्य इति पूर्वपक्षिणो विशेषाभिप्रायसंग्रहः। एवं तर्हि ज्योतिरादिषु साक्षात्कारणत्वकथनाभावे कथं ज्योतिरादिकारणत्वशङ्कावकाश इत्याशङ्क्य साक्षात्कारणत्वकथनाभावेऽपि कारणत्वाक्षेपकयत्किञ्चिदाभासनिरतिशयगीप्त्यादिलिङ्गेन ज्योतिरादिकारणत्वं शङ्कितुमपि कथंचिच्छक्यमित्याह-- विश्वेति। एवमाक्षिपन्तमनन्तराधिकरणाभ्यां निराकरोति -- रुन्ध इति। तदुचितेति -- भगवत इदिद्युत्यनुरूपचेतनाचेतनवैशिष्ट्यप्रदर्शनेन निरुन्ध इति शब्दार्थः।।

 72. अत्राकाशादिषु त्रिष्वधिकरणेषु " आकाशाद्वायुः " इत्यादिश्रुत्युक्तक्रमेण पूर्वपक्षोत्थानं समाधानं चेति

संगतिः। प्रसिद्धज्योतिः परमात्मनोस्तत्रतत्र ज्योतिश्शब्दप्रयोगसाधारण्यं संशयकारणम्। तदर्थविचारस्तु --" अथ यदतः परोदिवः " इत्यादिवाक्ये ज्योतिश्शब्दः प्रसिद्धज्योतिर्वाचकः, उत परमात्मवाचकः। तदर्थं विचार्यते -- स्ववाक्ये परमात्मासाधारणलिङ्गाभावेऽप्युपक्रमस्थं परमात्मासाधारणं लिङ्गं ज्योतिश्शब्दस्य परमात्मवाचकत्वं न प्रतिपादयति, उत प्रतिपादयतीति। तदर्थमपि विचार्यते -- उपक्रमेऽपि परमात्मासाधारणं लिङ्गं नास्ति उतास्तीति। ततश्च विचार्यते। -- " गायत्रीवा इदं सर्वम् " इत्युपक्रमस्थगायत्रीशब्दः परमात्मपरत्वं बाधते न वेति। पुनश्च विचार्यते - एतद्वाक्यस्थो भूतादिपादव्यपदेशो गायत्रीमात्रपरत्वं न व्यावर्तयति, उत व्यावर्तयतीति।

फलफलिभावः स्वयमेवोन्नेयः। अत्र पूर्वपक्षी मन्यते -- आकाशप्राणाधिकरणयोरिव ज्योतिरधिकरणविषयवाक्ये

ज्योतिश्शब्दस्य परमपुरुषवाचकत्वस्थापकं सर्वकारणत्वादिकं प्रसिद्धज्योतिर्विरुद्धलिङ्गं नोपलभ्यते। उपलभ्यते चानुकूललिङ्गं कौक्षेयज्योतिषैक्यम्। तदिदमाह-- कौक्षेयेति। तथा च तदेव जगत्कारणम्। न केवलमनया विद्यया प्रतीयते अपितु वैश्वानरविद्यायामपि तदेव जगत्कारणत्वेन प्रतीतमित्याह-- तरयेति।फलितमा-- अत इति। निराकरोति -- मैवमिति। हेतुमाह-- पुंसूक्तेति। उपक्रमे हि " पादोऽस्य सर्वा भूतानि " इति वाक्येन पुरुषसूक्तस्थं " पादोस्य विश्वा भूतानि " इत्यादिवाक्यं प्रत्यभिज्ञाप्यते। पुरुषसूक्ते हि नारायणपरत्वं सुप्रसिद्धमेव। तच्च कारणत्वं नारायणे " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ " इति लक्ष्मीपतित्वलिङ्गसामर्थ्यात् , " भगवानितिशब्दः" इति पराशरवाक्याच्च। तर्हि वाक्यशेषस्थकौक्षेयज्योतिरैक्यस्य का गतिरिति चेत् तस्य न्यायविरोधेन बाध एव गतिः। उपक्रमोपसंहारयोरुपक्रमो बलीयानिति हि न्यायविदः। अत्राश्वप्रतिग्रहेष्टिन्याय एवोदाहरणम्। ननु सर्वोक्रमे " गायत्री वा इदं सर्वम् " इति गायत्रीपरत्वप्रदर्शनादुपक्रमवाक्यं गायत्रीमेव प्रतिपादयति न पुनः परमपुरुषमित्याशङ्क्य तस्याप्यन्यथासिद्धिमाह-- गायत्रीति। गायत्र्युक्तिश्चतुष्पात्त्व साम्यादेव न पुनः गायत्रीस्वरूपत्वात्। इत्थमवगमे को हेतुरित्याशङ्क्य नियामकं हेतुमाह-- अपि चेति। अस्मिन्खलु वाक्ये गायत्रीशब्दवाच्यस्य परस्य ब्रह्मणः सादृश्येन भूतपृथ्वीशरीरहृदयानि निर्दिश्यन्ते। गायत्रीशब्दस्य परमात्मपरत्वे नियामकं परमात्मनो विश्वात्मकत्वं न केवलमक्षरसंघातरूपायां गायत्र्याम्, अत उपक्रमवाक्यानुसारेणैवोपसंहारस्य वर्णयितुं शक्यत्वात् ज्योतिश्शब्दवाच्यं परमेव ब्रह्मेति निर्णयः। प्रयुज्यते च " तं देवा ज्योतिषां ज्योतिः " इत्यादिषु परस्मिन्नेव ब्रह्मणि ज्योतिशब्दः स्थलान्तरेष्वपि।।

 73.श्रीमद्भाष्यग्रन्थे मन्दप्रतिबोधार्थं पूर्वोत्तरवाक्ययोः परस्परं व्याहतिमाशङ्क्य परिहरति-- उत्थानमित्यादिना इत्थमित्यन्तेन। एतदधिकरणारम्भे ज्योतिरादावधिकरणयुगे कारणव्याप्त- लिङ्गादुत्थानमिति भाष्यकारैरेवाभाष्य पुनरपि पूर्वपक्षोपन्याससमये प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मलिङ्गविशेषादर्शनादित्युक्तम्, अतः कथमविरोध इति। अत्र निराकरणहेतुमाह-- विश्वेति। अयं किल भाष्यकाराभिप्रायः -- एवं किल मन्यते पूर्वपक्षी "" विश्वतःपृष्टेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु " इत्यादिकं कारणत्वाक्षेपकमवभासात्मकं लिङ्गमस्ति।

अथाप्युभयलिङ्त्वादिविशिष्टपरमपुरुषप्रतिष्ठापकं जगत्कारणत्वादिकं स्ववाक्ये लिङ्गं नास्तीति। अतो न विरोधइत्याह-- व्याहतिरिति। अयमर्थः - सिद्धान्तोपन्यासभाष्ये यद्यपि " अथ यदतः परदिवो ज्योतिः" इत्येतस्मिन्वाक्ये परमपुरुषासाधारणं लिङ्गमस्तीति भाष्यकारहृदयम्। अनुत्तमेषूत्तमेषु लोकेषु द्योतत इति विशेषणद्वयोपादानमप्राकृतदिव्यलोकवासिनो ज्योतिष एव संघटते। न पुनरण्डान्तर्वर्तिनो वा ज्योतिर्मात्रस्येति भावः।।

। 1.1.11

 74. अत्र संगतिर्भाष्यकारैरेवोक्ता " निरतिशय " इत्यादिना। आदित्यादिपरज्योतिश्शब्दे निरस्ते परो ज्योतिषामधिपतित्वेन परकल्पित इन्द्रोऽपि जगत्कारणत्वेनाशङ्क्य निरस्यत इति। अथवा उपक्रमप्राबल्यादुपसंहारोक्तार्थनिरासः पूर्वाधिकरण उक्तः, तर्हि तेनैव न्यायेन प्रतर्दनविद्यायामपि उपक्रमप्राबल्यादुपसंहारवाक्यप्रतिपन्नपरमपुरुषपिरकल्पनं बाध्यमिति पूर्वपक्षोत्थानेन संगतिः। तदर्थविचारस्तु प्रतर्दनविद्यायां किं प्रसिद्ध एवेन्द्रः प्रतिपाद्यते उतेन्द्रशरीरकः परमात्मा। एवं प्राणेऽपि वाच्यम्। तदर्थं विचार्यते - पूर्वाधिकरणोक्तोपक्रमाधिकरणन्यायेनात्राप्यर्थोपवर्णनं न्याय्यम्, अथवा नेति। उपक्रमाधिकरणन्यायेबाधकमुपक्रममहावाक्यविरोधे महावाक्यमेवानुसरणीयमिति न्यायनन्तरं न विद्यते, अथवा विद्यत इति। पुनर्विचार्यते अस्मिन्वाक्ये सर्वत्र परब्रह्मत्वनिश्चायकं हेतुजातं नानुगम्यते, उतानुगम्यत इति। अत्र पूर्वपक्षी मन्यते-- पूर्वमुपक्रमानुसारेणैवोपसंहारवर्णनं न्याय्यमिति भवद्भिरुक्तम्, प्रतर्दनविद्यायामुपक्रमे पूर्वमिन्द्रशब्दः प्रयुज्यते, स तु विशेषश्रुतिः, तेनोपक्रमस्थश्रुत्यानुगुण्यमस्त्येव, किं च " त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमोपास्तिकर्मत्वं तथैवोच्यते, तच्च परब्रह्मत्वलिङ्गम्, तेनोपक्रमस्थश्रुतिलिङ्गाभ्यामिन्द्र एव परमपुरुषः, किं च त्वदभिमतनारायणविरुद्धं प्रसिद्धेन्द्रसाधारणं त्वाष्ट्रवधादिकं चोपलभ्यते, तच्च परमपुरुषविरुद्धमेव। फलितमाह-- तदिति। तस्मात् । असौ - शक्रादिपद वाच्य इन्द्र एव, जगत्कर्ता। परहरति-- नेति। अयमाशयः -- उपक्रमस्थहिततमोपास्तिकर्मत्वं प्रसिद्धेन्द्रस्य न

घटते, एवं हिततमोपास्तितरपवर्गार्थोपासनम्, प्रसिद्धेन्द्रस्तु देवगणान्तर्गतः स्वर्गादिपरिमितदेशवासी कश्चित्कीटकल्पः, स कथं हिततमोपास्तिकर्म भवेत्, तेनार्थविरोधात् शब्दार्थासंकोचसिद्ध्यर्थं चेन्द्रशब्देन परमपुरुष एवाभिधीयते, " इदि परमैश्वर्यं " इति हि व्युत्पादयन्ति, निपुणनिरूपणे पितामहोऽप्युदुम्बरकीटः, किमुत मेघनादादिजितः प्रसिद्धेन्द्र इति त्वमेव भावय। तर्हि मामुपास्स्वेति स्वोपासनं विदधातीन्द्रः, त्वाष्ट्रवधादिकं चास्मिन्नेव प्रकरणे प्रख्याप्यते परमपुरुषविरुद्धं प्रसिद्धेन्द्रानुकूलं लिङ्गम्, तत्कथमिति चेदत्र समाधिमाह-- ब्रह्मेत्यादिना। स्वात्मना चेत्यन्तेन। अयमभिप्रायः -- त्रेधा ह्युपास्यं ब्रह्म अचिद्विशिष्टोपासनं चिद्विशिष्टोपासनं केवलं परमात्मोपासनमिति। तेन प्रसिद्धेन्द्रादिकमपि ब्रह्मविशेषणत्वेनोपास्यतयाऽभिधीयते । तेन विशेषणभूतप्रसिद्धेन्द्रादिप्रतिपत्त्यर्थं त्वाष्ट्रवधादिकमपि लिङ्गं सार्थकमेव न पुनर्विरुद्धम्। अयमत्र निर्णयः-- हिततमोपास्तिकर्मत्वादिभिः परमपुरुषस्यैव प्रतर्दनविद्यायामिन्द्रशब्दप्रधानवाच्यत्वं सिद्धमेव। त्वाष्ट्रवधादिना लिङ्गेन तद्विशेषणत्वेन प्रसिद्धेन्द्रोऽपि परिगृह्यते । एवं प्राकरणिकेन लिङ्गेविशेषेण प्रसिद्धप्राणोऽपि स्वीक्रियतां, नतु स्वरूपेण। स्वरूपेण परमात्मनोपासनं सुप्रसिद्धमेव । तेनोपासात्रैविध्यसिद्ध्यर्थं प्रसिद्धेन्द्राद्यसाधारणलिभ्गं प्रतर्दनविद्यायामुक्तमिति न विरोधः। अत इन्द्रादिविशिष्टः परमात्मेव प्रतर्दनविद्यायामुपास्य इतीन्द्रादिरूढु#िशक्त्या विशेषणपरित्यागेन विशेष्यपर्यन्चाभिधानमिति सिद्धम्। कथं तर्हि उपक्रमविरोधे वाक्यार्थनिर्णय इत्याशङ्क्याह-- प्राणेन्द्राति । उभयमिह प्रकाष्यते उपक्रमोपसंहारयो उपक्रमोपसंहारयोपुरक्रमो बलीयान्, उपक्रममहावनक्ययोर्विरोधे महावाक्यमेव बलीय इति। इदं पुनर्विरोधे सत्यमेव। अत्र पुनर्विरोध एव नास्तीति भाष्यकारहृदयम्। महावाक्यगतोपक्रमस्यापीन्द्रविशिष्ट परमात्मविषयत्वेनाध्यात्मविद्भिपनुसन्धानादिति।।

 75. अत्राधिकरणारम्भानुपपत्तिमाशङ्क्य समाधत्ते -- यदिति। अयमर्थः -- ज्योतिषीन्द्रे च यल्लिङ्गं कारणैकस्थितमिति कथितं भवता ज्योतिषि तावत् " अथ यदतः" इत्याद्युक्तमुत्तमेषु लोकेषु निरतिशयदीप्तियुक्तत्वम्, यच्चेन्द्रे त्वमित्याद्यभिप्रेतं " मामुपास्स्व " इति साक्षान्मुक्त्यर्थं मुमुक्षूपास्यत्वम्, तदुभयमपि प्रख्यातान्यैकनिष्ठं कारणत्वेन प्रख्यातनारायणमैकनिष्ठं प्रथममितम् --आकाशाधिकरणत्ववयाप्तं लिङ्गद्वयम्, तत्कथमुच्यते। यथा सर्वजगत्कारणत्वं परमपुरुषविषयतया प्रथममितम्, तद्वत्, तेन समव्याप्तम् लिङ्गद्वयमपि तथैव प्रमितमेवेत्यर्थः। फलितमाह-- अत इति। निरतिशयदीप्तियुक्तत्वलिङ्गस्य मुमुक्षूपास्यत्वस्य च परमपुरुषनिष्ठतया पूर्वमेव प्रमितत्वात् कारणत्वव्याप्तलिङ्गेन

पूर्वपक्षोत्थानमिति न घटते। इत्थं लिङ्गद्वयस्य परमपुरुषस्थितत्वपरामर्शे दूषणमुक्तम् तदभावेऽपि दूषणमाह-- अप्राप्त इति। लिङ्गद्वयस्य सर्वकारणस्थितत्वपरामर्शाभावे लिङ्गद्वयान्वितं यत्किंचिज्जोतिरस्तु यः कश्चिदिन्द्रोऽस्तु न चैतावता पूर्वोक्तमेकनिष्ठं कारणत्वं परमकारणत्वं भ्रश्यति किमर्थमधिकरणाम्भ इत्याशङ्क्यार्धाङ्गीकारेण परिहरति सत्यमिति। यद्यप्यधिकरणप्रयोजनं नास्ति, अथापि किंचित्प्रयोजनमस्ति, यद्यपि लिङ्गद्वयं परमपुरुषैकनिष्ठम्, अथापि स एव परमपुरुष उपेन्द्रत्वमास्थाय वर्तते, अतः सोऽप्युपास्य एव, तस्य श्रुतिः पुराणादिरिवोपेन्द्रोत्पतिं्त वावदीतीति कश्चित् बालबुद्धि र्भ्राम्यति, तच्छङ्कानिराकरणमारम्भ इत्यर्थः। उपेन्द्रस्य परमपुरुषत्वं श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम्, तेष्वेवेन्द्रस्य पुरुषोत्तमकिङ्गरत्वमपि तत्रैव प्रसिद्धमिति भावः।।

 76. एवमुक्तयोरधिकरणयोर्विरोधाभासं शमयित्वा पूर्वपक्षिणा परिगृहीतेऽर्थे संमतासंमतविभागं दर्शयन् विरोधिलिङ्गत्वेन कथितस्य कौक्षेयज्योतिषैक्यस्य मुख्यप्राणादिलिङ्गस्य चोपासनार्थत्वेन प्रयोजनमपि दर्शयति-- ज्योतिरिति। ज्योतिरादिशब्दानां विशेषणविशिष्ठपरमवस्तुवाचित्वं संमतम्। विशेषणमात्रवाचित्वसंमतम्। कौक्षोयज्योतिषैक्यमुपासनार्थम्। तथा मुख्यप्राणलिङ्गम्प्युपास्यविशेषणप्रकाशनार्थमिति श्लोकार्थसंक्षेपः। स्पष्टमेवावशिष्ठम्।।

 77. अत्र शिष्यामुग्रहार्थं आकाशज्योतिराद्यधिकरणोक्तार्थवैशद्यायेतरवाचिशब्दानां ब्रह्मणि प्रयोगे विषयभेदेन नियमं दर्शयति -- कार्यमिति। यत् कार्यमिति दृढमितमधिगतमाकाशादिकं यदपि कर्मवश्यमिति

दृढमितं प्राजापत्यादिकं तयो र्निरूढैः प्रसिद्धैः शब्दैः ब्रह्मणि निर्दिष्ठे सति क्वचित् आत्मावस्थितेष्वाकाशादिशब्देषु गत्यन्तराभावाद्रूढिर्बाध्या। अगतिहता -- रूढित्वेन निर्वाहासंभवस्त्विह-- अगतिः तया निवार्यते रूढिः। तेन योग एवाश्रीयत इत्यर्थः। क्वचिदन्यत्र प्रकारान्तरेण निर्वाहमाह-- तदिति। ज्योतिषि

लिङ्गं कौक्षेयज्योतिषैक्यम्, इन्द्रे त्वाष्ट्रवधादिकं तदुभयमनन्यथासिद्धं व्याप्तमित्यर्थः।। तत्तलिङ्गानन्यथासिद्धेर्ज्ञानबलात् तद्विशेषणविशिष्ठविषयत्वं स्यात्। अत्रोदाहरणचतुष्टयमाह-- ज्योतिरिति। ज्योतिर्विशिष्टे ब्रह्मणि ज्योतिशब्दः। इन्द्रविशिष्ठे पुनरिन्द्रशब्दः। एवमहं ब्रह्मास्मीत्यत्राहंशब्दः स्वात्मविशिष्टं परमात्मानमाह। अत्र ऐन्द्रानयेनेत्येतदवशिष्यते, तदप्याचक्ष्महे " ऐन्द्र्या गार्हपत्यम्" इत्यत्रेन्द्रशब्दस्य गार्हपत्ये रूढिशक्त्यभावात् गौणीवृत्तिर्व्युत्पत्तिर्वा समाश्रयणीया। उभयमप्याहुः ---

 " इन्द्रत्वमग्नौ गौणं स्यात् यज्ञसम्बन्धकारितम्। इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः।। " इति।

तेनाकाशप्राणशब्दयोरस्माभिः परस्मिन् ब्रह्मणि व्युत्पत्तिरेवाश्रीयत इति सुसंगतमेतत्। अयमर्थः--

 व्युपत्त्या परमात्मानं तत्तदुक्तिः प्रकाशयेत्। तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी।। इति।।

 78. पूर्वं तद्गुणाद्गृणातीत्यागामिनामधिकरणानां प्रत्येकमेकैकभगवद्गुणप्रकाशने तात्पर्यमिति प्रतिपादितम्। अधुना पुनरतीतानां सप्तानामधिकरणानां सप्तसु भगवद्गुणेषु तात्पर्यमनुक्रमा इत्यादौजेतृवीतहव्यविजेवृतया बलपौरुषादिशययुक्त इत्यानुशासनिकादि दाचष्टे -- स्वेच्छात इत्यादिना। शुभेति शुभगुणविभवरूपानन्तनिस्सीमहर्ष इत्यर्थः। अनुपधिकेति-- देशकालवस्तुपिरच्छेदराहित्येनेत्यर्थः। सप्राणेति-- सप्राणानामप्राणानां प्राणहेतुरित्यर्थः। तत्र प्रभुरितिकथनं सर्वाधिकरणोक्त वैभवप्रकाशनार्थम्।।




श्रीः

 प्रथमाध्यायस्य तृतीयः पादः

।1.3.1.

1. अतीतानां पादाभ्यामस्पष्टतरास्पष्टजीवादिलिङ्गकानि वाक्यानि निरूपितानि उत्तराभ्यां पुनः पादाभ्यां स्पष्टस्पष्टतरजीवादिलिङ्गकानि वाक्यानि क्रमेण निरूप्यन्ते। अत एव द्वितीय तृतीयपादयोः परस्परसंगतिरपि सिद्धा। अधिकरणसंगतिस्तु पूर्वपादान्ते द्युपृथिव्यादिसंबन्धिनः परमात्मत्वमुक्तम्, तदेवाक्षिप्य समाधीयते। किंचादृश्यत्वाद्यधिकरण एव त्रैलोक्यशरीरत्वेन परमात्मत्वं प्रसाधितम्, तत्प्रसङ्गात् वैश्वानराधिकरणेऽपि जीवत्वमाशङ्क्य निराकृतम्। अत्र पुनः प्रासङ्गिकपरिसमाप्तौ पूर्वाधिकरणोक्तार्थशेषाभिधानेन पुनर्द्युभ्वादिवाक्यमेव समाधीयते। इह तृतीयपादे निवेशस्तु निरसनीयजीवादिलिङ्गानां स्पष्टत्वात्। अस्मिन्खलु पादे सप्तैवाधिकरणानि साक्षात्संगतानि।मध्ये देवताधिकरणादीनि त्रीण्यर्थान्तरत्वात् न संगतानीत्याशङ्क्य परिहरति--स्पष्टैरिति। स्पष्टैर्जीवादिलिङ्गैर्युतमस्मिन् तृतीये पादे ब्रह्निष्ठं वचः प्रसाध्यते मध्ये त्रिष्वधिकरणेषु विद्याधिकारोक्तिः किमर्था? तन्न प्रसङ्गादुक्तेः "हृद्यपेक्षया तु मनुष्याधिकारत्वात्" इत्यधिकारप्रसङ्गात् तदुक्तेः समुचितत्वात्। किं च देवताधिकरणाद्युक्तौ अर्धलोकायतिकानां निरीश्वरमीमांसकानां निरसनं परमपुरुषस्य चतुर्मुखादिपिपीलिकान्तसकलजगत्कारणत्वरूपप्रस्तुतार्थप्रसाधनोपयुक्तमेव। देवतानामभावे

तदपेक्षया कारणत्वापादानायोगात्। तदपेक्षयापि भगवत आराध्यत्वेन ब्रह्मोतकर्षश्च सिध्येत्। तासां देवतानां कारणैक्यभ्रमोऽपि गलत्येव।।

 2.अतः सप्तानामधिकरणानां साक्षात् संगतिः, प्रसङ्गादन्येषाम्, तदिदमनूद्य साक्षात्संगतेषु सप्तसु षष्ठदशमयोः परस्परसंगतिं चाह-- न्याया इति। सप्तैव न्यायाः साक्षात्परविषयतया संघटन्तेऽत्रपादे। किंचास्मिन् पादे सर्वाधारः स एवात्मा " कस्मिन्प्रतिष्ठितः स्वे महिम्नि" इत्युक्तक्रमेण भगवतः स्वमहिनिलयत्वोपपादनमनन्याधारत्वं च पादस्य तात्पर्यविषयः। उक्तं हि पूर्वमेव स्रष्टा देही स्वनिष्ठः इति "स्वयं दासास्तपस्विनः" इतिवत्। एतस्य तात्पर्यस्य प्रसिद्ध्यर्थं भगवतः सर्वप्रशासितृत्वादिकं तत्तदधिकरणार्थजातं कथितं मिथरस्यूतं परस्परसंश्लिष्टमालोचनीयम्। तर्हि त्रिभिरधिकरणैः षष्ठदशमयोर्व्यवधाने कथं सम्बन्ध इत्याशङ्क्य षष्ठाधिकरणप्रमितं भगवतः सर्वेशत्वं

दशमाधिकरणेन तस्यैव मोक्षप्रदत्वप्रतिष्ठापनेन संरक्षणीयमिति परस्परसंबन्धः सिध्यत्येव।।

 3. सूत्रे द्युभ्वादीतिपदद्वयोपादानमूर्ध्वलोकोपलक्षणार्थमिति मन्तव्यम्। अत्राधिकरणारम्भमाक्षिप्य

समाधत्ते-- सिद्धमित्यादिना। प्रागेव-- अदृश्यत्वाधिकरण एव। मुण्डोपनिषदिपरं ब्रह्म स्वव्यवस्थापकैस्तत्तद्धर्मभेदैः सिद्धभेदमेव। भेदोक्तेश्च --साक्षाज्जीवपरयोर्भेदकथनाच्च। तथा च सति किमर्थमिमामुपनिषदं पिष्टपेषं पिनष्टि विशिष्य पुनः पुनः पिनष्टीत्यर्थः। अर्धाङ्गीकारेण समाधत्ते --सत्यमित्यादिना। अस्तु पूर्वमेव विचारितं मुण्डोपनिषद्वाक्यम्, अथापि विचार्यते तत् किमर्थमित्यत्राह--क्षेत्रज्ञेति। नाड्याधारत्वादिभिरसाधारणैर्जीवधर्मैरुपनता शङ्कायाः पुनरुदयाभावेनोन्मूल्यते शब्दपूर्वैः श्रुत्यादिभिः प्रमाणैः। अयमर्थः-- मुण्डोपनिषद्वाक्ययोरुभयत्रापि परमपुरुषगुणप्रत्यभिज्ञानात् प्रकरणभेदशङ्कैव नास्ति। नाडीसम्बन्धादयश्चाभासहेतवः। तत उचितैः

समाधानरहेतुभिर्भाष्यकाराभिप्रेतैरेव समाधेया इति। तदर्थविचारस्तु -- किं द्युपृथिव्याद्यायतनं जीव उत परमात्मेति। तदर्थं पुनर्विचार्यते-- "यस्मिन्द्यौ" इत्यादिवाक्यजातं किमदृश्यत्वादिगुणकप्रकरणात् भिन्नमुताभिन्नमिति। तदर्थं पुनः प्राणादिसंबन्धः किमुपकार्योपकारकत्वनिबन्धन उताधाराधेयभावलक्षणः। तदर्थं पुनः प्राणादिसंबन्धः किमुपकार्योपकारकत्वनिबन्धन उताधारधेयभावलक्षणः। तदर्थं द्युपृथिव्याद्यायतनत्वामृतसेतुत्वादिधर्माः किं कर्मफलानुभवितुर्जीवस्य संभवन्ति उत नेति।।

 4. अत्र पूर्वपक्षसिद्धान्तौ संगृह्णाति-- यस्मिन्नोतमित्यादिना। "यस्मिन् द्यौः पृथिवी च" इत्यादिवाक्येष्वन्यकरणैस्सह मनो यस्मिन्नोतं यस्मिन्नैरन्तर्येण संबद्धम्। यश्च नाना जायते

नाड्याधारश्च यश्च देहेऽन्तश्चरतीति कथयते , स चक्षुरादिना करणी करणवान् कर्मभोक्तैवेति चेत्, उक्तमर्थं प्रतिक्षिपति--नेति। तत्र हेतूनाह--विश्वेति। विश्वाधारात्मभावेनास्मिन् प्रकरणे परमपुरुषस्य कथनात् "अमृतस्यैष सेतुः" इति मोक्षप्रदत्वप्रतिपादनात् मुक्तप्राप्यत्वप्रतिपादनात् पूर्वोक्तब्रह्मप्रकरणविच्छेदाभावात् "अनश्नन्नन्यो अभिचाकशीति" इति कर्मफलभोक्तृत्वाभावेन निरतिशयदीप्तियोगात् चकारादन्यस्मादपि ब्रह्मासाधारणगुणयोगात् त्वदुक्तं न घटत इत्यन्वयः।।

 5. अथ पूर्वपक्षयुक्तीनामन्यथासिदिं्ध वक्तुमारभते --व्याप्त इति। सर्वव्याप्ते भगवति इन्द्रियादिकमोतं चेत् किमिह

ततः किं नोपपद्यत इत्यर्थः। भगवतो जन्म नोपपद्यत इति चेतच्चोपपद्यते ऐच्छत्वाज्जन्मन इत्याह--जन्मेति। "अजायमानो बहुधा विजायते" इति हि श्रूयते।

नाडीचक्रहार्दरूपेण तिष्ठन् हृदयान्तर्वर्तित्वेन वर्तमानः। सर्वासामपि नाडीनां हृदयान्तर्वर्तिपरमपुरुष सम्बन्धित्वात्। श्रूयते हि "शतं चैका हृदयस्य नाड्यः" इति। तर्हि सर्वव्यापिनः कथमन्तश्तरणमिति चेत्तदप्यनूद्य समाधत्ते-- निष्कम्पेति। द्विरूपं खल्वन्तर्यामित्वं भगवतः, विग्रहपरिग्रहेणैकम्, सर्वव्याप्तेन स्वरूपेणापरम्। विग्रहेण देहान्तश्चरणं तावन्मुख्यत एव स्वरूपेणान्तश्चरणं तु "यः पृथिवीमन्तरे सञ्चरन् " इत्यादिना सुबालोपनिषदाम्नातसर्वान्तर्यामित्वरूपचरणवदत्रापि संघटत एव। अन्तर्यामित्वेनाधिष्ठानमात्रस्यैव चरणशब्दवाच्त्वादित्यर्थः।।

 ।1.3.2.

 6.परमात्मप्रकरणविच्छेदात् मुण्डोपनिषदि आपादचूढं परमात्मपरत्वमेव प्रसाधितम्। तर्हि च्छान्दोग्ये भूमविद्यायां जीवप्रकरणाविच्छेदात् जीव एव प्रतिपाद्यत इति पूर्वपक्षोत्थानेन प्रमाणद्वारा संगतिः। अर्थद्वारापि संगतिरभिधीयते-- पूर्वत्र " ओतं मनः सह प्राणैः" इति प्राणसम्बन्धी पुरुष उक्तः, अत्रापि प्राणसम्बन्धित्वेन प्राणशब्दवाच्यो जीवएवोच्यत इति। तदर्थविचारस्तु किं भूमशब्दनिर्दिष्टः प्रत्यगात्मा उत परमात्मेति। किं भूमशब्दनिमित्तवैपुल्येन प्रत्गात्मानिर्दिश्यते उत परमात्मेति। किं प्राणशब्दनिर्दिष्टप्रत्गात्मनि प्रश्नप्रतिवचनाभ्यां भूमापि समाप्तो नेति। किं च " स वा एष एवंपश्यन्नेवं मन्वान एवंविजानन्नतिवादी भवति" इत्यतिवादित्वं प्राणातिवादिन उक्त्वा " एष तु वा अतिवदति यः सत्येनातिवदति" इति प्राणातिवादिनः सत्यवजनमङअगतया विदधाति उत सत्यशब्देन परमात्मानं निर्दिश्य तदतिवादिनः प्राणातिवादिनोऽप्यतिवादित्वं वदतीति। किमस्मिन्वाक्ये " एष तु वा अतिवदति"

इत्यत्र प्राणातिवादिनः प्रत्यभिज्ञास्ति नेति। किं तुशब्दः प्रत्यभिज्ञानविरोथे नेति। अत्र पूर्वपक्षसिद्धान्तौ संगृह्णाति --आत्मेति। इह खलु भूमविद्यायां सनत्कुमारो गुरुर्नारदः शिष्यः। स च सर्वमपि विद्यास्थानं परिज्ञातवान् तथापि च भगवज्ज्ञानशून्योऽहमिति "सोऽहं भगवतो मन्त्रविदेवास्मि नात्मवित्" इति आत्मज्ञानाभिलाषादनुपरत शोको नारदः। अस्मै नारदाय प्रवृत्तं सनत्कुमारवचनं प्राणे पर्यवस्यति। तदेव प्रतिपादयति-- प्राण इति। स च प्राणाख्यो जीव एव तस्मिन्नेव प्रकरणे तस्य हिंसनार्हत्वेन कथनात्। किं च अत्राल्पप्रत्यर्थित्वेनाभिधीयमानो भूमशब्दवाच्योऽर्थो निरवधिकसुखाश्रयो जीव एव स्यादित्याशङ्क्य प्रतिक्षिपति --नेति। तदेव विवृणोति--प्राणाख्यादिति। तत्र हि प्राणब्देन जीवमुक्त्या प्राणवेदिनश्चेतरसुखातिशयितसुखरूपजीववेदिनोऽतिवादित्वमुक्त्वा तस्यापि जीवस्याल्पत्वेन परमात्मसुखवेदिन एवान्ततोऽतिवादित्वं प्रतिष्ठाप्यते। तेन प्राणाख्यादधिकं सत्यशब्द वाच्यं परं ब्रह्मैवास्मिन्प्रकरणे प्रधानप्रतिपाद्यमुच्यत इति ।।

 7. पूर्वपक्षाभिप्रायं विस्तरेणोक्त्वा स्वाभिप्रायमपि तथैव कथयति-- नामेति। नामोपक्रम्य आशान्ते दिक्पर्यन्ते वेद्ये प्रश्नप्रतिवचनयोरनुवृत्तत्वादुत्तरोत्तरमतिशयितफलवत्त्वेनाधिकोक्तेश्च दृष्टत्वात्

प्राणे तादृगभिधानस्य विश्रान्तिदर्शनाच्च प्रस्तुतात्मोपदेशः- प्राणावधिः स्यात्। ततः प्राणस्योपरि सत्यशब्दवाच्यतया आत्मोपदेशो नास्ति। उक्तमर्थं प्रतिक्षिपति--मैवमिति। इह-- अस्मिन्प्रकरणे। नामादिवत् प्राणोऽपि परस्मादात्मनो जात उक्तः। जातस्य तस्य कथं परमात्मत्वम्। नन्वत्रात्मशब्दः स्वात्मपरः, तेन स्वस्माज्जात इति प्रकरणाविरोधः स्यादित्याशङ्क्य प्रतिक्षिपति -- नेति। तत्र

हेतुमाह-- विघटनादिति। कार्यकारणभावप्रतिपादिकायाः स्वारसिक्या विभक्तेर्विघटनात् । कार्यकारणभावोऽपि भेदगर्भ एव। स्वात्मन उत्पत्तिकथनं क्लिष्टमेवेति भावः।।

 8. शिष्यप्रतिबोधनार्थं पूर्वपक्षाभिप्रायं विविच्य तदुचितमुत्तरमप्याह-- प्राणद्रष्टेति। अत्र हि प्राणद्रष्टा अतिवादित्वेनोक्तः, तदनूद्य सत्यवादोऽङ्गत्वेन विधीयते, तस्मात् सर्वाहमर्थो जीवः खल्वदृष्टद्वारा सकलतत्त्वोत्पादकः प्राण एवेति चेत् तदेतत्प्रतिक्षिपति --नेति। प्रतिक्षेपहेतुं विवृणोति-- एष इति। "एष तु वा अग्निहोत्री यः सत्यं वदति" इत्यत्रापि तुशब्दशिरस्क एषशब्दोल दृश्यते अथापि तत्राधिकार्यन्तरं न कल्प्यते तद्वदत्रापि स्यादित्याशङ्क्याह-- तद्वदिति। तत्र ह्यग्निहोत्रद्वयं न प्रमितम्, इह तु प्रमितमेव। पूर्वं प्राणातिवादिनमुक्त्वा पुनश्च "एष तु वा अतिवदति यः सत्येनातिवदति" इति द्विवारमतिवादित्वमुच्यते नैवमग्निहोत्रवाक्ये द्विवारमग्निहोत्रित्वमुच्यते। तेन पूर्वाग्रिहोत्रिणमुद्दिश्य सत्यवदनमङ्गतया विधीयत इति युक्तम्। अत्र पुनस्तुशब्दसहितैतच्छब्देनातिवाद्यन्तरं प्रतीयत इति विशेषः। अन्यथा

पुनरत्रापि "एष तु वा अतिवदति यः सत्येनातिवदति" इत्यधिकार्यन्तरं न श्रूयेत। किं च यदि जीवे विश्रान्तिः स्याद्वाक्यस्य तदानीमेतत्प्रकरणोक्तानां परमात्मासाधारणधर्माणामनुपपत्तिः स्यात्। तेन स्वमहिमनिलये परमात्मन्येव सर्वधर्मोपपत्तिः स्यादित्ययमपि हेतुः परमात्मसाधने भवति।।

 9. अत्र भूमविद्यायां नामाद्याशापर्यन्तवस्तूनां स्वरूपप्रतिपत्त्यर्थं तत्संग्रहश्लोकमाह-- नामेति। आदौ नाम तस्योपरि वाक् तदनु मनः अथ संकल्पनामा ततश्चित्तं ततोऽप्यनन्तरं ध्यानं ततो विज्ञानं ततो बलं तस्मादन्नं तस्मात्तोयं तस्मादपि तेजः ततः पुनराकाशस्ततो मन्मथः तत आशा ततः प्राणशब्दवाच्यो जीवः सर्वेषामुपरि सत्यशब्दवाच्यः परमात्मा सर्वनियन्ताऽयमेवेति गम्यत इति।।

 ।1.3.3.

 10.पूर्वाधिकरणे स्वमहिमप्रतिष्ठितत्वमुक्तम्। तत्तु परमपुरुषव्यतिरिक्तेऽपि श्रूयत इति पूर्वपक्षोत्थानेन संगतिः। अथवा " येनाक्षरं पुरुषं वेद सत्यम्" इति सत्याक्षरशब्दाभ्यां निर्दिश्य परस्य ब्रह्मणः सत्यशब्दवाच्यत्वं पूर्वत्र प्रतिष्ठापितम्, अत्राक्षरशब्दवाच्यत्वं प्रतिष्ठाप्यत इति वा संगतिः।

एवंवा--- पूर्वं जीवनिरासः, इह तु जीवप्रधानयोर्द्वयोरपि निरास इति। तदर्थविचारस्तु "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति" इति वाक्ये पुनरक्षरशब्दनिर्दिष्टं प्रधानं वा जीवो वा परमपुरुषो वेति। तदर्थं चिन्त्यते--"कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्यत्र प्रतीयमानमाकाशाधारत्वं किं प्रधानस्य किं वा जीवस्य उत परमात्मन एवेति। किमत्राकाशशब्दनिर्दिष्टो भूताकाश उत अव्याकृताकाश इति। अत्र पूर्वपक्षसिद्धान्तावनुक्रमेणाचष्टे --प्रख्यातेति।"कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्यादौ प्रसिद्धाकाशपूर्वस्वकार्यवहनादक्षरशब्दवाच्यं प्रधानमेवेत्येकः पक्षः। तस्यापि प्रधानस्य कारणाकाशत्वेन आकाशत इति व्युत्पत्त्या अवधारितस्याप्याधारत्वेनाभिधीयमानमक्षरं धृतनिखिलजगत् समष्टि जीवतत्त्वमेव स्यात् प्रकृतेर्जीवाधिष्ठानत्वात्। पक्षद्वयमपि व्युदस्यति--मैवमिति। तत्र हेतुमाह--द्रष्टृत्वेति।चेतनाचेतनयोरसंभावितैः सर्वद्रष्टृत्वादिभिर्धर्मैर्भगवदसाधारणैः "सा च प्रसाशनात्" इत्युक्त प्रकारेण स्वशासनायत्तधारणाच्च। किंच अस्मिन्प्रकरणे द्रष्ट्रन्तरस्य व्युदसनं दृश्यते। तत्तु परमात्मनपक्ष एव संभवति, न पुनर्जीवपक्षे द्रष्टुर्जीवादन्यस्य सर्वद्रष्टुः परमात्मनो विद्यमानत्वात्। तेन द्रष्ट्रन्यरनिराकरणमीश्वरान्तरनिराकरणमेव। तदिदमाह-- द्रष्ट्कन्तरस्येति। विश्वाधारतया नियन्तृत्वेन

विश्वद्रष्टुः परमपुरुषसादन्यस्य द्रष्टुर्व्युदसनं परमपुरुषाधिकतया परमपुरुषनियन्तृत्वेन- -अवस्थिततत्सदृशेश्वरान्तरनिरास इत्यर्थः।।

 ।1.3.4.

 11. सूत्रे "सः" इति पुल्लिङ्गनिर्देशः परमपुरुषविवक्षया। पूर्वत्र खलु "अदृष्टो द्रष्टा" इति परमात्मनोऽन्यैरदृष्टत्वमुक्तम्, तर्हीक्षतिकर्मत्वेनाभिधीयमानः परमपुरुषो म स्यादेवेति पूर्वपक्षोत्थानेन संगतिः। अथवा पूर्वत्राकाशशब्दस्यार्थविरोधादर्थान्तरपरत्वं प्रत्यपादि, तद्वदेवान्तरिक्षशब्दस्यापि मुखान्तरेण निर्वाहः संभवेदिति शङ्कया संगतिरिति चाहुः। यद्वा आकाशशब्दस्याम्बरान्तपरत्वात्

ब्रह्मलोकशब्दस्याप्यन्यथानिर्वाहोऽस्तीति सङ्गतिः। तदर्थविचारस्तु " यः पुनरेतं त्रिमात्रेणोमित्येनेनैवाक्षरेण परमपुरुषमभिध्यायीत" इति निर्दिष्टः चतुर्मुख उत परमात्मेति। किं "पुरुषमीक्षते" इत्यत्रेक्षतिकर्मत्वं चतुर्मुखस्य उत परमात्मन इति। किं जीवधनशब्देन चतुर्मुखस्यापि ग्रहणमस्ति नेति। किमत्र ब्रह्मलोकशब्दश्चतुर्मुखस्थानवचन उत परमव्योमवचन इति। ईक्षतिकर्मविषयतयोगाहृते श्लोके "यत्तत्कवया वेदयन्ते" इति वैष्णवं पदं प्रत्भिज्ञायते नेति। अत्र पूर्वपक्षमुक्त्वा क्रमेण प्रत्याचष्टे -- लक्षीभूत इति। अस्मिन् प्रकरणे यथोपासनं फलमिति न्यायेन य एव ध्यानविषयस्स एव प्राप्य इति द्वयोरपि वादिनोः सम्मतो ध्यायतेरीक्षतेश्च विषयीभूतः पुरुषः। स तु मुख्यो जीव एक एव क्षेत्रज्ञः। स एवाण्डाधिपतिः। "परात्परं पुरिशयं पुरुषमीक्षते" इति सैव ईक्षतिकर्मत्वेन व्यपदेशः। अस्य परात्परत्वं प्रकृत्यादिभ्यः परस्माज्जीवात्परत्वेन। इत्थमनङ्गीकारेण दोषमाह--नोचेदिति। परिहरति--अयुक्तमिति। प्रणवोपास्ये तस्मिन् परस्मिन् वस्तुनि शान्तामृतत्वादिपरमात्मगुणोपवर्णनस्य तदनुवादस्य चायोगात्। तेन परमात्मासाधारण गुणान्वयादेतत्प्रकरणप्रतिपाद्यः परमपुरुष एवेत्यर्थः।।

 12.अत्र चोदयति--नन्विति। पूर्वमेकद्विमात्रप्रणवोपासनफलतया निर्दिष्टभूम्यन्तरिक्षगणनानिर्दिष्टो ब्रह्मलोकः

त्रिमात्रप्रणवोपासनफलतया निर्दिश्यमानः पूर्वोक्तप्रतयासत्त्या चतुर्मुखलोक एव स्यात्। न स्यादित्याह-- मैवमिति।तत्र हेतुमाह--पापोन्मुक्तेनेति। अस्मिन्प्रकरणे सर्वपापविनिर्मुक्तस्य प्राप्यतया श्रूयमाणो ब्रह्मलोको न क्षयिष्णुचतुर्मुखस्थानं भवितुमर्हति। किं च "स तेजसि सूर्ये सम्पन्नः" इति सूर्यसम्पत्तिपूर्वकं प्राप्यतया श्रूयमाणो ब्रह्मलोकः "संवत्सरादादित्यम्" इत्यर्चिरादिमार्गप्रत्यभिज्ञानान्मुक्तप्राप्यो वैकुण्ठ एव स्यादिति। अस्मिन्नपि प्रकरणे "यत्तत्कवयो वेदयन्ते"

इति सूरिद्दस्यत्वमुच्यते। तदिदमाह---सूर्यसम्पत्तिपूर्वमिति। नन्वन्तरिक्षलोकप्रत्यासत्त्या चतुर्मुखलोक एव

स्यादिति चेन्न ;मध्ये स्वर्गादीनां बहूनां लोकानां व्यवधानेन प्रत्यासत्तेरभावात्। तावद्व्वधानं सोढव्यमिति चेत् समः समाधिः। अत्र चतुर्मुखलोकव्यवधानामपि तदाह--सोढव्य इत्यादिना। किंचोपक्रमे "परमपुरुषमभिध्यायीत" इतिध्यानविषयस्यैवेक्षतिकर्मत्वं वाच्यम्। अन्यथा तत्क्रतुन्यायविरोधः स्यादित्यादिदूषणमूह्यम् । तस्मादीक्षतिकर्मत्वेन व्यपदिश्यमानः परमात्मैवेति सिद्धम्।।

 ।1.3.5.

 13. पूवाधिकरणे "परात्परं पुरिशयं पुरुषम्" इत्युक्तस्य पुरिशयपुरुषस्य परमात्मत्वं साधितम्, अत्र पुरिशयस्याकाशशब्दवाच्यस्य परमात्मत्वं निरस्यत इति संगतिः। पूर्वं ब्रह्मलोकशब्दस्य परमात्मस्थानपरत्वमुक्तम्। तद्वदिहापि ब्रह्मलोकशब्दब्रह्मपुरशब्दयोः स्थानपरत्वं स्यादिति शङ्कया संगतिः। यद्वा पूर्वत्रान्तरिक्षशब्दस्य प्रसिद्धान्तरिक्षपरत्वं व्यावर्तितम्, तद्वत् दहराकाशस्य प्रसिद्धाकाशधर्मिपरत्वं प्रतिपाद्यत इति संगतिः परस्मिन्नन्वेष्टव्यान्तरप्रतीत्यनुपपत्तेः पक्षद्वयेऽप्युपमानोपमेयाभावानुपपत्तेश्च संशयः। तदर्थविचारस्तु किं दहराकाशो भूताकाश उत जीवोऽथ परमात्मेति। तदर्थमन्वेष्टव्यान्तरनिर्देशः किं दहराकाशस्य परमात्मत्वविरोधी उत नेति। "तस्मिन्यदन्तः"इति निर्देशः किं गुणजातविषय उतार्थान्तरपरः। "एष आत्मा" इति वाक्योक्तमपहतपाप्मत्वादिकं किं प्रजापतिवाक्योक्तजीवधर्मः उत न। जीवधर्मत्वेऽपहतपाप्मत्वादिश्रुति

--स्वारस्यमस्ति उत नेति। फलफलिभावस्तु यदा "तस्मिन्यदन्तः"इति निर्देशोऽर्थान्तरपरः, तदाऽन्वेष्टव्यशब्दस्य गुणविषयत्वाभावेन दहराकाशस्य भूताकाशत्वं स्यात्। यदा "एष आत्मा" इति वाक्योक्तगुणाष्टकस्य प्रजापतिवाक्योक्तजीवधर्मत्वे स्वारस्यमस्ति, तदानीं "एष आत्मा" इति वाक्यस्य जीवविषयतया दहराकाशो जीवः स्यादिति पूर्वपक्षे फलफलिभावः। यदा तस्मिन्यदन्तः" इति गुणजातविषयोक्तिस्तदाऽन्वेष्टव्यशब्दस्य गुणजातविषयत्वाद् दहराकाशो भूताकाशादतिरिक्तःस्यात् , यदा "एष आत्मा" इति वाक्यस्य प्रजापतिवाक्योक्तधर्मविषयत्वे स्वारस्यं नास्ति तदा स्वरसो गुणाष्टकविशिष्टपरमात्मप्रतिपादकतया स दहराकाशः परमात्मा स्यादिति राद्धान्ते फलफलिभावः।

विषयवाक्यशोधपूर्वकं पूर्वपक्षसिद्धान्तौ संगृह्णाति-- दह्रं हृत्पुण्टरीक इति। अयमर्थः -- " दहरोऽस्मिन्नन्तराकाशः" इति तैत्तरीये च गगनाकाशशब्दोः पर्यायत्वेनाकाश एवोक्तः, स चाकाशो भूताकाश एव स्यात्, आकाशशब्दस्य ब्रह्मणि च प्रसिद्धिप्रकर्षादिति । तदाह--- प्रसिद्धेर्महिमत इति।

तदेतत्प्रतिक्षिपति---नेति। तत्र हेतुमाह--- प्रत्यनीकैरिति। "एष आत्माऽपहपाप्मा" इत्यादिवाक्यगतैर्निरुपाधिकात्मत्वापहतपाप्मतावसत्यसंकल्पत्वादिभिः परमात्मासाधरणैर्धर्मैरत्राकाशशब्दनार्दिष्टस्य विशेष्यमाणत्वात् । किंच द्विविधा हि प्रसिद्धिर्वैदिकी लौकिकी चेति। तत्र वैदिकी प्रसिद्धिर्वेदविदां व्यवहारेषु बलवती तेनात्राकाशशब्दनिर्दिष्टः परमात्मैव। किंच निरुपाधिकापहतपाप्मत्वादिलिङ्गसनाथायाः "यदेष आकाश आनन्दो न स्यात्" इत्यादिश्रुत्यन्तरसिद्धाया आकाशशब्दप्रसिद्धेर्भगवति बलीयस्त्वाच्च। तदिदमाह---श्रौती चेति। नकेवलं श्रौतप्रसिद्धि:, लिङ्गान्यपि विद्यन्त इत्याह---लिङ्गवर्गैरिति।।

 14.पुनरपि भूताकाशत्वनिरासकान् विषयवाक्यान् हेतून् संह्णाति---बाह्याकाश इत्यादिपूर्वार्धेन। तस्यायमर्थः---"यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशः " इत्युपमानोपमेय भावस्तु दहराकाशस्य भूताकाशत्वे नोपपद्यते उपमानोपमेयभावस्य भेदगर्भत्वात् । हृदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत् तथा सति हृदयावच्छिन्नस्य "उभे अस्मिन्द्यावापृथिवी" इत्यादिप्रतिपादितसर्वाश्रयत्वानुपपत्तेः। किंच "एतत्सत्यं ब्रह्मपुरुमेष आत्मा" इत्यादिनिर्दिष्टसत्यात्मब्रह्मशब्दवाच्यत्वं भूताकाशे न संभवतीति। तदिदमाह--सत्येति। ननु "तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्याकाशान्तर्वर्त्यन्वेष्टव्यान्तरनिर्देशाद् दहराकाशो न परमात्मेति चेत् तत्राह- कामाधारश्चेति। अत्र यः कामाधारः समगणि गणित उक्तः, नित्यः स एव दहराकाशवाचाप्युक्तः, अतस्तस्यैव एष आत्मेत्यनुवदनं

तद्गुणाश्च चिन्त्यकामा इति योजना। अयं भावः-किं तदत्र विद्यते यदन्वेष्टव्यमिति प्रश्नपूर्वकं "तस्मिन्कामाः समाहिताः" इति दहराकाशशब्दनिर्दिष्टस्य परमात्मनस्तदन्तर्वर्तिनो गुणाष्टकस्य च प्रथममुपासनं विधीयते। अत एव फलवाक्ये "अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्" इत्युभयोरप्युपास्यत्वं निर्दिश्यत इति दहराकाशः परमात्मा। तदन्तर्वत्यन्वेष्टव्यं चापहतपाप्मत्वादिगुणजातं कामशब्देनोच्यत इति। काम्यन्त इति कामाः कल्याणगुणाः।।

 15. छान्दोग्ये दहराकाशः परमात्मेत्यभिधीयते, वाजसनेयिनां तु शाखायां "य एषोऽन्त्हृदय आकाशस्तस्मिञ्थेते सर्वस्य वशी सर्वस्येशानः" इत्याकाशे शयान एव परमात्मत्वेनाभिधीयते, प्रसिद्धाकास एव तद्वाचकेन शब्देनोच्यतचे, तत्कथमुभयोन्वयः। अत्र समाधिमाह--सर्वेशेति। वाजिनां तु शाखायां सर्वेश्वरस्याधारतया हृदयव्योमाभिधीयते तेन तत्र व्योमशब्दाभिधेयंलिङ्गविशेषात् प्रसिद्धाकाश एवेत्यङ्गीकुर्महे। छान्दोग्ये आकाशशब्दः सर्वकामाधारत्वकथनाल्लिङ्गात् परमपुरुषपरएव। ननु च्छान्दोग्ये ब्रह्मलोकशब्दः प्रयुज्यते नतु ब्रह्मैव लोको ब्रह्मलोक इति समासः, ब्रह्मणो लोको ब्रह्मलोक इति षष्ठीतत्पुरुषसमासाश्रयणस्य न्याय्यत्वादिति चेन्न "एतया निषादस्थपतिं याचयेत्" इत्यत्र कर्मधारयसमासस्यैवाश्रयणात् तेन न्यायानुसारेण ब्रह्मैव लोको ब्रह्मलोक इत्यस्माभिर्व्याख्यातमिति न कश्चिद्दोषः। तदिदमाह--छान्दोग्येति। निर्णायकन्यायाभावे ह्यर्थान्तरमाशङ्क्यते। अस्य च ब्रह्मणः

सर्वाधारत्वेन लोकशब्दवाच्यत्वं च युज्यते।इममेवार्थमापस्तम्बोऽपि वदतीति दर्शयति--आपस्तम्ब इति। "स वै वैभाजनं पुरंस च भूतं स भव्यम् "इति सर्वात्मभूतं ब्रह्मैव सर्वेषां पुरत्वेन प्रतिपादयति।स वैभाजनम्--सर्वेषां पदार्थांनां प्रत्येकविभजनेन स्थातुं योग्यं स्थानम्। "पुः प्राणिनः सर्व एव गुहाशयस्य " इत्यप्याह।सर्वे प्राणिनो गुहाशयस्य परमात्मनः पुरमित्यर्थः।तेन प्राणिनः परमात्मानः पुरमावासस्थानम्। तदपि---तथापि।तदपि---ब्रह्मापि।तेषां पुरंसर्वाधारत्वेन सर्वेषामस्मिन्वासात्।तेन "सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः " इति वासुदेवशब्दार्थोऽनुस्मृतो भवति।

 16.इत्थं दहराकशस्य प्रसिद्धकाशत्वमाशङ्क्य निराकृतम्।इदानीं जीवत्वमाशङ्क्य निराक्रियते--जीव इति।तर्हि गुणाधारत्वानुपपत्त्या प्रसिद्धकाशत्वे निवृत्तेऽप्यपहतपात्वादिगुणोपपत्तेः "एष

आत्मा " इति जीवस्यैव परामर्शनात् "तत्रापि दह्रं गगनं विशोकः " इति अल्पप्रमाणत्वकथनाच्च जीव एव दहराकाशः स्यादित्याशङ्क्य प्रतिक्षिपति--असदिति।अत्र हेतुमाह--अनुपधिकादिति।स्वाभाविकादित्यर्थः।परमात्मनो हि स्वाभाविकं सत्यसंकल्पत्वादिकम्।जीवस्य तु तत्प्रसादलभ्यम्। "परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते " इति वचनात्।किंच प्रपञ्चाधारत्वं परमपुरुषस्यात्र कथ्यतेतेनापि पर एव प्रतिपाद्यः। ननु दहरत्वमुक्तं तस्य तत्कथमित्याशङ्क्य परिहरति---औपाधिकीति। नात्र परमात्मनः स्भाविकं दहरत्वमुच्यते अपितु हृदयावच्छेदनिबन्धनं तदुच्यत इत्यर्थः। ननु प्रजापतिवाक्ये जीवस्याप्यपहतपाप्मत्वादिगुणाष्टकमभिधीयते तेनापहतपाप्मत्वादीनां भगवदसाधारण्यं कथं सिध्यतीत्याशङ्क्याह---प्राजापत्य इति। अयमर्थः---दहरवाक्यप्रकरणसमाम्नातं प्रजापतिवाक्यं दहरवाक्यशेषमेव तत्र प्रतिपाद्योऽपि जीवः परमपुरुषप्रसादलभ्यतत्साम्यदशयाऽपहतपाप्मत्वादिगतुणौधपरिकर्मितः स्यात्। तथा च न कश्चिद्दोषः।।

 17.तर्हि प्रजापतिवाक्यं दहरवाक्यद्भिन्नमेव स्यात्, तत्प्रतिपाद्योऽपकि जीवः स्वतन्त्र एव स्यात् किमर्थं निराकाङ्क्षयोर्द्वयोरपि वाक्योः परस्परसंबन्धो भवद्भिरुपपाद्यत इत्याशङ्क्य परिहरति---दह्राकाश इति। नास्माभिरत्राकाङ्क्षा परिकल्प्यते अपितु वाक्यस्याभाव्यादेव। अत्र हि पूर्वस्मिन्वाक्ये प्रतिपन्नस्य भगवतो मोक्षप्रदत्वं प्रतिपादयितुं जीवकथनम्। संप्रसादो जीवः। भगवत्संबन्धज्ञानरसिकत्वेन प्रसन्नस्वभावत्वात्। उतरत्र प्रजापतिवाक्येऽपि प्रतिपाद्यस्य जीवस्य प्राप्यविशेषनिर्धारणार्थं तस्मिन्वाक्ये परमात्मपरिपठनम्। तद्वमाङक्षासत्तियोग्यत्वैरुभयोरपकि वाक्ययोरन्वितत्वे सति न वाक्यभेदः परिकल्प्यः। तथा च न पूर्वोत्तरवाक्ययोन्यबाधः शङ्क्यः । नच नैरपेक्ष्यं परिकल्प्यम् ; संभवत्वेकवाक्यत्वे वाक्यभेदस्तु नेष्यत इति न्यायेनैकवाक्यत्वे संभवति वाक्यभेदाङ्गीकारस्यान्याय्यत्वात्। अतो द्वयोरपि वाक्ययोः सामरस्यमेव सूत्रकारः प्रोहेति दर्शयति---तदिति।।

 ।1.3.6.

 18.पूर्व दहरविद्यायामल्पत्वेन श्रुतः परमरुष इति "अल्पश्रुतेरिति चेत्तदुक्तम्" इति सूत्र प्रत्यपादि, तदल्पपिमाणयुक्तत्वं जीवस्यैवान्यत्र श्रूयत इति पूर्वपक्षोत्थानेन संगतिरिति भाष्य एवोक्तम्। तदर्थविचारस्तु "अङ्गुष्ठमात्र पुरुषः" इत्यङ्गुष्ठप्रमितः प्रत्यगात्मा उत परमात्मेति। तदर्थविचारस्तु किमीशानत्वं देहेन्द्रियाद्यपेक्षम्, उत सर्वापेक्षमिति। तदर्थविचारस्तु--किमुपक्रमगतप्रमितत्वमीशानन्वलिङ्गस्वारस्यविरोधि न वेतिः। तदर्थ विचार्यते---किं तत्प्रमितत्वं जीवे

समञ्जसमुत उभयत्रासमञ्जसमिति। अत्र विषयवाक्यानि भाष्यदीपयोव्र्यक्तं द्रष्टव्यानि। तत्र पूर्वपक्षमुक्तवाप्रतिक्षिपति--प्राणशइति। "प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः" इति श्रुतिरत्राभिसन्धीयते। कर्मभिः स्वैरसञ्चरन् प्राणेन एव क्वचित् श्रुतावङच्गुष्ठमात्रः कथितः। अन्यत्र वाक्ये पुनः "अङ्गुष्ठमात्रं पुरुषं निश्चकर्म यमो बलात्" इति द्दष्टम् तस्मादेतत्प्रमाणप्रमितमङागुष्ठमात्रं जावमुपनिषदाहेति पूर्वपक्षपरिकल्पनम्। तदयुक्तं स्ववाक्यस्थितेन "ईशानो भूतभव्यस्य" इत्युक्तेनेशानत्वादिना लिङ्गेन निरस्तत्वात्। कथं तर्हीषशानस्याङ्गुष्ठप्रमितत्वमित्याशङ्क्याह---नरेति। उपासकहृदयपरिच्छ्दापेक्षया तदङ्गुष्ठप्रमितत्वमुच्यते नपुनः स्वाभाविकम्।।

 19. अत्राधिकरणमध्ये मनुष्याधिकारत्वप्रसङ्गादधिकरणत्रयकथनं तेनात्र तृतीयाध्यायप्रसाध्याधिकार चिन्तनादध्यायसङ्करप्रसङ्ग इत्यत्राह--नहीत्यादिना। इत्थं किल कश्चिन्मन्यते-- पूर्वत्राङ्गुष्ठप्रमितत्वं परमपुरुषस्योक्तं तच्च हृदयापेक्षयेत्युक्तं नहि सर्वेषां जन्तूनां हृदयाङ्गुष्ठप्रमितत्वम्; अङ्गुष्ठाभावात् तेनाखिलजन्त्वाश्रयंहृदयमङ्गुषष्ठप्रमितमिति वक्तुं न शक्यत इति। सत्यमेतत्, सर्वाश्रयं हृदयमङ्गुष्ठप्रमितमिति नोच्यते अपितूपासकहृदयम्। तेन सर्वव्याप्ते परस्मिन् ब्रह्मण्यङ्गुष्ठ -प्रमितत्वकथनं क्वचिन्मनुष्याधिकारापेक्षयेति मन्तव्यम्। तेनाधिकारप्रसङ्गेनास्मिन्नधिकरणे सूत्रचतुष्टयात्मके द्वयोर्द्वयोः सूत्रयोर्मध्ये त्रिभिरधिकरणैरधिकारविशेषश्चिन्त्यते।न पुनरत्र

तृतीयाध्यायस्थैरधिकरणैः स्थापनीयाऽधिक्रिया अवगन्तुमिष्टा तेन नाध्यायसङ्गरप्रसङ्गः।तदिदमाह-- तातीर्यैरिति।इतिकर्तव्यता नाम अङ्गकलापः।।

 ।1.3.7.

20. पूर्वस्मिन्नधिकरणे "हृद्यपेक्षया तु मनुष्यादिकारत्वात्" इति ब्रह्मोपासनस्य मनुष्याधिकारत्वमुक्ततम्। तर्हि देवादीनां ब्रह्मविद्यायामधिकारो न स्यादित्याशङ्कया संगतिः। तदर्थविचारस्तु किं ब्रह्मविद्यायां देवादीनामधिकारोऽस्ति नेति। किं तद्विग्रहप्रतिपादकानां मन्त्रार्थावादानां तत्परत्वं संभवति नेति। किं तेषां विग्रहवत्त्वं संभवति नेति। किं तद्विग्रहप्रतिपादकानां मन्त्रार्थवादानां तत्परत्वं संभवति नेति। किं मन्त्रार्थवादानामनुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यां प्रतीयमानविग्रहरपरत्वाविक्षा शक्याभिधाना नेति। किं विग्रहवत्त्वमनुष्ठेयार्थप्रकाशनस्तुत्युपयोगि नेति। अत्र देवताधिकरणपूर्वपक्षमुक्त्वा प्रतिक्षिपति--शब्दात्मेति। चतुर्थ्यन्तःशब्द एव देवता अथवा लौकिकाग्न्यादिरर्थ एव यद्वा अर्थोपश्लिष्टशब्दो देवता अथस्तस्या ब्रह्मोपासनं न संभवतीति।अनार्षम्--अवैदिकमित्यर्थः। देवताया अभावे सति देवतायाः फलप्रदत्वमेव न स्यात्। तथा च "स एवं प्रीतः प्रीणाति" इति श्रुताया देवतायाः प्रीतेः परिहरणं परित्आगः स्यात्। अश्रुतस्य अपूर्वस्य कल्प्यस्य वाच्यस्य वा मतभेदेन परिकल्पनं भवेत्। तच्चायुक्तमेव श्रुतहानाश्रुतकल्पनयोरत्यन्तजघन्यत्वात्। नन्वेवं सति शास्त्रयोन्यधिकरणे निरस्तमीश्वरानुमानं तत्कथमत्र देवताङ्गीकारः? ईश्वरस्यापि देवतान्तर्भावादित्याशङ्क्य परिहरति--विश्वस्रष्टेति। तत्रेश्वरस्यानुमानिकत्वं निरस्यतेऽस्माभिः न पुनरागमिकत्वम्, तेन प्राक् शास्त्रयोन्यधिकरणे निर्बाधैस्यात्पर्यशालिभिः शास्त्र स्थापितः परमपुरुषस्तेनापि सर्वशक्तिनाऽपलपितुमशक्यः । तेनागमिकेश्वरवादिनामस्माकं न कोऽपि दोष इति।।

21. अर्थित्वसामर्थ्योः सद्भावात् देवतानामुक्तमेवाधिकारं विशेषेण स्थापयति--सामर्थ्यमिति। अर्थी समर्था विद्वान् शास्त्रेणापर्युदस्त इति चातुर्विध्येनाधिकार उच्यते। अथवाऽर्थित्वं सामर्थ्यं चेति द्विधेवाधिकारः। सामर्थ्यं पुनस्रिधा जन्मसामर्थ्यं कर्मसामर्थ्यं बुद्धिसामर्थ्यं चेति, तदेततसर्वमपि देवतानामस्तीत्युच्यते--उचिततनुभृतामिति। शरीरसंबन्धस्य प्रमाणप्रतिपन्नत्वात् बुद्धिसामर्थ्यं कर्मसामर्थ्यं चास्त्येव। दृश्यते हि क्वतिज्जन्मान्तराविस्मरणाद् बुद्धिसामर्थ्यम्, क्वचिदुपदेशाच्च। श्रूयते हीन्द्रादीनां ब्रह्मविद्योपदेशः। जन्मसामर्थ्यं सत्त्वोत्पत्तिशरीरपरिग्रहादेव। अर्थित्वं तु तापत्रयाभिहतत्वादेव

सम्पद्यत इति तासामपि देवतानां भगवदुपासनवर्गाघिकारो भवत्येव। अत्र निरीश्वरमीमांसकाः प्रत्यवतिष्ठन्ते देहादीनामनुपलब्धं तदेव हि प्रख्याप्यते वेदेनेति तान्त्रिकमर्यादा। तथा च प्रमाणान्तराप्रतिपन्नार्थप्रत्यायकमन्त्रार्थवादप्रमितं सकलमपि देवताविग्रहादिकं कारणदोषबाधकप्रत्ययाभावे सति तथ्यमित्यङ्गीकरणीयम्, ये पुनस्तन्मिथ्येत्युद्घोषयन्ति निरीश्वरमीमांसकाः ते तु स्वोक्तमेव वेदस्य स्वतःप्रामाण्यं विस्मरन्ति। स्वत एव प्रामाण्यं, परतः पुनरप्रामाण्यमिति हि

मीमांसकानां मर्यादा। परं पुनः कारणदोषादिकं तत्र नास्तीत्यर्थः।।

22. अत्र कश्चिदाह--अर्थवादादेः स्तुतिपरत्वमुच्यते तान्त्रिकैः, अर्थपारामार्थ्ये स्तुतित्वं बाध्यत इति। इमामाशङ्कां परिहरति--द्वेधा वृत्तिरिति। गुणेन गुणिनः सम्बन्धाभिधानं हि स्तोत्रम्। तद् द्विविधं मुख्यमौपचारिकं चेति। मुख्यं तावद्यथार्थम्--"अपहतपाप्मा विरजः" इत्यादिकम्। औपचारिकं तु राजादिविषयं त्वमिन्द्रश्चन्द्र इत्यादिकम्। तत्रापि तत्तदिन्द्रचन्द्रादिगुणसम्बन्धकथनं परमार्थविषयमेव, तदेतत्सर्वमत्र पूर्वोर्धेनोक्तम्। तथाहि। स्तुतौ द्वेधावृत्तिः स्वगुणमुखी काचित् परगुणमुखीचान्या। तत्र प्राक्तनी तावदर्थ्या अर्थादनपेता। पश्चिमायामपि स्तुतौ मुख्यधर्मैकदेशो निपुणधीभिरनुमन्तव्यः। ननु बालोपच्छन्दनार्थमनृतमपि कथ्यते तच्चौषधादिस्तुतिरूपं, तन्मिथ्यैव अतः स्तुतिमिथ्यात्वं दृष्टमेवेत्याशङ्क्याह--रुच्यर्थायामिति। अयमर्थः-- यत्र रुच्यर्थमप्यनृतमुच्यते तत्रापि श्रोता न मुग्धश्चेत्

अनृतकथनतः प्ररोचना नैव सिध्यति। मुग्धश्चेत् परमार्थविषयत्वप्रतिपत्त्यैव तद्वाक्यं तस्मै रोचते। अतोऽर्थपारमार्थ्यं स्तुत्युपयुक्तमेव। ननु भूतार्थे का स्तुतिः स्यात् इति मुनिभिरुक्तम्, कविभिरपि

"भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः" इति, ततः स्तुतेः पारमार्थ्यं नास्तीत्युच्यते;तन्न औपचारिकनिवृत्त्यर्थत्वात्तद्वाक्यस्य। नपुनः सर्वथा पारमार्थ्यं निषिध्यते स्तुतीनाम्। परमेष्ठिनस्तुतित्वौपचारिकस्तुतिर्न भवति, अपि तु तात्त्विकीत्यर्थः।।

23. अत्र "विग्रहो हविरादानम्" इत्यादिना विग्रहादिपञ्चकनिरासेन देवतानामधिकारो ब्रह्मविद्यायां नास्तीति प्रलापं प्रत्याचष्टे----नानेति। नानादेहपरिग्रहसमर्था देवादय इति श्रुतिपुराणादिषु प्रसिद्धमेव तेन तादृशशक्तियुक्तानां देवतानां युगपत्कर्मसन्निधिः कथमिव न संयोयुज्यते। ननु सविग्रहाणां देवतानां तद्व्यापाराणां च प्रतिपादने तासामनित्यत्वात् श्रुतीनां नित्यत्वात् नित्यानित्यसंयोगदोषः प्रसज्येतेत्याशङ्क्य परिहरति--तत्तदिति।तत्र हेतुमाह--प्रवाहादिति।

अनित्येष्वपि देवताविग्रहेषु तत्तद्वृत्तान्तेषु तादृग्विधेषु अनित्यसंयोगदोषो नास्ति श्रुतीनाम्, इन्द्रादिप्रवाहादिविषयत्वात्। तर्हि श्रुतीनां नित्यत्वमुच्यते भवद्भिः.तन्नोपपद्यते काठकं विश्वामित्रस्य सूक्तमित्यादिषु , सकर्तृकत्वं प्रतीयते। नेत्याह--काण्डादाविति। श्रुतिषु केषांचित् कर्तृत्ववादः प्रवचनादेव। नपुनः साक्षात्कर्तृत्वेन । तत्कथमितिचेत्तत्र हेतुमाह--वेदेति। वेदनित्यत्वस्य प्रमाणप्रतिपन्नत्वादित्यर्थः। अस्तु मध्ये वेदप्रवर्तकत्वमेव व्यासविश्वामित्रादीनाम्। आदिकल्पे भगवानेव वेदं विविधं करोतीति "तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतत् " इत्यादिभिः श्रतिभिः प्रतिपन्नमित्याशङ्क्य परिहरति--ईश इति।"धाता यथापूर्वमकल्पयत्" इति भगवतोऽपि पूर्वकल्पक्रमेण प्रवर्तकत्वमभिधीयते।यद्यपि वेदो भगवच्छासनम्,तथापि भगवतो नित्यमेकरूपेण वाक्येन प्रशासितृत्वान्नित्यत्वं नापभ्रश्यतीति भगवच्छासनमत्ववादः।अत्र वर्णसर्गेऽपीति वर्णेष्वनित्यमङ्गीक्रियते तेन वर्णनित्यात्ववादिभ्यो निरीश्वरमीमांसकेभ्यो भेदः सिद्ध्यति।।

24.अत्र न्यायवादिनां पक्षमनूद्य निराकरोति-- वेदानावमिति।"प्रतिमन्वन्तरं चैषा श्रुतुरन्या विधीयते" इत्युक्तत्वाद् वेदानावमीश्वरबुद्ध्या क्रमनियमहतिस्तेषु कल्पेष्वन्यथा भवतीति यदीष्टा यज्ञादिषु प्रयुज्मानानां मन्त्राणामपि तथैवान्यथाकरणं स्यात्। अस्त्वन्यथाकरणमित्याशङ्क्य प्रतिक्षिपति--नेति। तत्र हेतुमाह--व्रीहीति। अयमर्थः-- लोके कार्यकारणभावो नियत एव दृश्यते यथा कपालेन घटस्तन्तुना पट इति। नहि कल्पभेदेन तन्तुभ्यो घटो जायते पटो वा कपालेभ्य इति परिकल्पेषु न्यायवादिभिः। एवं वैदिकेऽप्युदाहरणे "व्रीहिभिर्यजेत, सोमेन यजेत" इत्यादौ सर्वेष्वपि कल्पेषु तत्तत्कार्यहेतुभूतानां मन्त्राणामन्यथाकरणं न संघटत एव। तथा च वेदनित्यत्वसिद्धिः। तर्ह्यस्तु मन्त्राणां

क्रमनियम आवश्यकत्वात्, मास्तु विध्यर्थवादयोरिति चेत् तत्रोत्तरमाह--इत्थमिति। अयमर्थः मन्त्राणामिव

विध्यर्थवादयोऽपि तेषुतेषु ज्ञानेषु कारणत्वमस्त्येव तत्र यथात्वं नियममन्तरेण न कारणत्वम्। एवं क्रमनियममन्तरेण न कारणमिति भवतैव विचार्य सन्तोष्टव्यम्, तथाच कार्यकारणयोरन्यथाकरणशङ्काया नावकाशः। अत्र यथेश्वरशिक्षितक्रम इति प्रागल्भयाद् यदि वदसि अथापि क्रमनियमः कदाचिद् भवताऽङ्गीकृत एव। तथा च नित्यमेवायमङ्गीकार्यः क्रमनियम इति श्रेयानेवायं पक्ष इत्यभिप्रायेणाह--पाक्षिक इति। तर्हि न्यायमार्गः किं भेदवादिना भवता परित्यज्यते? परित्यज्यत एवेत्याह--पक्ष इति। अयमाक्षपादः पक्षोऽस्माकं वेदान्तिनां बाह्यासिद्धान्तकोटिं प्राप्नोतु का नो हानिरित्यर्थः।।

25. यदि देवतानां विग्रहागिकमस्ति तर्हि किमर्थमस्माभिर्नोपलभ्यत इत्याशङ्क्यानुपलब्धिकारणानां बहुत्वमाचष्टे --सौक्ष्म्यादिति। "अतिदूरात् सामीप्यात्" इति साङ्ख्यग्रन्थे हि विद्यमानामप्यनुपलब्धिकारणानि परिपठितानि।

सौक्ष्म्यात्परमाण्वादीनामनुपलब्धिः। तुल्याभिघारात् तैलसिक्तस्य तैलबिन्दोः। सहकृदपगमात् सहकार्यभावादन्धकारवर्तिनो घटादेः। छादकात् पटावारितानां पदार्थानाम्। आन्यपर्यात् व्यासक्तहृदयस्याग्रतः स्थितानां पदार्थानाम्। अत्यासत्त्या स्वनयनगतस्य। अतिदूरात् देशान्तरगतस्य। बलवदभिभवात् मध्यन्दिनोल्काप्रकाशस्य. अनुद्भवात् चाक्षुषकिरणसंघातरूपादेः। अक्षोपघातात् रुग्णनयनस्य पुरोऽवस्थितस्य वस्तुनोऽनुपलब्धिरिति

सर्वत्रान्वयः। एतेभ्यस्सर्वेभ्यो हेतुभ्यः पुरतो वर्तमानान्यपि नोपलभ्यते। तद्वदग्नीन्द्रादिदेवतागणोऽप्यन्तर्धआनशक्त्या नोपलभ्यते। किं च शास्त्रेषु जन्मना तपसा योगेन मन्त्रौषधीदिभिश्च माहात्म्यात् सिद्धिविशेषाः प्रख्याताः। जन्मतः पिशाचादीनाम्, तपसो महर्षीणाम्, योगतो योगिनामन्तर्धिशक्तिरस्त्येव। मन्त्रौषधिभ्यस्तच्च प्रसिद्धमेव। तेन देवादीनामन्तर्धिशक्तेरनुपलभ्य इति सुष्ठूक्तम्।।

।1.3.8.

26. पूर्वस्मिन्नधिकरणे देवतासामान्यस्य भगवदुपासनाधिकारश्चिन्तितः, इदानीं पुनर्देवताविशेषस्योपासनाविशेषाधिकारो निरूप्यत इति संगतिः। यद्वा पूर्वत्राधिकारसंभव उक्तः अधुना मध्वादिविद्यायामेतदसंभवेन पूर्वपक्षोत्थानमिति संगतिः। तदर्थविचारस्तु मध्वादिविद्यासु या देवतोपास्या तासु किं तस्या अधिकारोऽस्ति उत नेति। किं तस्यास्तद्विद्योपसंहारसामर्थ्यमस्ति उत नेति। किं मधुविद्यायां वस्वादिदेवतामात्रमुपास्यमुत तदवस्थं ब्रह्मेति। किं वसुत्वमात्रं विद्या फलमुत ब्रह्मप्राप्तिपर्यन्तं वसुत्वमिति। अत्र संगत्यभिधानगतर्भं पूर्वपक्षप्रकारमनूद्य तत्र पूर्वपक्षेण विरोधद्वयमाशङ्क्य परिहरति---स्यादेवमिति। मनुष्येष्विव देवतासामान्ये परमपुरुषपासनसामान्यमेवं भवत्येव तथापि मध्वादिषु केषुचिदुपासनेषु यासां देवतानामुपास्यत्वं न स्यात्। तथा च यासां देवतानां प्राप्यतादिनिवेशस्तासामेव देवतानां प्राप्तृत्वं विरुद्धमेव। तथचोपास्योपासकयोः कर्मकर्तृविरोधेन मध्वादिषुदीनामधिकारो न स्यात्। शब्दार्थस्तु-वस्वादिभुज्यमानस्यादित्यस्याराध्यभावात् विशेषणतया निविष्टस्य वस्वादेराराधकभावो विरुद्ध एव। तथा च वसुप्राप्तिपूर्वकपरमात्मप्राप्तेः फलत्वात् स्यादेव पूर्वमेव विद्यमानवस्वादीनां वसुपदस्याप्राप्यत्वात्तत्रापि विरोध एव। तेन तत्राधिकार एव नस्यादिति। उक्तमिमं पूर्वपक्षं निराकरोति---मैनमिति। तत्रोपासनविरोधं तावत्परिहरति---सर्वान्तरात्मेति।न केवलं स्वात्मेपास्यः अपि तु स्वविशिष्टः परमात्मा तेन परमात्मप्रधानस्यात्मनो नोपासनानधिकारः। नच फलप्राप्तावपि विरोध इत्याह---कामादिति। वसुत्वेन वर्तमानस्य वर्तमानमेव वसुपदं फलञ्चेत् तदा ह विरोधः स्यात्। अत्र हि कल्पान्तरे मन्वन्तरेऽपि वसुपदप्राप्तिःफलत्वेन प्राप्यते। तथा च को विरोध इति।।

।1.3.9.

27. मनुष्यव्यतिरिक्तानां देवतानां वस्वादिदेवताविशेषाणां चार्थित्वसामर्थ्ययोस्संभवादधिकारोऽस्तीत्युक्तम्, तर्ह्यर्थित्वसामर्थ्ययोः मनुष्यविशेषाणां शूद्रादीनामप्यधिकारः स्यादित्याशङ्क्या संगतिः। तदर्थविचारस्तु-- किं ब्रह्मविद्यायां शूद्रस्याधिकारोऽस्ति नेति। किं तस्य तदुपंसहारसामर्थ्यमस्ति नेति। किं ब्रह्मविषयमनोवृत्तिरूपा ब्रह्मविद्या ऽनधीतवेदस्यापि संभवति नेति। किं वेदादेव ब्रह्मावगतिः, उतेतिहासपुराणादिनापि संभवतीति। किमितिहासपुराणादिनापि संभवतीति। किमितिहासपुराणयोर्वेदोपबृंहणं कुर्वतोरेव ब्रह्मावगतिहेतुत्वमुत स्वातन्त्र्येणेति। किं जानश्रुतेः पौत्रायणस्य शूद्रेत्यामन्त्र्य विद्योपदेश इतिहासपुराणयोर्निरपेक्षब्रह्मावबोधकत्वमुपोद्बलयति नेति। किमत्र शूद्रशब्दो वृषलजातिपर उत शुगस्येति विगृह्य "शुचेर्दश्च" इति रक्प्रत्यययोगवृत्त्या शोकवत्परः। यद्यपि पूर्वकाण्डे भगवता जैमिनिना शूद्राणामग्निविद्ययोरभावात् कर्माधिकारो नास्तीत्युक्तम्। अथापि--

"मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।"

इति भगवद्वचनादधिकारशङ्कया पूर्वपक्षमाह--जैमिन्युक्तेति। "मां हि" इति शूद्राणामधिकारित्वं भगवतैव स्मर्यते तस्मादधिकारो ऽस्ति इति। अथापि ज्ञानाभावे कथमुपासनं संयोयुज्यत इत्याशङ्कयाह-- श्रोतृत्वादिति। अयमर्थः---वेदाध्ययनपूर्वकं भगवज्ज्ञानं मा भूच्छूद्रादेः। अथापि भारतादिश्रवपूर्वकमस्त्येव भारतादेः श्रोतृत्वात्----श्रोतुं योग्यत्वादित्यर्थः। अस्तु ज्ञानं भारतादिश्रवणात् तथापि कर्मभिरपक्वकषायस्य कथं भगवतः सत्यवचनादुपासनं जायत इति पुनरप्याशङ्क्य निराकरोति--स्वजनीति। यथा ब्राह्मणादयः स्वाधिकारानुरूपैर्यज्ञादिभिः कर्मभिर्विद्याविरोधिपापनिबर्हणं कुर्वते, एवं शूद्रोऽपि स्वाधिकारानुगुणैः

शुश्रूषादिभिर्ब्रह्मोपासनविरोधिपापनिबर्हणं कुर्यादित्यर्थः। इत्थं पूर्वपक्षमनूद्य निराकरोति-- अयुक्तमिति। तत्र हेतुं दर्शयति--प्राप्त इति। ब्रह्मोपदेशे प्राप्ते सति "संस्कारपरामर्शात्तदभावाभिलापाच्च" इत्यादिभिः सूत्रैरुपनयनसद्भावावश्यंभावः सूत्रकारैरेव प्रदर्शितः। अतस्त्रैवर्णिकानामेव ब्रह्मविद्यायामधिकारो न शूद्रादीनामित्यर्थः।।

  28. शूद्रादीनां भारतादिश्रवणं किमर्थमनुमतमित्याशङ्क्याह--शूद्राणामित्यादिना। पापशान्त्यर्थं नपुनः श्रौतज्ञानार्थं शास्त्रात् प्रतिपन्नार्थविशदीकरणाकरणार्थमित्यर्थः। तदेव विवृणोति-- वेदार्थेति।वेदार्थापातबुद्धिः शूद्रस्य यदि स्यात् तदानीं शूद्र इतिहासपुराणैरुपबृंह्येत विशदज्ञानवान् परिकल्प्येतेत्यर्थः। नच शूद्रस्यापातबुद्धिरेवास्ति। तस्य ब्राह्मण्याभावादुपनयाभावः, तदभावाद्वेदाध्ययनाभावः। तस्मादापातप्रतीतिरेव नास्ति। सा पुनरापातप्रतीतिर्यदनधिकरणा यच्छूद्रानाधारा स शूद्र इतिहासपुराणैर्नोपबृंह्येत तत्त्वज्ञानवत्तया नोपहृंह्येतेत्यर्थः। तस्मादितिहासपुराणश्रवणं शूद्रस्य पापक्षयार्थमेव। नपुनस्तत्त्वज्ञानाभिवृद्धियर्थमिति। यद्वा वेदार्थापातबुद्धिरित्यादेरयमर्थः-- वेदो हि द्विविधः अधीतोऽनधीतस्चेति। अधीतो ब्राह्मणादेः। अनधीतस्तु शूद्रस्य ,अधीतो वेद आपातप्रतीतिं जनयति अनधीतस्तु न जनयति। तथा च वेदार्थापातबुद्धिर्यदनाधिकरणा यस्मादनधीताद्वेदान्न जायते। सोऽनधीतो वेदस्तैरितिहासपुराणाद्यैर्नोपबृंह्येत । आपातुप्रतिपन्नार्थविशदीकरणं ह्युपबृंहणम्। शूद्रविषयेत्वापातप्रतीतिजनकत्वाभावात् वेदस्योपबृंहणीयत्वं न युज्यत इति। किंच भगवानेव साक्षात् द्विसप्त चतिर्दश विद्यास्थानानि मया मनीषिणां पावनत्वेनोपदिष्ठानि शूद्रस्य न स्प्रष्टव्यानीति महाभारते पाण्डवायोवपादिशत्

"आदावेव मयोक्तानि पावनानि मनीषिणाम्।

तस्मान्नैतानि शूद्राद्यैः स्पष्टव्यानि युधिष्ठिम्।।"इति।

कथं तर्ह्यैतिहासिकानि पौराणिकानि च भगवत्स्तात्राणि शूद्रैः पठ्यन्ते?इत्थम्। केवलसंकीर्तनत्वेन तेषां पाठो न पुनर्वेदोपबृंहणत्वेनेति विभागः। तस्मादित्यादि---एवं वेदार्थज्ञानोपायाभावात् विकलधियामल्पज्ञानानां शूद्राणामुपासाधिकारो नेहि भवेदित्यर्थः।।

29.ननि शूद्रादीनामपि परभजनं "ब्राह्मणैः क्षत्रियैर्वैश्यैः "इत्यादिना "मां हि पार्थ व्यपाश्रित्य" इत्यादिना चोक्तं तत्कथमुपपद्यत इत्याशङ्क्याह---गीतमिति । तदनुष्ठानं स्वजात्यनुरूपधर्मानुष्ठानेन मालाकरणदीपारोपणप्रदक्षिणनमस्कारोपलेपनादिमात्रेणेति न विरोधः। ननु तर्हीशूद्राणामुपासनाधिकारो नास्तीति भवद्भिरुच्यते तथा च सति धर्मव्याधादीनां ब्रह्मविद्यानुष्ठानश्रवणं न योयुज्यत इत्याशङ्क्याह---धर्मेति।धर्मव्याधस्तुलाधरो विदुर इत्येवमादयस्तु महानुभावाः पूर्वजन्माभ्याससंसिद्धाः न पुनरेतस्मिन्नेव जन्मनि वेदाभ्यासादिजनितज्ञाननवन्त इति तत्रापि न विरोधः। अस्त्वेतत्समाधानम्, असमाधेयमेतत् द्दश्यते यज्जानश्रुतेर्ब्रह्मविद्योप देशार्थ शूद्रेत्यामन्त्रणमित्याशङ्क्य तदप्यन्यथासिद्धनित्याह--वेक्तेति। जानुश्रुतिमभिमुखयन्नोचार्यो रैक्वः शूद्रेति वक्ता जानश्रुतेः शाकमेव व्यनक्ति नपुनः शूद्रजातित्वम्। शूद्रशब्दे रूढिं परित्यज्य योगः किमर्थमङ्गीक्रियते तथा च रथकान्यायविरोधः

 

रूढिपरित्यागोऽन्याय्य इति रथकारन्यायइत्याशङ्क्याह--क्षत्तृप्रैषादीति। क्षत्ता राजाज्ञाकर्ता तस्य प्रैषः प्रेषणम्।अयमर्थः-रैक्वपरिज्ञानार्थं क्षत्तृप्रेषणेनान्यैरपि "उत्तरत्र चैत्रमथेन लिङागात्" इत्यादिभिः सूत्रस्थैर्लिङ्गैर्जानश्रुतेः क्षत्रियत्वं स्फुटतरविदितमेव। ततश्च "शुचेर्दश्च" इति व्युत्पत्त्या "शोचनाच्छूद्रः" इति निरुक्तेन च शूद्रशब्दो जानश्रुतौ प्रयुज्यते नपुनः शूद्रजातित्वेनेति निर्णय इति।।

।1.3.10.

30. पूर्वं दहराधिकरणे दहराकाशस्य हदयपरिमितत्वेनाल्पत्वमुक्तम्। तत्प्रसङ्गेनान्तराधिकरणे

परमात्मन एवाङ्गुष्ठप्रमितत्वमुक्तम्। तत्रैव च मनुष्याधिकारत्वप्रसङ्गादधिकरणत्रयं मध्ये निवेशितम्। तदनन्तरं पूर्वाधिकरणशेषोऽपि समापितः। अधुना पूर्वश्रुतदहरविद्यायां वेदनस्थानत्वेन तदनन्तराधीतस्य "आकाशो ह वै नाम" इत्यादिप्रकरणस्य जीवपरत्वमाशङ्क्य निराक्रियत इति संगतिः। तदर्थविचारस्तु-- छान्दोग्ये "आकाशो ह वै नामरूपयेर्निर्वहिता" इत्यत्राकाशशब्दनिर्दिष्टः किं मुक्तात्मा उत परमात्मेति। किं "धूत्वा शरीरमकृतं कृतात्मा" इतिमुक्तस्यानन्तरप्रकृतत्वमाकाश शब्दस्य मुक्तपरतावगमयति नेति। किं मुक्तस्यापि नामरूपनिर्वोढृत्वं संभवति नेति। किमत्र नामरूपनिर्वोढृत्वं नामरूपभजनेन उत नामरूपकरतृतयेति। किं"ते यदन्तरा" इति निर्देशः कर्तृतया निर्वोढृत्वमुपपादयति

नेति। "आकाशो ह वै नामरूपयोर्निर्वहिता"इत्यत्र श्रूयमाण आकाशो "धूत्वा शरीरमकृतं कृतात्मा" इति पूर्वत्रप्रतिपन्नजीव एव सर्वत्रापि प्रकृतग्रहणस्य न्याय्यत्वात्। असौ जीवो बन्धकाले नामरूपे गृह्णाति। तदनु च ब्रह्मभावे नामरूपे विजहाति। अतः पूर्ववाक्योक्तो जीव एवोत्तरवाक्यस्थो भेदेन प्रतिपद्यते। स एव मुक्त एवाकाश इति पूर्वपक्षमनूद्य निराकरोति-- धूत्वेत्यादिना ऽन्याय्यमित्यन्तेन। तदेव विवृणोति-- पुरोक्त इति। अयमर्थः-- द्वौ खलु धूत्वा

"धूत्वा शरीरम्" इत्यत्र पुरोक्तौ। अभिसंभविता कश्चिदेको जीवः, अभिसंभाव्यस्तु परमपुरुष एव।

"ब्रह्मलोकमभिसंभवानि" इति ब्रह्मलोकशब्देन तस्यैवोपादानात्। ब्रह्मलोकशब्दस्य निषादस्थपतिन्यायेन सामानाधिकरण्येन परमपुरुषनिष्ठत्वात् स एवाभिसंभाव्यतया पूर्वोक्तः परमपुरुष एवायमुत्तरवाक्ये पुनराकाशशब्देनोच्यते। तेनाकाशशब्दस्य प्रकृतिपरामर्शित्वं सुस्थमेव। प्रधानतया प्रकृतस्य परमपुरुशस्योपादानात्। ननु "ब्रह्मलोकमभिसंभवानि" इत्यत्र जीव एव मुक्तावस्थो ब्रह्मलोकशब्देनोच्यत नपुनः कादाचित्कं क्रियाविशेषसाध्यं मुक्तरूपम्। तेन पूर्वावस्थाप्रहाणेनोत्तरावस्थाग्रहणमेव जीवस्य ब्रह्मत्वमुचितमित्यसंगतमेतत्। किंच भवता जीवस्य पूर्वममुक्तत्वमनीशत्वमब्रह्मत्वम्, मुक्तावस्थायां तस्यैव सर्वज्ञत्वमीशत्वं ब्रह्मत्वमित्युच्यते, तत्छØतिविरुद्धमेव। श्रुतिषु युगपदेव "ज्ञाज्ञौ द्वावजावीशनीशौ" इति जीवब्रह्मणो र्विभक्तत्वेनाभिधानात्। अतो नित्यसिद्धबृहत्त्वबृंहणत्वगुणयोगी परमपुरुष एवाकाशशब्देनोच्यत इति सिद्धम्।।

31. उक्तानां दशानामधिकरणानां प्रधआनार्थभूतान् भगवद्गुणान् परिसञ्चष्टे-- विश्वात्मेति। सर्वान्तर्याम्यनन्तैश्वर्यविशिष्टो नियमनेन सर्वकार्याधारो मुक्तैरुपभोग्यस्वभावः परिमिचपरिमाणरूपदह्रस्वाधारसर्वलोको हृदयपरिमितावस्थया सर्वयन्ता देवादीनीमुपास्यो वसुमुखैर्देवैः स्वान्तर्यामित्वेन सेव्यः शूद्रादीनामुपासनार्हो नामरूपैककर्ता प्रभुर्नारायण इह तृतीये पादे बुबुधे बोधित इत्यर्थः।।

 ।।शुभम्।।


श्रीः

।1.4.1.

1. एवं त्रिभिः पादैरस्पष्टतरात्मस्पष्टरूपजीवादिलिङ्गानि वाक्यानि जीवपरत्वेनाशङ्क्य परमात्मपरतया निर्णीतानि अथ स्पष्टतरजीवादिलिङ्गकानि वाक्यानि चतुर्थपादे परमात्मपरतया निर्णीयन्त इति पादसंगतिः। तान्येव तत्तच्छायानुसारीणीत्यभिधीयन्ते। पूर्वत्राकाशशब्दस्य तत्पूर्ववाक्योक्त जीवपरत्वमाशङ्क्य तद्वाक्यप्रतिपन्नब्रह्मलोकपरत्वं सूचितम्,तद्वदिहाप्यव्यक्तशब्दस्य सांख्योक्तप्रधानपरत्वमाशङ्क्य रूपकविन्यासप्रतिपादकवाक्यान्तरोक्तशरीरपरत्वं सिद्धान्तिना स्थाप्यत इत्यधिकरण संगतिः। यद्वा पूर्वस्मिन्नधिकरणे जीवस्य प्रतिपाद्यत्वं निराकृत्य परमात्मनः प्रतिपाद्यत्वमुक्तम्, इह पुनः प्रधानस्य प्रतिपाद्यत्वं निराकृत्य परमात्मनः प्रतिपाद्यत्वमुच्यत इति संगतिः। तदर्थविचारस्तु कठवल्लीषु "इन्द्रियेभ्यः परा ह्यर्थाः" इत्यत्राव्यक्तशब्देनाब्रह्मात्मकं प्रधानमभिधीयते नेति। किमस्मिन्मन्त्रे तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञानमस्ति नेति। किमत्र परत्वं वशीकार्यतया उत तान्त्रिककारणभेदेनेति। अत्र तृतीयचतुर्थपादयः संगतिकथनपूर्वकं चतुर्थपादस्थानामष्टानामधिकरणानां पेटिकाद्वयरूपत्वमप्याह--निर्णीतमिति। तृतीतपादे परविषयतया स्पष्टजीवादिलिङ्गं वाक्यजातं निर्णीतम्। चतुर्थपादे तु तत्तत्साङ्ख्योक्तच्छायानुसारिवाक्यजातं परमेव पुरुषं प्रतिपादयतीति पादयोः संगतिः। तत्रावान्तरपेटिकाविभागमाह--षड्भिरित्यादिना। षड्भिरधिकरणैः साख्योक्तार्थशङ्कां प्रतिक्षिपति द्वाभ्यामधिकरणाभ्यां योगसिद्धान्तोक्तमर्थं प्रतिक्षिपतीति विभागः। तथा च घट्टौ-- पेटिके। जाघट्टः-- परस्परं संघटते इत्यर्थः। केचित्पुनराचार्या अष्टमं पुनरधिकरणमुक्तार्थ निगमनमित्याहुः। अध्यायपरिसमाप्तिरूपत्वादस्याधिकरणस्येति।।

 2. तत्र चतुर्थपादस्थानमष्टानामधिकरणानामवान्तरार्थभेदेनापि भेदमाह--द्वाभ्यामिति। द्वाभ्यामधिकरणाभ्यां सपिलाभिमतं प्रधानं प्रतिक्षेप्यम्। अनन्तरमेकेनाधिकरणेन कपिलाभिमततत्त्वसंख्या प्रतिक्षिप्यते। तुर्येण-- चतुर्थेनाधिकरणेन अव्याकृतशब्दस्यापि प्रकृतिद्वारवृत्त्या विभुः परमपुरुषएव अवधिरिति स्थाप्यते। तथा च प्रतिपाद्यत इत्यर्थः। अनन्तरमधिकरणयुगे शुद्धाशुद्धौ बद्धमुक्तौ जीवौ वारणीयौ परतत्त्वं न भवत इति प्रतिपादनीयावित्यर्थः।अवशिष्टमधिकरणद्वयं योगतन्त्रोक्तनिमित्तमात्रेश्वरनिरसनकृदिति चतुर्थपादाधिकरणार्थविभागः।।

 3. अत्र कठवल्ल्यां "इन्द्रियेभ्यः परा ह्यर्थाः" इत्यादिवाक्यमिन्द्रियोपक्रममव्यक्तपर्यन्तं जडपदार्थं अथ अनन्तरं पुरुषं तत्त्वकाष्ठारूपं विभज्य परमतकथितां प्रक्रियामेव ब्रूत इति पूर्वपक्षमनूद्य प्रतिक्षिपति पूर्वार्धेन ---अक्षादीति। अयुक्तत्वमेव विवृणोति--तत्रेति।अयमर्थः -- अत्र खलूत्तरोत्तंर कारणपरम्परा नोच्यते अपितु वशीकार्यपरम्परामुक्त्वा पूर्वस्माद्वशीकार्यादुत्तरस्य वशीकार्यत्वे परत्वं मुख्यत्वमुच्यत इति। अयमत्र पदान्वयः -- तत्प्रकरणस्थानवाक्यप्रतिपादित वशीकार्य प्रधानक्रमाभिधानादिति। किंचास्मिन्प्रकरणे "सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इति मुक्तप्राप्यस्थानाधिपतिर्विष्णुरेव "पुरुषान्नपरं किंचित्सा काष्टा सा परा गतिः" इति प्रत्यभिज्ञाप्यते, स तु

न जीवः, तेनेदं प्रकरणं सर्वमपि परमपुरुषपरमेवेत्याह-- शान्तात्मेति।।

 4.अत्र साङ्ख्योक्तप्रत्यभिज्ञाभावं बह्वर्थविरोधप्रतिपादनेन कथयित्वा वाक्यस्य परमपुरुषपरत्वमेव निगमयति --न ह्यर्थाः इति। अत्र "इन्द्रियेभ्यः परा ह्यर्थाः" इत्युक्तम्, न खलु साङ्क्यसिद्धान्तप्रक्रियायामिन्द्रियाणामर्थाः प्रकृतिरिति कथ्यन्ते। अथ मनो हेतुरेषां न चेष्टम्-- अथैषामर्थानामिन्द्रियानां मनो हेतुरिति साङ्क्यानां न चेष्टं सर्वेषामपीन्द्रियाणामाहङ्कारिकत्वात्।

तत्र "मनसस्तु परा बुद्धिः"इत्युच्यते,साङ्क्यसिद्धान्ते बुद्धिरेव महान् तेन महान् जायत इत्युक्तं भवति तदपि न घटते।तर्ह्यत्र महान्पर इति न घटते -- उच्यते, जीव एव भोक्ता तस्य च महानिति विशेषणं युज्यत इत्याह--महतीति। ननु "महतः परमव्यक्तम्" इति महतः कारणत्वेनाव्यक्ताभिधानम्, "अव्यक्तात्पुरुषः परः" इति साङ्ख्योक्तपुरुषाभिधानात् साङ्ख्योक्तमेव प्रत्यभिज्ञाप्यत इत्यत्राह--पारिशेष्यादिति। अयमर्थः-- पूर्वत्र "आत्मानं रथिनं विद्धि शरीरं रथमेव च" इत्यादिना मन्त्रेणात्मशरीरादीनां रथिरथत्वादिरूपणं कृतम्, तेषु रूपितेष्वर्थेषु कस्मात्कस्य वशीकार्यत्वातिशय इतिशङ्कायां "इन्द्रियेभ्यः परा ह्यर्थाः" इत्यादिना कस्माच्चित्कस्यचित् वशीकार्यत्वातिशय उच्यते, अत्र पूर्वमन्त्रोक्तार्थाः सर्वेऽप्युत्तरमन्त्रे निर्दिष्टाः शरीरमेकमेव न निर्दिष्टं पारिशेष्यात्तदेव शरूरमनेनाव्यक्तशब्देनोच्यत इति। अतोऽत्र कपिलप्रक्रियाप्रत्भिज्ञा नास्तीत्याह--- तदिति।।

 ।1.4.2.

 5..ननु पारिशेष्यस्थानप्रमाणाभ्यामव्यक्तकार्यभूतशरीरमात्रवाचकोऽव्यक्तशब्दइति पूर्वाधिकरणे समर्थितं तेन तद्वदेव "अजामेकाम्" इत्यादिवाक्यामुभयाभ्युपगताव्यक्तस्यैव वाचकं स्यादित्युत्थानेन संगतिः। तदर्थविचारस्तु श्वेताश्वतरीयाजामेकामिति मन्त्रेणाब्रह्मात्मकप्रकृतिरभिधीयते नेति। किं मन्त्रे यौगिकोऽजाशब्दोऽब्रह्मात्मकप्रकृतिपरः, उत ब्रह्मात्मकप्रकृतिपर इति। किं "बह्वीः प्रजाः सृजमानाम्" इति वाक्यावयवत्वमजाशब्दस्य स्वातन्त्र्येण सृष्टिपरतामवगमयति नेति। किं तैत्तिरीयाजामेकामित्यजाशब्दस्य ज्योतिरुपक्कमावाक्यावयवत्वं स्वातन्त्र्येण सृष्टिपरत्वावगमकत्वविरोधि नेति। किंच अजात्वं ज्योतिरुपक्रमात्वं च विरुध्येते नेति। अत्र पूर्वपक्षाभिप्रायमाह---स्वातन्त्र्येणेति। "अजामेकाम्" इत्यत्र "जनयन्तीम्" इति बहुप्रजाजनने स्वातन्त्र्येण कर्तृत्वमुच्यते प्रधानस्य। "सृजमानाम्" इति तु श्वेताश्वतरवाक्येऽपि तच्च कर्तृत्वमेव। "अजो ह्येको जुषमाणोऽनुशेते" इति बद्धस्य जुषमाणस्य प्रीतियुक्तस्य तस्यामेवाजायामनुशयनमुच्यते। "जहात्येनाम्" इत्यादिना मुक्तस्य तत्परित्यागोऽप्युच्यते। श्रुतापि पुनरियमुक्तिस्तान्त्रिकी कपिलन्त्रसिद्धेत्याशङ्क्य प्रतिक्षिपति---नेति । तत्र हेतुमाह---अजात्वमात्राभिधानादिति। अयमर्थः---अत्र ह्जेत्यजात्वमात्रमभिहितम्। न पुनरब्रह्मात्मिकाजेत्युक्तम्। तेन साङ्क्योक्ताब्रह्मात्मिकाया अजाया अभिधानासिद्धिरित्यर्थः। हेत्वन्तरमाह---अस्वातन्त्र्यप्रसिद्धेरिति। प्रसिद्धं खल्वचेतनाया मूलप्रकृतेरस्वातन्त्र्यं सर्वलोकेषु। तर्हि "जनयन्तीषु" "सृजमानाम्" इति सृष्टि कर्तृत्वकथनं कथमित्याशह्क्याह---सृजतिरिति । लोके हि स्रष्ट्टत्वं द्विप्रकारं प्रयोजककर्तृत्वं प्रयोज्यकर्तृत्वं चेति। तेन मूलप्रकृतेः श्रूयमाणं प्रयोज्यकर्तृत्वं प्रमाणसिद्धां परमात्मप्रेर्यतां नोपरुन्ध्यादित्यर्थः

 6.पूर्वाधिकरणे साङ्क्योक्ताब्रह्मात्मकाव्यक्तप्रतिपादकाजामेकामित्यादिश्रुत्या समुत्थितस्य पूर्वपक्षिणः प्रतिक्षेपः कृतः। अधुना साङ्क्योक्ततत्तवसङ्ख्याप्रतिपादकश्रुतिमवलम्ब्य समुत्थितस्यापि तस्य प्रतिक्षेपः क्रियत इति संगतिः। तदर्थविचारस्चु---"यस्मिन्पञ्च पञ्चनाः" इतिमन्त्रः किं कापिलतन्त्रसिद्धतत्तवप्रतिपादनपरो नेति। किं पञ्चपञ्चजनशब्देन पञ्चविंशतितत्त्वप्रतीतिरस्ति नेति। किं पञ्चपञ्चजनशब्देन पञ्चविंशतितत्त्वप्रतीतिरस्ति नेति। किं पञ्चपञ्चजनशब्देन पञ्चपञ्चकान्युच्यन्ते उत पञ्च पदार्था इति। किं पञ्चजना इति समासः समाहारविषयः उत " दिक्संख्ये संज्ञायाम् " इति संज्ञाविषय इति। किं समाहारसमासपक्षे अवान्तरसङ्ख्यान्वयनिमित्तमस्ति न वेति। किमाकाशस्य पृथङ्निर्देशः अवान्तरसंख्यान्वयविरोधि नेति। अत्र पूर्वपक्षी मन्यते-- " यस्मिन्पञ्च पञ्चजनाः " इति वाक्ये यस्मिन्निति सप्तम्या निर्दिष्टः साङ्ख्योक्तप्रकृतेः परः पुरुषगणः। " पञ्च पञ्चजनाः " इत्युक्तानि तु पञ्चविंशतितत्त्वान्येव। तथा च पञ्च सङ्ख्यया गणिताः पञ्च पदार्थाः पञ्चविंशतिसङ्ख्याका इओति सुप्रसिद्धमेतत्। तमिमं पूर्वपक्षमनुवदति-- यस्मिन्नित्यादिनाऽस्त्वित्यन्तेन। अनन्यनिष्ठः-- परमात्मनिष्ठत्वरहित इत्यर्थः। उक्तं पूर्वपक्षं प्रतिक्षिपति-- मैवमिति। तत्र हेतुद्वयमाह-- आकाशस्येति।

साङ्ख्यपक्षे हि पञ्चविंशतिसङ्ख्याकान्येव तत्त्वानि विद्यन्ते। नपुनः सप्तविंशतिसङ्ख्याकानि। अत्र

पुनराकाशस्य पऋथगभिधानं विद्यते। यस्मिन्निति सप्तम्यन्तेन पुरुषोऽपि पऋथङ् निर्दिश्यते। तेनैताभ्यामुभाभ्यां साङ्ख्योक्तपञ्चविंशतितत्त्वप्रत्यभिज्ञा न विद्यत इत्यर्थः। तर्हि भवत्पक्षे यस्मिन्निति क उच्यत इत्याशङ्क्याह-- षड्विंश इति। षड्विंशः-- परमपुरुषः । " तं षड्विंशकमित्याहुः" इति श्रुतिप्रसिद्धेः। स तु सर्वाधारत्वाद् यस्मिन्निति धछारकत्नेनानूद्यते। तत्र हेतुमाह-- ब्राह्मताद्यैरिति। प्रकरणप्रतिपन्नैर्ब्रह्मत्वामृतत्वाद्यैर्लिङ्गैः परमात्मेति निश्चीयत इत्यर्थः।।

 7. अत्र पूर्वपक्षवादी मन्यते--अयं अलु समाहारसमासः। तथा च पञ्चपूल्यादिवत्, पञ्चजना इतिच्छान्दसप्रक्रियया पुल्लिंङ्गनिर्देशेन समाहारेऽभिहिते समाहाराणां पञ्चसंख्यया विशेषणे पञ्चविंशदतितत्त्वसिद्धिरिति। तमिमं पक्षं प्रतिक्षिपन् " दिक्संख्ये संज्ञायां" इति सूत्रोक्तप्रक्रियया सप्तसप्तर्षय इतिवत् पञ्च पञ्चजना इति संज्ञोपाधिरित्याह-- संज्ञोपाधिरिति। तर्हि संज्ञोपाधिकतया प्रतिपाद्यं पञ्चकं किम्तियाशङ्क्याह-- प्राणाद्यमिति। " प्राणस्य प्राणम् " इत्यादिवाक्योक्तं मनःपर्यन्तं पञ्चकं श्रुतावेव स्पष्टमुक्तं ज्ञानेन्द्रियात्मकम्। ननु क्वचिदन्नस्यान्नमिति काण्वपाठे न द्दश्यते तत्कथं पञ्चकत्वसिद्धिरित्याशङ्क्याह-- ज्योतिरिति। " ज्योतिषैकेषामसत्यन्ने " इति सूत्रकारेणैव पञ्चकत्वमुपपादितमित्यर्थः। तत्र कथं न्यूनवाद इत्यत्राह-- न्यूनवाद इति। एकत्र न्यूनवादोऽप्यन्यत्र

द्दष्टेनाधिक्येन पूरणीय इत्यार्थः। ज्ञानेन्द्रियाणि षट्शंख्याकानि कथमिह पञ्चत्वसिद्धिरित्याशङ्क्याह- घ्राणमिति। तत्रान्नशब्दो घ्राणं रसनं चोभयमपि सहैवाह तेन पञ्चकत्वसिद्धिः। तर्हि त्वगिन्द्रियस्य कुत्र कथनमित्याशङ्क्य परिहरति-- प्राणेति। अत्रहि प्राणशब्दस्त्वगिन्द्रियस्य प्राणेनाप्यायितत्वात् लक्षणया त्वगिन्द्रियमेवाचष्ट इति सर्वानुमतमेवेति। तदिदं भाष्य एव

सुव्यक्तम्।।

8. एवं त्रिभिरधिकरणैः साङ्क्योक्तच्छायानुसारिवाक्यानां परमात्मपरत्वमेव प्रसाध्य तैरेव सांख्यैरब्रह्मात्मकप्रधानपरतया परिगृहीतमव्याकृतादिशब्दसामर्थ्यपि परमपुरुषपरत्वेनैव सुसंगतमित्याचक्षाण ईक्षत्याद्यधिकरणोक्तमर्थतत्त्वं सिंहावलोकनन्यायेन परामृशन् सम्यङ्न्यायकलापोक्तं स्थापयतीति संगतिः। तदर्थविचारस्तु---किं जगत्कारणवादिवेदान्तप्रतिपाद्यमव्यक्तं सांख्योक्तप्रधानमुत ब्रह्मेति। किं "असद्वा इदमग्र आसीत्" इत्यसच्छब्दोऽव्याकृतनामरुपावस्थब्रह्मपरः, उताव्याकृतापर इति। किं "तदपायेष श्लोको भवति" इति साक्षित्वेन निर्देशः "असद्वा इदमग्र आसीत्" इत्यत्रासच्छब्दस्य प्रकृतब्रह्मपरतामवगमयति नेति। किं "तद्धेदे तर्ह्यव्याकृतमासीत्" इत्यत्राव्याकृतशब्देनाव्याकृतशरीरं ब्रह्माभिधीयते उताव्यक्तमिति। किं "स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यत्यचक्षुः" इति प्रशासितुर्विदुषोऽव्याकृतशरीरब्रह्मतामवगमयति नेति। अत्र पूर्वपक्षयुक्तिमनुवदति--विश्वेति। श्रुतिषु सदसदव्याकृतोक्तिर्विश्वोपादानं वक्तिति परोक्ताव्याकृत एवान्वेति। तर्ह्यात्मादिशब्दानां लोकवेदप्रसिद्ध्या प्रकृतिवाचित्वस्य दृढप्रमितत्वादन्ये पुनरात्मादिशब्दास्तदानुगुण्येनैव कथंचिन्नेतव्या इत्यर्थः। इमामाशङ्कां प्रतिक्षिपति-- नेति। तमेव प्रतिक्षेपं विवृणोति-- यत्रेति। यस्मिन्वाक्येऽसदव्याकृतादि दृष्टं तत्र तस्मिन्नेव वाक्ये वहुस्यामिति प्रकरणसमुदितं सर्वज्ञताद्यं परमपुरुषलिङ्गम्। अपि तु उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गोपेतत्वात् सुस्थिरमेव प्रतिपन्नम्। तस्मात् "आत्मा वा इदमेक एवाग्र आसीत्""एको हवै नारायण आसीत्" इत्यादिवाक्यस्थात्मनारायणादिशब्दाः कारण वाक्यस्थाः प्रकृतेः कारणत्वमाश्रित्य अबाध्या इत्यर्थः।।

 9.नन्वव्याकृतादिशब्दस्य प्रकृतिवाचकत्वाभावे कथमिव परमात्मवाचकत्वमित्याशङ्क्य तद्वाचकत्वप्रकारमाह विस्तरेण---आसीदिति। अत्र खलु "असद्वा इदमग्र आसीत्" इत्यादिना वाक्येन परिद्दश्यमानस्य प्रपञ्चस्य लयावस्थतामात्रमुक्तम्। नपुनश्चिन्मात्रपूपत्वमसद्रूपत्वमत्यन्ताभावरूपत्वमत्यन्तासद्रूपत्वं वा।तर्हि "नैवेह किंचनाग्र आसीत्" इति वाक्यं कथमुपपद्यत इत्याशङ्क्याह---नैवेति। विलयो हि नाम वेदान्तसिद्धान्ते अवस्थान्तरप्राप्तिरेव नपुनर्द्रव्यस्वरूपनाशः। तत्कथमित्यत्राहशून्यतादेर्निषेधादिति। द्रव्यस्वरूपविनाशो विलय इति हि वैशेषिकादीनां प्रलापः। स तु प्रत्यक्षादिप्रमाणिकैर्निषिद्ध एव। तर्हि कथमव्याकृतत्वमित्यत्राह---सर्वस्येति।

सर्वस्याप्यर्थस्य कारणावस्थायामव्याकृतत्वं नामरूपविभागाभावादवोच्यते। इत्थं सामान्यतश्चिन्तितमव्याकृतशब्दार्थं ब्रह्मण्यपि योजयति-ताद्दशेति। तत्-तस्मात्कारणात्। अव्याकृतत्वाद्यवस्थाविशिष्टतत्तद्द्रव्यसमूहान्तरात्मा परमपुरुष एव सदसदव्याकृतशब्दवाच्य इति वेदान्तनिष्णातैर्निर्णीयते। अतोऽव्याकृतशब्दस्य भगवत्परत्वेऽर्थो नास्तीति न भ्रमितव्यमिति।।

 10. पूर्वस्मिन्नधिकरणे खलु अनैकान्तिकादव्याकृतादिसमाख्यामात्रात् प्रकृतिपरत्वमाशङ्क्यानन्यथासिद्धप्रकरणादिप्राबल्येन परमपुरुषपरत्वमुक्तमव्याकृतादिशब्दस्य, तर्हि कर्मत्वाद्यनन्यथासिद्धलिङ्गबलात् समाकृष्यमाणः पञ्चविंशकः पुरूष एव परतत्त्वमस्त्विति शङ्क्या संगतिः। संगत्यन्तरमपि राद्धान्तेनोच्यते--पूर्वमव्याकृतशब्दस्य प्रकृतिपरत्वं निरस्य परमात्मपरत्वं निर्णीतम्, अधुना पुनः कर्मशब्दस्य पुण्यपापरूपकर्मपरत्वं निरस्य कार्यरूपजगद्वाचित्वमुच्यत इति। तदर्थविचारस्तु---किं जगत्कारणवादिवेदान्तप्रतिपाद्यः प्रकृतयधिष्ठाता पुरुषः उत परमात्मेति। किं

"एतेषां पुरुषाणां कर्ता" इति कर्तृतया निर्दिश्यमानः पुरुशो जीव परमात्मेति। किं "यस्य वैततकर्म" इति

कर्मशब्दः पुण्यापुण्यकर्मवाची उत जगत्वाचीति। किं प्रकरणाद्यसंकुचितवृत्तिप्रत्यक्षप्रमितजगत्परैतच्छब्दसामानाधिकरण्येन कर्मशब्दस् जगत्वाचित्वं युक्तमिति। किं "तौ ह सुप्तं पुरुषमाजग्मतुः" इत्यादिजीवमुख्यप्राणलिङ्गे पुण्यापुण्यवाचितामुपोद्बलयतो नेति। किमेतल्लिभ्गे जीवपरे उत परमात्मपरे। किं "क्वैष एतद्वालाके पुरुषोऽशयिष्ट अथास्मिन्प्राण एवैकधा भवति" इति प्रश्नप्रतिवचनाभ्यां जीवातिरिक्तब्रह्मप्रतिपादनपरे उत नेति। अस्मिन्नधिकरणे पूर्वपक्षं आरचयति--- यस्येति। यो वै बालाके परिदृश्यमानानामेतेषां पुरुषाणां कर्ता यस्य परदृश्यमानस्वपुत्रादि सकलपुरुषकारणपुण्यपापात्मकं कर्म स वै वेदितव्यः स जिज्ञासितव्यः इत्युक्तेः तत्फलभूतकर्मकर्ता जीव एव वेदितव्यो न परमपुरुष इत्युक्तं भवतीति पूर्वपक्षः। शब्दार्थस्तु स्वकर्मपरिणतेः पुत्रादीनां पुरुषाणां कर्ता स एव पितृत्वेनावस्थितः पुरुष एव वेद्य इति। तदेतन्निराकरोति-- उपक्रान्तीति। उपपादयति-- बालाकीति। अत्र खलु बालाकेरज्ञातमेव तत्त्वमुपदिशयत्यजातशत्रुः। नपुनर्ज्ञातं ज्ञातस्य ज्ञापने नैरर्थक्यात्। तदिदमाह-- तज्ज्ञातोक्तिर्निरर्थेति। एतदुक्तं भवति-- "यो

वै बालाक एतेषां पुरुषाणां कर्ता" इत्येतच्छब्दनिर्दिष्टाः सर्वपुरुषा बालाकिपरिज्ञाता एव। अतस्तेषां ज्ञापने प्रयोजनं नास्ति। अतो जीवातिरिक्तः परमपुरुष एव स्वसृष्टिकर्मभूतविश्वजगत्कर्ता स वै वेदितव्य इत्युच्यते तदिदमाह-- जगतीति। क्रियत इति कर्मेति व्युत्पत्त्या जगत ईश्वरापेक्षया कर्मत्ववचनं मुख्यमेवेति।।

 11. अस्मिन्प्रकरणे किमर्थं जीवाख्यानं प्राणाख्यानं चेत्याशङ्क्य जीवप्राणयोः परमात्मशरीरत्वेन तद्विशिष्टतया भगवत उपासनार्मित्याह--एवमित्यादिना उपासेत्यन्तेन। एवं जीवातिरिक्ते परमात्मनि प्रकरणप्रतिपन्ने सति अस्मिन्प्रकरणे यज्जीवमुख्यप्राणकथनं तेनेह क्षतिर्विरोधो न भवति। कुत इत्यत्राह-- तथेति। तथा सति तद्विशिष्टत्वेन कथने सति, तद्विशिष्टस्याप्युपासा संभवेदिति शब्दार्थः। अयं सार्वत्रिक इत्याह-- प्राणस्येति। वाजसनेयके हि अन्तर्यामिब्राह्मणे प्राणस्य प्राणभाजो जीवस्याप्यधिकरणतया तच्छरीरित्वेनोच्यते परमपुरुषः। तथा च सति तेनैव न्यायेन ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति तद्विशेषणविशिष्टपरमात्मोपासनार्थं तत्रतत्र विशेषणरूपद्रव्यकथनमिति। अस्माकं स्थापना सर्वभूमौ वर्तत इत्यर्थः।।

 12. "पूर्वस्मिन्नधिकरणे लिङ्गत्वेनाभिमतस्य कर्मशहब्दवाच्यत्वस्यानैकान्तिकत्वेनालिङ्गत्वमुक्तम्"

अत्र पूर्वपक्षी पुरुषनिर्णयेऽसाधारणतयाऽभिमतं लिङ्गमाह--- कथम् ? "आत्मा वा अरे द्रष्टव्यः" इत्यारभ्य "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति" इति सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेद" "यत्र हि द्वैतमिव भवति" "विज्ञातारमरे केन विजानीयात्" इति पञ्चविंशाज्जीवादधिकं निषिध्य तेन च लिङ्गमात्रव्यपदेशादिति। तत्राह-- "वाक्यान्वयात्" इति, इति श्रीविष्णुचित्तार्यैः संगतिमालायां व्यक्तमुपापादि संगतिः। तेनात्र पूर्वं सांख्योक्तप्रक्रियाशङ्कामुखेन त्रिभिरधिकरणऐरेका पेटिका प्रवृत्ता। अधुना पुनः कारणत्वादिभिस्त्रिभिः अव्याकृतादिकर्मत्वादिलिङ्गाभ्यां

सह जीवब्रह्मणोरैक्योपदेशादत्यन्ताभेदात् प्रकृत्यधिष्ठातुर्जीवत्वमाशङ्क्य निराक्रियत इतिपेटिकान्तरमित्यप्यागुराचार्याः।

तदर्थविचारस्तु--जगत्कारणवादिवेदान्तप्रतिपाद्यं पुरुषाधिष्ठितं प्रधानमुत परमात्मेति।बृहदारण्यके किं मैत्रेयीब्राह्मणे "न वा अरे पत्युः कामाय पतिः प्रियो भवति" इत्युपक्रम्य "आत्मा वा अरे द्रष्टव्यः" इत्यात्मा पञ्चविंशः पुरुष उत परमात्मेति। किमुपक्रमे पतिजायापुत्रादिप्रियसंबन्ध आत्मशब्दस्य पुरुषपरतामवगमयति नेति। किं वाक्यावयवानां सर्वेषां परमात्मन्येवान्वयसामर्थ्यमुत पुरुष इति। अत्र पूर्वपक्षमुपन्यस्यति---पत्यार्दानामिति। "न वा अरे पत्युः कामाय पतिः प्रियो भवति" इत्यादिनोपक्रमे पत्यादीनां प्रियत्वं श्रुतिरनुवदति ह्यात्मनः कामसिद्ध्यै स्वाभीष्टसिद्ध इत्यर्थः। तेन स्वाभीष्टसिद्ध्यर्थं पुत्रादीनां प्रियत्वोपपादनेन असावात्मा पुण्यपापोत्पन्नफलभुग्जीव एवेति पूर्वः पक्षः। तं निराकरोति---प्रक्रमादीति। इदमुपक्रमादिविरुद्धमिति। तर्ह्यस्मिन्वाक्ये मदुक्तं न भवति चेत् किं पुनरुच्यत इत्याशङ्क्याह---तत्तदिति। तत्तत्पुत्रादिनिमित्तभोगप्रदातुः परमपुरुषस्यैव संकल्पात्तेषां पुत्रादिनां प्रियत्वं भगवत्संकल्पायत्तमित्यर्थः। अस्य पितुरयं पुत्रः प्रियो भवत्विति भगवता संकल्पिते सति तथैव तत्प्रियत्वं भवतीत्यर्थः।अत्रात्मशब्देन भगवानेवोंच्यते नपुनः पित्रादिरूपो जीवः। किं च सर्वेष्वपि वेदान्तेषुं बगवान् पुरुषोत्तम एव मोक्षार्थं द्रष्टव्यतया श्रुयते तेन स एवात्मा "आत्मा वारे द्रष्टव्यः" इत्यत्रात्मशब्देन प्रत्यभिज्ञाप्यते। गतिसामान्यस्य पूर्वमेवोक्तत्वादिति।।

 13.अत्र प्रयुज्यमानानामात्मशब्दानां परमात्मपरत्वं व्यित्पत्त्येत्येकः पक्षः। तृतीयस्तु जीववाचकात्शब्दो जावद्वारा परमात्मानमेव वदतीति। तमिमं पक्षत्रयविभागमाह---व्युत्पत्तयेत्यादिना पूर्वार्धेन। अत्र जाववाचकानां परमात्मपरत्वे ऋषित्रयाभिमतपक्षान् पूर्वोक्ताननुक्रमेण शिष्यानुग्रहार्थं विशदयत्युत्तरार्धेन--व्यक्त्यैक्यादित्यादिना। जीवब्रह्मणोः स्वरूपैक्यात् जीवशब्देन परमात्माभिधानमित्याश्मरथ्यः। औडुलोमिस्तु निरुपधिकदशाद्वैततो मुक्तदशायां जीवशब्देन परमात्माभिधानमित्याह। काशकृत्स्नः पुनस्तत्स्थत्वात् जीवस्य परमात्मशरीरत्वेन परमात्मनस्तन्निष्टत्वादित्याह। अत्र काशकृत्स्नीयमेव राद्धान्तत्वेनोचयत इति।।

 14.औडुलोमीयं पक्षं निराकृत्य काशकृत्स्नीयमेव पक्षं स्वपक्षयति--भेदेति।

भेदकाविद्योपाधिव्यपाये सति जीवोऽयं ब्रह्मतां प्राप्नयादिति औडुलोमिमतमयुक्तम्। कुतस्तत्राह---नित्यं तद्भेदद्दष्टेरिति । "नित्यो नित्यानाम्" इत्यादिश्रुत्या जीवपरयोर्भेदस्य नित्यत्वेन साक्षादेव दर्शनात्। अत्र हेत्वन्तरमप्याह---अतिपतितेति। अतीतसर्वबन्धे जीवे "निरञ्जनः परमं सांम्यमुपैति" "मम साधर्म्यमागताः" इति साम्यसाधर्म्ययोः श्रुतत्वात् तयोश्च भेदगर्भत्वादित्यर्थः। तर्हि मृत्तत्कार्यद्दष्टान्तः श्रुतावुच्यते स कथं जीवपरयोरत्यन्तभेदे भवद्भिरभिधीयमाने घटत

इत्याशङ्क्याह---मृत्तदिति। नहि द्दष्टान्तदार्ष्टान्तिकयोः सर्वथा वाच्यम्, अपि तु प्रमाणानुगुणमेव,अन्यथा श्रुतिशतविरोधः स्यादित्याह---श्रुतिशतविहत इति। "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः "इति श्रुत्यैव साक्षाच्चिदचिदीश्वराणां स्वरूपं विभज्य निर्णीयत इत्यर्थः। उक्तमर्थं काशकृत्स्नीयमतेन निगमयति---तेनेति। जीवशब्दमीश्वरेऽपृथक्सिद्धविशेषणवाचिनां शब्दानां विशेष्याबिधानसामर्थ्यादिति काशकृत्स्नो निपवहदिति यत् एष एव श्रीवेदव्याससिद्धान्त इति। इतरत् द्वितयं निरसनीयमेवेति।।

 15.पूर्वत्र "अवस्थितेरिति काशकृत्स्नः" इति भगवतो नियामकत्वेनावस्थानात् जीवसामानाधिकरण्यमित्यक्ते कश्चिदाह--यथा राजा राष्ट्रमित्यत्र राष्ट्रनियामकत्वेन राजाऽवत्ष्टिते सामानाधिकरण्यमिहोपचारिकमस्ति अथापि नोपादानत्वम्, तद्वदत्रापि निमित्तमेव स्यान्नोपादानमित्याशङ्कयोत्थानात् संगतिः। तदर्थविचारस्तु--किं ब्रह्म जगतो निमित्तकारणमुतोपादानकारणमपीति। किं जगत्कारणवादिवेदान्तवाक्यं ब्रह्मण उपादानकारत्वमपि प्रतिपादयति, उत निमित्तकारणत्वमात्रमिति। किमन्यत्र निमित्तोपादानयोर्भेदनियमो निमित्तमात्रत्वं ब्रह्मणो व्यवस्थापयति नेति। किं निमित्तकारणत्वमात्रप्रतिपादकत्वे सत्येकविज्ञानेन

सर्वविज्ञानप्रतिज्ञाद्दष्टान्तयोरुपयोरुपरोधोऽस्ति नेति। अत्र पूर्वपक्षोक्तप्रकारमनूद्य दूषयितुमुपक्रमते--मृत्पिण्डादेरिति। लोके ह्युपादानान्मृत्पिडादेर्निमित्तभूतः कुलालादिः पृथगेवोपलभ्यते तद्वदेव जगतामादिकर्ता नोपादानं कुत इत्याशङ्क्य हेतुमाह--विकारैर्विरहत इति---विकाररहितत्वादित्यर्थः। उक्तमर्थं प्रतिषेधति--नेति। तदेव विवृणोति---द्वारेति यथा बालो युवा जात इत्यत्र द्वारभूतदेहे विकारात् नात्मनि जीवे विकारः,एवमत्रापि जगतुपादानभूतभगवद्विशेषणे विकाराद् भगवति न विकार इत्यर्थः। ननु मृत्तत्कार्यद्दष्टान्तो द्दश्यते द्दष्टान्तभूते मृदादौ तु स्वरूपएव विकारः तद्वदत्रापि स्वरूपएव विकारः स्यादित्याशङ्क्य नेत्याह---मृदिति। नहि द्दष्टान्तदार्षान्तिकयोः सर्वथा साधर्म्यमपेक्षितम्, अपि तु यथायोग्यमेव साधर्म्य स्वीक्रियते। अत्र तु भगवति स्वरीपविकारस्यासंभवादचेतनवैशिष्ट्येनैवावस्थान्तरप्राप्तिरुपलभ्यते। तददमाह- देहेति। प्रभृतिपदेन "यथा सतः पुरुषात्केशलोमानि" इत्यादिनिदर्शनग्रहणम्। व्यापृतेर्दर्शितत्वात् -- भगवद्व्यापारस्य दर्शितत्वात्। नह्यूर्णनाभेर्देह एवावस्थाप्राप्तिः,नापि केवलात्मनि, अपि तु देहविशिष्टात्मनीति लोकोपलम्भः, एवं प्रकृतिविशिष्टपरमात्मन्येवावस्थान्तरप्राप्तिरिति समञ्जसमेतत्।।

  16. एकस्यैव पदार्थस्य निमित्तत्वमुपादानत्वं च परस्परविरुद्धमिति परे प्रलपन्ति। तैरुक्तमर्थं तचदङ्गीकृतप्रक्रियादृष्टान्तेनोपपादयितुमुपक्रमते--- स्वज्ञानाद्यवमिति। न्यायवादिनो भगवदुपादानत्वप्रतिक्षेपकाः स्वप्रक्रियाविरोधादेव भ्रश्यन्ति। ते खलु समवायिकारणमसमवायिकारणं निमित्तकारणमिति त्रिधा कारणं कल्प्यन्ति। अथापि यदेव निमित्तकारणं तदेव समवायिकारणमिति ब्रुवते। तद्यथा स्वज्ञानाद्यं स्वजन्यमेव स्वकीयं हि ज्ञानचिकीर्षाप्रयत्नादिकं शास्त्राभ्यासीदिभिः स्वयमेव करोति जीवः। तेन तत्र कर्तृत्वान्निमित्तकारणं भवति। तथापि च स्वयमेव समवायिकारणं भवति स्वज्ञानादः कार्यं यत्र समवैति तत् , समवायिकारणमिति समवायिकारणलक्षणस्य स्फुतमुपलम्भात्। किंचेश्वरोऽपि सर्वव्याप्तस्य स्वस्य सर्वैरपि परमाण्वादिभिः संयोगं स्वयमेव सृजति सर्वकार्यहेतुत्वात् तथाच तत्र कर्तृत्वेन निमित्तकारणं भवति। समवायिकारणत्वमपि तं प्रति तस्य दृश्यते परमाण्वादिसंयोगस्येश्वरनिष्ठत्वात्। तेन यथा कर्तृत्वं समवायिकारणं च युष्मत्सिद्धान्ते भवतीश्वरनिष्ठमेव तथाऽस्मत्सिद्धान्ते निमित्तत्वमुपादानत्वं चैकवस्तुनिष्ठमिति को विरोधः। अत्रायं विशेषः-- समवायस्याप्रामाणिकत्वात् प्रत्ययोत्पत्तिवादस्यात्यन्तजघन्यत्वाच्च केवलमवस्थन्तरापत्तिमात्रमेव वयं स्वीकुर्मह इति। सृजतीत्यादि -- स्वस्यान्यसंयोगमीश्वरः सृजतीति शब्दान्वयः। तत्रेश्वरस्योपादानत्वं विवृणोति-- संयोगवइति। तत्-- तस्मात्कारणात्। ईश्वरो मूर्तैः सह स्वस्य संयोगे प्रपकृतिरपि उपादानमपि क्रियातो निमित्तं स्वव्यापारान्निमित्तं स्यादित्यर्थः। तदपि मूर्तमीश्वरसंयोगे समवायिकारणं भवति। स्वनिष्ठकर्मद्वारा स्वयं निमित्तकारणं भवतीत्यर्थः। अत्र चोदयति-- एकस्येश्वरस्य कथं बहुस्यामिति बहुभवनं स्यादिति। तच्चोदनां परिहरति-- एकस्येति। यथा सौभरिरेक एव पञ्चाशच्छरीरपरिग्रहं सङ्कल्प्य तेन रूपेण जात इति प्रमाणसिद्धं तथा भगवानपि नानाविशेषणविशिष्टवेषेण स्वसंकल्पादेव जायत इति को विरोधः। काचिदभेदश्रुतिरपरा च भेदश्रुतिः, भेदाभेदौ परस्परविरुद्धावेवेत्याशङ्क्यास्मत्सिद्धान्ते विरोधगन्धोऽपि नास्तीत्याह-- भेदाभेदेति। स्वरूपभेदाद्भेदश्रुतिरुपपद्यते, विशिष्टैक्यादभेदश्रुतिरिति निर्वाहे वयमेव विजयामह इति।।

 17. उक्तनिमित्तत्वाविरुद्धापादानत्वोपपादकयुक्तिजातं संग्रहेण प्रदर्शयति -- कार्यैक्ये इति। तत्र तावत् प्रतिज्ञावाक्यमेकविज्ञानेन सर्वविज्ञानप्रतिपादकं भगवत उपादानत्वमन्तरेण न संघटते। कारणस्य कार्येण सहैक्ये प्रतिज्ञा घटत इत्यर्थः। तदनुगुण इति -- कार्यकारणोरैक्यप्रतिज्ञानुगुण एव मृत्त्कार्यादिदृष्टान्तवर्ग उदाहारि। इत्थमुपादानत्वमुक्तम्।निमित्तत्वमप्यमाह--स्रष्टुरिति। स्रष्टुरीश्वरस्य स्यामिति श्रुतिरभिध्यानं वक्ति निमित्तत्वं वक्तीत्यर्थः। अन्या तु श्रुतिर्निमित्तत्वं सिद्धं कृत्वा उपादानत्वं सहकारित्वं च साक्षात् स्वयमेवाह "किं स्विद्वनम्" इत्यादिना। वनतां वृक्षतादिं च वक्तीति---वक्तीत्यस्यावृत्त्यानवयः। "किं स्विद्वनम्" इत्युपादानप्रश्नः। "क उ स वृक्ष आसीत्"

इत्युपकरणप्रश्नः। "यतः" उपादानात् "द्यावापृथिवी भगवान्निष्टतक्षुः" सस्रजेति वचनव्यत्ययश्छान्दसः। अथवा---मनीषिणो वनं मनसा बुद्ध्या निष्टतक्षुर्निश्चितवन्त इत्यर्थः। उपादानभूताद् भगवत एव सर्वोत्पत्तिरिति मनसा निरणैषुरित्यर्थः। अथवा मनीषिण इत्यस्योत्तरत्राप्यन्वये संबोधनान्तत्वमिति। "यदध्यतिष्ठत्" इत्यादि--भुवानान्तर्यामित्वेन धारयन्नीश्वरो यदुपकरणमध्यतिष्ठदिति श्रुत्यन्वयः। "ब्रह्म वनम्" इत्यादि--ब्रह्मवनमुपादानम्। "ब्रह्म स वृक्षः" इति-ब्रह्मैवोपकरणमित्यर्थः। एतदुक्तं भवति--सूक्ष्मचिदचिद्विशिष्टमुपादानं विश्वस्योपकरणभूतकालादिविशिष्टः स एवोपकरणमिति। "मनीषिणो मनसा पृच्छतेदुतत्" हेमनीषिणः मनसाषऽवधानेन सहैतच्छØणुतेत्यर्थः। "मनीषिणो मनसा विब्रवीमि वः" इत्यत्र वः श्रृण्वतां भवतामनुग्रहपूर्वकावधानविशेषेण ब्रवीमीति। "यदध्यतिष्ठत्" इति यदुपकरणं भगवानध्यतिष्ठिदिति पूर्वमेवोक्तम्। तेन सर्वाधिष्ठातृत्वात् भगवतो निमित्तत्वसिद्धिः। किंच "तदात्मानं स्वयमकुरुत" इति तस्यैव भगवतः स्वयमेव स्वात्मनोऽवस्थान्तरकरणादुपादानत्वं निमित्तत्वं च द्दश्यते। तद्भूतयोनित्वमुक्तमिति-- "यद्भूतयोनिं परिपश्यन्ति धीराः" इति तस्यैव भूतयोवित्वं साक्षादेवोच्यते। अतः क्रतृत्वं प्रकृतित्वं चोभयमपि प्रमाणसिद्धं भवतीति निगमयति---तस्मादिति। सर्वतत्त्वान्तरात्मेति-हेतुगर्भविशेषणम्।सर्वान्तर्यामित्वात् सर्वं संघटत इत्यर्थः।

 18.अत्र कश्चिदाह-यत्समवायिकारणं यच्चासमवायिकारणं तदुभयव्यतिरिक्तकारणं निमित्तकारणमिति हि न्याय्वादिभिर्लक्षणमभाणि। तेन यदुपादानं तन्निमित्तं न भवति यच्च निमित्तं तदुपादानं न भवतीति नियमस्य सिद्ध्यत्वात् निमित्तोपादानैक्यवादो न संघटत इति लक्षणविरोधमाशङ्क्य परिहरति---नोपादानमिति। किमप्युपादानं निमित्तं न भवति। उपादानव्यतिरिक्तं कारणं निमित्तमिति हि निमित्तकारणविदः। एवं यन्निमित्तत्वेनसिद्धं तदुपादानतां न भजतीति शब्दान्वयः। उक्तमर्थं प्रतिक्षिपति---अयुक्तमिति। अयुक्तत्वमेव लोकवेदप्रसिद्ध्योपपादयति---इष्टादित्यादिना। लोके हि तुलासां प्रमाणप्रमेयव्यवहारन्यायेनैकस्यैव पदार्थस्य सर्वलक्षणयोगे सति आकारभेदान्नानात्वव्यवहारयोगित्वं सिध्यतीति नियमे सिद्धे सति स्वकपोलकल्पितन्यायेनोपादानव्यतिरिक्तं निमित्तं निमित्तव्यतिरिक्तमुपादानमिति परस्परविरोधप्रणयनकुसृतिः कुयुक्तिर्बालचिन्ताविपाक इत्यर्थः। किंच युष्यत्संकेतसिद्धनिमित्तशब्दवाच्यत्वाभावेऽप्यपादानकारणस्यैव कर्तृत्वं सुप्रसिद्धमेव। तदेवमीश्वरस्योपादानत्वं कर्तृत्वं चाविरुद्धमिति न संकटं किञ्चित्।

 19.ननु स्वकारणे कार्यस्य "पृथिव्यस्तु प्रलियते" इत्यादिना लयो विनाश उक्तः, "पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि" इति प्रकृतिपुरुषयोरपि लयो भगवता पराशरेण प्रतिपादितः, तेन तयोः प्रलयकाले विनष्टत्वात् कथं सूक्ष्मचिदचिद्विशिष्टपुपुषाद्विश्वसृष्टिर्भवद्भिपभिधीयत इतियाशङ्क्य आदो---सृष्ट्यादिकाले।

एकस्य---एकस्यैव सत ईश्वरस्य। बहुस्यामिति बहुभवनम्---"बहुस्याम्" इत्युक्तरीत्या बहुभवनं तु। सौभरिन्यायसिद्धम्---यथा सौभरिः एक एव पञ्चाशच्छरीरपरिग्रहं सङ्कल्प्य तेन रूपेण जात इति प्रमाणसिद्धं तथा भगवानपि नानाविशेषणविशिष्ठवेषेण स्वसङ्कल्पादेव जायत इति निदर्शनन्यायसिद्धमित्यर्थः। इह-अस्मिन् सिद्धान्ते। भेदाभेदश्रुतीनामविहतिश्च विशिष्टैक्ययोगात् स्यात्--- "द्वा सुपर्णा सयुजा सखाया" "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानवीशते देव एकः" "नित्यो नित्यानां चेतनश्चेतनानाम्" इत्याद्या भेदवादिन्यः श्रुतयः।"नेह नानास्ति किञ्चन" इत्याद्या अभेदश्रुतयः।द्विविधानामपि श्रुतीनां परस्पराविरोधश्च

स्वरुपभेदपरत्वात् भेदश्रुतीनां अभेदश्रुतीनां चेतनाचेतनविशिष्टप्रकार्यैकियपरत्वयोगाच्च संसिध्यतीत्यर्थः।।

 20.उक्तनिमित्तत्वाविरुद्धापादानत्वोपपादकयुक्तिजातं संग्रहेण प्रदर्शयति --कार्यैक्ये इति। तत्र तावत् प्रतिज्ञावाक्यमेकविज्ञानेन सर्वविज्ञानप्रतिपादकं भगवत उपादानत्वमन्तरेण न संघटते। कारणस्य कार्येण सहैक्ये प्रतिज्ञा घटत इत्यर्थः। तदनुगुण इति -- कार्यकारणयोरैक्य प्रतिज्ञानुगुण एव मृत्तत्कार्यादिदृष्टान्तवर्ग उदाहारि । इत्थमुपादानत्वमुक्तम्। निमित्तत्वमप्याह--- स्रष्टुरिति। स्रष्टुरीश्वरस्य

स्यामिति श्रुतिरभिध्यानं वक्ति निमित्तत्वं वक्तीत्यर्थः। अन्या तु श्रुतिर्निमित्तत्वम् सिद्धं कृत्वा उपादानत्वं सहकारित्वं च साक्षात् स्वयमेवाह "किं स्वद्वनम्" इत्यादिना। वनतां वृक्षतादिं च वक्तीति-- वक्तीत्यस्यावृत्त्यान्वयः।"किं स्वद्वनम्" इत्युपादावप्रश्नः।"क उ स वृक्ष आसीत्" इत्युपकरणप्रश्नः। "यतः" उपादानात् " द्यावापृथिवी भगवान्निष्टतक्षुः" ससर्जेति वचनव्यत्यस्छान्दसः। अथवा-- मनीषिणो वनं मनसा बुद्ध्या निष्टतक्षुर्निश्चितन्वत इत्यर्थः।उपादानभूताद् भगवत एव सर्वोत्पत्तिरितिमनसा निरणैषुरित्यर्थः।अथवा मनीषिणा अत्यस्योत्तरत्राप्यन्वये संबोधनान्तत्वमिति "यदध्य तिष्ठत्" इत्यादि--भुवनान्तर्यामित्वेन धारयन्नीश्वरो यदुपकरणमध्यतिष्ठदिति श्रुत्यन्वयः। "ब्रह्म वनम्" इत्यादि--ब्रह्म वनमुपादानम्। "ब्रह्म स वृक्षः" इति--ब्रह्मैवोपकरणमित्यर्थः।एतदुक्तं भवति--सुक्ष्मचिदचिद्विशिष्टमुपादानं विश्वस्योपकरणभूतकालादिविशिष्ट स एवोपकरणमिति। "मनीषिणो मनसा पृच्छतेदुतत् " हेमनीषिणः मनसाऽवधानेन सहैतच्छØणुतेत्यर्थः।"मनीषिणो मनसा

विब्रवीमि वः" इत्यत्र वः श्रृण्वतां भवतामनुग्रहपूर्वकावधानविशेषेण ब्रवीमीति।"यद्ध्यतिष्ठत्" इति यदुपकरणं भगवानध्यतिष्ठदिति पीर्वमेवोक्तम्।तेन सर्वाधिष्ठातृत्वात् भगवतो निमित्तत्वसिद्धिः। किंच "तदात्मानं स्वयमकुरुत" इति तस्योव भगवतः स्वयमेव स्वात्मनोऽवस्थान्तरकणादुपादानत्वं निमितत्वं च दृश्यते।तद्भुतयोनित्वमुक्तमिति--"यद्भुतयोनिं परिपश्यन्ति धीराः" इति तस्यैव भूतयोनित्वं साश्रादेवोच्यते।तः कर्दृत्वं प्रकृतित्वं चोभयमिति प्रमाणसिद्धं भवतीतिनिगमयति--तस्मादिति।सर्वात्वान्तरात्मेति--हेतुगर्भविशेषणम् सर्वान्तर्यामित्वात् सर्वं संघटत इत्यर्थः।।

 20.अत्र कश्चिदाह--यत्समवायिकारणं यच्चासमवायिकारणं तदुभव्यतिरिक्तकारणं निमित्तकारणमिति हि न्यायवादिभिर्लक्षणमभाणि।तेन यदुपादानं तन्निमित्तं न भवति यच्च निमित्तं तदुपादानं न भवतीति नियमस्य सिद्ध्यत्वात् निमित्तोपादानैक्यवादो न संघटत इति लक्षणविरोधमाशङ्क्य परिहरति--नोपादानमिति।किमप्युपादानं निमित्तं न भवति।उपादानव्यतिरिक्तं कारणं निमित्तमिति हि निमित्तकारणविदः।एवं यन्निमित्तत्वेनसिद्धं तदुपादानतां न भजतीति शब्दान्वयः।उक्तमर्थं प्रतिपक्षिपति--अयुक्तमिति।अयुक्तत्वमेव लोकवेदप्रसिद्ध्योपपादयति--इष्टादित्यादिना।लोके हि तुलायां प्रमाणप्रमेयव्यवहारन्यायेनैकस्यैव पदार्थस्य सर्वलक्षणयोगे सति आकारभेदान्नानात्वव्यवहारयोगित्वं सिध्यतीति नियमे सिद्धे सति स्वकपोलकल्पितन्यायेनोपादानव्यतिरिक्तं निमित्तं निमित्तव्यतिरिक्तमुपादानमिति परस्परविरोधप्रणयनकुसृतिः कुयुक्तिर्बालचिन्ताविपाक इत्यर्थः।किंच युष्मत्संकेतसिद्धनिमित्त-

शब्दवाच्यत्वाभावेऽप्युपादानकारणस्यैव कर्तृत्वं सुप्रसिद्धमेव।तदेवमीश्वरस्योपादानं कर्तृत्वं चाविरुद्धमिति न संकटं किञ्चित्।।

 22.ननु स्वकारणे कार्यस्य "पृथिव्यप्सु प्रलीयते" इत्यादिना लयो विनाश इक्तः, "पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि"इति प्रकृतिपुरुषयोरिपि लयो भगवता पराशरेण प्रतिपादितः, तेन तयोः प्रलयकाले विनिष्टत्वात् कथं सूक्ष्मचिजचिद्विशिष्टपुरुषाद्विश्वसृष्टिर्भवद्भिरभिधीयत इत्याशङ्क्य कार्यभूतपृथिव्यादिलयात् श्रुतिसिद्धं वैषम्यं दर्शयति--उक्त्वेत्यादिना।अयमर्थः--अत्र द्विविधो हि लयो विवक्षितः।एकस्तावत् स्वावस्थाप्राप्तिः।इतरस्तु स्वावस्थाप्रहाणमन्तरेण वस्त्वन्तरविभागनर्हसंसर्गविशेषप्राप्तिः। यथा प्रकृतिपुरुषयोः प्रकृतिरूपं च नित्यसिद्धमबाधितत्वादपरित्यज्य विशेष्यभूतेन भगवता विभागानर्ह संसर्गविशेषप्राप्तिः। तदेव तमः पर एकीभवतीति विशिष्टैक्यरूपतयाभिधीयते। पूर्वं तु "पृथिव्यप्सु प्रलीयते" इत्यादिना साक्षाल्लयशब्द एव प्रयुज्यते। अतः "उभावेतौ लीयेते" इति पुराणस्थलशब्द एकीभावमात्रमेव कथयतीति विभागः। संसर्गविशेषेऽपि लयशब्दः प्रयुज्यते -- यथा वृक्षेषु पक्षिणो लीयन्त इति साक्षाल्लयशब्द एव प्रयुज्यते। तदिदं सर्वमस्मिन्पद्ये यथापाठमनुसंधेयम्। अन्वयस्तु "पृथिव्यप्सु प्रलीयते" इत्यादौ तत्त्वान्तराणां

विलयमुक्त्वा तमसः पुनर्भगवत्येकतामात्रमेवोक्तं तम एकीभवतीति। तेन तयोः प्रकृतिपुरुषयोर्न विनाशः। किं च

"प्रकृतिं पुरुषं चैव विद्ध्यानादी उभावपि। अचेतना परार्था च नित्या सततविक्रिया।।"

इत्यादिषु वेदपरवेदिनां पराशरादीनां वाक्येषु च प्रकृतिपुरुषयोरनादित्वं प्रोक्तम्। तस्मादपि तयोर्न साक्षाद्विलयः। पुराणोक्तं लयवचनं सदृष्टान्तमन्यथयति-- स्यादिति। अयस्तोयनीत्येति-- आयुधरूपेण परिणतेऽयसि परिगृहीतं तोयं तोयरूपेणैवावतिष्ठते। अन्यथा स्नेहानुवृत्त्याद्ययोगात्। तद्वत् प्रकृतिपुरुषावपि भगवत्यविभागार्हसंसर्गविशेषमात्रेणैकीभाव व्यवहारविषयभूतौ विशेषेण जगत्सृष्ट्यादावुपकुरुतः। उक्तमर्थं सहेतुकं निगमयति-- तेनेति।

सोपबृंहणनिपुणनिरूपितश्रुतिसिद्धत्वेन भोक्तृभोग्यप्रभृति सहिताद् भगवतो विश्वसृष्टिः समीची। अत्र प्रभृतिशब्देन कालसंबन्धो विवक्षितः। तेन सूक्ष्मचिदचिद्विशिष्टस्योपादानत्वसिद्धिः कालवैशिष्ट्येनोपकरणत्वसिद्धिरित्यर्थः।।

 ।1.4.8.

 23. शास्त्रारम्भे जन्मादिसूत्रोक्तं भगवतो जगन्निमित्तोपादानत्वं प्रकृत्यधिकरणए निगमितम्, अतः परमुक्तावशिष्टानां श्रुतिवाक्यानामानन्त्यादशेषेण वक्तुमशक्यत्वेन तेनैव प्रकारेण निर्वाहस्स्वयमेवोहनीय इति संगतिः। अत्र चतुर्णां पादानां प्रथमाध्यायोक्तानामर्थविभागेन संगतिमाहुर्विष्णुचित्तार्याः "इत्थं प्रथमाध्यायप्रथमपादेन प्रमाणलक्षणाभ्यां परमकारणतया सर्ववेदान्ताभिमतपरमपुरुषस्थापनम्। द्वितीयतृतीयाभ्यां विभूतेस्तस्य च संबन्धप्रकारौ। चतुर्थपादेन प्रतिपक्षनिरास इति। इत्थं सर्वश्रुतिनिर्वाह उक्त इत्याह एतेनेति" इति।तदर्थविचारस्तु-- अनुदाहृताः कारणादिवाक्यविशेषाः किमुक्तलक्षणचिदचिद्वलक्षणब्रह्मद्वाता उत नेति। तदर्थं ते किमुक्तन्यायानामविषया उत विषयाः।।किमुक्तन्यायानाम विषया उत विषयाः।तदर्थं विषयत्वं संभवति न वेति।अस्मिन्नतिदेशाधिकरणे पूर्वं निश्चितकारणवाक्यप्रक्रिययाऽनिशचितानामपि कारणवाक्यानां निर्वाह इत्युक्तम् ।

तानि कानिवाक्यानीत्याशङ्कायां कानिचिद्वाक्यान्युदाहृत्य तच्छायया सर्वाणयपि वाक्यानि

निर्वहणीयानीति वक्तुं प्रारभते-अग्र इति। "हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक असीत्" इति हिरण्यगर्भपारम्यप्रतिपादकरीपमेकं वाक्यं तावदाभाति। तथा "नसन्नचासच्छिव

एव केवलः" इत्यपरमपि वाक्यं रुद्रपारम्यप्रतिपादकमिव द्दश्यते।तत्र हि "यदा तमस्तन्न दिवा न रात्रिः" इति प्रलयकाले रुद्रस्यैवावस्थानं कथ्यत इत्यापाततः प्रतियते।तदिदमाह-ग्रस्तेति। एतद्वाक्यद्वितयमुपात्तम्, एताद्दशानि वाक्यानि बहूनि विद्यन्ते, तद्वाक्याप्रभवं नारायणादधिकं

तत्त्नमस्तीति शङ्कविशेषं स्तम्भयितुं प्रागुक्तानेव न्यायविशेषानन्यत्रातिदिशति सूत्रकारः, तत्कि-

मर्थ? शिष्यशिक्षार्थमिति चाह-एताद्दगिति। अयमर्थः-एकत्र शिक्षितस्य न्यायस्येतरत्रापि योज्यत्- वादयमर्यस्स्वयमेव सिध्यति तथापि शिष्यानुग्रहेण भगवान् सूत्रकारो वाचाप्यचष्ट इति।।149।।

 24.अत्र शास्त्रे श्रीपतिरेव सर्वेश्वर इति भवद्भिरभिधीयते व च श्रीपकतिरेव ब्रह्म, ब्रह्मविष्णुरुदा इति त्रिमूर्त्यन्तमत्वेन स श्रुत्यैवाभिधीयते, लोकोऽपि त्रिमूर्तिव्यवहारः सुप्रसिद्ध एव तत्र ब्रह्महुद्ध्रौ च कर्मवश्याविति तत्सहपठितो विष्णुरपि कर्मवश्यच एव तथा च घटुकुटायां प्रभातं भगवतो नारायणस्येतरवैलक्षण्यं प्रतिपादयितुं प्रवृत्तस्यैव भवतः

पुनरपि तत्सालक्षण्यमेवापन्नमिति। इमामाशङ्कां पूर्वार्धेनाशङ्कते-विश्वेश इति। दुःख्यद्विधिशिवतुलया- कर्मवश्यतया दुःख्यद्ब्रह्मरुद्रसाधर्म्यात्।

उक्तमर्थं प्रतिक्षिपति-मैवमिति। तदेव विवृणोति--मत्स्यादिति। मत्स्यादिभावेषु

च भगवतो निजविभूतिनां मत्स्यादीनां सजातीयत्वेनानुकरणनाट्यमेव दृश्यते।

एवं निजविभूतिभूतयोर्ब्रह्मरुद्रयोः नाट्यमात्रमेतत्। कुत इत्यत्राह -- ब्रह्मेशस्रष्टरीति। "

"एको हवै नारायण आसीत्" इत्युपक्रम्य "तत्र ब्रह्मा चतुर्मुखोऽजायत ततस्तस्य ध्यानान्तस्थस्य

ललाटात्स्वेदोऽपतत् स्वेदाद्बुद्बुदमभवत् बुद्बुदात् त्र्यक्षश्शूलपाणिः पुरुषोऽजायत" इति ब्रह्मरुद्रयोः स्रष्टृत्वेन सम्प्रतिपन्ने निरवधिकबृहत्त्वलक्षणपौरुषे परस्मिन्ब्रह्मणि विभूत्यनुकारनाट्यमेतदित्यर्थः।।

 25. अत्र चतुर्थपादस्थानामष्टानामधिकरणानां पूर्वपक्षोत्थानप्रक्रियां तत्प्रतिक्षेपं च शिष्याणां सुखग्रहणार्थं संगृह्णाति -- सांख्योक्तेति। आनुमानिकाधिकरणे सांख्योक्तप्रक्रियाम्, चमसाधिकरणे तदुक्ताब्रह्मत्मकप्रधानसृष्टिप्रक्रियाम्, संख्योपसंग्रहाधिकरणे तदुक्तां तत्त्वसंख्यापरिक्लृप्तिम्, कारणत्वाधिकरणे सांख्योक्ताव्याकृतैक्यं कारणस्य, जगत्वाचित्वाधिकरणे कर्मशब्दस्य पुण्यपापरूपस्वकर्मवाचित्वम्, वाक्यान्वयाधिकरणे पतिपुत्रादिरूपकर्मफलावद्ययोगित्वम्, प्रकृत्यधिकरणे निमित्तोपादानयोर्भेदम्, सर्वव्याख्यानाधिकरणे ब्रह्मरुद्रादीनां कारणत्वञ्च पूर्वपक्षीकृत्य तन्निराकरणं सूत्रकारश्चकार।

अत्र ग्रन्थे पञ्चम्योपादानं पूर्वपक्षोत्थानहेतुविशेषाणां विभज्य प्रदर्शनार्थम्। क्षिप्तमित्यादि -- एतेभ्यो हेतुभ्यः पूर्वपक्षिकल्पितेभ्यः प्रतिक्षिप्तं पूर्वपादत्रयोक्तमर्थं चतुर्थपादे श्रुतिहृदयसमुद्धाटनात् श्रुत्यर्थानां विशदप्रकाशनात् सूत्रकारो

रक्षितवान्।।

 26. एवं प्रथमाध्यायार्थे निश्चलतया निरूपिते सति द्वितीयाध्यायमारिप्सुः पूर्वोत्तराध्याययोः संगतिमनुवदति -- जिज्ञास्यत्वेनेति। सिद्धे इति शास्त्रोपोद्घातचतुस्सूत्र्यर्थः प्रथमपादार्थश्च तन्त्रेणैवोपादीयते। स्थिरचरचिदचिद्देहिनीति द्वितीयपादार्थः। ब्रह्मतत्त्व इति तृतीयपादार्थः, ब्रह्म शब्देन भगवतस्सर्वाधारत्वप्रकाशनात्। श्रुत्याद्यैरित्यादिना चतुर्थपादार्थोऽपि तैस्सह संगृहीतः। श्रुतिलिङ्गवाक्यादिभिः प्रमाणैः कारणाम्नायवाचां कारणत्वप्रतिपादकाम्नायवाचां स्वारसिकी वृत्तिरियं सूक्तेत्यन्वयः। अथ वक्ष्यमाणं द्वितीयाध्यायार्थमाह-- बाधमिति। तत्र हि कारणद्वारकबाह्यविरोधपरिहारपरं पूर्वं पादद्वयं तत्राप्येकं बाधपरिहारं अन्यत् प्रतिरोधपरिहारपरमिति विभागः। उत्तरं पादद्वयं कार्यद्वारकान्तरविरोधपरिहारपरम्। आन्तरविरोधस्तु श्रुतिवाक्यानामन्योन्यविरोधः।अत्र च कार्यावलम्बिविरोध एव परिह्रियत इति कारणावलम्बिविरोधपरिहारपरत्वेन पूर्वपादद्विकाद्विभागोऽपि सिध्यतीत्युक्तं भवति। शब्दार्थस्तु बाधं प्रतिरोधं च बाह्यमूलान्तरमूलं च बहुधा वर्णयन्तो मुसल्या मुसलप्रहर्तारः, अथवा मुसलेन वध्यत्वात् मुसल्याः, निष्काल्येरन् निरस्येरन्नित्यर्थः। तत्किमर्थमित्याशङ्क्याह -- निषदुपनिषदामिति। निषदामुपनिषदां च निश्चलत्वप्रसिद्ध्यर्थम्। निषच्चात्र पाञ्चपात्रोक्तार्थप्रकाशिका मूलश्रुतिरिति विख्यातसमाख्या भागवतैरभिधीयमाना काचित्। उपनिषत् पुनः सर्वेष्वपि वेदेषु सारतयाऽस्माभिरभिधीयमाना सुप्रसिद्धेति न वक्तव्यमत्र किञ्चित्।।

 

27. अत्रोपोद्घातमारभ्य प्रथमाध्यायप्रतिपाद्यं सकलमर्थजातं निर्विशेषब्रह्मवादिनां न घटत इत्यध्यायान्ते परपक्षप्रतिक्षेपमारचयति --- आदाविति श्लोकेन। आदौ बहुविहतिहता जिज्ञास्यताऽस्तामित्यर्थः। अत्रापि "अथातो ब्रह्मजिज्ञासा" इत्याद्यं सूत्रं प्रावर्तिष्ट। अस्मिन्सूत्रे ब्रह्मणो जिज्ञास्यत्वमुच्यते। तच्च जिज्ञास्यत्वमद्वैतवादिभिप्युपक्षिप्यते। यदि जिज्ञास्यं ब्रह्म तदा दृश्यत्वान्मित्थात्वमिति प्रक्रियया निथ्यात्वप्रसङ्गात्। यदि न जिज्ञास्यं ब्रह्मतदा सकलमपि शास्त्रं परित्यक्तं स्यादित्यकामेनापि स्वीकर्तव्यम्। तत उभयतस्स्पाशा रज्जुरित्यद्वैतवादिनामपहास्यतैव अवशिष्यते। तदिदमाह-- बहुविहतिहतेति। काकाक्षिन्यायेनात्राप्यनुषज्यते। "जन्माद्यस्य यतः" इति लक्षणवाक्यमद्वैतवादिनामपि संमतम्। लक्षणं नामासाधारणो धर्मः। निर्धर्मकब्रह्मणि लक्षणकथनमद्वैतवादिनां न जाघटीति। ननु लक्षणं द्विप्रकारं तटस्थलक्षणं स्वरूपलक्षणं चेति, स्वरुपलक्षणं "सत्यं ज्ञानम्" इत्यादिवाक्यप्रतिपाद्यं सत्यत्वज्ञानत्वानन्तत्वादि, तत्पुनः सामानाधिकरण्येन प्रतिपाद्यते, तटस्थलक्षणं च जगदत्कारणत्वादि, तत्पुनर्वैयधिकरण्येनोच्यते "यतो वा इमानि" इत्यादिवाक्येन प्रतिपादनात् तथा च ब्रह्मणः स्वरूपलक्षणं मा भूत्, तटस्थलक्षणमस्तु स्वरूपसंबन्धाभावात्, यथा शाखाग्रे चन्द्र इत्युक्ते शाखाग्रं चन्द्रेण न संबन्ध्यते, तेन जगत्कारणत्वादिकं ब्रह्मलक्षणं सत्यब्रह्मणा न संसृज्यते, अतो निर्विशेषमेव ब्रह्मावतिष्ठत इति न

कश्चिदस्माकं दोष इति। अत्रोत्तरम्-यदि स्वरूपलक्षणं ब्रह्मणि न स्यात् तर्हि सत्यज्ञानादिवाक्यं ब्रह्मणि प्रतिपादकमेव न भवतीति महान्प्रहारः। व्यावृत्तिमुखेन प्रतिपादकमिति चेत् व्यावृत्तेरवाच्यत्वाल्लक्षणैव दोषः। वाक्यतात्पर्यानुरोधेन लक्षणापि स्वीकार्येति चेदस्तु लक्षणीयं किमिति स्वयमेवविशेषतो दर्शय, व्यावृत्तिरिति यदि वदसि तर्हि विकल्पयामः--- व्यावृत्तिः स्वरूपं तदधिकं वा किंचित्। स्वरूपं चेत् एकेनैव पदेन स्वरूपं लक्षितमिति पदान्तरनैरर्थक्य प्रसङ्गः। अतिरिक्तं चेत् भेदवादप्रसङ्गः। नानालक्षणाभिधानञ्च निरर्थकं तत्तल्लक्षणैरपि लक्ष्यविशेषाकाराभावात् भावे वा भेदप्रसङ्गादित्येषा दिक्। तृतीयेऽपि सूत्रे शास्त्रयोनित्यकथनमपि विमृशामः। मृष्याम इति शब्देनामर्षणीयत्वमेव द्योत्यते। तेनापि बहुविहतिहतमित्यत्राप्यनुषज्यते। "तत्तु समन्वयात्" इति समन्वयव्यवहारोऽप्यपष्ठुरेव स्यात्। समन्वयो नाम सर्वेषां कारणवाक्यानां ब्रह्मणि तात्पर्येण समन्वयः। स च ब्रह्मणि भवद्भिरभिधातुं न शक्यते। वाच्यवाचकभावादिखण्डनस्य स्वपक्षस्थापनादौर्बल्येन खण्डनमाश्रयद्भिर्भवद्भिरेवाभिधानात्। अस्तु मुख्यवृत्तिखण्डनम्, औपचारिकी वृतिं्त ब्रह्मण्याश्रयाम इति चेत् तदपि हास्यमेव। मुख्याभावे कथमौपचारिकी वृत्तिरुच्यते। मुख्यार्थसंबन्धिन्यर्थान्तरे वृत्तिर्लक्षणा मुख्यार्थगुणयोगिन्यर्थान्तरे वृत्तिर्गौणीति सर्वलोकलक्षणप्रणयनविरोधात्। किं च गौणी वृत्तिरपि वृत्तिरेव, वृत्तिर्नाम शब्दस्यार्थबोधनम्। तथाच गौण्याऽपि वृत्त्या ब्रह्मणो बोध्यत्वमस्त्येव। तथाच बोध्यत्वान्मिथ्यात्वमिति स्ववचनं परिपालयतु भवान्। तर्हि तात्पर्यवृत्तिरस्त्विति चेत् सापि हि वृत्तिरेव तथाच सर्पो वा वृश्चिको वा भवतु बाधकत्वं द्वयोरपि साधारणमित्यलमत्र विस्तरेण। सर्वमपय्द्वैतवादिभिरुक्तमपार्थं सोढास्मः, इदमेकं न सोढास्मः। "ईक्षतेर्नाशब्दम्" इत्यारभ्य "एतेन सर्वे व्याख्याता व्याख्याताः" इत्यन्तैस्सूत्रैरेकस्य सूत्रस्यैकोऽर्थो भेदेन प्रतिपाद्योऽस्ति वा न वा - यद्यस्ति तदा

भेदवादप्रसङ्गः। यदि नास्ति तदा नैरर्थक्यमेव सूत्राणामिति। सन्त्यर्थाः, ते तु व्यावहारिका इति चेत् यदि वेदान्तसूत्रार्था व्यावहारिकाः, तर्हि पारमार्थिकं किमिति वद। न किंचिदिति चेत् किमर्थं शारीरकशास्त्रमारभ्यते। शारीरकशास्त्रस्यापारमार्थिकविषयत्वे च परोक्तानामर्थानां अपारमार्थिकत्वात् पुनरपि शास्त्रारम्भनैरर्थक्यम् अतिसुष्ठुक्तं भवता। अयमिह शब्दान्वयः-स्फुटार्थैस्सविषयवचनैरेतैस्सूत्रैर्निर्विशेषैक्यपक्षे सूत्रार्थतया प्रधानप्रतिपाद्यैरीक्षणादिगुणैर्ब्रह्मधर्मभूतैः प्रकृतिपुरुषतो ब्रह्मणो भेदवादः कथं भवतां स्यात्। प्रकृत्यधिकरणप्रतिपाद्यब्रह्मणः प्रकृतिपुरुषाभ्यां भेदो मिथ्या चेत् अधिकरणनैरर्थक्यम्, तत्त्वञ्चेत् भेदवादप्रसङ्गः। व्यावहारिकत्वकुसृतिः पूर्वमेव निरस्तेति न तत्र प्रयतामह इति।।

28.प्रथमाध्याये चतुर्षु पादेषु अस्पष्टतरजीवादिलिङ्गकानि पूर्वपक्षिणा चतुर्धा पुरसाकृतानि। तत्प्रतिपक्षवाक्यानि सिद्धान्तिना।